Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
Catalog link: https://jainqq.org/explore/022473/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ EMATICORDYCNOO REASE aadim a disiachar HEADODARE श्रीविजयनेमिसूरीश्वस्यन्थमालादनम्-३६-४४ न्यायविशारद-न्यायाचार्य महामहोपाध्याय-श्रीमद्यशोविजयजीगणिवरविरचितः खोपभनयामृततरङ्गिणीव्याख्यासमतो-- नयोपदेशः। GANGDADAGGAGDRENAGEMENAGEMBECHOOTrthdaee तदुपरिश्रीमत्तयोगच्छाधिपति शासनसमाद-पार्वतन्त्र स्वतन्त्र-श्रीविजयनेमिसूरीश्वरपद्धालङ्कारेण 'व्यावरणवादस्पति-शास्त्रविशारद-कविरत्न 'इति पदालतेन श्रीविजयलादण्यसूरिणा विरचिता RADIOSGENDARCREAGE KEYWOODJAGHORDPRESI HOSHIARIE P AT N CaddaHEMESAHEADERAREENADIARRHOEMSGAGEMERIENDOREATRO तरङ्गिणीतरणिः॥ प्रकाशक ANDROGRaciaTOSSES 'विजयलादण्यसूरीश्वरज्ञानमन्दिरना' कार्यवाहक-शा. ईश्वरदास मूलचंद बोटाद [ सौराष्ट्र] dediseladiesTNKAROPERICANDEDICANCIDC दौसंवन-३४४१] सेमिसंवत् [विक्रमसं०-२०१३ M दीत O TIODICyaayega YOGESTIOTICHODAICH Page #2 -------------------------------------------------------------------------- ________________ RODE OSEPTETAUDA श्रीयिजयनेमिसुरिप्रन्थमालारस्नम्-३६ न्यायविशारद-न्यायाचार्य-महामहोपाध्याय-श्रीयशोविजयजीगणिमणिविरचितः स्वोपझनयामृततरङ्गिणीव्यास्यासमलङ्कतो नयोपदेशः। तदुपरि श्रीमत्तपोगच्छाधिपति-शासनसम्राट्-सर्वतन्त्रस्वतन्त्र-श्रीविजयनेमिसूरीश्वर-पट्ठालकारेण व्याकरणवाचस्पति-शास्त्रविशारद कविरत्नेन श्रीविजयलावण्यसूरिणा विरचिता तरङ्गिणीतरणिः ॥ प्रकाशक श्रीविजयलावण्यसूरीश्वरज्ञानमन्दिर बोटाद ( सौराष्ट्र.) बीरसंपत्-१४७८ विक्रमसवत्-२००८ नेमिसंवत्-३ मूल्यम् रू. ६-०-० Page #3 -------------------------------------------------------------------------- ________________ सहायक नवलक्षनमस्कारमहामंत्राराधक-विविधधर्मकार्यपरायणधर्मनिष्ठ-संघपति-रावबहादुर-जे. पी. श्रेष्ठिवर्य जीवतलाल प्रतापसिंहे शासनप्रभावक आ 'नयोपदेश' नामना दार्शनिक ग्रन्थमा रु. ३००१) नी जे सहायता समर्पण करी छे ते खरेखर अनुमोदनीय अने ज्ञानरसिक श्रीमन्तवर्गने अनुकरणीय छे. Domes Meam - 0 ...ना 0) प्राप्तिस्थानम् सि श्रीविजयलावण्यसूरीश्वर-ज्ञानमन्दिर, बोटाद ( सौराष्ट्र ) श्री सरस्वती पुस्तकभंडार, रतनपोळ, हाथीखाना, अमदावाद. *5 R-STRA-E -De-E -STRE% मुद्रकशाह गुलाबचंद लल्लुभाई, श्री महोदय प्रीन्टींग प्रेस, दाणापीठ-भावनगर. नगर - Page #4 -------------------------------------------------------------------------- ________________ शासनसम्राट्-मरिचक्रचक्रवर्ति-तपोगच्छाधिपति-कदम्बगिरिप्रमुखतीर्थोद्धारकपूज्यपाद-आचार्य-महाराजाधिराजश्रीमद् विजयनेमिसूरीश्वरजी महाराज । Mangal Mudranalaya Ratanpole, Ahmedabad Page #5 --------------------------------------------------------------------------  Page #6 -------------------------------------------------------------------------- ________________ 55355hhhhhhh58 પ્રકાશકીય-નિવેદન so સતનય, સપ્તભંગી અને નિક્ષેપ વગેરે વિસ્તારથી બોધ આપતે “નોપદેશ નામને આ ગ્રન્થ છે. આ ગ્રન્થ દાર્શનિક વિષયને લગતા છેલ્લી કેટીના વિચારોથી અને અનેક પ્રકારના વાદથી ભરપૂર છે; જેવા કે ચિત્રવાદ, અપેક્ષાબુદ્ધિવાદ પ્રતિબધ્ય પ્રતિબંધક ભાવ વાદ વગેરે. તથા તે તે વાદેને ખૂબ જ ઊંડાણપૂર્વક ચર્ચેલ છે. આ ગ્રન્થના પ્રણેતા પૂજ્યપાદ જૈનન્યાયના પ્રાણદાતા ન્યાયવિશારદ ન્યાયાચાર્ય શ્રીમદ્દ યશોવિજયજી મહારાજ વાં છે, તેમના જીવન અને કવન વિશે કેટલાયે વિદ્વાનોએ ખુબ જ પ્રકાશ પાડ્યો છે તેથી એ સંબંધે પિષ્ટપેષણ કરવાની જરૂરત નથી, પરંતુ ન્યાયના પ્રખર પાંડિત્ય વિષે એટલું કહેવું જરૂરી છે કે તેમણે કાશીના સમર્થ બ્રાહ્મણ પંડિત સાથેના શાસ્ત્રાર્થમાં છત મેળવવાથી એ જ પંડિતમંડલીએ “ન્યાયવિશારદ' ની પદવીથી વિભૂષિત કર્યા હતા, તથા ન્યાયના એક સે આઠ ગ્રન્થ રચ્યા બાદ “ ન્યાયાચાર્ય'ની પદવીથી નવાજ્યા હતા. આ જ ગ્રન્થ ઉપર તેઓશ્રીએ “નયામૃતતરંગિણું’ નામની ટીકા રચી છે. કે તેમની કસાએલ વિદ્રોગ્ય કલમથી લખાયેલ આ “નયામૃતતરંગિણી યુક્ત નપદેશ” નામને રથ આધુનિક પ્રજાને ટીકા વિના સાંગોપાંગ સમજ મુશ્કેલ હતું તથા ઘણે સ્થલે મૂલ ગ્રન્થમાં અશુદ્ધ હતું, તેથી પૂજ્યપાદ શાસનસમ્રાટ સવંતત્રસ્વત– આચાર્ય મહારાજાધિરાજ શ્રીમદ્ વિજયનેમિસૂરીશ્વરજી મહારાજશ્રીના પટ્ટાલંકાર વ્યાકરણ વાચસ્પતિ શાસ્ત્રવિશારદ કવિરત્ન પૂજય આચાર્યવર્ય શ્રીમદ્વિજ્યલાવણ્યસૂરીશ્વરજી મહારાજશ્રીએ પિતાની કુશાગ્રબુદ્ધિથી બને તે રીતે શુદ્ધ કરવા સાથે વિદ્વત્સમાજ Jદ તેમજ તત્વરસિક જીવે સહેલાઈથી પ્રવેશ કરી શકે તે અર્થે આ “નયામૃતતરંગિણી ક ટીકા યુક્ત નપદેશ' ગ્રન્થ પર નયરૂપી અમૃતથી ભરેલ વિશાલ નદીનું અવગાહન કરવા માટે નૌકા સમાન “તરંગિણુતરણું’ નામની સુંદર ટીકા રચી છે, તે અમો સહષ પ્રકાશિત કરીએ છીએ. મૂલ ગ્રન્થ અપ્રતિમ પ્રતિભાશાલી છે એ તે વાત નિઃશંક છે, પરંતુ ટીકાકાર મહર્ષિએ પણ તેના ઉપર તલસ્પર્શી વિશદ “તરંગિણતરણી’ વિવૃતિ રચી પિતાની પ્રકાંડ પ્રતિભાને વ્યક્ત કરી છે, તે સાધત સૂમેક્ષિકાથી નિરીક્ષણ કરનારને સહેજે ખ્યાલમાં આવે તેમ છે, એટલું જ નહિ પરંતુ “તરંગિણતરણ” વિવૃતિની ] સાર્થકતાનો સાક્ષાત્કાર થયા વિના રહેતો નથી. જૈનન્યાયની સાહિત્યસૃષ્ટિમાં આ ગ્રન્થ અને પ્રકાશ ફેંકે છે, તેની જિજ્ઞાસાવાળા મહાનુભાવોને વિશાળકાય વિષયાનુક્રમણિકાનું DE નિરીક્ષણ કરવા ભલામણ કરીએ છીએ, જેથી ગ્રંથ ને ટીકાની મહત્તાને ખરો ખ્યાલ આવી શકશે. પૂજ્ય વિદ્વદ્વર્ય પંન્યાસજી મ. શ્રી સુશીલવિજયજી ગણિવર્યું તથા પૂજ્ય વિદ્વાન મુનિરાજશ્રી મહિમાપ્રવિજયજી મહારાજે પ્રેસકોપી મેળવવા વગેરેમાં જે પરિશ્રમ ઉઠાવ્યો છે તે, અને પ્રસ્તુત થનું સાદ્યન્ત મુફ વિગેરેનું સંશોધનકાર્ય, વ્યાકરણ તીર્થ પં. અંબાલાલ પ્રેમચંદ શાહે, જે કુશલતાથી કરેલ છે તે ધન્યવાદને પાત્ર છે. કંકારા -પાક્કપાકક્કws F听飛吓飛吓飛听飛听美听飛飛FF飛飛飛飛飛飛5兆听听 Page #7 -------------------------------------------------------------------------- ________________ मुद्र्यमाणग्रन्थाः । ffere १. अनेकान्तव्यवस्थाप्रकरणं तत्त्वबोधिनीविवृतियुतम् - उत्तरार्धम् । २. तिलकमञ्जरी शान्त्याचार्यदिष्पणपरागविवृतिभूषिता भाग - २ | ३. स्वोपज्ञनयामृततरङ्गिगीयुक्तनयोपदेशः - तरङ्गिणीतरणियुक्तः उत्तरार्धम् । ४. श्री सिद्धहेमचन्द्रशब्दानुशासनं बृहद्वृत्ति - बृहन्म्यास - लघुन्यासादिसंवलितम् - भा. २ ५. शास्त्रातसमुच्चयः स्याद्वादवाटिकाटीकासहितः । ६. धातुरत्नाकरः - भाग १ | [ द्वितीयावृत्तिः ] ७. स्वोपज्ञालङ्कारचूडामणिटीका सहितं काव्यानुशासनं प्रकाशाभिधाना भिनवटीकया कलितम् । ८. विधियुक्तपञ्चप्रतिक्रमणादिः भाग १-४ [ तृतीयावृत्तिः ] ९. जिनसङ्गीतसरिता । [ द्वितीयावृत्तिः ] १०. नवतत्त्वप्रकरणं पद्यानुवाद-विवेचनादियुक्तम् । ११. द्वितीयकर्मग्रन्थः पद्यानुवाद - विवेचनादियुतः । १२. शासनसम्राट् जीवनसौरभः । [ द्वितीयावृत्तिः ] १३. श्री सिद्धमदीपिका - प्रकाशः - भाग ३ | Page #8 -------------------------------------------------------------------------- ________________ 0 0 0 છે 0 0 ?' 000 કાકકકકકક ooooOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOoooo OOOOOOOOOOODOOOOOOOO ( DOOOOOOOOOOOOOOO શ્રેષ્ટિવર્ય ધર્મપરાયણ રાવબહાદૂર સંઘવી જીવતલાલ પ્રતાપસિંહ જે. પી. DOOOO000 pOOOOOOOO છે .oso શ્રી મહોદય પ્રેસ-ભાવનગર, Page #9 --------------------------------------------------------------------------  Page #10 -------------------------------------------------------------------------- ________________ अका, ४१४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकृतस्य नयोपदेशस्य विषयानुक्रमणिका। विषयः, पृष्ठम् , पतिः __ अङ्काः, विषयः, पृष्ठम् , पतिः १ मङ्गलाचरणम् तत्र क्रमेण श्रीवीर दिगम्बरवचनं सिद्धान्तवचनम्वोपदप्रभु-तद्भारती-तदुक्त्यनुष्ठानपरायणबुध. र्शितम् । समष्टि-सर्वतन्त्रस्वन्त्रनेमिसूरीश्वरगुरु. १२ प्रसङ्गात्सारोप- साध्यवसानलक्षणे ल प्रवराणां तत्तदभिष्टार्थसिद्धयर्थं स्म क्षणोदाहरणाभ्यामुपपादिते । रणम् । १३ नयोपदेशस्याज्ञजनरवेदादिजनकत्वल२ स्वकीर्त्यनुवृत्तये ग्रन्थ-तत्कर्तृनानो. क्षणदोषापेक्षया सुधीविनोदजनकत्व. गुम्फनम् । लक्षणगुणेऽनन्तगुणोत्कृष्टत्वे श्रीहरि, ३ व्यारव्येयनयामृततरसिणीमङ्गलस्य भद्रसूरिवचनं प्रमाणतयोपदर्शितम्। ६ ४ जिनभारतीस्तुतिरूपस्योढेंकनम् । १२० १४ ग्रन्थस्य बालव्युत्पत्तिप्रयोजकत्वं, तत्र ४ तद्व्याख्याने तत्सन्निविष्टाखिलविशे... बालस्य तद्धटकस्य लक्षणमावेदितम्। ६ । षणविशेष्याणां स्वरूपोपदर्शनपुरस्सर १५ नयलक्षणतदुपत्तिप्रतिपादकं पद्यम् । ६१. तत्तदुपादानप्रयोजनोपवर्णनम् । १६ नयलक्षणीभूतापेक्षावचनस्य व्युत्पाद५ नयस्वरूपावगतिफलकनयनिरूपणस्या नम्। वश्यकत्वमुपदर्शितम् । १७ अपेक्षात्मकशाब्दबोधत्वं ज्ञानरूपनय६ तदुपदर्शनसन्निविष्टतत्तत्पदोपादानसा स्य लक्षणम् । १८ नयलक्षणसन्निविष्टस्यापेक्षात्वस्य शान्दफल्यमुपपादितम् । गतजातिविशेष-विषयिताविशेषाभ्यतर.. नयोपदेशमङ्गलावतरणे शिष्टाचारपरि रूपताव्यवस्थितयेऽनेकार्थताऽपेक्षाशब्द. पालनादिफलकेष्टदेवस्मरण-गुरुनमस्कर स्योपवर्णिता । ७ १२ णात्मकमङ्गलाचरणशिष्यावधानफलक १९ मूलोकस्य बाधप्रतिबन्ध्यतावच्छेदकतत्प्रतिज्ञोपदर्शनम् । कोटावनाहार्यत्वाद्यपेक्षया लाघवेन नि. ८ मङ्गलस्य शिष्टाचारपरिपालनफलकत्व वेशनीयापेक्षानात्मकत्वप्रतियोगिघटकासमर्थनम् । ३ १४ पेक्षात्वस्य बोधगतस्याभ्युपगन्तव्यत्व. मङ्गलस्य नव्याभिमतविघ्नध्वंसफलक. मवतारिकया समर्थितम् । त्वसमर्थनम् . तत्र प्राचीननवीनमतो २० प्रतिबन्ध्यतावच्छेदककोटी नैयायिकापवर्णनम् । भिमतानाहार्यत्वाद्यपेक्षयाऽपेक्षानात्म१. आत्मानुध्यान-गुरुवन्दनात्मकं नयो कत्वनिवेशे यथा लाघवं तथोपपाद्य पदेशमङ्गलं तत्र नयोपदेशप्रन्थवि दर्शितम् । ७ ३३ धानं सुधीविनोदफलकत्वेन प्रतिज्ञातम्। ४ १ २१ तद्धर्मप्रतिपक्षधर्मवत्ताज्ञानकालोपजात११ प्रश्नप्रतिविधानाभ्यामात्मानुध्यानस्य तद्धर्मवत्तानुभवान्यथानुपपत्तिरपेक्षात्वे मङ्गलत्वं निष्टङ्कितं, तत्र संपादकतया प्रमाणम्, अन्यथानुपपत्तेः सर्वप्रमाणा Page #11 -------------------------------------------------------------------------- ________________ अङ्काः , नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः । विषयः, पृष्ठम् , पतिः अशाः, विषयः, पृष्ठम्, पतिः पेक्षया बलवत्त्वे श्रीहर्षवचनसंवादोप ३५ यथा दीर्घताप्रत्यक्षः सापेक्ष इति निदर्शनश्च । दर्शनस्य शङ्कासमाधानाभ्यां व्यव२२ लौकिकव्यवहारोऽप्यपेक्षा विना न स्थापनं, तत्र विशिष्यप्रतिबन्ध्यप्रतिबसम्भवतीति शङ्कासमाधानाभ्यां निष्ट न्धकभाव-कार्यकारणभाषचर्चाप्रसङ्गाङ्कितम् । दागता। १५ २ २३ अन्यथानुपपत्तिश्चेति-वाच्यान्यथोप ३६ नयप्रवृत्तिहेतुर्यथा वास्तव्यपेक्षा तथा पत्तिवेति श्रीहर्षपद्ययुगलं विवृतम् । ८१८ क्वचिद्वैज्ञानिक्यपीति वैज्ञानिक्यपेक्षा२४ सामान्य-विशेषापेक्षामन्तरेण घटपटयो प्रदर्शकं तुरीयपद्मम् । १९ ३ रूपं घटपटयोन रूपम् इत्यादीनां प्रत्य तत्र नानानयमतस्य मतभेदस्यापेक्षया यानां विचित्रनयापेक्षाणां न गतिः, व्यक्तत्वं कोट्यन्तरनिषेधस्य प्रस्तुतोअत्र सङ्ग्रहव्यवहारनयाश्रयणस्याव. कटकोटिकृत्त्वञ्च । श्यकत्वं च। ३७ नयविशेषापेक्षा नयविशेषतात्पर्यरूपैव २५ घटपटयोर्न रूपमिति वश्यं तात्पर्य न त्वतिरिकेत्यस्य खण्डनम् । १९ . भेदेन योग्यायोग्यमिति केषांचित्क ३८ अपेक्षावैज्ञानिकः सम्बन्धः तद्बलाद्वि. ल्पमुपदर्घामपाकृतम्। कल्पसिदस्य धर्मिणः प्रतिषेधादिसाधनं २६ घटपटयो रूपमिति प्रत्ययस्य सङ्ग्रह धर्मिणो विकल्पसिद्धत्वब्यवस्थापनश्च । १९ ८ नयाश्रयणेनैवोपपत्तिरित्युपपादितम्। ९१४ ३९ यथा नैयायिकमतेऽतिरिकविशिष्टस्या. २७ यत्केषांचित्कल्पनस्यापाकरणं तद्विस्त नभ्युपगतावपि विशिष्टाभावोऽतिरिक्तः, रत उपपादितम् । १० १३ तथा जनमत विशिष्टस्य वस्तुनोऽसिद्धा. २८ अपेक्षात्मकान्वयबोधानभ्युपगन्तॄणां वपि विशिष्टाकारः सिद्ध इत्यस्य व्यवमते द्वयोर्गुरुत्वं न गन्ध इत्यादावपि स्थापनम् । १९३४ न गतिरित्युपपादितम् । ११ । ४० तत्तद्दर्शनार्थज्ञानेषु तत्तद्भावनोद्देशप्रयु. २१ टीकायामेतत्प्रपञ्चतः स्पष्टीकृतम् । १७ तत्वमेवापेक्षात्वमित्युपपादनपुरस्सरं द. ३० अनन्तधर्मात्मकस्य वस्तुनः प्रत्यक्ष शितम् । प्रमाणगम्यत्वेऽपि सापेक्षः स्पष्ट बोधो ४१ बौद्धमते विज्ञानसन्ततिधेिति विविनयात्मक इत्युपदर्शितम् । च्य दर्शितम् । ३१ एकस्मिन् घटादौ गृह्यमाणे गृह्यमाण. ४२ इतरनयार्थप्रतिषेधस्य प्रस्तुतोत्कट धर्मोपरागण याक्तां घटादिगतधर्माणां कोटिकारित्वेन न दुर्नयत्वप्रयोजकत्वं, । प्रहणं व्यवस्थापितम्। किन्तु ततः सुनयत्वमेवेति चर्चितम् । २१ ३ ३२ एकग्रहे सर्वग्रह इत्यत्र पारमर्षवचन ४३ जात्या दुर्नयस्यापि चिन्ताज्ञानेन फलतः संवारः सम्मतिसंबादश्च । १४ १ सुनयीकरणं भावनाज्ञानेनैदम्पर्यार्थप्र. ३३ सत्त्वासत्त्वादिप्रतिनियतधर्मप्रकारकः धानकप्रमाणवाक्यैकदेशत्वापादनश्च तत्र सदसदाद्याकारको वा स्पष्टबोधः सापेक्ष श्रीहरिभद्रसूरिवचनसंवादश्च। २१ ७ एवेत्यस्य सनिदर्शनं व्यवस्थापकम् । १४ ९ ४४ फलतो जातितश्च शुद्धयशुद्धयोरविशे ३४ व्यवहार एव सापेक्षो न बोध इत्यस्य षात् स्वसमयवाक्येभ्यः पस्समयवा खण्डनम् । क्यानां को विशेष इति प्रथस्योपपा २०१७ Page #12 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलहतो नयोपदेशः । विषयः, पृष्ठम् , पक्किः दनपुरस्सरं प्रन्थकर्तुः स्वममीषावि जृम्भितं प्रतिविधानम् । ४५ नयार्थानामापेक्षिकत्वे द्वित्वादिवदवय व्येकत्वस्यापि बुद्धिजन्यत्वरूप बुद्धधा. कारमात्रस्वरूपं वाऽऽपेक्षिकत्व स्यादि त्याशक्षा क्षयोपशमापेक्षबुद्धिविशेषग्रा-' यत्वलक्षणमापेक्षिकस्वमिष्टमेवेति प्रति विहितम् । ४६ एकत्र द्वित्वादिगौणमेव द्वित्वादिव्य वहारनिमित्तं, मुख्यन्तुद्वित्वमन्यदेवापेक्षाबुद्धिजन्यं द्विष्ठमित्याशय समाहितम्। २३ ९ ४७ द्रव्यत्वाद्यवाच्छिन्नैकत्वादिपर्याप्तिस्वी कारेऽनेकान्तवादे पारमर्षवचनसंवादो दर्शितः। ४८ गौणमुख्यद्वित्वव्यवस्थापरस्य त्युपपादिता। ४९ द्वित्वादिकमपेक्षाबुद्धिजन्यमपेक्षाबुद्धि व्यङ्ग्यं वेति विचारप्रारम्भः । ५० तत्र द्वित्वादिकमपेक्षाबुद्धिजन्यमित्य भ्युपगन्तुणां नैयायिकानामाशयो द. शितः तत्रैव यथा नैयायिकमते लापवं द्वित्वादिकमपेक्षाबुद्धिम्यायमित्यभ्युपगन्तृप्रभाकरमते गौरव तथा विस्तरत उपदर्शितम् । २५ २ ५१ द्वित्व-त्रित्वाद्युत्पादकसामभ्योर्विशेषो. पदर्शकमुदयनाचार्यमतमुपदर्शितम्। ३० १ ५२ द्वित्वादेरपेक्षाबुद्धिजन्यत्वेऽपि यथा-के---- द्रव्ये इति लौकिकप्रत्यक्षमुपपद्यते तथा .... प्रश्नप्रतिविधानाभ्यां निष्ठदितम् । ३० ४ ५३ नैयायिकमतखण्डनव्यापूतानां, "द्वि. त्वादीनामपेक्षाबुद्धिव्ययत्वं" मित्यभ्युपगन्तृषां प्रभाकरवृद्धानुसारिणां मतमुपदर्शितम्। ३१ १० ५४ द्वित्वत्रिस्वादिकं तुल्यब्यक्तित्तिकमेकं __ अकाः, विषयः, पृष्ठम् , पक्तिः सामान्यमेवेति केषांचिदाचार्याणां मतमुपदर्शितम्। ३८ ८ ५५ अनित्यगतं द्वित्वादिकमनित्यं नित्य गतन्तु नित्यं, नानाव्यक्तिसामाश्रितमतुल्यव्यक्तिगतं द्वित्वाद्यनेकं तुल्यव्यक्तिगतं त्वेकमिति मतान्तर. मुपदर्शितम्। ३४ . २ ५६ न्यायमत-प्रभाकरमतद्वयगतदोषोद्भा वनपुरःसरमनेकान्तवादिमतव्यावर्णनं. तत्रैकत्वस्यापि द्वित्वादिवदापेक्षिकत्वं, द्वित्वादेरपेक्षाबुद्धिव्यङ्गयत्वमेवेति सि द्वान्तितम् । ५७ एकत्वद्वित्वादेरपेक्षाबुद्धिव्यजयस्वात्त. ज्ज्ञानस्य नयरूपत्वेन नयान्तरयोजनया सप्तभङ्गीप्रवृत्तिरिति दर्शितम् । ३६ ८ ५८ स्वसमये परसमये एकत्वद्वित्वादिप्रका. रकनानाविधलौकिकव्यवहारे च नया पेक्षयैव विविको बोध इत्युपसंहारः। ३.६ ५९ अनन्तराभिहितविचारफलितं सापेक्ष भावेषु प्रतीत्य वचनत्वं नयत्वं विधा वप्यभावाभावरूपत्वात्सापेक्षत्वमित्युपद र्शकं पञ्चमपद्यम् । ६. स्वरूपतो भावाभावयोर्निष्प्रतियोगिक त्वं विशिष्टतया तु द्वयोः सप्रतियोगि कत्वमिति स्यावाद आवेदितः। ३८ ५ ६१ वस्तुनोऽभावाभावरूपत्वं प्रतियोगिक स्वमित्यत्रोदयनाचार्यवचनसंवाद आवे.. दितः । ६२ निष्प्रतियोगिकाभावपक्षे दोषाणाम् अनेकविधानां शङ्कासमाधानाभ्याम् उद्धरणस्य मूलोकस्य सङ्गमनम्। ३८ २५ ६३ विशिष्टवुद्धिं प्रति विशेषणज्ञानस्य का रणत्वाभावेऽपि क्षयोपशमविशेषेणव तत्सविशिष्टज्ञानोपपत्ती द्रव्यं पर्यायवियुतमित्यादि वचनं संप्रदायवृद्धानां भवत्यर्थगत्या प्रमाणमिति सूचनम् । ४१ ४ Page #13 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । ४२ अकाः, विषयः, पृष्ठम् , पतिः ६४ शुद्धाभावप्रत्यक्षाभवने परवक्तव्यस्य उपदर्शनपूर्वकमपाकरणम् ।। ६५ सन्निकर्षमात्रस्य विशिष्यविशिष्टप्रत्यक्ष प्रति कारणत्वमुपगम्य भावांशेऽभावांशे वा न शुद्धविषयकं प्रत्यक्षमित्यु पदर्शितम्। ६६ अभावलौकिकप्रत्यक्षस्य घटाद्यन्यतभ विशिष्टविषयकत्वनियमावलम्बनेन नवीनस्य परस्य अभावनिर्विकल्पकाद्य पाकरणस्य खण्डनम् । ६७ भावाभावयोरुभयोरपि सापेक्षत्वनिरपे क्षत्वव्यवस्थितौ सविचारणया सामान्यदृष्टया च सर्वम् निर्विकल्पकं वि शेषदृष्टया च सर्व सविकल्पकमित्यने कान्तप्रतिपादकं सम्मतिगाथायुगलमु पदर्य विवृतम्। ६८ स्वद्रव्याद्यपेक्षया सन् परद्रव्याद्यपेक्षया चासन् -इत्यादि प्रतीत्याऽपि सापेक्ष त्वम्, तृतीयोल्लिख्यमानावच्छेदकप्रतीतिबलात्-व्याप्यवृत्तावपि तत्तदवच्छिन्नवृत्तिकत्वाभ्युपगम इति । ४५ ११ नयप्रमाणवाक्यभेदाधिगतये सप्तम जयात्मकवाक्यस्य प्रमाणवाक्यत्वं तथा स्यात् पदादपरोल्लेखित एकधर्मप्रतिपादकवचनस्यापि प्रमाणवाक्यत्वं तद्: घटकस्यैकैकधर्मप्रतिपादकभास्यार्थान यवाक्यत्वमित्यावेदकं षष्ठपद्यम् । ७. सतानां भङ्गानां प्रतिपादकानि प्रमाण नयतत्त्वालोकालङ्कारगतानि सप्तसूत्राणि उल्लिखितानि । ७१ विधिनिषेधप्रकारापेक्षयाप्रतिपर्यायं व स्तुनि सप्तैव भङ्गाः इति धर्मभेदेना. नन्तसप्तमीसम्भवेऽपि नानन्तभङ्गी नाष्टमयादिकम् , नियमस्य च कार: गोपदर्शनम्। अकाः, . विषयः, पृष्ठम् , पक्तिः ७२ प्रथमभङ्गादिजन्यबोधानां क्रमेण क. थनम्। ४७ ४ ७३ तृतीयभङ्गजन्यबोधस्य प्रथमद्वितीय---- भाजन्यबोधद्वयव्यतिरिक्तत्वव्यवस्थापनेन तृतीयभप्रस्थातिरिक्तत्वं निष्टकि तम् । ७४ "न सोऽस्तिप्रत्ययो लोके" इत्यादि नयाश्रयणात् शब्दगतस्यापि क्रमस्यार्थे ऽध्यासेयः। ७५ चतुर्थभङ्गजन्यबोधस्योपदर्शनम्। ४८ १ ७६ स्यादनुभयमित्यस्य प्रथमद्वितीयभना न्यतरपर्यवसायित्वेन न तेन स्याद. वक्तव्य इति तुरीयभङ्गस्यगतार्थता। ४८ २ ७७ उभयपदेन युगपदुभयप्राधान्यबोधस म्भवादवक्तव्यत्वभङ्गस्यानुत्थानोपहत. त्वमित्याशङ्काव्युदसनम् । ४८ ३ ७८ पञ्चम-षष्ठ-सप्तमभङ्गजन्यबोधानामुप दर्शनम् । ७९ श्रीसिद्धसेनदिवाकरपदानां सप्तभ यानयविभागोपदर्शिका “एवं सत्त विअप्पो" इति गाथा तद्व्याख्यानं च तत्र यो भङ्गो यस्मिन् नये भवति तदुपदर्शितम्। ८० स्यादस्ति स्यानास्तीति तृतीयभन्न स्थाने एतन्मते स्यादवक्तव्यः इति भङ्गः इति तुरीयतृतीययोः व्यत्ययः । ८१ प्रथमभान यद्धर्मप्रकारको बोधः सङ्क. हाख्यः तद्धर्माभावप्रकारकबोध एव व्यवहाराख्यो-द्वितीयभङ्गेन भवतीति भङ्गाकारनियमनम्। ८२ स्यादवक्तव्य एवेति तृतीयभङ्गस्य नि मित्तत्वमृजुसूत्रे द्रव्यस्य नियामकबीजं शङ्कासमाधानाभ्यां निर्णीतम् । ५० ४ ८३ साम्प्रतसमभिरूढैवंभूतैतत्रितयशब्दन येषु यनये यद् भाप्रवृत्तिः तदुपदर्शने एकं व्याख्यानं शब्दनयेऽपि सप्त Page #14 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । अङ्काः, विषयः, यिकाभिमता चित्रघटादौ तथा धीव दित्युपदर्शकं सप्तमं पद्यम् । ९३ प्राचीन नैयायिकमतभेदेन यथा चित्रे एकानेकाकारप्रतीत्योः उपपत्तिः तथा भावितं टीकायाम् । ९४ चित्रे मतभेदाधिगतफलक विचारप्रव र्तिका विप्रतिपत्तिरुद्भाविता । ९५ चित्रे नानारूपसमावेशोपष्टम्भकं " लोहितोयस्त्वि " त्यादिवचनमुदृङ्कितम् । ९६ विचारा तया विप्रतिपत्तेरावश्यकता दर्शिता । ९७ मूले चित्ररूपे दर्शिताया विप्रतिपत्तेः विधिकोटिनिषेधयोः सङ्गमनं टीकायाम् । ९८ चित्ररूपे क्रमेणान्याभिमतं विप्रतिपत्तिद्वयं क्रमेणोद्भाव्यापाकृतम् । ९९ अभिमतायां विप्रतिपत्तौ विधिकोटे: सामानाधिकरण्येन निषेधकोटेर वच्छेदकावच्छेदेनाश्रयणतो यथा नांशतो बाधसिद्धसाधने तथा टीकायां प्रपञ्चितम् । १०० टीकायामन्याभिमतविप्रतिपत्तिद्वयखण्डनस्य स्फुटीकरणम् । १०१ चित्रे पादौ एक चित्ररूपाभ्युपगन्तृप्राचीनमतस्योपदर्शनम्, तत्र प्रतिबन्ध्यप्रतिबन्धकभावविशेषकल्पनया नीलादिभिर्नीला दिजननापतेः परिहारः चित्रत्वावच्छिन्ने विशिष्यकारणत्वकल्पनया केवलनीलकपालारब्धे चित्रोत्पत्तिप्रसङ्गापाकरणं च । १०२ अवयनिष्टनीलाभावादिषट्कस्य चित्रप्रतिहेतुत्वमित्यभ्युपगमे दोषोद्भावनम्, व्याख्यायां तत्स्पष्टीकरणम् । १०३ चित्रत्वावच्छिन्ने नीलेतर पीतेतररूपत्वादिना हेतुत्वे पाकजचित्रे व्यभिचारस्यापाकरणम् । १०४ अग्निसंयोगजचित्रे कारणान्तरोपदर्शनं पाकजचित्र स्वीकारपक्षे । विषयः, अङ्काः, भङ्गी समर्थकं द्वितीयं तु तत्र प्रथमद्वितीयभङ्गयोरेव सम्भवोपदर्शकम् । ८४ प्रमाणवाक्य लक्षणनिगमनम् सप्तभङ्गयाः प्रमाणवाक्यत्वे तदन्तर्गतत्तद्वहिर्भूतैकैकभङ्गस्य नयवाक्यत्वमर्थतः इतरप्रतिक्षेपी नयो नयाभासो दुर्नयो वेति । ८५ नयो दुर्नयः सुनयश्चेति दैगम्बरी व्य वस्था न तु अस्माकमित्याद्युपगन्तॄणां मलयगिरिचरणानां मते स्यादस्त्येवेत्याद्येकस्यापि भङ्गस्य प्रमाणवाक्यत्वमित्युपदर्शितम् । ८६ नयदुर्नयविभागो न दैगम्बर एव किन्तु श्वेताम्बराभिमतोऽपिं एतदधिगतये हे - मसूरिवचनमाकरस्थनयदुर्नयविभागबो धनं चावेदितम् । : पृष्ठम्, ५१ ५२ पङ्किः ५२ ५३ ८७ भवधारणी भाषा एकान्तरूपैव निषिद्धा न नयरूपाऽपीत्यत्र युक्तिर्दर्शिता । ८८ नयदुर्नयवाक्ययोरविशेषेणानादरणीयत्वं तत्र सम्मतिगाथासम्मतिश्चाशङ्किता तत्प्रतिषेधेऽपि नयवाक्यस्यादरणीयत्वं तत्र सम्मतिगाथासम्वादश्च दर्शितः । ८९ प्रतिभङ्गं सप्तभङ्गयाः सकलादेशत्व मित्येकं मतम्, त्रिषु एवाद्यभङ्गेषु सकलादेशत्वम्, चतुर्ष्वन्त्यभङ्गेषु विकलादेशत्वमिति मतान्तरम्, एकत्र सप्तभङ्गयादर्शितो व्युत्पत्तिविशेषः सर्वसप्तभङ्गी समनुगतः । ९० स्यात्पदलाञ्छितैकभन्नमात्रेण न प्रमाणवाक्यविश्रामः किन्तु सुनयवा क्यार्थगतिरेवेत्यत्र समन्तभद्रसम्वादः । ५५ ९१ लक्ष्यलक्षणादिव्यवहारो नयवाक्यैरेव, प्रमाणवाक्यं सप्तभङ्गी एव तस्या व्यापकत्वं च । ९२ एकत्र वस्तुनि अनेकाकारा प्रमाणधीः एकाकारानयधीः आईताभिमता, नैया ५३ ५४ ५५ ४ ३ ६ ૪ F ७ ५६ २ पृष्ठम्, पङ्क्तिः ५६ ६ ५६ २९ ५७ ४ ५७ ६ ५७ १६ ५७ १८ ५८ ५८ ४ १ ५८ २३ ५९ ६० २ ५९ ६ ३ ६० ४ Page #15 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । - - अकाः, विषयः, पृष्ठम् , पक्तिः । __ अवाः, विषयः, पृष्ठम् , पतिः १०५ फलबलेन वैजात्यकल्पनया तेजःसंयोग ११४ " तत्र त्र्यणुकचित्रं चक्षुषा न गृह्यते" मात्रजन्ये पाकरूपोमयजन्ये रूपमात्र. इत्याचार्यवचनसम्वादः, प्रन्थकृदापाजातिरिके वा विजातीयचित्रे विजा दितदोषपरिहरणं प्रकारान्तरेण कुर्वतीयतेजःसंयोगादेः हेतुत्वोद्भावनम् । ६१ १ तोऽन्यस्याशड्डा नेयायिकेनापाकृता। ७२ १ ०६ नव्यनैयायिकप्रकाण्डशिरोमणिभट्टाचार्य ११५ उक्तनेयायिकाशवाऽपाकरणम्। ७२ ७ मतानुसारिणां चित्रपटे अव्याप्य ११६ अवयवगतोत्कृष्टापकृष्टाभ्यामपि चित्रस्म वृत्तिनानानीलपीतादिरूपाभ्युपगमः ए सम्भवेन नीलेतररूपादिषदकस्यैव चि. करूपमितिप्रतीतेः समूहकत्वविषय त्ररूपे हेतुत्वमित्यतो न निर्वाहः, • कत्वं, सविषयावृत्तिव्याप्यवृत्तिवृत्तिजा. उत्कर्षापकर्षाश्च विचार्यमाणा अनन्ता तेरव्याप्यवृत्तिवृत्तित्वविरोधस्याप्रामाणि एवेत्यत्र सिद्धसिद्धसेनदिवाकरगाथासकत्वम् " लोहितो यस्तु" इत्यादि म्वादकतयाऽभिहिता व्याख्याता च। ७३ १० स्मृतिवचनोपष्टम्भकत्वं च।। ११७ नव्याभिमताव्याप्यवृत्तिरूपपक्षेऽपि भ७ अव्याप्यवृत्तिनीलादिनानारूपाभ्युपगमे वयवगतोत्कृष्टाभ्यामवयविनि तयोरवप्रतिबन्ध्य प्रतिबन्धकभावकल्पना च्छिन्नयोः अवच्छिन्नस्य नीलस्योत्पत्तिगौरवाशङ्का प्राचीनाभिमतामुत्थाप्य प प्रसञ्जनम् , तत्र नैयायिकप्रतिविधानलवीकृस्य च नवीनामिमतं तत्प्रतिवि. माशय प्रतिक्षिप्तम् । ७५ १ धानं नवीमाभिमतं विस्तरत उपपाद्य ११८ अनेकवर्णविशिष्ट द्रव्यपरिणामाभ्युगमदर्शितम् । स्यावश्यकत्वेन अव्याप्यवृत्तिनीलादिक१०८ प्राचीनमतानुयायिना कृतं नवीनमत स्पेन प्राहकान्तरकल्पनमन्यथोपपत्ते___ खण्डनमुपपाद्य विस्तरतः प्रपश्चितम् । ६४ ५ रिति नव्यकल्पनाऽपाकृता। ७५ ७ १०९ चित्ररूपाभ्युगन्तृप्राचीनमतमेव प्रका १३९ यथा रूपस्यैकानेकरूपतया चित्रत्वं तथा रान्तरेण उपपादयतां केषाञ्चित् मत अखिलस्यैव ग्राह्यप्राहकस्वरूपवस्तुनः माविर्भावितम् । चित्रत्वमुपसंहृतम्, तत्र ज्ञानेऽखण्डा११. प्राचीनमत एव किञ्चित् कार्यकारण कारसखण्डाकारादिबहुविधविषयताभाभावादिवैलक्षण्यमाश्रयता मतत्रिकं क. वतः चित्रत्वं तत्रागमसम्वादश्च । ७७ १० मेण उदृङ्कितम् । १११ चित्ररूपाभ्युगमपक्ष एव किश्चिद् वै १२० सप्तनयात्मक महावाक्यार्थजज्ञाने प्रलक्षण्यमुररीकुर्वतामुच्छृङ्खलानां मतं प्र माणनयविषयत्वादीनां बहूनामनुभवकटीकृतम् । सिद्धत्वम्। ११२ चित्ररूपे नानाविधोपदर्शितनैयायिक नैयायिकानां मते विशिष्टवैशिष्ट्यबुद्धिमतं अन्यकृता जैनसिद्धान्तावलम्बिमा चातुर्विध्य-तत्कारणोपदर्शनम् मूलोपअपाकृतम्, तत्र सम्मतिटीकाकृवचन पदर्शिताशेषस्फुटीकरणं व्याख्यायाम्। ८ ६ सम्बादप्रदर्शनम् । १२२ विशेष्ये विशेषणमितिरीत्या बुद्धित्वस्य ११३ शुक्लरूपादिव्यतिरिक्तचित्ररूपाभ्युपगमे लक्षणं, तत्रातिप्रसङ्गभावः, विशेष्ये प्रन्थकृतापादितस्य शुक्लावयवाच्छेद विशेषणमितिरीत्या ज्ञानीयविषयतायाः नापि चक्षुःसनिकर्षेण चित्रोपलम्भस्य समूहालम्बनव्यावृत्तत्वं व्यवस्थापितम् , परिहारप्रकारो नैयायिकैराशद्धितः। ७२ । टीकायां तद्विशदीकरणम् । ६९ . Page #16 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । पृष्ठम्, पङ्किः विषयः, अड्डाः, १३२ विशेष्ये विशेषणमिति रीत्या विषयिताया अनुमितिप्रवृत्त्यादिजनकतावच्छे aeli, विषयः, १२३ विशेष्ये विशेषणमितिरील्या विशिष्ट वैशिष्ट्यबोधाभ्युपगमे रक्तदण्डवान् पुरुषः इति वाक्यात् दण्डो रक्तो नवेति संशयानन्तरं तथाऽन्वयबोधापत्तिरितिप्रश्नः । १२३ उक्तप्रश्नप्रतिविधानम् उक्तसंशयानन्तरमुक्तवाक्याद् विशेष्ये विशेषण. मिति रीव्या बोध इष्ट एव तदनन्तरं विशिष्टस्य वैशिष्ट्यमितिरीत्या बोधः । १२४ अन्वयबोधवदुक्तसंशयानन्तरं तथा प्रत्यक्षबोधोऽपि जायते । १२५ घटघटत्वयोः निर्विकल्पक ज्ञानानन्तरं घटवद्भूतलमिति ज्ञानं विशेष्ये विशेषणमितिरीत्या अभ्युपगच्छतोः मतमुपन्यस्य दूषितम् । १२६ एतन्मतखण्डन कर्त्रभिप्रायोपवर्णने नैत --न्मतखण्डनावतरणम् । १२७ घटवद्भूतलमिति ज्ञानीय घटनिष्ठप्रकारताया घटत्वाद्यवच्छिन्नत्वावश्यम्भावे सति तद्धियो विशिष्ट वैशिष्ट्य धीत्वमेव इत्यादि प्रपचितम् । १२८ तेन सप्रकारकज्ञानमेवोपनायकमित्यारभ्य निरस्तमित्यन्तस्य मूलस्य स्पष्टीकरणम् । ८२ २० १२९ स प्रकारकज्ञानमेवोपनायकं तस्य च कार्यतावच्छेदकं लौकिकविषयताशून्यतद्विषयक ज्ञान त्यापेक्षया लाघवाद् वि शिष्टवैशिष्टपाख्य विषयताशालिप्रत्यक्षत्वमेवेत्यस्य खण्डने हेतुरुप्रदर्शितः । ८३ R १३० दण्डो रक्को न वा इति संशयानन्तरं विशेष्ये विशेषणमिति रीत्या रक्तदण्डवान् पुरुष इत्यन्ययोयोपगमे तथैव " अभावो दण्डीयो नवे "ति संशयानन्तरं दण्डाभाववदितिधीः स्यादित्याशङ्काया अपाकरणम् । १३१ साम्प्रदायिकमतानुसारेण विशिष्टवै शिष्टयबुद्धित्वस्य लक्षणम् । ८१ १ ८१ ३ ८१ ४ ८ ५ ८१ ३० ८२ १ ८३ ४ ૨૪ ६ पृष्ठम्, पङ्किः दकत्वाभ्युपगन्तृप्राचीनमत खण्डनम् । १३३ विशिष्टवैशिष्ट्यविषयताकबुद्धित्वमेवानुमित्यादिजनकतावच्छेदकमिति निगमि तम् । १३४ विशिष्ट पर्याप्तप्रकारताकवाक्यजबुद्धित्वं विशिष्टवैशिष्ट्य बुद्धित्वमित्यस्य निराकरणम् । १३५ परामर्शदीधितौ खण्डशो निरुक्तेरानर्थक्यापादनेन वैज्ञानिक वैशिष्ट्याभ्युपगमेन " लोहितवह्निमान् " इत्यादौ वि शिष्टवैशिष्ट्यबोधापादनस्य मथुरानाथसम्मतस्य निराकरणम् तत्र हेत्वन्त रोपदर्शनम् च । १३६ मथुरा नाथोक्त्यर्थ स्पष्टीकरणम् । १३७ विशेषणतावच्छेदकप्रकारक संशयदशाया मननुभूयमानस्यापि विशिष्टवैशिष्ट्यबोधस्याभ्युपगमे विशेषण ज्ञानद्वयादेव तादृशबोधोपपत्तिरिति पक्षधर मिश्रमतसाम्राज्यापत्तिर्दर्शिता, तादृशबोधे विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वे तन्मतनिराकरणम् । १३८ मूल - प्रन्थकारेण प्रकारान्तरेण विशिष्ट वैशिष्ट्यबुद्धित्वं निश्चय दीधितिकृतां खण्डशो निरुक्तेव्यर्थत्वं तत्र गौरवं च । १३९ एतत्स्पष्टीकरणं टीकायाम् । १४० दण्डो रक्त इति निर्णयस्य रक्तत्वदण्डत्वोभयधर्मावच्छिन्नप्रकार ताकत्वं जन्यतावच्छेदकमित्युपगमे दोषाशङ्का प्रतिविधानादिकं बहु विस्तृतम् । १४१ संस्कारव्यावृत्तज्ञानेच्छाकृतिवृत्तिजातिविशेषं कल्पयित्वा विशेषणतावच्छेदकप्रकारकविजातीयगुणत्वेन हेतुत्वं तज्जन्यतावच्छेदकं च विशिष्टवैशिष्ट्यानुभवत्वमिति बहूनां विदुषां मतम् । ९२ ४ ८५ ર ७ ८५ ४ ८५ ६ ८५ २७ ८६ ३ ८६ ७ ८६ ३९ ८८ २ Page #17 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। अकाः , विषयः, पृष्ठम् , पतिः अङ्काः, विषयः, पृष्ठम् , पतिः १४२ अनुभवत्वजातौ मानाभावेन ज्ञानत्व. एकानेकात्मकबस्त्वनभ्युपगमे एकान्तस्यापि नित्यानित्यसाधारणतया जन्य वादस्य कुत्रापि अघटमानत्वादिति तानवच्छेदकत्वात् जन्यप्रत्यक्षवृत्ति हेतुरुपदर्शितः । जातिविशेष एवं विशेषणतावच्छेदक १५१ एतत्स्पष्टीकरणं टीकायाम् । १०३ २७ प्रकारकनिर्णयजन्यतावच्छेदक इति मत १५२ विशिष्टबुद्धिष्वपि बहुतरा विषयता अ. मुपदर्शितम्। नुभूयन्त इति चतुर्थैव विभागोऽनु१४३ एतन्मतमवतार्य तत्स्पष्टीकरणम् टीका पपन्न इत्यर्थकमूलस्यावतरणपुरस्सरं याम्। ९३ १८ विषयताबाहुल्यावबोधनं टोकायां १४४ अनुभवत्वादिकमनिवेश्य विशिष्टवैशिष्ट्य विस्तरतः। विषयतावत्वमेव विशेषणतावच्छेदकप्र १५३ एकाविशेषितस्यापरस्येति मूलपाठस्थाने कारकनिर्णयजन्यतावच्छेदकर्मिति मत एकविशेषितस्यापरस्येति पाठेऽपि यथा स्य उपदर्शनम् । बहुतराः विषयता भवन्ति तथोपपादनं १४५ विशेषणतावच्छेदकसंशयकाले विशिष्ट्य. टीकायाम्। 1०४ १४ वैशिष्ट्यबोधं स्वीकृत्य तम्प्रति विशे १५४ एकत्रद्वयमिति ज्ञाने प्रकारत्वयोः निषणतावच्छेदक प्रकारकज्ञानत्वेन हेतु रूपितत्वविशेषाद्भेदाभावः विशिष्टवैत्वमिति मतमुपदर्शितम् । शिष्ट्यस्थलेऽपि मानाभाव इत्यादि १४६ उक्तमतखण्डनं विस्तरतः । प्रपञ्चितम् । १४७ सधर्मितावच्छेदकविशिष्टवैशिष्ट्यबोध १५५ विशेष्ये विशेषणमिति स्थले विशिष्टस्थले विशेषणतावच्छेदकप्रकारकनिश्च वैशिष्टयस्थले च विषयतातिरेकं वियत्वेन हेतुत्वम् , निर्धर्मितावच्छेदक नाऽपि वोधविशेषोपपादनस्य मौलस्य विशिष्टवैशिष्ट्यबोधस्थले विशेषणता आशयोद्घाटनेन स्पष्टीकरणम् । १०५ १४ वच्छेदककप्रकारकज्ञानत्वेन हेतुत्वमि १५६ प्रकारान्तरेण तत्र विशिष्टनिष्ठप्रकात्युपदार्शतम् । १०० ३ रतानिर्वचनं न युक्तमित्युपदर्शकं न १४८ विशिष्ट वैशिष्ट्यबुद्धेः तृतीयप्रकारस्य मूलं व्याख्यातम् । १०५ ३४ "एकविशिष्टेऽपरवैशिष्ट्यमिति बोधस्य १५. रक्तत्वावच्छिन्नावच्छेदकतानिरूरकयद्विशिष्टे वैशिष्ट्यमिति बुद्धित्वं तस्य दण्डत्वावच्छिन्नप्रकारताकबुद्धित्वमेव व्यावर्णनं, तत्र कार्यकारणभावप्रकारो रक्तदण्डवानिति विशिष्टवैशिष्टयबुद्धिपदर्शनं च। १००६ त्वमिति निगमितम् अनुमितिहेतुविशिष्टवैशिष्ट्यबुद्धेः तुरीयप्रकारस्य परामर्शेऽपि तथैव कारणतावच्छेदकनि" एकत्रद्वयम्" इति रीत्या बोधस्य र्वचनं च। निरूपणम् , तत्र विषयिताप्रकारिता. १५८ उक्तनिर्वचने व्याप्तिघूमत्वयोरेकत्रद्वयद्वयावच्छिन्न विशेष्यितारूपेत्यादिव्या. मितिरीत्या परामर्शादनुमित्यापत्त्याशङ्कावर्णनम् । १०२ ३ ऽपाकृता। १०७ ४ १५. इत्थं व्युत्पादितस्य विशिष्ट वैशिष्ट्यबुद्धः 1५९ प्रागुपदर्शितानुमितिपरामर्शकारणतावप्रकारचतुष्टयप्रतिपादकनैयायिकमतस्य च्छेदकनिर्वचनमनेकान्तं कान्तं न त्वे. खण्डनम् तत्र सामान्यविशेषापेक्षया कान्तमित्युपदर्शितम् । १०८ ३ Page #18 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः । अङ्काः, विषयः, पृष्ठम् , पतिः । १६० विशिष्टपर्याप्तप्रकारतकान्तपक्षे तथा भूतानेकप्रकारतास्वीकारापत्तिदोषतोऽयुक्तत्वं भावितम् । १०८ ४ १६१ क्षयोपशमविशेषजन्यतावच्छेदकसमनि यतानेकविषयतास्वीकरणस्य न्याय्यत्वं, प्राह्यस्येव ग्राहकस्य चित्रस्वभावस्यापेक्षया विवेचनस्य शक्यत्वम् , अखण्डविषयताविशेषसाधनम्, व्यवहारो च्छेदपरिहरणं च निगमितम् । ११० १ १६२ विशिष्टवैशिष्टयबोधविचारफलं पद्याभ्या मुपदर्शितम् । १६३ पद्यद्वयार्थस्य स्पष्टीकरणम् । ११ २८ १६४ एकानेकरूपा नयप्रमाणप्रतिपत्तय इत्यु पसंहारः। १६५ नयस्य संशयसमुच्चयभ्रमप्रमावलक्ष____ण्योपदर्शकमष्टमं पद्यम् । ११३३ १६६ एककोटिकज्ञानरूपस्य नयस्य संशयत्व. समुच्चयत्वे न प्राप्ते इति तनिषेधनं कथं सङ्गतिमेतीत्याशङ्कोद्धरणम् । ११३ २३ १६७ नये संशयत्वप्रतिषेधानुमानप्रयोग उप दर्शितः। १६८ संशयसमुच्चययोरुभयकोटिकत्वाऽविशे षेऽपि प्रकारगततया विरोधाविरोधमानाभ्यां विशेष इत्येकं मतम्, .. संशये प्रकारताद्वयनिरूपितका विशेष्यता, समुच्चये तु विशेष्यताभेद इति मतान्तरम् । ११४ १ १६९ भेदाभेदवादे निरुक्तविशेषः सङ्गतो नै कान्तवादे इति मूलाभिप्रेतस्य सम्य गुपपादनमवतरणादिना। १७. 'नयो यथार्थत्वाद् विभ्रमो न, अपूर्ण. त्वात् प्रमा न' इत्यस्य विवरणम् । ११४ ३ १७१ अलौकिकप्रामाण्यनिषेधो नये, लौकि कप्रामाण्यं तत्रास्त्येवेति न व्यवहारविरोधः। ११५ २ । अङ्काः विषयः, पृष्ठम्, पतिः १७२ नयस्य संशयादिचतुष्टयवलक्षण्यं न स्वमनीषाविजृम्भितं किन्तु तत्त्वार्थभाष्यसम्मतमिति तत्त्वार्थभाष्यप्रन्थो दृङ्कनम् । १७४ भाष्यग्रन्थार्थस्पष्टीकरणम् । ११५ ३३ १७५ भाष्ये निदर्शनत्रयोपादनप्रयोजनं मलकारेणाविष्कृतम् । ११६ ५ १७६ सत्त्वादिभिर्धमैरेकत्वाद्यध्यवसायानामुपपादनम्। ११६ २० १७७ अत्र "त्रिमिनिदर्शनैः" इत्यादि म्लप्रन्थार्थस्पष्टीकरणम्। ११६ २८ १७८ लौकिकदृष्टान्तेन नयस्य प्रमाणाप्रमा णोभयवैलक्षण्यसमर्थक नवमं पद्यम्। ११७ २ १७९ स्वार्थे सत्यत्वमपि नयानां स्वप्रति पक्षभूतनयेनाप्रामाण्यशङ्काकवलितत्वानैकान्तत इति सम्मतौ दृष्टम् , इति उपदर्शकं दशमं पद्यम् । ११७ ८ १८. सम्वादस्वरूपा "णिययवयणिज्ज सच्चा" इति गाथोल्लिखिता। ११८ १ १८१ नयप्रन्थे सम्मत्यादौ बौद्धादिदर्शनपरि प्रहेण नैयायिकादिदर्शनखण्खने बौद्धादिदर्शनपरिग्रहे मिथ्यात्वाशङ्कोन्मूलक मेकादशपद्यम्। १८२ रत्नप्रभायां रत्नबुद्धेः फलतः प्रामा ण्यवहुर्नयान्तरपरिग्रहस्यापि फलतः प्रामाण्यम् । ११८ १ १८३ शुद्धपर्यायादिवस्तुप्राप्त्या फलतो न मिथ्यारूपा बौद्धादिनयपरिप्रहा इति मूलस्य स्पष्टीकरणम् । ११८ १९ १८४ द्रव्यार्थिक-पर्यायार्थिक-भेदेन सोपतो नयस्य द्वैविध्यम्, द्रव्यार्थिकमते द्रव्यमेव तत्त्वं न तद्भिनमित्येतत् प्रतिपादकं द्वादशपद्यम् । ११९ २ १८५ उकप्रकारेण सोपतो नयद्वैविध्यप्रति पादिका सम्मतिगाथोल्लिखिता। ११९ . Page #19 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः । अकाः, विषयः, पृष्ठम् , पक्किः १८६ पर्यायाणामशेषाणामतन्मते कल्पितत्वम् , तदन्वयिव्यस्य सत्यत्वमिति निदर्श नावष्टम्भेनावेदकं त्रयोदशपद्यम् । १९१३ १८७ उक्तपद्याशयप्रकटनम् । १२० २ १८८ द्रव्यार्थिकनयनिरूपणे पर्यायस्य काल त्रयेऽप्यसत्त्वे एतत्सम्प्रदायविद आ दावन्ते चेति पद्यं तद्विवरणं च। १२१ ३ १८९ द्रव्योपयोगस्य शुद्धसङ्ग्रहे व्यवस्थितत्वं शुद्धसङ्ग्रह-शुद्धऋजुसूत्रविषयमध्ये द्रव्यपर्यायधीरेवेति प्रतिपादक “अवं द्रव्योपयोगः स्याद्" इति पञ्चदशपद्यं तझ्याख्यानं तदुपपादनं च। १२२ ७ १९. अपश्चिमनिर्विकल्पनिर्वचनं यावद्व्यो पयोगप्रवृत्तिरित्यावेदिका सम्वादकतया "पज्जवणयवुकतं" इति सम्मतिगाथा तद्विवृतिश्च दर्शिता। १२४ ३ १९. द्रव्यपर्यायविषयतया तदितराविषयतया वा शुद्धजातीयद्रव्यार्थिक-पर्यायाथिकव्यवस्था न सम्भवति किन्तु उपसर्जनीकृतान्यार्थप्रधानीकृतस्वार्थविषयतयेत्यत्र सम्वादकतया " दवढिओ त्ति" इति सम्मतिगाथादर्शिता। १२४ १३ १९२ द्रव्याथिकवक्तव्यस्य पर्यायार्थि केऽव. स्तुत्वं तद्वतव्यस्य च द्रव्यार्थिकेऽवस्तुत्वमित्युपदर्शिका “दव्वढिअवत्तवं" इति सम्मतिगाथादर्शिता। १२५ ४ १९३ पर्यायार्थिकमते पर्यायेभ्यो व्यतिरिक्तस्य द्रव्यस्याऽसत्त्वसमर्थनपरं-" पर्यायार्थ मते" इति षोडशपद्यं तद्व्याख्यानं च । १२५ 11 १९४ पर्यायार्थिकमते अर्थक्रियाकारित्वमेव सत्त्वं तयापकक्रमयुगपत्कारित्वान्यतरनिवृत्तितः स्थिरान्निवर्तनमानं क्षणिकेध्ववतिष्ठते इति क्षणिकत्वं भावानां साधयतीत्यस्य उपपादनं शङ्कासमाधाना भ्याम्। १९५ सर्वपर्यायाणां क्षणिकत्वस्योपसंहरणम् । १३६३ अङ्काः, विषयः, पृष्ठम् , पतिः १९६ प्रत्यभिज्ञायाः “तत्रापूर्वार्थ-विज्ञानम्" इति भट्टोक्तप्रामाण्यलक्षणाक्रान्ततया प्रामाण्यं तया च क्षणिकत्वं बाधित मिति पूर्वपक्षः। १९७ “ यथालूनपुनर्जात" इत्यादि सप्त दशपद्येन प्रत्यभिज्ञाया अप्रामाण्यं व्य वस्थाप्य उक्तपूर्वपक्षापाकरणम् । १३. ५ १९८ विनाशस्य सहेतुकत्वेन तद्विलम्बाद्वि नाशविलम्बतो घटपटादीनां कियत्कालस्थायित्वतो न क्षणिकत्वमिति प्रश्नस्य विनाशस्य निर्हेतुकत्वव्यवस्थापनेनापा करणं विस्तरतः। १९९ भ्रान्तिकारणविगमादन्ते प्रत्यक्षतः क्षण क्षयनिश्चय इति निगमनम्। १४२ ४ २०० द्रव्यार्थिकस्यावान्तरभेदवत्पर्यायार्थिक स्यापि अवान्तरभेदा बहवः, तत्र एव. म्भूतस्यैव शुद्धपर्यायार्थिकत्वे ऋजुसूत्रस्यामिमतं तदनुपपन्नमिति प्रश्नस्य परिभाषाश्रयणेन प्रतिविधानम् । १४२ ५ २०१ द्रव्यार्थिकपर्यायार्थिकयोर्जात्या शुद्ध त्वाशुद्धत्वैकान्तोन किन्त्वपेक्षया इत्यत्र "दव्वं पज्जवविउअं" इत्यादि सम्मतिगाथापञ्चकं द्रव्याथिकनये परिणा मोऽन्यादृशः तदन्यश्च पर्यायनये सः। १४३६ २०२ "जीवो गुणपडिवन्नो" इति गाथा व्याख्याने भाष्यकृता एकैकनयस्येतरासमानविषयकत्वध्रौव्योद्भावनपूर्वकं भिनाभिन्नद्रव्यपर्यायोभयग्राहकनयद्वयवादिव्याख्यातृमतं कथं निरस्तमित्या शङ्कय तत्प्रतिविधानं दर्शितम् । १४५ १ २०३ " तार्किकाणां त्रयो मेदाः" इत्यष्टा दशपद्येन वादिसिद्धसेनमते नैगमसङ्ग्रहव्यवहारा द्रव्यार्थिका अन्ये पर्यायाथिकाः, सैद्धान्तिकमते नैगम-सङ्ग्रहव्यवहारर्जुसूत्रा द्रव्याथिका अन्ये पर्यायार्थिका इति । Page #20 -------------------------------------------------------------------------- ________________ STET:, विषयः, २०४ अत्र सैद्धान्तिकानां तार्किकाणां च म तभेदयोः समर्थनम् । २०५ " नैगमः सङ्ग्रहचैव " इति एकोनविंशतितमपद्येन नैगमसङ्ग्रहव्यवहारर्जुसूत्र शब्दसमभिरुदैवम्भूतमेदेन नयानां सप्तविधत्वमुपदर्शितम् । २०६ ' निगमेषु भवो बोधो ' इति विंशतितमपद्येन नैगमलक्षण प्रदर्शनम् । २०७ ' तत्प्रसिद्धिश्च' इत्येकविंशतितमपद्येन लोकप्रसिद्धेः सामान्यविशेषाद्युभयाश्रितवं निष्टङ्कितम् । नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । अङ्काः, विषयः, २१८ " दह्यते गिरिरध्वासौ " इति षड्डिशतितमपद्येन व्यवहारस्योपचार बाहु २०८ जातिघटितं नैगमलक्षणमुक्तम् तत्र दु र्नयस्वाद्याशङ्काऽपाकृता । २०९ जातिघटितनैगमलक्षणप्रकाराणां समन्वयोऽतिव्याप्त्यादिदोष परिहाराय तदुप २१० स्कारश्च कृतः । 