________________
२५२
शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमाह्निके
सति 'अङ्कयति' रूपं न स्यादिति वाच्यम् "सुचिसुत्रि" (का०वा० ) इत्या दिवार्त्तिके 'सोसुच्यते' 'सोसत्र्यते' इत्यादिभाष्योदाहरणेन पक्षेऽल्लोपस्याभ्युपगमात् । सूचित्र्यादयो ह्यदन्ताः । अत एवाने काचत्वेन षोपदेशत्वाभावान्न षत्वम् । बोपदेशलक्षणे काचत्वं विवक्षितमिति माधवीये स्पष्टम् । एतच संगादिपर्युदासात् ष्वष्कस्विदादि साहच - यत् 'सोसूच्यते' इत्यादिभाष्योदाहरणाच्च निर्णीयते' इति वक्ष्यते । एवं वाक्यशेषं समर्थयिष्यामहे । “प्रार्थनाध्यवसायैः” “सम्प्रश्नप्रार्थ. नेषु लिङ्" इत्यादिप्रयोगाश्वेह मानम् । तदेतत्सकलमभिसन्धायाद - न्वत्वसार्ध्यक्याय वाऽल्लोप इत्याहुः । उक्तश्च कामधेनौ
I
अग्लोपित्वं स्थानिवत्त्वं चादन्तत्वप्रयोजनम् । यत्र त्वेतेन विद्येते तत्राल्लोपविकल्पनम् ॥ इति ।
"
कथयत्याद्यभिप्रायेण पूर्वार्द्धम् अङ्कयस्याद्यभिप्रायं दूतरार्द्धमिति विवेकः । ननु 'आश्ञ्चकत्' इत्यत्र "दीर्घो लघोः" (पा०सू०७-४-९४) इति प्राप्ते'अनग्लोप" (पा०सु०ए०७-४-९३) इति निषेधेनाकारश्चरितार्थ इति चेत् ? न, चङ्परे णौ यदङ्ग तस्य योऽभ्यास इति सूत्रार्थव्यवस्थापनात् । इह त्वङ्गावयवस्याभ्यासो न त्वङ्गस्य । एतचोर्णुधातौ माधवप्रन्थे स्पष्ठम् । अत एव 'आटिटत्' इत्यादौ न दीर्घः । यत्तु दीर्घविधौ इलादिरिति विशेषणं कौमुद्यां दत्तं तनिर्मूलम् । 'और्जुनवत्' इत्यादेः सिद्धावपि "सम्बल्लघुनि ( पा०सू०७-४-९३) इत्यत्र चङ्परे इत्यङ्गस्य विशेषणं लघोर्वेति मतभेदेनेष्यमाणे 'अचिचकासत्' 'अचचकासत्' इति रूपद्वयेऽप्यतिप्रसक्तं च । दीर्घविधौ 'चङ्परे ' इत्यस्य लघुविशेषणतामाश्रित्यार्थसिद्धकथनं तदिति वा समाधेयम् । सिद्धान्ते तु माघघोकरीत्या ऊर्णावयतेरिव चकासयतेरपि दीर्घाभावः स्पष्ट एवेति दिक् ।
एतच्च सूत्रं वार्त्तिककारः प्रत्याचख्यौ । तथाहि, षष्ठे द्वित्वप्र करणान्ते विप्रतिषेधः पठ्यते - "द्विर्वचनं यणयवायावादेशाऽल्लो पो. पधालोपणिलोपकिकिनोरुत्वेभ्यः" इति । तथाच 'दध्यन्त्र' इत्यादौ सावकाशो यज्' 'चयनं'चायकः' 'लवनं 'लावकः' इत्यादौ चायवायाधः, 'गोद' 'कम्बलदः' इत्यादावाल्लोपः, 'लेष्मघ्नः' इत्यादावुपधालोपः, 'कारणा' 'हारणा' इत्यादौ जिलोपः, 'निपूर्चा' इत्यादावुत्वं चेत्येतानि नव 'बिभिदतुः' इत्यादी सावकाशेन द्वित्वेन पूर्वविप्रतिषेधाद्वाभ्यन्ते । तेन 'चक्रतुः' 'चिचाय' 'लुलाव' 'चिचयेिथ' 'हुलविथ' 'पपतुः' 'तस्थतुः' 'जग्मतुः, 'जघ्नतुः' 'मटिटत' 'ततुरिः, 'जगुरिः' इत्यादि सिद्धम् । बस्देवं 'निन्यतुः' इति न स्यात्, इयड इहापरिगणितत्वादिति चेत् ?