________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् ।
निर्देश एव च वार्त्तिकोत्तार्थे ज्ञापको बोध्यः । अथवा अस्तु वृतिकारोक्त एव “संयोगान्तस्य लोपः " ( पा०सु०८-२-२३) इति सूत्रस्यार्थः । अन्तग्रहणन्तु प्रत्येकं संयोगसंज्ञेति पक्षे संयोगावन्तौ यस्येति द्वित्वादगतयेऽस्तु, संयोगसंज्ञासूत्रे भाग्य कैटयोस्तथैवाभिधानात् । प्रकृते तु माऽस्तु संयोगान्तलोपः । किन्तु द्वयोः सकारयो रुत्वे कृते "अतो रोः" ( पा०सु०६-१-११३) इत्यनेन एक एवोकारो भविष्यति विधेयविशेषणस्यैकत्वस्य पत्रकत्ववद्विवक्षितत्वात्, रोरिति जातिपर निर्देशेनातः परत्वस्य पूर्वत्वस्य च सम्भवात । जातिपरत्वे प्रकृतिनिर्देश एव प्रमाणमस्तु । न च परत्वादू "हशि च " ( पा०सू०६-१-११४) इति प्रथमस्यैवरोरुः स्यादिति वाच्यम्, रुत्वस्यासिद्धतया हरपरत्वाभावात् । न चाश्रयात्सिद्धत्वमिति वाच्यम्, स्थान्यंशे तथात्वेऽपि निमित्तीभूत. हशंशे तदसम्भवात् । एष एव च द्विसकारकानर्देशं वदतो भाष्यकारस्याशयः । न तु संयोगान्तलोप इति । अत एव " नुदविद" (पा०स्० ८-२-५४) इति सूत्रे "शुषः कः" (पा०सू०८-२-५१) इत्यादि बहुयोगविच्छिन्नस्य नकारस्य कथमनुवृत्तिरित्याशङ्कय " अन्यतरस्यामध्याख्या" ( पा०सु०८-२-५७) इति संहितापाठेन नकारान्तरप्रश्लेष इत्युकं भाष्ये । "हलो यमाम्" ( पा०सू०८-४-६४ ) इति लोप इति हि तस्याशयः । पूर्वोकरीस्था तु संयोगान्तलोपेनैव सिद्धौ संहितापाठपर्यन्तं नोपन्यस्येत् | संहितायामपि हि "हलो यमाम्" (पा०सू०८ - ४-६४ ) इति लोपस्य बहिरङ्गत्वत्रिपादस्थित्वाभ्यामसिद्धत्वात्संयोगान्तलोपेनेव भाग्य | "संयोगान्त लोपे यणः प्रतिषेधः " न वा झलो लोपाद्वहिरङ्गलक्षणत्वाद्वा" इति वार्त्तिकोतपक्षत्रये प्रथमचरमयोस्तस्य दुर्बारस्वात् । तस्मात्समुदाये प्रत्येकं वा संयोगसंक्षेति पक्षद्वयानुरोधेनेह समाधानद्वयं व्यवस्थितमिति भाष्यार्थः । पूर्वोक्तरत्या सिचस् इति समाहारमाश्रित्य तदुपरि स् इतिच्छेद इति पक्षे त्वस्तिग्रहणप्रत्याख्यानपरतयाऽपीदं भाष्यं योजयितुं शक्यमिति दिक् । एतेन "संयो ग्रान्तस्य लोपः " ( पा०स्०८ - २ - २३) इति मुत्रेऽन्तग्रहणं शक्यमकर्तुमि • ति पदमञ्जरी प्रत्युक्ता, पक्षद्वयेऽपि प्रयोजनस्योकत्वात् । विद्यमानं यत्सिचस् इति पक्षे वा योज्या । वस्तुतस्तु झल इतिवत् सस्येत्यपकभ्यते तस्सामर्थ्यात् संयोगान्तस्य पदत्वाभावेऽपि लोप इत्यलम् ।
यस्तु सिचः परस्वादीटि प्राप्ते "महिभुवोरीप्रतिषेधः" इति वा चिकबलानिषेध इति कैश्चिदुकम् । तन, "तस्य दोषः" इत्युपक्रमास्स्थानिवद्भावप्रतिषेधा परेणोक्तवार्थिकेनास्तेः परत्वमुपजीव्य प्रहसस्पे