________________
विषिशेषप्रकरणे सपनामसंज्ञाप्रकरणम्। १६९ बळादवगम्यते । भाष्यमते तु बहिर्योगप्रहणं स्वर्यते तेन "शीतोष्णा. भ्यां कारिणि" (पा०४०५-२-७२) इत्यादाविव गौणग्रहणात्परम्परया बाह्यसम्बद्धस्यापि भविष्यतीत्याहुः । सत्यपि बहिोंगे पुरीविषयतायां न सर्वनामता "अपुरीति च वक्तव्यम्" इति धार्तिकात । तद्धि गणसु. अस्य शेषो न तु जसि विभाषाविधायकस्य, अत इत्यधिकृत्य जसः शीविधानादाबन्ताप्राप्त्यभावात् । अन्तरायां पुरि । प्राकाराद्वाह्यायांतद. न्तर्तियां घेत्यर्थः। लिङ्गविशिष्टपरिभाषयैकादेशस्य पून्तिग्रहणेन ग्रहणावा प्राप्तिर्षोध्या।
त्यद् , तद् , पतौ पूर्वोक्तपरामर्शको। तत्राद्यश्छान्दसः। 'एष स्य भानु' इति गणरत्नकारस्तन, तथा सति "स्यश्छन्दसि बहुलम्" (पा० सू०६-१-१३३) इति सूत्रे छन्दोग्रहणवैयापत्तेः । यद उद्देश्यसमर्पकः । एतदिदमौ प्रत्यक्षोपस्थित । अदस् व्यवहिते।
एकोन्यार्थे प्रधाने च प्रथमे केवले तथा।
साधारणे समाने च संख्यायां च प्रयुज्यते ॥ द्विशब्दो द्वित्वविशिष्टेलिङ्गः। सम्बोधनकविषयश्च युज्मदर्थः। अस्म. च्छब्दस्तूच्चारयित्रर्थः। सलिङ्गः संबोधनव्यभिचारी च भवत्वर्यः।"भाले. डवतुः' (उ०सू०१६६) इति व्युत्पादितोऽयम् । यद्यप्यस्मात्स्मायादयो न सम्भवन्ति, "सर्वनाम्नस्तृतीया च"(पासू०२-३-२७) इति "निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्" (काभ्वा०) इत्यनेनैव गतार्थ, तथापि
फिदिमयटः पूर्वनिपातष्ठक्छसौ तथा।
आत्वैकशेषष्यविरहा अकच्च भवतः फलम ॥ फिञ्-भावतायनिः, त्यदादित्वेन वृद्धत्वाद् "उदीचां वृद्धा" (पासू०४-१-१५७) इति फिञ् । भवन्तमश्चतीति भवद्या, "विश्व ग्देवयोश्च" (पा०स०६-३-९२) इति चकारेण सर्वनानोनुकर्षणादन्यादे. शः । भवन्मयः, “नित्यं वृद्धशरादिभ्यः" (पासु०४-३-१४) इति. मय. ट् । भवन्मित्रः, "सर्वनामसंख्ययो" (कावा०) इति प्रानिपातः। भावत्का, भवदीयः, "भवतष्ठक्छसौ" (पा०सू०४-२-११५) इत्यत्र हि शत्रन्तनिवृत्तये वृद्धादित्यनुवर्त्यते । आत्वम्-भवार , " सर्व. नानः" (पा०सू०६-३-९१) इत्यात्वम् । देवदत्तश्च भवांव भवन्ती "त्य. दादीनि सर्वैः" (पा.सु०१-२-७२) इत्येकशेषः । 'भवतो भावो भवत्ता' इत्यत्र सर्वनामसंझया गुणवचनसंज्ञाषाधात् प्यविरहोऽपि फलम् । अन्यथा हि भावत्यमिति स्यात् । अकच्च-भवकान् , "सर्वनानो वृत्ति. माने" (मा०६०) इति पुंवद्भावोऽपि फलम-भवत्याः पुत्रो भवत्पुत्रः ।