________________
१७६ शब्दकौस्तुमप्रथमाध्यायप्रथमपादषष्ठाहिकेस्येके । सामीत्यर्दजुगुप्सितयोः ।
पते घस्प्रभृतयः साम्यन्ता द्वाविंशतिरन्तोदाचा इति काशिका । "दिवा चित्तम कृण्वन्ति," "वृथा सृजत्यर्थिभिः"। "नक्तं दहशे कुह चिद्देवेषु' इत्यादौ तु आद्युदात्ताः प्रयुज्यन्ते।
पत्। पत्प्रत्ययान्तमव्ययसंझं स्यात् । ब्राह्मणवत् "तेन तुल्यम्" (पा०स०५-१-११५) इत्यादिभिर्विहितो पतिरिह गृह्यते न तु "उपसर्गा. द्धात्वर्थे" इति विहितः, सस्वार्थकत्वात् । यदुद्वतोनिवतो यासि वप्सदः
सनेति नित्ये । सना तात इन्द्रः, सनातनः। सनत् । इदमपि नित्ये । सनत्कुमारः। तिरसित्यन्तझै तिर्यगर्थे च । तिरोहितः। तिरस्काष्ठं कुरु। परिभूते तु लक्षणा । तिरस्कृतोरिरिति यथा ।
सनेत्यादयस्तिरोन्ता आधुदात्ता इति काशिका । “सना होता नव्यश्वसत्सि" "तिरः पुरुचिदश्विना" इत्यादौ त्वन्तोदात्तं प्रयुज्यते ।
अन्तरेत्यन्तोदात्तो मध्ये विनार्थे च । त्वां मां चान्तरा कमण्डलुः । स्थामन्तरा तामरसायताक्षि।
अन्तरेणेति वर्जने । अन्तरेण हरिं न सुखम् । ज्योगिति कालभूयस्त्वे प्रश्ने शीघ्राथै सम्प्रत्यर्थे च ।
कमिति वारिमूर्द्धनिन्दासुखषु । वारिण-कअं पमम् । मूप्रिंकक्षाः कचाः । निन्दायां-कन्दर्पः । सुखे-कंयुः ।
शमिति सुखे । शंकरः।
सहसेत्याकस्मिकाविमर्शयोः । "दिवः प्रसूनं सहसा पपात" "स. हसा विवधीत न क्रियाम्" (कि०२-३०)।
स्वधेति पितृदाने । अलमिति भूषणपर्याप्तिशतिवारणनिषेधेषु । भूषणे-अलङ्कारः । पर्याप्तौ-अलमस्य धनम् । बव्हित्यर्थः । शकी-अलं मल्लो मल्लाय, शक्क इत्यर्थः । वारणे-अलमतिप्रसङ्गंन । निषेधे
आलप्यालमिदं बम्रोर्यत्स दारानपाहर । (मा०वि०४०) न वकव्यमित्यर्थः । वषडिति हविर्दाने । विनति वर्जने ।
नानेत्यनेकषिनार्ययोः । नानाभृतं देहभृतां समाजम् । नाना री. तिनिष्फला लोकयात्रा।
स्वस्तीति माले । अन्यदित्यन्यार्थे । देवदच आख्यातोऽन्याय दत इति ।
अस्तीति सत्तायाम् । अस्तिपरलोक इति मतिरस्यास्तिकः ।