________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् ।
झापयति, अप्राधान्येनाप्यलाश्रयणे निषेध इत्यंशं च। तथाच किं खु. णेति ? उच्यते, उत्तरार्थ तावत् 'स्थानिवदादेशः' इति कर्तव्यमेव । तस्यैव योगविभागमात्रेणोपपत्तौ सत्यामापत्तिकं वचनं न कल्प्यम । एवं स्थिते ऽनल्विधावित्ययमध्यंशः स्पष्टप्रतिपस्यर्थ क्रियते, उत्तरसूत्रे द्वितीयविधिग्रहणस्यानुवृश्यर्थ च । तत्प्रयोजनं तु तत्रैव वक्ष्यते । एतदेव च सकलमभिसम्धायोक्तं भगवता-"मारभ्यमाणेऽप्यस्मि.
सूत्रे" इति । ___स्यादेतत् । अस्तु सूत्रारम्भः, तथापि कार्यातिदेश एवायमिति कु. सः १ प्रकाराम्तराणामपि सम्भवात् । तथाहि, अतिदेशः षोढा-मिमि. तव्यपदेशतादात्म्यशालकार्यरूपातिदेशभेदात् । तत्र निमित्तमशक्य. मतिदेष्टुम् । ब्राह्मण्यवत् । न हि ब्राह्मणस्याप्रभोजनादौ निमितमतं ब्राह्मण्यं वचनशतेनापि क्षत्रियातिदेष्टुं शक्यते । “पूर्ववत्सनः" (पा. सू०१-३-६२) इत्यत्रापि प्रकृतिगतं निमित्तं किन्वादि न सन्नन्तेऽतिदि. श्यते । किन्तु प्रकृतिगतमेव तत्सना व्यवधाने सत्यव्यात्मनेपदं प्रक तैयतीत्येतावन्मात्रमतिदिश्यते । एतावतैव च निमित्तातिदेशोऽयमिः ति व्यवहारः । न चायं कार्यातिदेश एवास्तामिति वाच्यम् 'चिकंसते' 'प्रचिकंसते' इत्यादाविप्रसङ्गात् । निमित्तातिदेशपक्ष त्वनुपसर्गःप्रपू. वश्च क्रमिरेवेह सना व्यवहितोऽप्यात्मनेपदं प्रवर्तितवानिति "स्नुक्रमो. रनात्मनेपदनिमित्त" (पा०सू०७-२-३६) इति नियमादिण् न भवति । निमित्तं हि तत्र फलोपहितमेव गृह्यते न तु स्वरूपयोग्यतामात्रमिति वक्ष्यामः । "सिद्धं त्वात्मनेपदेन समानपदस्थस्यप्रतिषेधात्" इति वार्तिकरीत्या विहापि कार्यातिदेशता सुवचा न्याय्या चेति तत्रैव क. क्ष्यते । व्यपदेशातिदेशस्तु "आद्यन्तवदेकस्मिन्". (पा००१-१-२१) इत्येकस्मिन्नप्यादिरन्त इति च व्यपदेशेतिदिष्टे तत्तस्त्रैरेव कार्याणी. ति भावः । तथा च प्राश्च:
आद्यन्तवद्यपदेशो निमित्तं पूर्ववत्सनः । इति । पतञ्च निर्मूलमिति तस्मिन्नेव सूत्रे हरदत्तः। तस्यायं भावः-कार्या. तिदेश एव तत्र युक्तः, सर्वातिदेशानां कार्यार्थतया कार्यस्यैव प्राधा. न्यात् । अत एव कार्यातिदेशाभ्युपगमे यत्र बाधकावतारस्तत्रैव प्रका. रान्तरानुसरणम् । न चाद्यन्तवत्सूत्रे तदस्ति, प्रत्युत व्यपदेशातिदेशपक्षे एव बाधकम। तथाहि, 'कुरुत' 'कुर्वे' इत्यादावन्त्यव्यपदेश आदिव्यपदे. शश्चास्तु । तथाप्यन्त्योऽजादिर्यस्येत्येवंरूपस्य बहुव्रीह्यर्थस्थाभावां सिंहाया अभावे टेरेत्वं न स्यात् । 'कुर्वाते' इत्यादौ दृष्टस्य टेरेवास्या
शब्द. प्रथम. 14.