________________
२५६ शब्दकोस्तुमप्रथमाध्यायप्रथमपादेऽष्टमाहिकेसिद्धीयमद्विवचने'' (प०मा०१२६) इत्युक्तरिति वाच्यम् “उभौ सार भ्यासस्य" (पासू०८-४-२१) इति तदनित्यतामापनात् । यनु पदद्विवचनविषयं तदिति बोपदेवः । तन्न, "सुविनिर्दुभ्य" (पा० सू०८-३-८८) इति सूत्रे "सुपिभूतो द्विरुच्यते” इति वात्तिकेन तन्द्रा. ज्येण च सह विरोधात् । अत एवाभ्यासे डकारं दुर्गगुप्तादय आहुः । एवञ्च वैयाघ्रपद्यवार्तिके 'औजढत्' इति पाठस्य प्रामादिकत्वकल्पन. मेव प्रामादिकम् । जिशब्दपाठस्तु किना निर्वाह्यः। यत्वदन्तेषूनधातो 'मा भवानुनिनत' इत्यभ्यासे इकारश्रवणं, तदपि लिपिप्रमादप्रयु: कम्, अन्यथा "कृत संशब्दने'' (चु०3०१२०) इत्यत्र सुब्धातौ च स्वो. केन समं विरोधापत्तेः । तस्माद् 'ऊननत्' इत्येव धातुवृत्तौ साम्प्रदा यिकः पाठः। "नोनयतिवनयति" (पासू० ३-१-५१) इति सूत्रे का. शिकापदमजोरप्येवमेवत्यवधेयम् । एवञ्चह भाष्यकाशिकयोरविरोध पवेति स्थिते सरस्वतीकण्ठाभरणादिग्रन्था अपि निर्बाधा पवेत्यवधे. यम् । यत्तु "स्तौतिण्योः " (पा०स०८-३-६१) इति सूत्रे 'सिषचयिषति' इत्यत्र सिर्हे तुमण्णौ गुणे सनि इटि गुणायादेशयोः कृतयोर्गुणस्य स्थानिवद्भावारिसच्छब्दस्य द्वित्वमिति न्यासकारेणोक्तम् । तसूत्तरखण्डऽकाराभावाद्भाग्यविरुद्धं, स्थानिवद्भावं विनाऽप्याभिमतरूपसि. निष्फलं चेत्युपेक्ष्यम् । एतेन 'औजढत्' 'आपीप्यत्' इत्यादिसिद्धये. सामान्यापेक्षतां वदन् 'अचिकीर्तत्' इत्यादिसिद्धये चानित्यतां शर• णीकुर्वन् सीरदेवोऽप्यपास्तः ॥
इति श्रीशब्दकौस्तुमे प्रथमस्याध्यायस्य प्रथमे
पादे अष्टमान्हिकं समाप्तम् ॥
अदर्शनं लोपः (पा०सु०१-१-६०) ॥ स्थाने इत्यनुवर्तते । तदर्थश्च प्रसने, इति । प्रसक्तस्यानुश्चारणं लोपसंझं स्यात् । संक्षाप्रदेशा "लो. पो व्योलि" (पासू०६-१-६६) इत्यादयः । अर्थस्यैषा संक्षा न तु शब्दस्य महासंचाकरणसामात । नन्वेचं प्रदेशेष्वेव लोप इति लो. किकोऽर्थो प्रहीयते, पशुरपत्यं देवतेतिवत् । तत्कि संशयेति चेत् । न, प्रसक्तस्यत्येवंरूपविशेषलाभाय सूत्रारम्मात् । अन्यथा 'दधि, मधु इत्यादौ तुगागमप्रसङ्गात् । अस्ति हि तत्र विपोऽदर्शनम् , तच लोप इति प्रत्ययलक्षणापत्तेः । नन्वेवं वार्तिकमते, भाज्यमते तु प्रत्यय. लक्षणसूत्रं नियमार्थम् । तत्कथं दध्यादौ तुकप्रसङ्गः ? स्थानिवत्सूत्रं तु न तुकं प्रति प्रवर्तयति, षष्ठीग्रहणस्य तत्रानुवर्तितत्वात् । अत एव प्रा.