________________
शब्द कौस्तुभप्रथमाध्यायप्रथमं पादतृतीयाह्निके
षष्ठी । न चैवं 'यापयति' इत्यादावविप्रसङ्गः, सन्निपातलक्षणपरिभाष। याऽऽदन्तलक्षणस्य पुको गुणाप्रवर्त्तकत्वात् । "ऋच्छत्यृताम् ” ( पा० सू०७-४ -११) इत्यत्रापि द्वयोर्ऋतोर्दीर्घस्य चेति त्रयाणां प्रलिष्टनिर्देशः । तद्यथा - आच ऋश्च ऋतः ऋच्छतेरा ऋच्छत्या, स च ऋतश्च तेषा मिति षष्ठीतत्पुरुष द्वन्द्वोभयगर्भो द्वन्द्वः : ऋच्छत्या च भच ऋतश्चेति त्रिपदद्वन्द्वो वा । तेन ऋच्छत्यृकारस्य स्थानि. वं लभ्यते । वस्तुतस्तु चतुर्णामिह प्रश्लेषा बोध्याः तेन 'आरिवान् सर्वभ्रूणान्यारुषि' इत्या-दावर्त्तेः कसौ गुणः सिद्धः पुनर्विधानसामर्थ्यात् । अन्यथा कसोः कि त्करणसामर्थ्यात् 'तितीर्थान्' इत्यत्रेव गुणो निषिध्येत । एतच्च "क्वसुश्च” (पा०सु०३-२-१०७ ) इति सूत्रे स्फुटीकरिष्यामः । तथा "ऋडशोऽङि” (पा०सू०७-४-१६) इत्यत्राप्युरङि गुण इति योगो विभज्यते । ततो दृशः । उरित्याद्यनुवर्त्तते । "स्थूलदूर" (पा०सु०६-४-९५६ इति सुत्रेऽपि योगविभागः कर्त्तव्यः 'स्थूलदूरयुवइस्वानां यणादिपरम्' इत्यको योगः, 'क्षिप्रक्षुद्रयोः पूर्वस्य च गुणः' इति योगान्तरम् । तत्र 'स्थवीयान्' इत्यादावोर्गुणेन सिद्धम् । आभीयस्यासिद्धत्वस्य "नसोरलोपः " ( पा०सु०६-४- १११ ) इति तपरकरणेनानित्यताशापनात् भाष्य कृता प्रत्याख्यानाच्च । यण आदिर्यणादिः ततः परमिति समासः । तथाच क्षिप्रक्षुद्रयोर्यण आदी पकारदकारौ ततः परस्य रशब्दस्य लोपस्ताभ्यामेव च पूर्वस्येकारस्योकारस्य च गुण इत्यर्थः । तदित्थं गुणाः सर्वे कि विश्रान्ताः । मृजेर्वृद्धावप्यच इत्यपकृष्यते । मृजेर्वृद्विरचः, ततो ञ्णिति, अच इत्येव । न चैत्रम् 'अमार्ट्' इत्यत्राटोपि वृद्धिः स्यादिति वाच्यम् लादेशेषु कृतेष्वडिति पक्षे परत्वाद् वृद्धौ सत्यामद् । तत्र कृते पुनर्वृद्धिर्न भवति सकृत्प्रवृत्त्या चरितार्थत्वात् ।
यदा त्वसिद्धवत्सूत्रप्रत्यास्थानाय "ल्लुंङ्” इति द्विलकारकनिर्देशमाश्रित्योपदेशे आर्द्धधातुक इत्यनयोरन्यतरदनुवर्त्य वा लावस्थाया· मेवाट् क्रियते, " एरनेकाचः " (पा०सु०६-४-८२ ) इति विभज्य 'इणो यण' इत्यनुर्वर्थाने काचश्चेतहिण एवेति नियममाश्रित्य 'अद्धचैयाताम्' 'इत्यादौ यण् वार्यते, तदा लावस्थायां यद्यपि वृद्धिर्न भवति लकाराणां - ङित्वेन 'मृष्टः' इत्यादाविव तन्निषेधात् । ततश्चान्तरङ्गत्वा दंडागम एव, तथापि 'अन्स्याभावेऽन्त्यसदेशस्य' (प०मा०१०४) इति परिभाषा माश्रित्याटो 'वृद्धिर्निवर्तनीया । परिभाषाप्रत्याख्यानपक्षे स्वङ्गाक्षिप्तेन प्रत्ययेनाविशेच्यते येन नाव्यवधानन्यायाच सिद्धम् 'अमार्ट्' इत्यादि रूपम् । सिचि वृद्धावपि विधेयायां नास्तीकूपरिभाषाया उपयोगः व्यावर्त्यभावात् । न