________________
२१५
विधिशेषप्रकरणेऽतिदेशसूत्रम् । कातिवल्लिङीत्यादिरपि विषयसप्तम्येव । तथाचाघुदात्तनिपातनेनैवो. पपत्तौ इविधिश्चति न कर्तव्यमेव । 'घानिषीष्ट' इति कथं सिध्येदिति परमवशिष्यते । तत्रेदमुत्तरम्--प्रतिपदविधबलीयस्त्वाश्चिण्वद्भाष इति। एतच स्यसिचसूत्र कैयटेन स्पष्टमुक्तम् । तस्माद्वार्तिकमते धिप्रतिषेधा. चिण्वद्भावः, भाज्यमते तु प्रतिपदोक्तत्वादिति विवेकः । एतेन "एकाच उपदेश" (पासू०७-२-१०) इति सूत्रपि "आर्द्धधातुकीयाः सामा. न्येन भवन्ति' इत्यादिभाष्य ग्रन्था व्याख्याताः। यत्तु तत्र कैयटेनो. कं विप्रतिषेधे उपपचिश्चिन्त्येति, तनु प्रागुक्तापपत्तिरेव स्मर्तव्ये स्येपरम् ।
स्यादेतत् , प्रतिपदविधित्व किमिह विवक्षितम्--अनवकाशत्वं वा साक्षादुपादानमात्र वा ? नायः, स्यसिच्सुत्रे हन्ग्रहणस्य 'प्रघानियते' इत्यादी लब्धावकाशत्वात् । तत्रत्यस्य सीयुग्रहणस्य तु 'कारिषीष्ट' इत्यादी कृतार्थत्वात् । न चाजन्तादीनां चतुर्णा स्यादिचतुष्कसम्बन्धे अस्वरितत्वाउच यथासंख्याभावे हन्तः सीयुटीति योऽशस्तस्यानर्थक्यमेव । अन्तरङ्गत्वाद्धि वधभावे कृते तस्य स्थानिवत्वेन हन्तिग्रहणेन ग्रहणात्सीयुटि चिण्वदिटि कृते "ण्यल्लोपाविय" (काभ्वा० )इति पूर्वविप्रतिषेधेनाल्लोपे सति 'वधिषीष्ट' इत्येव रूपं स्यादिति वाच्यम् , अन्तरलेण वधिनापहारे न्याय्ये सत्यसम्भवादेव हन्तः सीयुटा समं सम्बन्धायोगात्।
संभवे व्यभिचारे च स्याद्विशेषणमर्थवत् । इति न्यायात् । अत एव भस्त्रादिसूत्र आत: स्थाने इत्येतस्वशब्दः स्यैव विशेषणं न तु भलादीनामात वक्ष्यते । तथा "नित्यं क्रीडाजी. विकयोः" (पा०सू०२-२-१७) इत्यत्र क्रीडायां तृचोऽसम्भवादेकेनैव. तदन्वय इति वक्ष्यते।
नात्यः, वधादेशेऽपि "हनो वलिङि" (पा०९०२-४-४२) इति साक्षादुपादानस्याविशिष्टत्वात । अन्तरङ्गत्वस्याधिकत्वाच्चति चेत् ! अत्रोच्यते, "चिण्वदिट च" (पा०सू०ए०६-४-६२) इति चकारस्यानुक्ता समुच्चयार्थत्वेन व्याख्यानाद्धन्तेरपि परस्य सीयुटश्चिण्वद्भावो विधी. यते । तस्य चानर्थकत्वमेव प्रतिपदविधिवम् । अनुक्तसमुच्चयार्थत्वं चास्य भाष्यकार एव वक्ष्यति-"चं भगवान्कृतवांस्तु तदर्थम्" इति । अत एव ह्याभात्सूत्रप्रत्याख्यानपक्षे कृतेऽपीटि णिलोपः सिद्ध्यति । सूत्रा. रम्भे परमिट चासिद्धस्तेन मे लुप्यते णिरिति वक्ष्यमाणं बोध्यम् । यद्वा लिङ्गीति सामान्यमार्धधातुके सीयुटीति विशेषः। हन्तेरित्युभयत्राषि.