________________
विधिशेषप्रकरणे सवर्णग्राहकसूत्रम् ।
च पदपर्यालोचनायामेव "लोपश्च बलवत्तरः" इति न्यायेनापहारादितरान्तर्भावेणैव संज्ञा प्रवर्त्तते इति सिद्धान्तः । इदं च "अलोऽन्त्यात्पूर्व उपधा" (पा०सु० १-१-६५) इति सूत्रे " तस्मिन्निति निर्दिष्टें" (पा०सू० १-१-६६ ) इत्यत्र च कैयटग्रन्थे स्पष्टम् । इट् अक इकोचीत्यादौ सानुबन्धाद्विभक्तिस्तु प्राथमिक बोधे विशिष्टस्य विषयतया तस्यैवार्थवत्वमादाय । अन्यो हि पश्चादुपतिष्ठते न तु प्रयुज्यते इति कथं ततो वि. भक्तिः क्रियताम् ? इत्संज्ञाकार्ये तु मनर्थक्यात्तदङ्गेष्विति न्यायेन प्र. त्याय्ये प्रवर्त्तते । विभक्त्यर्थान्वयोऽप्येवम् । दृष्टं हि ङमुडादावुपस्थापके कृतस्य लिङ्गस्य तद्बोध्ये फलप्रवर्त्तकत्वमिति दिक् ।
स्यादेतत् । उक्तरीत्या "उदोष्ठपपूर्वस्य" (पा०सु० ७-१-१०२ ) इति सूत्रे उच्छन्दे प्रवृत्ता इत्संज्ञा लक्ष्ये तित्स्वरं प्रवर्त्तयेदिति चेत् ? सत्यम, अत एवैतत्समाधानाय पूर्वाचार्यैः पराक्रान्तामिति गृहाण । कथं तर्हि 'एओङ्' सूत्रे तदूदूषणाय प्रवृत्तमिति चेत ? तत्कालावधारणेन कृतार्थस्य तकारस्यानुबन्धान्तरवैषम्यादिति गृहाण । अत एव 'वैयाकरणः' इत्यत्र ऐचश्चित्स्वरो न भवति । 'पचस्व' इति शपोऽप्येवम् । "न य्वाभ्याम्" (पा०सु० ७ - ३ - ३) इति सूत्रे 'अचः परस्य द्वे' इत्यत्र च ऐचोश्चकारस्य प्रत्याहारे उपक्षयात् । यद्वा, इञिशादिष्वपि माऽस्तु सुत्रान्तर्गतेष्वित्संज्ञा, किन्तु फलप्रत्यासत्तेः पदार्थेष्वेव साऽस्तु । नैते उपदिष्टा इति चेत् ? न ते फलभाज इति तु· ल्यम् । सामर्थ्यात्परंपरासम्बन्धे फलमिति चेत् ? संज्ञापि तत्रैवास्तु सामर्थ्यादिति तुल्यम् । उपदेशेऽन्त्यत्वं हि प्रायोगिकेष्वसम्भवात्तत्प्रत्याय कनिष्ठमानुपूर्वीसाजात्यादाश्रीयते । न चैतत्त परेष्वस्ति, प्रत्याय्ये तकाराभावादिति दिक् ।
२७९
प्रकृतमनुसरामः । माव्यमानोऽप्युकारादेशः सवर्णान् गृह्णाति "ऋत उत" (पा०सु० ६-१-१११) इति तपकरणालिङ्गात् । तेन 'अमुना' 'अम्' भ्याम्' इत्यत्र हस्वस्य ह्रस्वो दीर्घस्य दीर्घः सिद्धयति । न चैवं "सना शंस" (पा०सु० ३-२- १६८) इत्युप्रत्ययोऽपि सवर्णे गृह्णात्विति वाच्यम् आदेशविषयकं ज्ञापकमित्युक्तत्वात् । यद्वा, “अदसोऽसे: " ( पा०सु० ८-२-८०) इति सूत्रे एव उश्च ऊश्चेति समाहारद्वन्द्वोऽस्तु । अत एव सोलुका निर्देशः कृतः । अत एव च "ऊदुपधायाः " ( पा०सु० ६-४-८९) इति सूत्रे गोह इति विकृतनिर्देशं प्रत्याख्यातुं भाग्यकारैरूकारान्तरप्रश्लेष उकः ।
नन्वेवमपि "अकः सवर्णे ( पा०सू० ६-१-१०१) इत्यत्र अकासेऽष्टाद