________________
विधिशेषप्रकरणे उपघासंज्ञासूत्रम् ।
२७१ देतत् ।"नानर्थकेऽलोन्त्यविधिरनभ्यासविकारेषु"(प०भा०१२५)इति नि. षेधः प्राप्नोति । इह च 'बिभर्ति' इत्यत्र "भृञामित्" (पासू०७-४-७६) अन्त्यस्य यथा स्यादित्येतदर्थमनभ्यासविकारेग्वित्युक्तम् । विकारो ना. म वर्णात्मक आदेशः । अत एव 'देहि' इत्यत्र लोपः सर्वादेश एव भवतीति । अत्रोच्यते । न तावदेषा परिभाषा सूत्रकृतः सम्मता "तस्य लो. पर" (पा०स०१-३-९) इति सूत्रे मिटुडूनां सर्वलोपार्थ तस्य ग्रहणात् । नापि भाज्यकारस्य सम्मता । एतत्प्रयोजनानामन्यथोपपत्तेर्भाग्ये उक्त. स्वात् । तथाहि, "अव्यक्तानुकरणस्य" (पासु०६-१-९८) इति तावदन्तादेशो न भवति "नानेडिनस्यान्त्यस्य तु वा"(पा०सु०६-१-९९) इति बापकात् । इतरथा ह्याडितस्य वेत्येव ब्रूयात् । “यसोरेद्धौ" (पा०स० ६-४-११९) इत्यत्रापि "लोपो यि" (पा०सू०६-४-१९८) इति प्रकृते पुनलोपग्रहणसामात्सर्वादेशः । तथा चेत्थं सुत्रन्यासः-"घोरभ्यासस्य लोपः" लोपशब्दान्तरस्यानुवृत्या सर्वलोपः स्यात । “अस्तेश्चैत्" अ. स्ते?श्चैद्भवति हाविति । अथवा, लोपश् इतिच्छेदः संज्ञायां कृतोऽनु. बन्धः संशिनि फलति, यथा ङमुटि । भाप्ये तु द्विशकारको निर्देश इत्यु. कम् । तत्र लोपे इति भिन्नं पदम् । श् इत्यस्य चोपदेश एवेत्संक्षा। तत्फलं तु प्रयोगे, सर्वत्रानुबन्धानां काकादिवदनवयवीभूयैव व्यावत: कत्वादिति भावः । अस्मिन्नपि पक्षे झलि परे यः संयोगस्तदादित्वात्सो. लौंपे एकशकारक एव पाठः सुवचः । स्पष्टार्थम् "अन उपधालोपिन', (पासू०४-१-२८) इत्यादावकारस्येवेहापि सकारस्य लोपो माऽस्त्वि. ति तु भाष्याशयः । 'आभ्याम्' इत्यादौ "हलि लोपः" (पासू०७-२११३) इति सूत्रेणाककारस्येदम इदो विधीयमानो लोपोऽपि तहन्त्यिस्य स्यादिति चेत? न, "अनायकः" (पासू०७-२-११२) इति सुत्रादनित्यनुवयं तस्य हलीति सप्तम्या षष्ठी प्रकल्प्य अन एव लोपविधानात् । तथाच तत्रालोन्त्यपरिभाषया नकारलोपे "अतो गुणे" (पासू०६-१९७) इति पररूपे च कुने भ्याम् एषाम्' इत्यादि सिद्धम् । “अत्र लो. पोऽभ्यासस्य' (पा०सू०७-६८) इति सूत्रेऽपि अत्राभ्यासत्वाश्रये न तु तदेकदेशे इति व्याख्यानादत्रग्रहणसामर्यात्सर्वलोपः । यद्यपि 'सनि' इत्यपेक्षितं ददौ, वधौ' इत्या, वारणाय, 'सादौ' इति च 'जिज्ञपयिष. ति' इत्येतद्वारणाय, प्रकृतयोशप 'पिपक्षति' इत्यादिवारणाय, विषयो. ऽप्यपेक्षितः “मुचोऽकर्मकस्य गुणो वा" (पा०सू०७-४-५७) इति 'मुम. क्षति गाम्' इत्यादिवारणाय, तथापीदं सर्वमनुवृत्यैव सुलभमिति सर्व. लोपार्थमेवानग्रहणं बोध्यम् । नन्वेवमपि “विभाषा भवद्भगवदघवतामो.