________________
११८- शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थाहिकेस्वपरीक्षायामुपयोक्ष्यन्ते इतीह आभ्यन्तरत्वविशेषणव्यावर्त्यतया व्यु: त्पादिताः।
नन्विह सूत्रे प्रयत्नग्रहणं व्यर्थ , तद्धितान्तास्यशब्दबलादेव ताल्वा. विस्थानस्य प्रयत्नस्य च लाभादिति चेत् ? न, प्रत्येक व्यापारनिरासा. थमुभयोरुपादानात् । तेन स्थानप्रयत्नोभयसाम्ये सत्येव संक्षा न त्वन्य. तरसाम्येऽपि । एवं स्थिते यत्फलितं तत्स्पष्टत्वार्थमुपन्यस्यते । अष्टादश अवर्णाः परस्परं सवर्णाः, एवमिवर्णोवौँ । ऋकारा अष्टादश, लक.
स्तु द्वादशेति त्रिशन्मिथः सवर्णाः, लवर्णस्य दीर्घा न सन्तीत्युक्त. त्वात् ऋलवर्णयोमिथः सावपर्यस्योपसंख्यानाच्च । एचस्तु द्वादश मिथः सवर्णाः, न तु एकारकारों ओकारौकारो वा मिथःसवौँ । यथा चैतत्तथा “अइउण्" ( मा० सू०१) इत्यत्रव प्रतिपादितम् । अकारे. णाप्येचां न सावर्ण्य प्रयत्नभेदादिति इहैव सूत्रे भाप्ये स्पष्टम् । अतएव एदैनोरपि शकारेण न सावर्ण्यमिति नेषां "नाज्झलो" (पा०सू०१-१-११०) इति सूत्रे उदाहरणत्वं नास्ति । न चात्र स्थानभेदेन निर्वाहः एचामकारे. ण सह कण्ठस्थानसाम्यात् , एदैतोः शकारेण सह तालुस्थानसाम्यात् । नहि यावत्स्थानसाम्यं विवक्षितम् , अमङणनानां स्ववयः सह असावापत्तेः यवलानां सानुनासिकनिरनुनासिकानामसाव. यापत्तेश्च । नहि निरनुनासिकानामपि नासिकास्थानम् , येन सर्वसा. म्यं स्यात् । ननु तद्धितान्तास्यशब्दबलात्ताल्वादिसाम्यमानं लभ्यते। ओष्ठात्प्रभृति प्राक्काकलकाद्धि आस्यम् । काकलकं च ग्रीवाया उन्नत. तप्रदेशः यं कण्ठमणिरित्याचक्षते । तत्कथं नासिकास्थानभेदेनासव. त्वमापाद्यते इति चेत् ? नासिका हि न बाह्या वर्णोत्पत्ती निमित्तम् , तत्र जिह्वाग्रादिव्यापारविरहात किन्तु अन्तरास्ये विततं चर्मास्ति पण. पचर्मवत् , तत्संबद्धोरेखाविशेषो नासिका, सवै वोत्पत्तौ निमित्तमिति सिद्धान्तात् । तस्याश्च ओष्ठादिभ्योऽविशेषात् वयों पर्येण सवर्णः तुल्यास्यप्रयत्नत्वात् । रेफस्य रेफ एव सवर्णः, एवमूम. णामपि ऊष्माण एव सवर्णा न त्वन्ये, तुल्यास्यप्रयत्नत्वाभावात् । श. असहानां यथाक्रमम् इकारऋकारलकाराकाराः सूत्रकारमते यद्यपि तुल्यास्यप्रयत्नास्तथापि न सवर्णाः "नाज्झलौ' (पासू०१-१-११०) इति निषेधात् । भाष्यकारमते तु प्रयत्नभेद एवेति वक्ष्यते । इह स्थान. मेदादप्राप्तां सवर्णसंशां विधातुं वार्तिकमारभ्यते-"ऋकारलकारयोः सवर्णविधिः" (का. वा० ) इति । होतृलकारः होतृकारः । उभयान्त समनदीपों न. सम्मवतीति परिशेषारकार। .