________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम्। २५३ न, “एरनेकाचः" (पा०स०६-४-८२) इति यह माव्यमिति प्रागपी. योऽप्रवृत्तेः “प्रकल्प्य च" इति न्यायात् । तस्माद् "द्विवंचनेऽचि" (पा०स० १-३-५९) इति सूत्रं विनाऽपि सर्वे सिद्धमिति ।
भाग्यकारास्तु सूत्रं समर्थयन्ते । तथाहि, विप्रतिषेधस्तावदयुक्तः, आलापादीनां नित्यत्वात् द्वित्वस्यानित्यत्वेनातुल्यबलत्वात् । किं च पूर्वविप्रनिषेधे सर्वत्र वचनस्यारम्भणीयत्वादिह तु सुतरां तथेतिक लाघवम् ? अपिच, क्रियमाणमपि वचनं यद्यन्तरङ्गाणामपि बाधकं तर्हि 'निनवनीयिषति' 'दिदवनीयिषति' इत्यादावयभ्यासे उकारः श्रयेत । अ. थानान्तरणत्वादवादेशः, वचनं तु नान्तरङ्गाणां बाधकं किन्तु नित्याना. मेति ब्रयाः, एवमपि 'चुनावयिषति' इत्यादौ वृद्धयावादेशयोः प्रवर्त. नादभ्यास इत्वं स्यात् । तथाच तद्वाधनाय उत्वं विधेयम् । तथाच त्वया इत्थं न्यासः कर्तव्यः "उत्परस्यान" (पासू०७-४-८८) "तिच" (पा० सु०७-४-८९) "ओदौदादेशस्य चुटुतुशरादेः' इति । अभ्यासस्यति वर्त्तते । ओदौतोरादेशो यस्मिन्नते तस्य योऽभ्यासचुटुतुशरादिस्त. स्य योऽकारस्तस्य उत्स्यादित्यर्थः । यथा-चुक्षायिषति, उडुडाव. यिषति, तुतावयिषति, ऊर्गुनावयिषति, शुशावयिषति, पुस्फारयिष. तीति । अत्र "चिस्फुरोर्णी" (पा०स०६-१-५४) इत्यात्वम् । यद्यपीह खयः शेष कृते शरादित्वं नास्ति तथाप्यभ्याससंशाप्रवृत्तिकालेऽस्त्ये. वेत्यवधेयम् । ओदौदादेशस्येति किम् ? "चाय पूजायां" (भ्वा० उ०९०५) चिचायिषति । "खद स्थैर्ये' (भ्वा०प०५०) चिखदिषति । चुटुतुशरादेः किम १ बिभावयिषति । अत इति किम् ? ऋजुम् अणुम् ऋतुम् अंशु चाख्यत् आर्जिजत्, आणिणत् , आर्चितत् , आंशिशत्' इत्यत्र परत्वाद् वृद्धौ सत्यां टिलोपे सणिच्कस्य द्वित्वे कृते मा भूत । अभ्यासस्येति किम् ? चुटुत्वित्यादि तहङ्गस्यातो वा विशेषणं स्यात् । उभयथापि दोषः-शीतं लुनाति शीतलुः सूर्यः, तमाख्यातुमिच्छति 'शिशीतल. यिषति' इत्यत्र तकारादुत्तरस्यात उत्प्रसङ्गात । नन्धेवमपि “औजढत्" "माकत" इत्यादावभ्यासेऽकारश्रवणार्थ यत्नान्तरमास्थयमेवेति गौर. वान्तरं वार्तिककारं प्रति कुतो नापादितमिति चेत् १ न, तरकार एवेष्ट इत्युक्तत्वात । सजातीयापेक्षं हि सिद्धान्तेऽपि सापकम् । अन्य. था 'अचिकीर्तत् इत्यत्राभ्यासेऽकारश्रवणापत्तेः । तस्माद्वातिककृता वचनद्वयमपि कर्तव्यं स्यादिति स्थितम् । तथा 'जग्लौ' इत्यादिसि. इये विप्रतिषेधवार्तिके वृद्धिरपि पाठ्या। तथा “ओः पुयणजि"(पा०सू० ७-४-८०) इति तृतीयमपि कर्त्तव्यमेव । 'पिपविषते' 'बियविषति' जि.