________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् ।
२४३
कार इति वाच्यम्, ङीबुत्पत्तेः प्रागेव समास इति द्वितीये वक्ष्यमाणत्वात् । एवं स्थिते तक्षयतेः क्विपि 'तक्' रक्षयतेस्तु 'रक्' इत्यादि. बोध्यम् । अत्र हि संयोगादिलोपे कर्त्तव्ये णिलोपस्य स्थानिवद्भावान्न तत्प्रवृत्तिः । संयोगान्तलोपे तु स्थानिवद्भावनिषेधाद्भवत्येवासौ । 'गोरट्' इति तु शु (१) द्धात्विपि बोध्यम् । यत्तु " अचः परस्मिन् " ( पा० सू०१-१-५७) इति सूत्रे 'दध्यत्र' इति भाष्यमुपादाय कैयटेनोकम् - "पूर्वत्रासिद्धे वेत्येतदत्र नास्ति, तस्य दोष इत्येव संयोगादिलोपस्य संयोगोपलक्षितलोपोपलक्षणत्वात्" इति । तन्न वास्तवम् । किन्तु त ऋत्यपूर्वपक्षिणोऽभिप्रायवर्णनमात्रम् । अत एव "नपदान्त" ( पा०सु० १-१-५८) इति सूत्रशेषे तेनैवोकम् - "स्कन्दयतेः 'स्कन्' तक्षयतेः तक्” इति । यत्तु “सिद्धकाण्डे श्चुत्वं घुट्त्वे" इति वार्त्तिकव्याख्याव• सरे कैयटेनोक्तम् - "मधुगितीध्यते, मधुडिति प्राप्नोति" इति । तन्तु सकारोपदेशसामर्थ्यादिति बोध्यम् । 'सन् श्रोतति' इत्यत्र “शि तुक्" (पा०सु०८ - ३-३१) इत्यस्याप्रवृत्या सकारश्चरितार्थ इति चेत्तर्हि "कौ. लुप्तम्” इति समाधेयम् | "कुस्मनाम्नोवा" (ग०सु० ) इत्यत्र 'कू' इति माधवोदात्तं सम्यगेव तत्र सामर्थ्यविरहेण संयोगादिलोपाप्रवृत्तेः रिति दिक् ।
स्यादेतत् । इह संयोगादिग्रहणं मास्तु । न चैवं 'वाक्यर्थम्' इत्यादौ "स्को: " ( पा०सु०८-२-२९) इति लोपपत्तिः । “स्कोः संयोग" (पा०सू०८-२-२९) इत्यत्र "झलो झलि" (पा०सु०८-२-२६) इत्यतो झल इत्यनुवर्तते । तच्चोपसर्जनस्यापि संयोगेत्यस्य विशेषणम्, न तु प्रधा• नयोरपि स्कोः, अव्यभिचारात् । ततश्च झलन्तो यः संयोगस्तदाद्योः स्कोर्लोपः स्यादिति सूत्रार्थात्, बहिरङ्गतया यणोऽसिद्धत्वाद्वा । अत एव हि 'दध्यत्र' इत्यादौ संयोगान्तलोपो न प्रवर्तते । तथा चामे वा र्तिकम् - न वा झलो लोगद्बहिरङ्गलक्षणत्वाद्वेति । न चैवमपि 'काष्ठ तक्' 'राष्ट्ररक्' इत्यादि न सिध्यति वाच्यम्, अनभिधानात्तत्र क्वि· प एव दुर्लभत्वात् । अनभिवा "काष्ठशगेव नास्ति" इत्याप्रमिक• भाष्यबलेन न्यायसाम्यान्निर्णीयते इति ।
अत्रोच्यते । कुस्मयतेः 'कूः' इत्यादिसिद्धये संयोगादीति वाच्य• मेव । किञ्च 'तक्' 'रक्' इत्याद्यर्थमपि वक्तव्यम् । न चानभिधानम्, प्रमाणाभावात् कैयटादिभिरुदाहृतत्वाच्च । न च काष्ठशगेव नास्तीति
1
(१) णिज्रहितात् केवलादितियावत् ।