________________
विधिशेषप्रकरणे विभाषासशाप्रकरणम् । १८५ (पासू०१-२-३) इत्यत्र प्रवर्तेत । "प्रतिषेधाश्च बलीयांसो भवन्ति" इति 'औdवीत्' इत्यत्रापि "सार्वधातुकमपितं" (पासू०१-२-४)। इत्यस्य निषेधस्ततो विकल्पश्च स्यात । नन्वारभ्यमाणे सूत्रे नवेत्यख. ण्डनिपातस्यार्थों निषेध एव सञीति किं न स्यादिति चेत् ? न, तथा सति "न बहुवीहो" (पा सु०१-१-२९) इत्यनेनैव सिद्धौ "विभाषा दिक्समासे” (पासू०१-१-२८) इत्यस्य पैयापत्तेः । इतीति किम् ? घुसंशावत् "स्वरूपम्" (पासु०१-१-६८) इति वचना. च्छब्दस्य सझा मा भूत । तथाहि सति "विभाषा श्वः” (पा०सु० ६-१-३०) इत्यस्य नवाशब्दः श्वयतेरादेश इत्यर्थः स्यात् । इतिशब्दे तु सत्यर्थः सञ्जीति लभ्यते । तथाहि, लोके हर्थप्रधानः शब्दः गौरित्ययमाह' इत्यादौ तु शब्दस्वरूपपरः सम्पद्यते । व्याकरणे तु "स्वरूपम्" (पा०स०१-१-६८) इति परिभाषणात् स्वरूपपरत्वमौत्स. निकम् । इतिशब्दसमभिव्याहारे त्वर्थपरतेति विशेषः । अर्थस्यैव सज्ञात्वमपि, न तु विभाषाशब्दस्येत्युक्तम् । तेन "हक्रोरन्यतरस्याम्" (पा०सु०१-४-५३) इत्यादावपि वैरूप्योद्धारो बोध्यः ।
एतत्प्रसङ्गेन त्रिविधा अपि विभाषाः प्रायेण भाष्ये विवेचिताः। तत्राप्राप्तविभाषामध्ये "प्रोयङि' (पासू०८-२-२०) "अचिविभाषा" (पासू०८-१-२१) इति पठितम् । अत्र बदन्ति-अप्राप्तविभाषेयमिति सत्यं, किन्तु त्रिसंशया इत्युपक्रम्य प्राप्तेऽप्राप्ते उभयत्र वेत्येवंरूपकोटि. प्रयप्रकारकसंशयविषयीभूतानामेव व्युत्पाद्यमानत्वादत्रापि कोटित्रय. यस्योक्तिसम्भवो वक्तव्यः । स च दुर्वचः । तथाहि, 'निजेगिल्यते' इत्यत्र "ग्रो यडि" (पासू०८-२-२०) इति नित्यं लत्वं विभाषायास्तु तत्र प्राप्तिरेव नास्ति । 'गिलति' 'गिरति' इत्यादौ तु विभाषा, "प्रो यङि" (पासू०८-२-२०) इत्यस्य तु प्राप्तिरेव नास्ति । तत् कुतः प्रा. तविमाषापक्षः ? अथोच्येत-"अचि विभाषा" (पासू०८-२-२१) इत्य. त्रयीत्यनुवर्त्य यनिमित्तस्य रेफस्याचि अनन्तरे वा लत्वमिति व्याख्यानादस्त्येवोक्तिसम्भव इति । तन, निजेगिर् य अच् इति स्थि. ते हि "ग्रो यङि" (पा०सू०८-२-२०) इति प्राप्नोति । न चास्यामव. स्थायां विभाषायाः प्राप्तिः, अच्परत्वाभावात् अथ ब्रूयाः विभाषार. म्भसामर्थ्याद्यङ्लुकः पूर्व "ग्रो यडि" (पासू०८-२-२०) इति न भवतीति, एवमप्युभयत्रविभाषात्वं दुर्लभमेव । 'गिलति' 'गिरति' इत्यादौ विभाषायाश्चरितार्थत्वेन यङलुकः प्रागेव "ग्रो यङि" (पा०सू०८-२-२०) इत्यस्य प्रवृत्तेरुभयोरसमानकालिकत्वात् । न च लत्वस्यासिनतया