________________
विधिशेषप्रकरणे प्रगृह्यसंक्षासूत्रम् ।
स्वात । अत एवेह "लोपः शाकल्यस्य" (पा०सू०८-३-१९) इत्यपि न प्रवर्तते । कथं तर्हि पूर्वसूत्रे "शेऽर्थवत् ग्रहणात्" इति वार्तिके "एक पदान्तात्" (पा०म०-६१-१०९) इति पूर्वरूपं कृतमिति चेत् ? तत्रानुकार्या. नुकरणयोर्भेदं विवक्षित्वा विभक्तिं च कृत्वाशेष्वर्थवान् शेऽर्थवानिति स. मालेन सुपो लुकं कृत्वाव्याख्यानात् । एतेनोत्तरसूत्रे 'सम्बुद्धाविति किम्? 'गवित्ययमाह' इत्युदाहरन्तो वृत्तिकारा अपि प्रत्युक्ताः । तस्मादिह 'दे. घोऽसि' इत्यादिकमेव प्रत्युदाहरणं बोध्यम् । न च "एङः पदान्तात्" (पासू०६-१-१०९) इत्यारम्भसामोदेव तसिद्धिः, 'हरेऽव गच्छ' इत्यादौ चरितार्थत्वात् । न चैवरणसामर्थ्यम् । “ङसिङसोच" (पा. सु०६-१-११०) इत्युत्तरार्थत्वात् । उत्तरसूत्रे तु सम्बुद्धिग्रहणाभावे 'मा. हो इति' इत्यादावपि परत्वाद्विकल्पापत्तिः, पूर्वसूत्रस्य 'अहो। ईशा' इत्यादावुत्तरस्य तु 'विष्णो इति' इत्यादौ लब्धावकाशतया विप्रतिषे. घसम्भवात् । न चेह ओदन्तस्य कार्यितयोत्तरत्र तु विशेष्यासनिधानेन तदन्तविधिविरहादोकारमात्रस्य कार्यितया भिन्नविषयकत्वे कथं विप्रतिषेध इति वाच्यम् । 'पूणाम्' इत्यादौ प्रकृतिप्रत्ययावयषयो. न्मनुटोरिहापि फलविरोधेन विषयभेदेऽपि विप्रतिषेधसम्भवात्, प.
र्थाधिकारपक्षे उत्तरसूत्रेऽप्योकारान्तस्य संशित्वाच, शब्दाधिकारपक्षे. ऽपि "इको झल्" (पा००१-२-९) इत्यत्र सनाक्षिप्तस्य धातोरिका वि. शेषणवदिहापि सम्बुध्याक्षिप्तायाः प्रकृतेरोकारण विशेषणे तदन्तषि. घिसम्भवाच । तस्मात्सूत्रद्वयेऽपि 'गवित्ययमाह' इति प्रत्युदाहरणं नेति स्थितम् । प्रकृतिभावे पदान्तग्रहणं न सम्बध्यते इत्याशयेन तु वृत्ति ग्रन्थो योज्यः । अस्मिश्च पक्षे मण्डूकप्लुतिन्यायेन "इकोऽसवणे" (पा सू०६-१-१२७) इत्यत्र पदान्तग्रहणं सम्बन्धनीयमेव । अन्यथा 'गार्यों 'गौर्यः' इत्यादावतिप्रसक्तरिति दिक् । __स्यादेतत् , निपातसमुदाया एते । आह उ आहो, उत आहो उता. हो इत्यादि । ततश्चादिवद्भावात् "निपात एकाज" (पासू०१-१-१४) इत्यनेनैव सिद्धा संक्षा। न चैवम 'आहो इति' इत्यादिषु "ॐ" (पा०स० १-१-१८) इत्यस्य प्रसङ्गः, निरनुषन्धकोऽयमुकारः न तूम् इति समाधा. नात् । अत एव "उनः" (पासू०१-१-१७) इति सूत्रे अकारोबारण मपि सार्थकम् । अत एव च "उनः" (पासू०१-१-१७). "ॐ" (पास० १-१-१८) इत्यत्र भाष्यकृतोकम-"बाबुकाराविमौ .। एकोऽननुबन्ध. का, अपर सानुबन्धकः" इति । न चैवमपि मा उ ओ इत्यत्रामाकोरेकादेशस्यानाकिति प्रतिषेधे प्राप्त प्रतिप्रसवायेदमिति वाच्यम् ,, -