________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् ।
कम् | लुक ईकारप्रश्लेषेण गतार्थत्वात्कुत्वस्य पूर्वत्रासिद्धीयत्वाच्चेत्यवधेयम् | "चजो " ( पा०सू०७-३-५३) इति कुत्वे वोदाहरणमन्वेः पणीयम् ।
२४१
पूर्वत्रासि च न स्थानिवत् । पापच्यतेः तिच्, पापांक्तः । यायज्यतेर्यायष्टिः । पाचयतेः पाक्तिः । याजयतेर्याष्टिः । इद्दाल्लोपणिलोपौ कुत्वषत्वयोर्न स्थानिवत् । एवं लेद्दयतेर्लेढिः । दोहयते दग्धिः । वेशयतेर्वेष्टिः । दाशयतेदांष्टिरित्याह्यम् ।
न्यायसिद्धं चेदम् "अचः परस्मिन् " ( पा०सू०१-१-५७) इत्यतिदेश प्रति त्रिपादीस्थस्यासिद्धतया तस्मिन् कर्त्तव्येऽतिदेशाप्राप्तेः । न चैवं स्थानिवत्सूत्रस्याप्यप्रवृत्तौ 'राम' इति विसर्गो न स्यादिति वाच्यम् “प्रत्ययः” “परश्च” ( पा०सू०३ - १ - १, २) इत्यादिनिर्देशैः “भो भगो अघो” (पा०सु०३ - १-२ ) इति सूत्रेऽश्ग्रहणेन च तत्प्रवृत्तेर्ज्ञापितत्वादित्यवधेयम् ।
एवं स्थिते द्विर्वचनसवर्णानुस्वारदीर्घजश्चरः सुत्रे न पाठ्याः । किं तु नपदान्तवरेयलोपस्वरेष्वित्येव पाठ्यमिति भाष्यवार्तिकयोः स्थितम् ।
स्यादेतत् । यदि दीर्घग्रहणं त्यज्यते तर्हि साप्तमिके दीर्घविधौ स्थानिवद्भावः प्रसज्येत । तथा च "चिण्णमुलोः” (पा०सु०६-४-१३) इति सूत्रे यङन्ताणिजन्ताद्वा णिचि ततश्चिणि 'अशंशामि' 'अशामि' इति यदुदाहियते तन्न सिद्ध्येत् । न च दीर्घग्रहणसामर्थ्यात्स्थानिवद्भा वबाधः, कमेर्णिङ्सुत्रे हरदचाद्युक्तरीत्या "चिण्णमुलोदीर्घ" (पा०सू० ६-४-९३) इत्यत्र कैयटायुक्तरीत्या च 'अहिडि' 'अहीडि' इत्येतत्सि या 'अहेड' इत्यस्य निवृत्त्या तस्य चरितार्थत्वात् ।
उच्यते । णित्वजात्यक्यं गृहीत्वा 'अशामि' इति सिद्धम् । 'अशं शामि' इति तु यङ्लुगन्ताण्णिचि भविष्यति । न हि यङ्यङ्लुकोः स्व. रेऽर्थे वा कश्चिद्विशेषोऽस्ति । येन यङ्येव साधयितुं क्लिश्येत । एव श्च 'ग्राहितम्' इत्याद्यपि सिद्धम्, पूर्वस्मादपि विधौ स्थानिवद्भावेन णिचा व्यवधाने सति " ग्रहो लिटि" (पा०सू०७-२-३७) इति दीर्घस्याप्रवृत्तेः । सुत्रमते तु विहितविशेषणाश्रयणाद् 'ग्राहितम्' इत्यादौन दीर्घः । अत एव यङन्तात्तृचि 'जरीगृहित" इत्यत्र न दीर्घः, स्थानि वद्भावात्, सूत्रमते विहितविशेषणाच्चेति स्थितम् । यङ्लुगन्तातु तृजादाविटो दीर्घो भवत्येवेति माधवः “द्विः प्रयोगो द्विर्वचनं षाष्ठम्” इति सिद्धान्तात् प्रदेर्विहितत्वानपायात् । यङ्लुकोऽनैमित्तिकतया.
शब्द. प्रथम 16.