________________
विधिशेषप्रकरणे तस्मादिति परिभाषासूत्रम् ।
२०५
तूतरस्य न वा पूर्वस्यापि व्यवहितस्येत्येतावन्मात्रमुच्यते । "माने मुक्” (पा०सु० ७-२-८२) इत्यादौ तु षष्ठया अश्रवणात्साऽपि प्रकल्प्यते इति विशेषः । सा चानियतयोगत्वात्स्थानषष्ठी । यस्य च स्थानषष्ठी तस्यैव कार्यनियम इति सोऽप्यर्थात्सियति । यत्र तुमबनिर्देशस्तत्रोः भयं तावन्न प्रकल्पकं कार्यित्वनिमित्तत्वयोरेकत्र युगपदसम्भवाज्याप काव्य । तथाच "एकः पूर्वपरयोः " (पा०सू०६-१-८४) इति सूत्रे कैयटः- “सूत्रद्वयप्रमाणत्वाद् द्वे भवेतां प्रकल्पिके षष्ठयौ विभक्ती । तेनार त्र ज्ञापनार्थत्वमाश्रितम्” इति । न च पर्यायेणोभय कल्पनम्, अतुल्यब लत्वात् । तथाहि, “आने मुक्" (पा०सू०७-२-८२) इत्यत्र सप्तमी निंरवकाशा । सा पूर्वत्र चरितार्थाया “अतो येय:" (पा०सू० ७-२०८०) इति पञ्चम्याः षष्ठीं कल्पयति । एवम् "ईदासः” (पा०सू०७-२-८३) इति पञ्चमी 'आने' इति सप्तम्याः । तथा तास्यनुदात्तेत्सूत्रे अभ्यस्त सिजर्थे 'सार्वधातुके' इति सप्तमी निर्देशं वक्ष्यति । सा च सप्तम्युचरत्र चरितार्थेति तस्या एव षष्ठी कल्प्यते । तथा "बहोर्लोपः" (पा०सू० ६-४-१०८) इत्यत्र बहोरिति पञ्चमी अकृतार्थाया 'इष्ठेमेयःसु' इति सप्तम्याः षष्ठीं कल्पयति । अत एव 'भू च बहोः' इति पृथक् षष्ठीनिर्दे शः । तथा "गोतो णित्" (पा०सु० ७-१-९०) इति पञ्चमी 'सर्वनाअस्थाने' इति सप्तम्याः षष्ठीं कल्पयति, गोशब्दस्य णित्त्वे प्रयोजनाभावाच्च । न च 'तिष्ठति गौः' इत्यादी पूर्वस्य वृद्धिः फलमिति वाच्यंम, गोशब्द प्रति तिष्ठतेरनङ्गत्वात् । एवं प्रायेण पञ्चम्या अकृतार्थतेति भा ध्ये स्पष्टम् । “आमि सर्वनाम्नः सुट् (पा०सु० ७-१-५२) इत्यत्रापि पञ्चम्यनवकाशा, आमीति सप्तमी तूत्तरार्थतया सावकाशा । यदि त्विह आदित्यनुवृत्तया पञ्चम्या सामानाधिकरण्यं सम्पाद्य सर्वनाम्न इति पञ्चम्यपि कृतार्थेति ब्रूयात्तर्हि यथोद्देशपक्षाश्रयणेन परत्वात् "तस्मादित्युचरस्य" (पा०सू० १-१-६७) इति भविष्यति । तदुक्तम्-उभयनिर्देशे विप्रतिषेधात्पञ्चमीनिर्देश इति । वस्तुतस्तु नेह सामानाधिकरण्यम्, 'वर्णाश्रमेतराणाम्' इत्यस्य सिद्धये सर्वनाम्नो विहितस्येति व्याख्यानात्, 'येषां तेषाम्' इत्याद्यर्थमकारात्परस्येति व्याख्यामांच । दीर्घाच्छे तुग् भवतीत्यत्र तु षष्ठश्वाः स्थाने पञ्चमी । तेन दीर्घः स्यैव तुग् भवति न तु छकारस्य । 'सुराच्छाया' इति निर्देशधेह लि. ङ्गम् । अन्यथा हि "खरि च" (पा०स्०८-४-५५) इति चर्चेन सुर.. बायेति चकारद्वयं निर्दिशेत् । प्रत्ययविधौ तु पञ्चम्यो न प्रकल्पिकार, षष्ट्या अनुवाद विभक्तित्वात् । अप्रसिद्धस्य चानुवादासम्भवात्