________________
२४४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमाहिके
भायं तत्र प्रमाणम्, न्यायवैषम्यात् । तथाहि, 'काष्ठशक् स्थाता' इत्यत्र झल्परो यः संयोगस्तदादेः ककारस्य लोपमाशय तदुक्तम् । तेन यत्र कलोपप्रसक्तिस्तदभिप्रायकमनभिधानम् । अत एव कान्तेभ्यः विप नेत्येवम्परतया तयाख्यातम् । न च णिजन्तेभ्यः किपि कलोपप्र. सक्तिरस्ति, णिलोपस्य स्थानिवद्भावात् । न च "पूर्वत्रासिद्धे च" इति तनिषेधः संयोगादिलोपे प्रतिप्रसवस्य जागरूकत्वात् । तस्मात्संयो. गोदिलोपग्रहणं कर्त्तव्यमेवेति स्थितम् ।
इदं त्वषधेयम् । “संयोगान्तस्य लोपः" (पास०८-२-२३) इत्य. अ"न वा झलो लोपाद्वहिरङ्गलक्षणत्वाद्वा" इति विधा सिद्धान्तव्यव. स्थापनात् 'कू' इति संयोगान्तलोपोऽपि दुर्लभः । तेन 'कुस्म्' इत्येव. भवति प्रथमपक्षे । द्वितीयपक्षाभिप्रायेण तु माधवः । ___ मन्वेषमपि लत्वप्रहणं व्यर्थम् , 'निगाल्यते' इत्यत्र सत्यपि णिलोपे प्रत्ययलक्षणेन लत्वसिद्धः । न च वर्णाश्रयत्वम् , धातोः स्वरूपे तत्प्रत्यये कार्यविज्ञानात् । इदं च दाण्डिनायनादिसुत्रे 'भ्रोण. हत्या' इति तत्वनिपातनेन झापयिष्यते । किश्चान्तरङ्गत्वादपि लत्वं सुषचमिति। ___ अत्रोच्यते, "तुणह इम्" (पासू०७-३-९२) इत्यत्राचि नेत्यनुवर्त. ते । हलीति निवृत्तम् । तथा च 'अतृणेट्' इत्यादिसिद्धये प्रत्ययलक्षणं नारम्भणीयम् , किन्तु नियमार्थ तदारम्भ इति भाष्ये स्थितम् । इत. रख्यावृत्तिमात्रफलकं प्रत्ययलक्षणसूत्रम् । तत्तत्कार्याणि तु स्थानिव. त्सत्रेण निर्वाह्याणि । तत्रच 'प्रदीव्य' इतीनिवृत्तये अप्राधान्यनाप्य. लाश्रयणे निषेधः स्थितः । तथाचाचि प्रत्यये विधीयमानं लत्वं स्थानि. वद्भावं विना दुर्लभमेव । यदप्यन्तरङ्गत्वाल्लत्वमित्युक्तं, तदपि न; अकृ. तम्यूहपरिभाषया लत्वाप्रवृत्तेः । किश्च "उपसर्गस्यायतौ" (पा००८२-१९) इति सूत्रे पक्षद्वयं वक्ष्यते-अयतिपरत्वमुपसर्गस्य विशेषणं रेफ स्य वेति । तत्राचे पक्ष 'पल्ययते' इति सिध्यति, 'प्लायते' इति तु न सिध्येत् एकादेशे कृते व्यपवर्गाभावात् , उभयत आश्रये अन्तादिव. द्रावायोगाश्च । तस्मात्तत्र स्थानिवद्भावेनैव व्यपवर्गों वक्तव्यः । सच "पूर्वशासिद्धे च" इति निषिद्ध इति लत्वे प्रतिप्रसवः सार्थक एव । द्वि. तीयपक्षे तु 'पल्ययते' इति न स्यात् , यकारेण व्यवधानात् । 'प्लायते' इत्यत्रैव परं लत्वं स्यात , "पूर्वत्रासिद्धे च" इति स्थानिवस्वनिषेधेन तत्र रेफस्यायतिपरत्वाविघातात् । कृते स्विह लत्वग्रहणे येन नाव्य. षधानन्यायेन 'पल्ययते' इत्यत्रापि लत्वं सिध्यति । स्फुटं चेदमाष्टमे