'सङ्ग्रहः सङ्गृहीतस्य " इति द्वाविं शतितमपद्येन सङ्ग्रहलक्षणमुक्तम् । २११ अव्याप्तिनिरासाय पद्यो कलक्षणपरिस्करणं, तत्र ' संगहिय' इति सूत्रस्वारस्यम् । पृष्ठम्, २१२ सम्प्रहस्य लक्षणान्तरं तत्राव्याप्तिनि• रासः, तत्त्वार्थमाष्यानुगमनश्च । २१३ सप्रहस्य सामान्यमात्राभ्युपगन्तृत्वमुपपादितम् । . १४८ * १४९ ५ १४९ पङ्किः १५० १५० ९ १ १५० १६ १५१ ६ १५१ १० १५१ २ १६२ ७ २१४ एक-द्वि-त्रि- चतुः - पञ्च' इति त्रयोविंशतितमपद्येन सम्प्रहस्य सामान्यविशेषाभ्यां भेदाभ्यां जीवगोचराः सङ्ग्रह प्रकाराः सिद्धान्तोक्ता भाविताः । १५१ २१५ “ उपचाराविशेषाश्च" इति चतुर्विशतितमपद्येन नैगमव्यवहारेष्टोपचारविशेषानभ्युपगन्तृत्वं सम्प्रहस्य दर्शितम् । २१६ ' उपचारेण बहुलो' इति पञ्चविंशति तमपद्येन व्यवहारलक्षणं दर्शितम् । १५४ S २१७ पद्योकं तत्त्वार्थसम्मतम् निर्युक्तयनु सारि लक्षणान्तरमावेदितम् । ८ १५४ २ १५४ १४ ल्यमुक्तम् । " विस्तृतार्थो विशेषस्य " इति सप्त विंशतितमपद्येनास्य विस्तृतार्थत्वलौकिकसमत्वे उपपादिते । २२० " पञ्चवर्णाभिलापेsपि " अष्टाविंशतितमपद्येन पञ्चवर्णो भ्रमर इति वाक्यजबोधे कृष्णोत्तरवर्णविषयता न व्यावहारिकीति समर्थितम् । " भावत्वे वर्त्तमानत्व " इत्येको नत्रिशत्तमपद्येन ऋजुसूत्र लक्षणं युक्तं तत्र शब्दाद्विशेषोग्निर्युक्तितत्त्वार्थ संवादोऽस्य २१९ २२१ २२२ पृष्ठम्, 66 २२३ “पलालं न दहत्यग्निः " इति प्राचीनपद्यमुक्तार्थसंवादि दर्शितम् । २२४ जुसूनये क्रियाकाल - निष्ठाकाल्योरभेदे कृतकरणा परिसमात्याशङ्का प्रतिक्षिप्ता । १५६ २२५ क्रियमाणः कृत एवेत्युपगमे चक्रभ्रम. णाद्युपलक्षितदीर्घ क्रियाकालैः घटदर्शन • माशय प्रतिक्षिप्तम् । २२६ तत्र " पइसमयकज्ज कोडी " इति भाव्यवचनसंवादः । २२७ कृतस्यैव करणे क्रियावैफल्याशङ्काऽपाकृता, शङ्कान्तराणि प्रतिक्षिप्तानि, सामीसमयस्य कार्यव्याप्यत्वं व्यवस्थापितम् । २२८ पर्यायनयविचारे कार्यक्षणेषु कारणक्षणानामव्यवहितपूर्ववर्तितयोकस्य हैतुत्वस्यात्र सहवृत्तितया हेतुत्वे विरोध इत्याशङ्का प्रतिविद्दिता । व्यवहारतो मन्तव्यविशेषोपदर्शनश्च । १५९ ३ 'इष्यतेऽनेन " इति त्रिंशत्तमपद्येन क्रियानिष्ठा काल सम्बन्धिद्रव्याभावादेकश्रावस्थान्तरसमागमो नास्याभीष्ट इति विशेष उपदर्शितः । १५६ ११ १६० ११ १५८ ४ पङ्क्तिः १६१ १ १६२ १६० १३ १६२ ५ ३ 9 १६२ ९ १६४ १ Page #21 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। अङ्काः विषयः, पृष्ठम् , पतिः २२९ क्रियमाणत्व-कृतत्वयोर्विविकं स्वरूपमु. पपाद्य कृता क्रियमाणं कृतमित्यत्रान्व यानुपपत्त्या शङ्का प्रतिविहिता। १६४ ९ २३० प्रत्ययार्थस्य वर्तमानकालवृत्तित्वस्या तीतकालवृत्तित्वस्य वा धात्वर्थेऽन्वया भ्युपगमे परस्यानिष्टापादनम्। १६६ ४ २३१ अत्र परस्यानेकानिष्टपरिहारप्रकारा आ. शङ्कय प्रतिविहिताः। २३२ क्रियमाणस्य नियमेन कृतत्वं कृतस्य क्रियमाणत्वे भजनेत्यत्र " तेणेह कब. माणं" इति भाष्यगाथासंवाद। १५१ ७ २३३ “दह्यमानेऽपि शाट्येकदेशे" इति द्वा त्रिंशत्तमपद्येन ऋजुसूत्रनये शाव्यैकदेशे दह्यमाने शाटी दग्धेति वचनं तत्र स्क न्धोपचारतः। २३४ अत्र “उजुसुअणयमयाओ" इति भाष्यगाथासंवादः। १७२ ८ २३५ क्रियाकालनिष्ठाकालयोर्भेदे आपतिते ऽपि “भूतेषां क्रिया सैव" इत्याश्रयणाद् ऋजुसूत्रनये तयोर्योगपद्याविरोधः “कजमाणे कडे" इति भगवद्वचनं तूत्पादादीनामेकधर्मिसंसगितया त्रैकाल्यविषयत्वेन प्रमाणार्थक तया व्याख्येयमित्यादि प्रपच्चितम् । १७२ ११ २३६ उक्कार्थे “ उप्पजमाणकालं" इति। सम्मतिगाथासंवादो दर्शितः। १७५ १ २३७ “विशेषिततरः शब्दः" इति त्रय. त्रिंशत्तमपद्येन शब्दनयस्य लक्षणं तत्र "इच्छद विसेसियतरं" इति सूत्रं प्रमाणं, समभिरूद्वैवम्भूतयोरतिव्याप्ते बरिणश्च । २३८ "ऋजुसूत्राद्विशेषोऽस्य" इति चतु स्त्रिंशत्तमपद्येन शब्दनयस्यर्जुसूत्राद्विशेषो भावमात्राभ्युपगन्तृत्वादिधमैरावेदितः। १७५ ११ नामस्थापनाद्रव्यभावनिक्षेपेषु भावनिक्षेपमात्राभ्युपगन्तृत्वं शन्दनयस्य, तत्र "णामादयो ण कुम्भा" इति भाष्यगाथासंवादश्च । १७६ १ अङ्काः, विषयः, पृष्ठम् , पतिः २४. सप्तभन्यर्पणाच्छन्दनयस्यर्जुसूत्राद् वि शेष उपपादितः तत्र “अहवा पच्चुप्पण्णो" इति "सब्भावाऽसम्भावो" इति भाष्यगाथाद्वयसंवाद आवेदितः। १७६ ११ । अत्र उक्तभाष्यगाथाभ्यां सप्तभङ्गलाभो यथा भवति यथा चर्जुसूत्राच्छब्दस्य वदभ्युपगमे विशेषिततरत्वं स्याद्वादिन स्ताभ्यां विशेष इति विशेषावश्यक. त्युक्तमुपदर्शितम् । २४२ सप्तमजया अर्थनयाश्रितत्वे शब्दनया श्रितत्वे वा शब्दनयस्यर्जुसूत्रनयतो वि. शेषिततरत्वानुपपत्तिमुद्भाव्य तदुपपत्तये स्वमनीषोन्मेष उपदर्शितः । १७८ ३ २४३ लिङ्गभेदादेरर्थभेदाश्रयणाच्छन्दनयस्य ऋजुसूत्रनयाद् विशेष उपपादित । १८० ३ २४४ “सामानाधिकरण्यं चेत्" इति पञ्च त्रिंशत्तमपद्येन यथा विकाराविकारार्थकयोर्न सामानाधिकरण्यं नेष्टमृजुसूत्रस्य तथा भिन्नलिङ्गादिशब्देष्वपि सामानाधिकरण्यं नाभ्युपगन्तव्यमिति तम्प्रति शब्दनयस्योपदेशः। २४५ "नयः समभिरूढोऽसौ इति षदत्रिं शत्तमपद्येन समभिरूढनयलक्षणं दर्शि तम् , नियुक्तिगाथा भाष्यसंवादस्तत्र । १८२ . २४६ पर्यवसितसमभिरूढलक्षणं दर्शितम्। १८३ १ २४७ " तटस्तटं तटीत्यादौ" इति सप्त त्रिंशत्तमपद्येन शन्दनयं प्रति समभिरूढ नयस्य शिक्षणम् । २४८ "संज्ञाऽर्थतत्त्वं न ब्रूते" इत्यष्टात्रि शत्तमपद्येन समभिरूढनयमते पारिभाषिकी डित्थडवित्यादि संज्ञापदार्थानुभवं न जनयतीति दर्शितम्, तत्र तत्त्वार्थभाष्यसंवादः। १८४ ७ २४९ “एवम्भूतस्तु सर्वत्र" इति एकोन चत्वारिंशत्तमपद्येन एवम्भूतनयस्य लक्षणमुपदर्शितम् । १८४ १४ । Page #22 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकृतस्य नयोपदेशस्य शुद्ध्यऽशुद्धिपत्रकम् । शुद्धम् . पृ. प. अशुद्धम्. २११ शुद्धम्. पनाय प्तम पृ. प. २१ ३० २१ ३५ २२ ३६ २२ ३६ २३ १३ अशुद्धम्. सम्यक्तत्त्वान वाप्तेः धकाननुमानेन गुरुरन्तरकाले वाहका त्मकस्यैव ने ना निबन्धो त्वस्य च बाधित्वा बोधितस्य पट वृ . वत्वेन वत्वं त्वप्र घपप २४ १४ २४ ३. सम्यक्तत्त्वावबोधान- वाप्तेः द्यकानुमानेन गुरुरनन्तरकाले वाहीका त्मकत्वस्यैव नेना निबन्धनो त्वस्य बाधितत्वा बाधितस्य पटोभय वृ वत्त्वेन वत्त्वं त्वाप्र घव नैवेति तावच्छे गो पा यत्कि स्य न नि स्येवैक कहस्त ति त जात्यस्यै प्रत्यक्षं तास क्रान्तत्वात कैकजी स्यादपि यत्वमेव, न्यं जीव इति पानाय प्तमभ स्वतकन्धा स्कन्धसम्बन्धा भ्याम् प्तमभ पकत्वा तवाद् प्ताव वच्छक व्यायपत्व द्वित्वेन द्वित्वेन द्वित्मुत्प तत्समरणयोः नुभाविक दिति । स्य धीजघन्य बुद्धिरिति तत्तध्वंस सम्भात् त्यात्तिश्च प्रन्थि २५ ३ २६११ २. " ૨૭ ૨૧ ११ २३ ११३६ १२ १७ ૧૨ ૨૧ १२२२ स्कन्धा स्कन्धसम्बन्धासम्बन्धाभ्याम् प्तम पत्वा त्वाद् यव वच्छेदकं व्यायत्व द्वित्वत्वेन द्वित्वत्वेन द्वित्वमुत्प तत्स्मरणयोः नुमिति दिति स्य धीजन्य बुद्धेरिति तत्तद्ध्वंस सम्भवात् स्यापत्तिव पन्थि ईश्वरापे पेक्षा बु निरुक्के मित्यपे रिव व्यक्तिवृत्तिक तद्वतं स्वाभिप्रेत १३ २६ ताच्छे गो। पा यावत्कि स्य त नि २८ २९ २८ ३० २९ १० ३० २५ ३२ १० ३२ २९ ३३ ४ १३ २८ १५ २६ १५ २९ स्यैक क हस्त ति । त १६ १५ ईश्वरपे पेक्षबु ३३ १४ जातस्यै १६ २७ १६. ३२ ३३ २१ १६ ३३ प्रकारक तास कात्वात कैजी स्याद् अपि यत्यमेव, न्यमीश्वर इति १७ १५ १९११ ૧૬ ૧૪ २१ . २१ १६ निरुके मित्पे रिब व्यक्तिक तद्रतं स्वामिप्रेत जनकता ३४ १८ ૨૪ ૨૧ ૨૪ ૨૪ ३४ २६ जन्यता Page #23 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । ३४ २८ ३६ ८ ३७१० ३८ १२ ३८ १२ ३९ २५ ४१ २१ ४१ ३२ ४२३ ४२ १४ ४३ १२ ६४ २. अशुद्धम्. शुद्धम्. जन जन्य नुभाव नुभव न्ते वृत्ति न्तवृत्ति अत नय अत एव नय त्वाद्यन्त त्वाद्यनन्त युक्त पक्ष युक्तपक्ष षु, धर्मेषु षु धर्मेषु, स्तित्वा स्तित्वत्वा तब त सम्मत्येवेति सम्भवस्येवेति तत्तद्विविशिष्ट तत्तविशिष्ट भानेन मानेन ससम्बन्धा सम्बन्धा स्य भावप्रतियोगी- खाभावप्रतियोगो 'अ घटः' इ घट इ नं चा ने चा त्वोत्पत्ति त्वावच्छिन्नोत्पत्ति भूतानामिति भूतानुमिति यकित्किञ्चित्त यत्किञ्चित्प स्योपपत्ति स्योत्पत्ति अमावस्येत्येव अमावस्यैव त्वादेव त्वादेव त्वाचप्रत्ययः, त्वादचूप्रत्ययः ये व्य ये। ध्य सत्वासत्वेऽपि सस्वासत्त्वे अपि मितिरिव मितेरिव बोषस्य बोधस्य त्वेत - त्वेन व्यवर्तव्य व्यवहर्तव्य इति इति भाषाया इति भाषाया तदनुभय तदुभय दि लौ दिलौ सत्या ल सत्याल वाक्यशाब्द वाक्यजशान्द उत्सर्गिक औत्सर्गिक मित्यन्येके मित्येके वाक्यताऽपि, किं वाक्यताऽपि किं अशुद्धम्. द्योतत इत्य द्योत्यत इत्य ५५ २३ नीलरूग नीलान्यरूपा ५७ २५ नीलात्वा नीलत्वा भिमत्वात् भिमतत्वात् खीकरणम् स्वीकरणीयम् - गमे युज्येत गमे न युज्येत ६॥ ३३ वृतीत्यत वृत्तीत्यतः ६२ ११ वायवे वावयवे ६२१ नीलतर नीलेतर ६२ २५ प्रति लघु प्रति हि लघु ६३ १६ पीतायेनक पीताधनेक त्पत्ति प्रसङ्गस्य त्पत्तिप्रसङ्गस्य नीलं कारणं नीलेतररूपं कारणं ६३ ३३ पीतं कारण पीतेतररूपं कारण देरूपग्रहः देरुपग्रहः ६४ १५ तत्त्क तत्क यदिनीलरूपं पदेकं नीलरूपं ६४ २७ नोत्पत्ति ननीलोत्पत्ति इत्यात्रादि इत्यत्रादि तराभावा तररूपाभावा ६८ ४ सत्त्वेऽपि चित्र सत्त्वेऽपि सम्भवतीति चित्र ६९१ तत्कपाले तत्काळे ६९ २३ तत्कपाले तत्काले ६९ २४ वृत्तिकत्वात् वृत्तिकत्वाभावात् यद्यप्यव्याप्य यद्यव्याप्य चित्रास्वा चित्रत्वा गौरवेव । शु- गौरवेण शु समवेततत्व समवेतत्व समवेतत्व सम समवेत सम यत्किञ्चित्कारण यस्किश्चितकार्यता तावच्छेदक वच्छेदकं अवयवि नीलतर- अवयवि नीलत्वास्वावच्छिन्ने वच्छिचे नं तत्रो नं न तत्रो ७५२१ तत्तत् प्रत्यक्ष तत्तत्प्रत्यक्ष ७५१० (नीले) (नील) ७६ ५० २८ ७.१२ ११२ ५३ १२ ५२ १३ ५३ २३ ५३ ३५ ५४ ६ ५४ २० ५५ ३२ । Page #24 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । ८९ १४ इत्येवं ७७ १७ ७८ १९ ७८ २३ ७९ २२ ९० २३ ९.२० भ्युगमे १११७ ८१३१ ८२ १३ ८२ १९ ૮૨ ૨૧ ૮૨ ૩૭ ૮૨ ૨ ८३ १४ ९१ ३२ ९२ २१ ९२ ३३ अशुद्धम् . शुद्धम् . तरुसंयोगश्चान्य तरुसंयोग इत्येवं लब्धाननेक लब्धावनेक वहिमानसा वह्निमानसा समानसंवेद्यत्वम् समानसंवित्संवेद्यत्वम् तस्यापि। (विशेष्ये तस्यापि विशेष्ये वच्छेदकतथैव । वच्छेदकतयैव । घटपटत्वादि घटघटत्वादि निरवच्छिन्ना, निरवच्छिन्ना वा, भ्युपगमे विशिष्ट्यवैशिष्ट्य विशिष्टवैशिष्ट्य कार्यतावदच्छे कार्यतावच्छे संस्कारदे संस्कारादे भ्युगाद्' भ्युपगमाद्' साधारणस्यैवोप साधारणस्योप अभावः 'प्रति 'अभावः प्रति तोऽभावः, दण्डा ता 'अभावो दण्डा विषयताया विषयिताया साधनाता साधनता तेति । अत्र तेत्यत्र एवानुभावात् एवानुभवात्, रकवाक्य वु रताकवाक्यजबु वैशिष्टबुद्धि वैशिष्ट्यबुद्धि न चैवं किन्तु न चैवं, किन्तु वन्वयाव्यति वन्वयव्यति भान भानं सद्धमे प्र तद्धर्मप्र मानत्ववतो मानत्वतो यतोव हि यतो वह त्वाच्छेद्य त्वावच्छेद्य निरूपित्व निरूपितत्व तदवच्छे कत्वे तदवच्छेदकत्वे प्रकारकस्य प्रकारताकस्य जन्ता जन्यता ताम्' इति स्थाने ता' इति स्थाने ताम्' इति पाठो ता' इति पाठो अशुद्धम्. शुद्धम् . लौहित्या-व लौहित्य-व ज्ञाना सत्वेऽपि ज्ञानासत्त्वेऽपि पर्युल्लेख्य पर्युल्लिख्य व्यवसाश्च व्यवसायश्च निरुकवैशिष्ट्य निरुकविशिष्टवैशिष्ट्य पथाव पथानव तदभिलप्य तदमिलाप रूप त्वात् रूपत्वात् प्रकारत्व प्रकारकत्व व्यभिचारणस्य व्यभिचारस्य रक्तदण्डेति रक्तदण्डो द्रव्यमिति समूहालम्वन समूहालम्बन दुक्त विशिष्य दुक्कविशिष्य त्वान त्वानि कर्षः किन्तु कर्षः, किन्तु दकम दक प्रकारकज्ञानम दकं किन्तु दकं, किन्तु वच्छेकत्वं वच्छेदकत्वं सति सा सति पत्र सा नास्ति सा नास्ति तत्र सा सादृशा तादृशा नुमितिरेवोद नुमितिरुद नुमित्युनु नुमित्यनु शकिचा शहिता दकं किन्तु दकं, किन्तु गि थिवी गिपृथिवी वच्छदकं वच्छेदकं ट्यागा ष्ट्यावगा दकयुक्ता दकमुका अत्र यत्र आहार्य संशा आहार्य संशतद्वत्ता तद्वत्ता ज्ञानस्य प्रकारकज्ञानस्य समस्य्यैव समस्त्येव, 'विशिष्टवैशिष्ट्यम्' विशिष्टवैशिष्ट्य ८४ २५ ९३ २४ ९३ ३७ ९४ ३ ८६ १९ ९५ २५ ८६ २७ ८६ २८ ९५२७ ९५ २९ ९६४ ९६ २३ ८८.१४ ९८२० ९८ २४ . ८९ १२ Page #25 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । अशुद्धम् . ता पर विशिष्टवैविशेषणात णताहेतुत्वे मिति प व्यवहियते वाचिनचयाः दयत्तिष्ठन्ति द्रव्याथेका विशिष्टवै वस्तु नन्तर्भा रिका द्व व्यनि अशुद्धम् . शुद्धम् . इति बुद्धित्वं तु बुद्धित्वं तु रीत्या भवतु रीत्या भवति 100 " तत्कारणावच्छे तत्कारणतावच्छे १०० २४ वैशिष्टम् वैशिष्ट्यम् १०० ३९ रात् तत्रापि रात्, तत्रापि १०१६ नन्तरर्भा १.१ १२ विनाऽभावेऽपि विना भावेऽपि १.१ ३३ चैत्रो दण्डो चैत्रो दण्डी १०२ १९ रिताद १०२ २३ निरुका निरुक्त १.३ १४ विषयताया विषयिताया १०३ २० भासनयो भासमानयो १०४ २ ज्ञानविषयकत्वं ज्ञानविषयविषयकत्वं १०४ ५ मुपादाय दण्डमात्र मुपादाय दण्डमात्र १०४ ५ विषयकपुरुषज्ञानविषयकस्वं विशेषाणांशमुपादाय दण्डमात्र प्रकारकः सम्भ प्रकारः सम्भ १०४ २२ विषयताऽभेद विषयताभेद १०४ २७ न्धेनवैशिष्ट्य न्धेन वैशिष्ट्य १०४ ३० मिति । सामा मिति सामा १०४ ३७ ध्रौव्येणेति न ध्रौव्येणेति । न भेदः किन्तू भेदः, किन्तू १०५ " समैव । विशिष्ट समैव विशिष्ट १०५ १२ मुपास्य मुपगम्य १०५ १९ नविच्छेदकभाव नविच्छेद्यावच्छेदकभाव १०५ २७ दण्डत्वाववच्छिन्न दण्डत्वावच्छिन्न १०५२८ विशिष्बोधस्य विशिष्टवैशिष्ट्यबोधस्य १०५ ३२ ता बुद्धित्वं ताकबुद्धित्वं १.७ २० हेत्वंशव्यप्ति हेत्वंशे व्याप्ति १०७ ३४ प्रकारत्वेनैव प्रकारकत्वेनैव १०८ . स्वीकारेणानु स्वीकरणीयमनु ૧૦૮ ૨૨ तवि १०८ ३३ तावि ता-वि १०८ ३३ तया च तथा च ११० ४ संशयं विशेषता तात्मकत्मकत्वात् मानकारता साकार ज्ञानं तस्य न तद्वति तत्तद्विवरणं वैलण्य प्रमाणाप्रमाणैव नतैय्याख्या एवस्मिन्नेवा तज्जतीय संशयने शुद्धपर्यादि इत्यादि पदा दृष्ट्याअप्रमा भावात् पर्यायद्रव्य प्रामाण्या प्रामाण्यं । स्व यावत् तद्दशं सगाना परस्परभिन्न शुद्धम् . ताः पर विशिष्ट विशिष्टव. विशेषेणत णहेतुत्वे मिति-प व्यवहियते वीचिनिचयाः दयोत्तिष्ठन्ति द्रव्यार्थंका विशिष्टे वै वस्तुदूयनि सशये विशेष्यता तात्मकत्वात् मानाकारता साकारं ज्ञानं तस्य तद्वति तद्विवरणं वैलक्षण्य प्रमाणाप्रमाणोभयवै नैतव्याख्या एकन्निवा तज्जातीय संशयेन शुद्धपर्यायादि इत्यादिपदा दृष्ट्योऽप्रमा भावात् शुद्धद्रव्यं पर्याय-द्रव्य प्रामाण्याप्रामाण्यं स्व यावत्, स्तद्देशं समाना परस्परमभिन्न ११० २० ११० २३ १११ ९ १११११ १११३८ १११ २३ १११ ३० १११ ३१ १११ ३८ ११२ ३४ ११३ २५ ११३ ३४ ११३ ३५ ११४ ५ ११४ ८ ११४ ३५ ११४ ३६ ११५ १२ ११५ १४ ११६२६ ११७ १४ ११७ १५ ११७ २० ११७ २५ ११७ २७ ११८ १ ११८ १९ ११८ २३ ११८२५ ११८ २६ ११८३० ११८ ३३ ११८ ३५ ११८ ३५ ११९ १५ ११९ १५ तावि Page #26 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलहतो नयोपदेशः । ११९ १७ १२० ३ १२० ५ १२० . १२० २४ व्या पृ. प. १३. २३ १३९ २६ १४० १६ १४२ ३४ १४३ १३ १४३ २० १४३ ३० १४४ २ १४४ २६ १४८ १५० २५ १५० २८ १५. ३५ १५१ २० १५२ ३३ १५७ २. १५८ ८ अशुद्धम्. शुद्धम्. संयोगो-वि संयोग-वि भाषमानेऽपि भावभानेऽपि गन्तुं गतं निदर्शनाप निदर्शनोप भ्रमाधिष्ठानत्वं सत्यत्वं सूक्ष्माक्षरमिदम् भ्रमविषयत्वं चाऽसत्यत्वमिति प्रत्यक्षप्रती प्रत्यक्षाप्रती रूपमसत्य रूपसत्य वृत्त्यन्ता वृत्त्यत्यन्ता तवृत्त्य तवृत्त्यत्य. मध्यमव्या विनाशव्या य सन् यः सन् न्तु व्य य व्यप क्षेवणा क्षेपणा पाधौ किन्तु पाधौ, किन्तु गोप्र गः प्र षण षेण शतिष ज्ञविष इदृशः ईदृशः नय शुद्ध नयः शुद्ध तत्तकों तत्तत्तों पेक्षया पेक्षाया पादत्या पादनत्वा पादाने पादने रित्वे सति रिसाहित्ये सति पादाना पादना कारपेक्षा कारापेक्षा स च चेन स चेन्न भावत्व भाववत्त्व इत्यतिदि भावावत्तया भाववत्तया त्वस्यव त्वस्यैव रगत कुर्वत्व कुर्वद्रूपत्व अशुद्धम्. शुद्धम्. तैथव तथैव कायम कार्यम दृश्यते दृश्येत व्याः , कर्दशन कदर्शन र्थिशु र्थिक शु यः शुद्ध यः शुद्धाशुद्ध भेदामिति भेदानामिति सत्यपर्यायेण सत्पर्यायेण भ्युपमोऽपि भ्युपगमोऽपि नयत्वाव्याप्या नयत्वव्याप्या नैगमत्व नयत्व नयवृत्त्येव नयावृत्त्येव व्यापृत्वेन ध्यापृतत्वेन स्वीकार स्वीकारः वाक्यस्या वाक्यस्याकृष्णेतरतरवर्णाशे कृष्णेतरवर्णाशे नयस्तेति नेयस्येति भतान्तरा मतान्तरा स्यश्य स्यावश्य द्रूपे वीजत्व कोटौ कोटी, रोपादन रोपपादन त्वातीतत्वातीतत्वादे त्वातीतत्वादे परपम्परासम्बन्धेन परम्परासम्बन्धेन थकाला योW योगव्य नोभेदन नोऽमेदेन सत्य या सङ्ख्याया त्र तार्थविशे व्र विशे तार्थ स ख्यातस ख्यातार्थस तार्थ सङ्ख्या तार्थसया वायाव याव शुद्धसाध्यता शुद्धसिद्धता पट १५८ २१ १२० २८ १२. ३३ १२१ १३ १२१ १४ १२१ २८ १२१ २९ ૧૨૧ ૨૨ १२२ २७ ૧૨૨ ૨૦ १२३ १३ ૧૨૪ ૧ ૧૨૪ ૬ १२४ ११ १२४ १८ १२४ २६ १२५ ८ १२५ १४ -१२५ १८ १२६ ८ १२७ २८ १२८ ३ - रेट ५ १२८ ९ १२९ २४ १२९ ३३ १३.१८ १३१ २२ १३३ ८ १६१ १५ ૧૬૨ ૧૬ १६६३३ र्थ काला १९७३ १६. १० तास इत्यदि १७० १० १७० १३ १५० १३ १७०१३ १७.१४ १७१३ १७१ २५ १७१३ रर्गत परं Page #27 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः । अशुद्धम्. अशुद्धम्. त्रकाल्य उत्पद्यमा शुद्धम्. काभ्य उत्पत्स्यमा एवं पटादि षिततरश १५३ १५ १७ २४ १७४ ५ १७४ १७ १७८ । १७८ २३ । स्याव षितश इति । तेन नुपत्तेव नयर दात्मकन स्य वि षिततरश इति तेन --नुपपत्तेश्व नयविषयप्रति दामकेन १७८२७ १७८ ३. १७९१५१७९ १० १८. ९ १८.२८ घटादि षितश स्यार्थ स्यार्थ - Page #28 -------------------------------------------------------------------------- ________________ पन्याससुशीलविजयगणिसंकलिता नयोपदेशग्रन्थस्य मूले टीकायाश्योपन्यस्तानां गाथादीनामकारादिका सूचिः स्थलम्, पृष्ठम्, पशिः १३४, ९ [खण्डनखण्डखाये परि० १, श्लो. ५] ३१, ३८, २ " [कुसुमाजलौ स्तव० ३, श्लो० २] [तत्स्वार्थे अ० १, सू० ३५, भाष्यम् ] [विशेषावश्यकभाष्य गाथा-२२३१] [सम्मति टीका ] [हरिभद्रीयप्रथमविंशतिः] [विशेषावश्यकनियुक्ति गाथा-२१८४] [अनुयोगद्वारे सू-१४] [विशेषावश्यकभाष्य गाथा-२३२९] [सम्मतौ का० ३, गाथा ३.] [व्याकरणे परिभाषा] अहाः, गाथादिकम्, अमिष्टोमयाजी. अनष्टाजायते कार्य अन्यथानुपपत्ति अपेक्षाबुद्धिः संस्कार ५ अभावविरहात्मत्वं. अर्थानां सर्वेक. ७ अहवा पचप्पण्णो. ' आश्रयव्याप्तित्वे. १ इको उण इह दोसो. • इच्छा विसेसियतरं० " उजुसुअस्स एगे. १२ उज्जुसुअणयमयाओ० १३ उज्जपमाणकालं. १४ उपपदविमतः १५ ऋते तत्वज्ञाना० १६ एए पुण संगहओ. १७ एगदविअम्मि जे. १८ एवं सत्तविभप्पो. १९ ऐदम्पर्य शुध्यति. २. कजमाणे कडे. २. कालात्मरूपसबन्धाः २२ काशीमरणान्मुक्तिः २३ कृष्णसर्प २४ गुण-पर्यायवद् द्रव्यम् २५ जइ एए तह अने. २६ जहा सण-नाणा. २७ जीवो गुणपडिवनो. १८ जे एग जाणइ. २९ जो जाणहि अरिहंते. ३० य तहको अत्थि. [सम्मती का. १, गा. १३] " " " ३३ " " " 11 [षोडशकप्रकरणे] [भागमे] [ श्रुति ? [समन्तभद्रप्रन्ये] [ तत्त्वार्थे अ० ५, सू० ३.]| [सम्मतौ का० १, गा० ३५] १४३, २५ [विशेषावश्यकनियुकि गा०-२६४३] [आचाराजश्रु. १,०१, उ० ४, सू० १२२] [दिगम्बर प्रन्ये ] [सम्मतौ का० १, गा० १४] Page #29 -------------------------------------------------------------------------- ________________ 10 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। स्थलम्, [विशेषावश्यकभाध्य गाथा-२२२९] [सम्मतौ का. 1, गाथा-२८] [तत्त्वार्थे अ., सूत्र , भाष्यम् ] [षोडशकप्रकरणे २ ] पृष्ठम्, पङ्किः १७६, ४ १1८, १ १८४,...१२ . . . . [तत्त्वार्थे अ० १, सू. ३५, भाष्यम् ] [वा० सं० ३१, १८] [सम्मतौ का० १, गाथा 1] [विशेषावश्यकभाष्य गाथा-२३२०] [आगमे [सम्मतौ का० १, गाथा-९] . . . | ܙܙ ܙܙ . 1 ܘܕ ܙ [ " " "१२ ] . . . अङ्काः, गाथदिकम्, ३. णामादयो न कुम्भा० ३२ णिययवयणिजसच्चा. ३३ तत्र पारिभाषिकी. ३४ तत्रापि च न द्वेषः० ३५ तत्रापूर्वार्थविज्ञानं ३६ तत्राप्येते तन्त्रान्तरीया:० ३७ तमेव विदित्वा० ३८ तित्थयरवयणसगह० ३९ तेणेह कज्जमाणं. ४. दवट्ठाए एगे. ४१ दव्वढिओत्ति तम्हा० ४२ दव्वट्ठिअवत्तव्वं. ४३ दव्वं पजवविउअं. ४४ द्रव्यं पर्यायवियुतं. ४५ दांसेन मे खरः क्रीतः. ४६ द्वित्वादयः परार्धान्ता. ४७ धम्मो मंगलमुक्किट्ठ ४८ न च चित्रपटादावपास्त. ४९ न सोऽस्ति प्रत्ययो लोके. ५. नात्यन्तदशो ५१ पइसमयकबकोडी. ५२ पच्चुप्पन्नम्मि वि० ५३ पच्चुप्पण्णगाही. ५४ पज्जवणयवुत्तं. ५५ परिणामो यर्थान्तर ५६ पलालं न दहत्यमिः ५७ पुरिसज्जायं तु पडुप. ५८ पुष्पदन्तौ पुष्प ५९ भावे ह्येकविकल्पः स्यात् ६० भूतिर्येषां क्रिया सैव० १ यद्यदाकासितं योग्य यदा सर्वमात्मैवाभूत्. १३ यदि तुलान्तयोर्नम० ६४ लोहितो यस्तु वर्णेन. ६५ लौकिकसम उपचार. ६ वचइ विणिच्छिअत्यं० ६० वत्थूओ संकमणं होइ. [नयोपदेश श्लो० ५५] [कारिकावली श्लो० १०७] [दशवैकालिके अ० १, गाथा-1] [सम्मति टीका ] [वाक्यपदीये का. १, श्लो० १२४ ] . . [विशेषावश्यकभाष्य गाथा-२३१८] [सम्मतौ का० ३, गाथा-4] [विशेषावश्यकनियुक्ति गाथा-२१०४] [सम्मतौ का० १, गाथा-८] - . . [नयोपदेशे श्लो० ३१] [सम्मतौ का• ३, गाथा-५४] - [अभिधानचि. का. २, श्लो. ३८] ... [श्रुति ? [अविद्धकर्णोद्योतकरादिप्रन्थे ] [तत्त्वार्थे अ० १, सू. ३५, भाष्यम् ] [विशेषावश्यकनियुक्ति गाथा-२१८३] " २१८५] १५४, १४ १५४, १५ १८२, Page #30 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलतो नयोपदेशः । स्थलम्, [खण्डनखण्डखाद्य परि० १, श्लो०६] [ रसमजरी पृष्ठम् , पतिः ८, २२ १६६, १० [ [सम्मतौ का० १, गाथा-३४] [दीधितौ [तत्त्वार्थे अ० १, सू० ३५ भाष्यम् ] [अन्ययोगव्य० श्लो. २८] [अमरकोशे का० १, श्लो० १३] [विशेषावश्यकभाष्य गाथा-२२३२] [सम्मतौ का० १, गाथा-१६] अङ्काः, गाथादिकम् , ६८ वाच्यान्यथोपपत्ति ६९ वापी कापि स्फुरति. ७० विकल्पयो नयः शन्दा० ४१ वृद्धा युवानः शिशवः कपोताः. ७२ वंजणपजायस्य. ३ शाकपाकजत्वादौ० ७४ सत्पर्यायेण विनाशः. ७५ सत्स्वर्थेष्वसङ्कमः. ७६ सतां साम्प्रतानां० ७७ सदेव सत् स्यात् समन्तभद्रो भगवान् सम्भावासम्भावो. ८. सव्वणयसमूहम्मि० १ सविअप्प-निविअप्पं० ८२ सम्वे गया मिच्छावायिणो. ८३ साध्यसामानाधिकरण्या० ८४ बावजजोगविरओ. ८५ सीसमइविष्फारण. ८६ सोऽपयुक्तोऽपि वा तज्ज्ञैः० ८७ सो समणो पन्बइओ० ८८ संगहिअ-पिढिअत्यं० ८९ स्यादवकव्य. स्यादस्त्येव स्वाद १ स्यादस्त्येव सर्व० ९२ स्यादस्त्येव स्याना. ९३ स्यानास्त्येव सर्व० ९४ स्यानास्त्येव स्याद् ९५ हेतुतावच्छेदक सम्बन्धेन० ५२, १० ४६, १६ [व्याघ्रलक्षणव्याप्तौ] [आवश्यकमूलभाष्य गाथा-१४९ ] [सम्मतौ का० ३, गाथा-२५]. الالا १७६, ३४ لالالالا [विशेषावश्यकनियुक्ति गाथा-२१८३] [प्रमाणनयतत्त्वालोके प० ४, सू० १५] सू. १९] सू० १५] सू० २१] सू० १६] सू० २.] [सार्वभौमव्याप्तौ [ " Page #31 --------------------------------------------------------------------------  Page #32 -------------------------------------------------------------------------- ________________ A व्याकरणवाचस्पति-कविरत्न - शास्त्रविशारद - निरुपमव्याख्यानसुधावर्षि - शासनप्रभावकपूज्य आचार्यश्रीमद विजयलावण्यसूरीश्वरजी महाराज । Krishna Printery, Ratanpole, Ahmedabad Page #33 --------------------------------------------------------------------------  Page #34 -------------------------------------------------------------------------- ________________ अहम् । न्यायविशारद-न्यायाचार्य महामहोपाध्याय-श्रीयशोविजयगणिमणिविरचितः स्वोपज्ञनयामृततरङ्गिणीव्याख्यासमलङ्कतो नयोपदेशः। तदुपरिश्रीमत्तपोगच्छाधिपति-शासनसम्राट्-सर्वतन्त्रस्वतन्त्र-श्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्नेन श्रीविजयलावण्यसूरिणा विरचिता तरङ्गिणीतरणिः यो विश्वं वेत्ति विश्वप्रथनपरवचा ध्वस्तकामादिशत्रः, पूज्यानां पूजनीयो नय-मितिधिषणैः सर्वदोपासनीयः । भकानां कामदाता परमपदगतो नित्यशुद्धप्रबुद्धो विघ्नवातान् स वीरोऽपहरतु नितरां मङ्गलागारमूर्तिः ॥१॥ यामासाद्यैव सर्वा व्यवहृतिघटना निर्विरोधात्मलाभा, मन्तव्यं दर्शनानामपि समनुगतं यत्र वादावबद्धम् । सा स्याद्वादावदाता जिनवरगदिता भारती सुप्रसन्ना, भूयादिष्टार्थसिद्धय निज-परमननोद्वारकान्ता नितान्तम् ॥२॥ येषां निर्माणशैली स्व-परसमयगा नव्य-प्राचीनमान्याऽनल्पार्थोद्बोधदक्षा नवनवमननास्वादकान्ता बुधानाम् । श्रीमन्तस्ते बुधेन्द्रा जिनमतप्रथनैकान्तदीक्षाः स्मृतिस्थाः, सन्त्विष्टार्थानुगत्यै यश इति महितां संदधाना अभिख्याम् ॥३॥ तीर्थोमत्येकवार्ता प्रचलति सततं यत्समीपे नराणां, विद्वांसो मोदपूर्णा यदुदितवचनावाप्ततत्त्वार्थबोधाः । श्रीमन्तो नेमिसूरीश्वरगुरुप्रवराः सर्वतन्त्रस्वतन्त्राः, सन्तु प्रत्यूहशान्त्यै सुविमलचरणाः सेविताऽऽचार्यमन्त्राः ॥४॥ नयामृततरङ्गिणी निजनयोपदेशार्थगां यशोविजयवाचकैः सुरचितां बुधाऽऽनन्दिनीम् । शिशूपकृतये गुरुकमकजालिराप्तानुगो वरां तरणिसंयुतामनु करोति लावण्यकः ॥ ५ ॥ नयामृततरङ्गिणी ऐन्दवीव विमला कलाऽनिशं भव्यकैरवविकाशनोद्यता । तन्वती नयविवेकभा-रती भारती जयति विश्ववेदिनः ॥ १ ॥ शिष्टाचारपरम्पराप्राप्तकर्तव्यताकं विघ्नौघविध्वंसनावन्ध्यकारणसर्वज्ञमुखाम्भोजसमुद्भुतवाणीस्तुतिलक्षणं मङ्गलं शिष्यशिक्षायै ग्रन्थादौ निबध्नाति-पेन्दवीवेति- विमला ऐन्दवी कलेवानिशं भव्यकैरवविकाशनोद्यता नयविवेकभा-रती तन्वती विश्ववेदिनो भारती जयतीति सम्बन्धः । 'ऐं'इतिसरस्वतीमन्त्राराधनाऽवाप्तकवित्व-वित्त्वगुणस्यैतद्न्थकर्तुः श्रीमतो यशो. विजयोपाध्यायस्य स्वरचितग्रन्थमात्र एवाऽऽदौ तन्मन्त्रग्रहणात्मकमङ्गलपूर्विकैव प्रवृत्तिरित्यतोऽत्रापि 'ऐन्दवी 'इत्येतत्पदघटकतया तद्ब्रहणमिति, [ मन्त्रशन्दे 'अर्ह, अहम्' इतिवत् सानुनासिकत्व-मान्तत्वयोरभ्युपगमः ] | विश्ववेदिनः सर्वज्ञस्य तीर्थकृतो जिनस्य । भारती वाणी । जयति सर्वोत्कृष्टतया वर्तते, अतः सर्वैरप्यहमहमिकया पूजनीया सा । नहि ज्ञानावरणाद्यत्यन्तक्षयमन्तरेण विश्ववेत्तत्वं सम्भवतीति 'विश्ववेदिनः' इत्यनेन ज्ञानाऽतिशयः साक्षात्, तद्वाराऽपायापग aaharana Page #35 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । इह हि जिनप्रवचने सर्व वस्त्वनन्तधर्मात्मकतया संकीर्णस्वभावमिति तत्परिच्छेदकेन प्रमाणेनापि मातिशयश्च प्रतिपादितो भवति; 'भारती जयति' इत्यनेन वचनातिशयः साक्षात् , तद्वचनस्य सर्वोत्कृष्टतया पूजनीयत्वेऽवगते तद्वक्तुर्विश्ववेदिनोऽपि सर्वपूजनीयत्वमर्थात् प्राप्तमेवेति पूजातिशयश्च प्रतिपाद्यत इत्येवं विशिष्टचतुर्विधज्ञानाद्यतिशयसम्पन्नं जिनं प्रत्यहं प्रणतोऽस्मीति व्यज्यते । सर्वोत्कृष्टत्वे सत्येव विश्ववैदिनो भारत्या वचनातिशयरूपता भवेत् , नान्यथेत्यतस्तां विशिनष्टि-ऐन्दवीवेति- इन्दोश्चन्द्रस्येयमैन्दवी, चन्द्रसम्बन्धिनी, या विमला निर्मला, कला चन्द्रिका, इव तत्सदृशी । उपमानोपमेययोः साधारणधर्मवत्त्वे सत्येव सादृश्यं चमत्कृतिं विधातुमलमित्यतः साधारणधर्म दर्शयतिअनिशं भव्यकैरवविकाशनोद्यतेति- अनिशम्- सर्वदा, उपमाने- भव्यम्- सुन्दरम् , यत् , कैरवम्- कुमुदम् , तद्विकाशने- तद्दलानामग्रावच्छेदेनान्योऽन्यं विभजने, उद्यता - सामर्थ्यवती, उपमेये- भव्यत्वम्- मुक्तिगमनयोग्यताऽवच्छेदको जीवगतो धर्मविशेषः, तद्वान् भव्यो जीवविशेषः, स एव कैरवं तस्य विकाशने- सम्यक्पदार्थतत्त्वावबोधने, उद्यता- समर्था, यथा चन्द्रिका सर्वैरपि कुसुमैः सममविशेषेण सम्बद्धाऽपि कुमुदमेव विकाशयति, न कमलम् , तथा विश्ववेदिनो भारती सर्वान् जन्तून् प्रत्यविशेषेण प्रवृत्ताऽपि भव्यजन्तूनव विकाशयति, ततो भव्यजन्तूनामेव सम्यक्तत्त्वावबोधस्य भावात् , नाभव्यजन्तून् , ततस्तेषां सम्यक्तत्त्वानवाप्तेः, यद्यपि दिवा चन्द्रिका न कुमुदविकाशमुपजनयतीत्यनिशं भव्यकैरवविकाशनोद्यतत्वं तत्र न घटते, तथापि दिवा सूर्यकिरणप्रतिबद्धप्रकाशा चन्द्रिका न विमला, किन्तु रात्रावेव, तदानीं च कुमुदसम्बद्धा कुमुदं प्रकाशयत्येव, तथाविधकालाविनाभावित्वमेव 'अनिशम्' इत्यनेनाभिमतम् , जिनवचनमपि गुर्वाचार्योपाध्यायादिमुखाच्छ्रुतिपथमुपगतमेव भव्यानां विकाशं सम्यक्तत्त्वावबोधलक्षणमुपजनयतीति तत्राप्यनिशत्वं कालविशेष. व्यापित्वमेवेति बोध्यम् । 'नयविवेकभारती तन्वती' इत्यपि साधारणधर्मप्रतिपादकमेव, तत्रोपमाने- नीयते-प्राप्यतेऽभीष्टगन्तव्यस्थानमनेनेति नयो मार्गः, तस्य विवेकः-'अयं मार्ग एतद्रामस्य, अयं पुनरन्यस्य' इत्येवं भेदः, तस्य, भाः-प्रकाशः, रतिः-अभिलाषः, तावुभौ, तन्वती- विस्तारयन्ती, चन्द्रिकातो गन्तुर्मार्गभेदप्रकाशो भवति, तथा गमनेच्छा समुल्लसतीति; उपमेये- नयानाम्-नैगमादीनाम् , यः, विवेकः-'अयं नयः सामान्य-विशेषोभयविषयकः, अयं नयः सामान्यमात्रविषयकः, अयं नयो विशेषमात्रविषयकः' इत्यादिः, तस्य, भाः- प्रकाशो विशिष्टज्ञानम् , रतिः-तत्तद्विषयकज्ञानसमीहा, तावुभौ विस्तारयन्तीत्यर्थः ॥ १॥ नयस्वरूपावगतिफलकनयनिरूपणस्यावश्यकत्वं दर्शयति-इहेति- अस्मिन् , श्वेताम्बराऽस्मदाद्यध्ययना-ऽध्यापनादिप्रत्यक्षव्यवहारविषय इत्यर्थः, एतेन खतः प्रमाणसिद्धत्वं जिनप्रवचनस्यावेदितम् , परोक्षे हि वस्तुनि प्रमाणं मृग्यते, न प्रत्यक्ष इति । यद्यपि वस्तुनोऽनन्तधर्मात्मकतया सङ्कीर्णस्वभावत्वं लोकेऽपि, अन्यथाऽलौकिकपदार्थप्ररूपकं जिनप्रवचनं न लौकिकानामादेयं स्यात्, तथापि लोकव्यहारविषयीभूतमप्यनन्तधर्मात्मकं वस्तु यथावल्लोकव्यवहारस्वरूपाऽनभिज्ञैरेकान्तवादिभिस्तदनुयायिभिश्च पामरैः स्वाग्रहग्रहावेशात् स्वाभिमतप्रतिनियततत्तद्धर्मात्मकतयैव वस्तु व्यवहियत इति कथात एव लौकिकव्यवहारविषययाथार्थ्यावधारणम् , अतो जिनप्रवचनादेव लौकिकव्यवहारोऽपि स्वस्वरूपेऽवस्थापितो भवतीत्यभिसन्धाय 'जिनप्रवचने' इत्युक्तम् , जिनस्य प्रकृष्टं वचनं यत्रेति व्युत्पत्त्या लौकिकपरीक्षकव्यवहारोऽपि जिनप्रवचनशब्दाभिधेयो भवति । अथवा 'जिनप्रवचने' इत्येतावन्मात्रोक्तौ "सुमन्तभद्रो भगवान् मारजिल्लोकजिजिनः' इति कोशाद् बुद्धोऽपि जिनशब्दाभिधेय इति बौद्धागमस्यापि 'जिनप्रवचने' इत्यनेन ग्रहणं स्यात् , न च बौद्धागमे एकान्तक्षणिकस्वरूपतया वस्तुनः प्रतिपादके अनन्तधर्मात्मकतया सङ्कीर्णस्वभावं वस्त्विति तझ्यवच्छेदायोक्तम्- इहेति- अविच्छिन्नप्रवाहरूपेण सर्वदा व्यवस्थितत्वादिदानीमपि प्रत्यक्षविषय इत्यर्थः, बौद्धदर्शनं तु 'क्षणिक क्षणिकं शून्यं शून्यम्' इत्याद्येकान्तविरुद्धप्रलापैः स्वयूध्यैरेव विभिन्नतामुपगतम् , न सर्वदा व्यवस्थितस्वरूपम् , अतो यथावत्प्रत्यक्षाविषयत्वाद् भवति 'इह' इत्यनेन तस्य व्यवच्छेदः । वस्तुको बुद्धोऽन्वर्थजिनशब्दवाच्यो न भवति, 'राग द्वेषादीन् भावशत्रून् जितवन्त इति जिनाः' इति जिनशब्दनिर्वचनम् , तच्चास्मदभ्युपगते पुरुषधौरेये महावीरादावेव वचनातिशयतोऽवधृतात्यन्तराग-द्वेषविगमे घटते, न तु बुद्धे, रूढिमात्रेणेव तत्र जिनशब्दप्रवृत्तिः, तावता न तदागमो जिनप्रवचनशब्दप्रतिपाद्यो भवति, अन्यथा रथ्यापुरुषादावपि कस्मिंश्चिजिनशब्दः सङ्केतित इति तद्वचनमपि जिनप्रवचनशब्दप्रतिपाद्यं स्यात् , तथा च 'जिनप्रवचने' इत्यत्र जिनशब्दो योगरूढ इत्येव प्रत्यक्षविषयावबोधकेन Page #36 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । तथैव भवितव्यमित्यसंकीर्णप्रतिनियतधर्मप्रकार कव्यवहार सिद्धये नयानामेव सामर्थ्यात् तद्व्युत्पादनार्थमयमारम्भः । तत्रादौ शिष्टाचारपरिपालनाय विघ्नविघाताय च समुचितेष्टदेव गुरुप्रणिधाननमस्कारलक्षणं मङ्गलमाचरन् शिष्यावधानाय प्रतिजानीते ३ 'इह' इति शब्देनाssवेद्यते, अत एव 'वीरप्रवचने' इत्यनुक्त्वा 'जिन प्रवचने' इत्युक्तम्, जितराग-द्वेषादिशत्रोः पुरुषधौरेयस्य प्रवचनमवितथमिति तदुपदिष्टमनेकान्तधर्मात्मकतया सङ्कीर्णस्वभावं वस्तु सर्वैरपि वादिभिः स्वीकर्तुमुचितमित्यभिसन्धिः । तत्परिच्छेदकेन अनन्तधर्मात्मकवस्तुनिश्चायकेन । तथैव अनन्तधर्मात्मकतया सङ्कीर्णस्वभावेनैव । यदि प्रमाणमेकधर्मात्मकं स्यात् तदैकधर्मावगाहित्वस्वभावस्य तस्यान्यधर्मावगाहित्वस्वभावाभावान्नानन्तधर्मात्मकतया वस्तुपरिच्छेदकत्वं भवेद् अतो वस्तुनि यावन्तो धर्मास्तत्सर्वधर्मावगाहित्वस्वभावः प्रमाणस्याभ्युपगन्तव्य इत्येवं प्रमाणस्यापि सङ्कीर्णस्वभावत्वमिति प्रमाणेन सङ्कीर्णस्वभाववस्तुप्राहिणा सङ्कीर्णस्वभावतयैव वस्तुनो व्यवहृतिः स्यात् नासङ्कीर्णप्रतिनियतधर्मप्रकारेण वस्तुनो व्यवहृतिरिति तथाभूतव्यवहारसिद्धये प्रतिनियतधर्मग्राहकाणां नयानामेव सामर्थ्यम्, अतो नयस्वरूपागमाय नयो-, पदेशारम्भो युक्त इत्याह- इत्यसङ्कीर्णेति । तद्व्युत्पादनार्थं नयव्युत्पादनार्थम्, 'को नयः कं वस्त्वंशभूतधर्मं परिच्छिनत्ति ?' इति जिज्ञासानिवृत्तये प्रतिनियततत्तद्धर्मस्वरूपांशावगाहिनयप्रतिपत्त्यर्थमिति यावत् । अयम् अनन्तरनिरूप्यमाणनयविषयकः । आरम्भः आद्यप्रयत्नः । तत्र कर्तव्ये नयोपदेशे । आदौ शिष्टाचार परिपालनायेति'शिष्टाः क्वचिदभीष्टे वस्तुनि प्रवर्तमाना इष्टदेवता - गुर्वादिनमस्कारादिलक्षणं मङ्गलं कृत्वैव प्रवर्तन्ते' इत्येवं यः शिष्टाचारस्तद्रक्षणार्थमित्यर्थः, प्रन्थकारो यदि शिष्टाचारं न परिपालयेत् तर्हि अपरिपालितशिष्टाचारस्यास्याशिष्टत्वभ्रान्ति विषयीकृतस्य वचसि शिष्टानामध्ययनादौ न प्रवृत्तिः स्यात्, अतः शिष्टाचारपरिपालनं न्याय्यमिति तदर्थं मङ्गलाचरणमावश्यकमित्याशयः । विघ्नविघाताय चेति यद्यपि, विघ्नध्वंसद्वारा समाप्तिफलकं मङ्गलमिति प्रारब्धग्रन्थसमाप्त्यर्थं मङ्गलाचरणम्, अनुमानं च मङ्गलस्य समाप्तिफलकत्वे प्रमाणम्, तथाहि - 'मङ्गलं सफलम्, अविगीतशिष्टाचारविषयत्वाद्' इति, सफलत्वमत्र बलवदनिष्टाननुबन्धित्वे सतीष्टसाधनत्वम्, अविगीतत्वं च बलवदनिष्टाननुबन्धित्वम्, शिष्टत्वं फलसाधनतांशे भ्रान्तिरहितत्वम् अनेनानुमानेन सफलत्वे सिद्धे 'मङ्गलं न समाप्यतिरिक्तफलकं समाप्यतिरिक्तफलेच्छयाऽक्रियमाणत्वाद्' इत्यादीतरबाधकानानुमानेन समाप्यतिरिक्तफलकत्वे बाधिते 'मङ्गलं समाप्तिफलकं समाप्त्यन्याफलकत्वे सति सफलत्वाद्' इत्यनुमानं मङ्गलस्य समाप्तिफलकत्वं साधयतीति प्राचीननैयायिकाः सङ्गिरन्ते, तथापि, यत्र व्यापारिणः प्रमाणान्तरावगतफलविशेषसाधनत्व निर्वाहार्थं व्यापारस्य कल्पना तत्र व्यापारेण व्यापारिणो नान्यथासिद्धिः, यथा- स्वर्गाद्यर्थं विहितस्य कर्मणः स्वर्गाद्युत्पत्त्यव्यवहितपूर्वक्षणपर्यन्तमस्थायिनो नादृष्टलक्षणव्यापार कल्पनमन्तरेण स्वर्गादिकं प्रति कारणत्वं निर्वहतीति तन्निर्वाहार्थमदृष्टमन्तरा कर्मजन्यं परिकल्प्य तद्द्वारा कर्मणः फलविशेषं प्रति कारणत्वमिति, तत्र यदि कर्मणोऽन्यथासिद्धया फलविशेषं प्रति कारणत्वमेव नोपेयेत तर्हि अदृष्टपरिकल्पनाऽपि न स्यादेवेत्यदृष्टरूपव्यापारस्यैवासिद्धया कथं तेन तस्यान्यथासिद्धिरिति व्यापारिणः कर्मणः फलविशेषं प्रति कारणत्वे सिद्धे सत्येव तदुपपत्त्यर्थं व्यापारस्यादृष्टविशेषस्य कल्पितस्य कारणत्वकल्पनेति उपजीव्यबाधान्न तत्र व्यापारेण व्यापारिणोऽन्यथासिद्धिः, यत्र तु व्यापारिणः कारणत्वमन्तरेणापि व्यापारस्य कारणत्वं सिद्धं तत्र व्यापारेण व्यापारिणोऽन्यथासिद्धिर्भवत्येव यथा 'काशी - मरणान्मुक्तिः' इत्यत्र काशीमरणस्य मुक्ति प्रति कारणत्वं तत्त्वज्ञानद्वारा वाच्यम्, न तु साक्षात्, 'ऋते तत्त्वज्ञानान्न मुक्ति: ' इति वचनेन तत्त्वज्ञानमन्तरेण मुक्तेरसम्भवस्य प्रतिपादनात् तत्त्वज्ञानस्य मुक्तिसाधनत्वं च “ तमेव विदित्वाऽतिमृत्युमेति, नाऽन्यः पन्था विद्यतेऽयनाय" [वा. सं. ३१, १८. ] इत्यादिवचनप्रमितं युक्त्या चोपपन्नम्, यतस्तत्त्वज्ञानान्मिथ्याज्ञाननिवृत्तौ ततो राग-द्वेष-मोद्दलक्षणदोषनिवृत्तौ ततो विहित निषिद्धाचरणलक्षण प्रवृत्यपायाज्जन्माऽपाये भवति दु:खनिवृत्तिलक्षणो मोक्ष इति, एवं च काशीमरणस्य मुक्तिकारणत्वमन्तराऽपि तत्त्वज्ञानस्य मुक्तिं प्रति कारणत्वं क्लृप्तमिति तत्त्वज्ञानलक्षणव्यापारेण काशीमरणरूपव्यापारिणोऽन्यथासिद्धि:, अत एव 'काशीमरणाद्' इति पञ्चम्या कांशी मरणस्य मुक्तिं प्रति प्रयोजकत्वमेव प्रतीयते, तथा मङ्गलस्य समाप्तिं प्रति कारणत्वमन्तराऽपि विघ्नध्वंसस्य प्रतिबन्धकाभावविधया समाप्तिरूपकार्यं प्रति कारणत्वं क्लृप्तमिति भवति विघ्नध्वंसरूपव्यापारेण मङ्गलरूपव्यापारिणोऽन्यथासिद्धिरिति मङ्गलस्य विघ्नध्वंस एव फलमिति नव्यनैयायिक Page #37 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ऐन्द्रधाम हृदि स्मृत्वा नत्वा गुरुपदाम्बुजम् । नयोपदेशः सुधियां विनोदाय विधीयते ॥१॥ नया०- ऐन्द्रमिति-"इदि परमैश्वर्ये" इति धात्वनुसाराद् इन्द्रः- आत्मा, तस्य संबन्धि ऐन्द्रम् , धाम- अखण्डज्ञानानन्दलक्षणम् , अत्र इन्द्र-धामपदाभ्यामात्म-तद्गुणयोः साध्यवसानया इन्द्र-तेजोऽभेदलाभादवश्योपासनीयत्व-मायातमोनिराकर्तृत्वप्रतीतिः। नन्विदमात्मनोऽनुध्यानम् , तञ्च न मङ्गलम् , देवतानमस्कारादेरेव मङ्गलत्वेन प्रसिद्धेरिति चेत् ? न- नैश्चयिकस्याऽस्याऽऽत्मानुध्यानस्याऽऽत्मनि परमात्मसमापत्तिफलाऽऽवहतायाः योगशास्त्रप्रसिद्धत्वात् तदनुध्याने परमात्माऽनुध्यानस्यावश्यकत्वात् , यथावदात्मानुध्याने परमात्मध्यानस्य कारणत्वाच, तदुक्तं समानतान्त्रिकै: मतमवलम्ब्योकम्- 'विघ्नविघाताय' इति । 'समुचितेति-सम्यग्योग्येत्यर्थः, 'ऐन्द्रधाम हृदि स्मृत्वा' इति मङ्गलपद्यप्रथमचरणेन समुचितेष्टदेवप्रणिधानलक्षणं मङ्गलमावेदितम् , 'नत्वा गुरुपदाम्बुजम्' इत्यनेन समुचितेष्टगुरुनमस्कारलक्षणं मङ्गलमावेदितम् । आचरन् कुर्वन् । शिष्येति- 'नयोपदेशः सुधियां विनोदाय वितन्यते' इत्यनेन शिष्यावधानाय प्रतिज्ञा कृता, प्रतिज्ञा च वर्तमानकालावधिकोत्तरकालीनकर्तव्यस्वप्रकारकज्ञानानुकूलव्यापारः, शिष्यावधानं च श्रवणार्थ शिष्यस्य चित्तैकाग्रीकरणम् , गुरुरन्तरकाले नयोपदेशं करिष्यतीति ज्ञात्वा शिष्यो नयोपदेशशुश्रूषुरेकाग्रचित्तो भवतीति । मङ्गलपद्यं व्याख्यातुं तत्प्रतीकं गृह्णाति- ऐन्द्रमितीति । इन्द्रः इन्द्रपदबोध्यः । तस्य आत्मनः । यत्र भिन्नशब्दाभिधेये उपमेये उपमानाभेदाधिगतिः सा सारोपलक्षणा, यथा- 'अयं गौः' इत्यादाविदमाऽधिगते भारवाहकादौ 'गौः' इत्युपमानवाचकपदेन गवाभेदाधिगतिर्भवति, यत्र तु शब्दान्तरानभिहित एकोपमेये उपमानवाचकशब्देनोपमानाभेदाध्यवसितिः सा साध्यवसाना, यथा- 'गौः' इत्यतेतावन्मात्रेण गवाऽभिन्नतया भारवाहीकाधिगतिः, यथा वा " वापी काऽपि स्फुरति गगने तत्परं सूक्ष्मपद्या, सोपानालीमधिगतवती काञ्चनीमैन्द्रनीली । अग्रे शैलौ सुकृतिसुगमौ चन्दनच्छन्नदेशौ तत्रत्यानां सुलभममृतं सन्निधानात् सुधांशोः " ॥ १ ॥ ] इत्यादौ वाप्यादिशब्देनोपमानवाचकेन वाप्याद्यभिन्नतया नाभ्यायुपमेयार्थाध्यवसितिः, प्रकृते च स्वर्गाधिपतिसहस्राक्षवाचकेन्द्रशब्देनेन्द्राभिन्नतयाऽऽत्मनः, तेजोवाचकधामन्शब्देन तेजोऽभिन्नतयाऽऽत्मगुणस्याखण्डज्ञानानन्दस्याधिगतिः, सेयं लक्षणा साध्यवसाना, तया प्रतीतादात्मन इन्द्राभेदादुपासनीयत्वमात्मनः प्रतीयते, एवं तया प्रतीतादात्मगुणस्याखण्डज्ञानानन्दस्य तेजोऽभेदान्मायातमोनिराकर्तृत्वं प्रतीयत इति भवति प्रयोजनवतीयं लक्षणोपादेया परीक्षकाणामिति 'आत्मज्ञानं हृदि स्मृत्वा' इत्यनभिधाय 'ऐन्द्रधाम हृदि स्मृत्वा' इत्युक्तियुज्यतेतरामित्याशयेनाह- अत्रेति । परमात्मनो देवत्वात् तदनुध्यानस्य मङ्गलत्वेऽप्यात्मनो देवत्वाभावेन न तदनुध्यानं मङ्गलमिति शङ्कते-नन्विति । इदम् 'ऐन्द्रधाम हृदि स्मृत्वा' इतिवाक्यप्रतिपाद्यम् । समाधत्ते- नेति । नैश्चयिकनयेनायमात्माऽखण्डज्ञानानन्दलक्षण इत्यखण्डज्ञानानन्दगुणवत्त्वेनाऽऽत्मनोऽनुध्यानं नैश्चयिकम् , तच निरन्तरमभ्यस्यमानं परमात्मना सहाऽऽत्मन एकरूपतामेव सम्पादयति, परमात्मा हि अखण्डज्ञानानन्दलक्षण एव, आत्माऽपि निरन्तरं तथैव ध्यानेन गोचरीक्रियमाणो ध्यानरूपतपोबलेन कर्माणि निर्जरयन् परमात्मस्वरूप एव सम्पद्यत इति नैश्चयिकस्याखण्डज्ञानानन्दरूपत्वेनाऽऽत्मानुध्यानस्य परमात्मसमापत्तिफलकस्य योगशास्त्रप्रसिद्धस्य समभ्यसने परमात्मानुध्यानस्यावश्यम्भावित्वेन तत्पर्यवसायिनोऽस्याऽऽत्मानुध्यानस्य भवति मङ्गलत्वमित्याह-नैश्चयिकस्येति । तदनुध्याने परमात्मसमापत्तिफलकात्मानुभ्याने । किञ्च, अखण्डज्ञानानन्दस्वरूपता परमात्मन एव प्रतीतेति यावदखण्डज्ञानानन्दस्वरूपपरमात्मानुध्यानं न भवति न तावदखण्डज्ञानानन्दगुणवत्तयाऽऽत्माऽनुध्यानसम्भव इति तथाभूताऽऽत्माऽनुध्याने तत्कारणीभूतपरमात्मानुध्यानं समस्त्येवेति तद्रूपं मङ्गलं युक्तमित्याह- यथावदात्मानुध्यान इति । Page #38 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । " जो जाणदि अरहंते, दवत्त-गुणत्त-पज्जवत्तेहिं । सो जाणदि अप्पाणं, मोहो खलु जादि तस्स लयं " ॥ १॥ [ ] इति । ननु तथाऽप्येतदनुध्यानं न मङ्गलम् , स्वापकर्षावधिकोत्कर्षप्रतियोगित्वेन नमस्कार्यज्ञानस्यैव नमस्काररूपमङ्गलत्वात् , ध्यानस्य चोत्कर्षानवगाहित्वादिति चेत् ? न- ध्यानस्यान्तरङ्गतपोभेदत्वेन भावमङ्गलत्वात् , स्मरन्ति हि परमगुरुवः-" धम्मो मङ्गलमुक्किटं० "ति [ दशवैकालिक०, अ० १, गाथा० १ ] । ननु तथाऽप्यत्र निर्जरामात्रोद्देशेन प्रवृत्तिः स्यात्, न तु विघ्नविघातोदेशेनेति कथमभीष्टफलसिद्धिरिति चेत् ? न- सामान्योद्देशेन प्रवृत्तावपि विशेषहेत्वन्तर्भावेन विशेषफलसिद्धेरप्रत्यू. हत्वात् , इष्यते हि मोक्षार्थं विहितमपि चरित्रं सरागत्वादिहेत्वन्तर्भावेन स्वर्गफलकम् , तत्राऽऽदिफलं सामान्यं निर्जरामात्रम् , तद्विशेषश्च स्वर्गप्रापकः क्लिष्टकर्मविगम इति दिक् । सुधियां परिणतनयव्यु उक्कार्थे दिक्पटवचनसंवादमुपदर्शयति- तदुक्तमिति-श्वेताम्बर-दिगम्बरयोः केवलिकवलाहार- स्त्रीमुक्त्यादौ परस्परविरुद्धाभ्युपगन्तृत्वेऽपि स्याद्वाद- सप्तभनयाद्यभ्युपगमस्य समानत्वात् समानतान्त्रिकत्वं बोध्यम् । जो जाणदि० इति“यो जानाति अर्हतो द्रव्यत्व- गुणत्व- पर्यवत्वैः । स जानात्यात्मानं मोहः खलु याति तस्य लयम्" ॥ इति संस्कृतम् ॥ ननु स्वावधिकोत्कृष्टत्वप्रकारकनमस्कार्यविशेष्यकज्ञानानुकूलव्यापारस्य द्रव्यमङ्गलत्वम् , तादृशज्ञानस्य च भावमङ्गलत्वम् , प्रकृते चाऽऽत्मानुध्याने स्वस्याश्कर्षस्तदवधिको नमस्कार्यस्योत्कर्षश्च न भासत इति न तस्य नमस्कारलक्षणमङ्गलत्वमिति शङ्कते-नन्विति । तथाऽपि आत्माऽनुध्यानस्य परमात्मसमापत्तिफलकत्वेऽपि, आत्मानुध्याने तत्कारणतया परमात्मानुध्यानस्यावश्यम्भावित्वेऽपि वा । एतदनुध्यानम् आत्मानुध्यानम् । आत्मानुध्यानस्य नमस्कारात्मकमङ्गलवाभावेऽपि अन्तरङ्गतपोविशेषरूपत्वेन भावमङ्गलत्वं सम्भवत्यैवेति समाधत्ते-नेति । अन्तरङ्गतपोविशेषस्य ध्यानस्य मालत्वे आगमवाक्यं प्रमाणयति-स्मरन्तीति- प्रवाहतोऽनादिसिद्धस्यागमस्यापूर्वत्वाभावान्न करणम् , किन्तु पूर्वपूर्वसिद्धस्य तस्य स्मरणमेव तीर्थङ्करैः क्रियत इत्यागमस्य सर्वप्रमाणज्येष्ठत्वख्यापनाय 'स्मरन्ति' इत्युक्तम् । धम्मो० इति- अत्र 'अहिंसा संजमो तवो। देवा वि तं नमसति, जस्स धम्मे सया मणो" ॥ इति गाथाशेषः । “धर्मो मङ्गलमुत्कृष्टमहिंसा संयमस्तपः । देवा अपि तं नमस्यन्ति यस्य धर्मे सदा मनः"॥ इति संस्कृतम्। ननु भवत्वभ्यन्तरतपोविशेषरूपस्याऽऽत्मानुध्यानस्य भावमङ्गलत्वम् , परमेतत्कर्मनिर्जरोद्देशेनैव विधीयते, न तु विघ्नविधातोद्देशेन, अभिमतं च ग्रन्थकर्तुर्विघ्नविघात एव मङ्गलफलम् , तस्यात्मानुध्यानलक्षणभावमङ्गलेनासंपादनान्न युक्तं विघ्नविधातोद्देशेन कर्तव्ये मङ्गलेऽस्य विधानमिति शङ्कते-नन्विति । तथाऽपि आत्मानुध्यानस्य भावमङ्गलत्वेऽपि । अत्र आत्मानुध्याने । यद्यपि भावमङ्गलस्यात्मानुध्यानस्य निर्जरामात्रोद्देशेन प्रवृत्तिविषयत्वान्निर्जरामात्रफलकत्वं तथाऽपि निर्जरणीयकर्मसमष्टौ समाप्तिप्रतिबन्धकदुरितविशेषलक्षणकर्मणोऽप्यन्तर्भूतत्वात् तन्नाशकविशेषसहकारिसमवधानतस्तन्नाशस्यापि सम्भवेन विघ्नविधातलक्षणविशेषफलस्याऽपि निर्जरामात्रसामान्यफलकात्मानुध्यानतः सम्भवात् , दृष्टं च मौक्षार्थविहितचरित्रान्मोक्षमात्रफलकात् सरागत्वादिलक्षणस्वर्गकारणसहकारिविशेषसमवहितात् स्वर्गकारणीभूतस्वर्गप्रतिबन्धकर्मविशेषविगमद्वारा स्वर्गफलमिति समाधत्ते-नेति । सामान्योद्देशेन निर्जरामात्रोद्देशेन । प्रवृत्तावपि आत्मानुध्याने प्रवृत्तावपि । विशेषहेत्वन्तर्भावेन 'आत्मानुध्यानतः समाप्तिप्रतिबन्धकदुरितविशेषो मे निवर्तताम्' इतीच्छालक्षणविशेषहेत्वन्तर्भावेन । तत्र मोक्षार्थविहितचरित्रस्थले । आदिफलं प्रथमफलम् । तद्विशेषश्च निर्जराविशेषश्च । गुरुनमस्कारस्य मङ्गलत्वे न कस्यापि विप्रतिपत्तिरतो 'नत्वा गुरुपदाम्बुजम्' इत्यत्र न किमपि चर्चितम् , शब्दार्थस्य स्पष्टत्वान्न विवरणम् । जैननयतत्त्वानभिज्ञा अपि न्यायादिशास्त्रनिष्णाताः सुधियः, तेषां नयोपदेशो नयतत्त्वावगतये एवाधीतः सन् स्यात् , न तु विनोदायातः 'सुधियाम्' इत्यस्य विवरणम्- परिणतनयव्युत्पत्तिशालिनामिति-परिणता- सम्यग् नयप्रतिपादकशास्त्राभ्यासेन परिनिष्ठिता, या, नयव्युत्पत्तिः- 'अयं नय एतदर्थावगाहनकुशलः, अयं पुनरेतदर्थनिर्णयप्रवीणः' इत्येवं विवेकेन नयस्वरूपाव Page #39 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । त्पत्तिशालिनाम्, विनोद :- सम्यग्नयार्थ व्युत्पादकत्व परामर्शजनितः प्रशंसा - पुलकोद्भेदादिव्यङ्ग्यः प्रमोदः, तदर्थम् । न चाज्ञखेद -खलपीडाद्यनुबन्धित्वेनास्य तुल्याऽऽय-व्ययत्वादकामत्वम्, तद्दोषापेक्षयाऽस्य गुणस्यानन्तगुणोत्कृष्टत्वात्, तदाहुः श्रीहरिभद्राचार्याः प्रथमविंशतिकायाम् - " इक्को उण इह दोसो, जं जायइ खलजनस्स पीडति । तह विपयट्टो इत्थं, दहुं सुयणाण मइतोसं " ॥ १ ॥ [ ]ति । इदमुपलक्षणम्, 'बालानां व्युत्पत्तये' इत्यपि द्रष्टव्यम्, बालव्युत्पत्ते-रेव सर्वत्र ग्रन्थप्रयोजनत्वात्, बालश्चात्राधीतान्यतर्कः सम्यगनभ्यस्तनय प्रमाणविभागो द्रष्टव्यः, इतरस्यानधिकारित्वात् " नाऽत्यततदज्ञो नातदज्ञः स एवाधिकारवान् " [ ] इति श्रवणात् ॥ १ ॥ तत्रादौ नयलक्षणं तत्त्वस्वरूपोपपत्तिं चाह - ६ सत्त्वाऽसत्त्वाद्युपेतार्थेष्वपेक्षावचनं नयः । न विवेचयितुं शक्यं विनाऽपेक्षां हि मिश्रितम् ॥ २॥ नया सवासवेति- सत्वाऽसत्त्वादयो ये धर्माः, आदिना नित्याऽनित्यत्व-भेदाऽभेदादि धारणम्, तच्छालिनाम्- तद्वतामित्यर्थः । सम्यगिति - 'अयं नयोपदेशः सम्यग् नयार्थव्युत्पादक ः' इत्या कारकनिर्णयजनित इत्यर्थः । ननु यथैतद्भन्थात् सुधियां प्रमोदस्तथाऽतिमूढानामुपाध्यायादिसकाशादध्ययनेनाप्येतदर्थं विज्ञातुमयोग्यानां खेदः, परगुणद्वेषिणां खलानां चैतदपूर्वग्रन्थदर्शनतः पीडैव भविष्यतीत्येकस्योपकारकत्वमन्यस्यापकारत्वमित्येवं तुल्याऽऽयव्ययान्न काम्योऽयं प्रन्थ इत्याशङ्कय प्रतिक्षिपति - न चेति - अनुबन्धित्वेन कारणत्वेन । अस्य नयोपदेशस्य । निषेधे हेतुमाहतदोषापेक्षयेति- अज्ञखेदजनकत्व - खलपीडादिजनकत्वलक्षणदोषापेक्षयेत्यर्थः । अस्य गुणस्य सुधीप्रमोदजनकत्व लक्षणगुणस्य । उक्तार्थे श्रीहरिभद्राचार्यवचनसंवादमाह - तदाहुरिति । इक्को० इति - " एकः पुनरिह दोषो यज्जायते खलजनस्य पीडेति । तथाऽपि प्रयत्नोऽत्र दृष्ट्वा सुजनानां मतितोषम् " ॥ इति संस्कृतम् । इदं 'सुधियां विनोदाय' इति सुधी गतविनोदफलार्थत्वम् । ननु स्तनन्धयो लोके बालशब्दव्यपदेश्यः, न च तस्यैतस्माद् प्रन्थान्नयव्युत्पत्तिः सम्भवतीत्यत आह- बालश्चेति । अधीतान्यतर्क इति - यद्यन्यशास्त्रार्थं परिज्ञानशून्यः स्यात्, तर्हि स कथमवगच्छेत् ? — सङ्ग्रहनयाद् वेदान्तदर्शनप्रवृत्तिः, नैगमनयाद् वैशेषिकादिदर्शनप्रवृत्तिरित्यादिकम्, सामान्यादिपदार्थस्वरूप (परिज्ञाने 'सामान्यमात्रमा हिपरामर्शः सङ्ग्रहः' इत्यादेरपि परिज्ञानं यथावन्न भवेत्, अतोऽधीतान्यतर्कत्वमावश्यकम् । सम्यगनभ्यस्तनय-प्रमाणविभाग इति - यस्य नय-प्रमाणविभागस्य सम्यगभ्यासः स नयस्वरूपं प्रमाणस्वरूपं च विवेकेन जानात्येवेति प्रथमत एव नयव्युत्पन्नस्य तस्य नातो नयव्युत्पत्तिः, अतो युज्यते 'सम्यगनभ्यस्त - नय-प्रमाणविभागः' इति । इतरस्य अनधीतान्यतर्कस्याभ्यस्तनय प्रमाणविभागस्य च । अनधिकारित्वात् प्रस्तुत - नयोपदेशप्रन्थाध्ययन श्रवणाद्यधिकारित्वाभावात् । उक्तार्थे प्राचां वचनं प्रमाणयति नात्यन्तेति यः प्रकृतप्रन्थार्थात्यन्ताज्ञानशून्यः, यश्च प्रकृतप्रन्थार्थातिरिक्तप्रन्थार्थाज्ञानशून्यः स एव प्रकृतग्रन्थाध्ययनादावधिकारीत्यर्थः ॥ १ ॥ नयलक्षणप्रतिपादकमाद्यपद्यमवतारयति - तत्रेति नयोपदेश इत्यर्थः । तस्वेति- नयलक्षणेत्यर्थः । सत्वेति पूर्वार्द्ध नयलक्षणप्रतिपादकम् उत्तरार्द्ध तदुपपादकम् । विवृणोति - सत्वाऽसत्त्वेतीति । आदिना 'सत्त्वासत्वादि०' इत्येतद्घटकादिपदेन 'भेदादिरिति परिग्रहः' इत्यस्य स्थाने 'भेदादेः परिग्रहः' इति पाठो युक्तः । तैः सत्त्वासत्त्वादिधर्मैः । 'पुत्रोत: [ पुत्रेण सह ] पिता समागतः' इत्यादौ भेदे उपेतशब्दप्रयोगो दृश्यत इति प्रकृतेऽपि सत्त्वा - सत्त्वादिधर्मैः समं जीवादिधर्मिणो भेदः प्रतीयेत, तथा चानन्तधर्मात्मकत्वं जीवादीनां न लभ्येत, विवक्षितं च तत्, तथा सत्येवा Page #40 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । रिति परिप्रहः, तैः, उपेता:-तदात्मकाः, ये अर्था:-जीव-पुद्गलादयः, तेषु, अपेक्षावचनं प्रतिनियत. धर्मप्रकारकापेक्षाख्यशाब्दबोधजनक वचनम् , नयवाक्यमित्यर्थः, इदं वचनरूपस्य नयस्य लक्षणम् , ज्ञानरूपस्य तु नयस्य अपेक्षात्मकशाब्दबोधत्वमेवेति द्रष्टव्यम् , अपेक्षात्वं च क्षयोपशमजन्यतावच्छेदको जातिविशेषो विषयिताविशेषो वेत्यन्यदेतत् । ननु 'घटोऽस्ति' इत्यादिवाक्यश्रवणात् 'घटविषयकशाब्दज्ञानं मम जातम्' इत्येव लोकाः प्रतियन्ति, न तु तत्रापेक्षात्वमपीत्यपेक्षात्मकनयज्ञानसत्त्वे किं प्रमाणमत आह-हि निश्चितम् , मिश्रित विरुद्धत्वेन प्रतीयमानैर्नानाधर्मैः करम्बितं वस्तु, अपेक्षां विना, विवेचयितुं विवक्षितकधर्मप्रकारकनिश्चयविषयीकर्तुम् , न शक्यम् , तद्विरुद्धधर्मवत्ताज्ञानस्यानपेक्षात्मकस्यानुपपत्तेः, बाघप्रतिबध्यतावच्छेदककोटौ लाघवेनापेक्षात्मकस्यैव निवेशात् , अव्याप्यवृत्तित्वज्ञानका नन्तधर्मात्मकस्य वस्तुनोंऽशभूतधर्मग्राहिज्ञानात्मकनयजनकस्य वचनस्यापेक्षावचनरूपत्वेन नयत्वस्योपपत्तिः, अत उपेतशब्देनात्र तादात्म्यं विवक्षितमित्याशयेनाह- तदात्मका इति- सात्वासत्त्वादिधर्मात्मका इत्यर्थः । 'अपेक्षावचनम्' इति चापेक्षात्मकज्ञानजनक वचनमित्यर्थकम् । अपेक्षात्मकज्ञानं च प्रतिनियतधर्मप्रकारकजीवादिवस्तुविशेष्यकशाब्दबोधरूपमित्याशयेनाह-अपेक्षावचनमिति । इदम् ‘सत्त्वा-ऽसत्त्वाद्युपेत०' इत्याद्यभिहितलक्षणम् । अपेक्षाशब्दोऽनेकस्मिन्नर्थे प्रयुज्यते, यथा- 'वृक्षः शाखापेक्षया कपिसंयोगी, मूलापेक्षया कपिसंयोगाभाववान्' इत्यत्रावच्छेदकत्वमपेक्षाशब्दार्थः, 'दण्डो घटापेक्षया कारणम् , न पटाद्यपेक्षया' इत्यादौ निरूपितत्वं निरूपकत्वं वाऽपेक्षाशब्दार्थः, एवम् 'अयं देवदत्तापेक्षया पिता, यक्षदत्ताद्यपेक्षया गुरुः' इत्यादावपि निरूपितत्व-निरूपकत्वे तदर्थः, 'दण्डो घटजनने चक्रादिकमपेक्षते' इत्यादौ सहकारित्वं तदर्थः, 'घटः स्वोत्पत्तौ दण्डादिकमपेक्षते' इत्यादौ कारणत्वं तदर्थः, 'आम्रफलं बदरीफलाद्यपेक्षया महत् , नारिकेलफलाद्यपेक्षयाऽणुः, आम्रपल्लवं तालपत्राद्यपेक्षया कोमलम् , कमलदलाद्यपेक्षया कठिनम्' इत्यादाववधित्वं तदर्थ इत्येवं यत्र यस्यान्वययोग्यता तस्य तत्र तदर्थतेत्यतः प्रकृतेऽप्यपेक्षात्वं नयानुगतमपेक्षाशब्दप्रवृतिनिमित्तं किञ्चिद् वाच्यमित्यपेक्षायामाह- अपेक्षात्वं चेति । धर्मिप्रत्यक्षे तदूतजातिरपि प्रत्यक्षेति 'साक्षात् करोमि, अनुमिनोमि, शणोमि' इत्यादिरूपं यथा प्रत्यक्षत्वा-ऽनुमितित्व-शाब्दत्वादीनां प्रत्यक्षं न तथा शाब्दबोधात्मकनयाध्यक्षेऽपेक्षात्वं भासत इति कथं तस्य जातिरूपतेत्यत आह-विषयिताविशेषो वेतीति । शाब्दत्वावान्तरजातिविशेषस्य युक्तयाऽनन्तरमेव व्यवस्थापनीयतया शाब्दात्मकनयानुव्यवसायोल्लेखेऽपेक्षाशब्देनानुल्लेरवेऽपि य एव नयोल्लेखकः शब्दः स एव तस्याप्युल्लेखक इति जातिरूपस्यापि तस्याध्यक्षसमधिगम्यत्वं समस्त्येवेति, अन्यथा विषयिताविशेषोऽपि तथाऽनुल्लिख्यमानः कथं स्यादित्याशयेनोक्तम्अन्यदेतदिति । उत्तरार्द्ध व्याख्यातुमवतारयति- नन्विति । तत्र घटविषयकशाब्दज्ञाने । 'अपि' इत्यनन्तरं 'लोकाः प्रतियन्ति' इत्यनुकृष्यते । 'मिश्रितम्' इत्यस्य विवरणम्-विरुद्धत्वेन प्रतीयमान नाधमः करम्बितं वस्त्विति । 'विवेचयितम' इत्यस्य विवरणम्-विवक्षितकधर्मप्रकारकनिश्चयविषयीकर्तुमिति । निषेधे हेतुमाह- तद्विरुद्धेति'तद्विरुद्धधर्मवत्ताज्ञानस्य' इति स्थाने 'तद्वत्ताज्ञाने सति तद्विरुद्धधर्मवत्ताज्ञानस्य' इति पाठो युक्तः । सामान्यतस्तद्वत्ताज्ञानं यदि तद्विरुद्धधर्मवत्ताज्ञानं प्रति प्रतिबन्धकं तदा तद्वत्ताज्ञाने सति अपेक्षात्मकमपि तद्विरुद्धधर्मवत्ताज्ञानं न भवेत् , न चैवम्, किन्तु तद्वत्ताज्ञानमपेक्षाऽनात्मकतद्विरुद्धधर्मवत्ताज्ञानं प्रति प्रतिबन्धकमित्येवमपेक्षाऽनात्मकत्वस्य प्रतिबध्यतावच्छेदककोटौ प्रवेशे अपेक्षात्मकतद्विरुद्धधर्मवत्ताज्ञानस्य प्रतिबध्यतावच्छेदकधर्मानाकान्ततया स्यादेव सम्भवः, अपेक्षाऽनात्मकं तु तद्विरुद्धधर्मवत्ताज्ञानमुक्तप्रतिबध्यतावच्छेदकधर्माकान्तत्वात् तद्वत्ताज्ञाने सति न भवेद्, अतोऽपेक्षात्मकं तद्विरुद्धधर्मवत्ताज्ञानं नयस्वरूपमुपगन्तव्यमित्याह-बाधप्रतिबध्यतावच्छेदककोटाविति। लाघवेनेति- नैयायिकादिमते तद्वत्ताज्ञाने सति अध्याप्यवृतित्वज्ञानकालीनम् आहार्य दोषविशेषजन्यं च तद्विरुद्धधर्मवत्ताज्ञानमुपजायतेऽतस्तस्य प्रतिबध्यतावच्छेदकाभावसम्पादनाय प्रतिबध्यतावच्छेदककोटावव्याप्यवृतिज्ञानकालीनान्यत्वमनाहार्यत्वं दोषविशेषाजन्यत्वं च निवेशनीयम्, तद Page #41 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । लीनाऽऽहार्य-दोषविशेषजन्यादीनामपेक्षात्मकत्वेनैव तद्वारकविशेषणानुपादानात्, तथा 'व तद्धर्मप्रतिपक्षधर्मवत्तया बातेऽपि तद्धर्मवत्तया जायमानस्यानुभवस्यान्यथानुपपत्तिरेवापेक्षात्वे मानम् , तस्या एव सर्वतो बलवत्प्रमाणत्वात् , तदाह श्रीहर्षः" अन्यथानुपपत्तिश्चेदस्ति वस्तुप्रसाधिका । पिनष्ट्यदृष्टवैमत्यं सैव सर्वबलाधिका " ॥ इति । -[ खण्डनखण्डखाद्य० परि० १, श्लो० ५ ] न चाऽपेक्षां विना लौकिकोऽपि व्यवहारः संगच्छते, अग्राघवच्छेदेन कपिसंयोगाभाववति वृक्ष शाखापेक्षयव कपिसंयोगवत्त्वव्यवहारात् । न चावच्छेदकावगा वायम् , न त्वपेक्षात्मक इति वाच्यम् , 'शाखावच्छिन्नो वृक्षः कपिसंयोगवान् , न तु संपूर्णः' इति प्रत्ययस्य स्कन्धदेशापेक्षां विनाऽनुपपत्तेः । पेक्षया लाघवेनेत्यर्थः । 'अपेक्षात्मकत्वस्यैव' इति स्थाने 'अपेक्षाऽनात्मकत्वस्यैव' इति पाठो युक्तः। अपेक्षानात्मकत्वस्य प्रतिबध्यतावच्छेदककोटौं निवेशे अव्याप्यवृत्तित्वज्ञानकालीनस्याऽऽहार्यस्य दोषविशेषजन्यस्य च तद्विरुद्धधर्मवत्ताज्ञानस्यापेक्षात्मकस्यैवोररीकारेणापेक्षाऽनात्मकत्वस्य तेष्वभावेन प्रतिबध्यतावच्छेदकानाक्रान्ततया तद्वत्ताज्ञाने सत्यपि तदुत्पत्तेः सम्भवन प्रतिबध्यतावच्छेदककोटौ तद्वारकाणामव्याप्यवृत्तिज्ञानकालीनान्यत्वादीनामनिवेशेन लाघवं सुव्यक्तमित्याह- अव्याप्यवृत्तित्वेति । तद्वारकेति- अव्याप्यवृत्तित्वज्ञानकालीनज्ञानादिवारकेत्यर्थः । तथा च लाघवादपेक्षाऽनात्मकत्वस्यैव प्रतिबध्यतावच्छेदककोटौ निवेशे च। अन्यथाऽनुपपत्तिरेवेति- यदि तद्धर्मप्रतिपक्षधर्मवत्ताज्ञानकाले जायमानं तद्धर्मवत्ताज्ञानमपेक्षात्मकं न स्यात् तदाऽपेक्षानात्मकत्वेन प्रतिबध्यतावच्छेदकाक्रान्तस्य तस्योत्पत्तिरेव न भवेदित्यपेक्षात्मकत्वाभावे तस्यानुपपत्तिरेवेत्यर्थः । तस्या एव अन्यथाऽनुपपत्तेरेव । अन्यथाऽनुपपत्तेः सर्वप्रमाणापेक्षया बलवत्त्वे खण्डनखण्डखाद्यकर्तुः श्रीहर्षस्य वचनं संवादकतयोपदर्शयति- तदाहेति । अन्यथेति- अन्यथानुपपत्तिर्वस्तुप्रसाधिकाऽस्ति चेद्, सा अन्यथानुपपत्तिरेव, सर्वबलाधिका सर्वप्रमाणापेक्षयाऽधिकबला सती, 'इत्थं क्वचिदपि न दृष्टं कथमभ्युपगन्तुं शक्यम् ?' इत्येवम् अदृष्टवैमत्यं पिनष्टि, अर्थाद् अन्यथानुपपत्तिलक्षणप्रमाणबलाद् दृष्टविरुद्धमपि कल्पनीयमेवेत्याशयः ।। एतद्वचनानन्तरं श्रीहर्ष एवं प्राह"वाच्याऽन्यथोपपत्तिर्वा त्याज्यो वा दृष्टताऽऽग्रहः । न ह्येकत्र समावेशश्छाया-5ऽतपवदेतयोः॥" -[खण्डनखण्डखाद्य परि. १, श्लो०६] अस्यायमर्थः-प्रकारान्तरेणोपपत्तिर्वाच्या, येनान्यत्रादृष्टं प्रकृतमुपपादकं न कल्पनीयं स्यात्, वा-अथवा, उपपादकान्तराऽभावे प्रकृतमदृष्टमप्युपपादकं कल्पनोयमेव, गत्यन्तराऽभावात् , तथा च दृष्टताऽऽप्रहः- दृष्टमेव स्वीकरणीयम् , दृष्टविरुद्धं न स्वीकरणीयम् ' इत्येवमाग्रहः, त्याज्यः, हि- यतः, छाया-ऽऽतपवत्- यथा छाया-ऽऽतपयो कत्र समावेशस्तथा, एतयोः- दृष्टताऽऽग्रहा-ऽन्यथाऽनुपपत्त्योरेकत्र समावेशो नेत्यर्थः, यदि दृष्टताऽऽप्रहं न मुञ्चसि तदा प्रकारान्तरेणार्थ उपपाद्यताम् , यदि प्रकारन्तरेणार्थमुपादयितुं न शक्नोषि तर्हि येन विना सोऽर्थो नोपपद्यते तमदृष्टमप्युररीकुरु, परिहर दृष्टाऽऽप्रहमित्येवमन्यथानुपपत्तेः सर्वतो बलवत्त्वं श्रीहर्ष आहेति ॥ लौकिकव्यवहारान्यथाऽनुपपत्त्याप्यपेक्षा स्वीकरणीयेत्याह-न चेति - अस्य 'संगच्छते' इत्यनेनान्वयः। अपक्षानिबन्धनं लौकिकव्यवहारं दर्शयति - अग्राद्यवछेदेनेति । उक्तव्यवहारेऽवच्छेदकावगाहित्वमेव, न त्वपेक्षात्मकत्वमित्याशङ्कय प्रतिक्षिपति-न चेति - अस्य 'वाच्यम्' इत्यने नान्वयः । अयं 'वृक्षः शाखापेक्षया कपिसंयोगवान्' इति व्यवहारः । निषेधे हेतुमाह-शाखावच्छिन्न इति- अत्र वृक्ष एव शाखावच्छिन्नत्वं विशेषणमिति न तु शाखावच्छेद्यत्वं कपिसंयोगे कपिसंयोगावच्छेदकत्वं वा शाखायां भासते, तथा चैकस्यैव वृक्षस्य शाखावच्छिन्नस्य कपिसंयोगवत्वं सम्पूर्णस्य कपिसंयोगाभाववत्त्वं यत् तत्र भासते तत् स्कन्धदेशापेक्षां विना न सम्भवति, यतः शाखावच्छिन्ने वृक्षे कपिसंयोगवत्त्वे सम्पूर्ण तत्र कपि Page #42 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । कथं चैवं सामान्य-विशेषापेक्षां विना 'घट-पटयो रूपम् , घट-पटयो रूपम्' इत्यादयो विचित्रनयापेक्षाः प्रत्ययाः समर्थनीयाः ? संग्रहनयाश्रयणेनैव हि घट-पटोभयरूपसामान्योबूततत्त्वविवक्षया ‘घट-पटयोः रूपम्' इति प्रत्ययस्योपपत्तेः, द्वयोर्भेदविवक्षायां प्रत्येकान्वयस्य धर्मद्वयावच्छिन्नवाचकपदयोः संधानस्थल एव व्युत्पन्नत्वात् , व्यवहाराश्रयणात् तु प्रकृतप्रयोगोऽनुपपन्न एव, मिलितवृत्तित्वान्वये एव तस्य साकासत्वात् , 'घट-पटयोर्ने रूपम्' इति बोधस्यैव तस्मादुत्पत्तः । यत् तु-'घट-पटयोर्न रूपम्' इति वाक्यं तात्पर्यभेदेन योग्यायोग्यम् , घट-पटयो रूपत्वावच्छि. माभावान्वयतात्पर्येऽयोग्यमेव, रूपत्वावच्छेदेन घट-पटोभयवृत्तित्वाभावान्वयतात्पर्ये च योग्यमेव; 'घट. संयोगाभावः स्कन्धरूपदेशे कपिसंयोगाभावयुक्त एव, अन्यथा शाखावच्छिन्ने वृक्षे कपिसंयोगोऽस्त्येव, स्कन्धावच्छिन्नेऽपि तस्मिन् यदि कपिसयोगः स्यात् , कोऽयं शाखा-स्कन्धाभ्यामन्यः सम्पूर्णो वृक्षः ? यत्र कपिसंयोगाभावो भवेदिति, ततश्च स्कन्धे कपिसंयोगो नास्तीत्येतावतैव सम्पूर्णः 'कपिसंयोगाभाववान्' इति व्यवहियते, अतः स्कन्धदेशापेक्षामाश्रित्यैव तथाव्यवहारः, अन्यथा तदनुपपत्तरित्यर्थः । प्रत्ययान्तराणामपि केषाश्चिन्नापेक्षामन्तरेणोपपत्तिरित्याह-कथं चेति-अस्य 'समर्थनीयाः' इत्येननान्वयः। एवं यथा 'शाखावच्छिन्नो वृक्षः कपिसंयोगी' इत्यादिव्यवहारस्यापेक्षां विना न समर्थनं तथा । विचित्रनयापेक्षा इति- 'घट-पटयो रूपम्' इति प्रत्ययः सङ्ग्रहनयापेक्षः, 'घट-पटयोर्न रूपम्' इति प्रत्ययो व्यवहारनयापेक्ष इत्येवं विचित्रनयापेक्षत्वं बोध्यम् । विचित्रनयापेक्षत्वमेव भावयति-सङ्गहनयाश्रयणेनैवेति- घटे यद् रूपम् , यच्च पटे रूपम् , तदुभयानुगतं यद् रूपसामान्यलक्षणमुद्भूततत्त्वं सङ्ग्रहनयाभिमतम् , तद्विवक्षया 'घट-पटयो रूपम्' इति प्रत्ययस्य सङ्ग्रहनयाश्रयणेनैवोपपत्तेः, यदि समहनयो नाश्रीयते तर्हि घटे रूपमन्यत् , तदन्यच्च पटे रूपमित्येकस्य रूपस्य घट-पटोभयनिरूपितवृत्तित्वस्याभावाद् 'घट-पटयो रूपम्' इति प्रत्ययो न स्यात् , सङ्ग्रहनयसमाश्रयणे तु रूपसामान्यस्यैकस्य घट-पटोभयसमाश्रितस्य सम्भवेन तत्र घट-पटोभयनिरूपितवृत्तित्वस्य सम्भवादुपपद्यते 'घट-पटयो रूपम्' इति प्रत्यय इत्यर्थः । यदा तु घटरूप-पटरूपयोर्भेदो विवक्ष्यते, एकस्मिन् रूपे घटवृत्तित्वस्यापरस्मिन् रूपे पटवृत्तित्वस्यान्वयोऽभिमतस्तदा 'घटे रूपम् , पटे रूपम्' इत्येव प्रत्ययः, घटत्वावच्छिन्नवाचकशब्दस्य षष्ठीविभक्त्या पटत्वावच्छिन्नवाचकस्य षष्ठीविभक्त्या पृथगेवाऽऽनुपूर्वीलक्षणसमभिव्याहारः, षष्ट्यन्तयोश्च तयोः 'रूपम्' इत्यनेन पृथगेव पूर्वापरीभावलक्षणः समभिव्याहारस्तादृशप्रत्ययनिबन्धोऽपेक्षितः, तथासन्धानस्थल एव घटवृत्तिरूप-पटवृत्तिरूपयोः प्रतीतिरित्याह- योभदविवक्षायामिति । 'घट-पटयोर्न रूपम्' इति प्रत्ययो व्यवहारनयाश्रयणेनोपपद्यत इत्यावेदयितुमाह-व्यवहारश्रयणात् त्विति । प्रकृतप्रयोगः 'घट-पटयो रूपम्' इति प्रयोगः, एतच तादृशप्रत्ययस्याप्युपलक्षणम् , तादृशप्रयोगाभावे तदभिलाप्यप्रत्ययाभावस्यापि न्यायप्राप्तत्वात् । अनुपपन्नत्वे हेतुमाह-मिलितेति- घट-पटोभयनिरूपितवृत्तित्वान्वये इत्यर्थः । तस्य ‘घट-पटयो रूपम्' इत्यस्य, यदि घटनिरूपितवृत्तित्वान्वये पटनिरूपितवृत्तित्वान्वये साकावं तद् भवेत् तदा प्रत्येकं घटनिरूपितवृत्तित्वस्य च पटनिरूपितवृत्तित्वस्य च रूपे घटमानत्वात् स्यादप्युक्तप्रयोगस्योपपन्नता, यदा च मिलितवृत्तित्वान्वय एवोक्तप्रयोगस्य साकारत्वं तदैकस्मिन् रूपे घट पटोभयनिरूपितवृत्तित्वान्वयस्य बाधित्वानोक्तप्रयोगस्योपपन्नत्वमित्यर्थः । तस्मात् व्यवहारनयाश्रयणात्, तथा च व्यवहारनयाश्रयणे 'घट-पटयोर्न रूपम्' इति प्रयोग उपपन्न इत्याशयः । अन्येषां मतं प्रतिक्षेप्तुमुपन्यस्यति-यत् त्विति । अयोग्यमेवेति- रूपत्वावच्छिन्नस्य रूपसामान्यस्य घट-पटयोः सत्त्वेन रूपत्वावच्छिन्नप्रतियोगिताकस्य रूपसामान्यस्याभावस्य घट-परयोरभावेन 'घट-पटयोन रूपम्' इत्यनेन घट-पटयो रूपसामान्याभावस्य बोधितस्य बोधयितुमशक्यत्वेन तादृशबोधेच्छयोच्चरितमुक्तवाक्यमयोग्यमेवेत्यर्थः । रूपत्वावच्छेदेनेतियद् यद् रूपं तत् किमपि घट-पटोभयनिरूपितवृत्तितावन्न भवत्येवेति रूपमात्र एव घट-पटोभयनिरूपितवृत्तित्वाभावस्य सत्त्वेन रूपत्वावच्छेदेनाबाधितस्य घट-पटोभयनिरूपितवृत्तित्वाभावस्यान्वयबोधसम्भवात् तादृशबोधतात्पर्येण प्रयुज्यमानं 'घट-पटयोर्न रूपम्' इति वाक्यं योग्यमेवेत्यर्थः । यदि च, यत्किञ्चिद्रूपे घटवृत्तित्वं यत्किश्चिद्रूपे पटवृत्तित्वमिति, तद्रूपदयं च रूप Page #43 -------------------------------------------------------------------------- ________________ __ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । पटयो रूपम्' इत्यादौ च घट-पटोभयवृत्तित्वस्यापि रूपत्वादिसामानाधिकरण्येनान्वयबोध एव साकासत्वाद् 'न तयोर्घटरूपम्' इत्यपि स्यादिति कैश्चित् कल्प्यते, तदसत्- प्रतिवस्तुन्याकाङ्क्षावैचित्र्यस्यापेक्षाबोधात्मकफलवैचित्र्यार्थमेवाश्रयणात् , उभयरूपसामान्यस्य प्रत्येकरूपविशेषात् कथश्चिद्भेदानभ्युपगमे त्वदुक्तान्यव्युत्पत्तिमहात् 'घट-पटयोर्घटरूपम्' इति जायमानस्य बोधस्य प्रामाण्यापत्तेश्व, अस्माकं तु स्यादर्थानुप्रवेशस्यैवातिप्रसङ्गभञ्जकत्वान्न दोषः । सामान्यात्मनकमिति तत्र घट-पटोभयनिरूपिनवृत्तित्वं सम्भवत्यैवेति कृत्वा रूपत्वसामानाधिकरण्येनान्वयबोध उक्तवाक्यात् सम्भवति, रूपत्वावच्छेदेनान्वयबोधस्तु तावताऽपि न सम्भवति, यतो घटावृत्ति-पटावृत्तिरूपव्यक्त्योरपि रूपसामान्यान्तर्गततया तत्र घटवृत्तित्व पटवृत्तित्वयोरभ वे घट-पटोभयवृत्तित्वस्याप्यभावेन बाधितत्वाद् रूपत्वावच्छेदेन घट-पटोभयवृत्तित्वान्वये उक्तवाक्यस्य निराकासत्वात् , किन्तु रूपत्वसामानाधिकरण्येनान्वय एवोक्तवाक्यं साक समिति विभाव्यते, तदा घटरूपस्य घटवृत्तित्वेऽपि न पटवृत्तित्वमिति कृत्वा घट-पटवृत्तित्वाभावस्य तत्र सत्त्वेन घटरूपेऽबाधितस्य घट-पटोभयनिरूपितवृत्तित्वाभावस्यान्वये 'घट-पटयोन घटरूपम्' इति वाक्यं साकाङ्गं स्यादेवेत्याह-घट-पटयोरिति- इत्थं च 'घट-पटयोन रूपम्' इति वाक्याद् 'घट-पटयो रूपम्' इति वाक्याद् ‘घट-पटयोन घटरूपम्' इति वाक्याच्चापेक्षामन्तरेणैवान्वयबोधस्योपपत्ते पेक्षात्मकान्वयबोधस्वरूपनयसिद्धिरित्यभिप्रायः । प्रतिक्षिपति- तदसदिति । प्रतिवस्तुनीति- 'घट-पटयोन रूपम्' इति वाक्यं रूपत्वावच्छेदेन घट-पटोभयनिरूपितवृतित्वाभावान्वयबोधने साकासम्, घट-पटयो रूपत्वाव. च्छिन्नप्रतियोगिताकाभावान्वये न साकाझम् , 'घट-पटयो रूपम्' इति वाक्यं च रूपत्वसामानाधिकरण्येन घट-पटोभयनिरूपितवृत्ति. त्वान्वयबोधने साकासम् , न तु रूपत्वावच्छेदेन घट-पटोभयनिरूपितवृत्तित्वान्वयबोधने इत्येवं यद् आकाङ्क्षावैचित्र्यमम्युपे त्यान्वयबोधवलक्षण्यमभ्युपेयते तदेतद् अपेक्षाबोधात्मकफलवैलक्षण्यमेव शब्दान्तरेणाभ्युपगतं परैः, अन्यथैकान्तवादिनो यदन्वयबोधसमर्थ यद् वाक्यं तत् तदन्वयबोधं जनयिष्यत्येव, यच्च यत्रासमर्थ तत् तन्न जनयिष्यतीत्येवाभ्युपगमनीयं स्याद् , न त्वाकाङ्क्षावैचित्र्यं फलवैचित्र्यार्थमाश्रितं भवेदित्यर्थः । रूपत्वसामानाधिकरण्येन घट-पटोभयनिरूपिवृत्तित्वान्वयस्य बोधे साका क्षाद् 'घट पटयो रूम्' इति वाक्यात् तथाविधान्वयबोधस्तदा भवेद् यदि घट-पटरूपविशेषयोः रूपसामान्येन सहाऽभेदो भेदश्चाभ्युपगतो भवेत् , तथा सति सङ्ग्रहनयाभ्युपगतरूपसामान्याभेदापेक्षामाश्रित्य रूपसामान्याभिन्नत्वेनैकीभूतयो रूपविशेषयोर्घट-पटोभयवृत्तित्वस्य सम्भवेन तादृशान्वयबोधस्योपपत्तिः, तयो रूपसामान्याद् भेदस्य व्यवहारनयाभ्युपगतस्यापेक्षा माश्रित्य तु 'घट-पटयोर्न रूपम्' इति वाक्याद् ‘घट-पटोभयनिरूपितवृत्तित्वाभाववद् रूपम्' इति बोधस्य सम्भवः, भवद्भिर्यदि रूपसामान्यस्य प्रत्येकरू विशेषात् सर्वथाऽभेद एवोपेयते, न तु कथञ्चिद्भेदस्तदा ध्यात्मके वस्तुनि 'एकस्यापेक्षाऽन्यस्य नापेक्षा' इत्युक्तिः सम्भवति, न त्वेकात्मके वस्तुनीत्यपेक्षाश्रयणस्यानावश्यकत्वेऽपि घटरूपस्यापि रूपसामान्यात्यन्ताभिन्नस्य घट-पटोभयवृत्तत्वेन 'घट-पटयोर्घटरूपम्' इति वाक्यतो जायमानस्य 'घट पटोभयनिरूपितवृत्तित्ववद् घटरूपम्' इति बोधस्य प्रामाण्यं स्यात् , सामान्य विशेषयोर्भेदाभेदपक्षे तु रूपसामान्यस्य रूपत्वेनैव रूपविशेषादभेदो घटरूपत्वादिना तु भेद एवेति घटरूपत्वेनोपस्थितस्य रूपविशेषस्य रूपसामान्याद् भेदो न त्वभेद इति घटरूपत्वेन तस्य न घट पटोभयवृत्तित्वमिति 'न घट-पटयोर्घटरूपम्' इत वाक्यतो जायमानस्य प्रामाण्यातिप्रसङ्गोऽपेक्षाश्रयणे इत्याह- उभयरूपसामान्यस्येति । कथञ्चिद्भेदानभ्युपगम इति- कथञ्चिद्भेदानभ्युपगमः सर्वथा भेदाभ्युपगमे सर्वथाऽभेदाभ्युपगमे वा स्यात् , तत्र सर्वथा मेदाभ्युपगमः 'घट-पटयो रूपम्' इति वाक्यजन्यबोधस्य न समर्थक इति सर्वथाऽभेदाभ्युपगम इति तदर्थः । त्वदुक्तान्यव्युत्पत्तिग्रहात् 'घट-पटयो रूपम्' इति वाक्यं रूपत्वसमानाधिकरण्येन घट-पटोभयवृत्तित्वस्यान्वयबोधे साकाङ्क्षमिति त्वदुक्तद्वितीयव्युत्पत्तिग्रहात्, अस्य 'जायमानस्य' इत्यनेन सम्बन्धः। 'घट-पटयोघंटरूपमिति' इत्यत्र इतिशब्दो वाक्यस्वरूपवचनः पञ्चम्यन्तश्च । बोधस्य 'घट पटोभयनिरूपितवृत्तित्ववद् घटरूपम्' इत्याकारकबोधस्य । अस्माकं तु रूपसामान्य-रूपविशेषयोर्भेदाभेदाभ्युपगन्तृणां स्याद्वादिनां पुनः । स्यादर्थानुप्रवेशस्यैव 'सामान्य-विशेषयोः कश्चिद् भेदः कथञ्चिदभेदः' इत्येवं स्याच्छब्दार्थस्य कथञ्चिल्लक्षणस्य भेदाभेदस्वरूपसन्निवेशस्यैव । अतिप्रसङ्गमञ्जकत्वात् 'घट-पटयोर्घटरूपम्' इतिवाक्यजन्यबोधप्रामाण्यप्रसङ्गवारकत्वात् । Page #44 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । किञ्च, एवं 'द्वयोर्गुरुत्वम्, न गन्धः' इत्यादौ का गतिः ? गुरुत्वसामानाधिकरण्येनेव गन्धत्वसामानाधिकरण्येनापि पृथिवी-जलोभयत्वाश्रयवृत्तित्वसाम्यात् विधि-निषेधविषयार्थानिरुतः । अत्र सप्तम्याः स्वार्थान्वयितावच्छेदकस्वरूपात् समव्याप्यातिरिकैवाऽऽधेयताऽर्थः, तत्र च प्रकृत्यर्थस्य तनिष्ठनिरूपितत्वविशेषेणान्वयात् , पृथिवी-जलोभयविशिष्टाधेयतात्वेन गुरुत्वं विधेयतया गन्धश्च निषेध्यतया प्रतीयत इत्युक्तौ च नामान्तरेण गुरुत्वसामान्यस्यैव विधेयत्वं गन्धसामान्यस्यैव च निषेध्यत्वमुक्तमायुष्मता, अतिरिक्ताधारताया अनिरूपणात्, अन्यथा 'घट-पटयोन घटरूपम्' इत्यादौ 'जाति-घटयोन सत्ता' अपेक्षात्मकान्वयबोधानभ्युपगन्तृणां परेषां दोषान्तरमप्युपदर्शयति-किश्चेति । द्वयोः पृथिवी-जलयोः, पृथिव्यां गुरुस्वमन्यत् , तदन्यच्च जले गुरुत्वमिति नैकस्य गुरुत्वस्य पृथिवी-जलोभयनिरूपितवृत्तित्वमिति यथा गन्धे पृथिवी-जलोभयनिरूपितवृत्तित्वस्याभावात् 'पृथिवी-जलयोन गन्धः' इत्येवं निषेधस्तथा गुरुत्वस्यापि पृथिवी-जलोभयनिरूपितवृत्तित्वाभावाद् 'द्वयोर्न गुरुत्वम्' इति निषेध एव स्यात् , न तु 'द्वयोर्गुरुत्वम्' इति विधि: स्यात्, यदि च पृथिवी-जलो. भयत्वाश्रयवृत्तित्वरूपमर्थमुपादाय 'पृथिवीजलयोगुरुत्वम्' इति गुरुत्वत्वसामानाधिकरण्येन 'पृथिवी-जलोभयत्वाश्रयनिरूपित. वृत्तित्ववद् गुरुत्वम्' इति बोधसम्भवतः 'पृथिवी-जलयोर्गुरुत्वम्' इति विधिरुपपाद्यते तदा तादृशवृत्तित्वस्य गन्धत्वसामाना. धिकरण्येन गन्धेऽपि सम्भवेन तदन्वयबोधस्यापि सम्भवात् 'पृथिवी-जलयोर्गन्धः' इति विधिरेव स्यात्, न तु 'पृथिवीजलयोन गन्धः' इति निषेधस्योपपत्तिरित्यर्थः । गुरुत्वसामानाधिकरण्येनेव' इति स्थाने 'गुरुत्वत्वसामानाधिकरण्येनेव' इति पाठो युक्तः । अत्र विधि-निषेधोपपादनपरविधि-निषेधार्थ निरुक्तेर्नामान्तरेणापेक्षात्मकबोधसमर्थकत्वमुपदर्शयतिअत्रेति- 'द्वयोर्गुरुत्वम्' इति वाक्यघटकेत्यर्थः । सप्तम्याः द्विपदोत्तरसप्तमीविभक्तेः, अस्य 'अर्थः' इत्यनेनान्वयः । स्वार्थेति- खं सप्तमीविभक्तिः, तस्यार्थ आधेयत्वम् , तदन्वयिता गुरुत्वनिष्ठा, तदंवच्छेदकं गुरुत्वत्वम्, तत्स्वरूपाद अतिरिक्तव- भिन्नैव, समव्याप्या-समनियता, आधेयता सप्तमीविभक्तरर्थः । तत्र च आधेयतायां पुनः । प्रकृत्यर्थस्य द्विपदार्थस्य पृथिवी-जलोभयस्य । तन्निष्टनिरूपितत्वविशेषेण सप्तमीविभक्त्यर्थाधेयत्वनिष्ठनिरूपितत्वविशेषरूपसम्बन्धेन । अन्वयात् सम्बन्धात् । तथा च 'पृथिवी-जलोभयविशिष्टाधेयतात्वेन' इति स्थाने 'पृथिवी-जलोभयविशिष्टाधेयतावत्वेन' इति पाठो युक्त:- निरूपितत्वविशेषलक्षणसम्बन्धेन पृथिवी-जलोभयविशिष्टा याऽऽधेयता तद्वत्त्वेनेति तदर्थः, तस्य 'विधेयतया' इत्यत्र 'निषेध्यतया' इत्यत्र चान्वयः, गुरुत्वविशेषस्यैकव्यक्तिमात्रवर्तिनः पृथिवी-जलोभयविशिष्टाधेयतावत्त्वं न सम्भवतीति तादृशाधेयतावत्त्वेन गुरुत्वसामान्यवर्तिना गुरुत्वसामान्यस्यैव विधेयत्वम् , यद्यपि पृथिवी-जलोभयविशिष्टाघेयतावत्वं गन्धसामान्ये यथा नास्ति तथा गन्धविशिषेऽपि नास्तीति पृथिवी-जलोभयविशिष्टाधेयतावत्त्वेन निषेध्यत्वं गन्धविशेषस्यापि सम्भवति, तथाऽपि तादृशनिषेध्यत्वं गुरुत्वविशेषस्यापि सम्भवतीति विशेषापेक्षया निरुक्तनिषेध्यत्वस्याभिमतत्वे 'द्वयोर्न गुरुत्वम्' इत्यपि स्यात्, अतः सामान्यापेक्षयैव निषेध्यत्वमप्यभिमतमिति गन्धसामान्यस्यैव पृथिवी-जलोभयविशिष्टाधेयतावत्त्वेन निषेध्यत्वं 'द्वयोर्गुरुत्वं न गन्धः' इति वाक्येनोक्तं परेणापीति सामान्यपेक्षाया आवश्यकत्वादपेक्षात्मकान्वयबोधरूपनयसिद्धिरित्यर्थः । 'पृथिवी-जलोभयविशिष्टाधेयतात्वेन' इति पाठप्रामाण्ये तु 'स्वार्था०' इत्यादिस्थाने 'स्वार्थान्वयितावच्छेदकस्वरूपात् समव्याप्यानतिरिक्तवाऽऽधेयतार्थः' इति पाठो युक्तः । 'अतिरिकाधारताया अनिरूपणाद' इति स्थाने 'अतिरिक्ताधेयताया अनिरूपणाद्' इति पाठः सम्यक्, तच्च 'अनतिरिक्तवाऽऽधेयताऽर्थः' इत्यत्र हेतुकथनरूपतया सङ्गतिमङ्गति, यतश्चाधेयताऽऽधेयस्वरूपा तत आधेयस्याऽऽधेयतात्वेन विधानं निषेधश्च सम्भवतीति बोध्यम् । अन्यथा सामान्यापेक्षया विधेयत्व-निषेध्यत्वयोरनभ्युपगमे। घट-पटयोरिति-घट-पटोभयत्वाश्रयघटनिरूपितवृत्तित्वस्य घटरूपे सत्त्वात् तनिषेधस्तत्र न स्यात्, घट-पटोभयनिरूपितवृत्तित्वं च न क्वचिदपि रूपे इति तदभावबोधने 'घट-पटयोर्न रूपम्' इत्यपि स्याद्, अतः 'जाति-घटन सत्ता' इत्यादौ घटवृत्तित्वस्य समवायसम्बन्धावच्छिन्नस्य सत्तायां सत्त्वेऽपि जातौ न सत्ता वर्तते, नापि कोऽपि पदार्थः समवायेन तत्र वर्तत इत्यतो जाति-घटोभयनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वप्रसिद्धथा तदभावोऽपि न बोधयितुं शक्यः, किन्तु जाति घटोभयनिरूपितत्त्वाभाववत्समवायसम्बन्धा Page #45 -------------------------------------------------------------------------- ________________ १२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । इत्यादाविव 'घट-पटोभयनिरूपितत्वाभाववदाधेयतावद् घटरूपम्' इत्यन्वयोपपादनेऽपि 'घट-पटरूपे' इत्यस्योपपादयितुमशक्यत्वात् , घटरूपत्वादिस्वरूपाया आधेयताया उभयानिरूपितत्वात् । तत्र द्वित्वादिस्वरूपैवाऽऽधेयतेति चेत्! द्वयोः प्रत्येकरूपावच्छेदेन द्वित्वाभावान्निषेधस्यापि प्रवृत्तिः स्यात् । अनुयोगितावच्छेदकावच्छेदेनैव सप्तम्यर्थीधेयत्वान्वयव्युत्पत्ते यं दोष इति चेत् तथाऽपि 'घटरूपाऽऽकाशे' इत्यादिकं कथम्? एतद्वित्वादिस्वरूपाया आधेयताया उभयानिरूपितत्वात्, तत्र तात्पर्यवशात् द्वेधाऽन्वयेऽप्युभयस्यानाधेयत्वाभावात् । तस्मानयापेक्षाभेदेनात्र विचित्र एव बोधः स्वीकार्यः ॥ २ ॥ वच्छिन्नाधेयतावती सत्तेति यथा बोध्यते तथा प्रकृतेऽपि घट-पटोभयनिरूपितत्वाभाववत्समवायसम्बन्धावच्छिन्नाधेय. तावद् घटरूपम्' इत्येवमन्वयबोधोपपादनसम्भवेऽपि 'घट-पटयोर्घट-पटरूपे ' इत्यत्र निरुक्तदिशा ‘घट-पटोभयनिरूपितत्ववदाधेयतावती घट-पटरूपे' इत्येवमन्वयस्य वाच्यतया सामान्यपेक्षाभावे तादृशान्वयस्य बाधितत्वेन वक्तुमशक्यत्वाद् घटरूपत्वस्वरूपाया आधेयताया घटनिरूपितत्वम् , पटरूपत्वस्वरूपाया आधेयतायाः पटनिरूपितत्वम् , घट-पटोभयनिरूपितत्वस्य तु घटरूपत्वादिस्वरूपाघेयतायामभावादित्यर्थः । 'घट-पटरूपे इत्यस्य' इत्यत्र 'घट-पटयोः' इत्यस्यानुकर्षाद् 'धट-पटयोर्घट-पटरूपे इत्यस्य' इति लभ्यते । 'घट-पटयोर्घट-पटरूपे' इत्यत्र सप्तम्यर्थाधेयतान्वयितावच्छेदकं घट-पटरूपदयगतद्वित्वम् , तत्स्वरूपैवाऽऽधैयता, तस्या घट-पटोभयनिरूपित्वस्य सम्भवाद् ‘घट पटयोर्घट-पटरूपे' इत्युपपद्यत इति शङ्कते-तत्रेति-'घट-पटयोर्घट-पटरूपे' इत्यत्रेत्यर्थः । घट-पटरूपयोर्घटरूपत्व-पटरूपत्वलक्षणप्रत्येकधर्मावच्छेदेन न द्वित्वम् , तस्य ध्यासज्यवृत्तितया द्वित्वावच्छेदेन सत्त्वादिति तद्रूपाऽऽधेयतापि घटरूपत्वादिप्रत्येकधविच्छेदेन न तत्र वर्तत इति ताशाऽऽधेयत्वाभावस्य प्रत्येकरूपावच्छेदेन घट-पटरूपयोः सत्त्वाद् ‘घट-पटयोर्न घट-पटरूपे' इति निषेधस्यापि प्रवृत्त्यापत्तेरिति समाधत्ते द्वयोरिति-घट-पटरूपयोरित्यर्थः । प्रत्येकरूपावच्छेदेन घटरूपत्वाद्ययवच्छेदेन । नन्वन्वयितावच्छेदकस्वरूपा यथाऽऽधेयता स्वीक्रियेत तथा तस्या अनुयोगितावच्छेदकावच्छेदेनैवान्वय इत्यपि स्वीक्रियते, एवं च घट-पटरूपद्वयगतद्वित्वस्वरूपाऽऽधेयतायास्तादृशद्वित्वावच्छेदेनैवान्वयो न प्रत्येकरूपावच्छेदेनेति तादृशद्वित्वावच्छेदेन तादृशद्वित्वरूपाऽऽधेयतायाः सत्त्वाद् विधिरूपपद्यते, तदभ वस्य तादृशद्वित्वावच्छेदनाभावान्न निषेधस्य प्रवृत्त्यापत्तिरिति शङ्कतेअनुयोगितावच्छेदकावच्छदेनैव । अयं दोषः निषेधप्रवृत्त्यापत्तिलक्षणो दोषः । घटे समवायेन घटरूपं पटे च संयोगेनाऽऽकाश इति विवक्षया 'घट-पटयोर्घटरूपा-ऽऽकाशे' इति प्रयुज्यते, तत्र घटरूपाऽऽकाशगतद्वित्वरूपाऽऽधेयता न भवति घट-पटोभयनिरूपितेति तत्रान्वयानुपपत्तिरिति समाधत्ते-तथापीति- अनुयोगिताच्छेदकावच्छेदेन 'सप्तम्यधियत्वान्वयव्युत्पत्तेः स्वीकारेऽपीत्यर्थः। यद्यपि आकाशस्य नित्यद्रव्यतया तत्सम्बन्धो वृत्त्यनियामक एवेति आकाशस्य न किञ्चिन्निरूपिताऽऽधेयत्वमिति घटरूपा-ऽऽकाशगतद्वित्वस्वरूपाऽऽधेयतैव न सम्भवतीति कुतस्तस्याः शशशृङ्गकल्पाया उभयनिरूपितत्वम् ? इत्येवमपि 'उभयानिरूपितत्वाद्' इति घटते तथापि काले सर्व वस्तु कालिकेन वर्तत इति कालनिरूपितैव घटरूपा-ऽऽकाशगताधेयता घटरूपा-ऽऽकाशगतद्वित्वस्वरूपा सम्भवति, तस्यां कालनिरूपितायां घट-पटोभयनिरूपितत्वाभावादिति सम्मुखीनोऽर्थ एवाश्रयितव्य इति । वस्तुतः 'तत्र तात्पर्यवशा' इत्याद्युत्तरग्रन्थस्वारस्यात् 'तथापि' इत्यस्यानन्तरं 'घट-रूपाकाशे' इत्यारभ्य 'उभयानिरूपितत्वाद्' इति पर्यन्तस्य स्थाने 'घट-टयोर्न घटरूपाऽऽकाशे इत्यादिकं कथम् ? एतद्वित्वादिस्वरूपाया आधेयताया असम्भवेनोभयनिरूपितत्वाभाववदाधेयत्वान्वयासम्भवाद्' इति पाठो युक्तः, तस्य चायमर्थः- 'घट-पटयोर्न घटरूपम्' इत्यत्र यथा 'घट-पटोभयनिरूपितत्वाभाववदाधेयतावद् घटरूपम्' इत्येवमन्वयबोध उररीक्रियते तथा 'घट-पटयोर्न घटरूपाऽऽकाशे' इत्यत्र 'घट-पटोभयनिरूपितत्वाभाववदाधेयतावती घटरूपाऽऽकाशे इत्येवमन्वयबोधः स्वीकरणीयः, स च न सम्भवति, घटरूपाकाशगतद्वित्वस्वरूपाया आधेयताया असम्भवेन घट-पटोभयनिरूपितत्वाभाववदाधेयतात्वेन तस्या ग्रहणासम्भवेनान्याऽऽधेयताया ग्रहणेऽपि तद्वत्त्वस्य घटरूपाऽऽकाशयोरभावाद् घटरूपस्य किञ्चिन्निरूपिताधेयतावत्त्वेऽपि नित्यद्रव्यस्याकाशस्याश्रितत्वाभावेन किञ्चिन्निरूपिताधेयत्वाभावात् तथाविधाधेयतावत्त्वान्वयासम्भवादिति । Page #46 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकृतो नयोपदेशः । नन्वनन्तधर्ममिश्रितं वस्तु कथं विवेचयितुमशक्यम् ? अनन्तानामपि धर्माणां धर्म्यभिन्नत्वेन धर्मिप्राहकप्रत्यक्षादेरेव तद्विवेकरूपत्वात् , सति च तद्विवेके किमपेक्षाश्रयणेनेत्याशझ्याऽऽह यद्यप्यनन्तधर्मात्मा वस्तु प्रत्यक्षगोचरः। तथापि स्पष्टबोधः स्यात् सापेक्षो दीर्घतादिवत् ॥३॥ नया०- यद्यपि वस्तु घटपटादिकम् , अनन्तधात्मकं सत् प्रत्यक्षगोचरः प्रत्यक्षादिप्रमाणविषयः, एकस्मिन् घटादौ गृह्यमाणे गृह्यमाणधर्मोपरागेण द्रव्यार्थादेशेनातीता-ऽनागत-वर्तमानानां तवृत्तिधर्माणां यावतामेव प्रहात् , परेषां सामान्यलक्षणप्रत्यासत्तिस्थानेऽभिषिक्तस्य घटविषयकतिर्यक्सामान्योपयोगस्य घटत्वव्यापकविषयताकप्रत्यक्षत्वं तादृशज्ञानत्वं वा यथा कार्यतावच्छेदकं तथा तद्विषयकोर्ध्वतासामान्योपयोगस्यापि तादात्म्यसंबन्धेनाधेयत्वसंबन्धेन वा घटत्वव्यापकविषयताक ननु 'घट-पटयोर्न घटरूपाऽऽकाशे' इत्यत्र नो द्वेधाऽन्वय उपेयते, तथा च 'घट-पटोभयनिरूपितत्वाभाववदाधेयत्वाभाववती घटरूपा-ऽऽकाशे' इत्येवमन्वयबोध उपपद्यत इत्यत आह-तत्रेति- 'घट-पटयोन घटरूपा ऽऽकाशे' इत्यत्रेत्यर्थः । तात्पर्यवशात् 'इदं वाक्य घट-पटोभयनिरूपितत्वाभाववदाधेयत्वाभाववद्घटरूपाकाशरूपार्थ बोधयतु' इति तात्पर्यबलात् । द्वेधाऽन्वये नमोऽर्थस्याभावस्य द्वेधान्वये । उभयस्य घटरूपाऽऽकाशोभयस्य । अनाघेयत्वाभावात् आकाशस्य नित्यद्रव्यतयाऽऽधेयत्वाभाववत्त्वेऽपि घटरूपस्य घट-पटोभयनिरूपितत्वाभाववदाधेयत्ववत्तया तदभावस्य तत्राभावेन घटरूपाऽऽक शोभयस्य निरूकाधेयत्वाभाववत्त्वासम्भवात् । उपसंहरति-तस्मादिति-अपेक्षां विना तत्तत्स्थलेऽऽन्वयबोधस्यो. पपादयितुमशक्यत्वादित्यर्थः ॥ २ ॥ __ तृतीयपद्यमवतारयति-नन्विति । तद्विवेकेति- अनन्तधर्मविवेकेत्यर्थः, एवमप्रेऽपि, अनन्तधर्मविवेके सति तद्द्वाराऽनन्तधर्मात्मकवस्तुविवेकोऽपि सुशक एव, प्रत्यक्ष प्रमाणं सर्वतो बलवत्, तश्चेत् सर्वधर्माभिन्नवस्तुविषयकत्वात् सर्वधर्मविषयकमिति किमवशिष्टं विवेके ? यदर्थमपेक्षाश्रयणमित्यभिसन्धिः । 'यद्यपि' इत्यादि पद्यं विवृणोति-यद्यपीति । ननु प्रत्यक्ष प्रतिनियतधर्मविशिष्टघटादिधर्मिग्राहकं चक्षुरादिप्रभवं भवतु नाम, कथं पुनस्तस्य घटादिगतानामतीतानागतधर्माणां प्राहकत्वम् ? येनानन्तधर्मात्मकवस्तु प्रत्यक्षगोचर इति गदितुमनुगुणम् , नानन्तधर्माणां प्रत्यक्षेणाऽनवगाहनेऽनन्तधर्मात्मकवस्तु प्रत्यक्ष गोचरो भवितुमर्हतीत्यत आह-एकस्मिन्निति । द्रध्यार्थादेशेनेति-गृह्यमाणधर्मविशिष्टधर्मिरूपद्रव्याभेदाश्रयणेनेत्यर्थः। तदवृत्तिधर्माणां घटादिवृत्तिधर्माणाम् । ननु सन्निकृष्टं प्रत्यक्षे भासते, अतीतानागतधर्माणां पुनः द्रव्याभेदेऽपि सन्निकृष्टत्वं नास्तीति फथं तेषां प्रत्यक्ष भानमित्यत आह-परेषामिति-नैयायिकादीनामित्यर्थः, 'मते' इति शेषः । घटविषयकतिर्यक्सामान्योपयोगस्य पुरोवर्तियत्किञ्चिद्घटविशेष्यकघटत्वप्रकारकप्रत्यक्षस्य, तस्य प्रत्यासत्तितानियामकसम्बन्धश्च स्वविषयघटत्ववरवरूपः, तेन सम्बन्धन निरूकोपयोगो । यावत्स्वतीतानागतविप्रकृष्टेषु घटषु वर्तत इति । घटत्वव्यापकेति-घटत्वव्यापकविषयताकप्रत्यक्षत्वावच्छिन्नं प्रति घटत्वव्यापकविषयताकज्ञानत्वावच्छिन्नं प्रति वा घटविशेष्यघटत्वप्रकारकप्रत्यक्षस्य कारणत्वाद् यावकिश्चिद्घटप्रत्यक्षानन्तरं यथाऽतीतानागत. सकलघटविषयकप्रत्यक्षमित्यर्थः । तथेति- 'तादात्म्यसम्बन्धेन' 'आधेयतासम्बन्धेन' इति च व्याप्यताया नियमनम् , घटविषयकोचंतासामान्योपयोगस्यापि प्रत्यासत्तितानियामकः स्वविषयतादात्म्यं स्वविषयाधेयत्वं वा सम्बन्धः तादृशसम्बन्धश्च विषयनिष्ठप्रत्यासत्त्या कार्य-कारणभावे बोध्यः, आत्मनिष्ठप्रत्यासत्त्या कार्य-कारणभावे तु कश्चित्तादात्म्यमेव कार्यतावच्छेदकः कारणतावच्छेदकश्च जैनमते, परमते तु समवायस्तथा बोध्यः । 'घटत्वव्यापक' इति स्थाने 'घटव्यापक' इति पाठो युक्तः तथा च तादात्म्यसम्बन्धेनाऽऽधेयतासम्बन्धेन वा घटव्यापकविषयताकप्रत्यक्षत्वावच्छिन्नं प्रति घटव्यापकविषयताकज्ञानत्वा. वच्छिन्नं प्रति वा घटविषयकोचंतासामान्योपयोगः कारणमिति, तादात्म्यसम्बन्धेनाऽऽधेयतासम्बन्धेन वा घटो यावत्सु Page #47 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । प्रत्यक्षत्वस्य तादृशज्ञानत्वस्य वा कार्यतावच्छेदकताया न्यायसिद्धत्वात्, अत एव " जे एगं जाणइ से सव्वं जाणइ " [ आचाराङ्ग- श्रु० १, अ० ३, उ० ४, सू० १२२ ] इति पारमर्षवचनानुरोघोऽपि, एकवस्तुप्रहे तद्गतस्व-परपर्यायकुक्षिप्रवेशेन सर्वेषामेव ग्रहात्, अनुवृत्ति-व्यावृत्ति संबन्धपर्यालोचने तावत्प्रमाणस्यैव वस्तुनोऽनुभवात् । तदाह महावादी सम्मतौ १४ एगदविअम्मि जे अत्थपज्जवा वयणपज्जवा वा वि । तीयाऽणागयभूआ, तावइयं तं हवइ दव्वं " ॥ - [ सम्मतितर्क - का० १, गाथा - ३३ ] इति । नन्वेवं सर्वस्य सार्वज्ञ्यापत्तिरिति चेत् ? न- द्रव्यार्थिकतयेष्टत्वात् उक्तभगवद्वचन रुच्यनुवेधेन सम्यक् संपन्या चानतिप्रसङ्गात् । antra तथापि स्पष्टबोधः सत्त्वाऽसत्वादिप्रतिनियतधर्मप्रकारको बोधः सदसदाद्याकारको वा बोधः, सापेक्षः शाब्दस्थले नयापेक्षया जनितः, प्रत्यक्षस्थले चावध्यवच्छेदकादिज्ञानापेक्षः स्यात् । विद् ? दीर्घतादिवत् आदीयतेऽनेनेत्यादि ज्ञानम्, दीर्घता प्रत्यक्षवदित्यर्थः, यथा हि दण्डादिज्ञान काले तत्परिमाणग्रहेऽपि ‘अयमस्माद् दीर्घः' इति दीर्घत्वप्रकारकं ज्ञानं नियतावध्यपेक्षयैव, तथा सदसदात्मकवस्तुग्रहेऽपि सत्त्वादिप्रकारकं ज्ञानं स्वद्रव्यापेक्षयैवेत्यर्थः, 'अयमेतदपेक्षया दीर्घः' इतिवद् 'अयं स्वद्रव्याद्यपेक्षया सन्, परद्रव्याद्यपेक्षया चासन् ' इत्येव व्यवहारात् । नन्वेवं व्यवहार एव सापेक्षो स्ववृत्तिधर्मेषु वर्तत इति तेन सम्बन्धेन तस्य व्यापिका विषयता यावद्घटधर्मावगाहिप्रत्यक्षस्यैवेति निरुक्त कार्यकारणभावाद् घटवृत्तियावद्धर्मावगाहि प्रत्यक्षं सिध्यतीति । अत एव तद्विषयको तासामान्योपयोगलक्षणसामान्यलक्षण प्रत्यासत्तिबलात् तद्गतसकलधर्मज्ञानसम्भवादेव । जे० इति " य एक जानाति स सर्वं जानाति " इति संस्कृतम् । तावत्प्रमाणस्यैव अनुवृत्त - व्यावृतसकलधर्मात्मकस्यैव । उक्तार्थे श्रीसिद्धसेनदिवाकर सूरिवचन संवादमाह - तदाहेति । एग० इति - "एकद्रव्ये ये अर्थ पर्याया वचनपर्याया वाऽपि । अतीतानागतभूतास्तावत्कं तद् भवति द्रव्यम् " ॥ इति संस्कृतम् । नन्वेकपदार्थज्ञस्योक्तदिशा सर्वपदार्थज्ञत्वाभ्युपगमे सर्वस्य सर्वज्ञत्वं स्यादिति शङ्कते - नन्वेवमिति । द्रव्यार्थाऽऽदेशात् सर्वस्य सर्वज्ञत्वमिष्टमेवेति समाधत्ते-नेति । उक्तभगवद्वचनेति - " जे एगं जाणइ से सव्वं जाणइ " इति भगवद्वचन श्रद्धासम्बन्धेनेत्यर्थः, यस्य चोक्तवचनश्रद्धा नास्ति समिध्यादृष्टिर्वस्तु एकमपि न जानात्येव, तस्य ज्ञानमज्ञानमेवेति न तस्य सर्वज्ञत्वप्रसक्तिरपीति । एतावता पूर्वार्द्ध व्याख्यातम् । अथोत्तरार्द्ध विवृणोति — यद्यप्येवमिति । 'सापेक्ष: ' इति किं सर्वत्रैकापक्ष एव ? उतास्ति तत्र विशेष: ? इत्यपेक्षायामाह - शाब्दस्थल इति 1 ' दीर्घतादिवद्' इत्यस्य विवरणम् - ' दीर्घता प्रत्यक्षवद्' इति, तद् यथा सम्पद्यते तथोपदर्शयितुम् ' आदि ' इत्यस्य ज्ञानरूपमर्थं निरूतिलभ्यमावेदयति - आदीयत इति । दृष्टान्त - दाष्टन्तिकयोः सापेक्षत्वमुपपादयति-यथा हीति । तत्परिमाणग्रहेऽपि दण्डादि परिमाणग्रहेऽपि । 'स्वद्रध्यापेक्षयैव' इत्यत्र ' स्वद्रव्याद्यपेक्षयैव ' इति पाठो युक्तः, आदिपदात् स्वक्षेत्रादीनां परद्रव्यादीनां चोपग्रहः, अत्रादिपदात् परद्रव्यादीनां ग्रहणादेव ‘सत्त्वादि’इत्यादिपदग्राह्या सत्त्वस्य यज्ज्ञानं तस्य सापेक्षत्वस्याप्युपपादनसम्भवेन न्यूनोक्तेर्व्युदासः । यथा यस्य ज्ञानं तथैव तस्य व्यवहार इति स्वद्रव्याद्यपेक्षया सत्त्वादिप्रकारकज्ञानाभावे स्वद्रव्याद्यपेक्षया सत्त्वादिव्यवहारो न स्यादिति तादृशव्यवहारान्यथानुपपत्त्यया तथा ज्ञानमावश्यकमिति दृष्टान्तावष्टम्भेन द्रढयति - अयमेतदपेक्षयेति । ननु सापेक्षतया दीर्घत्वादिर्व्यवह्रियत इत्येतावता दीर्घत्वादिव्यवहारस्य सापेक्षत्वमस्तु दीर्घत्वादिज्ञानस्य कुतः सापेक्षत्वमिति शङ्कते - नन्वेवमिति । व्यवहारो व्यवहर्तव्यज्ञानं व्यवहारेच्छां चापेक्षते, न तु तदतिरिक्तस्य कस्यचिद् व्यवहारेऽपेक्षेति व्यवहार कारणीभूतस्य Page #48 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। न तु बोध इति चेत् ? न- व्यवहर्तव्यज्ञाने सति सत्यां चेच्छायां व्यवहारे आधिक्यताऽनपेक्षणात् , अन्यथाऽभावज्ञानेऽपि प्रतियोग्यपेक्षा न स्यात् , तद्व्यवहार एव सप्रतियोगिकत्वस्थितेः । अथ 'दी? दण्डः' इति ज्ञानं चक्षुःसन्निकर्षमात्राज्जायत एव, 'अमुकापेक्षया दीर्घः' इति दीर्घत्वत्वावान्तरजात्यवगाहिज्ञान एव चावधिज्ञानापेक्षेति चेत् ? न- इस्वत्वेन ज्ञाने दीर्घत्वेन ज्ञानस्यैवापेक्षां विनाऽनुपपत्तिः, तद्वदिहापि परद्रव्यादिनाऽसत्त्वेन ज्ञाने स्वद्रव्याद्यपेक्षयैव सत्त्वज्ञानमिति प्रतिपत्तव्यम् । अवच्छेदकानवगाहिनस्तु अनवधारणरूपत्वादेवानुपयोगः । द्विहस्तादिमात्रेऽनावृतैकहस्तावच्छेदेन महत्त्वप्रहस्तु देशापेक्षयैवेति न तस्य निरपेक्षत्वम् , अत एवाऽऽवरणापगमे स्कन्धापेक्षया परिमाणे द्विहस्तत्व. आहेऽपि तावदवच्छेदेन हस्तत्वग्रहस्य नाप्रामाण्यम् , देश-स्कन्धभेदेनोभयोपपत्तेः । एतेन, मूयोऽवयवावच्छेदेन चक्षुःसंयोगाभावानार्द्धनिखातवंशादेर्द्विहस्तादिपरिमाणग्रह इति प्राच्यनैयायिकानां प्रलापो निरस्तः, यावति भागे नाऽऽवरणं तावति भागे परिमाणस्य ग्रहादेव, स्कन्ध व्यवहर्तव्यज्ञानस्य सापेक्षत्वत एव व्यवहारस्य सापेक्षत्वं नान्यथेति समाधत्ते-नेति । 'आधिक्यतानपेक्षणाद्' इति स्थाने 'अधिकानपेक्षणाद्' इति पाठो युक्तः तस्य व्यवहर्तव्यज्ञानव्यवहारेच्छाव्यतिरिक्तानपेक्षणादित्यर्थः । अन्यथा व्यवहर्तव्यज्ञानस्यानपेक्षत्वेऽपि व्यवहारस्य सापेक्षत्वाभ्युपगमे । तद्वयवहार एव अभावव्यवहार एव, अभावज्ञानं प्रतियोगिज्ञानमन्तरेणैव भवतीत्यभावो न सप्रतियोगिकः, किन्त्वभावव्यवहार एव प्रतियोगिज्ञानमभावज्ञानं चापेक्षत इति तस्यैव सप्रतियोगिकत्वं स्यादित्यर्थः । दीर्घत्वप्रकारकं ज्ञानं न नियतावध्यपेक्षम् , अवधिज्ञानमन्तरेणापि 'दी? दण्डः' इति ज्ञानस्य चक्षुस्सन्निकर्षमात्रादुत्पत्तेः, किन्त्वमुकापेक्षया यद् दीर्घत्वत्वं दीर्घत्वत्वव्याप्यसामान्यम् , तत्प्रकारकदीर्घत्वविशेषविशेष्यकज्ञान एवावधिज्ञानं कारणमिति तत्रैवावधिज्ञानापेक्षेति शङ्कते-अथेति । ह्रस्वत्वस्य दीर्घत्वविरुद्धतया तद्रूपेण दण्डज्ञाने सति नापेक्षामन्तरेण 'दी? दण्डः' इति ज्ञानं सम्भवतीति दीर्घत्वप्रकारकज्ञानेपि नियतावधिज्ञानापेक्षत्वमेवेति समाधत्ते-नेति । तद्वत् नियतावधिज्ञानापेक्षदीर्घत्वप्रकारकज्ञानवत् । इहाऽपि सदसदालकवस्तुज्ञानेपि । नन्ववच्छेदकानवगाह्यपि वस्तुज्ञानं भवत्येवेति न तत्रावधिज्ञानापेक्षत्यत आह-अवच्छेदकानवगाहिनस्त्विति-तादृशज्ञानं भवतु नाम, न ततः सत्त्वादेरवधारणमिति न स्पष्टबोधः स इति स्पष्टबोधोऽपेक्षां विना न सम्भवतीति प्रतिज्ञायां न तेन किञ्चित् क्षुण्णमित्यभिसन्धिः । अनुपयोगः वस्तुसद्धावुपयोगो न भवति, तत्तत्प्रकारेण वस्तुसिद्धयर्थं च यज्ज्ञानं मृग्यते तद् अवच्छेदकावगाह्येव भवतीति । द्विहस्तादिमात्रे द्विहस्तादिप्रमाणे वस्तुनि, आदिपदात् त्रिहस्तादेर्ग्रहणम् । देशापेक्षयैवेतीति-द्विहस्तप्रमाणे यादृशं महत्त्वं ततो विलक्षणमेवैकहस्तप्रमाणगतं महत्त्वम्, तच्च देश-देशिनोः कथञ्चिद् भेदाद् देशे वर्तमानं देशिन्यपि वर्तत एव, परन्तु दशिन एकदेशावच्छेदेनाऽऽवरणमन्यदेशावच्छेदेनानावरणमित्यनावृतो य एकहस्तप्रमाणो देशस्तदवच्छेदेन तादृशमहत्त्वग्रहणं देशापेक्षयैवेतीति । तस्य महत्त्वग्रहस्य त निरपेक्षत्वमित्यर्थः । अत एव द्विहस्तप्रमाणे वस्तुनि अनावृतकहस्तावच्छेदेन महत्त्वग्रहस्य सापेक्षत्वादेव । तावदवच्छेदेन एकहस्तमितदेशावच्छेदेन । देशतिदेशापेक्षयैकहस्तमितत्वं स्कन्धापेक्षया द्विहस्तमितत्वमित्येवं देश-स्कन्धभेदेनैकस्मिन् वस्तुन्येकहस्तत्व-द्विहस्तत्वोभयोरपि सम्भवेन तत्र द्विहस्तत्वग्रहस्यक हस्तत्वग्रहस्यापि प्रामाण्यसम्भवादित्यर्थः । - 'एतन' इत्यस्य 'निरस्तः' इत्यनेनान्वयः, प्राच्यनैयायिकानां मते द्विहस्तमिते वस्तुनि द्विहस्तपरिमाणमेव, नैकहस्तपरिमाणम्, तद्गतद्विहस्तपरिमाणग्रहे च भूयोऽवयवावच्छेदेन चक्षुस्संयोगो हेतुरित्यर्द्धनिखातवंशादेरुक्तकारणाभावान्न द्विहस्तपरिमाणप्रहः एकहस्तपरिमाणं तु तत्र नास्त्येवेति न तद्गतपरिमाणग्रह इत्याशयः । एतेन इत्यतिदिष्टमेव निरासहेतुमाहयावति भाग इति । परिमाणस्य तद्वस्तुगतस्य निरावृतदेशावच्छिन्नस्यैक हस्तपरिमाणस्य । ननु भूयोऽवयवावच्छेदेन चक्षुःसंयोगाभावेऽपि तत्परिमाणग्रहणं यापेयते तर्हि अर्द्धनिखातवंशादेरेकहस्तग्रहणवद् द्विहस्तपरिमाणग्रहणमपि स्यादित्यत आह-स्कन्धपर्याप्तति । 'तत्पर्याप्तावच्छेदक' इति स्थाने 'तत्पर्याप्यवच्छेदक' इति पाठो युक्तः, स्कन्धे परिमाणस्य Page #49 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । पर्याप्तपरिमाण हे तत्पर्याप्तावच्छेदक यावदवय वावच्छेदेनावरणाभावलक्षणयोग्यताया एव हेतुत्वे दोषाभावात् । कि, 'भूयोऽवयवावच्छेदेन' इत्यस्य कोऽर्थ : ? यावदवयव संन्निकर्षस्य कुत्राप्यसम्भवात्, अनेकतत्संयोगस्य चातिप्रसञ्जकत्वात् भूयोऽवयवावच्छिन्नत्वो पलक्षिताधारताविशेषस्य च देश-स्कन्धापेक्षावैचित्र्यमुखनिरीक्षकत्वादिति न किचिदेतत् । १६ यत् तु - " विषयतासंबन्धेन परिमाणसाक्षात्कारत्वावच्छिन्नं प्रति स्वाश्रयसमवेतत्व संबन्धेन तत्तदावारकसंयोगत्वेन प्रतिबन्धकत्वान्नार्द्ध निखात वंशादिपरिमाणग्रह, यद्वा, अर्द्धनिखातवंशादेर्महत्वादिकं गृहात एव, 'महानयं वंश:' इति प्रतीतेः, तदवान्तरवैजात्यं तु नानुभूयत इति तत्तद्वै जात्यग्रहं प्रत्यावारक संयोगस्य विरोधिता । न च निखाताऽनिखातसदृशवंशयोः सन्निकर्षदशायां तन्महत्वादिवृत्तिवैलक्षण्यानुभवाद् वैजात्यप्रत्यक्षं प्रत्यावारक संयोगानां प्रतिबन्धकत्वासंभव इति वाच्यम्, तादृशवैलक्षण्यप्रकारकप्रत्यक्षं प्रत्येव तेषां विरोधित्वात्, विशेष्यत्वं प्रतिबध्यतावच्छेदकः संबन्धः, स्वाश्रयमेव तत्त्वं या पर्याप्तिस्तदवच्छेदका यावन्तोऽवयवास्तदवच्छेदेनेत्यर्थः । भूयोऽवयवावच्छेदेन चक्षुः संयोगस्यावयविगतपरिमाणमहं प्रति कारणत्वं यत् परेणोच्यते तत्र 'भूयोऽवयवावच्छेदेन' इत्यस्य निर्वचनमेव प्रकृतानुगुणं न कर्तुं शक्यमित्याह-किश्चेति । यदि 'यावदवयवावच्छेदेन' इति तदर्थ उपवर्ण्यते तदसम्भवग्रस्तमेव सर्वथानाऽप्यवयविनि अन्तर्लीनमध्याद्यवयवा - वच्छेदेन चक्षुस्संयोगस्याभावादित्याह - यावदवयवेति । अनेकावयवचक्षुस्संयोग एव यदि भूयोऽवयवावच्छेदेन चक्षुस्संयोगः स तर्हि अर्द्धनिखातवंशादावपि समस्तीति । तत्परिमाणग्रहणापत्तिरित्याह- अनेकतत्संयोगस्य चेति- अनेकावयवचक्षुस्संयोगस्य चेत्यर्थः । यदि च भूयोऽवयवावच्छिन्नत्वोपलक्षितचक्षुस्संयोगाधारताविशेष उक्तशब्दार्थोऽभिमतः, स कार्यानुरोधेन कल्पनीयः स्यादिति देशविशेषापेक्षतादृशाधारताविशेषोऽन्यो यो हस्तावच्छेदेन तद्गतपरिमाणग्रहणे कारणम्, तदन्यश्च स्कन्धापेक्ष तादृशाधारताविशेषो यो द्विहस्तादिपरिमाणग्रहणे कारणमित्यर्द्ध निखातस्थले स्कन्धापेक्षतादृशाधारताविशेषाभावाद् द्विहस्तादिपरिमाणाग्रहणेऽपि देशविशेषापेक्षतादृशाधारताविशेषसद्भावाद् हस्तपरिमाणग्रहणं स्यादेवेत्यपेक्षासिद्धिर प्याय। तैवेत्याशयेनाह - भूयोऽवयवावच्छिन्नत्वोपलक्षितेति । अत्र नैयायिक धुरन्धरमथुरानाथमतं प्रतिक्षेप्तुमुपन्यस्यति - यत् त्विति । विषयतेति परिमाणविषयक साक्षात्कारो विषयतासम्बन्धेन परिमाणे उत्पद्येत तत्र तदाश्रयेण सहाऽऽवारकसंयोगोऽपि स्वाश्रयसमवेतत्वसम्बन्धेन वर्तत इति तादृशसंयोगस्य प्रतिबन्धकस्य समवधानदशायां तादृशसंयोगाश्रयसमवेतस्य परिमाणस्य न भवति प्रत्यक्षमित्यर्द्धनिखातवंशादिपरिमाणग्रहो नेत्यर्थः । अर्द्धनिखातवंशादेः परिमाणस्य साक्षात्कारो भवत्येवेति न तं प्रत्यावारकसंयोगस्य निरुकसम्बन्धेन प्रतिबन्धकत्वम्, किन्तु तत्परिमाणगतं यद् महत्त्वत्वावान्तरवैजात्यं तद् नानुभूयत इति तत्प्रत्यक्षं प्रत्येवाssवारकसंयोगस्य प्रतिबन्धकत्वमिति कल्पान्तरमाह - यद्वेति । तदवान्तरेति महत्त्वत्वव्याप्येत्यर्थः । 'न च' इत्यस्य वाच्यम् इत्यनेन सम्बन्धः, तस्य वैजातस्यैकस्य निखाताऽनिखातसदृशवंशद्वयपरिमाणद्वयवर्तिनः प्रतिबन्धकीभूतावारकसंयोगस्य स्वाश्रयसमवेतसमवेतत्वसम्बन्धेन सम्बन्धिनो यथा निखातवंशगतपरिमाणगततया न प्रत्यक्षं तथानिखातवंशगतपरिमाणगततयापि प्रत्यक्षं न भवेत् भवति चानिखातवंशगतपरिमाणगततया प्रत्यक्षम्, अतो न तादृशवैजात्यग्रहं प्रत्यावारकसंयोगस्य प्रतिबन्धकतेति शङ्कार्थः । तादृशवैजातस्य प्रहं प्रति प्रतिबन्धकत्वाऽसम्भवेऽपि विशेष्यतासम्बन्धेन तादृशवै जात्यप्रकारकप्रत्यक्षं प्रति स्वाश्रयसमवेतत्वसम्बन्धेनाssवारकसंयोगस्य प्रतिबन्धकत्वं सम्भवत्येव, आवारकसंयोगो हि स्वाश्रयसमवेतत्वसम्बन्धेन निखातवंशवर्तिपरिमाण एवं समस्ति तत्र विशेष्यतासम्बन्धेन तादृशवैजात्यप्रकार कप्रकारकं नोत्पद्यते, अनिखातवंशवर्तिपरिमाणे तु स्वाश्रयसमवेतत्वसम्बन्धेनावारकसंयोगो नास्ति, ततस्तत्र विशेष्यता सम्बन्धेन निरुक्तवै जात्यप्रकारकप्रत्यक्षं स्यादेवेति निषेधे हेतुमुपदर्शयति- तादृशवैलक्षण्यप्रकारकप्रत्यक्षं प्रत्येवेति । तेषाम् आवरकसंयोगानाम् । 'स्वाश्रयमेव तत्त्वं च' इति स्थाने 'स्वाश्रयसमवेतत्वं च' इति पाठो युक्तः । ननु तादृशवैलक्षण्यप्रकारकप्रत्यक्षं Page #50 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । Www च प्रतिबन्धकतावच्छेदकमित्यनतिप्रसङ्गात् । न चैवं निखातसन्निकर्षात् तादृशवैलक्षण्यनिर्विकल्पकापत्तिः, इष्टत्वाद् ” इति मथुरानाथाभिहितम् , तत् तुच्छम्- एवमपि निखातसन्निकर्षान्महत्त्वप्रकारकतादृशवैलक्षण्यविशेष्यकसाक्षात्कारापत्तेर्दुरित्वात् । किश्च, एवमावृतकपाविच्छेदेन यस्य चक्षुःसंयोगानोक्त. वैजात्यस्य प्रहस्तस्यैवान्यदा, पुरुषान्तरस्य वा तदानीं पार्थान्तरावच्छेदेन चक्षुःसंयोगेऽप्यग्रहः स्यात् , आवारकसंयोगस्य विरोधिनः सत्त्वात् । तत्तत्कालीनतत्तत्पुरुषीयमहत्त्वादिप्रत्यक्षं प्रत्येवोक्तप्रतिबन्धकत्वे त्वनावरणकालीनस्य विलक्षणमहत्त्वादिप्रत्यक्षस्यावरणदशायामुत्पत्तिप्रसङ्गः, नहि तत्रापि सन्निकर्ष विना अन्यद् विशिष्य कारणं क्लप्तं येन तद्विलम्बात् तद्विलम्बः स्यात् । अपि च, एवमावृता-ऽदृष्टनष्टस्थले प्रतिबध्याप्रसिद्धिः । प्रत्येवावारकसंयोगानां प्रतिबन्धकत्वे तादृशवलक्षण्यविषयकनिर्विकल्पकप्रत्यक्ष न निरुक्तप्रतिबध्यतावच्छेदकाक्रान्तमिति निखातवंशचक्षुस्सन्निकर्षात् तत्रावारकसंयोगे सत्यपि स्यादित्याशङ्कामिष्टापत्त्या परिहरति-न चैवमिति । उक्तमथुरानाथमतस्य तुच्छत्वे हेतुमाह -एवमपीति - उक्तदिशा प्रतिबध्य-प्रतिबन्धकभावाम्युपगमेऽपीत्यर्थः । निखातवंशवर्तिमहत्त्वविशेष्यकतादृशवैजात्यप्रकारकप्रत्यक्षमेवाऽऽत्मनि समवायेनोत्पद्यमान सद् विशेष्यतया निरुक्तमहत्त्वे उत्पत्तुमर्हतीति तस्यैव निरुतप्रतिबध्यतावच्छेदकाकान्तत्वादुत्पत्तिर्मा भवतु नाम, समवायसम्बन्धावच्छिन्नाधेयत्वसम्बन्धेन महत्वप्रकारकतादृशवैजात्यविशेष्यकप्रत्यक्षं तु प्रकारतासम्बन्धेन महत्त्वे उत्पद्यते, तथा तद् वैजात्यविशेष्यकमेव, न तु वैजात्यप्रकारकमिति प्रतिबध्यतावच्छेदकधर्माऽनाकात्वात् तदुत्पत्तिर्निखातसन्निकर्षादापद्यत इत्याहनिखातसन्निकर्षादिति । अपि च विषयनिष्ठप्रत्यासत्योक्तप्रतिबध्य-प्रतिबन्धकभावे यस्य प्रमातुरावृतकपाविच्छेदेन चक्षुस्संयोगादुक्तवैजात्यस्य प्रत्यक्षमेकदा न भवति तस्यैव कालान्तरे एकपा - वच्छेदेनावारणसंयोगे विद्यमानेऽपि पान्तिरावच्छेदेन चक्षुस्संयोगात् तादृशवैजात्यस्य प्रत्यक्षसुपजायते, एवं यदैकस्य पुंस आवृतकपाविच्छेदेन चक्षुःसंयोगात् तादृशवैजात्यस्य प्रत्यक्षं न भवति, तदानीमेवान्यस्य पुंसः पान्तिरावच्छेदेन चक्षुःसंयोगात् तादृशवजात्यस्य प्रत्यक्षं भवति, तदेतन स्यात् , तादृशप्रत्यक्षस्थाऽपि प्रतिबध्यतावच्छेदकाक्रान्तत्वादावारकसंयोगस्य च प्रतिबन्धकस्य सत्त्वादित्याह-किश्चेति । अन्यदा वैजात्याऽग्रहकालभिन्नकाले । तदानीम् एकपुरुषस्य यदा वैजात्याग्रहस्तत्काले । यत्काले यत्पुरुषस्यावारणसंयोगे सति महत्त्वप्रत्यक्षं न भवति तत्कालीनतत्पुरुषीयमहत्त्वप्रत्यक्ष प्रत्ति आवरणसंयोग: प्रतिबन्धक इति तत्कालीनान्यपुरूषीयमहत्त्वप्रत्यक्षस्याऽन्यकालीनतत्पुरुषीयमहत्त्वप्रत्यक्षस्य च प्रतिबध्यतावच्छेदकानाकान्तत्वादुत्पत्तियद्यपि सम्भवति तथापि इन्द्रिय सन्निकर्षस्य कार्यतावच्छेदकं महत्त्वप्रत्यक्षत्वं यथाऽऽवारणकालीनान्यपुरुषीयमहत्त्वप्रत्यक्षे समस्तीति तदिन्द्रियसन्निकर्षबलात् समुताद्यते तथाऽनावारणकाले यन्महत्त्वप्रत्यक्षं समुत्पद्यते तदपि निरुक्तसभिकर्षकार्यतावच्छेदकाकान्तमेव, न चोक्तसन्निकर्षातिरिक्तमपि विशिष्य तत् प्रति कारणमित्यावरणकाले तस्यापि समुत्पत्तिः स्यात्, तद्विलम्बे हेत्वभावादित्याह-तत्तत्कालीनेति । 'नहि' इत्यस्य 'क्लुप्तम्' इत्यनेनान्वयः । तत्रापि अनावरणकालीनविलक्षणमहत्त्वादिप्रत्यक्षेऽपि । विशिष्येति-यद्यपि यत्काले यदुत्पद्यते तत्कार्य प्रति तत्कालोऽपि कारणमित्यनावरणकालीन. विलक्षणमहत्त्वादिप्रत्यक्षेऽनावरणकालस्य कारणत्वात् तस्यावरणकालेऽभावान तदानीं तदुत्पत्यापत्तिः, तथापि कालस्य विशिष्य कारणत्वे तत्तत्कालरूपकारणाभावादेव तत्तत्कालजन्यतत्तत्कार्यस्य नान्यदोत्पत्तिस्तत्काल एव चोत्पत्तिरिति कालमात्रमेव कार्यमाने कारणम् , किमन्यकारणकल्पनेन? अन्य कारणाभावेऽपि तत्कालाऽभावस्यावश्यकत्वेन तद्विलम्बादेव तत्कार्यविलम्बस्य सम्भवादिति कालैककारणमात्रापंत्तिभिया सामान्यत एव कालस्य कार्यमानं प्रति कारणत्वमिति तत्तत्कार्यस्य स्वाखिलकारणसमवधानकाल एव स्वकारणकाल इति कालोऽपि न विशिष्य कारणं क्लुप्तमित्यभिसन्धिः । किञ्च, यद् विलक्षणमहत्त्वादिकं सर्वदावृतमेव जन्यप्रत्यक्षाविषय एव विनष्टं तन्महत्त्वादेः कदापि प्रत्यक्षाभावात् तत्र प्रतिबध्याप्रसिद्धिरप्युक्तप्रतिबध्य-प्रतिन्धकभावकल्पनायां दोष इत्याह-अपि चेति। आवृतेति-आवृतमदृष्टमेव सद् यद् नष्टं तत्स्थले इत्यर्थः । प्रकारान्तरेण विशिष्य प्रतिबध्य-प्रतिबन्धक Page #51 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । स्वप्राचीस्थपुरुषीयोक्तवैजात्यसाक्षात्कारत्वावच्छिन्न एव स्वप्रतीच्यवच्छिन्नावारकसंयोगत्वेन प्रतिबन्धकत्वे तु द्रव्यचाक्षुषेऽप्येवं भित्त्यादिसंयोगप्रतिबन्धकत्वेन निर्वाहे व्यवहितार्थाऽदर्शनान्यथानुपपत्त्या चक्षुःप्राप्यकारित्वसाधनप्रयासस्य वैफल्यापत्तिरिति न किञ्चिदेतत् । एतेन 'ताहशवैलक्षण्यसाक्षात्कारप्रयोजकतया चक्षुरादिसंयोगे तिष्ठति वैजात्यान्तरस्वीकारेणैव निर्वाहः' इति कल्पनाऽपि तेषामपास्ता, 'तद्धेतोः' इति न्यायेनाऽऽभिमुख्यविशेषेणावरणाभावविशेषेण वा निर्वाहे तादृशवैजात्यकल्पनायां महागौरवात्, अन्यापेक्षयेव स्वदेशापलेयाऽपि न्यूनाधिकतारूपवैजात्यानुभवस्यापेक्षां विनाऽनुपपत्तेश्चेति दिक् ॥ ३ ॥ भावकल्पनाऽपि परस्य न युक्ता, स्वाभ्युपगमहानिप्रसक्तरित्याह-स्वप्राचीस्थेति-एतच्च 'प्रतीच्या वस्तु, तदनन्तरं प्राच्यामावरणम् , ततः प्राच्या प्रमाता पुरुषः, तत्रावरणप्राचीस्थस्य प्रमातुरावरणप्रतीचीस्थितवस्तुपरिमाणगतवैजात्य साक्षात्कारो न भवति' तदुपपादकम् , तत्सङ्गमना चेत्थम्-स्वमावरणम् , तदवधिकप्राचीस्थः पुरुषः, तदीयवस्तुपरिमाणवैजात्यसाक्षात्कारत्वावच्छिन्ने, स्वमावरणम् , तदवधिकप्रतीच्यवच्छिन्नो य आवरकसयोगस्तत्त्वेन प्रतिबन्धकत्वम् , अत आवरणप्राचीस्थपुरुषस्य तद्वैजात्यप्रत्यक्षं न भवति, तदन्यदिगवस्थितस्य तु पुरुषस्य तत्प्रत्यक्षं भवत्येव, परमेवमभ्युपगमे अप्राप्यकार्यपि चक्षुः स्वसम्मुखस्थितं वस्तु गृह्णाति, यत् क्वचिद् भित्त्यादिव्यवहितस्य वस्तुनो न चक्षुषा ग्रहणम् , तत् स्वप्राचीस्थपुरुषीयचाक्षुषसाक्षात्कारं प्रति स्वप्रतीच्यवच्छिन्नावारकभित्त्यादिसंयोगस्य प्रतिबन्धकत्वमित्येवं दिशा प्रतिबध्यप्रतिबन्धकभावं प्रकल्प्य निर्वाह्यमिति व्यवहितार्थादर्शनस्य चक्षुषः प्राप्यकारित्वमन्तराऽप्युपपन्नत्वेन व्यवहितार्थादर्शनान्यथानुपपत्त्या चक्षुषः प्राप्यकारित्वसाधनप्रयासस्य वैफल्य पत्तिः स्यादिति । 'एतेन' इत्यस्य 'अपास्ता' इत्यनेनान्वयः । 'चक्षुरादिसंयोगे तिष्ठति वैजात्या०' इत्यस्य स्थाने 'चक्षुरादिसंयोगनिष्ठवैजात्या०' इति पाठो युक्तः, अर्द्धनिखातादिस्थले अर्द्धनिखातवंशादिपरिमाणगतवैलक्षण्याप्रत्यक्षत्वोपपत्तये आवारकसंयोग-तादृशवलक्षण्यप्रत्यक्षयोः प्रतिबध्य-प्रतिबन्धकभावो न कल्पनीयः, किन्तु विजातीयचक्षुस्संयोग एव तादृशवैलक्षण्यसाक्षात्कारं प्रति कारणम् , अर्द्धनिखातवंशादौ चक्षुस्संयोगस्तु न विजातीय इति विजातीयचक्षुःसंयोगाभावादेव नार्द्धनिखातवंशादिपरिमाणवैलक्षण्यसाक्षात्कार इति, तथा च तादृशवलक्षण्यसाक्षात्कारप्रयोजकतया चक्षुरादिसंयोगनिष्ठवेजात्यान्तरस्वीकारेणैव तत्र चक्षुस्संयोगगतवैजात्यान्तराभावात् , तादृशलक्षण्यप्रत्यक्षाभावस्य निर्वाहः, एवकारेण निरुक्तप्रतिबध्य-प्रतिवन्धकभावकल्पनस्य व्यवच्छेदः । इति कल्पनाऽपि एवंस्वरूपा कल्पनाऽपि । तेषां परेषाम् । अपास्ता निरस्तेत्यर्थः । एतेन' इत्यतिदिष्टं निरास हेतुमुपदर्शयति- 'तद्धेतोः' इति न्यायेनेति- 'तस्य हेतुत्वकल्पनापेक्षया तद्धेतोरेव हेतुत्वं न्याय्यम्' इति सम्पूर्ण न्यायस्वरूपम्, प्रकृते चक्षुषो विषयाभिमुख्यविशेषेणाऽऽवरणाभावविशेषेण वा तादृशविजातीयचक्षस्संयोगकारणतया भवद्भिरवश्यं कल्पनीयेन, तादृशाभिमुख्यविशेषसत्त्वे आवरणाभावविशेषसत्त्वे वा तादृशवलक्षण्यसाक्षात्कारः, तयोरन्यतरस्याभावे तादृशवैलक्षण्यसाक्षात्काराभाव इत्येवं निर्वाहे सति, ताशवेजात्यकल्पनायां तादृशवैलक्षण्यसाक्षात्कारप्रयोजकतया चक्षुस्संयोगगतवैजात्यकल्पनायाम् । महागौरवात् चक्षुःसंयोगः कल्पनीयः. तद्वतं निरुक्तवैजात्यं च कल्पनीयमित्येवं महागौरवादित्यर्थः । यथा चाऽऽम्रवृक्षो निम्बवृक्षापेक्षयाऽल्पो महान् वेत्येवमनुभूयते, तथाऽऽम्रवृक्षः स्वदेशैवशाखापेक्षयाऽन्यशाखावच्छिन्नोऽल्पो महान् वेत्येवमप्यनुभूयते, तादृशानुभवस्यापेक्षा विना नोपपत्तिरित्यपेक्षात्मकान्वयबोधरूपनयसिद्धिरित्याह-अन्यापेक्षयेवेति ॥ ३ ॥ चतुर्थपद्यमवतारयति-नन्विति । 'मतभेदोऽध्यवसायः' इति स्थाने 'मतभेदाध्यवसायः' इति पाठः समुचितः । यत्र बौद्धादिदर्शने, मतभदोऽध्यवसीयते, वस्तुस्थित्या बौद्धाद्यभ्युपगतैकान्तक्षणिकादिपदार्थानामेवाभावाद् 'अमुकापेक्षया बाह्यमाभ्यन्तरं च वस्तु क्षणिकम् , अमुकापक्षया विज्ञानमांत्रमेव क्षणिक वस्तु, तथाऽमुकापेक्षया शून्यमेव तत्वम्' इत्यस्य. Page #52 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ननु सर्वत्र वास्तव्येवाऽपेक्षा नयप्रवृत्तिहेतुः ? उत वैज्ञानिक्यपि ? उच्यते-कचिद् वैज्ञानिक्यपि, यत्र मतभेदोऽध्यवसायः, तथा चाह नानानयमयो व्यक्तो मतभेदो ह्यपेक्षया। कोव्यन्तरनिषेधस्तु प्रस्तुतोत्कटकोटिकृत् ॥ ४ ॥ नया०-नानेति । हि निश्चितम् , मतभेदः बौद्धौपनिषदादिदर्शनभेदः, नानानयमयः स्वेच्छानिवेशितत्वेनाऽनेकनयविकाररूपः, वस्तुतः प्रकृतिरूपो वा, अपेक्षया व्यक्तः, शुद्धपर्याय विशुद्धद्रव्याद्यपेक्षयैव तत्तदर्थव्यवस्थितेः। नयविशेषतात्पर्यमेतद्, न त्वपेक्षेति चेत् ? न-तात्पर्यस्यापि वस्तुसंबन्धरूपापेक्षामालम्ब्य प्रवृत्तः, असति संबन्धे तात्पर्यस्य प्रामाण्याऽप्रसरात्, सा चेयमपेक्षा वैजातिकः संबन्धः, अत एव विकल्पसिद्धस्य धर्मिणः प्रतिषेधादिसाधनमामनन्ति सांप्रदायिकाः, 'ईश्वरो नास्ति, प्रकृतिर्नास्ति' इत्यादौ विशिष्टज्ञानाकारविषयत्वेन तत्र धर्मिणो विकल्पसिद्धत्वात् । विशिष्टवस्त्वसिद्धौ तथा ब्रह्माद्वैतकान्तस्यैवाभावेन तत्र 'अमुकापेक्षया दृष्टिसृष्टिवाद एकजीववादानुगतः, व्यापकैजीववादः, परिच्छिन्नाऽनेकजीववादः' इत्यादेर्वास्तविकापेक्षाश्रितस्यासम्भवात् , किन्तु तत्र यथामतभेदः कल्पितस्तथाऽपेक्षाभेदोऽपि कल्पित एवेति वैज्ञानिक्यपेक्षा नयप्रवृत्तिहेतुरित्यभिसन्धिः।। विवृणोति-नानेतीति । एकनयसमुत्थमेव यद्येकदर्शनं भवेत् तदा नानानयमयत्वं न स्याद्, अपि न चैवम् , किन्तु यस्य यद् यत् खरुचितं तत् तत् तत्र सन्निवेशितम् , अतोऽनेकनयविषयविषयकत्वानानानयमय इत्याह-स्वच्छानिवेशितत्वेनेति । प्रकृतिरूपो नानानयप्रकृतिरूपः, तस्मादपि मतभेदादवान्तरनयविशेषलक्षणमतभेदप्रवृत्तिसम्भवेन प्रकृतिरूपत्वमपि बौद्धोपनिषदादिदर्शनभेदे सम्भवतीति । नन्वपेक्षामन्तरेणैव बौद्धादिदर्शनभेदो व्यक्त एवानुभूयत इति रिकमुच्यते 'अपेक्षया व्यक्तः' इत्यत आह-शुद्धति-मतभेदो हि तत्तदर्थविषयकतयैवावभासते, तत्तदर्थश्च यद्यव्यवस्थितरूप: स्यात् कथं व्यवस्थितरूपो नयभेदो भवेत् ? अव्यवस्थितरूपत्वे च संदिग्धस्वरूपतयाऽवभासमानो दर्शनभेदो व्यक्तः कथमिव भवेत् ? अतः शुद्धपर्यायापेक्षया क्षणिकत्वरूपार्थव्यवस्थित्या तद्विषयकं बौद्धदर्शनं निर्णानार्थकत्वान्निर्णीतखरूपं व्यक्तम् , एवं विशुद्धद्रव्यापेक्षया नित्य-शुद्ध-सन्मात्ररूपब्रह्मार्थव्यवस्थित्या तद्विषयकं वेदान्तदर्शनं निर्णातार्थकत्वान्नितम्वरूप व्यक्तमिति 'अपेक्षया व्यक्तः' इति युज्यते । शङ्कते-नयविशेषेति- 'शुद्धपर्यायापेक्षया क्षणिकं वस्तु' इत्यस्य ऋजुसूत्रनयतात्पर्येण वस्तु क्षणिकमित्यर्थ:, शुद्धद्रव्यापेक्षया 'सदद्वितीयं ब्रह्म' इत्यस्य सङ्ग्रहनयतात्पर्येण सन्मात्रस्वरूपं ब्रह्मेत्यर्थः, इत्थं नयविशेषतात्पर्योपवर्णनमेवापेक्षाशब्देन क्रियते, न तु तात्पर्यविशेषातिरिक्तं किञ्चिदपेक्षावाच्यमिति शङ्कार्थः । प्रतिक्षिपति-नेति । सम्बन्धे वस्तुसम्बन्धे । 'वैजातिकः सम्बन्धः' इति स्थाने 'वैज्ञानिकः सम्बन्धः' इति पाठो युक्तः । अत एव वैज्ञानिकसम्बन्धस्यापेक्षाशब्दवाच्यस्य बलादेव । विकल्पसिद्धस्येति-विकल्पो विज्ञानविशेष एव, तत्सिद्धस्य, नामान्तरेण वैज्ञानिकसम्बन्धलक्षणापेक्षासिद्धस्येत्यर्थः । विकल्पसिद्धस्य धर्मिणः प्रतिषेधादिसाधनमुदाहरणोपदर्शनेन स्पष्टयति- ईश्वरो नास्तीति- ईश्वरो नाम जगत्कर्तृत्वविशिष्टात्मस्वरूपः, प्रकृति म साम्यावस्थापनसत्त्व-रजस्तमोगुणत्रयस्वरूपा, तथा च 'ईश्वरो नास्ति'- इत्यादौ धर्मिण ईश्वरस्य 'जगत्कत्मिा ' इति विशिष्ट कारज्ञानविषयत्वेन विकल्पसिद्धत्वात्. 'प्रकृतिर्नास्ति' इत्यादौ च धर्मिणः प्रकृतेः 'साम्यावस्थापन्नं सत्त्व-रजस्तमोगुणत्रयम् ' इति विशिष्टाकारज्ञानविषयत्वेन विकल्पसिद्धत्वात् , ईश्वर-प्रकृत्यादौ निरुक्तविशिष्टाकारज्ञानविषयत्वमेव विकल्पसिद्धत्वम्,. तदेव चापेक्षा यतो वैज्ञानिकसम्बन्धोऽपेक्षा, विज्ञानं विशिष्टाकारज्ञानम् , तत्कृतो विषयत्वलक्षणः सम्बन्ध इति । ननु जगत्कर्तृत्वादिविशिष्टात्मस्वरूपं साम्यावस्थापन्नत्रिगुणस्वरूपं विशिष्टवस्त्वेवासिद्धमिति कुतस्तदाकार ज्ञानम् ? येन तद्विषयत्वेन विकल्पसिद्धत्वं भवेदिति पृच्छति- विशिष्टवस्त्वसिद्धाविति । उत्तरयत्ति-यथेति । तव नैयायिकस्य, यथा नैयायिकस्य मते गुण-कर्मान्यत्वविशिष्टसत्त्वस्य शुद्धसत्त्वानतिरिकत्वमिति शुद्धातिरिक्तं विशिष्टं नाम नास्त्येव किञ्चितू, तथापि 'गणे Page #53 -------------------------------------------------------------------------- ________________ २० - नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । कथं विशिष्टाकारो भवेदिति चेत् ? यथा तव विशिष्टाऽनतिरेकऽपि विशिष्टाऽभावोऽतिरिक्तः प्रतीतिबलात् सिद्धस्तथा मम विशिष्टाकारोऽपीति किं बाधकम् ?, खण्डशःप्रसिद्धधर्म-धर्मिरूपसदुपरागेणासदाकारोत्पत्ते सतः ख्यातिप्रसङ्गः। यद्वा, 'आलयविज्ञानसन्ततिरूप आत्माऽपि यदि क्षणिकः, किं पुनर्वाच्यं बाह्मवस्तुषु ?' इति वैराग्यप्रतिपन्थितृष्णोच्छेदकानित्यत्वभावनोद्देशेन बौद्धदर्शनस्य, 'मुमुक्षुणा सर्व परित्यज्य स्वात्मनिष्ठेन भवितव्यम् , स चैक एवेति शोक-द्वेषादिनिबन्धनानेकसंबन्धबुद्धिमलप्रक्षालनगङ्गाजलसमानैकत्वभावेनोद्देशेन च वेदान्तिकदर्शनस्य प्रवृत्तेः, तत्तद्दर्शनार्थज्ञानेषु तत्तद्भावनोदेशप्रयुक्तत्वमेवापेक्षात्वम् , तेनैव तस्य सुनयत्वव्यवस्थितेः, अन्यथा बौद्धसिद्धान्ते बाह्यार्थ-ज्ञानादिवादीनाम, वेदान्तिसिद्धान्ते च प्रतिविम्बाऽऽभासा-ऽवच्छेदक-दृष्टिसृष्टिवादादीनामन्योऽन्यविप्रतिषिद्धत्वेन जात्या दुर्नयत्वस्य सम्यग् सत्त्वं नास्ति' इति प्रतीतिर्न भवति, 'गुणे गुण-कर्मान्यत्वविशिष्टसत्त्वं नास्ति' इति प्रतीतिश्च भवति, यदि सत्त्वाभावाद् विशिष्ट सत्त्वाभावोऽनतिरिक्त एव स्याद् गुणे सत्त्वाभावप्रतीतिर्यथा न भवति तथा विशिष्टसत्त्वाभावप्रतीतिरपि न भवेत् , भवति च विशिष्टाभावप्रतीतिः, तद्बलाच्छुद्धाभावाद् विशिष्टाभावोऽतिरिक्तोऽभ्युपेयते तथा जैनमते विशिष्टस्य वस्तुनोsसिद्धावपि विशिष्टाकारकज्ञानप्रतीतिबलाद् विशिष्टाकार: सिद्ध इत्यर्थः । ननु विशिष्टस्य वस्तुनोऽसत्त्वे तदाकारज्ञानमसत्रूयातिः स्यात्, न चासत्ख्यातिजैनैरभ्युपेयत इति विशिष्टाकारज्ञानासम्भव इत्यत आह-खण्डशःप्रसिद्धेति-विशिष्टस्यासत्त्वेऽपि विशेषण विशेष्यं च धर्म-धर्मिस्वरूपं सदेवेति खण्डशो विशिष्टस्वरूपानापन्नं पृथक्तयैव प्रसिद्धं यद् धर्मधर्मिस्वरूपं सत् तदुपरागेणासत आकारस्योत्पत्ते सतः ख्यातिप्रसङ्ग इत्यर्थः । __ अपेक्षाया वैज्ञानिकसम्बन्धरूपतापक्षेऽपेक्षासिद्धिमुपदर्य प्रकारान्तरेण मतभेदस्यापेक्षिकत्वमुपदर्शयति- यद्वेति । आलयविज्ञानेति-बौद्धमते विज्ञानसन्ततिर्द्विविधा- आलयविज्ञानसन्ततिः प्रवृत्तिविज्ञानसन्ततिश्च, तत्र 'अहमहम् ' इति निर्विकल्पकविज्ञानसन्ततिरालयविज्ञानसन्ततिः, सा च सुषुप्तावप्यनुवर्तते, पूर्वपूर्वविज्ञानस्योत्तरोत्तरविज्ञानं प्रति कारणत्वात् तत्सन्तानाविच्छेदः, तत्सन्ततिरूप आत्मा, 'अयं घटोऽयं पटः' इति सविकल्पकज्ञानसन्ततिः प्रवृतिविज्ञानसन्ततिः, तस्याः सुषुप्तौ विलयः, सुषुप्त्यन्तिमक्षणसमुत्थं चालयविज्ञानं प्रवृत्तिविज्ञानमालयविज्ञानं च जनयतीति जाग्रहशायां स्वप्नदशायां च प्रवृतिविज्ञानसन्ततिसम्भव इति । 'आलयविज्ञानसन्ततिरूप आत्माऽपि' इत्यारभ्यं 'बाह्यवस्तुषु' इत्यन्तमनित्यत्वभावनाया आकारोपवर्णनम् , उक्ताकारा चानित्यत्वभावना, वैराग्यस्य प्रतिपन्थिनी-विरोधिनी या तृष्णा'सर्वदा सुखी भवेयम्, सुखकारणं धन-कलत्र-पुत्रादिकं मे भवतु, दुःखी च मा भूवम् , मम शत्रवो नश्यन्तु' इत्यादिरूपा, तस्या उच्छेदिका, एतादृशानित्यत्वभावनोद्देशेन, बौद्धदर्शनस्य 'सर्व क्षणिकम्' इत्यभ्युपगन्तृबौद्धदर्शनस्य, 'प्रवृत्तेः' इत्यन्वयः । 'मुमुक्षुणा' इत्यारभ्य ‘स चैक एवेति' इत्यन्तमेकत्वभावनाया आकारोपवर्णनम् । स च आत्मा पुनः शोकेति-पुत्र-कलत्रादिकं किञ्चिद् वस्तु यदि स्वस्माद् भिन्नं स्यात् तदा तन्मरणादिप्रभवः शोकः स्यात्, एवं स्वभिन्ने शत्रावपकारिणि द्वेषः, अन्यपरिगृहीतायामपरिगृहीतायां रूप-यौवन-लावण्यादिसम्पन्नायामबलायां मोहः स्यादित्येवं शोक द्वेष-मोहादिनिबन्धनं याऽनेकसम्बन्धबुद्धिस्तद्रूपं यन्मलं तस्य प्रक्षालने गङ्गाजलसमाना "यदा सर्वमात्मैवाभूत् तत् केन कं पश्येत् ?, तत्र को मोहः ? कः शोकः ? एकत्वमनुपश्यतः, आत्मानं चेद् विजानीयादयमस्तीति पुरुषः । किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत्" [ ] इत्यादिश्रुतिवचनाभ्यसनप्रभवैकत्वभावनाया उक्तमलप्रक्षालकत्वं युज्यत एव, एतादृशैकत्वभावनोद्देशेन च, वेदान्तिकदर्शनस्य ब्रह्माद्वैतवादस्य प्रवृत्तेरित्यर्थः । एवं च तत्तद्दर्शनार्थज्ञानेबिति-वौद्धदर्शनविषयज्ञाने निरुक्तानित्यत्वभावनोद्देशप्रयुक्तत्वमपेक्षात्वम् , वेदान्तदर्शनविषयज्ञाने निरुक्तैकत्वभावनोद्देशप्रयुक्तत्वमपेक्षात्वमित्यर्थः । तेनैव निरुक्तापेक्षात्वेनैव । तस्य ततदर्शनविषयज्ञानस्य । अन्यथा तत्तदर्शनार्थज्ञानेषु तत्तद्भावनोद्देशप्रयुक्तत्वलक्षणापक्षात्वस्यानाश्रयणे 'बाह्यार्थ-ज्ञानादि' इत्यादिपदात् साकारज्ञानमात्रवाद-शून्यवादयोरुपग्रहः 'वादीनाम्' इति स्थाने 'वादादीनाम्' इति पाठो युक्तः, बाह्यार्थ-ज्ञानवादः Page #54 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । दृष्टि परिणापि निराकर्तुमशक्यत्वात्, नहि जात्या हलाहलं सद्वैद्यहस्तोपादानमात्रेणामृतायते, रसायनीकरणं तु तस्योक्तापेक्षयैवेति दृढतरमवधेयम् । २१ ननूक्तापेक्षयापि शुद्धर्जुसूत्रादीनामितर नयार्थप्रतिषेधप्रवृत्तौ कथं न दुर्नयत्वम् ? इतरांशौदासीन्यस्यैव सुनयलक्षणत्वात्, दृश्यन्ते च ते नयाः स्वसमये परसमये च स्वेतरनयार्थबाधेनैव प्रगल्भमाना इत्याशङ्कयाऽऽह - कोट्यन्तरस्य - इतरनयार्थस्य, निषेधः - निराकरणम्, प्रस्तुता या उत्कटकोटिस्तत्कारी, विशिष्टविधेर्विशेषणविश्रामेण प्रस्तुतकोटेरुत्कटत्वकृदित्यर्थः । अयं भावः - यदीतरनयार्थप्रतिषेधो द्वेषबुद्ध्या तदा दुर्नयत्वमेव, यदि चोकभावनादानुकूलस्वविषयोत्कर्षाधानाय तदा सुनयत्यमेव, जात्या दुर्नयस्यापि चिन्ताज्ञानेन फलतः सुनयीकरणात् भावनाज्ञानेनै दम्पर्यार्थप्रधानकप्रमाणवाक्यैकदेशत्वापादनाच, तदाहुः श्रीहरिभद्रसूरयः षोडशप्रकरणे " wwwwwww सौत्रान्तिक- वैभाषिकयोः तत्रापि साकार विज्ञानवादः सौत्रान्तिकस्य, साकारं च विज्ञानमर्थं न गृह्णाति, किन्तु ज्ञानगतप्रतिनियताकाराऽन्यथाऽनुपपत्त्या बाह्यार्थकल्पनम् निराकारविज्ञानवादो वैभाषिकस्य, तन्मते निराकारं ज्ञानं विषयश्च समकालमेवैकसामग्र्योपजायते समानसामग्रीप्रभवयोर्ज्ञान- बाह्यार्थयोः समकालीनयोर्विषय-विषयिभावश्च सम्बन्ध इति साकारविज्ञानमात्रवादो योगाचारस्य, शून्यमेव तत्त्वमिति वादो माध्यमिकस्येति । प्रतिबिम्बेति-अनेक व्यापकजीववादे बुद्धिरन्तःकरणम्, तत्प्रतिबिम्बितं चैतन्यं जीवः, अविद्याप्रतिबिम्बितं चैतन्यमीश्वर इति व्यापकजीववादे मायाऽविद्ययोर्भेदपक्षे मायाप्रतिबिम्बितं चैतन्यमीश्वरः, अविद्याप्रतिबिम्बितं चैतन्यं जीव इति, तयोरभेदपक्षेऽविद्याबिम्बत्वाकान्तं चैतन्यमीश्वरः अविद्याप्रतिबिम्बत्वाक्रान्तं चैतन्यमीश्वर इति एवमन्तःकरणे यश्चैतन्यस्याऽऽभासः स जीवः, मायायां चैतन्यस्याssभास ईश्वर इत्याभासवादः, अन्तःकरणावच्छिन्नं चैतन्यं जीवः, मायावच्छिन्नं चैतन्यमीश्वर इत्यवच्छेदकवादः, दृष्टिसृष्टिवादस्तु दृष्टिरेव सृष्टिरिति एक एव जीवो यद् यद् वस्तु यदा पश्यति तदैव तदस्ति, अदर्शनकाले च नास्त्येव तद् बस्तु, इत्येवं बौद्धसिद्धान्ते बाह्यार्थ - ज्ञानादिवादादीनां वेदान्तिसिद्धान्ते च प्रतिबिम्बवादादीनाम् । अन्योऽन्यविप्रतिषिद्धत्वेन परस्पर विरुद्धार्थकत्वेन, जात्था स्वभावतः, दुर्नयत्वस्य, सम्यग्दृष्टिपरिग्रहेणापि सम्यग्दृष्टिर्यदि निरुक्तवादानां परिग्रहं कुर्यात् तदापि निराकर्तुमशक्यत्वात् तत्तद्भावनोद्देश प्रयुक्तस्वलक्षणमपेक्षात्वमाश्रित्य सम्यग्दृष्टिरुक्तवादानां सुनयत्वोपपादनतो दुर्नयत्वं निराकुर्यात्, निरुक्तापेक्षात्वाश्रयणमन्तरेण च तेषां दुर्नयत्वं निराकर्तुमशक्यं सम्यग्दृष्टिपरिग्रहेणापं ति । उक्तमर्थं दृष्टान्तावष्टम्भेन द्रढयति-नहीति - अस्य 'अमृतायते' इत्यनेन सम्बन्धः । तस्य हलाहलस्य । उत्तरार्द्धमवतारयति - नन्विति । ते नयाः शुद्धर्जुसूत्रादयो नयाः । ननु स्थैर्यस्य निषेधेऽनिषेधे वा बौद्धस्य स्वाभ्युपगतः क्षणिकत्वपक्षः समस्त्येव, यो हि परमतं न प्रतिक्षिपति तस्यापि तद्विपरीतं स्वमतं समस्त्येवेति 'उत्कटकोटि ' इत्यत्र विशेष्यीभूता या स्वाभिमतवस्तुस्वरूपा कोटिस्तत्कारित्वमितरनयार्थनिषेधस्य न सम्भवतीत्यत आह-विशिष्टविधेरितियद्यप्यनन्तधर्मात्मके वस्तुनि परस्पर विरुद्धमतद्वयार्थो कौटिद्वयौ सम्भवतस्तथाऽपि ऋजुसूत्रनयः स्थैर्यखण्डनेन क्षणिकत्वं व्यवस्थापयन् स्वाभिमतस्य क्षणिकत्वस्योत्कटत्वं विदधातीत्येवं परनयार्थखण्डनं प्रस्तुतकोटेरुत्कटत्वकृदित्यर्थ इति । अस्यैव भावार्थमाविष्करोति-अयं भाव इति । उक्तभावनेति - बौद्धस्यानित्यत्वभावनेति वेदान्तिन एकत्वभावनेत्यर्थः, अनित्यत्वभावनादार्थ्यानुकूलो यो बौद्धसिद्धान्तविषयस्य क्षणिकत्वस्योत्कर्ष:, तदाधानाय - तद्व्यवस्थापानाय सङ्ग्रह | दिनयविषयस्य स्थैर्यस्य निराकरणम्, एवमेकत्वभावनादार्थ्यानुकूलो यो वेदान्तसिद्धान्तविषयस्य ब्रह्माद्वैतस्योत्कर्षस्तद्व्यवस्थापनाय नैगमादिनयविषयस्य द्वैतवादस्य निराकरणं यद्यभिमतं तदा बौद्धादिदर्शनानामपि सुनयत्वमेवेत्यर्थः । जात्या स्वभावेन । दुर्नयरूपस्यापि बौद्धादिदर्शनस्य चिन्ताज्ञानेन 'अस्येदं तात्पर्यम्' इत्यादिविचारात्मकमतिज्ञानेन । फलत इति - यथा सुनयस्य फलं सम्यग्ज्ञानादिकं भवति तथा दुर्नयस्यापि चिन्ताज्ञानसहकारेण तत्फलं समुपजायत इति कृत्वा फलतः सुनयीकरणं बोध्यम् । भावनाज्ञानेनेति-उपदर्शितभावनाज्ञानेन, ऐदम्पर्यार्थ प्रधानकम् - तात्पर्यार्थ प्रधानकम्, यत् प्रमाणवाक्यं सप्तमभङ्गयात्मकम्, तदेकदेशत्वस्य - तद्घटकावान्तरवाक्यत्वस्य, आपादनात् - प्रापणाच्चेत्यर्थः । Page #55 -------------------------------------------------------------------------- ________________ २२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । “ऐदम्पय्य शुद्ध्यति यत्रासावागमः सुपरिशुद्धः । तदभावे तद्देशः कश्चित् स्यादन्यथाग्रहणात् ॥ १॥ तत्रापि च न द्वेषः कार्यों विषयस्तु यत्नतो मृग्यः। तस्यापि न सद्वचनं सर्वं यत् प्रवचनादन्यत्" ॥२॥ इति। ___ नन्वेवं स्वसमयवाक्येभ्यः परसमयवाक्यानां को विशेषः ? फलतो जातितश्च शुद्ध्यशुद्ध्योरविशेषात्, नहि ज्ञान दर्शन-लिङ्ग-चारित्रादिवादेषु स्वसमये स्थितपक्षोऽपि स्वविषये प्राधान्यं विदधानः, ज्ञानादिनयविषये च तन्निराकुर्वाणो जात्या शुद्धत्वमङ्गीकुरुते, तथा च स्थितपक्षवचनम् " जम्हा दंसण-नाणा संपुण्णफलं न दिति पत्तेयं । . -- चारित्तजुआ दिति उ विसिस्सए तेण चारित्तं" ॥ १ ॥ति [ अत्र हि ज्ञानादिनयेनैतद् वक्तुं शक्यम्-' यथा त्वया संपूर्णफलप्रापकत्वेन चारित्रमुत्कृष्यते तथा मया तदुपनायकत्वेन " दासेन मे० " [नयोपदेश-५५ ] इत्यादिन्यायात व्यापारतया चारित्रान्यथासिद्ध्यापादानाच्च ज्ञानादिकमेवोत्कर्षमारोपणीयम्' इति, विजृम्भितं चेदमध्यात्ममतपरीक्षायां बहुधाऽस्माभिः, तथा च प्राधान्यस्याप्यव्यवस्थितत्वात् कुत्र केन नयेन जात्या व्यवस्थेयम् ?, फलतः शुद्धिस्तु स्व-परसमयोरविशिष्टेति चेद् ? अत्रास्माकमाभाति-यथा देश-प्रदेश-खण्ड-परमाण्वादेः स्कन्धसंबन्धा. ___ उक्तार्थे श्रीहरिभद्रसूरिवचनं प्रमाणयति-तदाहुरिति । यत्र यस्मिन्नागमे स्वसमये परसमये वा, ऐदम्पर्य तात्पर्यम् , शुद्धयति सम्यक्तयोपपद्यते, असावागमः स्वीयः परकीयो वा, सुपरिशुद्धः प्रमाणवाक्यमित्यर्थः, तदभावे शुद्धैदम्पर्याभावे, ऐदम्पर्य तु विद्यत एव परं तच्छोधनं न जातमिति यावत् , अन्यथाग्रहणात् अन्यप्रकारेण स्थितस्यार्थस्यान्यप्रकारेण प्रहणात्, कश्चिद् आगमैकदेशः स्यात् । तत्रापि तस्मिन्नप्यागमैकदेशे क्षणिकत्वाद्येककधर्ममात्र: प्रतिपादके, द्वेषो न कार्यः 'एकान्तप्रतिपादकत्वान्नायमुपादयः' इत्येवं न विधेयः, तु पुन: किन्तु, यत्नतः तात्पर्यान्वेषणतो विषयो मृग्यः सम्यक्तात्पर्यमाकलय्यास्याऽऽगमस्यायमों युक्त्युपपन्नत्वाद् ग्राह्योऽयं तु युक्त्या न घटतेऽतो न ग्राह्य इत्येवं परिभावनीयः, यत् प्रवचनाद जैनागमात्, अन्यत् तीर्थान्तरीयम् , तस्यापि सर्व वचनं न सत् , किन्तु यत्र तात्पर्यार्थी घटते तत् सद् वचनम् , यत्र तात्पर्यो न घटते न तत् सद्वच मित्येवं विवेक इत्यर्थः ॥ शङ्कते-नन्वेवमिति । 'नहि' इत्यस्य 'शुद्धत्वमङ्गीकुरुते' इत्यनेनान्वयः । तन्निराकुर्वाणः प्राधान्यं निराकुवणिः। 'स्थितपक्षोऽपि जात्या शुद्धत्वं नाङ्गीकुरुते' इत्येव स्थितपक्षवचनमुद्भाव्य समर्थयति-तथा चेति । 'जम्हा०' इति"यस्माद् दर्शन-ज्ञाने सम्पूर्णफलं न दत्तः प्रत्येकम् । चारित्रयुक्त दत्तस्तु विशिष्यते तेन चारित्रम्" इति संस्कृतम् । 'चारित्रयुक्त ज्ञान-दर्शने सम्पूर्ण फलं दत्तः' इत्येतावता चारित्रस्य ज्ञान-दर्शनाभ्यामुत्कृष्टत्वमनेन वचनेन प्रतिपादितम् , तत्रोक्तदिशा प्राधान्यस्योररीकारे तस्याव्यवस्थितत्वमेव स्यादित्येतत् प्रकटयति-अत्रेति-उक्तरीत्या चारित्रस्योत्कृष्टत्वे इत्यर्थः । त्वया चारित्रप्राधान्यवादिना । मया ज्ञानादिप्राधान्यवादिना । तदुपनायकत्वेन ज्ञानाद्युपनायकत्वेन, सम्यग्ज्ञान-दर्शनयोर्भाव एव चारित्रं समीचीनं सत् फलमुपजनयतीति चारित्रं व्यापारभूतमेव व्यापारिणी ज्ञान-दर्शने उपनाययतीत्यतो ज्ञान-दर्शने एव फलं प्रति प्रधानकारणम् , चारित्रं तु तस्यापारतयाऽन्यथासिद्ध मेवेत्येवं ज्ञानादिकमेवोत्कर्षपदमारोपणीयं मया. यथा-दासद्वारा कीते खरे स्वामिन एव प्राधान्यमित्यर्थः । दासेन मे० इति-"दासेन मे खर: क्रीतो दासो मम खरोऽपि मे” इति सम्पूर्णन्यायस्वरूपम् । श्रीमद्भियशोविजयोपाध्यायरेतद्विषये विशेषजिज्ञासून स्वकृताध्यात्ममतपरीक्षावलोकनमावश्यकपद्धतावानेतुमुपदिश्यते-विजम्मितमिति । एवं च प्राधान्यस्याव्यवस्थितत्वाज्जात्या परिशुद्धत्वं न कुत्रापि, फलतस्तु परिशुद्धिः स्वसमय-परसमययोरविशिष्टेति स्वसमयवाक्येभ्यः परसमयवाक्यानां न कश्चिद् विशेष इति शङ्कार्थमुपसंहरतितथा चेति । उक्ताशङ्कायां ग्रन्थकारः स्वसूक्ष्मेक्षिकारूढं समाधानमुपदर्शयति-अत्रेति - उक्तशङ्कायामित्यर्थः । अस्माकं यशोविजयोपाध्यायानाम् । आमाति समाधानं प्रतिभासते। देव समाधानमुपदर्यते-यथेति- स्कन्धसम्बद्धो द्विप्रदेशादिको देशः, स्कन्धसम्बद्धः परमाणु: प्रदेशः, स्कन्धाद् विच्छिन्नश्च द्विप्रदेश दिकः स्कन्धासम्बद्धः खण्डः, स्कन्धात् पृथग्भूतश्चाऽणुः स्वतकन्धासम्बद्धः परमाणुरित्येवं स्कन्धसम्बन्धाभ्यां यथा देशादे दः, तथा खसमयस्थ विचित्रनयानां प्रमाण Page #56 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ऽसंबन्धाभ्यां भेदः, तथा स्वसमय-परसमयस्थविचित्रनयानां प्रमाणवाक्यान्तर्भाव बहिर्भावाभ्याम् , तौ च पदार्थवाक्यार्थादिभावेन साकाङ्कतया स्वातन्त्र्येण निराकासतया चेति न जातिभेदानुपपत्तिः, स्वसमयनयेषु निराकासप्रमाणबोधपर्यवसानेन तदत्यन्तोत्कर्षरूपकेवलज्ञानफलोद्देशः, परसमयनयेषु च उक्तभावनामात्रफलोद्देश इति फलतोऽपि भेदो व्यक्त एवेति सर्वमवदातम् । ननु यद्येवं नयार्था आपेक्षिकास्तदा अवयव्येकत्वमपि द्वित्वादिवद् बुद्धिजन्यमेव स्यात् , उभयमपि वा ज्ञानाकारमात्रमिति चेत्, न- एकत्व द्वित्वादीनामनन्तानां संख्यापर्यायाणामेकद्रव्यवृत्तीनामेव सतां यथाक्षयोपशमं बुद्धिविशेषेण प्रतिनियतानामेव ग्रहणमित्यभ्युपगमात् , युक्तं चैतत् , अन्यथा एकत्रैव घटे 'तद्रूप-तद्रसवतोरैक्यम्' इत्यादिना द्विवचनप्रयोगस्य, बहुषु च करि-तुरग रथ-पदातिषु 'सेना' इत्येकवचनप्रयोगस्यानुपपत्तः । अथैकत्वद्वित्वादि तत्तद्धर्मप्रकारकवुद्धिविषयत्वादिकं गौणमेव द्वित्वादिव्यवहारनिमित्तम् , तच्च तत्तद्धर्मावच्छेदेन पर्याप्तमिति न ‘एको द्वौ' इत्यादेः प्रसङ्गः, मुख्यं तु द्वित्ववाक्यान्तर्भूतत्वम् , परसमयस्थविचित्रनयानां प्रमाणवाक्यबहिर्भूतत्वमित्येवं स्वसमय-परसमयस्थनयानां विशेष इत्यर्थः । यदा च प्रमाणवाक्यान्तर्भाव-बहिर्भावाभ्यां स्वसमय-परसमयस्थविचित्रनयानां भेदो व्यवस्थितो भवति तदा जातिभेदोऽपि तेषां सूपपादः, यतः सप्तमभङ्गयात्मकप्रमाणवाक्यान्तर्भूतं च नयवाक्यं प्रमाणवाक्यार्थांशप्रतिपादकत्वात् पदस्थानीयं तदर्थस्य पदार्थान्तरसाकाङ्क्षत्वम् , प्रमाणवाक्यबहिर्भूतं च नयवाक्यं स्वतन्त्रत्वाद् वाक्यमेव तदर्थस्य निराकासत्वमित्येवं प्रमाणवाक्यान्तर्भूत-प्रमाणबहिभूतौ पदार्थ-वाक्यार्थभावेन साकाङ्क्षतया स्वातन्त्र्येण निराकासतया च विभिन्नजातीयाविति न जातिभेदानुपपत्तिरित्याह-तौ चेति- प्रमाणवाक्यान्तर्भावबहिर्भावौ चेत्यर्थः । एतावता जातितो भेदास्योपपादनेन स्वसमयस्थनयवाक्यानां जातितः शुद्धिः, परसमयस्थनयवाक्यानां जातितोऽशुद्धिः समर्पिता । इदानी फलभेदोपप,दनद्वारा फलतः शुद्ध्यशुद्धी उपदइते- स्वसमयनयेष्विति । तदत्यन्तोत्कर्षरूपेति- निराकाङ्क्षप्रमाणबोधात्यन्तोत्कर्षरूपेत्यर्थः । उक्तभावनेति- उक्तानित्यत्वभावना-निरुक्तकत्वभावनेत्यर्थः । नयार्थानामापेक्षिकत्वमसहमानः परः शङ्कते- नन्विति । एवम् उक्तप्रकारेण । द्वित्वादिवदिति- आदिपदात् त्रित्वादि. परार्धपर्यन्तसङ्ख्यानां परिग्रहः, “द्वित्वादयः परान्तिा अपेक्षाबुद्धिजा मताः" । [कारिकावलिश्लो० १०७] इति नैयायिकसिद्धान्ताद् यथा द्वित्वादिकमपेक्षाबुद्धिजन्यं तथाऽवयव्येकत्वमप्यपेक्षाबुद्धिजन्यं स्याद् आपेक्षिकत्वस्येत्थमेवोपपत्तेरित्यर्थः । अपक्षा वैज्ञानिकसम्बन्धरूपतयेष्टा, वैज्ञानिकसम्बन्धश्च विज्ञानजन्यत्वाद् विज्ञानाकाररूपत्वाद् वा सम्भवतीति तत्र विज्ञानजन्यत्वेनापेक्षिकत्वमापाद्य विज्ञानाकाररूपत्वेन तदापादयति-उभयमपि वेति-अवयव्येकत्व-द्वित्वाद्युभयमपि वेत्यर्थः, एकत्वद्वित्वादयः सर्वेऽपि सङ्खयापर्याया अनन्ता अप्येकत्र द्रव्ये सम्भवन्ति, परं तेषां मध्यात् प्रतिनियतानामेव तत्र सताम् , यथाक्षयोपशमं बुद्धिविशेषणम्, क्षयोपशमापेक्षबुद्धि विशेषग्राह्यत्वमपि वैज्ञानिकसम्बन्ध एवेत्येतावताऽऽपेक्षिकत्वमुपपद्यत इति समाधत्ते-नेति । एकत्रैव द्रव्ये एकत्व-द्वित्वादिकं समस्त्येव, अपेक्षया तु प्रतिनियतानां प्रहणमित्यस्य युक्तत्वं व्यवस्थापयति- युक्तं चैतदिति । अन्यथा अनन्तानां सङ्ख्यापर्यायाणामेकद्रव्यवृत्तित्वाभावे। द्विवचनप्रयोगस्य तद्रूप-तद्रसवतोः' इति षष्ठीद्विवचनप्रयोगस्य 'अनुपपत्तेः' इत्यनेनान्वयः, यद्यकस्मिन् घटे एकत्वमेव न द्वित्वं तदा तद्रूपवान् य एव घट स एव तद्रसवानपीति तस्यैकत्वेन द्वित्वार्थस्य तत्राघटमानत्वेन तदर्थकस्य द्विवचनप्रयोगस्यानुपपत्तरित्यर्थः । 'इत्यादिना' इत्यादिपदात् तद्रूप-तस-तत्स्पर्शवतामैक्यम्' इत्यादिप्रयोगस्यापि ग्रहणेन तत्रत्यबहुवचनप्रयोगस्याप्येकस्मिन् बहुत्वस्याभावेऽनुपपत्तरित्यपि बोध्यम् । बहुषु चेति- सेनापदेन बहूनां करि-तुरग-पदातीनामेवावबोधनम् , नोकः कर्येव तुरगादिरेव वा प्रत्येकं सेनेत्युच्यते, तथा च सेनापदप्रतिपाद्यानां बहूनां करि-तुरग-पदातिप्रभृतीनामेकत्वस्याभावे तदर्थकस्य सेनापदोत्तरैकवचनस्यानु-पत्तेरिति यत्रैकत्वं तत्र द्वित्वादिकमपि, यत्र द्वित्वादिकं तत्रैकत्वमपि, यथाक्षयोपशमं च बुद्धि विशेषेण प्रतिनियतस्य ग्रहणमेष्टव्यम् , तदेवाऽऽपेक्षिकत्वमित्यर्थः । एकस्मिन् द्रव्ये मुख्यं द्वित्वादिकमसहमानो नैयायिकः शङ्कते- अथेति- 'एकत्व-द्वित्वादि' इति स्थाने 'एकत्र द्वित्वादि' इति पाठो युक्तः, एकत्र द्वित्वादिव्यवहारनिमित्तं तत्तद्धर्मप्रकारकबुद्धिविषयकत्वादिकं गौणमेव द्वित्वादीत्यन्वयः । तच्च तत्तद्धर्मप्रकारकबुद्धिविषयत्वादिरूपं द्वित्वादि च। Page #57 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । मपेक्षाबुद्धिजन्यं द्विष्ठमन्यदेवेति न दोष इति चेत् ? न- उक्तविषयतारूपद्वित्वादेरप्येकत्वपर्याप्तत्वात् , तत्तद्धर्मप्रकारतानिरूपितत्वविशिष्टविषयताया अपि क्वचित् संबन्धादिभेदेन प्रकारताभेदादेकस्या अभावात् , भावेऽपि च द्वयस्य प्रत्येकानतिरिक्तत्वेन एकधविच्छेदेन द्वित्वादिपर्याप्तिप्रसङ्गात् , धर्मगतद्वित्वस्यैव तत्पर्याप्त्यवच्छेदकतावच्छेदकत्वस्वीकारे च तत्रापि द्वित्वस्य वास्तवस्याभावाद् रूपत्व-रसत्वादिप्रकारकबुद्धिविषयत्वरूपस्यैव गौणस्य स्वीकारे च तत्पर्याप्त्यवच्छेदकादिगवेषणेऽनवस्थितेः, वास्तवद्वित्वाद्यभावे ज्ञानाकारतापर्यवसानेन साकारवादप्रसङ्गाच्च । तस्माद् द्रव्यत्वावच्छिन्नैकत्वादेः पर्याप्तिस्वीकारेऽनेकान्त. वाद एवानाविला व्यवस्थेति ध्येयम् । अत एव " दवट्ठयाए एगे अहं नाण-दसणट्ठयाए दुवे अहं " इत्यादि पारमर्षम् । तत्तद्धविच्छेदेन पर्याप्तमिति-यद्यद्धर्मप्रकारकबुद्धिविषयत्वादिरूपं द्वित्वादि तत् तत्तद्धर्मावच्छेदेन पर्याप्तम् । इति एतस्मात् कारणात् । न ‘एको द्वौ' इति प्रसङ्ग इति- उक्तद्वित्वस्यैकत्वाद्यवच्छेदनापर्याप्तत्वाद् ‘एको द्वौ, घटोऽयं द्वौ' इत्यादेर्न प्रसङ्गः, तद्रूपवत्त्व-तद्रसवत्त्वप्रकारकबुद्धिविषयत्वरूपस्य द्वित्वस्य तद्रूपवत्त्व-तद्रसवत्वावच्छेदेन पर्याप्तत्वात् 'तद्रूपतद्रसवतोः' इति द्विवचनप्रयोग उपपद्यत इत्यर्थः । 'मुख्यं तु द्वित्वम्' इत्यत्र द्वित्वं त्रित्वादेरुपलक्षणम् , 'द्विष्ठम्' इति च त्रिष्ठमित्यादेरुपलक्षणम् । अन्यदेव तत्तद्धर्मप्रकारकबुद्धिविषयत्वादितो भिन्नमेव । समाधत्ते- नेति । उक्तविषयतारूपेति- तत्तद्धर्मप्रकारकबुद्धिविषयतारूपेत्यर्थः । 'अप्येकत्वपर्याप्तत्वाद' इति स्थाने 'अप्येकत्र पर्याप्ततवाद्' इति पाठो युक्तः, 'एकत्र पर्याप्तत्वाद' इत्यस्यैकत्वावच्छेदेनकधर्मावच्छेदेन वा पर्याप्तत्वादित्यर्थः, तथा च ‘एको द्वौ, घटो द्वौ' इत्यादिप्रसङ्गः स्यादिति भावः । ननु तद्रूपवत्त्वप्रकारतानिरूपितत्वे सति तद्रसवत्त्वप्रकारतानिरूपिता या विशेष्यता तदात्मकविषयतारूपद्वित्वमेकं तद्रूपवत्त्व-तद्रसवत्त्वरूपधर्मद्वयावच्छेदेनैव पर्याप्तम्, न त्वेकत्वावच्छेदेनैकधर्मावच्छेदेन वेति न ‘एको द्वौ' इत्यादेः प्रसङ्ग इत्यत आह-तत्तद्धति-धर्मद्वयादौ प्रकारता यद्येका स्यात् तदा तन्निरूपितविशेष्यताविशेषरूपाया विषयताया ऐक्यं स्याद्, यदा त्ववच्छेदकधर्मभेदादवच्छेदकसम्बन्धभेदाच्च प्रकारताया भेदस्तदा तद्रूपनिरूपकभेदाद् विशेष्यताभेदस्यावश्यम्भावे तदात्मकविषयताया अपि भेद इति तद्रूपद्वित्वस्यैकधर्मावच्छेदेनैकत्वावच्छेदेन च पर्याप्तत्वाद् ‘एको द्वौ' इत्यादेः प्रसङ्गः स्यादेव, एवं निरूपकभेदेऽपि विषयताभेदो यदि नाभ्युपेयते तदाऽपि समुदायस्य समुदाय्य. नतिरिक्तत्वमिति धर्मद्वयस्य प्रत्येकधर्मानतिरिक्तत्वेन धर्मद्वयस्यावच्छेदकत्वे प्रत्येकधर्मस्याप्यवच्छेकत्वमिति प्रत्येकधर्मावच्छे. देनापि द्वित्वपर्याप्तेः सम्भवेनोक्तप्रसङ्गः स्यादेवेत्यत उक्तदोषभयाद् गौण-मुख्यद्वित्वव्यवस्थाऽपि परस्य न युक्तेति मुकुलितोऽर्थः । तत्तद्धमेति-तत्तद्धर्मप्रकारतानिरूपितत्वविशिष्टविषयताया अप्येकस्या अभावादित्यन्वयः, 'तद्दण्ड-तद्रूपवतोरैक्यम्' इत्यादाववच्छेदकसम्बन्धभेदो ज्ञेयः। 'भावेऽपि च' इत्यस्य तत्तद्धर्मप्रकारतानिरूपितत्वविशिष्टविषयताया एकस्या भावेऽपि चेत्यर्थः । ननु धर्मद्वयस्य न स्वस्वासाधारणरूपेण निरुक्तद्वित्वपर्याप्त्यवच्छेदकत्वं किन्तु द्वित्वेनैवेति पर्याप्त्यच्छेदकतावच्छेदकस्य द्वित्वस्य प्रत्येकधर्मेऽभावान्न प्रत्येकधर्मावच्छेदेन द्वित्वस्य पर्याप्तत्वमिति नोक्तप्रसङ्ग इत्यत आह- धर्मगतद्वित्वस्यैवेति । तत्पर्याप्त्यवच्छेदकतेति- निरुक्तद्वित्वपर्यायवच्छेदकतेत्यर्थः । तत्रापि रूपरसादिलक्षणधर्मद्वयेऽपि । रूप-रसादीनां गुणत्वेन गुणे गुणानङ्गीकारेण गुण विशेषसङ्ख्यारूपद्वित्वस्य वास्तवस्य तत्राभावादित्याह-द्वित्वस्य वास्तवस्या. भावादिति । तत्पर्याप्तावच्छेदकेति-रूपत्व-रसत्वादिप्रकारकबुद्धिविषयत्वरूपरूप-रसादिगतगौणद्वित्वपर्यायवच्छेकेत्यर्थः, तादृशद्वित्वस्य रूपत्व रसत्वादिधर्मद्वयावच्छेदेन पर्याप्तत्वे उक्त दिशा प्रत्येकधर्मावच्छेदेन पि पर्याप्तत्वतो निरुक्तदोषप्रसङ्गस्तदवस्थ इति तत्परिहाराय रूपत्व-रसत्वगतद्वित्वमभ्युपेत्य तस्य तत्पर्यायवच्छेदकतावच्छेदकत्वमुररीकरणीयमित्येवं दिशाऽनव. स्थाप्रसङ्गादित्यर्थः । यदि च तद्रूप-तद्रसवतोरैक्यम्' इत्यादौ द्विवचनाद्यर्थतया वास्तवद्वित्वादिकं न स्वीक्रियते तर्हि तत्रत्यद्विवचनाद्यर्थस्य द्वित्वादेर्शानाकाररूपत्वमेव स्यादिति साकारविज्ञानवादः प्रसज्येतेत्याह-वास्तवद्वित्वाद्यभाव इति । उपसंहरति-तस्मादिति । 'द्रव्यत्वावच्छिन्नैकत्वादेः पर्याप्तिस्वीकारे' इति स्थाने 'द्रव्यत्वाद्यवच्छिन्नैकत्वादिपर्याप्तिस्वीकारे' इति पाठः सम्यक्, एकस्मिन् घटे तद्व्यत्वावच्छेदेनैकत्वस्य पर्याप्तिः, तद्रूप-तद्रसवत्त्वावच्छेदेन द्वित्वस्य पर्याप्तिरित्येवं स्वीकार इत्यर्थः । उक्तार्थे आगमवचनसंवादमाह- अत एवेति । दख०- "द्रव्यार्थतया एकोऽहं ज्ञानदर्शनार्थतया द्वावहम्" इति संस्कृतम् ॥ Page #58 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। इदमप्यत्र विचार्यते- द्वित्वादिकमपेक्षाबुद्धिजन्यं व्यङ्गयं वेति, तत्र जन्यमेवेति नैयायिकाः, व्यङ्गय. मिति प्राभाकराः । तत्र नैयायिकानामयमाशयः- द्वित्वस्य व्यङ्गयत्वनयेऽपेक्षाबुद्धेर्द्वित्वत्वप्रकारकलौकिकप्रत्यक्षत्वं कार्यतावच्छेकं वाच्यम् , जन्यत्वनये तु द्वित्वत्वमेवेति लाघवम्। न च व्यङ्गयत्वनयेऽपि लौकिकप्रकारतासंबन्धेन द्वित्वत्वमेव तत्कार्यतावच्छेदकं वक्तुं शक्यम् , गुणत्व-संख्यात्व-तव्यक्तित्वादिना विनाऽप्यपेक्षाबुद्धिं तत्प्रत्यक्षप्रसङ्गात् , तेन रूपेण तत्प्रत्यक्षं प्रति तस्या हेतुत्वकल्पने चातिगौरवात् । न च स्वाश्रयविषयतया द्वित्वत्वस्य कार्यतावच्छेदकतया न दोष इति वाच्यम्, तथापि व्यङ्गयत्वनये स्वाश्रयविषयत्वं कार्यतावच्छेदकतावच्छेदकः संबन्धः, जन्यत्वनये तु समवाय इति जन्यत्वपक्ष एवं लाघववान् । अथ द्वित्वप्रत्यक्षेऽपि प्रत्यक्षत्वमेव कार्यतावच्छेदकं द्वित्ववृत्तिविषयतायाः कार्यतावच्छेदक अत्र शिष्यबुद्धिवेशद्याय नैयायिक-प्रभाकरयोर्मन्तव्यभेदमुपदर्शयति-इदमपीति । अत्र द्वित्वादिस्वरूपपयालोचनायाम् । इदम् 'द्वित्वादिकम्' इत्याद्यनन्तरमेव वक्ष्यमाणम् । व्यङ्गयं वा अपेक्षाबुद्धिव्यङ्गयं वा। तत्र जन्य-व्यङ्गथयोर्मध्ये । जन्यमेव अपेक्षाबुद्धिजन्यमेव द्वित्वादिकम् । व्यङ्गयम् अपेक्षाबुद्धिव्यङ्गयं द्वित्वादिकम् । प्रथमं नैयायिकाभिप्रायं प्रकटयति-तत्रेति- द्वित्वादेरपेक्षाबुद्धिव्यङ्गयत्वं नामापेक्षाबुद्धिजन्यप्रत्यक्षविषयत्वमिति द्वित्वत्वप्रकारकलौकिकप्रत्यक्षत्वावच्छिन्नं प्रत्यपेक्षाबुद्धेः कारणत्वम् , अतो द्वित्वस्यापेक्षबुद्धिव्यङ्गयत्वमिति प्रभाकरमते द्वित्वत्वप्रकारकलौकिकप्रत्यक्षत्वमपेक्षाबुद्धेः कार्यतावच्छेदकमुररीकरणीयम्, द्वित्वमपेक्षाबुद्धिजन्यमिति नैयायिकमते तु द्वित्वत्वावच्छिन्नं प्रत्यपेक्षाबुद्धेः कारणत्वमिति द्वित्वत्वमेवापेक्षाबुद्धेः कार्यतावच्छेदकमिति लाघवम् , अतो द्वित्वस्यापेक्षाबुद्धिजन्यत्वमेव स्वीकरणीयमित्याशयः । ननु लौकिकप्रकारतासम्बन्धेन द्वित्वत्वावच्छिन्नं प्रत्येवापेक्षाबुद्धेः कारणत्वं द्वित्वस्य व्यङ्गयत्वपक्षेऽपि वाच्यम्, तथा च मतद्वयेऽपि कार्यतावच्छेदकं द्वित्वत्वमेवेति न लाघवं न्यायमतेऽपि प्रकारतायाश्च संसर्गतानियामकः सम्बन्धो निरूपकत्वम् , तथा च लौकिकप्रकारतासम्बन्धेन द्वित्वत्वावच्छिन्नं द्वित्वत्वप्रकारकलौकिकप्रत्यक्षमिति तस्यापेक्षाबुद्धिकार्यतया तद्विषये द्वित्वेऽपेक्षाबुद्धिव्यङ्गयत्वलाभ इत्याशङ्कय प्रतिक्षिपति- न चेति- अस्य 'शक्यम्' इत्यनेनान्वयः। तत्कार्यतावच्छेदकम् अपेक्षाबुद्धिकार्यतावच्छेदकम् । निषेधे हेतुमाह - गुणत्वेति- लौकिकप्रकारतासम्बन्धेन द्वित्वत्ववत्प्रत्यक्षमपेक्षाबुद्धिकार्यमिति तदपेक्षाबुद्धिं विना मा भवतु, गुणत्वादिना तु द्वित्वप्रत्यक्षं नापेक्षाबुद्धिकार्यमिति तदपेक्षाबुद्धिं विनाऽप्यापद्येत, यदि च गुणत्वादिना द्वित्वप्रत्यक्षं प्रत्यप्यपेक्षाबुद्धेः कारणत्वं स्वीकृत्य तद्वारणं क्रियते तदाऽतिगौरवमित्यतो व्यङ्गयत्वपक्षो न समीचीन इत्यर्थः। तत्प्रत्यक्षति- द्वित्वप्रत्यक्षेत्यर्थः । तेन रूपेण गुणत्वादिरूपेण । तत्प्रत्यक्षं प्रति द्वित्वप्रत्यक्ष प्रति । तस्याः अपेक्षाबुद्धेः । ननु स्वाश्रयविषयतासम्बन्धेन द्वित्वत्वावच्छिन्नं प्रत्यपेक्षाबुद्धेः कारणत्वम् , द्वित्वत्वप्रकारकप्रत्यक्षं यथा स्वाश्रयविषयतासम्बन्धेन द्वित्वत्ववत् तथा गुणत्वादिना द्वित्वप्रत्यक्षमपि स्वाश्रयविषयतासम्बन्धन द्वित्वत्ववद् भवतीति तदपि निरुक्तकार्यतावच्छेदकाक्रान्तमित्यपेक्षाबुद्धिं विना न तत्प्रसञ्जनसम्भव इत्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'वाच्यम्' इत्यनेन सम्बन्धः । न्यायमते समवायेन द्वित्वत्वं कार्यतावच्छेदकमिति द्वित्वत्वनिष्टायाः कार्यतावच्छेदकताया अवच्छेदकः सम्बन्धः समवायः, स च व्यङ्गयत्वपक्षीयकार्यतानिरूपितद्वित्वत्वनिष्टावच्छेदकतावच्छेदकस्वाश्रयविषयत्वसम्बन्धापेक्षया लघुभूत इत्येवं लाघवाद् व्यङ्गथत्वपक्षो न युक्त इति निषेधहेतुमुपदर्शयति-तथापीति-स्वाश्रयविषयत्वस्य द्वित्वत्वनिष्ठकार्यतावच्छेदकतावच्छेदकसम्बन्धत्वमुपगम्यापेक्षाबुद्धि विना गुणत्वादिना द्वित्वप्रत्यक्षापत्तेारणेऽपीत्यर्थः । निषेधहेत्ववबोधाय 'लाघववान्' इति स्थाने 'लाघवात्' इति पाठो युक्तः । ननु नैयायिकमते यथा द्वित्वत्वमपेक्षाबुद्धेः कार्यतावच्छेदकं तथा प्रभाकरमते प्रत्यक्षत्वमेव तत्कार्यतावच्छेदकम् , द्वित्ववृत्तिविषयता च कार्यतावच्छेदकसम्बन्धः, तेन सम्बन्धेन द्वित्वप्रत्यक्षमेव द्वित्वे वर्तते नान्यप्रत्यक्षमिति तस्यैव प्रत्यक्षत्वेन रूपेणापेक्षाबुद्धिकार्यत्वमिति नातिप्रसङ्गो नवा गौरवमिति शङ्कते-अथेति । Page #59 -------------------------------------------------------------------------- ________________ २६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । संबन्धत्वेनैवानतिप्रसङ्गात्, अन्यथा द्वित्वप्रत्यक्षस्य विषयतया द्वित्वत्वादावपि जायमानत्वेन व्यभिचारात् । अपेक्षाबुद्धित्वं कारणतावच्छेदकम् , तच्च मानसत्वव्याप्यो जातिविशेषः, कारणतावच्छेदकसंबन्धः स्वविषयपर्याप्तत्वम् , तेन ‘घट पटैकत्वबुद्धित्वेनापेक्षाबुद्धेर्घट-पटद्वित्वप्रत्यक्षहेतुत्वेऽनन्तकार्यकारणभावापत्तिः, द्वित्वप्रत्यक्षत्वावच्छिन्नेऽपेक्षाबुद्धित्वेन सामान्यतो हेतुत्वेऽपि घट-पटद्वित्वप्रत्यक्षकाले घट-कुध्यद्वित्वप्रत्यक्षापत्तिः, स्वविषयवृत्तित्वसंबन्धेनापेक्षाबुद्धेस्तत्रापि सत्त्वाद्, इत्यादिदूषणानवकाशः, घट-पटैकत्वबुद्धेर्घट-कुड्यद्वित्वे स्वविषयपर्याप्तत्वसंबन्धेनासत्त्वादिति व्यङ्गयत्वनयेऽपि न गौरवमिति चेत् ? न- एवं सति प्रत्यक्षवं कार्यतावच्छेदकम् , ज्ञानत्वं वा, अनुभवत्वं वेत्यादौ विनिगमकाभावात् । किञ्च, व्यङ्गयत्ववादिना मैत्रीयापेक्षाबुद्ध्या सन्निकर्षादिवशाद् द्वित्वे चत्रीयप्रत्यक्षोत्पत्तिवारणाय चैत्रीयापेक्षाबुद्धित्व-चैत्रीयप्रत्यक्षत्वादिना कार्यकारणभावो वाच्य इति गौरवमेव। अथ तव पुरुषान्तरापेक्षाबुद्धिजनितद्वित्वस्य पुरुषान्तराप्रत्यक्षत्वाय द्वित्वनिष्ठविषयतासंबन्धेन चैत्रीयप्रत्यक्षे मैत्रीयद्वित्वादिभेदस्यापि हेतुत्वं कल्पनीयम् , यद्वा चैत्रीयद्वित्वप्रत्यक्षं प्रति चैत्रापेक्षाबुद्धिजन्यद्वित्वेन हेतुता कल्पनीया, कार्यता द्वित्वप्रत्यक्षत्वस्यापेक्षाबुद्धिकार्यतावच्छेदकत्वोपगमेऽपि द्वित्ववृत्तिविषयतायाः कार्यतावच्छेदकसम्बन्धत्वमवश्यमभ्युपेयम् , विषयतामात्रस्य कार्यतावच्छेदकसम्बन्धत्वे द्वित्वप्रत्यक्षस्य तेन सम्बन्धेन द्वित्वत्वादावपि जायमानत्वेन तत्र स्वविषयपर्याप्तत्वसम्बन्धेनापेक्षाबुद्धेरभावेन व्यभिचारापत्तेरित्याह- अन्यथेति- द्वित्ववृत्तिविषयतायाः कार्यातावच्छेदकसम्बन्धत्वानभ्युपगम इत्यर्थः । तच्च अपेक्षाबुद्धित्वं च । तेन मानसत्वव्याप्यजातिविशेषरूपस्यापेक्षाबुद्धित्वस्य कारणतावच्छेदकतया स्वविषयपर्याप्तत्वस्य कारणतावच्छेदकसम्बन्धतया चाभ्युपगमेन, अस्य 'इत्यादिदूषणानवकाशः' इत्यत्रान्वयः । घट-कुड्यद्वित्वप्रत्यक्षापत्तिरिति- 'घटश्चैकः पटश्चकः' इत्याकारकापेक्षाबुद्धितो घट-पटद्वित्व प्रत्यक्षं यदोपजायते तदा घट-कुड्यद्वित्वप्रत्यक्षमपि स्यात्, द्वित्वप्रत्यक्षत्वरूपकार्यतावच्छेदकस्य घट-पद्वित्वप्रत्यक्ष इव घट-कुड्यद्वित्वप्रत्यक्षेऽपि सत्त्वात् , अपेक्षाबुद्धित्वलक्षणकारणतावच्छेदकस्य घड-कुड्यद्वित्वप्रत्यक्षं प्रति कारणे 'घटश्चैक: कुड्यं चैकम्' इत्याकारकापेक्ष बुद्धिविशेष इव 'घटश्चैकः पटश्चैकः' इत्याकारकापेक्षाबुद्धिविशेषेऽपि सत्त्वेन तद्रपेण तस्यापि घट-कुड्यद्वित्वप्रत्यक्षं प्रति कारणत्वात् , अपेक्षा. बुद्धेः कारणतावच्छेदकसम्बन्धतयाऽभ्युपगतस्य स्वविषयवृत्तित्वस्यापि 'घटश्चैक: पटश्चैकः' इत्यपेक्षाबुद्धेः स्वविषयघटवृत्तित्वमुपादाय घट-कुख्यद्वित्वे सत्त्वादित्यर्थः । स्वविषय पर्याप्तत्वस्य कारणतावच्छेदकसम्बन्धतयाऽभ्युपगमे तु घट-पटैकत्वबुद्ध्यात्मकापेक्षाबुद्धेः स्वविषयपर्याप्तत्वसम्बन्धेन घट-कुड्यद्वित्वेऽसत्त्वान्न घट-पटैकत्वबुद्धितो घट-कुड्य द्वित्वप्रत्यक्षापत्तिरित्याह-घटपटैकत्वबुद्धेरिति । समाधत्ते-नेति । एवं सति द्वित्ववृत्तिविषयत्वस्य वार्यतावच्छेदकसम्वन्धतया मानसत्वव्याप्यजातिविशेषात्मकापेक्षाबुद्धित्वस्य कारण तावच्छेदकतया स्वविषयपर्याप्तत्वस्य कारणतावच्छेदकसम्बन्धतया चाभ्युपगमेनाऽतिप्रसङ्गव्यभिचारवारणे सति । प्रत्यक्षत्वमिति- प्रत्यक्षत्वस्य कार्यतावच्छेदकत्वे यथा न कोऽपि दोषस्तथा ज्ञानत्वानुभवत्वयोरपि कार्यतावच्छेदकत्वेऽपि न कोऽपि दोष इति प्रत्यक्षत्वमेव कार्यतावच्छेदक मिति विनिगन्तुमशक्यत्वेनानेककार्य-कारणभावप्रसङ्गादित्यर्थः । व्यङ्गयत्वपक्षे गौरवान्तरमप्याह- किश्चति- चैत्रस्य चक्षुःसंयुक्तसमवायो द्वित्वे वर्तते, मैत्रस्यापेक्षाबुद्धिरस्ति, सा चापेक्षाबुद्धिः स्वविषयपर्याप्तत्वसम्बन्धेन द्वित्वे वर्तते इति तद्बलाचैत्रस्य द्वित्वप्रत्यक्षमापाद्यतेति तद्वारणाय चैत्रीयप्रत्यक्षत्वावछिन्नं प्रति चैत्रीयापेक्षाबुद्धित्वेन कारणत्वम, मैत्रीय प्रत्यक्षत्वावछिन्नं प्रति मैत्रीयापेक्षावुद्धित्वेन कारणत्वमित्येवं पुरुषभेदेनानन्तकार्य-कारणभावकल्पनगौरवं व्यङ्गयत्वपक्षे इत्यर्थः । प्रभाकरमतानुयायी शङ्कते- अथेति । तव अपेक्षाबुद्धिजन्यं द्वित्वमितिवादिनो नैयायिकस्य, मत इति शेषः; यत्पुरुषीयापेक्षाबुद्धया यद् द्वित्वं जन्यते तद्वित्वस्य तेनैव पुरुषेण प्रत्यक्षं भवति, चक्षुःसंयुत्तासमवायसन्निकर्षस्तु यथा तत्पुरुषस्य तत्र समस्ति तथा पुरुषान्तरस्यापि तत्र समस्तीति त(लात् पुरुषान्तरस्य तत्प्रत्यक्षं स्यात् , तद्वारणाय द्वित्वनिष्टविषयतासम्बन्धेन चैत्रीय प्रत्यक्ष प्रति मैत्रीयापेक्षाबुद्धिजनित Page #60 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । वच्छेदकः संबन्धो द्वित्वनिष्ठविषयता, कारकतावच्छेदकश्च तादात्म्यम्, अत एव चैत्रमैत्रापेक्षा बुद्धिभ्यां तुल्यविषयाभ्यां युगपदुत्पन्नाभ्यामुत्पादितं द्वित्वमेकमेवेति मतेऽपि न क्षतिरिति कल्पनायामधिकं गौरवमिति चेत् ? न-तगौरवस्य फलमुखत्वेनादोषत्वात् । यद्यपि द्वित्वादावपेक्षाबुद्धेनैकत्वावगाहिबुद्धित्वेन हेतुता 'अयं घट एक:' इति बुद्धितोऽपि द्वित्वोत्पत्स्यापत्तेः, नापि नानैकत्वावगाहिबुद्धित्वेन 'अयमेकश्विरविनष्टो घः' इति बुद्धितोऽपि तदापत्तेः, तथापि द्वित्वादिजनकतावच्छेदिका मानसत्वव्याच्या नाना जातयो वाच्याः, अन्यथा कदाचिद् द्वित्वं, कदाचिच्च त्रित्वमिति नियमो न स्यात् । न च स्मृतित्वव्याप्यत्वमेव तासां न कुत इति वाच्यम्, यद्व्यक्तिविशेष्यकैकत्वस्मरणं कस्यापि न जातं तत्र स्मरणानुभवकार्यद्वित्वभेदस्य देवदत्तीयाद्यपेक्षा बुद्धिजन्यद्वित्वभेदस्य च कारणत्वं कल्पनीयमिति गौरवमित्यर्थः । तादात्म्यमिति- चैत्रीयापेक्षाबुद्धिजन्यं द्वित्वं तादात्म्येन चैत्रीयापेक्षाबुद्धिजन्यद्वित्व एव वर्तते, न तु मैत्रीयापेक्षा बुद्धिजनितद्वित्वे इति तद्रूपकारणाभावान चैत्रीयद्वित्वप्रत्यक्षं द्वित्वनिष्टविषयतासम्बन्धेन मैत्रीयापेक्षा बुद्धिजन्यद्वित्वे समुत्पद्यत इति । 'अत एव' इत्यस्य 'न क्षतिः' इत्यनेनान्वयः, अत एव चैत्रीयद्वित्वप्रत्यक्षं प्रति चैत्रापेक्षाबुद्धिजन्यद्वित्वेन हेतुत्वकल्पनलक्षणद्वितीय कल्पस्याऽऽदरणादेव । चैत्र-मैत्रेति - यदैव चैत्रस्य 'घटचैकः पटश्चैकः' इत्यपेक्षाबुद्धिस्तदैव मैत्रस्यापि 'घटश्चैकः पचैकः' इति तत्समानविषयाऽपेक्षा बुद्धिः, ताभ्यामुत्पादितं घट-पटगत द्वित्वमेकमेवेति मते द्वित्वनिष्टविषयतासम्बन्धेन चैत्रीयप्रत्यक्षे मैत्रीया - पेक्षाबुद्धिजन्यद्वित्वादिभेदस्य कारणत्वमिति प्रथमकल्पे द्वित्वनिष्टविषयतासम्बन्धेन चैत्रीयप्रत्यक्षं चैत्रीयापेक्षा बुद्धिजन्यद्वित्वे समुत्पद्यते, तच्च द्वित्वं मैत्रीयापेक्षा बुद्धिजन्यद्वित्वरूपमपीति तद्भेदस्य तत्रासत्त्वा चैत्रस्यापि तत्प्रत्यक्षं न स्यादिति दोषो न भवति, चैत्रीयद्वित्वप्रत्यक्षं द्वित्वनिष्टविषयतासम्बन्धेन चैत्र-मैत्रापेक्षा बुद्धिद्वयजनितद्वित्वे वर्तते तत्र तादात्म्यसम्बन्धेन चैत्रापेक्षा बुद्धिजन्यं तदेव द्वित्वं समस्तीति, एवं कल्पनायां नैयायिकस्य मते प्रभाकरमतापेक्षयाऽधिकं गौरवमित्यर्थः । समाधत्ते - नेति । तद्गौरवस्य नैयायिकमतेऽनन्तरदर्शित गौरवस्य । फलमुखत्वेनेति - व्यङ्गयत्वपक्षे अपेक्षाबुद्धेर्द्वित्वप्रत्यक्षत्वं कार्यतावच्छेदकम् जन्यत्वपक्षे द्वित्वत्वमपेक्षाबुद्धेः कार्यतावच्छेदकमिति लाघवाज्जन्यत्वपक्षव्यवस्थितौ तत्र यस्यैवापेक्षा बुद्धया जन्यं यद् द्वित्वं तत्पुरुषस्यैव तदूद्वित्वप्रत्यक्षं नान्यपुरुषस्येत्येतदर्थं कल्पनीयस्य निरुक्तगौरवस्य फलमुखत्वेनादोषत्वादित्यर्थः । द्वित्वादिकं प्रति अपेक्षाबुद्धेर्यत् कारणत्वं तदवच्छेदकनिर्वचनाय विचारमारभते - यद्यपीत्यादिना । द्वित्वं प्रत्यपेक्षाबुद्धे रेकत्वावगाहिबुद्धित्वेन कारणत्वस्य प्रतिक्षेपे हेतुमुपदर्शयति- 'अयं घट एकः' इतीति । नापीतिद्वित्वादिकं प्रत्यपेक्षाबुद्धेर्नानेकत्वावगाहिबुद्धित्वेन कारणत्वे 'अयं घट एक:' इति बुद्धेर्नानेकत्वावगाहिबुद्धित्वाभावात् कारणात्वाभावेन न ततो द्वित्वोत्पत्त्यापत्तिः, परन्तु 'अयमेकश्विरविनष्टो घटश्चैकः' इति बुद्धेर्निरुक्तकारणावच्छेदकाक्रान्ताया द्वित्वोत्पत्त्यापतेर्न नानैकत्वावगाहिबुद्धित्वेनापेक्षाबुद्धेः कारणत्वमित्यर्थः । तथाऽपि एकत्वावगाहिबुद्धित्वेन नानैकत्वावगाहिबुद्धित्वेन वाऽपेक्षाबुद्धेः कारणत्वाऽसम्भवेऽपि । द्वित्वादीति - आदिपदात् त्रित्वादीनामुपग्रहः, तथा द्वित्वजनकतावच्छेदिकापेक्षाबुद्धिगता मानसत्वव्याप्या जातिरेका, तदन्या त्रित्वजनकतावच्छेदिका, तदन्या च चतुष्वजनकतावच्छेदिकेत्येवमपेक्षाबुद्धिगता मानसत्वव्याप्या नानाजातयो वाच्या इत्यर्थः । अन्यथा एकैवापेक्षाबुद्धिगता मानसत्वव्याप्या जातिर्द्वित्वादिकारणतावच्छेदिकेत्येवमुपगमे । कदाचिदिति- 'घटश्चैकः परश्चैकः' इत्येवम पेक्षा बुद्ध यनन्तरकाले द्विमुत्पद्यते, 'घटचैकः पटचैको मठश्चैकः' इत्येवमपेक्षा बुद्धयनन्तरकाले त्रित्वमुत्पद्यत इत्येवं नियमो न स्यात्, यैव द्वित्वकारणतावच्छेदिका मानसत्वव्याप्यजातिः ‘घटश्चैकः पटश्चैकः' इति बुद्धौ वर्तते सैव त्रित्वकारणतावच्छेदिकाऽपीति तद्रूपेण द्वित्वकारणापेक्षाबुद्धेरेव त्रित्वं प्रति कारणीभूताया अपि सत्त्वाद् द्वित्वोत्पत्तिकाले त्रित्वोत्पत्तिरपि स्यादित्यर्थः । ननु भवन्तु जातयो द्वित्वादिजनकतावच्छेदिका अपेक्षाबुद्धिगता विभिन्नाः, तासां स्मृतित्वव्याप्यत्वमेव कुतो नाङ्गीक्रियते ? इत्याशङ्कय प्रतिक्षिपति- न चेतिअस्य ‘वाच्यम्' इत्यनेनान्वयः । तासां द्वित्वादिजनकतावच्छेदकजातीनाम् । निषेधे हेतुमाह - यद्वयक्तीति - द्वित्वा दिजनकतावच्छेदकजातीनां स्मृतित्वव्याप्यत्वे स्मरणात्मकापेक्षा बुद्धित एव द्वित्वाद्युत्पत्तिर्न ज्ञानान्तरादिति ययक्तिविशेष्यकैकत्वस्मरणं कस्यापि प्रमातुन जातं तद्व्यक्तिगतद्वित्वादिकं कथमुत्पद्येतेति तदर्थं तद्व्यक्तिविशेष्यकैकत्वानुभव-तत्समरणयोः कार्य-कारण २७ Page #61 -------------------------------------------------------------------------- ________________ २८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । कारणभावकल्पने संस्कारव्यवधानेन क्षणविलम्बे च गौरवात् , स्मृतित्वव्याप्यत्वेऽपि स्मरणात्मकैकत्वबुद्धिकल्पनाक्षणे मानसोत्पत्तौ बाधकाभावाद् उपनायकज्ञानघटितसामग्रीसत्त्वात् , मानसं प्रति तत्तत्स्मृतिसामग्र्या प्रतिबन्धकत्वकल्पने च महागौरवात् । सन्तु वा चाक्षुषत्वादिव्याप्या नाना जातयः, द्वित्वादी मानाभावाद् [न च द्वित्वादी मानाभावः] 'द्वौ त्रयः' इत्यादिविलक्षणबुद्धेः प्रकारभेदं विनाऽसम्भवात् , अन्यथा सर्वत्र विषयनिरपेक्षैरेव ज्ञानस्तत्तद्व्यवहारजननप्रसङ्गात् । न च 'द्वौ' इत्याद्धिबुद्धे. विजातीयज्ञान विषयः, अचाक्षुषत्वापत्तेः । न च 'इमौ द्वौ मधुपौ,' एते त्रयः कमल कल्हार-कलहंसाः' इत्यादौ युगपदेव द्वित्व-त्रित्वप्रतीति(त्ते)रेकत्र बुद्धौ द्वित्वजनकतावच्छेकजात्युपगमे [त्रित्वजनकतावच्छेदक"जात्यभ्युपगमे च ] जातिसंकरप्रसङ्ग इति वाच्यम् , द्वित्व-त्रित्वोत्पादकापेक्षाबुद्ध्योरुत्पादे सूक्ष्मकाल भावः कल्पनीयः, संस्कारं विना न स्मरणमित्यनुभवात् संस्कारः कल्पनीयः, तथा च तद्व्यक्तिविशेष्यकैकत्वप्रकारकानुभवतत्प्रभवसंस्कार-तजन्यतद्व्यक्तिविशेष्यकैकत्वप्रकारकस्मरणलक्षणापेक्षाबुद्धितस्तद्गतद्वित्वाद्युत्पत्तिरितीत्थं क्षणविलम्बश्च कल्पनीय इत्येवं गौरवान्न तासां स्मृतित्वव्याप्यत्वम् , किन्तु मानसत्वव्याप्यत्वमेवेत्यर्थः । यदा चैकत्वस्य स्मृतिस्तदानीमपि तस्य मानसं बाधकाभावात् सम्भवत्येव ज्ञानलक्षणप्रत्यासत्तेस्तन्मानसप्रत्यक्षकारणीभूतायाः सत्त्वे तद्धटितसामग्र्याः सत्त्वादिति किमिति तस्यैव न द्वित्वादिकारणत्वं ? येनानुभव-संस्कार-स्मरणादिकल्पनाप्रयुक्तगौरवमपि परिहृतं भवतीत्याह-स्मृतित्वव्याप्यत्वेऽपीति । उपनायकज्ञानेति- ज्ञानलक्षणप्रत्यासत्तीत्यर्थः । ननु मानसं प्रति तत्तत्स्मृतिसामग्री प्रतिबन्धिकेति न तद्विषयकस्मृतिकाले तद्विषयकमानससम्भव इत्यत आह-मानसं प्रतीति-बहिरिन्द्रियजन्यप्रत्यक्षसामग्याः सर्वतो बलवस्वात् सैव स्मृतिप्रतिबन्धिका, न तु चाक्षषादिकं प्रति स्मृतिसामग्री प्रतिबन्धिकेति द्वित्वादिजनकतावच्छेदिकाश्चाक्षुषत्वादिव्याप्या जातय एव नाना सन्तु, ततोऽपि कदाचिद् द्वित्वं, कदाचित् त्रित्वमिति नियमोपपत्तिर्भविष्यतीत्याह-सन्तु चेति । ननु द्वित्वादिरेव नास्ति, एकत्वद्वयमेव द्वित्वमेकत्वत्रयमेव त्रित्वमित्यादिकल्पनयैवोपपत्तरित्याशङ्कय प्रतिक्षिपति-न चेति । 'द्वित्वादी मानाभावात्' इति स्थाने 'न च द्वित्व दौ मानाभावः' इति पाठो युक्तः, 'अयमेकोऽयमेकः' इति ज्ञानानन्तरम् , 'इमौ द्वौ' इति ज्ञानमुपजायते, न च तत्रैकत्वव्यादिकमवभासते, न च विषयवलक्षण्यं विना 'द्वाविमौ, त्रय इत्यादिप्रतीतिवलक्षण्यसम्भव इति तादृशप्रतीतिवेलक्षण्यान्यथानुपपत्तिरेव द्वित्वादौ मानमिति निषेधहेतुमुपदर्शयति'द्वौ त्रयः' इति । अन्यथा विषयलक्षप्याभावेऽपि प्रतीतिवलक्षण्याभ्युपगमे । अचाक्षुषत्वापत्तेरिति-ज्ञानस्य चक्षुरिन्द्रियायोग्यत्वेन विजातीयज्ञानस्य द्वित्वादिस्थानाभिषेके तस्य चक्षुरिन्द्रिय जन्यप्रत्यक्षविषयत्वं न स्यादित्यर्थः। नन्वेकदैव द्वित्व-त्रित्व प्रतीतिर्भविष्यति यत्र तत्र द्वित्व-त्रित्वयोरेकैवापेक्षाबुद्धिः कारणमिति तस्यामपेक्षाबुद्धौ द्वित्वजनकतावच्छेदकवैजात्यवत् त्रित्वजनकतावच्छेदकवैजात्यमपि स्वीकरणीयं स्यात् , तथा च जातिसङ्करप्रसङ्ग इत्याशक्य प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः । द्वित्वजनिकाऽपेक्षाबुद्धिरन्या, अन्या च त्रित्वजनिकाऽपेक्षाबुद्धिः, तयोश्च क्रमणोत्पत्तिर्भवति, व्यवधायक कालस्याऽतिसौम्याच्च कालभेदो नाऽवभासत इति नैकत्र जातिद्वयमिति न साङ्कर्यमिति निषेधहेतुमुपदर्शयति-द्वित्व-त्रित्वोत्पादकेति । सूक्ष्मकालभेदानुपलक्षणेन यौगपद्याभिमाने निदर्शनमुपदर्शयति-गिरिरयमिति- नात्रैककल्पना भद्रा, 'गिरिरयं वह्निमान्' इति ज्ञानस्यानुभाविकरूपत्वात् 'अहं तज्झानवान्' इति ज्ञानस्य प्रत्यक्षरूपत्वादिति । स्पष्टप्रतिपत्त्यर्थमुक्तम्-अनुमिति-प्रत्यक्षयोरिवेति । ननु समानविषये प्रत्यक्षानुमितिसामग्र्योः सत्योः प्रत्यक्षमेवोपजायते नानुमितिरिति समानविषयकप्रत्यक्षसामग्री समानविषयानुमिति प्रति प्रतिबन्धिका कल्प्यते, भिन्नविषये प्रत्यक्षा-ऽनुमितिसामग्र्योः समवधाने तु भिन्नविषयिकानुमितिरेवोपजायत इति भिन्नविषयकप्रत्यक्षं प्रति भिन्नविषयकानुमितिसामग्री प्रतिबन्धिका, अतः प्रकृते भिकविषय कानुमितिसामग्रीतः पूर्व भिन्नविषयकानुमितिः, ततः प्रत्यक्षसामप्रीतः प्रत्यक्षमिति क्रमेणैव तयोरुत्पादो न तु युगपत् , प्रकृते तु द्वित्व-त्रित्वयोः प्रत्यक्षमेव, तत्कारणीभूताऽपेक्षाबुद्धिरपि प्रत्यक्षात्मिकैवेति युगपदेकैव द्वित्व-त्रित्वप्रतीतिरेकैव द्वित्व-त्रित्वयोः कारणमपेक्षाबुद्धिः किं न स्यादिति शङ्कते-अथेति । Page #62 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । भेदकल्पनात् , 'गिरिरयं वह्निमान् , अहं तज्ज्ञानवान्' इत्यनुमिति-प्रत्यक्षयोरिव । अथ तत्र भिन्नविषयेऽनुमितिसामग्र्याः प्रतिबन्धकत्वादस्तु तयोर्युगपदनुत्पादः, न तु प्रकृते इति चेत् ? तर्हि प्रतिबन्धकं किश्चिदत्रापि कल्प्यताम् , अन्यथानुपपत्तबलीयस्त्वात् । अस्तु वा तत्रापेक्षाबुद्धावुभयजनकतावच्छेदको जातिविशेषः, आस्तां च द्वित्व-त्रित्वयोस्तज्जन्यतावच्छेदको जातिविशेषः । एतेन 'समवाय्यसमवायि-निमित्तकारणानामविशिष्टत्वे द्वित्व-त्रित्वाद्युत्पत्तिनियमे किं कारणम् ? द्वाभ्यामेकत्वाभ्यां द्वित्वम् , त्रिभित्रित्वमारभ्यत इति वक्तुमशक्यत्वाद्, एकत्वेषु द्वित्वादेरभावात्, न च शुद्धयाऽपेक्षाबुद्ध्या द्वित्वम् , द्वित्वसहितया च तया त्रित्वमुत्पाद्यत इत्यपि सुवचम् , द्वित्व-त्रित्वयोर्युगपदेवोक्तप्रत्ययविषयत्वात् , न चैकत्वेष्विव द्वित्वादिजनकतावच्छेदका जातिविशेषा अभ्युपेयाः, तत एव द्वित्वादिव्यवहारोपपत्तौ द्वित्वाधुच्छेदप्रसङ्गाद् , इत्यादिपर्यनुयोगो निरस्तः, अपेक्षाबुद्धिनिष्ठद्वित्व-त्रित्वादिजनकतावच्छेदकजातिभेदेनैव तयोः सामग्रीभेदात् , एकापेक्षाधीजघन्यद्वित्व-त्रित्वयोरन्यत्र परिदृष्टभेदवज्जातीयत्वेनैव भेदात् । तयोः अनुमिति-प्रत्यक्षयोः । समाधत्ते-तहाँति । प्रतिबन्धकं द्वित्वोत्पादकतत्पुरुषीयापेक्षाबुद्धि काले त्रित्वोत्पादकतत्पुरुषीयापेक्षाबुद्धयुत्पादप्रतिबन्धकम् । अत्रापि अपेक्षाबुद्धावपि । प्रमाणाभावात् तत्कल्पनं न न्याय्यमिति चेत् ? तत्राहअन्यथानुपपत्तेरिति- यदि प्रतिबन्धकं किञ्चिन्न कल्प्येत तर्हि द्वित्वोत्पादकापेक्षाबुद्धि-त्रित्वोत्पादकापेक्षाबुद्धिसामग्र्योः सत्वाज्ज्ञानद्वययुगपदुत्पत्तिनिषेधादेकैवापेक्षाबुद्धिर्द्वित्वोत्पादिका त्रित्वोत्पादिका च भवेदिति तत्र द्वित्वजनकतावच्छेदक-त्रित्वजनकतावच्छेदकजात्योः साङ्कर्य स्यात् , जातिसाङ्कयं च नेष्टमिति तत्परिहारान्यथानुपपत्तेर्बलीयस्याः सत्त्वात् किश्चित् प्रतिबन्धक कल्प्यत इत्यर्थः । अथवा तत्रैकैवापेक्षाबुद्धिर्द्वित्व-त्रित्वोभयजनिका, किन्तु या द्वित्वमात्रजनकतावच्छेदिका या च त्रित्वमात्रजनकतावच्छेदिका जातिः, तयोस्तत्र नाऽभ्युपगमः, द्वित्व-त्रित्वोभयजनकतावच्छेदिकाऽन्यव जातिस्तत्रोपेयते, तादृशापेक्षाबुद्धिजन्क्योत्वि-त्रित्वयोरपि जातिविशेषस्तादृशापेक्षाबुद्धिजन्यताऽवच्छेदकोऽन्य एव कल्प्यते, इत्थमपि न कश्चिद् दोष इत्याह- अस्तु वेति । जम्यतावच्छेदकः अपेक्षाबुद्धिजन्यतावच्छेदकः । 'एतेन' इत्यस्य 'निरस्तः' इत्यनेनान्वयः । द्वित्व-त्रित्वाद्यत्पत्तिनियमे कदाचिद् द्वित्वमुत्पद्यते, कदाचित् त्रित्वमुत्पद्यत इति नियमे । किं कारणम्' इत्यत्र किम आक्षेपे, न किश्चित् कारणमिति तदर्थः । द्वाभ्यामेकत्वाभ्यां द्वित्वमुत्पद्यत, त्रिभिरेकत्वैस्त्रित्वमुत्पद्यत इति नियमस्तु तदा वक्तुं शक्यो यद्येकत्वेषु द्वित्व-त्रित्वादिकं समवेयात् , न चैवम् , गुणे गुणानङ्गीकारादित्याह-द्वाभ्यामिति । 