________________
विधिशेषप्रकरणे प्रगृह्यसंज्ञास्त्रम् ।
पवादरूपतया "उपसञ्जातनिमित्तोऽप्युत्सर्ग उपजनिष्यमाणनिमित्तेना. प्यपवादेन बाध्यते" (प०भा०६५) इति परिभाषावताराच्च । यत्तु संज्ञारम्भसामर्थ्यादयादीन्संज्ञां च प्रति मुत्वमीश्वयोः सिद्धत्वज्ञापनादयादीन् बाधित्वा परत्वान्मुत्वमीत्वे इति तन्न, अयाद्यभावस्य ज्ञापने लाघवात् । अर्थापत्तेर्हि साक्षादुपपादकविषयतौत्सर्गिकी । किञ्च मुत्वमीश्वयोरेक पदाश्रयत्वेन बलीयस्त्वम्, 'अन्तरङ्गम्बलीयः' (प०भा०३८) इति न्यायात् । तत्कथं विप्रतिषेधोपन्यासः ? " नाजानन्तयें" (प० भा०५१) इति निषेधस्तु, " असिद्धं बहिरङ्गम्" (प०भा०५०) इत्यस्यैव न तुदात्तपरिभाषायाः । यद्यपि " असिद्धं बहिरङ्गमन्तरङ्गे" (१०भा०५०) इत्यनयैव गतार्थत्वाद: न्तरङ्गम्बलवदिति पृथक् परिभाषा न कर्त्तव्येति "विप्रतिषेधे परम्" (पा०सु०१-४-२ ) इति सूत्रे भाष्यकृद्वश्यति । तथाऽप्यभ्युच्चयमात्रं तत, सापवादनिरपवादत्वाभ्यां फले विशेषात् । 'वृक्ष इह' इत्यत्र हि सप्तम्येकवचनेन सह गुणोऽन्तरङ्गः । सवर्णदीर्घत्वं तु बहिरङ्गम् । न चेहासिद्धपरिभाषया गुणो लभ्यते "नाजानन्तयै" (प०भा०५१) इति निषेधात् । अत एव “अचः परस्मिन् ” ( वा०सू०१-१-५७) इति सूत्रे भाष्यकृद्रक्ष्यतिआरभ्यमाणे नित्योसौ परश्चासौ व्यवस्थया । युगपत् सम्भवो नास्ति बहिरङ्गेण सिद्ध्यति ॥ इति ॥
१२९
एतच्च तत्रैव स्फुटीकरिष्यते । अत एवोक्तं वार्त्तिककृता, - " शच· ङन्तस्यान्तरङ्गलक्षणत्वात्" इति 'धियति' 'अदुदुवत्' इत्यादि च तत्रोदात्हृतम् । ज्ञापकं चात्र " ओमाङोश्च" (पा०सु०६-१-९५) इत्याङ्ग्रहणम् । तद्धि ‘खट्वा-आ-ऊढा' इत्यत्र परमपि सवर्णदीर्घ बाधित्वा धातूपल योः कार्यमन्तरङ्गामित्यन्तरङ्गत्वाद् गुणे कृते वृद्धिप्राप्तौ सत्यां रूप यथा स्यादिति क्रियते । एतच्च "सम्प्रसारणाच्च" (पा०सु०६-१-१०८) इति सूत्रे भाष्ये स्पष्टम् । कथं तर्हि वार्तिककृतोक्तं विप्रतिषेधाद्वेति ? सत्यम्, अत एवापरितोषाद्भाष्यकारेणाथवेति पक्षान्तरमाश्रितमिति दिक् । मात् किम् ? अमुकेऽत्र । नन्विह सूत्रे ईदूतावेवानुवर्त्तितौ न त्वेकारः । सति माह एकारो नानुवर्त्तते अदसो मात् परस्य तस्यासम्भवात् । अन्यथा त्वनुवर्त्तेत । एकदेशानुवृत्तिस्तु दुर्शाना । तस्मादेकाराननुवृत्तितात्पर्यग्राहकफलकं माड्रहणमिति स्थितम् । अत्रेदं चिन्त्यम् । “ईदूतौ सप्तम्यर्थे प्रगृह्यौ, अदसः, एच्च द्विवचनम्" इत्येव कुतो न सूत्रितम् ? एवं हि पूर्वसूत्रस्थमीदृग्रहणं प्रकृतसूत्रे माद्रहणं च न कर्त्तव्यमिति महल्लाघवम् । एकदेशानुवृत्तिश्च नाश्रयणीया भवतीति ॥ शे (पा०सू०१-१-१३) । अयं प्रगृह्यः स्यात् । अस्मे इन्द्राबृहस्पती ।
सत्यम्,
शब्द. प्रथम. 9.