________________
१२४ शब्दकौस्तुभप्रथमाध्यायप्रथमपादपञ्चमाहिकेवर्ण्यप्रसक्तिरेव नास्तीति सूत्रप्रत्याख्यानात्सकलमनाविलम् ॥ इति शब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमे पादे चतुर्थमान्हिकम् ॥४॥
ईदूदेद् द्विवचनं प्रगृह्यम् (पा०सू०१-१-११) ईदूदेदन्तं द्विवचनं प्र. गृह्यसंझं स्यात् । 'हरी एतौ' 'विष्णू इमौ' 'गङ्गे अमू' । "तपरकरणमसन्देहार्थम्' इति वृत्तिकाराः। अन्यथा हि यणादशे कृते हस्वस्यायं निर्देश इत्यपि सम्भाव्येत । ततश्च 'अकुर्वत्र' इत्यादावतिप्रसङ्गः स्या दिति भावः । भाष्ये तु व्यक्तिः पदार्थो, भेदकाश्च गुणा इति पक्षमाश्रि. त्य गुणान्तरयुक्तानां दीर्घाणां सङ्ग्रहार्थ तपरकरणमित्युक्तम् । इदच 'इ' इति प्रथमतकारस्यैव फलमित्यवधेयम् , तावतैव ऊकारेऽपि सिद्धेः; तात्पर इति पञ्चमीसमासपक्षस्यापि स्थितत्वात् । एकारस्य त्वत्वादे. घाणुदित्सूत्रेण सवर्णग्राहकतासिद्धेः । ईदूतोः परमनणवाद् गुणान्तर. युक्तसङ्ग्रहाय युक्तो यत्नः। तस्माद्भाध्यमतेऽपि ऊदेतोस्तपरकरणमसन्देहार्थमेव गुणानामभेदकत्वे त्वीदित्यपि तथेत्यभिप्रेत्यैकरूप्यं वृत्तिद्भिरु. कम् । इह "तपरः" (पा०प्नु०-१-१-७०) इति सूत्रे पञ्चमीसमासोमा. ऽस्वित्यभिप्रेत्य अदिति, तथाऽतपर एवैकारो निर्दिष्ट इत्यपि सुवचम् ।
स्यादेतत् , असन्देहायापि क्रियमाणं तपरत्वं प्लुतं व्यावन्यदेव 'घटायोन्मीलितं चक्षुः पटं न हि न पश्यति' इति न्यायात् । अथायं द. कार: "ऋदोरम्” (पासू०३-३-५७) इतिवदिति चेत् ? एवमप्येकारो गृहातु प्लुतम् , अण्त्वात् ; न त्वीदूतौ वाक्यापरिसमाप्तिन्यायेनानप्रत्वात् । जातिपरो निर्देश इति चेत् १ तर्हि ह्रस्वेऽप्यतिप्रसक्तिः । दीर्घ. व्यक्तिरपि विशेषणीभूता विवक्षितेति चेत् ? कथं तर्हि प्लुतसङ्कहः ? न च प्लुतव्यावृत्तिरिष्टैवेति वाच्यम् 'अग्नी ३ इति' इत्यत्र "अप्लुतव. दुपस्थिते" (पा०सु०-६-१-२९) इति सूत्रेण प्लुनत्वप्रयुक्त प्रकृतिभावे निषिद्धेऽपि प्रगृह्यत्वप्रयुक्तस्य तस्येष्यमाणत्वात् । "अप्लुतवत्" (पासू० ६-१-१२९) इत्यस्य तु'देवदत्तेति' इत्यादौ चरितार्थत्वाद्वैयर्थं न शक्यम् । तथा च षष्ठि वार्तिकम्-"वद्वचनं प्लुतकार्यप्रतिषेधार्थ प्लुतप्रतिषेधे हि प्रगृह्यप्लुतप्रतिषेधप्रसङ्गोऽन्येन विहितत्वात्" इति । अत्राह भाग्य. कार:-"यथोद्देशं संशापरिभाषम" (पा०भा०२)इत्याश्रयणात् प्रगृह्यसंहां प्रति प्लुतोऽसिद्धः । तथाच द्विमात्रत्वबुद्धरप्रतिघातात् सिद्धा संक्षा । कार्यकालपक्षे परं प्रगृह्यसंक्षाया अपि "अणोऽप्रगृह्यस्य" (पा० ९०८-४-५७) इत्येतद्देशतया तां प्रति प्लुतस्य सिदत्वेनाऽनुनासिकः प्रवतेवेति स्यादेव दोषः । एतेन 'अग्नी ३ इति' इत्यादौ प्रतिभावो