________________
विधिशेषप्रकरणे विशेषणस्य तदन्तसंज्ञासूत्रम् । २८५ तिकाराः । "टाङसिङलाम्" (पा० सू० ७-१-२२) इत्यादिनिर्देशैष्टः कारो न पूर्वान्त इति निर्णयादिति भावः । नन्वेवमपि टकारान्तस्य सङ्घस्य टाटकारोऽन्त्यो भवत्येवेति चेत् ? न, व्यवसितान्त्यतावि. रहात् । इह हि अन्त्यत्वप्रयुक्ता यस्येत्संज्ञा तेन प्रत्याहार इति "सुड. नपुंसकस्य" (पासू० १-१-४३) इति सूत्रे हरदत्तः । न चैवं रप्रत्याहारासिद्धिः, लणसूत्रेऽनुनासिकप्रतिज्ञासामदिनन्त्येनापि प्रत्याः हारात् ।
इदं तु वक्तव्यम् । औटष्टित्वस्थानन्यार्थतया तेनैव सुट्प्रत्याहारः, प्रत्यासत्तेश्च । तथा चान्त्यग्रहणं मास्त्विति ।
अत्रेदं समाधानम्--मध्यमेनेता सहित आदिस्तदुत्तरेषामपि प्रा. हको मा भूत् ।
एवमन्त्येन सहितो मध्यमः पूर्वेषां संक्षा मा भूदित्यादिग्रहणम् ।
इतेति किम् ? रप्रत्याहारो यथा स्यात् । स हनन्त्येनाप्यनुनासि. कप्रतिज्ञासामाद्भवतीत्युक्तम् । न चैतदितेत्यस्य विरहे लभ्यते ।
नवीनास्तु सहाऽऽसमन्तादेतीति सहेता मध्यमो वर्णः । अन्त्ये. नादिः अणित्यादिसाको भवतीत्यर्थः । माद्यन्तसमभिव्याहाराच सहेता मध्यमो वर्णो लभ्यते । स्वं रूपमिति चानुवर्तते । वृद्धिगुणादि. संज्ञास्विवेहापि सामानाधिकरण्यासंझात्वावगतिः । अस्मिश्च व्या. ख्याने "हलन्त्यम्" (पा० सू० १-३-३) इत्यत्रेतरेतराश्रयशङ्काऽपि नास्तीत्याहुः । आद्यन्तावयवद्वारा समुदायानुकरणेन सिद्धेऽम्त्यव्या. वृत्तये इदम् ।
येन विधिस्तदन्तस्य (पा० सु०१-१-७२) ॥ विशेषणं तदन्तस्य संवा स्यात् स्वस्य च रूपस्य । "एरच" (पा० सू०३-३-५६) वयः, जयः, अयः। “ओरावश्यके" (पासू०३-१-१२५) अश्यलायम् । इह येनेति करणे तृतीया, न तु कर्तरि, कृयोगलक्षणषष्ठया बाधित. स्वात् । विधिरिति हि कर्मणि किप्रत्ययः। तेन कर्मणोऽभिहितत्वाद "उभयप्राप्तौ" (पा०९०२-३-६६) इति नियमस्य नायं विषयः । क. रणं च परतन्त्रं, कधिष्ठितस्यैव करणत्वात् । एचशेह तृतीयया पा. रतन लक्ष्यते "सुब् विभको न लक्षणा" इति नैयायिकोदोषस्त नि. मलः । न च प्रत्ययानुशासनवयथ्यांपत्तिस्तन्मूलम्, तिनवपि तस्य तुल्यत्वात् , 'रथो गच्छति' इत्यादौ व्यापारे लक्षणायास्त्व(१)यापि
(१) नैयायिकेनेत्यर्थः । स हि आस्यातस्य तौ शक्ति मग्यमानी। इनारमनि रथे कृतेरसस्वाद्यापारे लक्षणां वदति।