________________
२८२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहिके
अत एवैतत्सूत्रं भाज्यादौ द्वेधा व्याख्यातं विध्यर्थ नियमार्थ चेति । तथाहि, अणिति नानुवर्तते । तेनाऽऽकारादावनणि तत्कालानां सर्वणा नां गुणभेदेऽप्यनेन ग्रहणम् । “अतो भिस ऐम्” (पा०सू० ७-१-९) इत्यादौ तूभयप्रसङ्गे परत्वादस्यैव प्रवृत्तिः । ननु संज्ञानां बाध्यबाधक. भावो नेत्युक्तमिति चेत् ? सत्यम् , अविरोधे फलभेदे च भवत्येव स. मावशः । इह तु विरोध एवास्ति । अष्टादश ग्राह्याः, षद् प्राह्या इति हि विरुद्धम् , संख्याकृतव्यवहारस्य परस्परपरिहारेणैव दृष्टत्वात् । अत एव "छाद'" (पासू०६-४-९६) इति सूत्रे "अद्विप्रभृत्युपसर्ग स्य" इति वक्तव्यमिति वार्मिकं सङ्गच्छते इत्याहुः । वस्तुतस्तु नेह संज्ञासुत्रद्वये संख्योपात्ता, येन विरोधः स्यात् , किन्तु "अतो भिस" (पासू०७-१-९) इत्यादौ तपरकरणसामर्थ्याद्वाध्यबाधकभावोऽनु. मीयते इति तत्वम् । वस्तुतस्तु तकारविशिष्टयं संशा, न त्वण्मात्रम् । तत्कालस्येति तच्छन्दस्तु विशेष्यमानं परामृशति, न तु विशिष्टम् । तदुच्चारणकालसदृशे लक्षणा तु प्राचां मतेऽप्यस्त्येव । सर्वनामपदे पि "एतस्यैव वारवन्तीयं" "तत्वमसि' इत्यादी लक्षणायाः पूर्वोत्तर. तन्त्रयोः स्थितत्वात् । तथाच टिघुमाघन्तर्गताण्वदिह पदैकदेशत्वे. नानक्याबाहकताप्रसङ्ग एव नास्ति । विभक्त्युत्पत्तिरप्येवं सति सङ्गच्छते । वृद्धिसूत्रे "अत्राकारः प्रयोगस्थौकारैकारैरर्थवान्" इति हर दत्तप्रन्यस्तु प्राचां रीत्या नेतव्य इति निष्कर्षः । सोऽयं विध्यर्थतापक्षः । __यदा त्वणित्यनुवर्तते, नदा नियमार्थमिदं 'तपरोऽण तत्कालस्यैव' इति । गुणानामभेदकत्वादनणसु न कश्चिहोषः । अस्मिर्च पक्षे त. कालत्वग्रहणं शक्यमकत्तुम् , अण्ग्रहणान वृत्तिश्चानावश्यकी, तगरः स्वरूपस्यैवेति नियमेनापीष्टसिद्धः । "दिव औत" (पासू०७-१-८४) इत्यत्र तपरकरणं स्वरार्थ न तु कालावधारणार्थ, भाव्यमानतया सव.
ग्रहणाप्रसक्तेः । तथाच स्वरितः प्रयुज्यते-"द्यौः पितः पृथिवि मा. तर धुक्" इति । "पृथिवी उत द्यौः" इत्युदात्तप्रयोगस्तु घोशब्दस्य बोध्यः। "औत्" (पासू० ७-३-१२८) "अब धेः" (पा०सू०७-३११९) इत्यत्र तु मुखसुखार्थ तपरकरणं, व्याख्यानात । तेन “समिः धाने अग्नौ” इत्यादौ तित्स्वरो नेति वृत्तिकारहरदत्तादयः । यत्तु "न. विभक्ती तुस्माः" (पा०सू० १-३-४) इत्यत्र जयादित्यादिभिरुक्तम्"इटोऽत्' (पा.सु. ३-४-१०६) इत्यत्रायं निषेधो न भवति "इदम स्थमुः" (पा०सु०५-३-२४) इत्युकारानुबन्धकरणादनित्यत्वादस्थति। तदभ्युपगमवादमात्रम, तित्स्वरप्रसङ्गात् । न चेष्टापत्तिः 'भक्षीय तव.