'न च' इत्यस्य 'सुवचम्' इत्यनेनान्वयः। 'द्वित्वम्' इत्यस्य 'उत्पाद्यते' इत्यनेनान्वयः । तया अपेक्षाबुद्धया । उत्तप्रत्ययविषयत्वात् 'इमौ द्वौ मधुपौ, इमे त्रयः कमल-कहार-कलहंसाः' इतिप्रत्ययविषयत्वात् । ननु द्वित्वजनक विजातीयमेकत्वम् , विजातीयं च त्रित्वजनकमेकत्वम् , तथा च तादृशकारणलक्षण्याद् द्वित्व-त्रित्वाद्युत्पत्तिनियमो भविष्यतीत्याशङ्कय प्रतिक्षिपति-न चेति । 'न चैकत्वेष्विव' इति स्थाने 'न चैकत्वेष्वेव' इति पाठो युक्तः, 'न च' इत्यस्य 'अभ्युपेयाः' इत्यनेनान्वयः । निषेधे हेतुमाह-तत एवेति- यदि द्वित्वकारणं विजातीयमेकत्वम्, विजातीयं च त्रित्वकारणमेकत्वम्, तर्हि द्वित्वादिकल्पना निरर्थिका, विजातीयैकत्वेन द्वित्वव्यवहारो विजातीयैकत्वेन त्रित्वव्यवहार इत्येवं विजातीयकत्वत एव द्वित्वादिव्यवहारोपपत्ती द्वित्वाद्यच्छेदप्रसङ्गादित्यर्थः । 'एतन' इत्यतिदिष्ट निरासहतमुपदर्शयतिअपेक्षाबुद्धिनिष्ठेति । तयोः द्वित्व-त्रित्वयोः । एकापेक्षाबुद्धिजन्ये द्वित्व-त्रित्वे चान्यद्वित्व-त्रित्वतो विजातीये, अन्यद्वित्वजनकविजातीयापेक्षाबुद्धितो विजातीयापेक्षाबुद्धिजन्य इति तयोरन्यद्वित्व-त्रित्वतो भेदादवेकदोत्पत्तिरपि युज्यत इत्याह एकापेक्षेति । 'एकापेक्षाधीजन्यद्वित्व-त्रित्वयोः' इत्यस्य 'भेदाद्' इत्यनेनान्वयः। अन्यत्र अन्ययोदित्व-त्रित्वयोः, परिदृष्टा या जातिस्तद्भेदवती- तद्भिन्ना, या जातिस्तद्वत्त्वेनैव, एकापेक्षाधीजन्यद्वित्व-त्रित्वयोः, भेदाद् अन्यद्वित्व-त्रित्वाभ्यां भिन्नत्वात् , तत एव चान्यद्वित्व-त्रित्वयोर्विभिन्नापेक्षाबुद्धिजन्यत्वाद् विभिन्नकालोत्पत्तिकत्वेऽप्यनयोरेकापेक्षाबुद्धिजन्यत्वादेककालिकोत्पत्तिकत्वमविरुद्धमित्याशयः । Page #63 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । उदयनाचार्यास्तु-" द्वित्वप्रागभावगभँव द्वित्वसामग्री, त्रित्वप्रागभावगर्भा च त्रित्वसामग्रीति तयोविशेषः, इतोऽपि हि प्रागभावसिद्धिः, अन्यथा तयोर्विशेषो न स्यात् , पर्याप्तिसंबन्धेन द्वित्वादिकं प्रति पर्याप्तिसंबन्धेन तत्प्रागभाव एव नियामकः, अत एवैकस्मिन् न पर्याप्तिसम्बन्धेन द्वित्वादि. प्रत्ययः, तत्प्रागभावस्यैकस्मिन् पर्यायभावेन तस्यापि तदभावाद्” इत्याहुः । अथापेक्षाबुद्धिजन्यत्वे द्वित्वस्य 'द्वे द्रव्ये' इति लौकिकप्रत्यक्षानुपपत्तिः, 'अपेक्षाबुद्धिः, अथ द्वित्वम्, अथ द्वित्वत्वनिर्विकल्पकम् , ततो द्वित्वत्वविशिष्टप्रत्यक्षम् , तदैव च द्वित्वनिर्विकल्पकेन स्वोत्तरवृत्तिविशेषगुणविधया जनितोऽपेक्षाबुद्धिविनाशः, ततश्च द्वे द्रव्ये' इति लौकिकप्रत्यक्षम्, तदैव चापेक्षाबुद्धिविनाशाद् 'द्वित्वविनाशः' इति हि त्वदभिमता व्यवस्था, साऽत्रानुपपन्ना, अपेक्षाबुद्धेः स्वजन्यसंस्कारेण द्वित्वनिर्विकल्पकोत्पत्तिक्षण एव नाशात् , योग्यविभुविशेषगुणनाशं प्रति स्वोत्तरवृत्तियोग्यजातीयविभुविशेषगुणत्वेन हेतुत्वात्,सुषुप्तिप्राक्कालवर्तिज्ञाननाशकतयैव तसिद्धेः,अन्यथाऽनुभवध्वंसेनैव संस्कारान्यथासिद्धे. ___ नैयायिकधुरन्धराणामुदयनाचार्याणां मतमुपदर्शयति- उदयनाचार्यास्त्विति- अस्य 'आहुः' इत्यनेनान्वयः । तयोविशेषः द्वित्व-त्रित्वसामग्योर्भेदः। इतोऽपि द्वित्व-त्रित्वसामग्रीभेदतोऽपि । अन्यथा प्रागभावानभ्युपगमे । तयोः द्वित्व-त्रित्वसामग्र्योः । पर्याप्तिसम्बन्धन द्वित्वमुभयस्मिन्नेव, न त्वेकस्मिन् , एवं पर्याप्तिसम्बन्धेन त्रित्वं त्रिष्वेव, न त्वेकस्मिन् द्वयोर्वेत्यत्रापि प्रागभाव एव नियामक इत्याह- पर्याप्तिसम्बन्धेनेति। तत्प्रागभाव एव द्वित्वादिप्रागभाव एव । अत एव पर्याप्तिसम्बन्धेन द्वित्वादिप्रागभावस्य नियामकत्वादेव । तत्प्रागभावम्य द्वित्वादिप्रागभावस्य । तस्यापि तदभावात द्वित्वादेरप्ये कस्मिन् पर्याप्त्यभावात् । शङ्कते - अथेति । कीदृशी अपेक्षाबुद्धितो द्वित्वोत्पत्त्यभ्युपगमे नैयायिकप्रक्रिया ? यस्यां द्वित्वस्य लौकिकप्रत्यक्षानुपपत्तिरित्याकाङ्क्षायामाह- अपेक्षाबुद्धिरिति-प्रथमक्षणे अपेक्षाबुद्धिरुत्पद्यते, ततो द्वितीयक्षणे द्वित्वमुत्पद्यते, ततस्तृतीरक्षणे द्वित्वत्वनिर्विकल्पकम्, ततश्चतुर्थक्षणे द्वित्वत्वविशिष्टप्रत्यक्षम् , तदानीमेव च च 'स्वोत्तरवर्तिविशेषगुणस्य योग्यविभुविशेषगुणनाशकत्वम्' इति नियमतोऽपेक्षाबुद्धयुत्तरवर्तिविशेषगुणेन द्वित्वत्वनिर्विकरुपकेनापेक्षाबुद्धिविनाशः, ततः पञ्चमक्षणे 'द्वे द्रव्ये' इत्याकारकं द्वित्वप्रकारकद्रव्यविशेष्यकप्रत्यक्षम् , तदानीमेव चापे. क्षाबुद्धिनाशाद् द्वित्वनाश इति नैयायिकाभिमता व्यवस्थेत्यर्थः । साऽत्राऽनुपपन्ना सा व्यवस्था क्रियमाणे विचारे नोपपद्यते। प्रथमक्षणेऽपेक्षाबुद्धिः, ततो द्वितीयक्षणे द्वित्वोत्पत्तिः, तदानीमेव चापेक्षाबुद्धितः स्वविषयैकत्वविषयक: संस्कारः, तेन चापेक्षाबुद्धिजनितेन संस्कारेणापेक्षाबुद्धयुत्तरवर्तिना द्वित्वत्वनिर्विकल्पकक्षण एवापेक्षाबुद्धेर्नाशः, ततश्च यदा द्वित्वत्वविशिष्टप्रत्यक्षमभिमतं तदानीपेक्षाबुद्धिनाशाद् द्वित्वनाशे कथं द्वित्वप्रत्यक्षमित्युक्तव्यवस्थानुपपत्तौ हेतुमुपदर्शयति-अपेक्षाबुद्धिरिति- अस्य 'नाशाद्' इत्यनेनान्वयः । ननु योग्यविभुविशेषगुणनाशं प्रति स्वोत्तरवृत्तियोग्यजातीयविभुविशेषगुणत्वेन कारणत्वम् , संस्कारश्च स्वोत्तरवर्त्यपि न योग्जातीय इति न ततोऽपेक्षाबुद्धिनाशः, निर्विकल्पके तु प्रकार ता-विशेष्यता-संसर्गताभिन्ना तुरीयविषयतोपेयते, तावतैव सविकल्पकज्ञानाद् भेदे सिद्धे न तत्र निर्विकल्पकत्वं जातिः, किन्तु ज्ञानत्वमेव, तच्च योग्यमिति स्वोत्तरतियोग्यजातीयविशेषगुणेन निर्विकल्पनापेक्षाबुद्धिनाशः सम्भवतीत्यत आह-योग्यविभुविशेषगुणनाशं प्रतीति-स्वोत्तरवृत्तियोग्यजातीयविभुविशेषगुणत्वेन' इति स्थाने 'स्वोत्तरवर्तियोग्यायोग्यजातीयसाधारणविभुविशेषगणत्वेन' इति पाठो युक्तः, तथा च कारणकोटौ योग्यजातीयत्वमयोग्यजातीयत्वं वा न निवेश्यते, किन्तु योग्यविभुविशेषगुणनाशं प्रति स्वोत्तरवृत्तिविभुविशेषगुणत्वेन हेतुत्वात् स्वजन्यसंस्कारेणापेक्षाबुद्धेर्नाशसम्भवान्नैयायिकव्यवस्थाऽनुपपन्नेत्यर्थः । अत एव सुषुप्तिप्राक्कालवर्तिनो ज्ञानस्य स्वजन्यसंस्कारेण नाश इति सुषुप्तिप्राकालवर्तिज्ञाननाशकतया संस्कारसिद्धिरित्याह-सुषुप्तीति । तत्सिद्धेः संस्कारसिद्धः। अन्यथा उक्तदिशा कार्य-कारणभावानभ्युपगमे सुषुप्तिप्राकालवर्तिज्ञाननाशकत या संस्कारसिद्धयभावे । स्मरणं प्रति यदनुभवस्य करणत्वं तश्यापारतया संस्कारः कल्प्यते, परं संस्कारस्य तथाऽकल्पनेऽप्यनुभवध्वंस एवानुभवव्यापारः, Page #64 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । ३१ रिति चेत् ? न- अपेक्षाबुद्धेः संस्काराजनकत्वादपेक्षाबुद्धिभिन्नत्वस्यापि संस्कारजनकतावच्छेदककोटिप्रवेशात् । न चैवमप्यपेक्षाबुद्धिजनितैकत्वादिविशिष्टबुद्ध्याऽपेक्षाबुद्धिनाशप्रसङ्गः, तदुकम्-"अपेक्षा. बुद्धिः संस्कारं मा कार्षीद् विशिष्टबुद्धिं तु कुर्यादेव” इति वाच्यम् , विशिष्टबुद्धिजननेऽपि द्वित्वसामग्र्यादेरेव फलबलेन प्रतिबन्धकत्वकल्पनात् । वस्तुतोऽपेक्षाबुद्धिनाशे द्वित्वलौकिकप्रत्यक्षस्य विशिष्य कारणत्वकल्पनान्न दोषः। न च तथापि पूर्वापेक्षाजनितद्वित्वनिर्विकल्पकेन स्वद्वितीयक्षणोत्पन्नापेक्षाबुद्धेस्तृतीयक्षणे नाशप्रसङ्गः, प्रतियोगितयापेक्षाबुद्धिनाशे स्वविषयजनकत्वसंबन्धेन द्वित्वलौकिकप्रत्यक्षत्वेन हेतुत्वात् । नन्वेवमपि 'द्वे द्रव्ये' इति लौकिकप्रत्यक्षं कथम् ? तदुत्पत्तिक्षणे द्वित्वनाशादिति चेत् ? मैवम्द्वित्वस्य हि प्रत्यक्षे विषयविधया हेतुत्वं न तु कार्यसहवर्तितयेति दोषाभावात्, नहि सर्वेषां कारणानां कार्यसहवर्तितयैव हेतुत्वं प्रागभाव-पक्षतादेरहेतुत्वप्रसङ्गादिति ॥ प्रभाकरवृद्धानुसारिणस्तु-" सोऽयं नैयायिकाशयो न युक्तः, अनन्तद्वित्वादिध्वंस-प्रागभावादितत एव च स्मृतेः सम्भवादित्याह- अनुभवध्वंसेनैवेति । अपेक्षाबुद्धिभिन्नानुभवत्वेनैव संस्कारं प्रति कारणत्वमित्यतोऽ. पेक्षाबुद्धया संस्कारो न जन्यत एवेति न संस्काराद् द्वित्वत्वनिर्विकल्पकक्षणेऽपैक्षाबुद्धिनाशः, किन्तु निर्विकल्पकादेव द्वित्वत्वविशिष्ट प्रत्यक्षकालेऽपेक्षाबुद्धिनाश इति न नैयायिकव्यवस्थाऽनुपपन्नेति समाधत्ते-नेति । 'न च' इत्यस्य ‘वाच्यम्' इत्यनेनान्वयः । एवमपि अपेक्षाबुद्धेः संस्काराजनकत्वमभ्युपेत्य संस्कारस्यापेक्षाबुद्धिनाशकत्वाभावोपपादनेऽपि । एकत्वादिविशिष्टबुद्धितोऽपेक्षाबुद्धिनाशप्रसनने संवादमुपदर्शयति-तदुक्तमिति । विशिष्टबुद्धि प्रति द्वित्वसामग्री प्रतिबन्धिकेति द्वित्वोत्पत्तिकाले विशिष्टबुद्धरनुत्पादादेव न ततोऽपेक्षाबुद्धिनाशसम्भव इति निषेधहेतुमुपदर्शयति-विशिष्टबुद्धिजननेऽपीति । अपेक्षाबुद्धितः संस्कारोत्पत्तिवारणाय संस्कारं प्रत्यपेक्षाबुद्धिभिन्नानुभवत्वेन यत् कारणत्वम्, यच विशिष्टबुद्धयुत्पत्तिवारणाय द्वित्वोत्पादकसामय्याः प्रतिबन्धकत्वम् , तइपेक्षया लाघवादपेक्षाबुद्धिनाशं प्रति द्वित्वलौकिक प्रत्यक्षस्य निर्विकल्पात्मकस्य कारणत्वमेव कलायते, तत एव द्वित्वत्वनिर्विकल्पकक्षणे नापेक्षाबुद्धिनाशो द्वित्वोत्पत्तिकालेऽपेक्षाबुद्धितः रैकत्वविशिष्टबुद्धयोरुत्पादेऽपीत्याह-वस्तत इति । ननु पूर्वमेकापेक्षाबुद्धिः, तदनन्तरं द्वित्वोत्पतिः, तदानीमेव च द्वितीयाऽपेक्षाबुद्धिः, तदनन्तरं प्रथमापेक्षाबुद्धितो द्वित्वत्वनिर्विकल्पकप्रत्यक्षम् , तदानीमेव च द्वितीयापेक्षाबुद्धितो द्वित्वा. न्तरोत्पत्तिः, तदनन्तरं प्रथमापेक्षाबुद्धिप्रभवद्वित्वत्वनिर्विकल्पकप्रत्यक्षतो यथा प्रथमापेक्षाबद्ध शस्तथा द्वितीयापेक्षाबुद्धरपि नाशः स्यात् कारणीभूतस्य द्वित्वत्वनिर्विकल्पकस्य पूर्वक्षणे भावादित्याशङ्कय प्रतिक्षिपति-न चेति । तथापि अपेक्षाबुद्धिविनाशे द्वित्वलौकिकप्रत्यक्षस्य विशिष्य कारणत्वकल्पनेऽपि । स्वद्वितीयक्षणोत्पन्नेन द्वितीयापेक्षाबुद्धिद्वितीयक्षणत्पन्नेन । अपेक्षाबुद्धेः द्वितीयापेक्षाबुद्धेः, प्रथमापेक्षाबुद्धस्तदानीं नाशस्त्विष्ट एव । तृतीयक्षणे द्वितीयापेक्षाबुद्धयुत्पत्तिक्षणापेक्षया तृतीयक्षणे । निषेधे हेतुमाह-प्रतियोगितयेति-प्रतियोगितासम्बन्धेनापेक्षाबुद्धिनाशं प्रति स्वविषयजनकत्वसम्बन्धेन द्वित्वलौकिकप्रत्यक्षत्वेन द्वित्वलौकिकप्रत्यक्षस्य हेतुत्वादित्यर्थः, तथा च द्वितीयापेक्षाबुद्धिनाशः प्रतियोगितासम्बन्धेन द्वितीयापेक्षाबुद्धावुत्पद्यते, तत्र पूर्वापेक्षाबुद्धिजनितद्वित्वनिर्विकल्पकं स्वविषयजनकत्वसम्बन्धेन न वर्तते, यतः स्वं पूर्वापेक्षाबुद्धिजनितद्वित्वनिर्विकल्पकम् , तद्विषयः पूर्वापक्षाबुद्धिजनितद्वित्वम् , तजनकत्वं पूर्वापेक्षाबुद्धावेव वर्तत इति तेन द्वित्वनिर्विकल्पकेन पूर्वापेक्षाबुद्धरेव नाशो न तु द्वितीयापेक्षाबुद्धरिति भावः । ननु द्वित्वत्वविशिष्टप्रत्यक्षकाले चतुर्थक्षणेऽ. पेक्षाबुद्धिनाशाद् द्वित्वप्रकारकद्रव्यविशेष्यक प्रत्यक्षकालपञ्चमक्षणे द्वित्वनाशात् कथं द्वित्वस्य तत्कालीनं प्रत्यक्षमिति शङ्कतेनन्वेवमिति । 'द्वे द्रव्ये' इतिद्वित्वप्रकारकप्रत्यक्षकाले द्वित्वस्याभावेऽपि तत्पूर्वक्षणे सत्त्वतो विषयविधया कारणत्वं सम्भवत्येव, नहि सर्वस्य कारणस्य कार्यसहवर्तितयैव कारणत्वम् , प्रतियोगिनं प्रति प्रागभावस्य कारणत्वम् , न च प्रागभावः प्रतियोग्युत्पत्तिकाले वर्तते, एवं साध्यसन्देहरूपा पक्षताऽनुमितौ कारणम् , न च साध्यनिश्चयात्मकानुमित्युत्पत्तिकाले पक्षता वर्तते इति समाधत्ते-मैवमिति । एतावताऽपेक्षाबुद्धिजन्यं द्वित्वादिकमिति नैयायिकमतमुपपादितम् ॥ इदानी द्वित्वादिकमपेक्षाबुद्धिव्यङ्ग यमेवेति प्रभाकरमतमुपपादयितुमाह-प्रभाकरवृद्धानुसारिणस्त्विति-अस्य 'आहुः' इत्यनेन सम्बन्धः। सोऽयं द्वित्वस्यापेक्षाबुद्धिजन्यत्वोपपादकोऽनन्तरोपवर्णितः । द्वित्वस्य व्यङ्ग्यत्वपक्षे एकमेव द्वित्वं यदा Page #65 -------------------------------------------------------------------------- ________________ ફેર नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । कल्पनायां गौरवात् तव्यङ्गन्यत्वपक्षस्यैव युक्तत्वात् ; अन्यथा नानापुरुषीय-क्रमिकापेक्षाबुद्धिसमसंख्यतुल्यव्यक्तिकनानाद्वित्वादिकल्पनेऽपि महागौरवात् , मम तु नित्यानामेव तेषां तत्तदपेक्षाबुद्धिव्यङ्गयत्वे दोषाभावात् । न चैवं तेषां जातित्वापत्तिः, असमवायित्वे सत्यनेकसमवेतत्वस्य समवेतत्वस्यैव वा जातिव्यवहारनिमित्तत्वात् । न च विशेषेऽतिप्रसङ्गः, तत्र मानाभावात्। किञ्च, द्वित्वादेर्जन्यत्वे प्रतियोगितया[आश्रय]नाशाजन्यतन्नाशे स्वप्रतियोगिजन्यत्वसंवन्धेनापेक्षाबुद्धिनाशत्वेन हेतुता वाच्या, तथा च ब्यणुकपरिमाणहेतुपरमाणुद्वित्वस्येश्वरापेक्षाबुद्धिजन्यस्य नाशानुपपत्तिः । न च, चैत्रीयद्वित्वनाशे चैत्रापेक्षा. बुद्धिनाशो हेतुरित्येवं विशिष्यैव कल्प्यते, परमाणुद्वित्वे तु यादृशोपाधिविशिष्टाया ईश्वरापेक्षाबुद्धेहेतुत्वं तादृशोपाधिनाशादेव तन्नाशः, अविशिष्टायास्तस्या हेतुत्वे सर्वदा द्वित्वोत्पत्तिप्रसङ्गादिति वाच्यम् , स्वाव्यवहितपूर्वक्षणावच्छिन्नत्वेनैव तस्या अपेक्षाबुद्धित्वमिति तन्नाशात् परमाणुद्वित्वनाशे तस्य क्षणिकत्वप्रसङ्गात्, अतिरिक्तानुगतोपाधेश्वानिर्वचनात् । अपि चैवं तत्तवित्वनाशे तत्तदपेक्षाबुद्धिनाशत्वेन हेतुत्वे महागौरवम् । न च फलमुखत्वादस्यादोषत्वम् , अस्यां कल्पनायामेतावद्गुरुतरं कल्पनीयमिति यदाउपेक्षाबुद्धिर्भवति तदा तदा व्यज्यते, अपेक्षाबुद्धयभावकालेऽनभिव्यक्तं भवति, जन्यत्वपक्षे तु यद् द्वित्वं ययाऽपेक्षाबुद्धथा जन्यते तदपेक्षाबुद्धिनाशान्नश्यति, एवं कालान्तरे द्वित्वान्तरमपेक्षाबुद्धयन्तरादुत्पद्यत्ते, तन्नाशानश्यति चेति बहूनि द्वित्वानि तत्प्रागभावास्तद्ध्वंसाश्च बहवः कल्पनीया इति जन्यत्वपक्षो व्यङ्ग यत्वपक्षापेक्षयाऽतिगौरवकदर्थितत्वान्न युक्तः, व्यङ्गयत्वपक्ष एव ततो लाघवाद् युक्त इत्याह- अनन्तद्वित्वादीति । तद्व्यङ्गयत्वपक्षस्यैव द्वित्वादीनामपेक्षाबुद्धिव्यङ्गयत्वपक्षस्यैव । अन्यथा द्वित्वादीनामपेक्षाबुद्धिव्यनाथत्वमनभ्युपगम्याऽपेक्षाबुद्धिजन्यत्वस्यैवाभ्युपगमे । नानेति- एकदाऽपि नानापुरुषीया अपेक्षाबुद्धयः, याश्चैकपुरुषीयाः ऋमिका विभिन्नकालीना अपेक्षाबुद्धयः, तत्समसङ्घयकास्तुल्यव्यक्तिका ये नाना द्वित्वादयस्तेषां कल्पनेऽपि महागौरवादित्यर्थः, अपिना तत्तत्प्रागभावतत्तध्वंसकल्पने तु सुतरां महागौरवादिति दर्शितं भवति । मम तु प्रभाकरमतानुयायिनः पुनः । तेषां द्वित्वादीनाम् । ननु नित्यत्वे सत्यनेकसमवेतत्वात् तेषां जातित्वं प्रसज्यत इत्याशङ्कय प्रतिक्षिपति-न चेति । एवं व्यङ्गयत्वपक्षे द्वित्वादीनां नित्यत्वाभ्युपगमे । तेषां द्वित्वादीनाम् । निषेधे हेतुमाह-असमवायित्वे सतीति-समवायानुयोगिभिन्नत्वे सतीत्यर्थः, द्वित्वादौ तु द्वित्वत्वादिकं समवायेन वर्तत इति समवायानुयोग्येव द्वित्वादीति समवायानुयोगिभिन्नत्वस्य तत्राभावान्न जातित्वापत्तिरित्यर्थः । नन्वसमवायित्वे सति समवेतत्वं विशेषेऽप्यस्तीति तत्राप्युक्तनिमित्तबलाजातित्वव्यवहारापत्तिरित्याशङ्का प्रतिक्षिपति-न चेति । तत्र विशेषे । जन्यत्वपक्षे दोषान्तरमुपदर्शयति-किश्चेति । तन्नाशे द्वित्वनाशे, आश्रयनाशाजन्यत्वस्य कार्यतावच्छेदककोटावनिवेशे यत्रापेक्षाबुद्धिकाले आरम्भकसंयोगनाशानुगुणो विभागः, ततो द्वित्वोत्पत्तिक्षणे आरम्भकसंयोगनाशः, ततो द्वित्वत्वनिर्विकल्पकोत्पत्तिक्षणे द्वित्वाश्रयद्रव्यस्य न शः, ततोऽपेक्षाबुद्धिनाशक्षणे द्वित्वनाशः, तत्र द्वित्वनाशात् पूर्वमपेक्षाबुद्धिनाशस्याभावाद् व्यभिचारः स्यात् तद्वारणायाश्रयनाशाजन्यत्वस्य कार्यतावच्छेदकतया निवेशः । 'व्यणुकपरिमाण हेतुपरमाणुद्वित्वस्य' इत्यस्य 'नाशानुपपत्तिः' इत्यनेन सम्बन्धः, तादृशद्वित्वनाशस्याश्रयनाशाजन्यत्वेन निरुक्तकार्यतावच्छेदकाक्रान्ततया तादृशद्वित्वकारणीभूताया ईश्वरीयापेक्षाबुद्धे शासम्भात् तादृशनाशरूपकारणाभावेन तदनुपपत्तिरित्यर्थः । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । यादृशोपाधिविशिष्टायाः परमाणुद्वित्वोत्पत्त्यवहितपूर्वकालविशेषविशिष्टायाः। तन्नाशः परमाणुद्वित्वनाशः । तस्या ईश्वरापेक्षाबुद्धः। सर्वदेति- ईश्वरापेक्षाबुद्धिरूपकारणस्य सर्वदा सत्त्वेन परमाणुद्वित्वरूपकार्यस्य सर्वदोत्पत्तिप्रसङ्गादित्यर्थः। निषेधहेतुमाह-स्वाव्यवहितेति । तस्या ईश्वरापेक्षाबुद्धेः। तन्नाशात् परमाणुद्वित्वोत्पत्त्यव्यवहितपूर्वक्षणावच्छिन्नत्वविशिष्टेश्वरापेक्षावुद्धिनाशात् । तस्य परमाणुद्वित्वस्य । अतिरिक्तति- परमाणुद्वित्वोत्पत्त्यव्यवहितपूर्वक्षणव्यतिरिक्तेत्यर्थः। विशिष्य कार्यकारणभावो महागौरवग्रस्तत्वात् कल्पयितुं न शक्य इत्याह- अपि चेति । फलमुखगौरवस्याउदोषत्वमाशङ्कय परिहरति-न चेति । अस्य विशिष्यकार्यकारणभावकल्पननिबन्धनमहागौरवस्य । यद् गौरवं पूर्व नोप Page #66 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । प्रागेवोपस्थितौ तहोषताया बाहुलेयत्वात् , तददोषत्वे प्रागनुपस्थितेरेव बीजत्वात् । अपि च मानसत्वादिव्याप्यजातिविशेषेणापेक्षाबुद्धेर्द्वित्वादिहेतुत्वे ईश्वरापेक्षाबुद्ध्या परमाणुद्वित्वाद्यजननापत्तिः, ईश्वरज्ञानसाधारणद्वित्वादिजनकतावच्छेदकजातिस्वीकारे च जन्यसाक्षात्कारत्वादिना सांकर्यम् , त्रित्वाद्युत्पत्तिकाले द्वित्वाद्युत्पत्त्यात्तिश्च दुर्निवारा । एतेन द्वित्वादिजनकतावच्छेदकतयाऽपेक्षाबुद्धिनिष्ठलौकिकविषयत्वस्वीकारोऽपि निरस्तः, परार्द्धादिसंख्यानुत्पत्तिप्रसक्तेश्च तदाश्रययावद्व्यवृत्तिलौकिकविषयताया असम्भवात् । ईश्वरीयापेक्षाबुद्ध्यैव तदुत्पत्त्यङ्गीकारे चान्यत्रापि कारणान्तरोच्छेद इति न किश्चिद् एतद् ” इत्याहुः। केचित् तु-" द्वित्व-त्रित्वादिकं तुल्यव्यक्तिवृत्तिकमेव सामान्यम् , अनित्यस्य संयोगादेरिव नित्यस्यापि द्वित्वादेर्व्यासज्यवृत्तित्वे विरोधाभावात् । भिन्नेन्द्रियग्राह्याणां रूप-रसादीनामिव सामान्येन्द्रिय-- ग्राह्याणामपि सत्यप्येकावच्छेदेन समानदेशत्वे प्रतिनियतव्यञ्जकव्यङ्गयत्वे विरोधाभावात् , सहचारदर्शन स्थितं तस्य फलमुखस्यादोषत्वेऽपि यच्च गौरवं पूर्वमेवोपस्थितं सत् कल्पनाप्रतिप्रन्थि तस्य फलमुखस्यापि दोषत्वमेवेति निषेधहेतुमुपदर्शयति-अस्यामिति । तदोषतायाः फलमुखगौरवदोषतायाः । तददोषत्वे फलमुखगौरवस्यादोषत्वे । यच्च, द्वित्वादिजनकतावच्छेदिकां मानसत्वव्याप्या या जातयः, तद्रूपेण चांपक्षाबुद्धर्द्वित्वादिकं प्रति कारणत्वम् , तदपि न समीचीनमित्याह-अपि चेति । मानसत्वव्याप्यजातिविशेषो मनोरूपेन्द्रियजन्यप्रत्यक्ष एवं स्यात्, ईश्वरपेक्षाबुद्धिस्तु नित्यत्वान्न मनोरूपेन्द्रियजन्येति न तत्र मानसत्वव्याप्यजातिरिति कारणतावच्छेदकधर्माऽनाक्रान्तत्वादन्यस्या अपेक्षाबुद्धेः परमाणुगतैकत्वविषयाया अभावात् परमाणुद्वित्वाद्युत्पत्तिर्न स्यात्, यदि चेश्वरज्ञान-तदन्यापेक्षबुद्धिगतमेकं सामान्यमुररीकृत्य तस्यैव द्वित्वादिजनकतावच्छेदकत्वं स्वीक्रियते तदा जन्यसाक्षात्कारत्वादिना तस्य सामान्यस्य साङ्कय दुष्परिहरमेव, जन्यसाक्षात्कारत्वाभाववतीश्वरज्ञाने तस्य सामान्यस्य तदभाववत्यपेक्षाबुद्धयनात्मके जन्यसाक्षात्कारे जन्यसाक्षात्कारत्वस्य तदुभयोश्च जन्यसाक्षात्कारात्मकापेक्षाबुद्धौ समावेशात् , एवमुक्तसामान्येनापेक्षाबुद्धित्विादिकं त्रित्वादिकं च प्रति कारणमित्येकेन केनचिदपेक्षात्मकज्ञानेन यदा त्रित्वादिकमुत्पद्यते तदा द्वित्वादिकमप्युत्पद्येत, तद्रूपकारणस्य सर्वान् प्रत्यविशिष्टत्वाद् विशिष्य कारणान्तरस्यानिरूक्तेरित्याह- ईश्वरापेक्षाबुद्धयेति । ___ 'एतेन इत्यस्य 'निरस्तः' इत्यनेनान्वयः एतेन-त्रित्वायत्पत्तिकाले द्वित्वाद्यत्पत्तिप्रसङ्गेन । निरासे हेत्वन्तरमाह-परा. दिीति। तदाश्रयेति-परार्द्धसङ्ख्याश्रयेत्यर्थः, परार्द्धसङ्खयाश्रयाणां यावतां द्रव्याणां लौकिकप्रत्यक्षस्यास्मदादीनामसम्भवेन तवृत्तिलौकिकप्रत्यक्षविषयताया असम्भवादित्यर्थः । ईश्वरीयेति-ईश्वरस्य सर्वविषयको लौकिक एव साक्षात्कारः, तदात्मकापेक्षाबुद्धिनिरूपितलौकिकविषयतायाः परार्धादिसङ्ख्याश्रययावद्रव्य वृत्तित्वेन तथाभूतलौकिकविषयताश्रयेश्वरीयापेक्षाबुद्धथैव परार्धादिसङ्खयोत्पत्तिस्वीकारे त्वन्यत्रापीश्वरीयापेक्षाबुद्धिरेव कारणमित्यस्मदाद्यपेक्षाबुद्धेर्द्वित्वादिकारणत्वमुच्छ्येित, अतो द्वित्वादिजनकतावच्छेदकतयाऽपेक्षाबुद्धिनिष्ठलौकिकविषयत्वस्वीकारोऽपि न समीचीन इत्येवं प्रभाकरानुसारिण आहुरित्यर्थः ॥ अन्येषां मतमुपदर्शयति-केचित् त्विति- अस्य 'आहुः' इत्यनेन सम्बन्धः । समानव्यक्तिवृत्तिकं द्वित्वमेकमेव, एवं त्रित्वादिकमपि, तच सामान्यमेवेत्यर्थः। ननु द्वित्वादिकं व्यासज्यवृत्ति, सामान्यं च व्यासज्यवृत्ति न भवतीति कथं द्वित्वादेः सामान्यरूपत्वमत आह-अनित्यस्येति । यदा च द्वित्व-त्रित्वादिकं तुल्यव्यक्तिवृत्तिकं सामान्यरूपं तदा तेषां समानेन्द्रियग्राह्याणां कथं नैकव्यञ्जकव्यजयत्वम् ? कुतः प्रतिनियतव्यञ्जकव्यङ्गयत्वमित्पेक्षायामाह-भिन्नेन्द्रियग्राह्याणामिति । 'सामान्येन्द्रियग्राह्याणामपि' इति स्थाने 'समानेन्द्रियग्राह्याणाम्' इति पाठो युक्तः। ननु समानेन्द्रियप्राह्याणां घट पटादीना प्रतिनियतव्यञ्जकव्यङ्गयत्वं न, किन्त्वेकव्यञ्जकव्यङ्गयत्वमेवेति कथं प्रकृते प्रतिनियतव्यजकव्यङ्गयत्वमित्यन आह- सहचारेति- केषाश्चित् समानेन्द्रियग्राह्याणामेकव्यञ्जकव्यङ्गयत्वदर्शनेन यत्र समानेन्द्रियग्राह्यत्वं तत्रैकव्यजक Page #67 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । मात्रस्याऽकिञ्चित्करत्वात् , भेदश्च विरुद्धधर्माध्यासात् , स च न्यूनाधिकदेशपर्याप्तवृत्तिकत्वम्" इत्याहुः । अपरे तु-"घट-कुट-कुड्य-कुशूलेषु द्वित्व-त्रित्वादिप्रतीतावेकतरनाशे तद्वृत्तेर्द्वित्वादेरपि संयोगादेरित्र विनाशप्रत्ययादनित्यवृत्ति नानाव्यक्तिकमेव द्वित्वादिकम् , आश्रयविनाशोत्पादाभ्यामेव तस्योत्पाद-विनाशी, असमवायिकारणं त्वाश्रयस्यैकत्वं परिमाणं वा, एकव्यक्तिवृत्तिकमेकत्वमिव तुल्यव्यक्तिवृत्तिकं द्वित्वाद्यपि नाऽनेकम् , तुल्यव्यक्तिवृत्तित्वादेः प्रतिबन्धकत्वात् , बुद्धिविशेषस्तव्यञ्जको न तूत्पादकः, नित्येषु त्वेकव्यक्तिकमनेकव्यक्तिकं वा नित्यम्” इत्याहुः। ___ वयं तु ब्रूमः-जन्यत्वनयेऽपेक्षाबुद्धेर्जन्यतावच्छेदकमेकत्वान्यसंख्यात्वं वाच्यम् , यद्वा, एकत्वजन्यतावच्छेदकतया द्वित्वमारभ्य परार्द्धपर्यन्तमेका जातिः सिद्ध्यति लाघवात् , न तु जन्यसंख्यात्वमेवैकत्व. व्यङ्गन्यत्वमेवेति नियमो न कल्पयितुं शक्यः, क्वचित् पार्थिवे लोहलेख्यत्वदर्शनेऽपि यत्र पार्थिवत्वं तत्र लोहलेख्यत्वमिति नियमो नास्ति, वजे व्यभिचारादिति सहचारदर्शनमात्रं न नियमप्रयोजकमित्यर्थः । ननु द्वित्व-त्रित्वादीनां सामान्यरूपत्वे भेद एव कथम् ? येन प्रतिनियतव्यजकव्यङ्गयत्वं स्यादित्यत आह-भेदश्चेति । स च विरुद्धधर्मश्च । न्यूनेति- द्वित्वस्य त्रित्वापेक्षया न्यूनदेशपर्याप्तवृत्तिकत्वं त्रित्वस्य द्वित्वापेक्षयाधिकदेशपर्याप्तवृत्तिकत्वमित्येवं विरुद्धधर्माध्यासाद् द्वित्व-त्रित्वादीनां भेद इत्यर्थः । एतन्मते सर्व द्वित्वादिकं नित्यं सामान्यरूपमेवेति ॥ अनित्यगतं द्वित्वादिकमनित्यं नित्यगतं पुनर्नित्यमिति मतान्तरमुपदर्शयति- अपरे विति- अस्यापि 'आहुः' इत्यनेन सम्बन्धः । तस्य द्वित्वादेः । असमवायिकारणं तु द्वित्व-त्रित्वादीनामसमवायिकारणं पुनः, आश्रयद्वयगतमेकत्वद्वयं परिमाणद्वयं वा द्वित्वस्यासमवायिकारणम् , त्रित्वस्य त्वायत्रयगतमेकत्वत्रयं परिमाणत्रयं वाऽसमवायिकारणम् , एवं दिशा चतुष्ट्रादीनामप्यसमवायिकारणं बोध्यम् । नानाव्यक्तिकं द्वित्वाद्विकं यथा नाना न तथा तुल्यव्यक्तिकम् , तत् तु एकव्यक्तिवृत्तिकमेकत्वमिवैकमेवेत्याह- एकव्यक्तिकमिति । अनेकत्वं तत्र कथं नेत्यपेक्षायामाह- तुल्यव्यक्तिवृत्ति. स्वादेरिति । प्रतिवन्धकत्वात् अनेकत्वस्य प्रतिबन्धकत्वात् । वुद्धि विशेषः 'अयमैकोऽयमेकः' इत्यपेक्षाबुद्धिरूपः । तदव्यञ्जकः द्वित्वादिव्यञ्जकः, अर्थाद् द्वित्वादिप्रत्यक्षकारणम् । न तत्पादकः द्वित्वादेरुत्पादको न भवति । यदा चाश्रयविनाशोत्पादाभ्यामेव द्वित्वादीनां विनाशोत्पादौ, तदा नित्यद्रव्यरूपस्याश्रयस्य विनाशोत्पादयोरभावात् तद्गत द्वित्वादिक न विनश्यति नाप्युत्पद्यते, किन्तु नित्यमित्याह-नित्येषु विति। 'एक.व्यक्तिकम्' इत्यस्य तुल्यव्यक्तिवृत्तिकमित्यर्थः, यथाश्रुतं तु द्वित्वादौ न सङ्गतं द्वित्वादेरेकव्यक्तिमात्रवृत्तित्वाभावात् । अत्र ग्रन्थकारः स्वामिप्रेतमुपदर्शयति- वयं विति- अपेक्षाबुद्धिर्द्वित्वादेनिमित्तकारणम् , एकत्वं त्वसमवायिकारणम्, तत्र निमित्तकारणस्यापेक्षाबुद्धर्जन्यतावच्छेदकमेकत्वान्यसङ्ख्यात्वं द्वित्वाद्यारभ्य परार्द्धपर्यन्तसङ्ख्यावृत्ति वाच्यम् । यद्वा अथवा, एकत्वं यद् द्वित्वादिपरार्द्धपर्यन्तसङ्ख्याया असमवायिकारणं तन्निरूपितजनकतावच्छेदकतया द्वित्वमारभ्य परार्द्धपर्यन्तमेका जातिलाघवात् सिद्धयतीत्यर्थः । ननु अवयवगतमेकत्वमवयविगतैकत्वं प्रति असमवायिकारणमित्येकत्वस्यकत्वमपि कार्यमिति तदेकत्वसाधारणं परार्द्धपर्यन्तजनसङ्ख्यावृत्तिजन्यसङ्ख्यात्वमेवैकत्वजन्यतावच्छेदकं ततोऽपि लाघवादस्त्वित्यत आह-न त्विति । निषेधे हेतुमाह-कारणेति- अवयविगतैकत्वं प्रति यदवयवगतैकत्वस्य कारणत्वं तत्र कारणैकार्थप्रत्यासत्तिः कारणतावच्छेदकसम्बन्धः, अर्थात् समवायसम्बन्धेनावयव्येकत्वं प्रति स्वसमवायिसमवेतत्वसम्बन्धनावयवगतैकत्वं कारणमिति, द्वित्वादिकं प्रति यदेकत्वस्य कारण. त्वं तत्र कार्यकार्थप्रत्यासत्तिः कारणतावच्छेदकसम्बन्धः, अर्थात् समवायसम्बधेन द्वित्वादिकं प्रति समवायसम्बन्धेनैकत्वं कारणमिति, तथा च कारणतावच्छेदकसम्बन्धभेदेन तदवच्छिन्नकारणताया भिन्नत्वे तन्निरूपितकार्यताया अपि भिन्नत्वान्न तयोः कार्यत्वयोरेकमवच्छेदकम्, किन्तु समवायसम्बन्धावाच्छिन्नेकत्वनिष्ठकारणतानिरूपित. समवायसम्बन्धावाच्छिन्नकत्वनिष्ठकार्यताया जन्यैकत्वत्वमवच्छेदकम् , स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नैकत्वनिष्ठकारणतानिरूपितसमवायसम्बन्धावच्छिन्नद्वित्वादिनिष्टकार्यताया द्वित्वमारभ्य परार्द्धपर्यन्तसङ्ख्यावृत्तिजातिविशेषोऽवच्छेदक इत्यत आह Page #68 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । जन्यतावच्छेदकम् , कारण-कार्यैकार्थप्रत्यासत्तिभेदात्, इति तस्यैव द्वित्वादिपरार्द्धपर्यन्तसंख्यावृत्तिजातिविशेषितस्य तथात्वम् । व्यङ्गयत्वनये चैकत्वान्यसंख्याप्रत्यक्षत्वम् , उक्तजातिविशेषप्रत्यक्षत्वं वाऽपेक्षाबुद्धेर्जन्यतावच्छेदकं वाच्यम्, द्वयोरप्यनयोर्मतयोः ‘एको धान्यराशिः' इत्यादिप्रत्ययसिद्धे सामूहिकैकत्वे व्यभिचारः । न च तत्रैकत्वं गौणमेव, वस्तुतस्त्वपेक्षाबुद्ध्या राशि-सेना-वनादौ बहुत्वविशेष एवोत्पाद्यते व्यज्यते वेति वाच्यम् , स्वारसिकैकत्वानुभावविरोधात् , ' एते बहवः कणाः, एते बहवः करि-तुरग-रथ पदातयः, एते बहवः आम्र-निम्ब-धव-खदिराः' इत्यादौ राशित्व-सेनात्व-वनत्वाद्यनापत्तेश्च, अपेक्षाबुद्ध्या तत्र राशित्वादिरूपस्यैव बहुत्वस्योत्पत्तिरभिव्यक्तिर्वेति त्वयोपगमात् । न च बहुपदशक्यतावच्छे दकं बहुवचनप्रवृत्तिनिमित्तं वा बहुत्वत्वमेकत्वद्वित्वान्यसंख्यात्वम् , त्रित्वमारभ्य परापर्यन्ते वृत्तिर्जातिविशेषो वा, राशित्वादिरूपबहुत्वे चापेक्षाबुद्धिविशेषजन्यतावच्छेदकस्तव्याप्य.. एव जातिविशेषो बहुत्वत्वम् , तदवच्छिन्नोपस्थितिश्चैकवचनान्तराश्यादिपदादेवेति शाब्दबोधस्थले नानुपपत्तिः, प्रत्यक्षे च 'बहवः' इत्यादौ कचित् दोषवशात् तदप्रहान्नानुपपत्तिरिति वाच्यम् , अनुभूयमानतस्यैवेति । 'जातिविशेषितस्य' इति स्थाने 'जातिविशेषस्य' इति पाठो युक्तः। तथात्वम् एकत्वजन्यतावच्छेदकत्वम् । व्यङ्गयत्वनये च द्वित्वादिकमपेक्षाबुद्धिब्यङ्गयमिति प्रभाकरमते तु । 'एकरवान्यसङ्ख्याप्रत्यक्षत्वम्' इत्यत्र 'एकत्वान्य' इति विशेषणोपादानादेकत्वप्रत्यक्षस्यापेक्षाबुद्धयजन्यत्वेऽपि न क्षतिः। उक्तजातिविशेषप्रत्यक्षत्वमितिद्वित्वमारभ्य परार्द्धपर्यन्तं यैका जातिस्तद्विशिष्टप्रत्यक्षत्वमित्यर्थः । धान्यसमूहगतैकत्वं यद् उत्पद्यते तत्रोक्तसङ्खयावृत्तिजातिविशेषो न वर्तते, नवा तत्प्रयक्षं तादृशजातिविशिष्टप्रत्यक्षं भवति, अथापि तदेकत्वमेकत्वेन जन्यते, अपेक्षाबुद्धया तु नैकत्वं नवा तत्प्रत्यक्षमिति तत्रोक्तकार्यकारणभावो नास्ति, नवा तदुपपादको मतद्वयेऽपि कश्चित् कार्यकारणभावोऽस्ति, यच समवायेनैकत्वं प्रति स्वसमवायिसमवेतत्वसम्बन्धेनैकत्वं कारणम् , तथा कारणस्यैकत्वस्याभावेऽपि तदेकत्वं तदेकत्वप्रत्यक्ष चोपजायत इति व्यभिचारो मतद्वयेऽपि दुरुधर इत्यतो व्यङ्गयत्व-जन्यत्वपक्षी न समीचीना वित्याह-द्वयोरपीति । 'न च' इत्यस्य ‘वाच्यम्' इत्यनेनान्वयः । तत्र धान्यसमूहे, उत्पाद्यत इति न्यायमते, व्यज्यत इति प्रभाकरमते ‘एको धान्यराशिः' इत्येवमेकत्वमेव स्वरसतोऽनुभूयते, न च स्वरसतोऽनुभूयमानस्य गौणत्वं युक्तम् , नवा तत्राप्रतीयमानस्य बहुत्वविशेषस्य कल्पनं युक्तमिति निषेधे हेतुमुपदर्शयति- स्वारसिकैकत्वेति । अपि च 'एते बहवः कणा राशिः' इति, 'एते बहवः करि-तुरग-रथ-पदातयः सेना' इति, 'एते बहव आम्र-निम्ब-धव-खदिरादयो वनम्' इति च प्रतीतिरुपजायते. उक्तमतद्वये तु राशित्वं सेनात्वं वनत्वं च बहुत्वविशेषरूपमपेक्षाबुद्धयोत्पद्यतेऽभिव्यज्यते वेत्युपेयते, तथा च 'बहवः' इत्यनेनैव बहुत्वस्यावभासमानत्वाद्राशित्वादिकं तदनधिकं तत एव लन्धमिति तथाप्रतीतिर्न स्यादित्याह-एत इति । त्वया नैयायिकेन प्रभाकरेण वा । ननु बहुपदशक्यतावच्छेदकं यद् बहुत्वत्वं तद्वयाप्यजातिविशेष एव राशित्वादिरूपबहुत्वे इति सामान्यरूपेण बहुत्वत्वेन विशिष्टस्याश्रये तद्व्याप्यबहुत्वत्वविशेषविशिष्टस्यावच्छिन्नान्वयसम्भवाद् 'एते बहवः कणा राशिः, एते बहवः करि-तुरग-रथ-पदातयः सेना, एते बहव आम्र-निम्ब-धव-खदिरा वनम्' इत्यादौ शाब्दबोधस्य नानुपपत्तिः, उक्तबहुत्वद्वयस्य सत्त्वेऽपि प्रत्यक्षे यदेकमेव बहुत्वत्वमनुभूयते तत्र सौसादृश्यलक्षणदोषविशेष एव बहुत्वत्वान्तरप्रहप्रतिबन्धक इति तदप्रतिभासनमप्युपपद्यत इत्याशङ्कय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः । 'राशित्वादि' इत्यादिपदात् सेनात्व-वनत्वादेरुपग्रहः । तद्वयाप्य एव त्रित्वादिपरार्द्धपर्यन्तसङ्ख्यावृत्तिजातिविशेषव्याप्य एव । तदवच्छिन्नोपस्थितिश्च त्रित्वादिपरार्द्धपर्यन्तसङ्ख्यावृत्तिजातिविशेषव्याप्यजातिविशेषावच्छिन्नोपस्थितिश्च, तथा च यत्र 'एते बहवः कणाः' इत्यायेव प्रयुज्यते न तु राश्यादिपदमपि तत्र प्रयुज्यते तत्रोकजातिविशेषव्याप्यजातिविशेषावच्छिन्नस्य प्रतीतिर्न भवति, यत्र तु 'एते बहवः कणा राशिः' इत्यादि प्रयुज्यते तत्रोक्तजातिविशेषव्याप्यजातिविशेषावच्छिन्नस्यापि शाब्दबोधो भवति । शब्दाऽनियन्त्रितविषये प्रत्यक्षे च कथमुक्कजातिद्वयावच्छिन्नस्य क्वचिदनवभासनमित्यपेक्षायामाह- प्रत्यक्षे चेति । तद्ग्रहात् उक्तजातिविशेषव्याप्यजातिविशेषाऽप्रहात् । निषेधे हेतुमाह- अनुभूय Page #69 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । कत्वप्रतीतेर्बहुत्वविशेषेण समर्थने द्वित्वादिप्रतीतेरप्येकत्वविशेषेणैव समर्थयितुं शक्यत्वात्, वास्तवाभावे गौणानुपपत्तेरप्युक्तत्वाच्च । न च ' 'द्वाविमौ नील-पीतौ' इति गौणद्वित्वाद् विलक्षणं 'द्वाविमौ घट-पटौं' इत्यत्र द्वित्वमनुभूयते, न चैकत्र ज्ञाने द्वित्वं प्रकारः, अन्यत्र तु नेत्यपि विनिगन्तुं शक्यम् , विजातीयज्ञानविषयत्वसंबन्धेन स्वस्थितस्वप्रकारतया बुद्धिवैलक्षण्योपपादनमप्युभयत्र तुल्ययोगक्षेमम् । एकत्रापि च घटे नीलत्व-घटत्वाभ्यां द्वित्वमनुभूयत एव, अनुभूयत एव च 'एते वृक्षा वनम्' इति बहुत्वावच्छिन्नेऽपि केनचिदुपाधिनैकत्वमिति, स्वसामग्रीप्रभवैकत्वद्वित्वाद्यनन्तपर्यायोपेतद्रव्य एवापेक्षाबुद्धिहेतोरपेक्षात्मकभावे यथाक्षयोपशमं कदाचिदेकत्वप्रकारकं कदाचिच्च द्वित्वादिप्रकारकं ज्ञानं जायत इत्यपेक्षाबुद्धिगम्यत्वमेव द्वित्वादेर्युक्तम् । अत नयरूपत्वादस्या नयान्तरसंयोजनया सप्तभङ्गीसंगतिरपि सङ्गता, यादृशविषयतामानैकत्वप्रतीतेरिति- 'एको धान्यराशिः' इत्यत्रैकशब्देनैकवचनेनैकत्वप्रतीतेत्रित्वादिपरार्द्धपर्यन्तसङ्ख्यावृत्तिबहुत्वत्व. व्याप्यापेक्षाबुद्धिविशेषजन्यतावच्छेदकजातिविशेषविशिष्टबहुत्वविशेषात्मकराशित्वविषयकत्वेनोपपादने द्वित्व-त्रित्वादिप्रतीतेरप्येकत्वत्वव्याप्यजातिविशेषविशिष्टैकत्वविशेषेणैवोपपादयितुं शक्यत्वाद् वास्तवद्वित्व-त्रित्वादेरप्युच्छेदः प्रसज्येत, यदि च वास्तवद्वित्वादि न भवेत् तदैकत्वविशेषलक्षणगौणद्वित्वादि कल्पयितुं न शक्यत इति विभाव्यते तर्हि सामूहिकैकत्वस्यानुभूयमानस्य वास्तवत्वे बाधाभावेन तत्रापि तदैकत्वं वास्तवं विहाय गौणं बहुत्वविशेषादिरूपं न कल्पयितुं शक्यं क्वचिदपि सामूहिकैकत्वस्य वास्तवस्याभावे तद्वौणानुपपत्तरित्यर्थः । उक्तत्वाच्चेति- 'अथैकत्व-द्वित्वादि तत्तद्धर्मप्रकारकबुद्धिविषयत्वादिकं गौणमेव' इत्याद्याशङ्कय अन्ते 'वास्तवद्वित्वाद्यभावे ज्ञानाकारतापर्यवसानेन साकारवादप्रसङ्गाच्च' इत्यनेन प्रन्थेनोक्तत्वाचेत्यर्थः । 'नच' इत्यस्य 'अनुभूयते' इत्यनेनान्वयः, द्वाविमौ नील-पीती' इत्यत्र गौणं नील-पीतगतं द्वित्वं विषयः, 'द्वाविमौ घट-पटौ' इत्यत्र मुख्यं द्वित्वं विषय इति कल्पना तदा स्याद् यदि प्रतीत्योबेलक्षण्यं तद्विषययोर्वा वैलक्षण्यमनुभूयेत, न च तथा वैलक्षण्यमनुभूयत इति, एवं च यदि 'द्वाविमौ नील-पीतौ' इत्यत्र गौणं द्वित्वं विषयस्तर्हि 'इमौ घट-पटौ' इत्यत्र गौणमेव द्वित्वं विषयोऽस्तु, 'द्वाविमौ घट-पटौ' इत्यत्र मुख्यद्वित्वस्य विषयत्वे 'द्वाविमौ नील-पीतौ' इत्यत्रापि मुख्यस्यैव द्वित्वस्य विषयत्वं भवतु. अनुभवस्य समानस्यैवोभयत्र सद्भावादिति भावः । 'न च' इत्यस्य ‘शक्यम्' इत्यनेनान्वयः । एकत्र ज्ञाने 'द्वाविमौ घट-पटौ' इत्यस्मिन् ज्ञाने घट-पटरूपविशेष्ये द्वित्वं प्रकारः, अन्यत्र तु न 'द्वाविमौ नील-पीतौ' इति ज्ञाने पुनर्नील-पीतरूपविशेष्ये द्वित्वं न प्रकारः, इत्यपि एवंप्रकारेणापि, विनिगन्तुं न च शक्यं विनिगमकहेतोरभावात् , इत्युभयत्रैव प्रकारतया भासमानस्य द्वित्वस्यैकत्र गौणत्वमपरत्र मुख्यत्वमित्यपि कल्पयितुं न शक्यमिति भावः । 'द्वाविमौ नील-पीतौ' इत्यत्र द्वित्वं स्वस्मिन्नेव प्रकारतया भासते, 'द्वाविमौ घट-पटौ' इत्यत्र तु द्वित्वं पट-पटयोः प्रकारतया भासते, इत्येवं बुद्धिवलक्षण्यकल्पनमपि न विशेषकम् , यतः 'द्वाविमौ घट-पटौ' इत्यत्र द्वित्वं स्वस्मिन् प्रकारतया भासते, 'द्वाविमौ नील-पीतौ' इत्यत्र तु द्वित्वं नील-पीतयोः प्रकारतया भासते इत्यपि वक्तुं शक्यत एव, द्वित्वे द्वित्वस्य विजातीयज्ञानविषयत्वसम्बन्धस्य प्रकारतावच्छेदकस्योभयत्र सम्भवादित्याहविजातीयज्ञानविषयत्वसम्बन्धेनेति । 'स्वस्थितस्वप्रकारतया' इति स्थाने 'स्वस्मिन् स्वप्रकारतया' इति पाठो युक्तः । यद्यनुभवमुखप्रेक्षाविदग्धो भवति विपश्चित् तदाऽपेक्षाभेदेनैकत्रापि द्वित्वं बहृष्वप्येकत्वमनुभूयमानं नापलपनीयम् , एकत्रापि द्रव्येऽपेक्षात्मकभावे सतामेकत्वाद्यन्तपर्यायाणां मध्यादपेक्षाबुद्धिरूपकारणबलतो यथाक्षयोपशमं कदाचिदेकत्वप्रकारकै ज्ञानं कदाचिद् द्वित्वादिप्रकारकं ज्ञानं जायत इत्यतोऽपेक्षाबुद्धिगम्यत्वमेव द्वित्वादेर्युक्तमित्युपदर्शयति- एकत्रापि च घट इति। 'अनुभूयत एव' इत्यनुभवप्रमाणमावेदितम् , एवमग्रेऽपि । एकस्मिन् द्रव्येऽनन्तपर्यायसम्भवाऽऽवेदनायोक्तम्- स्वसामग्रीप्रभवेति- स्वस्वसामग्रीप्रभवेत्यर्थः । 'अपेक्षात्मकभावे' इति द्रव्यस्य विशेषणम् , अपक्षात्मको भावः स्वभावो यस्य सोऽपेक्षात्मकभावः, तस्मिन्नित्यर्थः, यत एवापेक्षात्मकस्वभावमनन्तपर्यायोपेतद्रव्यं तत एव तत्रापेक्षाबुद्धिरूपकारणात् कस्यचित् पर्यायस्य कदाचिदभिव्यक्तिरित्यभिसन्धिः । अत एव द्वित्वादेरपेक्षात्मकबुद्धिगम्यत्वादव । अस्या अपेक्षाबुद्धः, एफयापेक्षाबुद्धयैकः पर्यायोऽभिव्यज्यते, द्वितीयया तया द्वितीयः पर्यायस्तत्पर्यायप्रतिक्षेपात्माऽभिव्यज्यते, ताभ्यां सम्मिलिताभ्या क्रमेण युगपद् वा तादृशपर्यायद्वयं तथाऽभिव्यज्यत इति तथाऽभिव्यज्यमानपर्यायकदम्बकावगतये सप्तभङ्गीवाक्यं Page #70 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । विशिष्टाया अपेक्षाबुद्धेः परैर्जनकत्वं व्यञ्जकत्वं वाऽभ्युपगम्यते तादृशविषयतानिरूपितापेक्षात्वाख्यविषयता द्वित्वादौ नास्माकमसुलभा। सामान्य विशेषत्वादेरापेक्षिकत्वेऽपीयमेव रीतिरनुसतव्या । न चैवमनपेक्षकत्व-द्वित्वादिप्रत्यक्षानुपपत्तिः, द्रव्यनयालम्बनेनानपेक्षात्मकविषयतान्तरस्यापि स्वीकारात् । अत एव सापेक्षत्वा-ऽनपेक्षत्वाभ्यामपि स्याद्वादः, अस्मदुक्त पक्ष एवापेक्षाबुद्धि-द्वित्वबुद्ध्योः पौर्वापर्यानवभासोपपत्तिः, अनन्तकार्यकारणभाव-प्रतिबध्यप्रतिबन्धकभावादिकल्पनागौरवदूषणानवकाशश्चेति सर्वमवदातम् । तस्मात् स्वसमये परसमये एकत्व-द्वित्वादिप्रकारकनानाविधलौकिकव्यवहारे च नयापेक्षयैव विविक्तो बोध इति स्थितम् ॥ ४ ॥ फलितमाह तेन सापेक्षभावेषु प्रतीत्यवचनं नयः । अभावाभावरूपत्वात् सापेक्षत्वं विधावपि ॥ ५॥ नया०-तेनेति- तेन उक्तहेतुना, सापेक्षभावेषु परस्परप्रतियोगिकेषु, धर्मेषु प्रतीत्यवचनम् अपेक्षात्मकं वाक्यम् , नय इति सिद्धम् । नन्वेवं 'स्यान्नास्त्येव' इत्येकवचनं नयः स्यात्, न तु 'स्यादस्त्येव' इति, तदर्थस्य विधेरप्रतियोगिकत्वादत एवाह-विधावपि अस्तित्वादिभावेऽपि, अभावाभावरूपत्वात नास्तित्वाद्यभावस्वरूपत्वात् , तेन रूपेण प्रतियोगिनिरूपणाधीननिरूपणतया सापेक्षत्वमस्त्येव । अयं प्रवर्तत इत्येवमेकस्या अपेक्षाबुद्धेर्नयरूपाया द्वितीयापेक्षाबुद्धयात्मकनयसंयोजनया सप्तभङ्गीप्रवृत्तिः सङ्गतिमङ्गतीत्यर्थः। परैः नैयायिकैः प्रभाकरानुयायिभिर्वा । अस्माकं जैनानाम् , नासुलभा किन्तु सुलभव । यथा चोक्कापेक्षात्वाख्यविषयताशालित्वाद् द्वित्वादनामापेक्षिकत्वं तथा सामान्यत्व-विशेषत्वादेरप्यपेक्षाबुद्धिगम्यत्वात् तत्तदपेक्षाबुद्धिवैलक्षण्यप्रयोजकविषयताविशेषनिरूपितापेक्षात्वविषयताशालित्वादापेक्षिकत्वमित्याह- सामान्य विशेषत्वादेरिति । ननु यद्येकत्व-द्वित्वादीनामुक्तापेक्षात्वाख्यविषयताशालिवादापेक्षिकत्वं तर्हि किञ्चिदपेक्षयैकत्व-द्वित्वादिप्रत्यक्षस्यापेक्षाबुद्धिप्रभवस्य सम्भवेऽप्यनपेक्षकत्वबुद्धः ‘एको घटः' इत्याद्याकारिकायाः, अनपेक्षद्वित्वबुद्धेः 'द्वाविमौ घट-पटौ' इत्याद्याकारिकायाश्चानुपपत्तिरित्याशङ्कां प्रतिक्षिपति-न चेति । एवं द्वित्वादावपेक्षात्वाख्यविषयत्वोररीकारे । निषेधे हेतुमाह- द्रव्यनयावलम्बनेनेति । अत एव सापेक्षत्वाख्या-ऽनपेक्षत्वाख्यविषयत्वद्वयस्वीकारादेव । अन्यमतापेक्षया स्वाभ्युपगतपक्षे विशेषमुपदर्शयति- अस्मदुक्तपक्ष एवेति- अपेक्षाबुद्धयाऽनन्तपर्यायोपेतद्रव्ये यथाक्षयोपशमं कदाचिद् द्वित्वप्रत्यक्षं कदाचित् त्रित्वप्रत्यक्षमित्युपगमे क्षयोपशमविशेषादेव द्वित्व-त्रित्वादिप्रत्यक्षसम्भवे न विभिन्नकार्यकारणभावकल्पना, त्रित्वप्रत्यक्षकाले क्षयोपशमविशेषस्य द्वित्वप्रत्यक्षनियामकस्याभावादव नं द्वित्वप्रत्यक्षमिति न त्रित्वादिप्रत्यक्षसामग्या द्वित्वादिप्रत्यक्षप्रतिबन्धकत्वम्, अपेक्षाबुद्धिद्वित्वबुद्धयोरत्यन्ताव्यवधानाच्च पौर्वापर्यानवभासनमित्यर्थः। उपसंहरति- तस्मादिति ॥