________________
२४५
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् । भाग्ये एव । तस्मादिह लत्वग्रहणं कर्त्तव्यमेवेति स्थितम् ।
णत्वग्रहणं तु व्यर्थम् । तथाहि, 'माषवपनी' इति तावहिरङ्गपरिभाषयाऽपि सिद्धम् । न च 'प्रहिणोति' 'प्रमीणीते' इत्यादिसिद्धये तदिति वाच्यम् "अचः परस्मिन्" (पासू०१-१-५७) इति सूत्रस्य प्र. वृत्ति विनाप्येकदेशविकृतस्यानन्यतया "हिनुमाना' (पा०सु०८-४-१५) इत्यस्य प्रवृत्तिसम्भवात् । न च "हणान्ता षट्" (पा००१-१-२४) इति सूत्र वर्णितरीत्या 'प्रियाप्टनः' इत्यादिसिद्धये णत्वग्रहणमिति वा. च्यम् , कार्यकालपक्षे बहिरङ्गपरिभाषयैव तस्यापि सिद्धः । यथोद्देश. पक्षस्तु न ग्रहीयते प्रत्याख्येयेन णत्वेन सह फलसाम्यार्थम् । एतेन 'प्रियाप्टणः' इति णत्वाभ्युपगमपरः पदमञ्जरीग्रन्थोऽप्यपास्तः। बहि. रङ्कपरिभाषाया अनित्यत्वेपीह तदप्रवृत्ती प्रमाणामावात । तस्मादिह णत्वग्रहणं वृथेति स्थितम् । प्रत्युत णत्वे स्थानिवत्त्वाभ्युपगमे बाधकम. प्यस्ति । तथाहि-"अनितेरन्तः" (पा०सू०८-४-१९) इति सूत्रे "अन्तः" (पासू०८-४-२०) इति योगं विभज्य 'हे प्राण' इति रूपसिद्धये "पदान्त. स्य (पा०सु०८-४-३७) इति प्रतिषेधं बाधितुम् “अन्तः' (पासु०८४-२०) इति सूत्रण पदान्तस्यानितेर्णत्वं विधीयते इत्येका व्याख्या । अ. न्तशब्दं समर्मापपर्यायमाश्रित्य निमित्तसमीपस्थो योऽनितेनकारस्तस्य णत्वं, निमित्तसमीपस्थस्यानियों नकारस्तस्य णत्वमिति च योगवि. भागं विनापि व्याख्यानद्वयं भाज्ये स्थितम् । तत्र प्रथमपक्षे "प्राणिति" इत्यादावेकेनाऽऽकारेण व्यवधानेऽपि वचनसामथ्याण्णत्वं प्रवर्तते । द्वितीयपक्षे त्वेकादेशस्यादिवद्भावाद्रेफादव्यवहितस्यानितेः सम्भवाप्रवर्तते । 'पर्यनिति' इत्यत्र तु वर्णद्वयेनैकेन च व्यवायात्पक्षद्वयेऽपि णत्वं न प्रवर्तते इति स्पष्टमष्टमे । यदि चेह णत्वग्रहणं क्रियते तहि 'पर्यनिति' इतिवत् 'प्राणिति' इत्यत्रापि द्वयेन केन वा वर्णेन यथासम्भ. वं व्यवधानाण्णत्वं न स्यात् । न च वचनसामर्थ्यात्स्थानिवद्भावकृतं व्यवधानमाश्रयिष्यते 'वृत्रघ्नः' इति कुत्व इवेति वाच्यम् 'निरणिति' 'दुरणिति' इत्यत्र चरितार्थत्वात् । न चैवं “निर्दुरोरनितेः" इत्येव ब्र. यात , न तु "अनितेरन्तः" इति सामान्यलक्षणं प्रणयेदिति वाच्यम्, मावृत्तिमाश्रित्य 'हे प्राण्' इत्यत्र णत्वस्य प्रतिप्रसवार्थ निर्दुरोरित्यपे. झया 'अन्तः' इत्युक्तावक्षरलाघवानुरोधाच्च सामान्य लक्षणप्रणयमस: म्भवात् । तस्मादामिकभाष्यपालोचनेनेह णत्वग्रहणं न कर्तव्यमिति निर्णीयते । मत एष 'व्यूढोरस्केन' इत्यत्र गत्वं न । अन्यथा विसर्ग.. स्याट्त्वेन तदादेशस्य सस्य स्थानिवद्रावाण्णत्वं स्यावास पत्वप्रहः