________________
૨૦૪
शब्द कौस्तुभप्रथमाध्यायप्रथमपादे नवमाह्निके
दपि प्राह्यः कश्चिद् ध्वनिरवश्याभ्युपेयः । तस्यैव कालभेदाद् वृत्तित्रै विध्यम् । वर्णास्तु वृत्तिभेदेऽप्येकरूपा एव ।
कैश्विद्वयक्तय एवास्य ध्वनित्वेन प्रकल्पिताः । ( वै० भू० का० ) इति पक्षे तु कालरूपोपाधिविशेषावच्छिन्नस्यैव व्यक्तित्वमिति
दिक् ।
उक्तं च भाष्ये-
ध्वनिः स्फोटश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते । अल्पो महांश्च केषांचिदुभयं तत्स्वभावतः ॥ इति ।
अस्यार्थः -- शब्दो द्विधा व्यञ्जको व्यङ्गयश्च । शब्दानां व्यङ्गानां व्य. अकत्वेन सम्बन्धी यो ध्वनिः स एव महानल्पश्च लक्ष्यते । तदुभयं व्यङ्गधं व्यञ्जकरूपं केषांचिदेव ताल्त्रादिव्यापारजन्यानामेव न तु भेर्यादिजन्यानामपि । कुतः ? स्वभावतः, कारणवैलक्षण्यात् । अत्रोभयमिति भावप्रधानो निर्देशः । उभयरूपतेत्यर्थः ।
आदिरन्त्येन सहेता ( पा० सू० १-१-७१ ) । अन्त्येनेता सहोचार्य - माण आदिवर्णो वर्णसङ्घातो वा मध्यगानां संज्ञा स्यादादेः स्वरूपस्य च । वर्णो यथा अल् । लङ्घातस्तु कृञ् । इह अभूततद्भावे "कृस्वस्ति" ( पा० सू० ५-४-५० ) इत्यतः "कृञो द्वितीय " ( पा० सू० ५-४-५८ ) इति ञकारेण प्रत्याहारः । आद्यन्तौ तावदवयवौ । तास्वामवयवी समुदाय आक्षिप्यते । तस्य च युगपल्लक्ष्ये प्रयोगाभावातदवयवेषु संज्ञाऽवतरन्ती मध्यगेषु विश्राम्यति न स्वाद्यन्तयोः, संज्ञास्वरूपान्तर्भावेण तयोः पारार्थ्यनिर्णयात् । अतः स्वरूपमित्यनु. वर्त्तते । स्वं रूपं चादेरेव गृह्यते, नान्त्यस्य, अप्राधान्यात् । अन्येनेति ह्यप्रधाने तृतीया । तेन 'दध्यत्र' इत्यादौ केवल एव यकारः प्रवर्तते न णकारसहित इति कैयटादयः ।
अत्रेदं वक्तव्यम् -“प्रत्याहारवाद्या वाचकास्तत्र ग्रहणकशास्त्रं सावकाशम्” इति ग्रहणकशास्त्रस्थभाग्यादिपर्यालोचनया बाचकत्वं ताषदाद्यवर्णे विश्रान्तम्, अन्त्यस्तु तात्पर्यग्राहकः । लहग्रहणान्तु वि. शिष्टाद्विभक्त्युत्पत्तिरिति द्योतकान्तरवैषम्यमिति स्थितम् । तत्रान्त्यस्येत्संशयाऽपत्हृतस्य कथं संशित्वप्रसतिः १ अन्यथाऽजादिसंज्ञाना. मपि णकारादावतिप्रसक्तेः क उद्धारः ? किञ्च अस्तु विशिष्टस्य यण्संज्ञा, तथापि 'दध्यत्र' इत्यत्र यण्यब्दापादनमसङ्गतमेव, न्यायसाम्येनेक्श ब्युस्यैष स्थानित्वप्रसक्तया इकारस्य स्थानित्वासम्भवात् ।
अन्येनेति किम् ? सुडिति तृतीयैकवचनावयवेन मा भूदिति पृ.