________________
विधिशेषप्रकरणे सवर्णसंज्ञासूत्रम्। ११९ स्यादेतत, “अकः सवर्णे दीर्घः" (पा०स०६-१-१०१) इत्यत्र "ऋति क धा"वचन "लति लवा" वचनमिति वक्ष्यति । तस्यायमर्थ:-अकः सवर्णे ऋति परे पूर्वपरयोः स्थाने वा क्र अयमादेशो भवति । द्विमात्रोऽयम् । मध्ये द्वौ रेफौ, तयोरेका मात्रा, अभितोऽभक्तरपरा । ईषत्स्पृष्टश्चायम् । तत्र प्रयत्नभेदारकारेणाग्रहणादनच्वाइघि संज्ञाया अभावादप्राप्तोऽयं विधीयते "लात ल वा" (का वा०) इति । अयमपि द्विमात्रः, ईषत्स्पृष्टः श्च । मध्ये द्वौ लकारौ तयोरेका मात्रा, अभितोज्भक्तरपरा । पूर्ववदप्राप्तो विधीयते । तत्र वावचनमिति वाशब्दो दीर्घसमुच्चयार्थो भविष्यात ।
वा स्याद्विकल्पोपमयोरेवार्थेऽपि समुच्चये। इत्यभिधानात् । तेनाप्राप्तएव दी? भविष्यति । तन्कि सवर्णसंज्ञ. या ? ननु "लात लवा" इत्यत्र सवर्णे इत्यनुवर्तते न वा ? आये होत. लकार' इत्यत्र ऋलवर्णयोः सवर्णसंज्ञाविधानं विना नेष्टसिद्धिः, अन्त्ये. 'दलकारों' 'मध्लकार' इत्यादावतिप्रसङ्ग इति चेत् ? न, प्रथमवाति के "ऋति" इत्यपनीय 'ऋतः' इति पञ्चम्गन्तपाठेनैव सर्वसामञ्जस्यात् । सवर्ण इति च पूर्ववार्तिकेऽनुवर्तते । तेन धात्रंशः' इत्यादौ नातिप्रसङ्गः । द्वितीयवार्तिके तु सवर्ण इति निवृत्तम् । ऋन इत्यनुवर्तते । तस्माद् "अकः सवर्णे" (पा०सू०६-१-१०१) इत्यत्रावश्यकर्त्तव्यंन वचनद्वयनैव सकलनिर्वाहाहकारलकारयोः सवर्णविधिरितीहत्यं वार्तिकं व्यर्थमिति।
मैवम् , इहत्यमेकं वार्तिकमाश्रित्य षाष्ठवचनद्वयप्रत्याख्यानस्यैव न्याय्यत्वात् । तथाहि, तद्वचनद्वयं कुर्वनाऽपि रेफद्वयलकारद्वयगर्भयो. स्तविधययोरचत्वं तावदेष्टव्यम् । तन्निर्वाहार्थ वर्णसमाम्नाये तो पठनी. यो । अन्यथा हि विधानमात्रमनयोः स्यान्न त्वकार्य प्लुनः । तद्विधाने हि "अचश्च" (पा०सू०२-२-२८) इति परिभाषया 'अचः' इत्युपतिष्ठते । ननु ईषत्स्पृष्टस्यानच्त्वान्मा भूत प्लुनः, विवृतस्य तुकारस्यान्त्वेन प्लु. तः सिद्ध एवेति चत ? सत्यम । विवृनः प्लुतः सिद्धः, ईषत्स्पृष्टौ तु प्लुतौ रेफद्वयलकारद्वयगर्भो न सिध्यतः । अत एवाच्संज्ञामात्रेणापि न निस्ता. रग्रहणकशास्त्रप्रवृत्तस्तावन्मात्रेणानिर्वाहात् किनवण्सु पाठ एव कर्तव्य इत्युक्तम् । सति त्वण्सु पाठे ताभ्यां त्रिमात्रयोरपि ग्रहणा. स्प्लुतसंज्ञायां सत्यां पक्ष ईषत्स्पृष्टौ प्लुनौ भवतः। एवं स्थिते पाष्ठं वचनद्वयं माऽस्तु, तद्विधेययोरपि दीर्घतया "अकः सवर्णे" (पासु० ६-१-१०१)इत्यनेनैव सिद्धेः। ननु 'स्थानन्तरतमपरिभाषया विवृतस्य स्थानिनोविवृतावेष दीपों स्यातां न त्वीपस्पृष्टाविति चेत् ? न, रेफद्वययुक पवादेशः 'सुसहशः' इत्यपि हि सम्भवति । तथा च किं