________________
विधिशेषप्रकरणे सम्प्रसारणसंज्ञाप्रकरणम् । इत्यादिषु विधिप्रदेशेषु वाक्यार्थस्य ग्रहणं "सम्प्रसारणाच" (पा०सू० ६-१-१०८) इत्याद्यनुवादप्रदेशेषु वर्णस्येति विवेकः । पूर्वसूत्रादिति. शब्दानुवृत्तवाक्यार्थस्य संशित्वमिति लभ्यते । तत्प्रत्याख्यानपक्षे तु वाक्यमेव संक्षि । न चैवं तदेव विधेयं स्यादिति वाच्यम् , “वाह ऊट” सम्प्रसारणमितिसामानाधिकरण्यबलेन तदुपस्थापितार्थस्यैव विधेयत्वनिर्णयात् । न चैवमपि "यङः सम्प्रसारणम्" (पा०स०६-११३) इत्यादौ दोषतादवस्थ्यम् , सामान्यापेक्षशापकाश्रयणात् । ननु तथापि वाक्यतदर्थयोरन्यतरस्य संक्षित्वमस्तु वर्णस्य तु कथमिति चेत् १ तन्त्रावृत्त्येकशेषाणामन्यतमाश्रयणेनार्थद्वयाभ्युपगमादित्यवेहि । अत्र च विधेयानुवाद्यसमर्पकविभक्त्या सूत्रे निर्देश एव लिङ्गम् । आह च-विभक्तिविशेषनिर्देशस्तु सापक उभयसंशात्वस्यति । उभयोः संक्षे. ति षष्ठीतत्पुरुषः। भर्तृहरिश्चाह-,
सम्प्रसारणसंज्ञायां लिङ्गाभ्यां वर्णवाक्ययोः । प्रविभागस्तथा सूत्र एकस्मिन्नेव जायते ॥ तथा द्विवचनेचीति तन्त्रोपायादिलक्षणः ।
एकशेषेण निर्देशो भाष्य एव समर्थितः ॥ इति ॥ तन्त्रं च शब्दतन्त्रमर्थतन्त्रं वेति मतभेदेन व्यवस्था बोद्धव्या । अ. र्थभेदाच्छब्दभेदे आद्यः पक्षः। शब्दैक्ये द्वितीयः । माघेऽपि व्यञ्जक ध्वनिमात्रभेदे व्यायैक्ये आवृत्तिरेवेत्यादि बोध्यम् । एव--
तन्त्रत्वमैकरूप्येण भवेत्तुल्योपकारतः।
उपकारान्यथात्वे तु भवेदावृत्तिलक्षणम् ॥ इति मीमांसकमर्यादानुरोधो वैयाकरणैर्न कर्तव्यः, तस्य भाज्या. दिसकलवैयाकरणग्रन्थविरुद्धत्वात् , मूलयुक्तिशून्यतया दुरुपपाद: स्वाति दिक् । यद्वा, वाक्यार्थ एव संक्षी अनुवादे तु तन्निर्वृत्तो वर्णो लक्ष्यते । सम्प्रसारणाजातं सम्प्रसारणमिति । अथ वा वर्ण एव सं. क्षी। विधिप्रदेशेषु तु सूत्रशाटकवद्भाविसंशाश्रयणीयेति । सर्वेप्येते प. क्षा भाज्ये स्थिताः। ___ स्यादेतत् , 'अदुहितराम्' इत्यत्र लकारस्य यणः स्थाने उत्तमपु. रुपैकवचनमिट् । तस्य च सम्प्रसारणसंज्ञायां सत्यां "हल" (पासू० ६-४-२) इति दीर्घः स्यात् तरपं प्रति लन्तस्याङ्गत्वादिति । अत्रा. हु:-संख्यातानुदेशाद्यकारस्थानिकस्यव इकारस्य संज्ञा न तु लकारस्थानिकस्येति ।
अत्रेदमवधेयम्-वाक्यार्थः संघीति पक्षे तस्योद्देश्यविधेयसंसर्गः