४॥ पञ्चमपद्यमवतारयति- फलितमाहेति- अनन्तराभिहितविचारेण यत् फलितं तदाहेत्यर्थः । पञ्चमपद्यं विवृणोतितेनेतीति । ननु निषेधस्य सप्रतियोगिकत्वेन तत्प्रतिपादकवचनस्यापेक्षात्मकवाक्यत्वेन नयत्वस्य सम्भवेऽपि विधेरप्रतियोगिकत्वात् तत्प्रतिपादकवचनस्यापैक्षात्मकवाक्यत्वाभावात् कथं नयत्वमिति शङ्का-समाधानपरतयोत्तरार्द्धमवतारयति- नन्वेवमिति । एवम् अपेक्षात्मकवाक्यस्य नयत्वे । तदर्थस्य 'स्यादस्त्येव' इतिवचनार्थस्य । तेनेति- नास्तित्वाद्यभावत्वेन रूपेणास्तित्वादिलक्षणभावस्य प्रतियोगिनो नास्तित्वस्य यन्निरूपणं- तद्विषयकज्ञानानुकूलच्यापारः, तदधीनं- तत्प्रयोज्यं निरू. पणं यस्य तत्त्वेन- तत्प्रयोज्यज्ञानविषयत्वेन, नास्तित्वाभावप्रतियोगिज्ञानजन्यनास्तित्वाभावज्ञानविषयत्वेनेति यावत् । ननु नास्तित्वस्य नियमतोऽस्तित्वाभावरूपतया प्रतीयमानत्वात् तत्प्रतिपादकवचनस्य सापेक्षवाक्यत्वेऽपि विधिरूपस्यास्तित्वस्य विधिस्वरूपेणापि प्रतीयमानत्वात् तद्रूपेण तत्प्रतीतौ प्रतियोगिज्ञानापेक्षाभावात् कथं तत्प्रतिपादकवचनस्य सापेक्षवाक्यत्वम् , अतो Page #71 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। भावः-अभाव ज्ञानेऽपि न सर्वत्र प्रतियोगिज्ञानापेक्षा, प्रतियोगिज्ञानं विनाऽपीदन्त्व प्रमेयत्वादिनाऽभावभानस्य सार्वजनीनत्वात् , घटाभावत्वादिना घटाभावादिज्ञाने घटज्ञानाद्यपेक्षाध्रौव्यात् तेन रूपेणैव तेषां सप्रतियोगिकत्वं ग्रहीष्यते तर्हि नास्तित्वाभावत्वादिनाऽस्तित्वादीनां तेन रूपेण तथात्वे तुल्यम् , 'अभावाsभावः प्रतियोग्येव' इति परेषामपि मूलसिद्धान्तात् , संयोगादावेव विशेषणतात्वकल्पनया निर्वाहेण 'नास्ति' इति प्रतीतिबलादतिरिक्त एव स इति नव्यमतस्य नियुक्तिकत्वात् । तस्मात् , स्वरूपतो भावाऽभावयोरपि निष्प्रतियोगिकत्वम् , विशिष्टतया तु द्वयोरपि सप्रतियोगिकत्वमिति स्याद्वाद एव श्रेयान् । अथ निष्प्रतियोगिकाभावपक्षे प्रतियोगिज्ञानस्याभावप्रत्ययाहेतुत्वे विना प्रतियोगिज्ञानं 'न' इत्याकारकप्रत्ययापत्तिः । न चाभावस्याऽपीदन्त्वेन ग्रहादापादकाभावः, प्रथममभावा-ऽभावत्वयोनिर्विकल्पके ' अभावः' इत्याकारकप्रत्यक्षापत्तेर्दुरित्वात् । इन्द्रियस्य चक्षुस्त्वगादिभेदभिन्नत्वेन महागौरवम् । न च पृथक् प्रतियोगिधीभावार्थमुपदर्शयति- अयं भाव इति- नियमेनाभावज्ञानमपि न प्रतियोगिज्ञानापेक्षम् , इदन्त्व-प्रमेयत्वादिनाऽभावज्ञानस्य प्रतियोगिज्ञानमन्तरेणैव भावात् , किन्त्वस्तित्वाभावत्वादिरूपेणैव तज्ज्ञानं प्रतियोगिज्ञानसापेक्षमित्येतावता तत्प्रतिपादकवचनस्य यथा सापेक्षवाक्यत्वं तथाऽस्तित्वादिनाऽस्तित्वादिज्ञानस्यास्तित्वाभावादिज्ञानमन्तरेण भावेऽपि नास्तित्वाभावत्वादिना तजज्ञानस्य नियमतो नास्त्विादिज्ञाने सत्येव भावाद् तद्रूपेण तत्प्रतिपादकवचनस्य सापेक्षवाक्यत्वं स्यादेवेत्युपपाद्य दर्शयतिअभावज्ञानेऽपीति । तेन रूपेणैव घटाभावत्वादिरूपेणैव । तेषां घटाभावादीनाम् । तेन रूपेण नास्तित्वाभावत्वादिरूपेण । तथात्वे सप्रतियोगिकत्वे । परेषामपि नैयायिकानामपि । मूलसिद्धान्तात् प्राचीननैयायिकसिद्धान्तात् , अत एव "अभावविरहात्मत्वं वस्तुनः प्रतियोगिता" । [ कुसुमाञ्जलिस्तबक०, श्लो० ] इति नैयायिकप्रकाण्डोदयनाचार्यवचनं सङ्गच्छते । ननु घटादिर्भावः संयोगादिना वर्तते, घटाभावाभावादिश्च विशेणषतया वर्तते, अभावस्य सामान्येन विशेषणतासम्बन्धस्य स्वारसिकत्वात् , तथा च विभिन्नसम्बन्धेन वर्तमानयोर्भावाऽभावयोः कथमेकतेत्यत आहसंयोगादावेवेति- विशेषणतासम्बन्धेन घटाभावाभावादिवर्तत इत्यत्र न नो विद्वेषः किन्तु विशेषणतात्वं संयोगादावेव कल्प्यत इति विशेषणतात्वेन संयोगादेरेव संसर्गत्वम् , तथा च घटादियथा संयोगादिना वर्तते तथा घटाभावाभावादिरपीत्येतावतैव विशेषणतासम्बन्धेन घटाभावाभावादिकं घटादिस्वरूपमुपादाय 'घटाभावो नास्ति' इति प्रतीतेर्निर्वाहेण भावो घटः 'अस्ति' इत्येवं प्रतीयते, घटाभावाभावः 'घटाभावो नास्ति' इत्येवं प्रतीयत इति 'नास्ति' इति प्रतीतिबलाद् घटाभावाभावादिर्घटादिरूपभावाद् भिन्न एवेति नव्यनैयायिकमतस्य नियुक्तिकत्वादित्यर्थः । उपसंहरति-तस्मादिति । विशिष्टतया तु घटात्वाद्यवच्छिन्नप्रतियोगिताकत्वविशिष्टाभावरूपतया घटाभावत्वाद्यवच्छिन्नप्रतियोगिताकत्वविशिष्टाभावरूपतया च । द्वयोरपि भावाभावोभयोरपि । ननु भावाऽभावयोरुभयोरपि सप्रतियोगिकत्वं निष्प्रतियोगिकत्वं चेति स्याद्वादे अभावो निष्प्रतियोगिक इति पक्षे अभावज्ञान प्रतियोगिज्ञानं न हेतुरिति प्रतियोगिज्ञानं विनाऽपि 'न' इत्याकारकमभावज्ञानं स्यादिति शङ्कते- अथेति । ननु प्रतियोगिज्ञानं विनाऽपीदन्त्वेनाभावज्ञानं भवत्येव, तथा च 'इदम्' इत्येवमभावज्ञानस्यापादनमिष्टापत्तिरूपत्वान्न दोषावहम् , 'न' इत्याकारकप्रत्ययापादनं तु यत् क्रियते तदापादकाभावान्न सम्भवतीत्याशङ्कय प्रतिक्षिपतिन चेति । आपादकाभावः 'न' इत्याकारकप्रत्ययापत्तेः कारणाभावः, तथा च प्रतियोगिज्ञानासत्त्वे आपादकाभावादेव 'न' इत्याकारकप्रत्ययापादनं न सम्भवतीति शङ्कार्थः । निषेधहेतुमुपदर्शयति-प्रथममिति- आपादकाभावात् प्रतियोगिज्ञानाऽसद्भावे 'न' इत्याकारकाभावप्रत्ययापत्तिर्मा भवतु, परन्तु प्रथममभावाऽभावत्वयोनिर्विकल्पकज्ञाने सति तद्रूपविशेषणज्ञानात्मकापादकबलाद् ‘अभावः' इत्याकारकप्रत्यक्षापत्तेर्दुरित्वादित्यर्थः । ननु चक्षुरादोन्द्रियमप्यभावप्रत्यक्षं प्रति कारणम् , तच्च प्रतियोगिविशेषिताभावप्रत्यक्षकारणमेव, तत्र च प्रतियोगिज्ञानमपि सहकारीति प्रतियोगिविनाकृतम् 'अभावः' इत्याकारकप्रत्यक्षं नापादयितुं शक्यत इत्यत आह- इन्द्रियस्य चेति- अत्र 'इन्द्रियस्य विशिष्याभावप्रत्यक्षकारणत्वे च चक्षुस्त्वगादिभेदभिन्नत्वेन महागौरवम्' इति पाठो युक्तः । अभावज्ञाने प्रतियोगिज्ञानस्य पृथक्कारणत्वेऽपि प्रतियोगिज्ञानसत्त्वे तद्बलाद् 'न' इत्याकारकमभावप्रत्यक्षं स्यादित्याशङ्कां प्रतिक्षिपति-न चेति । प्रतियोगिज्ञानस्य ज्ञानलक्षण Page #72 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । हेतुत्वेऽपि 'न' इत्याकारकप्रत्यक्षापत्तिः, उपस्थितस्य प्रतियोगिनोऽभावे वैशिष्ट्यभाने बाधकाभावात् । न च ' अभावो न घटीयः' इत्यादिबाधधीदशायां तदापत्तिः, अभावत्वावच्छेदेनाभावे तादृशबाधधिय आहार्यत्वात् , अभावत्वसामानाधिकरण्येन च तदशायामपि प्रतियोगिवैशिष्ट्यभानसम्भवात् । यद्वा, घटत्वावच्छिन्नप्रकारत्वान्यप्रकारत्वानिरूपिताभावविषयताकप्रत्यक्षे घटादिधियो हेतुत्वम्, अन्यथा 'घटाद्यभावः' इत्याकारकप्रत्यक्षं च न जायेत, निखिलप्रतियोगिज्ञान कार्यतावच्छेदकाक्रान्तेदृशप्रत्यक्षस्य यत्किश्चित्प्रतियोगिज्ञानेऽसम्भवात् , यावत्प्रतियोगिज्ञानस्य चासम्भवात् । अभावत्वांशे निर्विकल्पकं त्वभावांशे यत्किञ्चित्प्रतियोगिविशिष्टविषयत्वाद् यत्किञ्चित्प्रतियोगिधीसाध्यमेवेति नानुपपत्तिरिति चेत् ? न- प्रतियोगिज्ञानाभावेऽप्यभावत्वमात्रेण प्रत्यक्षस्येष्टत्वात् 'शून्यमिदं दृश्यते' इत्यादिप्रत्ययात्, इत्थमेवाभावत्वस्य भावभेदस्य पिशाचादिभेदवद् योग्यस्य 'घटो नास्ति' इत्यादौ स्वरूपतो भानमिति प्राची ............. विधया प्रतियोगिभानप्रयोजकस्य सत्त्वे प्रतियोगिनोऽभावांशे विशेषणविधया भाने बांधकाभावात् प्रतियोगिविशिष्टाभावस्यैव प्रत्यक्षं भवति न केवलस्याभावस्येति निषेधहेतुमुपदर्शयति- उपस्थितस्येति । ननु 'अभावो न घटीयः' इति बाधधीदशायां घटस्य प्रतियोगितासम्बन्धेनाभावे वैशिष्ट्यभानासम्भवात् तदानीं प्रतियोगिज्ञानबलाद् 'न' इत्याकारकाभावप्रत्यक्षापत्तिरित्याशङ्कय प्रतिक्षिपति - न चेति । तदापत्तिः 'न' इत्याकारकाभावप्रत्यक्षापत्तिः । 'अभावो न घटीयः' इति बाधज्ञानमभावत्वावच्छेदेनाभावे घटीयत्वाभावमवगाहते ? अभावत्वसामानाधिकरण्येन वा ? आये तादृशबाधज्ञानमाहार्यमेव स्यात् , अभावत्वाधिकरणयावन्मध्ये घटीयस्याप्यभावस्य प्रविष्टत्वेन घटीयत्ववति तत्र घटीयत्वाभावावगाहनात्, अभावत्वावच्छेदेन घटीयत्वाभावस्यासत्तयाऽभावत्वावच्छेदेन घटीयत्वाभावाभाववत्यभावे घटीयत्वाभावज्ञानस्येच्छयैव सम्भवेन बाधकालीनेच्छाजन्यज्ञानस्य तस्याहार्यत्वात् , अनाहार्याऽप्रामाण्यज्ञानाऽनास्कन्दितस्यैव विरोधिनिश्चयस्य प्रतिबन्धकत्वमित्युक्ताहार्यबाधनिश्चयस्याप्रतिबन्धकतया तत्सत्त्वेऽप्यभावे घटस्य वैशिष्ट्यभानसम्भवात् , द्वितीये सामानाधिकरण्येन बाधज्ञानमवच्छेदकावच्छेदनैव तद्वत्त'बुद्धिं प्रतिबध्नातीत्यभावत्वसामानाधिकरण्येन घटीयत्वाभावग्रहेऽप्यभावत्वसामानाधिकरण्येनाभावे घटस्य वैशिष्ट्यभानसम्भवादिति निषेधहेतुमुपदर्शयति- अभावत्वावच्छेदेनेति । तादृशबाधधियः 'अभावो न घटीयः' इत्यादिबाधधियः । तदशायामपि 'अभावो न घटीयः' इत्यादिबाधधीदशायामपि । विशेषतो. ऽभावज्ञान-प्रतियोगिज्ञानयोः कार्य कारणभावावेदकं कल्पान्तरं शङ्किताऽऽधयति- यद्वेति । अन्यथा अभावज्ञाने प्रतियोगिज्ञानस्य कारणत्वमित्येव कार्यकारणभावस्याभ्युपगमे, घटसामान्याभावो यथैकस्य घटस्याभावस्तथाऽन्यस्यापि घटस्याभाव इति प्रत्येकं सर्वेषामपि प्रतियोगिनां ज्ञानं घटाभावज्ञाने कारणमिति सर्वेषामपि प्रतियोगिनां ज्ञाने सत्येव घटाभावज्ञानं स्यात् , न यत्किञ्चिद्धटरूपप्रतियोगिज्ञान, यावतां घटानां च प्रत्येकं ज्ञानं तु न सम्भत्येवेति 'घटाद्यभावः' इत्याकारक प्रत्यक्षं न स्यात् , घटत्वावच्छिन्नप्रकारत्वान्यप्रकारत्वानिरूपिताभावविषयताकप्रत्यक्षे घटादिधियः कारणत्वमिति विशिष्य कार्यकारणभावे तु यत्किञ्चिद्धटज्ञानमपि घटज्ञानत्वेन कारणमिति यत्किञ्चिद्धटज्ञानेऽपि 'घटाद्यभावः' इत्याकारकप्रत्यक्षं सम्भवतीति, 'घटाभावः' इति ज्ञानं चाभावत्वांशे निर्विकल्पकमभावांशे च यत्किञ्चित्प्रतियोगिवैशिष्टयावगाहि, . तथा च तज्ज्ञानं निरुक्तकार्यतावच्छेदकधर्माकान्तत्वाद् यत्किञ्चिद्धटज्ञानकायं भवतीति यत्किञ्चिद्धटज्ञानतस्तादृशज्ञानस्योपपत्तिरित्याह- अभावत्वांश इति । निष्प्रतियोगिकाभावपक्षे प्रतियोगिज्ञानं विनाऽपि 'अभावः' इत्याकारकप्रत्यक्षापादनं यदाशङ्कितं तत्रष्टापत्तिरेवेति समाधत्ते - नेति । प्रतियोगिज्ञानं विनाऽभावत्वमात्रेणाभावप्रत्यक्षाऽभ्युपगमतः प्राचा वचनमपि सङ्गतिमङ्गतीत्याह- इत्थमेवेति - ‘घटो नास्ति' इत्यादौ घटविशिष्टाभावत्वेन घटाभावो भासते, तत्राभावत्वं भावभेद एवेति भावभेदस्य भावः प्रतियोगीति भावरूपप्रतियोगिनो ज्ञानमन्तरेणापि भावभेदरूपाभावस्य स्वरूपतो भानं संभवतीत्यभिप्रायकस्य प्राचां वचनस्येत्थमेवोपपत्तेः । समवाय-स्वसमवायिसमवेतत्वान्यतरसम्बन्धन सत्त्ववत्त्वलक्षणभावत्वाश्रयस्य चक्षुराद्ययोग्यत्वे तद्भेदस्य कथं योग्यत्वमित्यपेक्षायामाह-पिशाचादिभेदवदिति- पिशाचादेश्चक्षुरादीन्द्रियायोग्य Page #73 -------------------------------------------------------------------------- ________________ ४० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । वचनस्योपपत्तेः । नबुल्लेखस्तु प्रतियोगिवाचकपदनियतः, न सार्वत्रिकः । किञ्च, उक्तरीत्या प्रतियोगिज्ञानस्य हेतुत्वे केवलाभावत्वनिर्विकल्पकापत्तिः, अभावत्वस्याखण्डत्वाद् , अन्यथाऽभावविशिष्टबुद्धावपि तन्निर्विकल्पकायोगात् । अपि च ‘घट-पटौ न' इत्यादिप्रत्यक्षं घटज्ञान-पटज्ञानादिकार्यतावच्छेदकानाक्रान्ततया तद्विरहेऽपि स्यात् , तस्माद् घटत्वाद्यवच्छिन्नप्रकारतानिरूपित विषयताकप्रत्यक्षमेव लाघवाद् घटादिधीकार्यतावच्छेदकं युक्तमिति घटास्तित्व-नास्तित्वयोः सप्रतियोगित्वा-ऽप्रतियोगिकत्वे तुल्ययोगत्वेऽपि तद्भेदस्य यथा चक्षुरादीन्द्रिययोग्यत्वम् , अत एव 'स्तम्भः पिशाचो न भवति' इत्येवं चक्षुरिन्द्रियजं प्रत्यक्षं भवति तथेत्यर्थः । ननु 'शून्यमिदं दृश्यते' इति प्रत्ययबलात् प्रतियोगिज्ञानमन्तरेणापि प्रतियोग्यविशेषिताभावज्ञानं यदीष्यते तर्हि 'शून्यम्' इत्याकारकाभावज्ञानवत् 'न' इत्याकारकमप्यभावप्रत्यक्षं किं न स्यादित्यत आह-नाल्लेखस्त्विति- अभाववाचकनशब्दप्रयोगस्तु प्रतियोगिवाचकपदप्रयोगे सत्येव भवति, तथा च प्रतियोगिवाचकपदसमभिव्याहृतस्यैवाभाववाचकनञ्शब्दस्य प्रयोगो न केवलस्येति यत्रैव प्रतियोगिवाचकशब्दस्तत्रैव नशब्दः प्रयुज्यते, न सर्वत्रेत्यर्थः । नैयायिकोपदर्शितप्रतियोगिज्ञानाऽभावप्रत्यक्षकार्यकारणभावं दूषयति-किञ्चति । उक्तरीत्येति-घटत्वावच्छिन्नप्रकारत्वान्यप्रकारत्वाऽनिरूपिताभावविषयताकप्रत्यक्षे घटादिधियो हेतुत्वमित्येवं प्रकारेणेत्यर्थः। केवलेति- अभावाऽविषयकाऽभावत्वविषयकनिर्विकल्पकापत्तिरित्यर्थः । तादृशनिर्विकल्पकस्य घटत्वावच्छिन्नप्रकारत्वान्यप्रकारत्वाऽनिरूपिताऽभावविषयताकप्रत्यक्षत्वलक्षणघटादिधीकार्यतावच्छेदकधर्माऽनाक्रान्ततया तं प्रति घटादिधियः कारणत्वाभावेन तामन्तरेणापि तदुत्पत्तौ वाधकाभावादित्यभिसन्धिः । नन्वभावत्वस्य भावभेदरूपत्वेन सखण्डोपाधिरूपस्य स्वरूपतो भान न सम्भवतीति न केवलस्य तस्य निर्विकल्पकापत्तिसम्भव इत्यत आह- अभावत्वस्येति । अखण्डत्वात् अखण्डोपाधिरूपत्वात् , 'घटाभावः पटाभावो मठाभावः' इत्यादिप्रतीतौ सर्वत्राऽभावांशेऽनुगततया भासमानस्याऽभावत्वस्याऽखण्डोपाधिरूपत्वमेवेत्याशयः। अन्यथा अभावत्वस्य सखण्डोपाधिरूपतयैवाभ्युपगमै । तन्निर्विकल्पकेति-अभावत्वनिर्विकल्पकेत्यर्थः । अभावविशिष्टबुद्धिरप्यभावत्वांशे निर्विकल्पात्मिका नैया यकेनोपेयते, साऽपि कथं स्यात् ? अभावत्वस्य सखण्डत्वेन स्वरूपतो भानासम्भवेन किञ्चिद्रूपेणैव तद्भानस्य स्त्रीकरणीयत्वादिति । किञ्च, घटज्ञानस्य कार्यतावच्छेदकं घटत्वावच्छिन्नप्रकारत्वान्यप्रकारत्वाऽनिरूपिताऽभावविषयताकप्रत्यक्षत्वम् , पटज्ञानस्य कार्यतावच्छेदकं पटत्वावच्छिन्नप्रकारत्वान्यप्रकारत्वाऽनिरूपिताऽभावविषयताकप्रत्यक्षत्वम् , तदुभयमपि 'घट-पटौ न' इत्याकारकाभावप्रत्यक्षे नास्ति, तदीयाभावविषयतायाः प्रतियोगित्वसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारत्वान्या या प्रतियोगित्वसम्बन्धावच्छिन्नपटत्वावच्छिन्नप्रकारता तन्निरूपितत्वेन तदनिरूपितत्वस्य, तथा प्रतियोगित्वसम्बन्धावच्छिन्नपटत्वावच्छिन्नप्रकारत्वान्या या प्रतियोगित्वसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारता तन्निरूपितत्वेन तदनिरूपितत्वस्य चासत्त्वात् , तथा च घटज्ञानपटज्ञानकार्यतावच्छेदकानामान्तस्य 'घट-पटौ न' इत्याकारकाऽभावप्रत्यक्षस्य घटज्ञान-पटज्ञानविरहेऽप्युत्पादप्रसङ्ग इत्याह-अपि चेति। तद्विरहेऽपि घटज्ञान-पटज्ञानविरहेऽपि । तस्मात् परोक्तकार्यकारणभावस्य दूषितत्वात्। 'प्रत्यक्षमेव' इति स्थाने 'प्रत्यक्षत्वमेव' इति पाठो युक्तः । लाघवात् घटत्वावच्छिन्नप्रकारत्वान्यप्रकारत्वाऽनिरूपिताऽभावविषयताकप्रत्यक्षत्वापेक्षया लाधवात् । एवं च 'घट-पटौ न' इति प्रत्यक्षमपि घटत्वावच्छिन्नप्रकारतानिरूपितविषयताकप्रत्यक्षत्वरूपघटज्ञानकार्यतावच्छेदकाक्रान्तं पटत्वावच्छिन्न प्रकारतानिरूपितविषयताकप्रत्यक्षत्वरूपपटज्ञानकार्थतावच्छेदकाक्रान्तं च भवतीति घटज्ञान-पटज्ञानयोः सत्त्व एव 'घट-पटौ न' इति प्रत्यक्षम् , न तद्विरहे इति, अत्र कार्यतावच्छेदककोटौ घटत्वावच्छिन्नप्रकारतानिरूपितत्वेन विषयतामात्रमेव प्रविष्टं न त्वभावविषयतामात्रमिति घटास्तित्वत्वेन घटास्तित्वप्रत्यक्षमपि घटत्वावच्छिन्नप्रकारतानिरूपितविषयताकप्रत्यक्षत्वरूपघटज्ञान कार्यतावच्छेदकाक्रान्तमिति घटज्ञान एव घटास्तित्वज्ञानमिति तस्य भवति सप्रतियोगिकत्वं तथा घटनास्तित्वत्वेन घटनास्तित्वप्रत्यक्षमपि घटत्वावच्छिन्नप्रकारतानिरूपितविषयताकप्रत्यक्षत्वरूपघटज्ञानकार्यतावच्छेदकाक्रान्तमिति घटज्ञान एव घटनास्तित्वज्ञानमिति भवति तस्यापि सप्रतियोगिकत्वम्, प्रमेयत्वादिना च घटास्तित्व-घटनास्तित्वयोनि च नोक्तघटज्ञान कार्यतावच्छेदकाक्रान्तमिति घटज्ञानं विनाऽपि स्यादेवेत्येवं घटास्तित्व घटनास्तित्वयोः सप्रतियोगिकत्वाऽप्रतियोगिकत्वे तुल्ययुक्त्योपपन्नतरे इत्याह-घटास्तित्व-नास्तित्वयोरिति । Page #74 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । क्षेमे त्वदुक्तहेतुसद्भावेऽपि लाघवाद भावांशत्यागेन केवलाभावस्येव केवलभावस्यापि न भानमिति वक्तुं शक्यत्वात्, निर्विकल्पके प्रमाणाभावात्, क्षयोपशमविशेषेणैव तत्तद्विशिष्टज्ञानोपपत्तौ तस्य तद ४१ कल्पकत्वात् । अत एव - " द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा दृष्टा मानेन केन वा १ 39 ॥ १ ॥ [ ] इत्यस्मत्संप्रदायवृद्धाः संगिरन्ते । 66 शुद्धाभावप्रत्यक्षं तु प्रतियोगिता सम्बन्धावच्छिन्नप्रकारता निरूपिताऽभावविषयताकप्रत्यक्ष एव विशेषणताया हेतुत्वान्न भवति " इत्यपि रिक्तं वचः, प्रतियोगितामात्रेण ' द्रव्यं नास्ति, मेयं नास्ति इत्याद्यापत्तेः, प्रकारीभूतकिञ्चिद्धर्मावच्छिन्नत्वेन प्रतियोगिता विशेषणेऽपि न निस्तारः, घटाभाव-पटायश्च नैयायिकाऽभिमतोऽभावप्रत्यक्ष प्रतियोगिज्ञानयोः कार्यकारणभावस्तत्रापि लाघवात् कार्यतावच्छेदककोटावभावांशं परित्यज्य घटत्वावच्छिन्नप्रकारत्वान्य प्रकारत्वाऽनिरूपित विषयताक प्रत्यक्षत्वावच्छिन्नं प्रति घटज्ञानस्य कारणत्वमित्युपगमे केवलस्याभावस्य यथा न भानं तथा केवलभावस्यापि न भानम्, अस्तित्यादिभावप्रत्यक्षस्यापि निरुक्तकार्यतावच्छेदकधर्माक्रान्तत्वेन घटादिज्ञान कार्यत्वतो घटादिभानस्यापि तत्र विशेषणतया सम्भवादित्याह त्वदुक्तहेतुसद्भावेऽपीति- अत्र ' त्वदुक्तहेतुहेतुमद्भावsपि' इति पाठो युक्त: । 'लाघवाद् भावांशत्यागेन' इति स्थाने 'लाघवादभावांशत्यागेन' इति पाठो युक्तः । यच्च निर्विकल्पक ज्ञानस्य प्रतियोगिधी साध्यत्वमभिहितं तत् तदा शोभेत यदि निर्विकल्पकज्ञानं प्रामाणिकं भवेत्, तत्रैव तु प्रमाणं न पश्याम इति तत्र प्रतियोगिधी साध्यत्व- तदसाध्यत्वादिविचारः काकदन्तविचारवन्निष्प्रयोजन एवेत्याह- निर्विकल्पक इति । ननु विशिष्टबुद्धित्वावच्छिन्नं प्रति विशेषणज्ञानत्वेन हेतुत्वमिति विशिष्टबुद्धयुत्पादनाय विशेषणज्ञानमावश्यकम्. तदपि विशेषणज्ञानं यदि विशिष्टबुद्धिरूपमेव स्यात् तर्हि तदर्थमपि विशेषणज्ञानान्तरं कल्पनीयं स्याद् एवं तत्रापीत्यनवस्था स्यात् तत्परिहाराय विशिष्टबुद्धिहेतुतया कल्पनीयं विशेषणज्ञानं क्वचिन्निर्विकल्पकमभ्युपगन्तव्यमिति विशिष्ट - बुद्धयन्यथानुपपत्तिरेव निर्विकल्पके प्रमाणमित्यत आह- क्षयोपशमविशेषेणैवेति- कस्यचिद् धर्मस्य विशिष्टबुद्धिर्भवति कस्यचिद् धर्मस्य विशिष्टबुद्धिर्न भवति तत्र क्षयोपशमविशेष एव नियामको न तु तत्तद्धर्मज्ञानमिति क्षयोपशमविशेषेणैव तत्तद्विविशिष्टज्ञानोपपत्तौ, तस्य विशिष्टज्ञानस्य, तदकल्पकत्वात् निर्विकल्पक ज्ञानाऽकल्पकत्वात् । अत एव विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणत्वाभावेन क्षयोपशमविशेषेणैव तत्तद्विशिष्टज्ञानस्य सम्भवादेव । द्रव्यमिति - अर्थात् पर्यायसहितमेव द्रव्यं भानेन गृह्यते, द्रव्यसहिता एव पर्याया भानेन गृह्यन्त इति न च तत्र पूर्वं पर्यायज्ञानमनन्तरं पर्याय - सहितद्रव्यज्ञानम्, तथा पूर्वं द्रव्यज्ञानं ततो द्रव्यसहितपर्यायज्ञानमिति । शुद्धाभावप्रत्यक्षाभवने पर वक्तव्यमुपदर्श्य प्रतिक्षिपति - शुद्धाभावप्रत्यक्षं त्विति - अस्य 'न भवति' इत्यनेनान्वयः । तत्र हेतु :- प्रतियोगिता सम्बन्धेत्यादि । विशेषणतायाः चक्षुरादीन्द्रियसंयुक्तादिविशेषणतायाः । परवचनस्याऽयुक्तत्वे हेतुमुपदर्शयति- प्रतियोगितामात्रेणेति यद्यपि द्रव्यं सर्वत्र वर्तते मेयं च सर्वत्र वर्तत इति द्रव्यत्वावच्छिन्नप्रतियोगितासम्बन्धेन द्रव्य विशिष्टाभावो मेयत्वावच्छिन्न प्रतियोगितासम्बन्धेन मेयविशिष्टाभावश्च नास्तीति तत्प्रत्यक्षापादनं न सम्भवति तथाऽपि घटत्वावच्छिन्न प्रतियोगितासम्बन्धेन द्रव्यविशिष्टाभावस्य घटत्वावच्छिन्नप्रतियोगितासम्बन्धेन मेयविशिष्टाभावस्य च सम्भवात् तत्प्रत्यक्षस्य प्रतियोगित्वसम्बन्धावच्छिन्न प्रकारतानिरूपिताभावविषयता क प्रत्यक्षत्वलक्षणकार्यतावच्छेदकधर्माक्रान्तत्वाद् विशेषणतालक्षणेन्द्रियसन्निकर्षरूपकारणबलादापत्तेरित्यर्थः । ननु प्रकारीभूतकिश्चिद्धर्मावच्छिन्नप्रतियोगित्वससम्बन्धावच्छिन्नप्रकारतानिरूपिताभावविषयताकप्रत्यक्ष एव विशेषणता हेतु:, अन्यधर्मावच्छिन्नप्रतियोगितासम्बन्धेन द्रव्यप्रकारका भावविशेष्यकं प्रत्यक्षं तेन सम्बन्धेन मेयप्रकारकाभावविशेष्यकप्रत्यक्षं च न निरुक्तकार्यतावच्छेदकधर्माक्रान्तमिति न विशेषणतातस्तदापादनं सम्भवतीत्यैवं कल्पनायामपि न परस्य निर्दोषतेत्याह- प्रकारीभूतेति । 'न निस्तारः' इत्यत्र हेतुमुपदर्शयति- घटाभावेति । प्रतियोगिविशेषितस्य घटत्वावच्छिन्नप्रतियोगितासम्बन्धेन घटविशेषितस्य । तद Page #75 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । भावयोरुभयोः सन्निकर्षे घटाभावांशे प्रतियोगिविशेषितस्य पटाभावांशे च तदविशेषितस्य समूहालम्बनस्य प्रसङ्गात् । किञ्च, एवमिदन्त्वादिनाऽभावप्रत्यक्षं न स्यात् , न स्याच्च 'अभावप्रतियोगी घटः' इत्याद्याकारम् , ताशप्रत्यक्षेष्वपि पृथकारणत्वकल्पने चातिगौरवम् , तस्मात् सन्निकर्षमात्रस्यैव किञ्चिद्धर्मावच्छिन्नविषयतानिरूपितविषयताकप्रत्यक्षत्वावच्छिन्ने विशिष्टाकारप्रत्यक्षत्वावच्छिन्ने वा हेतुत्वम् , अतो नापाय. मात्रस्य विचारजन्यचरमशुद्धद्रव्योपयोगतुल्यतेति भावांशेऽभावांशे वा न शुद्धविषयकं प्रत्यक्षमित्यभाव एव सापेक्षो न भाव इति किमिदमर्द्धजरतीयम् । एतेन " अभावलौकिकप्रत्यक्षस्य घटाद्यन्यतमविशिष्टविषयकत्व नियमाद् विशेषसामग्री विना सामान्यसामग्रीमात्रात् कार्यानुत्पत्तेनाभाव निर्विकल्पकम् , 'न' इत्याकारकप्रत्यक्षं वा विशेषणादिज्ञानरूपविशेषसामग्र्यभावात् । न चाभावलौकिकप्रत्यक्षत्व-घटत्वादिविशेषितस्य पटत्वावच्छिन्नप्रतियोगितासम्बन्धेन पटाविशेषितस्य । समूहालम्बनस्य घटाभाव-पटाभावोभयविषयकसमूहालम्बनप्रत्यक्षस्य, तादृशप्रत्यक्षस्यापि प्रकारीभूतकिञ्चिद्धर्मो घटत्वम् , तदवच्छिन्नप्रतियोगित्वसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकप्रत्यक्षत्वरूपकार्यतावच्छेदकधर्माकान्ततया विशेषणतासन्निकर्षतस्तदुत्पत्तिप्रसङ्गादित्यर्थः । अपि च प्रकारीभूतकिञ्चिद्धर्मावच्छिन्नप्रतियोगित्वसम्बन्धावच्छिन्नप्रकारतानिरूपिताभावविषयताकप्रत्यक्षत्वरूपकार्यतावच्छेदकधर्माऽनाक्रान्ततयेदन्त्वादिनाऽभावप्रत्यक्षस्यभावप्रतियोगी 'अघटः' इत्यादिप्रत्यक्षाणां च विशेषणतासन्निकर्षादुत्पत्तिर्न भवेदिति तदुत्पत्तये कारणान्तरकल्पनं चातिगौरवं स्यादित्याह-किश्चेति । एवम् उक्तप्रकारेण विशेषणताया अभावप्रत्यक्ष प्रति कारण त्याभ्युपगमे । ताशप्रत्यक्षेष्वपि इदन्त्वादिनाऽभावप्रत्यक्षे 'अभावप्रतियोगी घटः' इत्यादिप्रत्यक्षेष्वपि । यादृश कार्यकारणभावस्वीकारे भावांशेऽभावांशे च किञ्चिद्विशेषणमुपादायैव प्रत्यक्षम्, न तु केवलाभावविषयकं केवलभावविषयकं वा प्रत्यक्षं तादृशकार्यकारणभावमुपदर्शयति-तस्मादिति- पराभ्युपगतकार्यकारणभावस्य दोषग्रस्तत्वादित्यर्थः । 'सन्निकर्षमात्रस्यैव' इत्येवकारेण केवलविशेषणताया व्यवच्छेदः। 'किञ्चिद्धर्म०'इत्यादि कार्यतावच्छेदककोटौ विशिष्य भावविषयताया अभावविषयताया वा अप्रवेशाद् भावप्रत्यक्षाऽभावप्रत्यक्षोभयोरपि निरुक्तकार्यतावच्छेदकाकान्तत्वात् सन्निकर्षमात्रेणैव जायमानं प्रत्यक्षं विशिष्टविषयकमेवेत्याह- अत इति- अनन्तरोपदर्शित कार्यकारणभाव भ्युपगमत इत्यर्थः । 'नापायमात्रस्य' इत्यत्र नजः 'तुल्यता' इत्यनेनान्वयः, अवग्रहेहाऽपायधारणारूपचतुष्टयात्मकमतिज्ञानतृतीयभेदस्याऽपायमात्रस्य, विचारजन्यः- सङ्ग्रहनय विचारप्रभवः यश्चरमशुद्धद्रव्योपयोग:- पर्यायाऽविशेषितद्रव्यमानोपयोगः, तत्तुल्यता नेत्यर्थः । एवं च भावांशेऽभावांशे वा शुद्धविषयक प्रत्यक्षं विशेषणासम्पृक्तविषयकप्रत्यक्षं सन्निकर्षमात्र कार्यतावच्छेदकधर्मानाक्रान्तत्वान्न भवत्येव, इति एतस्माद्धेतोः, परस्य यदभाव एव सापेक्षो न भाव इतीदं वचनमर्द्धजरतीयं किं-न किञ्चित् , अभावस्येव भावस्यापि किञ्चिद्विशिष्टतयैव प्रत्यक्षेण विषयीक्रियमाणत्वादुभयोः सापेक्षत्वमेवेत्याशयः । 'एतेन' इत्यस्य 'इत्यादिनव्यकल्पनाऽपि निरस्ता' इत्यनेनान्वयः, अभावलौकिकप्रत्यक्षस्य घटाद्यन्यतमविशिष्टविषयकत्वनियमस्तदोपपद्येत यदि चक्षुरादीन्द्रियसम्बद्ध विशेषणतासन्निकर्षो घटादिज्ञानसहकृतो घटाद्यन्यतमविशिष्टाभावलौकिकप्रत्यक्षे कारणमित्येवं विशिष्य कार्यकारणभावः स्यात् , तथा च तादृशविशेषसामग्रीसहितैवाभावलौकिकप्रत्यक्षसामान्यसामग्री कार्यजनिका, न विशेषसामग्रीमन्तरा सामान्यसामग्री कार्य निका, विशेषसामग्री च घटादिविशिष्टाभावलौकिकप्रत्यक्षजनिकैवेति तत्सापेक्षसामान्यसामग्रीतोऽपि घटादिविशिष्टाभावलौकिक प्रत्यक्ष एव, नाऽभावनिर्विकल्पम् , 'न' इत्या कारकप्रत्यक्षं वा, तादृशप्रत्यक्षं च विशेषणज्ञानविरहकाल एव भवेत् , तदानीं च विशेषसामयभावात् तत्सहितायाः सामान्यसामाग्या अप्यभावे कार्यासम्भवादित्यर्थः । ननु अभावलौकिकप्रत्यक्षत्वावच्छिन्नं प्रति इन्द्रियसम्बद्धविशेषणता हेतुरित्येकः कार्यकारणभावः, अपरश्च घटत्वादिविशिष्टविषयकप्रत्यक्षत्वावच्छिन्नं प्रति घादिविशेषणज्ञानं हेतुरिति, तत्र घटादिविशेषणज्ञानसहकृतैवाभावलौकिक. प्रत्यक्षसामग्री कार्यजनिकेति नियमभावेऽभावलौतिकप्रत्यक्षं घटाधन्यतमविशिष्टविषयक मेवेति नियमो भवेत् , तादृशनियमसद्भावश्चाभावलौकिक प्रत्यक्षत्वस्य घटत्वादिविशिष्टविषयकप्रत्यक्षत्वव्यापकत्वे सति घटत्वादिविरि टविषयक प्रत्यक्षसामच्या विशेषसामग्रीत्वादुपपद्यते, न चाभावलौकिकप्रत्यक्षत्व-घटत्वादिविशिष्टविषयक प्रत्यक्षत्वयोाप्यव्यापकभावः समस्तीत्याशङ्कय प्रति Page #76 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । विशिष्टविषयकप्रत्यक्षत्वयोर्व्याप्यव्यापकभावाभावात् कथं विशेषसामग्रीत्वमिति वाच्यम् , कार्यतावच्छेदकीभूततद्धर्माश्रययत्किश्चिद्व्यक्तिनिष्ठकार्यतानिरूपितकारणतावच्छेदकं यावत् प्रत्येकं तावदवच्छिन्न[स्य] सत्त्वेऽवश्यं तद्धविच्छिन्नोत्पत्तिरित्येव नियमात् , 'तद्धर्मव्याप्यधर्मावच्छिन्नयत्किञ्चिद्व्यक्तिनिष्ठकार्यतानिरूपित०' इत्याद्युक्तौ व्याप्तिज्ञान-परामर्शयोः सतोर्बाधधीसत्वेऽप्यनुमित्यापत्ती, 'तद्धर्मव्याप्यव्यापकधर्मावच्छिन्नयत्किञ्चद्व्यक्तिनिष्ठकार्यतानिरूपित०' इत्याद्युक्तौ गौरवात्, घटत्वादिविशिष्टवैशिष्ट्यविषयकप्रत्यक्षत्वस्याभावलौकिकप्रत्यक्षत्वव्याप्यत्वात् तत्तद्भावलौकिकप्रत्यक्षत्वव्याप्यतत्तदभावलौकिक क्षिपति-न चेति- अस्य ‘वाच्यम्' इत्यनेनान्वयः । निषेधे हेतुमाह-कार्यतावच्छेदकीभूतेति- कार्यतावच्छेदकीभूततद्धर्मोऽभावलौकिक प्रत्यक्षत्वम् , तदाश्रयकिच्चिद्वयक्तिर्घटविशिष्टाभावलौकिक प्रत्यक्षव्यक्तिः, तनिष्टकार्यता अभावलौकिकप्रत्यक्षत्वावच्छिन्न कार्यता अभावलौकिकप्रत्यक्षत्वव्यापकाशेषधर्मावच्छिन्नकार्यता घटविशिष्टाभावलौकिकप्रत्यक्षत्वावच्छिन्नकार्यता च, तन्निरूपित कारणतावच्छेदकं यावत्- अभावलौकिकप्रत्यक्षत्वावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकाऽभावलौकिकप्रत्यक्षत्वव्यापकाशेषधर्मावच्छिन्न कार्यतानिरूपितकारणतावच्छेदक- घटविशिष्टाभावलौकिक प्रत्यक्षत्वावच्छिन्न कार्यतानिरुपितकारणतावच्छेदकानां समुदायः, प्रत्येकं तावदवच्छिन्नस्य सत्त्वेऽवश्यं तद्धर्मावच्छिन्नोत्पत्तिः- अभावलौकिकप्रत्यक्षत्वोत्पत्तिरित्येव नियमात् , तथा च 'प्रत्येक ताक्दवच्छिन्नस्य' इत्यनेन घटात्मक विशेषणज्ञानस्यापि प्रहणेन तत्सत्त्वे जायमानस्याभावलौकिकप्रत्यक्षस्य घटविशिष्टविषयकत्वस्याऽवश्यम्भावेनाऽभावनिर्विकल्पकप्रत्यक्षस्य 'न' इत्याकारकप्रत्यक्षस्य चासम्भवादित्यर्थः, 'कार्यतावच्छेदकीभूततद्धर्माश्रयत्किञ्चिद्वयक्तिनिष्टकार्यतानिरूपितकारणतावच्छेदकं यावत्' इत्यस्य स्थाने 'कार्यतावच्छेदकीभूततद्धर्मव्याप्यधर्मावच्छिन्नयत्किञ्चिद्वयक्तिनिष्ठकार्यतानिरूपितकारणतावच्छेदकं यावत्' इत्युक्तिर्न सम्भवति, तथा सति व्याप्तिज्ञान-परामर्शादिकार्यतावच्छेदकीभूतधर्मोऽनुमितित्वम् , तद्वयाप्यधर्मः पर्वतविशेष्यकवहिप्रकारकानुमितित्वम् , तदवच्छिन्ना या 'पर्वतो वह्निमान्' इत्याकारकानुमित्यात्मकयत्किञ्चिद्वयक्तिनिष्ठकार्यता, तन्निरूपितकारणतावच्छेदकं व्याप्तिज्ञानत्व-परामर्शत्वादिकम् , न तु बाधज्ञानाभावत्वम् , बाधज्ञानस्य विशिष्टबुद्धिमानं प्रत्येव प्रतिबन्धकत्वेन बाधज्ञानाऽभावत्वेन विशिष्टबुद्धित्वेनैव कार्यकारणभावः, न तु बाधज्ञानाऽभावत्वेनाऽनुमितिविशेषत्वेनेति बाघधीसत्वे बाधज्ञानाभावाऽसत्त्वेऽपि व्याप्तिज्ञान-परामर्शयोः सत्त्वेन निरुककारणतावच्छेदकयावदवच्छिन्नस्य सत्तयाऽनुमित्यापत्तिः स्यादित्याह-तद्धर्मव्याप्येति । 'प्यनुमित्यापत्ती' इति स्थाने 'प्यनुमित्यापत्तेः' इति पाठो युक्तः । यद्युक्तापत्तिवारणाय 'कार्यतावच्छेदकीभूततद्धर्मव्याप्यधर्मावच्छिन्ना, या च कार्यतावच्छेदकीभूततद्धर्मव्यापकधर्मावच्छिन्ना यत्किञ्चिद्वयक्तिनिष्टकार्यता तन्निरूपितकारणतावच्छेदकं यावत् , इत्याद्यच्यते तदा कार्यतावच्छेदकीभूतानामितित्वव्याप्यपर्वतविशेष्यकवह्निविधेयकानुमितित्वावच्छिन्ना कार्यता तादृशानुमितित्वव्यापकविशिष्टबुद्धित्वावच्छिन्ना च कार्यता ग्रहीतुं शक्या, तन्निरूपितकारणतावच्छेदकयावन्मध्ये बाधज्ञानाभावत्वमपि भवति, तदवच्छिन्नस्य सत्त्वं बाधधीसत्त्वे न भवतीति बाधधीसत्त्वे व्याप्तिज्ञान-परामर्शयोः सतोरप्यनुमित्यापत्तिर्न सम्भवति, किन्त्वेवमुक्तौ गौरवं स्यादित्याह-तद्धर्मव्याप्यव्यापक धर्मति- 'तद्धर्म' इत्यस्य व्याप्ये व्यापके चान्वयः, अथवाऽग्रिम ग्रन्थस्वारस्यात् तद्धर्मव्याप्यस्य व्यापको यो धर्मस्तदवच्छिन्नयत्किञ्चिद्वयत्तिनिष्टकार्यतेत्यादिरप्यर्थः सम्भवति, तत्रापि तद्धर्मस्यानुमितित्वस्य व्याप्यं पर्वतविशेष्यकवह्निविधेयकानुमितित्वादि, तद्वय पकं विशिष्बुद्धित्वम् , तदवच्छिन्नयत्किञ्चिद्वयक्तिनिष्ठकार्यतानिरूपितकारणतावच्छेदकं बाधज्ञानाभावत्वं भवति, तदवच्छिन्नस्य सत्त्वं बाधधीसत्त्वे न भवतीति न बाधधीसत्त्वेऽनुमित्यापत्तिरित्येवमुक्तापत्तिवारणं सम्भवतीति । अनुमित्यापत्तिगौरवदोषतः 'तद्धर्मव्याप्य' इत्यादि 'तद्धर्मव्याप्यव्यापक'इत्यादिनियमद्वयासम्भव उपदर्शितः, उक्तनियमद्वयोररीकारेऽप्यभावस्य विशिष्टबुद्धयात्मकमेव प्रत्यक्षम्, न निर्विकल्पक 'न' इत्याकारकं वेति प्रकृतसिद्धिर्भवत्येवेत्याह-घटत्वादीति- तद्धर्मोऽभावलौकिकप्रत्यक्षत्वम् , तथाप्यत्वं तदभाववदवृत्तित्वरूपं यथाश्रुते घटत्वविशिष्टवैशिष्टयविषयक प्रत्यक्षत्वे न सम्भवति, अभावलौकिकप्रत्यक्षत्वाभाववति 'घटवद् भूतलम्' इति प्रत्यक्षे घटत्वविशिष्टवैशिष्टयविषयकप्रत्यक्षत्वस्य सत्त्वात्, स्वसमानाधिकरणत्वे सति स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वलक्षणन्यूनवृत्तित्वरूपव्याप्यत्वस्य सम्भवेऽपि तथाविधव्याप्यत्वाकान्तधर्मा Page #77 -------------------------------------------------------------------------- ________________ ४४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । प्रत्यक्षत्वव्यापकत्वात् प्रकृतसिद्धेश्च” इत्यादिनव्यकल्पनाऽपि निरस्ता, एवं सति द्रव्यविषयकप्रत्यक्षस्य वस्तुविषयकप्रत्यक्षस्य वा यत्किञ्चित्पर्यायविशिष्टविषयकत्वनियमेन भावनिर्विकल्पस्य शुद्धभावप्रत्यक्षस्यापि चासम्भवात् । ____ अत एव सविचारणया सामान्यदृष्ट्या च सर्व निर्विकल्पकं विशेषदृष्ट्या च सर्व सविकल्पकमित्यनेकान्तः पुरुषदृष्टान्तेन संमतौ प्रतिपादितः। तथाहि " वंजणपज्जायस्य उ पुरुसो पुरुसो त्ति निश्चमविअप्पो । बालाइविगप्पं पुण पासइ से अत्थपज्जाओ ॥ ३४ ॥ सविअप्प-णिव्विअप्पं इय पुरिसं जो भणेज अविअप्पं । सविअप्पमेव वा णिच्छएण ण स णिच्छिओ समये ॥ ३५ ॥ -[ सम्मतितर्ककाण्ड०] वच्छिन्नकार्यतानिरूपितकारणतावच्छेदकावच्छिन्नस्य सत्त्वं न तद्धर्मावच्छिन्नोत्पत्तौ प्रयोजकम्, किन्तु घटत्वविशिष्टस्य प्रतियोगित्वलक्षणवैशिष्टथविषयकप्रत्यक्षत्वं भवत्येवाभावलौकिक प्रत्यक्षत्वस्य तदभाववदवृत्तित्वलक्षणव्याप्यत्ववत् , तदवच्छिन्नयत्किञ्चिद्वयक्तिनिष्ठकार्यतानिरूपितकारणतावच्छेदकयावदन्तर्गतविशेषणबुद्धित्वावच्छिन्नस्य सत्त्व एवाभावलौकिकप्रत्यक्षत्वावच्छिन्नोत्पत्तिरित्यभावलौकिकप्रत्यक्षं विशिष्टविषयकमेव भवति, तथा तद्धर्मोऽभावलौकिकप्रत्यक्षत्वम् , तद्वयाप्यं घटविशिष्टाभावलौकिकप्रत्यक्षत्वम् , तद्वयापकधर्मों घटत्वविशिष्टवैशिष्ट्यविषयक प्रत्यक्षत्वम् , तदवच्छिन्नयत्किञ्चिद्वयक्तिनिष्ठकार्यतानिरूपितकारणतावच्छेदकयावद्धर्मान्तर्गतविशेषणबुद्धित्वावच्छिन्नसत्त्वे सत्येवाभावलौकिकप्रत्यक्षत्वावच्छिन्नस्योत्पत्तिरिति तस्य घटत्वादिविशिष्टवैशिष्ट्यविषयक त्वसिद्धिरित्यर्थः । निरासहेतुमुपदर्शयति- एवं सतीति- कार्यतावच्छेदकीभूततद्धर्माश्रययत्किञ्चिद्वयक्तिनिष्टकार्यतानिरूपित कारणतावच्छेदकं यावत् प्रत्येकं तदच्छिन्नस्य सत्त्वेऽवश्यं तद्धर्मावच्छिन्नोत्पत्तिरित्यादिनियमाभ्युपगमेनाभावलौकिक प्रत्यक्षस्य विशिष्टविषयकत्वमेवेति नियमस्योपपादने सतीत्यर्थः । द्रव्यविषयकप्रत्यक्षस्येति- कार्यतावच्छेदकीभूततद्धर्मो द्रव्यविषयकप्रत्यक्षत्वम् , तदाश्रययत्किञ्चिद्वयक्तियत्किञ्चित्पर्याय विशिष्टद्रव्यविषयकप्रत्यक्षव्यक्तिः, तन्निष्टकार्यता यत्किञ्चित्पर्यायविशिष्टद्रव्यविषयकबुद्धित्वावच्छिन्न कार्यता, तन्निरूपितकारणता यत्किञ्चित्पर्यायरूप विशेषणविषयकबुद्धित्वावच्छिन्न कारणता, तदवच्छेदकयावद्धर्मान्तर्गत्यत्कित्किञ्चित्पर्यायरूपविशेषणविषयकबुद्धित्वरूपधर्मावच्छिन्नस्य सत्वे एव द्रव्यविषयकप्रत्यक्षत्वावच्छिन्नस्योपपत्तिरिति तस्य यत्किञ्चित्पर्यायवैशिष्ट्यविषयकत्वस्य, तथा वस्तुविषयकप्रत्यक्षत्वरूपकायतावच्छेदकीभूतधर्माश्रययत्किञ्चित्पर्यायविशिष्टवस्तुविषयकप्रत्यक्षव्यक्तिनिष्ठयत्किञ्चित्पर्यायविशिष्टवस्तुविषयकप्रत्यक्षत्वावच्छिन्नकार्यतानिरूपितयत्किञ्चित्पर्यायविषयकबुद्धित्वावच्छिन्न कारणतावच्छेदकयावदन्तर्गतयश्चित्किञ्चित्पर्यायविषयबुद्धित्वावच्छिन्नस्य सत्त्व एव वस्तुविषयकप्रत्यक्षत्वावच्छिन्नस्योत्पत्तिरिति तस्य यत्किञ्चित्पर्यायवैशिष्ट्यविषयकत्वस्य च, नियमेन भावनिर्विकल्पकस्य शुद्धभावप्रत्यक्षस्यापि चासम्भवादित्यर्थः । एवं 'तद्धर्मव्याप्यधर्मावच्छिन्न'इत्यादिनियमे 'तद्धर्मव्याप्यव्यापकधर्मावच्छिन्न' इत्यादिनियमेऽपि चोक्तासम्भवो बोध्यः । . अत एव अभावस्येत्येव सापेक्षत्वं न भावस्येकान्तस्योक्तयुक्त्या निरासेन निरपेक्षत्वपक्षे इदन्त्वादिनाऽभावज्ञानमपि प्रतियोगिज्ञानं विना भवति, तथा भावज्ञानमपि, सापेक्षत्वपक्षे अभावज्ञानस्येव भावज्ञानस्यापि सविकल्पकत्वमेवेत्यस्य व्यवस्थित. वादेव । सामान्यदृष्ट्या सर्व निर्विकल्पकं विशेषदृष्टया सविकल्पकमित्येवमनेकान्तस्य पुरुषदृष्टान्तेन समर्थकं सम्मतिगाथायुगलमुल्लिखति-वंजण. इति- "व्यञ्जनपर्यायस्य तु पुरुषः पुरुष इति नित्यमविकल्पः । बालादिविकल्पं पुनः पश्यति तस्यार्थपर्यायः ॥ सविकल्प-निर्विकल्पमिति पुरुषं यो भणेदविकल्पम् । सविकल्पमेव वा निश्चयेन न स निश्चितः समये ॥" इति संस्कृतम् । विवृणोति-व्यञ्जयतीति । व्यञ्जनपदेनार्थमात्रवाचकस्य शब्दस्यैव ग्रहणम्, न शब्दनयस्येत्याह-न पुनः Page #78 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । व्याख्या- व्यञ्जयति व्यनक्ति चार्थानिति व्यञ्जनं शब्दः, न पुनः शब्दनयः, तस्यर्जुसूत्रसमानपर्यायविषयत्वात् , तस्य पर्याय:- वाच्यता, तबाहकनयेन पुरुषः, पुरुष इति- पुरुषत्वप्रकारकज्ञानविषय इति, नित्यम्- आ जन्मनो मरणान्तं यावद् , अविकल्प:- पुरुषत्वातिरिक्ताप्रकारकज्ञानविषयः, इदमुपलक्षणं द्रव्यत्व-वस्तुत्वादिनाऽप्यविकल्पत्वस्य, शुद्धद्रव्योपयोगे तु पदद्वयस्य निर्धर्मकत्वलक्षणया शुद्धधर्मिविषयकभानविषयत्वमेवाविकल्पत्वं द्रष्टव्यम् , से- तस्य पुरुषस्य, अर्थपर्याय:- ऋजुसूत्राद्यर्थप्राहकनयः, पुनर्बालादिविकल्पं- बालादिभेदं पश्यति ॥ ३४ ॥ सविकल्पं निर्विकल्पं स्यात्काराङ्कितं तदुभयपदघटितमहावाक्यबोधरूपपुरुषद्रव्यस्य यो भणेद् अविकल्पमेव सविकल्पमेव वा, निश्चयेन- एकान्तेन, समये-परमार्थे, न निश्चित:- निश्चयो निश्चितं तदस्यास्तीति निश्चितः, अर्शआदित्वाचप्रत्ययः, न तदर्थे इत्यर्थः, दुर्नयाभिनिवेशाद् नयत्वाद् वा संपूर्णानेकान्तवस्तुस्वरूपापरिच्छेदादिति रहस्यम् ॥ ३५ ॥ तदेवं निषेधवद् विधावपि सापेक्षत्वं प्रतिपादितम् । एवं स्वद्रव्याद्यपेक्षया सन् परद्रव्याद्यपेक्षया शब्दनय इति । शब्दनयस्य कुतो न ग्रहणमित्यपेक्षायामाह - तस्येति- शब्दनयस्येत्यर्थः, व्यञ्जनपदेन शब्दनयस्य ग्रहणे तस्य पर्यायस्तन्नयविषयीभूतपर्याय ऋजुसूत्रनयविषयः प्रतिक्षणमन्यान्यपर्याय एव स्यात् , न तु आ जन्मनो मरणान्तं यावद् व्यवस्थितैकरूपपुरुषपर्यायः, अभिमतश्च सोऽविकल्पतयेत्यतो न शब्दनयस्य ग्रहणम् , किन्तु शब्दस्य । तस्य शब्दस्य । तह्राहकनयेन शब्दवाच्यताप्राहकनयेन । पुरुषः पुरुष इति लोके प्रसिद्धः । 'पुरुष इति' इत्यस्य 'पुरुषत्वप्रकारकज्ञानविषय इति' इति, 'नित्यम्' इत्यस्य च 'आ जन्मनो मरणान्तं यावद्' इति विवरणम् । यश्च पुरुषत्वप्रकारकज्ञानलक्षणसविकल्पकज्ञानविषयः स कथं निष्प्रकारकज्ञानरूपनिर्विकल्पकज्ञानविषयात्मकाविकल्प इत्यतः 'अविकल्पः' इत्यस्य विवरणम्पुरुषत्वातिरिक्ताप्रकारकज्ञानविषय इति । पुरुषस्य पुरुषत्वेन रूपेण पुरुषत्वातिरिक्ताऽप्रकारकज्ञानविषयत्वलक्षणमविकल्पत्वम् , तथा तस्य द्रव्यत्वेन रूपेणाऽविकल्पत्वं द्रव्यत्वातिरिक्ताप्रकारकज्ञानविषयत्वलक्षणम् , वस्तुत्वेनाविकल्पत्वं वस्तुत्वातिरिक्ताऽप्रकारकज्ञानविषयत्वलक्षणमवसेयमित्याह- इदमिति- द्रव्यत्व-वस्तुत्वादिनाप्यविकल्पत्वस्योपलक्षणमिदमित्यन्वयः । शुद्धद्रव्योपयोगे तु द्रव्यत्वमपि प्रकारतया नैव भासते, किन्त्वखण्डद्रव्यव्यक्तिरेव 'इदं द्रव्यम् , अयं पुरुषः' इत्यादि शब्दजन्यज्ञानविषय इति तत्र द्रव्यत्वप्रकारकज्ञानविषयत्वं तस्य नास्ति, येन सविकल्पकज्ञान विषये तस्मिन्नविकल्पत्वोपपत्तये द्रव्यत्वातिरिकाप्रकारक ज्ञानविषयत्वलक्षणं पारिभाषिकमविकल्पकत्वमुच्येत, किन्तु पदद्वयस्यापि निर्मकत्वलक्षणया शुद्धधर्मिविषयकभानविषयत्वमेवाविकल्पत्वमित्याह-शुद्धद्रव्योपयोगे त्विति । 'से' इति प्राकृतस्य 'तस्य' इति संस्कृतम् , पुरुषस्येति तदर्थः, तस्य 'बालादिविकल्पम्' इत्यनेनान्वयः । 'अर्थपर्यायः' इत्यस्यार्थकथनम्-'ऋजुसूत्राद्यर्थप्राहकनयः' इति, पुरुषस्य बालादिभेदं पश्यति ऋजुसूत्रादिनय इति ॥ ३४ ॥ द्वितीयगाथार्थमाह-सविकल्पमिति | 'स्यात्काराङ्कितं तदुभय.' इति स्थाने 'स्यात्काराङ्किततदुभय०' इति पाठो युक्तः, स्यात् सविकल्पं स्यान्निर्विकल्पं स्यादवक्तव्यमित्येवं यन्महावाक्यं तजबोधरूपं यत् पुरुषद्रव्यम् 'उपयोगलक्षणो जीवः' इति सिद्धान्तमनुसृत्य, एवस्वरूपस्य यः प्रमाता अविकल्पमेव सविकल्पमेव वा पुरुष भणेत् वदेत् । 'निश्चयेन' इत्यस्यार्थ:'एकान्तन' इति, तस्यान्वयः ‘भणेत्' इति पूर्वेण, स इति दृश्यम् , स- प्रमाता, 'समये' इत्यस्य विवरणम्- ‘परमार्थे' इति, 'न निश्चितः' इत्यस्य न निश्चयवानित्यर्थोऽभिमतः, स यथा सम्पद्यते तथोपदशर्यति-निश्चयो निश्चितमिति । तदस्यास्तीति निश्चितमस्यास्तीति । 