________________
३३२
शब्द कौस्तुभ प्रथमाध्याय प्रथमपादेऽमान्हिके
6
1
चां ग्रन्थाननुसृत्य प्रागुक्तं, न तु क्षोदक्षमम्, व्याश्रयेष्वपि बहुधा तत्स्वीकारात् । तथाच कैयटेनासिद्धवत्सूत्रे 'शुनः' इत्यत्र वार्णादाङ्गस्य बलीयस्त्वात्पूर्वेकादेशं बाधित्वाऽल्लोप उक्तः । न च तत्रोभयोरकारांशे समानाश्रयत्वमस्त्येवेति वाच्यम्, 'विश्नः' 'स्योनः' इत्यत्रापि छकारेकारांशसाम्येन व्याश्रयत्वोपन्यासविरोधात् । किञ्चाङ्गस्य "आच्छीनद्योः " ( पा०सु०७-१-८० ) "शीङो रुट्” (पा०सू०७-१-६) “अचः परस्मिन्” (पा०सू०१-१-५७) “येन विधिः" (पा०सू०१-१-७२ ) "उपेयिवाननाश्वान्" (पा०सु०३-२-१०९) "आडजादीनाम्” (पा०सु० ६-४-७२) अजादेर्द्वितीयस्य" (पा०सू०६-१-२) "अदस औ सुलोपश्च " (पा०सू०७-२-१०७) "सार्वधातुकमपित्" (पा०सु०१-२-४) "उपसर्गादूः हस्वऊहते: " ( पा०सू०७-४-२३) "स्नुक्रमोरनात्मनेपद" (पा०सु०७२- ३६) इत्यादिसूत्रेषु कैयटहरदत्तादिसकलप्रन्थाः समानाश्रयतां कचि दाहृत्य कचिदनादृत्य प्रवृत्ताविति स्पष्टमेव सिद्धान्तपरिशालिनाम् । पाष्ठभाष्ये प्रथमाहिकान्ते "वार्णादाङ्गम्" (प०मा०५५) इति परिभाषायाः प्रयोजन्मन्यपि व्याश्रयसाधरणान्येव | "न माङयोगे" (पा०सू०६४-७४) इति सूत्रस्थकैयटग्रन्थे ऽप्येवमेव । "आतोनुपसर्गे कः" (पा०पु० ३-२-३) इति सूत्रे माध्येप्येवमेव । तस्माद्वहिरङ्गपरिभाषाऽकृतव्यूहपरिभाषयोरिव "वार्णादाङ्गम्' (१०मा०५५) इत्यस्या अप्यनित्यत्वमेव शरणम् । तच्च सतुक्कग्रहणेन ज्ञाप्यते । न च परास्मन्पूर्वविधावपि स्थानिवद्भावेन तुकं वारयितुं सः अन्यार्थ तयाऽवश्य कर्त्तव्येनाच इत्यनेन गतार्थत्वात् । एवञ्चान्यार्थे क्रियमाणं सतुक्कप्रहणम् व्यूह” (१०मा०५६ ) इत्यस्याप्यनित्यतां कामं ज्ञापयतु । प्रकृतसूत्रे 'विश्नः' इति प्रत्युदाहरणन्तु यथाश्रुतरीत्या । एवं स्थिते नङो डि स्य गुणनिषेधे चरितार्थत्वादकृतव्युह परिभाषायां ज्ञापकान्तरमास्थे यम् । तश्च प्रत्ययवचनमुत्तरपदग्रहणं समर्थग्रहणं वा । तेभ्यो लघुत्वात् ल्यग्रहणमेवेति तु निष्कर्षः । आचारकिबन्तार्थे प्रत्ययहणं तवममा दिंबाधनार्थमप्राप्तविध्यर्थञ्चोत्तरपद्मद्दणमिति हि स्थास्यति । मपर्य न्तानुवृत्तिरेव ज्ञापिकेति हरदतोत्प्रेक्षा स्वन्तरङ्गस्यापवादब ाध्यत्वादयुकेति सप्तमे वक्ष्यते । एवञ्च (१) पामाद्यन्तर्गणसूत्रे "विश्वगित्युत्तर. पदलोपश्चाकृतसन्धेः " (का०वा० ) इत्यत्राकृत सन्धिग्रहण मप्यनावश्य. कम् | वीक्षमाणादिभ्यः कृतसन्धिभ्य एव तद्धिता इति स्पष्टीकरणार्थे
"अकृत
(१) "लोमादिपामादिपिच्छादिभ्यः शनैलवः" (पा ००५-२०१० ० ) इति सूत्रस्थेत्यादिः ।