________________
१२० शब्दकोस्तुभप्रथमाध्यायप्रथमपादचतुर्थाहिकेफद्धययुक्तत्वमादत्तव्यं, किं वा विवृतत्वनियंत्र विनिगमकाभावेन पर्यायेणाभयप्रवृत्तौ सिषाधयिषितस्य रूपद्वयस्य निर्वाहात् । ल. कारेऽपि कदाचित्रकारान्तरतमो विवृतदीर्घः कदाचिद् लकारान्तरतमो लकारद्वयगर्भ ईषत्स्पृष्ट इति सकलेष्टसिद्धेः। तदेवं षाष्ठं वचनद्वयं न कर्तव्यमिति स्थितम् । - ननु नदेवास्तु संज्ञाविधानं तु मास्त्विति चेत ? न, वचनद्वयारम्भे गोरवस्य स्पष्टत्वात् । किश्च, संशाभावे "ऋत्यकः” (पा०सू०६-२-१२८) "उपसर्गादति” (पा००६-१-९२) "उरणपरः" (पासू०१-१-५१) इ. त्यादिषु ऋकारेण लकारग्रहणं न स्यात् । न चैवं सिद्धान्तेऽपि तव. कारः' इत्यादौ रपरत्वप्रसङ्गः रप्रत्याहारपरत्वस्य वक्ष्यमाणतया लप. रत्वसिद्धः । ऋदिताम्लदितां च धातूनामनुबन्धकार्येषु सङ्करस्तु न भचति धातूपदेशे पृथगनुबन्धकरणसामर्थ्यात् , विधिवाक्यष्यपि पृथगनु. वादसामर्थ्यात् । अन्यथा हि सर्वान् ऋदित एव लदित पत्र वा पठित्वा विधावपि तेनैव रूपेणानुवदत् । सम्भवत्यैकरूप्ये वेरूप्याश्रयणायोगात्।
नाज्झली [पासु०१-१-१०] । अन्झलौ मिथः सवर्णों न स्तः । अ. कारहकारयोरिकारशकारयो ऋकारषकारयोर्लकारसकारयोश्चेति स्थ. लचतुष्टये पूर्वसूत्रेण प्राप्त सावण्यमनेन निषिध्यते । तेन 'आनडुहं चर्म' 'वैपाशो मत्स्यः ' इत्यत्र “यस्येति च" (पा०स०६-४-१३८) इति हकारशकारयोर्लोपोन । अन्यथा हि 'यस्य' इत्यनेन दीर्घाणामिव हकार. शकारयोरपि ग्रहणं स्यात् । तथा 'दण्डहस्तः' 'दधिशीतं' 'कर्तृषट्कम् इत्यादौ सवर्णदीर्घः स्यात् । 'दधिसान्द्रम्' इत्यादौ यणादशश्च स्यात् । इहाज्झली कस्यापि न सवर्णो स्त इति वाक्यार्थो न ग्राहाः संज्ञारम्भ. वैयापत्तः । विहितप्रतिषिद्धत्वन विकल्प तु लाघवात् "तुल्यास्यप्र. यत्नं वा" इत्येव सूत्रयत् । नाप्यचामभिहलां हलाभः सावायें निषिध्यते । "नाज्झलौ" [पा०सू०२-२-२०] इत्यत्रैव सूत्रे सवर्णदीर्घस्य "झ. यो हः" [पासू०८-४-६२] इति पूर्वसवर्णादेशस्य च निर्देशात् । ननु झलंबात्र निर्दिष्टो न तु हल् , तावतैवष्टसिद्धरिति चेत्तर्हि दीर्घानिर्देश एव ज्ञापकोऽस्तु । तेन ह्यचामभिः सावर्ण्यमनिषिद्धमिति ज्ञापिने प. रिशेषादज्झलोमिथो निषेध एव पर्यवस्यति, । "झरा झारे सवणे" [पासू०८-४-६५] इति ज्ञापकाच्च । यत्तु नाण्शलावित्येव कुतो न सूत्रितमिति । तन्न, 'कर्तृपदकं' 'दधिसान्द्रम् ' इत्याद्यसियापत्तः, ऋलकावीरनत्वात् ; ग्रहणकसूत्रातिरिक्ते पूर्व एवाणित्युतत्वात् । अस्तु वापरण, तथाप्यजपेक्षया व्यकिंगौरवमेवं स्यादित्यग्रहणम.