________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् ।
२५५
म्भेन प्रपञ्चितं प्राक् । वस्तुतस्तु वामनोक्तं सम्यगेध । यतः
बोपदेवमहाग्राहग्रस्तो वामनदिग्गजः ।
कीर्तेरेव प्रसङ्गन माधवेन बिमोचितः ॥ तथाहि, किं वामनोक्तो पाकिदूषणपरभाष्यविरोधः, किं वा स. जातीयविषयज्ञापकतावर्णनभाज्यविरोधः ? नाद्यः, नित्यानित्ययोर्विप्र. तिषेधानुपपत्तिरिति, 'दिदवनीयिषति, इत्याद्यसिाद्धरिति च दुषणयोर्भा. ज्येऽनुक्कतया भाष्यं दूषणान्तराणामप्युपलक्षणमिति स्थिते 'औजढत' इत्यभ्यासेऽकारादेशोपि विधेयः स्यादिति धार्तिके दूषणान्तरस्यापि देयत्वात् । तदेवं वार्तिकं रचनीयम्-ओदौदादशेस्य चुटुतुशरादेर. भ्यासस्यौत्सनि । ततोऽल्लोपवतो णिचोऽत् । अल्लोपवतोऽङ्गस्याभ्यासस्य णिचोऽत्स्यात् । औजढत् , आञ्चकदिति । न द्वितीयः, यत्र द्वि रुक्तावभ्यासस्योत्तरखण्डस्याद्योऽजवर्णस्तत्र स्थानिवदिति हि माय. स्य फलितोऽर्थः । अस्ति च हतशब्दस्य द्विरुक्ती प्रक्रियादशायामुत्त. रत्रावर्णः । ननु पुनः प्रवृत्तेन टिलोपेनापहारान्नासौ प्रयोगे समवतीति चेत् ? किं ततः ? नहि प्रयोगसमवायित्वं विशेषणं भाग्ये दत्तम् । एवञ्च 'नुनावयिषति' इत्यादौ द्वित्वप्रवृत्तिवेलायामवर्णाभावेऽपि पश्चाद्भाविनं तमाश्रित्य यथा स्थानिवद्भावस्था हतशब्दस्य पश्चा. तद्विरहेऽपि 'अध्यजीगपत्' इत्यत्र तु स्थानिवद्भावे सत्यजादितया णिच एष द्वित्वं स्यात् तथाच न द्वित्वप्रवृत्तिवेलायां नापि पश्चादवर्णप. रतेति 'अचिकीर्तत्' इत्यादाविव न स्थानिवद्भावः । एवञ्चोवर्णस्थानि. कस्यैव स्थानिवद्भाव इति दुराग्रहो निर्मूल एव । अत एव "लोपः पि. बतेः" (पासू०७-४-४) इति सूत्रे 'अपीप्यत्' इत्यत्र पिबतेरॊ युफि चङि उपधालोपे च तस्य स्थानिवन्त्वात्पायशब्दस्य द्विरुकिरिति वृत्तिग्रन्थोऽपि सङ्गच्छते । एवञ्च 'अशकत्' इत्येव साधु, नतु 'अ. चिकत्' इति । 'अङ्कापयति' 'आश्चीकपत्' इत्यादि तु दुरापास्तम् , अल्लोपस्य दुर्वारत्वात् । अकारोच्चारणं त्वभ्यासेऽकारश्रुत्यादिना चरितार्थम् । यदप्यग्लोपित्वं स्थानिवन्त्वं चेत्याधुक्तम् । तदपि न, चि. न्तरिदित्करणेन "घुषिरविशब्दने" (पासू०७-२-२३) इत्येतत्सूत्रः स्यभाग्येण च णिज्विकल्पस्य सुस्थतया अल्लोपविकल्पस्य निर्मूल. लत्वात । णिजभावपक्षे हि "अनकाचः" (भा०६०) इत्याम्प्रवृत्त्या धातोरन्तोदात्तप्रवृत्त्या चाकारः कृतार्थः । 'मयात्' इत्यादौ नलोपप्र. तिबन्धोऽपि फलमिति दिक् ।
न चैवमपि 'मौजढत्' इत्यभ्यासे डकारः धूयेत' 'पूर्वत्रा.