________________
विधिशेषप्रकरणे प्रत्ययलक्षणनिषेधसूत्रम् ।
२६३
'मृष्टः' 'जुहुतः । इह यशपोलमता लुप्तयोरङ्गस्य गुणवृद्धी न भवतः। लुमतेति किम् ? कार्यते, हार्यते । “णेरनिटि' (पा.सु०६-४-५१) इति णिलोपे कृते णिजपेक्षा वृद्धिर्भवत्येव । अमाल । हलङयादिलोपे नि. स्यत्वात्कृतेऽपि वृद्धिः । अङ्गस्येति किम् ? 'पञ्च' 'सप्त' अत्राङ्गस्यति स्व. यते । तेनाङ्गाधिकारो गृह्यते "स्वरितेनाधिकारः" (पासू०१-३-११) इति वचनादिति वार्तिककाराः। भाज्ये तु इदं दूषितम् । तथाहि, एवं सति 'उत्क्राम' इत्यत्र"अतो हेः" (पासू०६-४-१०५) इति हेलुकि कृते "क्रमः परस्मैपदेषु" (पा०स०७-३-७६) इति दीर्थो न स्यात् । तथा 'जिगमिष' इत्यत्र “गमेरिट परस्मैपदेषु" (पासू०७-२-५८) इतीण न स्यात् । तथा 'विवृत्स' इत्यत्र "न वृद्भपश्चतुभ्यः" (पा०सू०७-२-५९) इतीनिषेधो न स्यात् । तस्मात् "न लुमता'(पा०सु०१-१-६३) इत्यत्र नानाधिकारः प्रतिनिर्दिश्यते, किन्तु लुमता लुप्ते प्रत्यये यदहं तस्या. अमनाङ्गं च सर्व प्रतिषिध्यते इति । न चैवमुक्तदोषतादवस्थ्यमिति पाच्यम्, 'उत्क्राम' इत्यत्र लुप्तं परस्मैपदम् । तदपेक्षया यदहं शबन्तं न तस्य दीर्घा विधीयते, किन्तु क्रमेः । स तु शपं प्रत्यङ्गं न तु लुप्त प्रतीति निषेधाप्रवृत्ती प्रत्ययलक्षणेन दीर्घप्रवृत्तेः। एवं 'जिगमिष' 'वि. वृत्स' इत्यत्रापि इटो विधिप्रतिषेधौ भवत एव । तौ हि लुमता लुप्त परस्मैपदे यदहं सन्नन्तं तस्य न क्रियते, किन्तु सकारादेः प्रत्ययस्य । स चा नेति स्पष्टमेव ।
स्यादेतत् । पक्षद्वयेऽपि "नित्यादिनित्यम्" (पासू०६-१-१९७) "कितः" (पासु०६-१-१६५) “पथिमयोः सर्वनामस्थाने" (पा०स०६१-११९) इति त्रिसूच्या विधीयमानाः स्वरा लुकि कृतेऽपि प्राप्नुवन्ति । तथाहि, गर्गाः, बिदाः, । यअञोलुक् । उष्ट्रग्रीनाः । "इवे प्रतिकृती" (पासू०५-३-६६) इति कनो "देवपथादिभ्यश्च" (पासू०५-३-१००) इति लुए। ततो "ज्नित्यादि'' (पा०स०६-१-१९७) इत्यानुदात्तता प्राप्नोति । तथा अबेरपत्यानि अत्रयः । "इतश्चानिञः" (पासू०४१-१२२) इति ढकः "अत्रिभृगुकुत्स" (पा०स०२-४-६५) इत्यादिना लक। ततः कितस्तद्धितस्यान्त उदात्तो भवतीत्यन्तोदात्तता प्रा. प्नोति । सा हि प्रत्ययग्रहणे तदन्तग्रहणात्तद्धितान्तस्य विधीयते । न च सिद्धान्तेऽपि फिट्स्वरेणान्तोदात्ततया भाव्यमेवेति वाच्यम् "राशदिभ्यां त्रिप" (उ०सू०५१६) "अदस्त्रिनिश्च" (उ०सू०५१७) इत्यु. णादिसूत्रेण ह्यदेवकारानुकृष्टे त्रिप्प्रत्यये तस्य पित्वेनानुदात्तत्वादा. धुदात्तोऽत्रिशब्दः । तथाच प्रयुज्यते "अत्रेरिव शृणुतं पूर्वस्तुतिम"