________________
विधिशेषप्रकरणे विशेषणस्य तदन्तसंज्ञासूत्रम् ।
२९३
"अधर्माच्च" ( का० वा० ) इत्येतन्न वक्तव्यम् ।
पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च प्रयोजनम् । इष्टकेबीकामाला नाञ्चिततूलभारिषु" ( पा० सू० ६-३-६५ ) इष्टकचितम्, पक्केष्टकचितम् । इषीकतूलेन, मुञ्जेषीकतुलेन । मालभारी, उत्पलमालभारी । इहोत्तरपदाधिकरे प्रयोजनस्योदाहरणात्पदाङ्गेति पदशब्द उत्तरपदपर इति कैयटादयः ।
अत एव 'परममहत्परिमाणम्' इत्यत्र परममहतो द्रव्यस्य परि० माणमिति षष्ठीतत्पुरुषः । सामानाधिकरण्ये हि "आन्महत ः " ( पा० सु ६-३-४६ ) इत्यात्वं स्यादित्युदयनाचार्या व्याचख्युः । यत्तु तत्र वर्द्धमानेनोक्तम् - "पदाङ्गाधिकारे" इत्यत्र केवलपदाधिकारो गृह्यते न तूत्तर. पदाधिकारः । अन्यथा “इष्टकेषीकामालानाम्" ( पा० सू० ६-३-६५ ) इत्यत्र पुनस्तदन्तविध्युपसंख्यानं व्यर्थ स्यात् । तथाच 'परममहत्परिमा· णमित्यत्र कर्मधारयपक्षेण्यात्वप्रसक्तिर्नास्त्येवेति तदेतदनवहिताभिधानम्, “इष्टकेषीक” (पा० सू० ६-३-६५) इत्यस्य प्रयोजनत्वेनोदाहरणात्, उपसंख्यानान्तरस्य गगनकुसुमायमानत्वात्" । तस्मादाचार्यो. क्तमेव सम्यक् । एतेन " सततनैशतमोवृतमन्यतः " ( कि० ५-२ ) इति भारविप्रयोगे "ओजः सहोम्भस्तमसस्तृतीयायाः " (पा० सू० ६-३-३) इत्यलुक् कुतो नेत्याशङ्क्य वर्धमानोकरीत्योत्तरपदाधिकारे तदुत्तरपदग्रहणं नास्तीति दुर्घटवृत्तिकारोोकरव्यपास्ता । यदपि " ओजः सह " (पा० सू० ६-३-३) इति सूत्रे हरदत्तेने कम्-ओजः प्रभृतीनामुत्तरपदाक्षिप्तं पूर्वपदं प्रति विशेष्यत्वादिति तदपि वार्तिकविरोधातुपेक्ष्यम्, विशेष्यविशेषणभावनिर्णयायै वे हत्यवार्तिकानां प्रवृत्तिरिति कैयटवदेव स्वयमपि व्याख्यातत्वात् । भारविप्रयोगस्त्वित्थं समाधेयः । वृत्तं वृत्तिः नैशतमसो वृतमिति षष्ठीतत्पुरुषः । नपुंसके भावे कस्य योगे शेषत्व• विवक्षायां षष्ठी । ततः सततं नैशतमसो वृतं यस्मिन्निति बहुव्रीहिः । यद्वा, "वृतु वर्तने" ( वा० आ० ७५६ ) घञर्थे कविधानमिति भावे कः । सततं नैशतमसो वृतं वृत्तिर्यस्मिन्निति प्राग्वत् ।
अङ्गाधिकारे प्रयोजनान्याह - प्रयोजनं महदप्स्वसृनप्तृणां दीर्घविधौ । महान्, परममहान् । आपस्तिष्ठन्ति, स्वापः । "न पूजनात् " ( पा० सू० ५-४-१९) इति समासान्तनिषेधः । नन्वेवमपि "द्वधन्वरुपसर्गे. भ्योऽपईत्" (पा० सु० ६-३-४७) इतीकारः प्राप्नोति । न ह्ययं समासान्तः येन “ऋक्पः” ( पा० सू० ५-४-७४ ) इत्यप्रत्ययइव निषिध्येत इति चेत् ? सत्यम्, "द्वधन्तरुपसर्गेभ्य" ( पा०सु० ६-३-९७ ) इत्यत्राप