________________
२६२
शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहि के
मितिवृत्तिः कथं योज्या ? एवं "समासत्वात्प्रातिपदिकत्वम्" "स्नु क्रमोः” (पासू०७-२-३६) इती" "उभयप्राप्ती कर्मणि' (पासू०२३-६६) इतिकर्मणि षष्ठी इत्यादयोऽपि तत्रतत्राऽभियुक्तग्रन्थाः कथं योज्या इति ? अत्रोच्यते, योऽस्माकं नियमविधिः स मीमांसकरीत्या परिसलयाविधिरिति तावत्स्पष्टं विवरणादौ । तत्र दोषत्रयं-स्वार्थ. हानिः, परार्थपरिकल्पना, प्राप्तबाधश्चेति । तच्च यद्यगत्या सह्यते, इति पक्षस्तदा नियमविधेर्निषेध एवार्थः । प्रत्यय लक्षणशब्देन तद्भिनं लक्ष्य ते, भवतात्यनेन तु न भवतीति । तथाच स्थानेऽन्तरतमसुत्रे भाष्यम्"नानेनान्तरतमा निवर्त्यन्ते" 'मपि तु' 'अनन्तरतमा निवर्त्यन्ते" इति । अत एव वार्तिककारोपि वक्ष्यति-"उभयप्राप्ती कर्मणीति प्रतिषेधेऽकादि प्रयोगेऽप्रतिषेधः"(कावा०) इति । अस्मिन्पक्षे उभयप्राप्ती"(पासू०२३-६६) इति परिशेतिता षष्ठीत्यादिक्रमेण व्याख्येयं, नतु विहितति । यदि तु दोषत्रयगौरवपरिहारार्थ प्रत्ययलक्षणसुत्रं यथाश्रुतं व्याख्याय अंतएव शापकात स्थानिवत्सूत्रस्य प्रत्ययलोपतरावषयकता क. ल्प्यते सामान्यपुरस्कारप्रवृत्तस्य शास्त्रस्य विशेषतात्पर्य हि त्वयाऽपि कल्प्यमेव । अन्यथा विकल्पापत्तेः । भामते "न तो पशौ करोति" इत्यत्र यथा । "पदे जुहोति" इत्यादिभिराहवनीयविधेरिव विशेष विधिना सामान्यविधेः सङ्कोचसम्भवाच्च । न चैवं सामान्यस्य विशेषे उपसंहारापत्तिः, सामान्यशास्त्रप्रणयनवैय्यापत्तेः । वेदे तु न कश्चित्प्रणेता येनैवं पर्यनुयुज्यतेति चतुर्दाकरणस्याग्नेये उपसंहारो मीमांसायामभ्युपेतः। कल्पसूत्रकारास्तु तत्रापि व्युत्था एव । तथाच भगवता कात्यायनेन सुत्रितम् "अविशेषादुभौ वा" (का०ौसू०) इति । एवञ्च सामान्यशास्त्रस्य विशेषलक्षणाया उभयवाच्यत्वात्तथैवो. पपत्ती दोषत्रयं न सोढव्यमिति पक्षस्तदोदाहृतग्रन्थाः सम्यगव । नया. यिकमते तु तात्पर्यसङ्कोचस्थले लक्षणा नास्त्येवेति निर्विवादम्, वि. शेषधर्मप्रकारकबोधस्योद्देश्यतायामेव तदभ्युपगमात् । सामान्यप्रका रकस्य विशेषविशेष्यकस्यापि लक्षणां विना निर्वाहादिति सुधीभि. राकलनीयम् ।
म लुमताङ्गस्य (पासू०१-१-६३) ॥ लुमता शब्देन प्रत्ययलोपे सति प्रत्ययलक्षणमङ्गस्य कार्य न स्यात् । पार्तिकमते पूर्वसूत्रप्राप्त. स्थायं निषेधः । भाष्यमते तु स्थानिवत्सुत्रप्राप्तस्य । नियमविधानां तात्पर्यसङ्कोचकत्वमात्रं न तु निषेधकतेति प्रागुक्तरीत्या तु माध्यमः तेऽपि पूर्वसूत्रेण प्राप्तस्याय निषेध इत्यवधेयम् । एवमपि । 'गर्गाः'।