________________
विधिशेषप्रकरणे इक्परिभाषासूत्रम् । स्थानं न भविष्यति । यदि हि स्यात्तर्हि "अचश्च" [पासू०१-२-२८] इत्यत्र संशया विधानेऽतियताश्रयणं व्यर्थ स्यादिति चेत् ? न, "दिव उत्" [पासू०६-१-१३१] इत्यादिग्वगुणवृद्धिसंझकेवपरिभाषानि. वर्तनेन चरितार्थत्वात "अष्टन मा विभक्तो" [पासू०७-२-८४] इत्या. दाविकोऽसम्भवेन तत्र चरितार्थत्वाच । तस्मात् 'चौः' 'पन्थाः' 'इमम्' इत्यादिसिद्धये इहापि संझाविधाने नियमं संपादयितुं पुनर्गुणवृद्धिग्रहः णमिति प्राचः । ननु 'पन्थाः' इत्यनुदाहरणम् "इतोऽत्'' [पासु०७१-८६] इति सिद्धे आद्विधिसामर्थ्यादेवेपदस्यानुपस्थितेरिति चेत् ? न, ऋभुक्षिकारोकारयोरथै आद्विधिसम्भवात् । न चेकः सोचानन्तयविवक्षणायननाव्यवधानाश्रयणाच नैवमिति वाच्यम् , तथापि स. म्बुयर्थतया सामोपक्षयात् । न चैवम् 'इत आत्' इत्येव यादिति वाच्यम् , ऋभुक्षणमिन्द्रमित्यस्यासिखापत्तेः। आद्विधौ हि "वा षपूर्व स्य" [पा०स०६-४-९] इति तत्सिद्धिरिति दिक् ।
यत्तु भाष्ये 'सः' 'इमम्' इत्युदाहृतं, तत्र "स इमं मन्त्रमपश्यत" इति ब्राह्मणवाक्यैकदेशानुकरणमात्रम् । उदाहरणं तु 'इमम्' इत्येव न तु 'सः' इत्यपि, तच्छद्वे इकोऽसम्भवेन "इकः" [पासू०१-१-३] इति नियमस्याप्रवृत्तेरित्याहुः । . वस्तुतस्तु स इत्यप्युदाहरणं साध्वेव । “त्यदादीनामः" [पासू०७२१-२] इति विधिवाक्यम । तत्र चेक इत्यस्योपस्थिती द्वीदमोरवात्वं स्थान त्वन्येषाम् । गणेन निर्देशस्तु संशोपसर्जनव्यावृत्यर्थमुत्तरार्थ च स्यात् । “तदोः सः सौ" [पासू०७-२-१०६] इति सत्वं हि त्यदादी. नामेव तदोर्विधीयते।
अत्रेदमवधेयम , शब्दव्यापाराश्रयणानुरोधेनापि गुणवृद्धिग्रहणं मास्तु, इकस्तावित्येतावतैव सिद्धः। वस्तुतस्तु तावित्यपि व्यर्थम । इक इत्येव सूज्यताम् । सम्पूर्ण पूर्वसूत्रद्वयमनुवर्त्य वृद्धिरित्यादैचौ यत्र वि. धीयेते, गुण इति चादेडौ, तत्रेक इत्युपतिष्ठते इति व्याख्यानात् । व्या. ख्याने लिङ्गं तु "इतोऽत" [पासू०७-१-८६] इतीब्रहणम् । अन्यथा तत्रापीकपदोपस्थितावुक्तरीत्या येननाव्यवधानन्यायाकारोकारख्या. तौ च सत्यां किं तेनेति । तदेतद् "इग्ग्रहणं किमर्थम" इति भाग्येण "इग्ग्रहणमात्सन्ध्यक्षर" इत्यादिवार्तिकेन च सुच्यते। अन्यथा हि सूत्रं किमर्थमित्यायेव ब्रूयात । यतूत्तरार्थ गुणवृद्धिग्रहणं कर्त्तव्यमेवेत्याशये. नेग्ग्रहणमित्युक्तमिति भाष्याभिप्रायवर्णनम् , तन्न, पूर्वसूत्रानुवृत्यैव सि. खावृत्तरार्थत्वस्यापि दुरुपपादत्वात् , समुदायापेक्षायां मण्डूकप्लुतेः