________________
. १३२
शब्द कौस्तुभप्रथमाध्यायप्रथमपादपञ्चमाह्निके
नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।
इत्यपि व्याख्यातम् । भीरुत्वस्य विधेयत्वाविवक्षणात् सिद्धस्यैव हेतुत्वेनानुवादादिति दिक् ।
ईषदर्थे - अ -आ उष्णम् ओष्णम् । आङीषदर्थे इति "कुगति" (पा०सु० २- २ - १८) इति सूत्रे वार्त्तिककृता ङिद्यवहृतः । क्रियायोगं-आ इतः पतः । प्रादिषु ङित्पठितः । मर्यादाऽभिविधौ चेति समाहारद्वन्द्वे आ गमशासनस्यानित्यत्वान्नुमभावः । मर्यादया सहिते अभिविधाविति मध्यपदलोपी वा समासः । मर्यादायाम् आ उदकान्तात् ओदकाम्हात् । अभिविधौ - आ अहिच्छत्रात् आहिच्छत्रात् । विना तेनेति म र्यादा, सह तेनेत्याभिविधिः "आङ् मर्यादाभिविध्योः” (पा०सु०२-१-१३) इति च डिनिर्दिष्टः । पूर्वप्रक्रान्तस्य वाक्यार्थस्यान्यथात्वद्योतनाय आ कारः प्रयुज्यते - 'आ एवं नु मन्यसे' । नैवं पूर्वममंस्थाः, संप्रत्येवं मम्यसे इत्यर्थः । वाक्यारम्भसूचनाय आकार इत्यपरे । तथा स्मृतेः सूचक आकारः प्रयुज्यते । ततः स्मृतोऽर्थो निर्दिश्यते - आ एवङ्किल तदिति ।
अत्र च वाक्यस्मरणयोरङिदित्यत्रैव तात्पर्यम् । अतो वाक्यस्मर· णाभ्यामन्यत्रेषदर्थाद्यभावेऽपि ङित्वं बोध्यम् । तेन " आमन्यस्य रजसो · यदभ्रम अपो वृणाना" इत्यत्र सप्तम्यर्थवृत्तेरप्याकारस्य ङित्वेन "आ ङोऽनुनासिक श्छन्दास" ( पा०सु०६-१-१२६) इति प्रवर्त्तते इति षष्ठे
हरदप्तादयः ।
युतश्चैतत् । ङिदाङदोरन्यतरलक्षणमात्रेणार्थादुभयविवेकलाभे तत्रापि लाघवादङिलक्षणे तात्पर्य्यमाश्रित्य भागान्तरस्यावयुत्यानुवादरूपत्वात् ।
भद (पा०सु०१-१-१५) । ओदन्तो निपातः प्रगृह्य संज्ञः स्यात् । आहो इति, उताहो इति । निपात इति किम् ? देवोऽसि । वषट् ते विष्णवास आ । वायवायाहि । विष्णोव । यत्तु 'गवित्ययमाह' इत्येतदेव निपातग्रहणस्य व्यावर्त्यमिति । तन्न, प्रगृह्य संज्ञायां सत्यामपि क्षत्यभावात् । न चैवं प्रकृतिभावापत्तिः, प्रकृतिभावविधौ पदान्ताधिकारात् । न चायं पदान्ता भवत्येवेति भ्रमितव्यम्, अनुकार्यानुकरणयेारभेदविवक्षयाऽर्थवत्वाभावेनाप्रातिपदिकत्वाद्विभकेरनुत्पत्तावेवैतद्रूपाभ्युपगमात् । अन्यथा विभक्तिश्रवणापत्तेः । न चैवमपदस्य प्रयोगासङ्गतिरिति वाच्यम्, "अपदं न प्रयुञ्जीत" इत्युद्घोषस्य अपरिनिष्ठितं न प्रयुञ्जीतेत्येवं परस्वात, तस्य च सुप्तिङादिविषयकतचद्विधिशास्त्र मूलकत्वात्, इह तरीत्या सुम्भिकेरयप्राय गो इति स्वरूपस्यैव परिनिष्ठित