________________
विधिशेषप्रकरणे सवर्णसंज्ञाप्रतिषेधसूत्रम्। १२१ पनीयाण्ग्रहणं क्रियतामिति शङ्काया गर्भस्राव गतार्थत्वात् । शलंशे तु व्यक्तिलाघवे सत्यपि वर्णोच्चारणे विशेषो नास्तीत्येवोत्तरम् । वस्तुत. स्तु "नाक्शलो" इत्येव सूत्रयितुमुचितम् ।
स्यादेतत् , शरी शभिरपि सावर्थे निषिद्ध्येत । ते होकारादिभिः गृहीतत्वादच्संशकाः हल्षपदेशाद्धलश्च । न चास्मादेव निषेधादिकारा. दयो न सवा इति वाच्यम् , एतद्वाक्यार्थबोधात्प्राक् पदार्थोपस्थिते. रावश्यकतया तस्यामवस्थायामिकारादिभिः शरामुपस्थापनस्य दुर्वारत्वात । ततश्च 'परश्शताः' 'रामषष्ठः' 'यशस्लारम्' इत्यादौ "झरा झरि" (पा००८-४-६५) इत्यस्य प्रवृत्तिर्न स्यात् । ततश्चैकैकत्र शत्रयं श्रूयेत । इष्यते तु वयम् । तथा च पूर्वपक्षवार्तिकम्-"अज्झलोः प्रति. षेधे षकारप्रतिषेधोज्झलत्वात" इति । अत्र शकारग्रहणं शरामुपलक्ष. णम् । किश्वावर्णस्याष्टादशधा भिन्नस्य परस्परं सावाये न स्यात् । ततश्च 'दण्डाग्रम्' इत्यादौ दी? न स्यात् । तथाहि, हकारेण ग्रहणाद. कारो हल अक्षु पाठाच्चान् । न चास्मिन्नेव सूत्रे एनस्य प्रवृत्तिः, येन ग्रहणकशास्त्रमसावान्त्र प्रवर्ततेति । अत्र सिद्धान्तं वार्तिककार ए. वाह-"सिद्धमनवाद्वाक्यापरिसमाप्तेर्वा, इति। तत्र सूत्रप्रत्याख्या. नेनोत्तरं प्रथमवार्तिकेऽभिप्रेतम् । तथाहि, शिक्षावाक्ये विवृतमूमणामिति योगो विभज्यते । तत्र चेषदित्यनुवर्तते । स्वराणाश्चेति विवृत. मित्यनुवर्तते । ईषदिति निवृत्तम । तथाच प्रयत्नभेदादूष्मस्वरयोः सा. वाप्राप्तौ किं सूत्रेण ? तथाच शरामनचत्वादेव सिद्धमित्यर्थः । उप. लक्षणश्चेदमकारस्याहलत्वादित्यपि बोध्यम् । सूत्रारम्भमभ्युपेत्येवम् । वस्तुतस्तूक्तरीत्या सूत्रमेव नारम्भणीयमित्यर्थः।
ईषदित्यस्याननुवृत्ति समानप्रयत्नताच स्वीकृत्य सुत्रारम्भपक्षेऽ. प्याह-वाक्यापरिसमाप्तेर्वेति । अयमाशयः-दह पूर्व वर्णानामुपदेशः। तत इत्संज्ञा । तत "आदिरन्त्येन सहेता, (पासू०१-१-७१) इति प्र. त्याहारसिद्धिः । ततो "नाज्झलौ" (पा०पू०१-१-१०) इत्येतद्वाक्यार्थः बोधः । ततोऽपवादविषयपरिहारेण सवर्णसंज्ञानिश्चये सति ग्रहणक. शास्त्रप्रवृत्तिः, नत्वेतत्सूत्रनिष्पत्तिसमये । अन्यथा तत्सूत्रेणैवेकारशका. रादीनां सावर्ण्यनिषेधादिकारेण शकाराग्रहणे सत्यज्झल्त्वादिति हे. तोरसिद्ध्या त्वदीयः पूर्वपक्षोऽसम्भव दुक्तिक एव स्यात् । अथ पद - খান অযাথাঘনঘনাঘাথাঘাত নাথাर्थप्रहाभावादिह सत्रे हकारेण शकारप्रहः स्यादेवेतः पूर्व सावर्ण्यनिषे. धाग्रहादिति षे तहतिः पूर्व प्रहणकशास्त्रमेव न निष्पामिति कथं नः