________________
१४८. शब्दकौस्तुभप्रथमाध्यायप्रथमपादपञ्चमालिकेदाकारस्यानर्थकत्वेन तत्र टिसंहासिद्धये आदिवद्भावो वचनेनैव साध. नीय इति । अत्रेदं वक्तव्यम्, अर्थवता व्यपदेशिवद्भाव इति तावनेयं परिभाषा तस्या विध्यङ्गत्वात । व्यपदेशिवद्भावस्तु लौकिक इत्युका तया तं प्रत्यहत्वायोगात् । किन्तु शास्त्रे व्यपदेशिवद्भावयोजनाय श. ब्दार्थसमुदायमाश्रित्य तस्यैकदेशः शब्द इति व्युत्पादयितुमर्थवत्ताऽपे. क्षितेति परं तस्याशयः । अत एव षष्ठे "निजी चत्वार एकाचः" इत्ये.. तेषु व्युत्पादनावसरे भाग्यकैयटयोरनर्थकेनापि व्यपदशिवद्भाव: स्वीकृतो लोक इवं शास्त्रेऽप्यनर्थकस्य व्यपदेशिवद्भावसम्भवात् । तस्मादर्थवतेति प्रायोवादमात्रं, सूत्रप्रत्याख्यानं तु सम्यगेवेति दिक् ॥
तरप्तमपौ घः (पासू०१-१-२२)। एतौ घसंज्ञा स्तः । कुमारित. रा। कुमारितमा । “घरूप" (पासू०६-३-४७)इति इस्वः । नधास्तरो नदीतर इत्यत्र तु न भवति, तमपा साहचर्येण प्रत्ययस्यैव तरपो प्रहजात् । यद्वा, तरबिति रूपं संज्ञाप्रवृत्तावाश्रितं तच्च परिनिष्ठिते प्रयो. • गे कापि नास्तीत्यौपदोशकं गृह्यते । तच्च तर प्रत्ययस्यैवास्ति। पिच प्रतिपदोकत्वमपीह सुलभम् । तेनावयषशो व्युत्पादिते नदीतरे नाति. प्रसाः। कि समानाधिकरणे स्त्रीलिले परे इस्वत्वं विधीयते । अ. न्यथा 'महिषीय रूपं महिषीरूपम्' इत्यत्रापि स्यात् । "सुए सुपा" इति समासः। रूपमाकृतिः, महिषीवयमाकृतिरित्यर्थः । सामानाधिकरण्य. स्त्रीत्वे च स्वार्थिकत्वादातिशायनिकस्य स्तो न तु नदीतरे, अतो नो. तदोषः । नन्वातिशायनिकप्रकरण एव तादी घ इति, पितौ घ इति वा क्रियतां लाघवादिति चेत् ? न, प्रकरणोत्कर्षणेह संशाप्रकरणस्या. न्योऽपि तरबस्तीति ज्ञापनार्थत्वात् । स चानिर्दिष्टार्थत्वात्स्वार्थे भव. ति । तेन "अल्पान्तरम्" "लोपश्च बलवत्तरः" इत्यादि सिद्धम् । केचि. तु सामान्यापेक्षं शापकमाश्रित्य ईयसुनोऽपि स्वार्थिकतामाहुः । तेना. हो महीयस्तव साहसिक्यमित्यादि प्रयोगाः समर्थिता भवन्ति ।
बहुगणवतुडति सङ्ख्या (पासू०१-१-२३)। एते सङ्ख्यासंशाः स्युः । बहुकृत्वः “संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच' (पासू. ५-४-१७)। बहुधा "संख्याया विधार्थे धा" (पासू०५-३-४२)। ब. हुभिः क्रीतो बहुकः "संख्याया अतिशदन्तायाः कन्" (पासू०५-१-२२) बाशः “बव्हल्पार्थाच्छस्कारकात्" (पासू०५-४-४२) इत्यनुवर्तमाने "संख्यैकवचनाच्च वीप्तायाम्" (पासू०५-४-४३) इति शस् । गण कृत्वा, गणधा, गणकः, गणशः, तावत्कृत्वः, तावडा, तावत्का, ताव. छः । “यत्तदेतेभ्यः परिमाणे वतुए" (पासू०५-१-३९)। "आ सर्व.