________________
विधिशेषप्रकरणे प्रत्ययलक्षणसूत्रम् ।
२६१
इत्येवास्तु । कृणोतेस्तु दीर्घ 'सुकीः, सुकीर्णो, सुकीर्णः' इत्यादि भव. स्वित्यपि चिन्त्यम् ।
नन्ववं परिवीः' इत्यत्र तुग्दीक़ पर्यायेण स्याताम् । अनेनैवोभयः विधाने पौर्वापर्याभावेन "विप्रतिषेधे परम्' (पा सु०१-४-२) इत्यस्याप्रवृत्तः । सत्यम् , शास्त्रातिदेशस्य व्यपदेशातिदेशस्य वाश्रयणा. ददोषः । यद्वा, सति प्रत्यये यत्कार्य भवितुमर्हति तदेवातिदिश्यते इति परिवीय' इत्यादाविव 'परिवीः' इत्यत्रापि दीर्घ एव भवति न तु तुगिति कार्यातिदेशेऽप्यदोषः। __भाष्यकारास्त्वाहुः-तृणहइमर्थ तावन्नदं सूत्रम्, स्थानिवत्सूत्रे. णेव गतार्थत्वात् । न चाल्विधिरयम् , हलीत्यस्य निवर्तनात् । न चैवं 'तृणहानि' इत्यत्रापीम् स्यादिति वाच्यम् "नाभ्यस्तस्याचि" (पासू० ७-३-८७) इत्यतोऽचि नेत्यनुवर्तनात् । नापि 'आशीः' इत्यत्र “शासइदङ्हलोः" (पा०४०६-४-३४) इतीत्वार्थमिदम् , आशासः कावुपसं. ख्याननैव सिद्धेः । तद्धि त्वयाऽपि वाच्यम् । “शास इदहलोः" (पा०सु०६-४-३४) इत्यत्र शासिमात्रग्रहणमिति पक्षे नियमार्थम-आ. शासः कावेव यथा स्यात 'आशास्ते' इत्यादौ मा भूदिति । यस्मा. च्छासेरङ् विहितस्तस्यैवाङ्साहचर्यादित्वविधौ ग्रहणमिति पक्षे यथा 'आशास्त' इत्यादौ न भवति, तथा विप्यपि न स्यादिति विध्यर्थम् । तस्मात्प्रत्ययलोपे सति प्रत्ययलक्षणमेवेति नियमार्थमिदं सूत्रम् । प्रत्यः याप्रत्ययसाधारणं रूपमाश्रित्य यत्कार्य विधीयते तन्निवृत्तिः फलम् । तेन शोभना इषदोऽस्य प्रासादस्य सुषत् । अत्र "सोर्मनसीअलोमो. षसी" (पासू०६-२-११७) इति सूत्रेण सुशब्दात्परस्य मनन्तस्यास. न्तस्य चोत्तरपदस्य बहुवीही विधीयमानमाद्युदात्तत्वं न भवति । अत्र हि लुप्तेऽपि जसि स्थानिवद्भावेनासन्तमुत्तरपदमस्त्येव । किन्त्वस् इति रूपं प्रत्ययाप्रत्ययसाधारणम्, "अनिनस्मन्ग्रहणान्यर्थवता चानर्थकन च तदन्तविधि प्रयोजयन्ति" (प०भा०१६) इति वक्ष्यमाणत्वात् । अतो नियमेनाद्युदात्तव्यावृत्तिः सिद्धा । तथाच "नसुभ्याम्" (पा००६-२१७२) इत्यन्तोदात्तं पदं भवति ।
इदन्त्ववधेयम् । न केवलं स्वरार्थमेवेदं सुत्रम् । किन्तूकोदाहरणे. एव प्राप्नुवन् "अत्वसन्तस्य" (पा०सू०६-४-१४) इत्युपधादी?ऽपि उ. क्तनियमेनैव व्यावर्त्यः । वार्तिकमते तु उकस्वरस्य दीर्धन्यावत्तेश्व सिद्धये उपायान्तरमन्वेषणीयमिति ।
ननु यदि नियमार्थ सूत्रं तर्हि 'पर' इत्यत्र प्रत्ययलक्षणेन पदस्व.