________________
शब्दकौस्तुभ प्रथमाध्यायप्रथमपादेऽमाह्निके
Sज्ज्ञलादेशतया लुका लुप्तत्वाच्च स्थानिवद्भावोऽपि नास्तीति माधवस्याशयः । वैस्तुतस्तु यङ्लुक्यपि इटो दीर्घोऽनिष्ट एव "एकाचो द्वे प्रथमस्य " ( पा० सू० ६-१-१ ) इति सूत्रे भाग्य कैयटादिप र्यालोचनया तथैव निर्णयात् । तथा च तत्र " ग्रहेरङ्गाद्" इति भाष्य. सुपादाय कैयट आह-तृचो हि जरिगृहित्यङ्गं न तु ग्रहिः । विशेषणसा मर्थ्याद्धि यथाश्रुतरूपाश्रयणमिनि । यद्यपि तत्र यङन्तं प्रक्रम्येदमुक्कं तथापि युक्तिसाम्याद्यङ्लुङन्तेऽपि न दीर्घ इति लक्ष्यते । अत एव "एकाचो द्वे” (पा०सू०६ - १ - १) इति सूत्रे हरदत्तोऽपि यङन्ते दीर्घमा शङ्कयाह—“एकाच उपदेशे" (पा०सु०७-२ - १० ) इत्यतो दीर्घविधावेकाज्ग्रहणमनुवर्त्तते इति । न ह्यत्र पक्षे यङ्लुकि दीर्घस्योक्तिसम्भवोऽप्यस्ति । नन्वेवं "ग्रहोऽलिटि" (पा०सु०७-२-३७) इति सूत्रे " यङ्लोपे चोक्तम्" इति वार्तिकव्याख्यावसरे स्थानिवद्भावाद्विहितविशेषणाश्रय. णाद्वा यङन्ते दीर्घं परिहरन् कैयटी विरुध्येत यङ्लुगर्थे यथाश्रुतरूप - श्रयणस्यैकाज्ग्रहणानुवर्तनस्य वा आवश्यकतया तेनैव गतार्थत्वादिति चेत् ? न, " ग्रहोऽलिटि' (पा०सु०७-२-३७) इत्यत्रत्य कैयटग्रन्थस्योपायस्योपायान्तरादूषकत्वादिति न्यायेन यङन्ते उपायान्तराभिधानपरत्वात् । अत एव तत्र कैयट आह- "अन्यत्रास्य दोषस्य सम्यगुद्धृतत्वात् " इति । एवं हि वदन् तत्रत्यपरिहारस्याव्यापकतामेकाच्सुत्रकस्यैवावश्यादर्तव्यतां चाभिप्रैति । न च यथाश्रुतरूपपक्षे 'गृहीतम्' इत्याद्यसि द्धिः, अङ्गसंज्ञाप्रवृत्तिवेलायां यथाश्रुतरूपत्यव तत्र सत्त्वात् । ग्राहिता. दौ तु नैवम् । 'एकाचः' इति समाधानं तु णिज्भिन्नविषयकमेव । तस्मात् ।
२४२
यङ्लुगन्ताण्णिजन्ताच्च यङन्ताच्च ग्रहेरिटः ।
द्विधा त्रिधा चतुर्द्धा च दीर्घो नेति व्यवस्थितम् ॥ माधवग्रन्थस्तु विहितविशेषणपक्षस्य मुख्यतां पक्षान्तराणामभ्यु यतां व परिकल्प्य कथञ्चिन्नेय इति प्रतिभातीति दिक् ।
तस्य दोष इत्यादेरयमर्थः - तस्य " पूर्वत्रासिद्धेच" (भा० इ० ) इत्यस्व स्थलत्रये दोषः अतिप्रसक्तिः, तस्मात्तत्र स्थानिवद्भावस्य प्रविप्रसवः कर्त्तव्य इत्यर्थः । तेन 'वाक्यर्थे' 'वास्यर्थम्' इत्यत्र "स्कोः” (पा०सु०८-२-२६) इति लोपो न । निगार्यते, निगाल्यते । "आचे वि. भाषा” (पा०सु०८-२-२१) इति लत्वं सिद्ध्यति । तथा 'माषवपनी' इत्यत्र णत्वं न भवति, अल्लोपस्य स्थानिवत्वेन नकारस्य समासान्तत्वाभावात् । न चासत्यपि स्थानिवद्भावे ङीबेव समासान्तो न तु न.