________________
शब्दकौस्तुभप्रथमाध्याय प्रथमपादेऽष्टमाह्निके
बतादवस्थ्यात्, लावस्थायां कित्वाभावेन तत्र सम्प्रसारणाप्रवृतेः । न च कित्त्वमपि प्रवर्त्ततामिति वाच्यम्, अन्तरङ्गैस्ति बादिभिर्बाधितत्वात् । किश्च "स्वापेश्वडिं" (पा०सू०६-१-१८) इति सम्प्रसारणे 'असुषुपत्' इती. म्यते । स्थानिवद्भावे तु सति "न सम्प्रसारणे" (पा०सु०६-१-३७) इति निषेधादभ्यासे उवर्णो न भूयेतेति दिक् ।
२५०
तन्त्रावृत्येकशेषाणामन्यतमाश्रयणादिह कालावधारणमपि क्रिय• ते । तथा च व्याख्यातम-द्वित्वे कर्त्तव्ये इति । तेन 'चक्रतुः' इत्यादावुत्तरदले पुनर्यथायथं यणादयो भवन्त्येव । अन्यथा प्रकृतिभाव एव स्यात् । 'निन्यतुः' इत्यत्र तु प्रथमप्रवृत्तस्यापीयडो द्वित्वकालेऽपहारात्पुनः प्राप्तोऽव्ययम् " एरनेकाचः" ( पा०सु०६-४-८२ ) इति यणा बाध्यते । यद्वा, पूर्वमपीयङ् न प्रवर्तते "प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिविशते" इति न्यायात् । यद्वा, आमीयत्वेमेयङोऽसिद्ध· स्वाद् यण् भविष्यति ।
स्यादेतत् । स्थानिवद्ग्रहणं निवर्त्य नत्रं चानुवर्त्य द्वित्वनिमित्तेऽचि अच आदेशो न स्याद् द्वित्वे कार्ये इत्येष व्याख्यायताम् । एवं हि सति स्थानिवदिति शब्दाधिकारक्लेशोऽपि न भवतीति ? सत्यम्, अस्मिन्नपि पक्षे नमः स्वरितत्वं प्रतिज्ञातव्यम् । स्थानिषच्छब्दस्य तु क्लृप्तमेव तदिति लाघवम् । अस्तु वा व्याख्यानद्वयमपि फले विशेषाभावादिति दिक् ।
नन्वेवमपि "णौ स्थानिवद्वचनं कर्त्तव्यम् 'नुनावयिषति' 'चुझावयिषति' 'तुष्टावबिषति' इत्याद्यर्थम् । अत्राहुः - मोः पुर्याण्जिषु वचनं ज्ञापकं णौ स्थानिवद्भावस्येति । अस्यार्थः – यीतेः पूङश्च "सनीवन्त " (पा०सू०७-२-४९) इति "स्मि पूज्वशाम्" (पा०स्०७-२-७४) इति सूत्राभ्यामिटि कृते 'यियविषति' 'पिपविषते' इत्यत्र 'द्विर्वचनेऽचि " ( पा०१-१-५९) इति स्थानिवद्भावाद्यकारपकारयोरवर्णपरयोः परतो यद्यप्यभ्यासे उकारो लभ्यते । तस्य चकारादेशविधानेन ओः पुयणसूत्रे पकारयकारग्रहणं चरितार्थम् । तथाऽपि वर्गग्रहणं प्रत्याहारग्रहणं जनहणं च ज्ञापकं द्वित्वनिमित्तस्याचो णिचा व्यवधानेऽपि स्थानिवद्भावः प्रवर्धते इति । तं विना अवर्णपरेषु पुर्याण्जिषु परेषु उवर्णान्तस्याभ्यास. स्य दुर्लभत्वात् । येन नाव्यवधानाच्च णिचैवैकेन द्वित्वनिमित्तस्याचो व्यवधानमाधीयते । तेन 'मिनवनायिषति' इत्यादौ न स्थानिवत् ल्युट्· क्वज्भ्यां व्यवधानात् । एवं णिजन्ताल्ल्युट्क्यच्सन्स्वपि न स्थानिवत्, 'मिनावनीभिषति' इत्यादि । न हि जौ कृतं स्थानिवदिति वचनमस्ति