'न तदर्थे' इत्यस्य स्थाने 'मतुबर्थे' इति पाठो युक्तः । कथं परमार्थविषयकनिश्चयवान्न स प्रमातेत्यपेक्षायामाह-दुर्नयाभिनिवेशादिति ॥ ३५ ॥ एवं च यथा 'स्यान्नास्ति' इति वाक्यं सापेक्षनिषेधरूपार्थप्रतिपादक तथा 'स्यादस्ति' इति वाक्यमपि सापेक्षविधिरूपार्थप्रतिपादकमिति प्रथम द्वितीयभनौ नयवाक्ये भवत इत्याह-तदेवमिति। तृतीयोल्लिख्यमानेति- 'स्वद्रव्याद्यपेक्षया' Page #79 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। चासन्निति तृतीयोल्लिख्यमानावच्छेदकप्रतीत्याऽपि सापेक्षत्वं भावनीयम , अत एव परेऽपि व्याप्यवृत्तावप्यव्याप्यवृत्ताविव प्रतीतिबलात् तत्तदवच्छिन्नवृत्तिकत्वं स्वीकुर्वते, इति दिक् ॥ ५ ॥ नय-प्रमाणवाक्ययोः कथं भेद इति व्युत्पादयति सप्तभङ्गयात्मकं वाक्यं प्रमाणं पूर्णबोधकृत् । स्यात्पदादपरोल्लेखि वचो यच्चैकधर्मगम् ॥ ६ ॥ नया०- सप्तेति । सप्तभङ्गयात्मकम् ‘स्यादस्त्येव, स्यान्नास्त्येव' इत्यादिकं वाक्यं प्रमाणम् , यतः पूर्णवोधकृत सप्तविधजिज्ञासानिवर्तकशाब्दबोधजनकतापर्याप्तिमत् , तदाहुः- "स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः" १, “स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयो भङ्गः" २, "स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधि-निषेधकल्पनया तृतीयो भङ्गः" ३, “स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः" ४, “स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधि-निषेधकल्पनया च पञ्चमः" ५, "स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधि-निषेधकल्पनया च षष्ठः" ६, "स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधि-निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमः" ७, [ प्रमाणनयतत्त्वालोकालङ्कारचतुर्थपरिच्छेदे १५, १६, १७, १८, १९, २०, २१, इति या तृतीया, या च 'परद्रव्याद्यपेक्षया' इति तृतीया तयोल्लिख्यमाना याऽवच्छेदक.प्रतीतिस्तयाऽपि सापेक्षत्वं भावनीयमित्यर्थः । अवच्छेदकप्रतीत्यनुरोधेन व्याप्यवृत्तेरपि सावच्छिन्नवृत्तिकत्वतः सापेक्षकत्वं नैयायिका अपि स्वीकुर्वन्तीत्याहअत एवेति- अवच्छेदकपतीतिबलतः सापेक्षत्वादवेत्यर्थः । परेऽपि नैयायिका अपि, “साध्यासामानाधिकरण्यानधिकरण्यम्" इतिव्यानलक्षणव्याख्या सार्वभौमेन "हेतुतावच्छेदकसम्बन्धेन हेत्वधिकरणावच्छेदेन साध्याधिकरणनिरूपितहेतुतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वाभावाधिकरणदाभाववत्त्वम्” इति कृता, तत्र 'पर्वतो वह्निमान् धूमाद्' इत्यादौ हेतुतावच्छेदकसम्बन्धेन संयोगेन धूमरूपहेत्वधिकरणं पर्वतः, तदवच्छेदेन वयधिकरणनिरूपितसंयोगसम्बन्धावच्छिन्नवृत्तित्वाभावाधिकरणत्वं पर्वतीयरूपे प्रसिद्धम् , तदभाववत्त्व धूमे इत्येवं लक्षणसमन्वयः कृतः, तथा च, पर्वतीयरूपे वह्नयधिकरणनिरूपितसंयोगसम्बन्धावच्छिन्नवृत्तित्वाभाववत्त्वं व्याप्यवृत्त्येव, तथापि 'पर्वते पर्वतीयरूपे न वह्निसंयुक्तत्वम्' इति प्रतीतिवलाद् व्याप्यवृत्तेरपि पर्वतीयरूपनिष्ठवह्निमत्संयुक्तत्वाभावाधिकरणत्वस्य पर्वतावच्छिन्नपर्वतीयरूपनिरूपितवृत्तित्वमव्याप्यवृत्ताविव नैयायिकाः स्वीकुर्वन्ति, एवमन्यत्रापि दोध्यमित्यर्थः ॥ ५ ॥ षष्ठं पद्यमवतारयति-नय-प्रमाणवाक्ययोरिति । सप्तभङ्गयात्मकमिति पद्यं विवृणोति- सप्तेतीति । सप्तभङ्गयात्मकवाक्यस्य प्रमाणरूपतायां हेतुः पूर्णबोधजनकत्वम् , तत्प्रतीतये 'पूर्णबोधकृत्' इत्युक्तमित्याह-पूर्णबोधदितिपूर्णबोधजनकत्वात् प्रमाणमित्यर्थः । 'पूर्णबोधकृत्' इत्यस्य विवरणम्- 'सप्तविधजिज्ञासानिवर्तकशाब्दबोधजनकता. पर्याप्तिमत्' इति । सप्तभङ्गयात्मकमहावाक्यस्वरूपाधिगतये तदवयवानां सप्तानामपि भङ्गानां प्रत्येकं क्रमेण स्वरूपमुपदर्शयति-तदाहुरिति । 'स्यादस्त्येव' इत्यादिभङ्गस्वरूपावधारणं सुगममेवेति नात्र व्याख्यानमपेक्षितमिति बोध्यम् । एते चेति- वस्तुनि प्रतिपर्यायं विधि-निषेधप्रकारापेक्षयेते सप्तैव भङ्गा इत्यन्वयः, यथा वस्तुनोऽस्तित्वधर्मात्मकपर्याय समाश्रित्य 'स्यादस्त्येव सर्वम्' इत्यादयः सप्त भङ्गा भवन्तीति तत्समुदायात्मकं महावाक्यमेका सप्तभङ्गी, तथा वस्तुनो नित्यत्वधर्मात्मकपर्यायं समाश्रित्य 'स्यान्नित्यमेव सर्वम्' इति विधिकल्पनया प्रथमो भङ्गः, 'स्यादनित्यमेव सर्वम्' इति निषेधकल्पनया द्वितीयो भङ्ग इत्येवं प्रकारेण सप्तभङ्गप्रवृत्त्या तत्समुदायात्मकमहावाक्यात्मिका द्वितीया सप्तभङ्गी, एवं भेदादिधर्ममुपादाय तृतीय-तुरीयाद्या अपि सप्तभनयः सम्भवन्तीति धर्मभेदेनाऽनन्ता अपि सप्तभनयः, तथापि प्रतिधर्म सप्तानामेव Page #80 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । सूत्राणि ] इति, एते च विधि-निषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुनि सनैव भङ्गाः, धर्मभेदेनानन्तसप्तभङ्गीसम्भवेऽपि प्रतिधर्म सप्तानामेव भावात् , अयं च नियमः प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव सम्भवात् , तेषामपि सप्तत्वं सप्तविधतजिज्ञासानियमात् , तस्या अपि सप्तविधत्वं सप्तधैव तत्सन्देहसमुत्पादात्, तस्याऽपि सप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेरिति । अत्र विधिमुख्य विषयताकः [ बोधः ] प्रथमस्य [ भङ्गस्य फलम् ], निषेधमुख्यविषयताको द्वितीयस्य, क्रमादु ख्यविषयताकस्तृतीयस्य । न च क्रमबलादेव तत्र ज्ञानद्वयमर्थसिद्धमित्याद्यभङ्गद्वयानतिरेकः, क्रमगर्भोभयप्राधान्यबोधकत्वाभिप्रायेणोभयपदप्रयोगात् तत्र 'एकत्र द्वयम्' इति विषयशालिनो बोधान्तरस्यानुभविकत्वात्। न च तत्र शब्दयोः क्रमव्यापारेऽप्यर्थस्य विशिष्टस्य क्रमाघटितत्वात् क्रमाद्यनतिप्रयोजनम् । "न सोऽस्ति प्रत्ययो लोके, यः शब्दानुगमाहते। अनुविद्धमिव ज्ञानं, सर्व शब्देन भाषते" ॥१॥ [ वाक्यपदीये० ] इति नयाश्रयणाच्छब्दगतस्याऽपि क्रमस्यार्थेऽध्यारोपणात् । अस्तु वा 'क्रमाद्' भङ्गानां भावान्नाऽटभङ्गादिप्रसङ्ग इत्याह-धर्मभेदेनेति । प्रतिधर्म सप्तानामेव भङ्गानां सम्भव इति नियम एवं कथमत आई- अयं च नियम इति । प्रतिपाद्यपर्यनुयोगानामिति- यस्य पुंसस्तत्त्वप्रतिपत्त्यर्थं महावाक्यं प्रयुज्यते स प्रतिपाद्यः पुरुषः, तस्य ये पर्यनुयोगा:- प्रश्नाः, तेषामित्यर्थः । सप्तैव प्रतिपाद्यपर्यनुयोगा इति नियम एव कुत इत्यत आहतेषामपीति- प्रतिपाद्यपर्यनुयोगानामपीत्यर्थः । तजिज्ञासेति- प्रतिपाद्यजिज्ञासेत्यर्थः । तस्या अपि प्रतिपाद्यजिज्ञासाया अपि । तत्सन्देहेति-प्रतिपाद्यसन्देहेत्यर्थः । तस्यापि सन्देहस्यापि । स्वगोचरेति-सन्देहगोचरेत्यर्थः। तथा च प्रतिपर्यायं वस्तुनि विधि-निषेधकल्पनया सप्तैव धर्माः, अतस्तद्विषयाः सप्तैव सन्देहाः, ततः सन्देहजनिताः सप्तव जिज्ञासाः, ततस्तन्मूलकाः प्रतिपाद्यप्रश्नाः सप्तैव, ततस्तत्प्रतिविधानस्वरूपा भङ्गा अपि सप्तैवेत्यतः प्रतिपर्यायं वस्तुनि सप्तभङ्गयात्मकमहावाक्यमेव सप्तविधजिज्ञासानिवर्तकशाब्दबोधजनकतापर्याप्तिमत्त्वात् प्रमाणमिति । सप्तानामपि भङ्गानां प्रत्येकं क्रमेण विविक्तं फलमुपदर्शयति- अत्रेति- सप्तभङ्गयात्मकमहावाक्य इत्यर्थः, विधिमुख्य विषयताको बोधः प्रथमभङ्गस्य फलमित्यर्थः । निषेधेति-निषेधमुरयविषयताको बोधो द्वितीयभङ्गस्य फलमित्यर्थः। क्रमादिति- क्रमाद् विधि-निषेधोभयमुख्यविषयताको बोधस्तृतीयस्य भङ्गस्य फलमित्यर्थः । ननु प्रथमभङ्गेन विधिमुख्यविषयताको बोधो द्वितीयभङ्गेन निषेधमुख्यविषयताको बोधः क्रमेण भवत्येव तथैव च तृतीयभङ्गेनापि क्रमबलान्निरुक्तबोधद्वयमुपजायत इति तृतीयभङ्गस्य प्रथमद्वितीयभङ्गाभ्यामभेद एवेत्याशङ्कय प्रतिक्षिपति-न चेति । तत्र तृतीयभङ्गे । तत्र क्रमिकोभयधर्मस्य प्राधान्यबोधकत्वमित्यभिप्रायेण विधिप्रतिपादकपदं निषेधप्रतिपादकपदं च प्रयुज्यत इति 'एकत्र द्वयम्' इति रीत्यैक एव बोधो विधिनिष्ठप्रकारतानिरूपितत्वे सति निषेधनिष्टप्रकारतानिरूपितवस्तुनिष्ठविशेष्यताको भवति, न चेदृशो बोधः प्रथम-द्वितीयभङ्गाभ्यां भवतीति बोधान्तररूपफलजनकत्वात् प्रथम-द्वितीयाभ्यामस्य भेद इति निषेधहेतुमुपदर्शयति-क्रमग भयप्राधान्येति । तत्र तृतीयभङ्गे । ननु क्रमो नामैकानन्तरमपरस्य भावः, स च शब्दगतो विधिबोधकपदप्रयोगानन्तरं निषेधबोधकपदप्रयोगात्, न तु विधि-निषेधरूपधर्मद्वयगतः, तयोः समकालमेवैकत्र वस्तुनि भावादिति शब्दस्य क्रमव्यापारेऽपि नार्थे क्रम इति क्रमाऽघटितस्यैव विधि-निषेधविशिष्टस्यार्थस्य तृतीयभङ्गजन्यबोधेऽवभासनात् 'कमगर्भ.' इत्याद्यभिधानमनतिप्रयोजनकमित्याशङ्कय प्रतिक्षिपति-न चेति । शन्दगतस्य न.मस्यार्थेऽध्यारोपणात् तृतीयभङ्गेऽर्थगततया क्रमाऽवभासनं समस्त्येव, शब्दविशिटस्यैवार्थस्य ज्ञानमात्रेऽवभासनमिति भर्तृहरिमतावलम्बनेन क्रमावभासनं तथा सङ्गतिमङ्गतीति निषेधहेतुमुपदर्शयति-न सोऽस्तीति- यः प्रत्ययः शब्दानुगमाइते-शब्दानुगमनं शब्दप्रतिभासनमन्तरेणेति यावद् भवेत् , स प्रत्ययो लोके नास्ति, सर्व ज्ञानं शब्देनानुविद्धमिद- व्याप्तमिवाभासत इत्यर्थः । अथवा शब्दगतोऽथंगतो वा क्रमो नावभासत एव, किन्तु 'एकत्र द्वयम्' इति रीत्या तत्र ज्ञानमुपजायते, तदाकार विशेषोपलक्षकमेव 'क्रमाद्' इत्यभिधानमित्याह- अस्तु वेति । 'स्यादवक्तव्य एव' इति चतुर्थभास्य फलमुपदर्शयति- युगपदिति- युगपद्विधिनिषेधात्मनाऽवक्तव्यत्वमुख्यविषयताको बोधश्चतुर्थभङ्गस्य फलमित्यर्थः । Page #81 -------------------------------------------------------------------------- ________________ ४८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । इति वचनं ज्ञानाकार विशेषोपलक्षकमेव ३ । युगपद्विधि-निषेधात्मनाऽवक्तव्यत्व मुख्यविषयताकश्चतुर्थस्य, तादृशो बोधोऽवक्तव्यपदस्य खण्डशः शक्त्या कारितो विशेषशक्त्या वेत्यन्यदेतत् । न चानुभयवचनेनैवास्य गतार्थताऽऽशङ्कनीया, अनुभयस्यैकतर प्राधान्यपर्यवसायित्वेनाद्यमङ्गद्वयान्तर्भावानतिक्रमात्। न च, उभयपदेन युगपदुभयप्राधान्यबोधसम्भवादवक्तव्यत्वभङ्गोऽनुत्थानोपहत एव, यथा पुष्पदन्तपदाच्चन्द्रत्व-सूर्यत्वाभ्यां चन्द्र-सूर्ययोर्युगपदेव बोधस्तथोभयपदेन सत्त्वाऽसत्त्वाभ्यां युगपदेकोभयात्मकवस्तुबोधसम्भवाद्, अत एव “पुष्पदन्तौ पुष्पदन्तावेकोक्त्या शशि-भास्करौ” [ ] इत्युक्तेः 'एकोक्त्या' इत्यस्य 'एकया शक्त्या' इत्यर्थः, पुष्पदन्तस्य हि चन्द्र-सूर्ययोरेका शक्तिः, शक्यतावच्छेदकत्वं तु चन्द्रत्व-सूर्यत्वयोर्व्यासज्जवृत्तीत्युपगमः, तद्वदुभयपदस्यापि प्रकृते शबलवस्तुन्येका शक्तिः, शक्यतावच्छेदकत्वं तु सत्त्वाऽसत्त्वयोर्व्यासज्जवृत्तीति किं न स्यादिति वाच्यम् , पुष्पदन्तपदवदुभयपदस्यासाधारणत्वाभावात् , बुद्धिविषयतावच्छेदकत्वादस्त्यादिधर्मद्वयावच्छिन्नबोधकत्वे च प्राधान्येनोभयाकारबोधासिद्धः। किञ्च, व्यासज्जवृत्तिशक्यतावच्छेदकताकस्य पदस्य द्विवचनान्तस्यैव साधुत्वेन न पुष्पदन्तपदवदनोभयपदस्य तादृश इति-- अवक्तव्यपदस्य युगपद्विधि-निषेधरूपेऽर्थेऽवक्तव्यत्वरूपे च पृथगेव शक्तिः, तादृशशक्तितस्तादृशो बोधः कारितःजनितः, वा- अथवा, युगपद्विधिनिषेधात्मनाऽवक्तव्यत्वरूपेऽर्थेऽवक्तव्यपदस्य शक्तिविशेषः, तेन तादृशो बोधो जायत इति वादान्तरम् , सर्वथा तथाबोधश्चतुर्थभङ्गाद् भवतीति । ननु 'स्यादवक्तव्यः' इति स्थाने 'स्यादनुभयम्' इत्येव प्रयुज्यताम् , क्रमेण यदुभयं तन्नेत्यर्थतो युगपदुभयप्राधान्यप्रतीतिसम्भवादित्याशङ्कय प्रतिक्षिपति-न चेति- अनुभयवचनेनैवाऽस्य गतार्थता न चाऽऽशङ्कनीयेत्यन्वयः । क्रमेण यदुभयप्राधान्यं तत्प्रतिक्षेपकस्यानुभयस्यैकतरप्राधान्येनाप्युपपत्तेः, एकतरप्राधान्यप्रतिपादनं च प्रथम-द्वितीयभङ्गाभ्यामेव क्रियत इति 'स्यादनुभयम्' इत्यस्याद्यभङ्गद्वय एवान्तर्भावात् 'स्यादवक्तव्यः' इति चतुर्थभङ्गो युगपद्विधि-निषेधात्मनाऽवक्तव्यत्वमुख्यविषयताकबोधजनक आवश्यक इति निषेधहेतुमुपदर्शयति-अनुभयस्यैकतरेति । ननु 'स्यादुभयम्' इत्यनेन युगपदुभयप्राधान्यबोधसम्भदेन 'स्यादवक्तव्यः' इति चतुर्थभङ्गः प्रयोजनान्तराभावादनुत्थानोपहत इत्याशङ्कय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इत्युत्तरेण सम्बन्धः । पुष्पदन्तपदेन यथा युगपदेव चन्द्रत्वसूर्यत्वाभ्यां चन्द्र-सूर्ययोर्बोधस्तथैवोभयपदेन युगपदेव सत्त्वा-ऽसत्त्वाभ्यामुभयात्मकवस्तुनो बोध इति दृष्टान्तावष्टम्भेन समर्थयति-यथेति । अत एव पुष्पदन्तपदस्य युगपदेव चन्द्रत्व-सूर्यत्वाभ्यां चन्द्र-सूर्योभयबोधकत्वादेव । 'पुष्पदन्ती' इत्येकस्य स्थाने 'पुष्पवन्तौ' इति पाठो युक्तः । दृष्टान्त दार्शन्तिकयोः साम्यं भावयति-पुष्पदन्तपदस्य हीति । 'व्यासजवृत्ति' इति स्थाने 'व्यासज्यवृत्ति' इति पाठो युक्तः, एवमग्रेऽपि, व्यासज्यवृत्तित्वं चैकत्वानवच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वम् , तथा च पुष्पदन्तपदशक्यतावच्छेदकत्वं चन्द्रत्व-सूर्यत्वयोस्तद्गतद्वित्वावच्छेदेन पर्याप्तम् , एवमुभयपदशक्यतावच्छेदकत्वं सत्त्वाऽसत्त्वयोस्तद्गतद्वित्वावच्छेदेन पर्याप्तमित्यर्थः । पुष्पदन्तपदं नियमतश्चन्द्र-सूर्योभयप्रतिपादकत्वादसाधारणम् , नैवमुभयपदम् , पदान्तरासमभिव्याहृतस्य तस्य सामान्यत उभयमात्रप्रतिपादकत्वेन प्राधान्येनाऽस्तित्व-नास्तित्वोभयाप्रतिपादकत्वात् , प्रतिपाद्यस्य विशिष्यार्थावगतये हि वाक्यं प्रयुज्यते, न च 'स्यादुभयम्' इत्यतो विशिष्यार्थावगतिः, अत एव विशिष्यार्थावगतये पदान्तरसमभिव्याहृतमेवोभयपदं प्रयुज्यत इति निषेधहेतुमुपदर्शयति-पुष्पदन्तपदवदिति । ननु ‘स्यादस्त्येव' इत्यनेनाऽस्तित्वस्य 'स्यान्नास्त्येव' इत्यनेन नास्तित्वस्य 'स्यादस्त्येव, स्यान्नास्त्येव' इत्यनेन क्रमेणाऽस्तित्व-नास्तित्वोभयस्य च प्रतिपत्तौ बुद्धिविषयतावच्छेदकमस्तित्व-नास्तित्वोभयमिति तदनन्तरं प्रयुज्यमानेन ‘स्यादुभयम्' इत्यनेन बुद्धिविषयतावच्छेदकत्वादस्तित्वनास्तित्वधर्मद्वयावच्छिन्नावबोधो भविष्यतीत्यत आह- बुद्धिविषयतेति- उभयत्न रूपणोभयपदादस्तित्व-नास्तित्वधर्मद्वयावच्छिन्नबोधस्य सम्भवेऽपि ताशबोधाकारः 'उभयम्' इत्येव स्यान्न तु प्राधान्येनास्तित्व-नास्तित्वोभयाकार इति तादृशबोधस्याभिलषितस्यासिद्धेर्न ‘स्यादुभयम्' इति चतुर्थभङ्गस्थानेऽभिषेकमहतीति । पुष्पदन्तपदस्य व्यासज्यवृत्तिशक्यता. वच्छेदकताकस्य द्विवचनान्तत्वनियमादुभयपदस्य तत्त्वाभावेन न तथाऽवबोधकत्वमित्याह-किश्चेति । पञ्चमभङ्गस्य फलमुप Page #82 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। ५९ बोधकत्वमिति दिक, ४ । विध्यात्मना मुख्यविषयतावच्छिन्ना या उभयात्मना युगपदवक्तव्यत्वमुख्यविषयता तद्वान् बोधः पश्चमस्य भङ्गस्य फलम् , ५ । निषेधात्मना मुख्यविषयतावच्छिन्ना या उभयास्मना युगपदवक्तव्यत्वविषयता तद्वान् षष्ठस्य,६। क्रमादुभयमुख्यविषयताद्वयावच्छिन्नाऽवर विषयताकः सप्तमस्य, ७ । अत्र सप्तभङ्गयामित्थं नयविभागमुपदिशन्ति श्रीसिद्धसेनदिवाकरपादाः"एवं सत्तविअप्पो वयणपहो होइ अत्थपज्जाए । वंजणपज्जाए पुण सविअप्पो णिव्विअप्पो अ" ॥ -[सम्मतिप्रथमकाण्डे गाथा-४१ ] एवम्- अनन्तरोक्तप्रकारेण, सप्तविकल्पः- सप्तभेदः, वचनपथो भवति, अर्थपर्याये- अर्थनये सङ्ग्रहव्यवहारर्जुसूत्रलक्षणे, तत्र प्रथमो भङ्गः सङ्ग्रहे सामान्यग्राहिणि, द्वितीयस्तु 'नास्ति' इत्ययं व्यवहारे विशेषग्राहिणि, ऋजुसूत्रे तृतीयः, चतुर्थः सव-ह-व्यवहारयोः, पञ्चमः सङ्घहर्जुसूत्रयोः, षष्ठो व्यवहारर्जुसूत्रयोः, सप्तमः सङ्ग्रह-व्यवहारर्जुसूत्रेष्विति । प्रयोगश्चैतैश्चतुर्थ-तृतीययोर्व्यत्ययेनेष्यत इति न तृतीये दर्शयति-विध्यात्मनेति-स्पष्टम् । षष्ठभङ्गस्य फलमुपदर्शयति-निषेधात्मनेति- व्यक्तमदः । सप्तमभङ्गस्य फलमुपदर्शयतिक्रमादिति । उभयेति- अस्तित्व-नास्तित्वोभयेत्यर्थः । सप्तभङ्गीवाक्यं कुत्र नये सम्पूर्ण प्रवर्तते, कुत्र नयेऽन्यथेत्यत्र सिद्धसेनदिवाकरपादैरुपदर्शितो नयविभाग एव कान्त इत्याकलयन् ग्रन्थकार आह अत्रेति । इत्थम् एवं सत्तविअप्पो' इतिगाथयाऽनन्तरमभिधीयमानप्रकारेण । एवं सत्त० इति- “एवं सप्तविकल्पो वचनपथो भवत्यर्थपर्याये व्यञ्जनपर्याय पुनः सविकल्पो निर्विकल्पश्च" ॥ १ ॥ इति संस्कृतम् । विवृणोति- एवमिति । नैगमस्य सङ्ग्रह-व्यवहारयोरेवान्तर्भावः श्रीसिद्धसेनदिवाकरपादानां मते ततोऽर्थनयास्त्रय एव सङ्ग्रह -व्यवहारर्जुसूत्राः, तत्र को भङ्गः कस्मिन्नर्थनये ? इत्यपेक्षायामाह-तत्रेति- समह-व्यवहारर्जुसूत्रलक्षणेष्वित्यर्थः । 'स्यादस्त्येव' इत्येवंस्वरूपः प्रथमो भङ्गः सामान्यपाहिणि सङ्ग्रहनये भवतीत्याह-प्रथम इति । 'स्यान्नास्त्येव' इत्येवंस्वरूपो द्वितीयो भङ्गो विशेषग्राहिणि व्यवहारे प्रवर्तत इत्याह-द्वितीयस्विति । 'स्यादवक्तव्य एव' इति तृतीयो भङ्ग ऋजुसूत्रनये प्रवर्तत इत्याह-ऋजुसूत्रे तृतीय इति । यथा च तृतीयभङ्गस्य ऋजुसूत्रनय एव प्रवृत्तिर्न सङ्ग्रह व्यवहारयोस्तथाऽत्रैव ग्रन्थकारो दर्शयिष्यतीति । 'स्यादस्त्येव स्यानास्त्येव च' इति चतुर्थभङ्गः सङ्ग्रह व्यवहारयोः प्रवर्तत इत्याह-चतुर्थः सङ्गह-व्यवहारयोरिति । 'स्यादस्ति स्यादवक्तव्यश्च' इति पञ्चमो भङ्गः सङ्ग्रहणुसूत्राभ्यामुपजायत इत्याह-पञ्चमः सङ्ग्रहर्जुसूत्रयोरिति । 'स्यान्नास्ति स्यादवक्तव्थश्च' इति षष्ठो भङ्गो व्यवहारर्जुसूत्राभ्यामात्मलाभमासादयतीत्याह-षष्ठो व्यवहार सूत्रयोरिति । 'स्यादस्ति स्यान्नास्ति स्यादवक्तव्यश्च' इति सप्तमो भङ्गः सङ्ग्रहव्यवहारर्जुसूत्रैरुपजायत इत्याह - सप्तमः सङ्ग्रह व्यवहारर्जुसूत्रेष्विति । इतिशब्दः सप्तभङ्गथामर्थनययोजनोपवर्णनसमास्यर्थः । ननु 'स्यादस्त्येव स्यान्नास्त्येव' इति तृतीयो भङ्गः प्रथमं भवता दर्शितः, सच सङ्ग्रह-व्यवहाराभ्यामुपजायत इति, इदानीं तत्स्थाने 'स्यादवक्तव्यः' इति तृतीयो भङ्ग ऋजुसूत्रनयप्रवर्तितो दर्शित इति तत् कथं सङ्गतिमङ्गतीत्यत आह-प्रयोगश्चैतैरिति- श्रीसिद्धसेनदिवाकरपादैः स्यादवक्तव्यः' इतिचतुर्थभङ्ग-'स्यादस्ति स्यान्नास्ति' इतितृतीयभङ्गयोर्व्यत्ययेन तृतीयस्थाने 'स्यादवक्तव्यम्' इति, चतुर्थस्थाने 'स्यादस्ति स्यान्नास्ति' इत्येवं प्रकारेण व्यत्यासेन प्रयोग इष्यत इत्यर्थः । ये च श्रीमद्देवसूरिप्रभृतयः सप्तभङ्गी सम्पूर्णैव सकलादेशस्वभावा विकलादेशस्वभावा चेत्येवमामनन्ति तेषां मते सङ्ग्रह-व्यवहारयोः प्रथम-द्वितीयभङ्गमूलयोः संयोगस्यैव प्रथममुपस्थिततया ततो जायमानस्य 'स्यादस्ति स्यान्नास्ति' इति भङ्गस्यैवोपस्थितिरिति तस्य तृतीयस्थानेऽभिषेकः, ततो विधि-निषेधयोयुगपत्प्राधान्यविवक्षयाऽऽविर्भवनस्वभावस्य 'स्यादवक्तव्यः' इत्यस्य चतुर्थस्थानेऽभिषेक इति । श्रीसिद्धसेनदिवाकरपादानां मते अखण्डार्थत्वात् सप्तभङ्गयां त्रयः सकलादेशाः, सखण्डार्थत्वाच्चत्वारो विकलादेशा अभिमता इत्यखण्डार्थानां 'स्यादत्येव' इति 'स्यान्नास्त्येव' इति 'स्यादवक्तव्य एव' इति भङ्गानां क्रमेण सन्निवेशः, ततो विकलादेशानां चतुर्णा भनानामिति, तथा च तृतीयस्थानेऽभिषिक्ते 'स्यादवक्तव्य एव' इति भङ्गे ऋजुसूत्रनययोजना सम्भवत्येवेत्याह-इति न Page #83 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ऋजुसूत्रयोजनानुपपत्तिः । अत्र यद्धर्मप्रकारकः सङ्ग्रहाख्यो बोधः प्रथमभङ्गफलत्वेनाभिमतस्तद्धर्माऽभावप्रकारको व्यवहाराख्यो बोध एव द्वितीयभङ्गफलत्वेनैष्टव्यः, तेन 'स्याद् घटः' 'स्यान्नीलघटः' इत्यादिसामान्य विशेषसवह व्यवहाराभ्यां न सप्तभङ्गीप्रवृत्तिः, नवैकवचन-बहुवचनादिना भङ्गान्तर• वृद्धिरित्यवधेयम् । अथ तृतीयभङ्गस्यर्जुसूत्रनिमित्तकतायां किं बीजम् ? युगपत्सत्त्वाऽसत्त्वाभ्यामादिष्टं हि सङ्ग्रह-व्यवहारावप्यवक्तव्यमेव ब्रूतः, सङ्ग्रह-व्यवहारौ युगपदुभयथाऽऽदिशत एव नेति चेद् ? ऋजुसूत्रोऽपि कथं तथाऽऽदेष्टुं प्रगल्भताम् ? मध्यमक्षणरूपायाः सत्तायास्तेनाप्युपगमात् , सङ्ग्रहाभिमतयावद्व्यक्त्यनुवृत्तसामान्यानभ्युपगमादृजुसूत्रेणाऽवक्तव्यत्वभङ्गो न स्थाप्यत इति चेत् ? सोऽयं प्रत्येकावक्तव्यत्वकृतोऽवक्तव्यत्वभङ्गः, तदुत्थापने च सङ्ग्रहोऽपि समर्थः, ऋजुसूत्राभिमतमध्यमक्षणरूपसत्तानभ्युपगन्त्रा तेनापि तदुत्थापनस्य सुकरत्वादिति चेत् ? अत्रेदमामाति- सव-ह-व्यवहारौ युगपन्नोभयथाऽऽदेष्टुं प्रगल्भेते स्वानभिमतांशादेशेऽनिष्टसाधनत्वप्रतिसन्धानात्, ऋजुसूत्रस्य तु वर्तमानपर्यायमात्रग्राहिणस्तिर्यगूलताधारांशान्यतररूपं सामान्यम् अन्यापोहरूपो विशेषश्चेति द्वावपि संवृतावेवेति तृतीये ऋजुसूत्रयोजनानुपपत्तिरिति । 'स्यादस्त्येव' इत्येवं प्रथमभङ्गे सति 'स्यान्नास्त्येव' इत्येवमेव द्वितीयभङ्गप्रवृत्त्या सप्तभङ्गीप्रवृत्ति न्यथेत्युपदर्शयति-अत्रेति । तेन प्रथमभङ्गजन्यबोधप्रकारीभूतधर्माभावप्रकारकव्यवहाराख्यबोधस्यैव द्वितीयभङ्गफलतयेष्टत्वेन । 'स्याद् घटः' इति प्रथमभङ्गफलत्वेन घटत्वप्रकारकः सङ्ग्रहाख्यो बोधोऽभिमत इति घटत्वाभावप्रकारको व्यवहाराख्यो बोधो द्वितीयभङ्गफलत्वेनेष्टः स्यात् , तथाविधश्च बोधः ‘स्यादघटः' इत्यत एव सम्भवतीति 'स्यादघटः' इत्येव द्वितीयभनो न 'स्यान्नीलघटः' इति घटत्वलक्षणसामान्यविषयकसङ्ग्रह-नीलघटत्वलक्षणविशेषविषयकव्यवहाराभ्यां सप्तभङ्गीप्रवृत्तिन संभवति, तथा सामान्यमेकमाश्रित्य कवचन मिति तद्विषयकः सङ्ग्रहः, अनेकान् विशेषान् समाश्रित्य बहुवचनमिति तद्विषयको व्यवहार इति ताभ्यां 'स्याद् घटः, स्याद् घटाः' इत्येवं दिशाऽपि भङ्गान्तरवृद्धयाऽष्टभङ्गयादिप्रवृत्तिरपि न सम्भवतीत्याह- 'स्याद् घटः' इति । 'स्यादवक्तव्यः' इति तृतीयो भङ्ग ऋजुसूत्र इत्युपदर्शितम्, तत्र युक्तिमपश्यन् परः शङ्कते- अथेति। अत्र कस्यचित् समाधानं प्रतिक्षेप्तुमाशङ्कते-सङ्गह-व्यवहाराविति । उभयथा सत्वाऽसत्त्वाभ्याम् । सङ्ग्रहः सत्त्वमभ्युपगच्छतीत्यतः सत्त्वादेशसमयेऽसत्त्वं कथं स आदिशतु ?, एवं व्यवहारोऽपि सङ्ग्रहाभिमतसत्त्वप्रतिपक्षमसत्त्वमभ्युपगच्छतीत्यतोऽसत्त्वादेशसमये सत्त्वं कथं स आदिशतु ? इत्यभिसन्धानेन यदि भवतोच्यते'सङ्गह-व्यवहारौ युगपदुभयथाऽऽदिशत एव नेति' इति तर्हि मध्यमक्षणरूपसत्त्वमभ्युपगच्छन्नृजुसूत्रस्तदादेशसमये तद्विपक्षमसत्त्वं कथमादिशत्वित्याह- ऋजुसूत्रोऽपीति । तथाऽऽदेष्टुं युगपदुभयथाऽऽदेष्टुम् । मध्यमक्षणरूपायाः सत्ताया वर्तमानकक्षणमात्रसत्त्वलक्षणायाः सत्तायाः । तेनाऽपि ऋजुसूत्रेणापि । समाधानान्तरमाशङ्कते- सङ्ग्रहाभिमतेति- 'भङ्गो न स्थाप्यते' इत्यस्य स्थाने 'भङ्ग उत्थाप्यते' इति पाठो युक्तः, तथा च सङ्ग्राहाभिमतं यद् यावद्यक्त्यनुवृत्तं सामान्यं तस्यास्वीकाराद् ऋजुसूत्रेण तथाभूतसामान्यरूपमस्तित्वं वक्तव्यं न भवतीत्यतस्तदवक्तव्यत्वतः सत्त्वाऽसत्त्वेऽपि युगपदादिष्टे न वक्तव्ये इत्यवक्तव्यत्वभङ्ग इत्यमृजुसूत्रेणोत्थाप्यत इत्यर्थः। उक्तसमाधानं दूषयति-सोऽय. मिति । तदुत्थापने प्रत्येकावक्तव्यत्वकृतावक्तव्यत्वभङ्गोत्थापने। तेनापि सङ्ग्रहेणापि । तदुत्थापनस्य अवक्तव्यत्वभजोत्थापनस्य । उक्ताशङ्कायां ग्रन्थकारः स्वमनीषासमुपढौकितं समाधानमुपदर्शयति- अत्रेदमाभातीति- उक्ताशङ्कायामनन्तरमेवाभिधीयमानं समाधानमस्माकं हृदये स्फुरतीत्यर्थः । उभयथा सत्त्वाऽसत्त्वाभ्याम् । स्वेति- सङ्ग्रहस्य स्वानभिमतांशस्य नास्तित्वस्याऽऽदेशेऽनिष्टसाधनत्वज्ञानात् , व्यवहारस्य स्वानभिमतांशस्यास्तित्वस्याऽऽदेशेऽनिष्टसाधनत्वप्रतिसन्धानात् , अनिष्टसाधनताज्ञानलक्षणप्रतिबन्धकसद्भावात् स्वानभिमतांशाऽदेशाऽसम्भवादित्यर्थः । ऋजुसूत्रस्तु युगपदुभयथाऽऽदेष्टुं प्रगल्भत इत्याह-ऋजुसूत्रस्य स्विति । 'वर्तमानपर्यायमात्रग्राहिणः' इति ऋजुसूत्रस्य विशेषणम्, 'मते' इति शेषः । द्वावपि निरुक्तस्वरूपौ सामान्य-विशेषावपि । संवृतावेव काल्पनिकावेव। तदपेक्षया ऋजुसूत्रनये काल्पनिकसत्त्वाऽसत्त्वापेक्षया । तदादेशेति- सत्त्वा-ऽसत्त्वोभयादेशेत्यर्थः । ननु यदि ऋजुसूत्रनये सत्त्वाऽसत्त्वोभया Page #84 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । तदपेक्षया युगपदुभयथाहार्यतदादेशसम्भवादवक्तव्यभङ्गोत्थानमनाबाधम् । न चैवमपि तज्जनित. बोधस्य प्रसङ्गरूपत्वाद् विपर्ययपर्यवसाने सङ्ग्रह व्यवहारान्यतरसाम्राज्यमिति वाच्यम् , विषयाबाधे कूटलिङ्गजानुमितिरिव प्रकृतभङ्गजबोधस्य प्रमात्वेन विपर्ययपर्यवसानकदर्थनानवकाशात् । ___ व्यञ्जनपर्याये- शब्दनये पुनः सविकल्पः प्रथमे पर्यायशब्दवाच्यताविकल्पसद्भावादर्थस्यैकत्वाच्च, द्वितीय-तृतीययोर्निविकल्पश्च द्रव्यार्थात् सामान्य लक्षणान्निर्गतस्य पर्यायरूपस्य विकल्पस्याभिधायकत्वात् तयोः, तथा च घटो नाम घटवाचकयावच्छब्दवाच्यः शब्दनयेऽस्त्येव, सभभिरूद्वैवंभूतयोर्नास्त्येवेति द्वौ भङ्गो लभ्येते । लिङ्ग-संज्ञा-क्रियाभेदेन भिन्नस्यैकशब्दावाच्यत्वाच्छब्दादिषु तृतीयः। प्रथम-द्वितीयसंयोगे चतुर्थः, तेष्वेव चानभिधेयसंयोगे पञ्चम-षष्ठ-सप्तमवचनमार्गाः सम्भवन्ति । अथवा शब्दनये पर्यायान्तरसहिष्णो सविकल्पो वचनमार्गः, तदसहिष्णौ तु निर्विकल्प इति द्वावेव भङ्गो, अवक्तव्यदेशो यद्याहार्यस्तदा तदुत्थतृतीयभङ्गजन्यज्ञानं प्रसङ्गरूपम् , प्रसङ्गस्य विपर्ययपर्यवसानमिति तद्विपर्ययः सत्त्वावधारणं यदि तदा सङ्ग्रहः, यदि च नास्तित्वावधारणं तदा च्यवहार इत्येवं सङ्ग्रह-व्यवहारान्यतरसाम्राज्यमित्याशङ्कय प्रतिक्षिपति-न चैवमपीति । तजनितबोधस्थ आहार्यतदादेशस्वरूपतृतीयभङ्गजनितबोधस्य । आहार्यतदादेशोऽपि ऋजुसूत्रनयापेक्षयैव, वस्तुतस्तु तृतीयभङ्गप्रतिपाद्यं यदवक्तव्यत्वं तदस्त्येव वस्तुनीति तज्ज्ञानं प्रमात्मकमेवेति न तस्य विपर्ययपर्यवसानम् , यत्र देशे वह्निरस्ति तत्र धूलीपटलाद् धूमत्वेन गृहीतात् कूटादपि जायमानस्य वह्निज्ञानस्यानुमित्यात्मकस्य विषयाबाधतो यथा प्रमात्वं तथा प्रकृतस्यापि प्रमात्वसम्भवादिति निषेधहेतुमुपदर्शयति-विषयाबाध इति । उत्तरार्द्ध विवृणोति-व्यञ्जनपर्याय इति। शब्दनयः खलु साम्प्रत-समभिरूढवम्भूतभेदेन त्रिविधः, तत्र सविकल्पः कस्मिन्नित्यपेक्षायामाह-प्रथम इति- साम्प्रताख्ये शब्दनयस्य प्रथमभेदे पुनः सविकल्प इत्यर्थः । 'सविकल्पः' इत्यस्य विकल्पसहित इत्यर्थः, विकल्पश्चात्र पर्यायशब्दवाच्यतालक्षण इत्यभिप्रायेणाह- पर्यायेति- साम्प्रतनये एक एव घटरूपोऽर्थो घट-कुट कुम्भ-कलशाद्यनेकशन्दवाच्यो भवति, तथा चैकस्य शब्दस्य तत्समानार्थकोऽन्यशब्दः पर्यायशब्दः, तद्वाच्यतालक्षणविकल्पसद्भावात् , अर्थस्य अभिधेयस्य घटात्मकस्यैकत्वाच्च साम्प्रतनये सविकल्पक इत्युपपद्यत इत्यर्थः। द्वितीय तृतीययोः शब्दनयस्य द्वितीय-तृतीयभेदयोः समभिरूढैवम्भूतयोः। 'निर्विकल्पश्च' इति कथं घटते? इत्यपेक्षायामाह-द्रव्यार्थादिति- द्रव्यार्थिकनयविषयात् सामान्यस्वरूपात्, निर्गतस्य- सर्वथा भिन्नस्य, पर्यायात्मकस्य विकल्पस्याऽभिधायकत्वात् , तयोः- समभिरूढैवम्भूतयोः, अत्र निर्गतो विकल्पो वाच्यतया यस्य स निर्विकल्पः, कस्मान्निर्गत इत्यपेक्षायां 'सामान्याद्' इति, कोऽयं विकल्प इत्यपेक्षायां पर्यायरूप इति बोध्यम् । एतावता शब्दनये को भङ्गः कस्मिन्नये इति न ज्ञायत इति तदवगमायाह-तथा चेति- शब्दनये उक्तदिशा सविकल्प-निर्विकल्पव्यवस्थितौ चेत्यर्थः । शब्दनये साम्प्रताख्यशब्दनये । समभिरूढेति- समभिरूढवम्भूतयोर्घटो घटवाचकयावच्छन्दवाच्यो नास्त्येवेत्यर्थः, एवं च 'घटवाचकयावच्छब्दवाच्यत्वेनास्त्येव घटः' इति प्रथमभङ्गः साम्प्रतनये, 'घटवाचकयावच्छब्दवाच्यत्वेन नास्त्येव घटः' इति द्वितीय भङ्गः समभिरू द्वैवम्भूतयोरित्येवं सविकल्पो निर्विकल्पश्चेत्यतो द्वौ भनौ लभ्येते इत्यर्थः । 'स्यादवक्तव्यः' इति तृतीयभङ्गं शब्दनये उपपादयति-लिङ्केति- लिङ्गभेदेन भिन्नस्यार्थस्यैकशब्दावाच्यत्वात् साम्प्रतनये 'स्यादवक्तव्यः' इति, संज्ञाभेदेन भिन्नस्यार्थस्यैकशब्दावाच्यत्वात् समभिरूढनये 'स्यादवक्तव्यः' इति, क्रियाभेदेन भिन्नस्यार्थस्यकशब्दावाच्यत्वादेवम्भूतनये 'स्यादवक्तव्यः' इत्येवं शब्दादिषु तृतीयभङ्ग इत्यर्थः। 'स्यादस्त्येव' इतिप्रथमभङ्ग'स्यान्नास्त्येव'इतिद्वितीयभङ्गयोः संयोगे' स्यादस्ति स्यान्नास्ति च' इति चतुर्थभङ्ग इत्याह-प्रथमेति । तेष्वेव चेति-प्रथम द्वितीय-चतुर्थेष्वेव चेत्यर्थः । अनभिधेयसंयोगे 'स्यादवक्तव्यः' इति तृतीयभङ्गसंयोगे। पञ्चमेत्यादि-प्रथमतृतीभङ्गसंयोगे पञ्चमभङ्गः, द्वितीय-तृतीयसंयोगे षष्टभङ्गः, चतुर्थ-तृतीयसंयोगे सप्तमभङ्ग इत्यर्थः। शब्दनये प्रथम-द्वितीयावेव भङ्गो न त्वन्ये इति कल्पान्तरमाह- अथवेति । पर्यायान्तरसहिष्णो घटशब्दवाच्यस्य घटस्य कुटादिशब्दा अपि वाचका भवन्तीत्यभ्युपगन्तरि शब्दनये साम्प्रताख्ये । सविकल्पो वचनमार्गः सविकल्पवचनमार्गो घटवाचकयावच्छब्दवाच्यो घटोऽस्त्येवेत्यर्थकः 'स्यादस्त्येव' इति प्रथमो भङ्ग इत्यर्थः । तदसहिष्णौ तु पर्यायान्तरासहिष्णौ समभिरूढवम्भूताख्यशब्दनये पुनः। निर्विकल्पः घटवाचकयावच्छन्दवाच्यो घटो नास्त्येवेत्यर्थकः 'स्यान्नास्त्येव' इति द्वितीयभङ्ग इत्यर्थः । Page #85 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । भङ्गस्तु व्यञ्जननये न सम्भवत्येव, श्रोतरि शब्दोपरक्तार्थबोधनस्यैव तत्प्रयोजनत्वात्, ranव्यबोधनस्य च तन्नये सम्प्रदायविरुद्धत्वेन तथाबुबोधयिषाया एवासम्भवादित्यधिक मरमत्कृताऽनेकान्तव्यवस्थायाम् । तदेवं प्रतिपर्यायं सप्तप्रकारबोधजनकतापर्याप्तिमद् वाक्यं प्रमाणवाक्यमिति लक्षणं सिद्धम् । इत्थन तदन्तर्भूतस्य तद्वहिर्भूतस्य वाऽन्यतरभङ्गस्य प्रदेश- परमाणुदृष्टान्तेन नयवाक्यत्वमेवेत्यर्थतो लभ्यते । इतरप्रतिक्षेपी तु नयो नयाभासो दुर्नयो वेत्युच्यते । ५२ त्वम्, मलयगिरिचरणास्तु- "नयो दुर्नयः सुनयश्चेति दिगम्बरी व्यवस्था, न त्वस्माकं नय- दुर्नययोरविशेषात् स्याच्छब्देन विवक्षितधर्मोपरागेण कालादिभिरभेदवृत्त्याऽभेदोपचाराद् वाऽनन्तधर्मात्मकवस्तुप्रतिपादने प्रमाणवाक्यस्यैव व्यवस्थितेः, अत एव स्याच्छन्दलान्छिततयैव सर्वत्र साधूनां भाषाविनयो विहितः, अवधारणी भाषा च निषिद्धा, तस्या नयरूपत्वात्, नयानां च सर्वेषां मिध्यादृष्टित्वात्, तथा चानुस्मरन्ति - " सव्वे नया मिच्छावायिणो" [ ]त्ति, न च सप्तभङ्गात्मकं प्रमाणवाक्यम्, एकभङ्गात्मकं च नयवाक्यमित्यपि नियन्तुं शक्यम्, सप्त भङ्गाः सप्तविधजिज्ञासोपाधिनिमित्तत्वात्, न च तासां सार्वत्रिकत्वम्, को जीवः ? इति प्रश्ने लक्षणमात्र जिज्ञासया 'स्याज्ज्ञानादिलक्षणो जीवः' इति प्रमाणवाक्यरूपस्योत्तरस्य सिद्धान्त सिद्धत्वात् स्यात्पदस्य चात्राऽनन्तधर्मात्मकत्व द्योतकत्वेत प्रामाण्याङ्गद्योतकत्वं चात्रोपसम्पदानकी शक्तिर्लक्षणा वेत्यन्यदेतत्, तत्र च श्रुतपदप्रतिपाद्यधमांशे लौकिकी इति एवं प्रकारेण । द्वावेव भङ्गौ प्रथम द्वितीयावेव भङ्गौ । व्यञ्जननये शब्दनये । व्यञ्जननयेऽवक्तव्यभङ्गासम्भवे हेतु - मुपदर्शयति-श्रोत रीति- प्रतिपाद्यपुरुषे शब्दविशिष्टार्थबोधनस्यैव वाक्यप्रयोजनत्वादित्यर्थः । तन्नये शब्दनये । तथाबुबोधयिषया अवक्तव्यबोधनेच्छया । एतदर्थविशेषावगमेच्छुभिरस्मत्कृताऽनेकान्तव्यवस्था प्रकरणमवलोकनीयमित्युपदेशाभिप्रायेण ग्रन्थकार आह- इत्यधिकमिति । 'सप्तभङ्गयात्मकं वाक्यं प्रमाणं पूर्णबोधकृत्' इत्यस्य पर्यवसितमर्थं पूर्वोपदर्शितमुपसंहरति- तदेवमिति । इत्थं च सप्तभङ्गयात्मक महावाक्ययस्यैव प्रमाणत्वे च । तदन्तर्भूतस्य सप्तभङ्गयन्तर्गतस्य । तद्वहिर्भूतस्य वा सप्तभङ्गी बहिर्भूतस्य वा । अन्यतरभङ्गस्य सप्तानां भङ्गानां मध्यादेकैकस्य भङ्गस्य । प्रदेश - परमाणुदृष्टान्तेनेति-स्कन्धसन्निविष्टः परमाणुः प्रदेश इत्युच्यते, स्कन्धात् पृथग्भूतश्च केवलः परमाणुरिति व्यपदिश्यते, तथा सप्तभङ्गी स्वरूपमापन्नो भङ्गस्तदात्मना प्रमाणवाक्यम्, प्रत्येकासाधारणस्व स्वरूपात्मना तत्सन्निविष्टो बहिर्भूतो वा नयवाक्यमित्येवमन्यतरभङ्गस्यार्थान्नयवाक्यत्वं लभ्यत इत्यर्थः । सप्तभङ्गीसन्निविष्टस्य तद्वहिर्भूतस्य वाऽन्यतरभङ्गस्य स्यात्कारला ञ्छित - त्वेनेतरनयप्रतिक्षेपित्वाभावान्नयत्वम् स्यात्कार लाञ्छितस्य तु भङ्गस्येतरनयप्रतिक्षेपित्वेन नयाभासत्वं दुर्नयत्वं वेति स नयाभास इत्याख्यायते, दुर्नय इति वा व्यपदिश्यत इत्याह- इतरप्रतिक्षेपी त्विति । अत्र मलयगिरिचरणानां मन्तव्यभेदमुपदर्शयति- मलयगिरिचरणास्त्विति - अस्य ' इत्यभिसन्दधते' इत्यनेनान्वयः । न त्वस्माकं श्वेताम्बराणां नयो दुर्नयः सुनयश्चेति व्यवस्था नैव । तत्र हेतुमाह - नयेति । यत्र स्याच्छब्दोपादानमस्ति तन्नयवाक्यम्, यत्र तन्नास्ति तद् दुर्नयवाक्यमित्येवं कथञ्चिद्घटितार्थ - तदघटितार्थ रूपार्थविशेषसद्भावो न वाच्यः, स्याच्छघटितेनैकेनापि भङ्गेनैकधर्मप्रतिपादनमुखेन कालादिभिरभेदवृत्त्याऽभेदोपचारेण वाऽशेषधर्मप्रतिपादनतोऽनन्तधर्मात्मकवस्तुप्रतिपादने तथाभूतभङ्गस्य प्रमाणवाक्यत्वस्यैव सम्भवादित्याह - स्याच्छब्देनेति । कालादिभिरिति - "कालाऽऽत्मरूपसम्बन्धाः संसर्गोपचये तथा । गुणिदेशार्थशब्दाश्चेत्यष्टौ कालादयः स्मृताः" ॥ १ ॥ [ ] इति वचनादादिपदा दात्मरूपादीनां ग्रहणम् । अभेदवृत्येति द्रव्यार्थिक नया देशादभेदवृत्तिप्राधान्याश्रयणेनेत्यर्थः । अभेदोपचारादिति पर्यायार्थिकनयादेशाद् धर्माणां परस्परं भेदेऽप्यभेदोपचारादित्यर्थः । अत एव स्यात्पदलाञ्छितस्यैकस्यापि भङ्गस्योक्तदिशा प्रमाणवाक्यत्वादेव । अवधारणी भाषा स्यात्कारालाञ्छितैवकार संवलिता भाषा । तस्याः निरुक्तभाषायाः । नयानां मिथ्यादृष्टित्वे आगमवचनं प्रमाणयति तथा चेति । सब्वे० इति - " सर्वे नया मिथ्यावादिनः " इति । ' न च' इत्यस्य ' शक्यम्' इत्यनेनान्वयः । तासां जिज्ञासानाम् । अत्र 'स्याद् ज्ञानादिलक्षणो जीवः' इति वाक्ये अनन्तधर्मात्मकत्वं यदि स्यात्पदेन द्योतते तदाऽनन्तधर्मान्तर्गतो धर्मः श्रुतोऽपि धर्मः, तस्याश्रुतधर्मापेक्षया किं वैलक्षण्यमित्यपेक्षायामाह तत्र चेति Page #86 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । विषयता स्यात्पदद्योत्या, अनन्तधर्मात्मकत्वांशे च लोकोत्तरेति विशेषः” इत्यभिसन्दधते; तन्मतमनुरुध्य प्रमाणलक्षणान्तरं समुचिनोति-च-पुनः, यद् वाक्यम् , एकधर्मगं प्रतिनियतैकधर्मप्रतिपिपादयिषया प्रयुक्तम् , [ अपरोल्लेखि ] स्यात्पदादपरे येऽनन्ता धर्मास्ताल्लिखतीत्येवंशीलं वाक्यम् , तदपि प्रमाणवाक्यं व्यवर्तव्यमित्यर्थः । अयं च समुच्चयो मयापि सम्प्रदायमतमिति कृत्वा समुन्नीतः, वस्तुतो नयदुर्नयविभागो न दैगम्बर एव, हेमसूरिभिरपि “सदेव सत् स्यात् सदिति त्रिधार्थो मीयेत दुर्नीति-नयप्रमाणैः" [अन्ययोगव्य० श्लो. २८] इत्यादि विभज्याभिधानात् , आकरे नयत-दाभासाना व्यक्तबोंधितत्वाच्च । अवधारणी च भाषा एकान्तवादात्मकैव निषिद्धा, न तु नयरूपाऽपि, तस्याः प्रमाणपरिकरत्वेन तत्रावधारणीत्वस्य निश्चायकत्वरूपभाषालक्षणान्वयेनैव सिद्धान्तसिद्धत्वात् , अत एव निराकासाऽनासन्नादिस्थले शब्दसमानाकारमानसस्वीकारे किमपराद्धं शाब्दबोधेनेति पर्यनुयोगे मानसस्य संशयाऽऽकारस्यापि सम्भवाद् निश्चायकरूपशाब्दबोधानुपपत्तेरेव यौक्तिकै निराकृतः। न च, भाषामात्रस्यावधारणीत्वेऽप्याराधकत्व-विराधकत्व-तदुभया-ऽनुभयैः सत्यादिभेदचतुष्टयोपदेशान्नयभाषाया देशाराधकत्वेन तृतीयभन्न अनन्तधर्मेषु मध्ये इत्यर्थः । तन्मतं श्रीमलयगिरिमतम् । अनुरुध्य आश्रित्य । 'एकधर्मगम्' इत्यस्य विवरणम्प्रतिनियतकधर्मप्रतिपिपादयिषया प्रयुक्तम्' इति, 'स्यात्पदादपरोल्लेखि' इत्यस्य 'अपरोल्लेखि' इत्यस्य विवरणम्- 'अपरे येऽनन्तधर्मास्ताल्लिखतीत्येवंशीलम्' इति । सप्तभङ्गयात्मक वाक्यं प्रमाणम् , च पुनः स्यात्पदादपरोल्लेख्यैकधर्मगमपि वाक्यं प्रमाणमिति सम्प्रदायमतमनुरुध्यैव ग्रन्थकृतोक्तम् , न तु तत्र निर्भरः स्वस्येति प्रन्थकार आह-अयं चेति । मयाऽपि प्रकृतप्रन्थकृता श्रीयशोविजयोपाध्यायेनापि । श्रीहेमसूरि-देवसूरिप्रभृतयः श्वेताम्बरशिरोमणयोऽपि नयदुर्नय-नयनयाभासविभागमुपयन्तीति नय-दुर्नयविभागो दैगम्बर एव न, किन्तु श्वेताम्बरसम्मतोऽपीत्याह-वस्तुत इति । 'सदेव' इति वचनेन दुर्नीत्याऽर्थो मीयते, 'सद्' इति वचनेन नयेनार्थो मीयते, ‘स्यात् सद्' इति वचनेन प्रमाणेनार्थो मीयते, इत्येवं दुर्नीति-नय-प्रमाणवाक्यानां श्रीहेमसूरिभिर्विभज्याभिधानान्नय-दुर्नयविभागस्तत्सम्मत इत्यर्थः। आकरे इति-स्याद्वादरत्नाकरे प्रमाणनयतत्त्वालोकालङ्काराभिधमूलप्रन्थगुम्फितसोदाहरणनय-तदाभासाना व्यकेर्विभागस्य श्रीदेवसरिभिर्बोधितत्वानय-तदाभासविभागो देवसूरिसम्मत इत्यर्थः। यत् तूक्तम्- 'अवधारणी भाषा च निषिद्धा' इति तत्राह-अवधारणी चेति । तस्याः नयरूपाया अवधारणीभाषायाः । तत्र नयभाषायाम् । अवधारणीत्वस्येति- परस्य संशयाऽज्ञानादिनिवृत्तये निश्चायकमेव वचनं प्रयुञ्जते परीक्षका इति इति भाषाया निश्चायकत्वमेव लक्षणं सिद्धान्तानुमोदितमिति नयवाक्ये अवधारणीत्वस्य सद्भाषालक्षणसमन्वयेन सिद्धान्तसिद्धत्वतो गुणावहत्वमेवेति तादृशभाषाभाषणं न साधूनां सिद्धान्तनिषिद्धमित्यर्थः । अत एव निश्चायकत्वस्य भाषालक्षणस्य सिद्धान्तसिद्धत्वादेव। शाब्दबोधे आकाङ्क्षाऽऽसत्त्यादेश्च कारणत्वान्निराकाङ्क्षाऽनासन्नादिवाक्यस्थले न शाब्दबोधः, किन्तु पदेभ्य उपस्थितानामनामन्वयबोधो मानसः शाब्दबोधसमानाकारको भवतीत्येवमुपगमे यथा मानसे आकाङ्क्षादि न कारणं तथा शाब्दबोधेऽपि तत् कारण माऽस्त्वित्युपगम्य शाब्दबोध एव किमिति निराकाङ्क्षाऽसन्नादिस्थले नोपेयते इति पर्यनुयोगः, निश्चयात्मक एव मानसबोध इति न नियमस्तेन निराकासादिस्थले उपस्थितानां पदार्थानामन्वयबोधः संशयात्मकः सम्भवति, शाब्दबोधस्तु निश्चयात्मक एव भवतीति नियमेन तत्र शाब्दबोधस्य निश्चयात्मकस्याऽनुपपत्तेरेव युक्तिप्रधानस्तार्किकैर्निराकृत इत्याह- निराकाति । 'शब्दसमानाकारस' इति स्थाने 'शाब्दसमानाकारः' इति पाठो युक्तः । 'पर्यनुयोगे' इत्यस्य स्थाने 'पर्यनुयोगो' इति पाठो युक्तः, तस्य 'निराकृतः' इत्यनेनान्वयः । 'न च' इत्यस्य 'युक्तम्' इत्यनेनान्वयः तदुभयेति आराधकत्व-विराधकत्वोभयेत्यर्थः । अनुभयेति-आराधकत्व-विराधकत्वोभयरहितेति, नाराधकस्वभावो नापि विराधकस्वभाव इति यावत् । सत्यादिभेदचतुष्टयेति- सत्याभाषा, मृषाभाषा, सत्यामृषाभाषा, असत्याऽमृषाभाषेत्येवं चतुष्टयेत्यर्थः । तत्र सत्याभाषा आराधकस्वभावा मृषाभाषा विराधक स्वभावा, सत्यामृषाभाषा तदनुभयस्वभावा, असत्यामृषाभाषा तदनुभयस्वभावेति । तृतीयभक्त एव सत्यामृषाभाषालक्षणभाषातृतीयप्रकार एव । निक्षेपात् प्रवेशात् । युक्तत्वप्रतिक्षेपयुक्तिमुपदर्शयति-चतुर्धा विभागस्येति । Page #87 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरहिणीतरणिभ्यां पदेशः । एव निक्षेपात् साधूनामनादरणीयत्वमित्यपि युक्तम् , चतुर्धा विभागस्य द्रव्य भावभाषायामेवोपदेशात् , तत्र च परिमणितमिश्रभाषाभेददशकानन्तर्भावादेव नयभाषायां दोषाभावात् , श्रुतभावभाषायाश्च तृतीयभाषायामेवानधिकृतत्वात् , चारित्रभावभाषायामाद्यन्तयोर्भाषयोरधिकृतत्वेऽप्यायुक्ततया चतसृणामपि भाषणे आराधकत्वाविरोधस्य प्रज्ञापनादावुक्तत्वात् । किश्च, प्रतीत्यसत्यालक्षणमत्र स्फुटमेव किं नोनी. यते ?, न च सप्तभङ्गात्मकवाक्यस्यैव प्रतीत्यसत्यात्वम् , अपेक्षात्मकबोधजनकवाक्यत्वस्यैव तल्लक्षणत्वात् , अन्यथैकत्रापेक्षया हूस्व-दीर्घादि लौकिकवचनस्यालक्ष्यत्वापत्तेः । न च सत्या सर्वत्राऽलौकिक्येव लक्ष्या, जनपदसत्यादिभेदानुपसङ्ग्रहापत्तेः । ननु तथाप्युत्सर्गतोऽनादरणीयत्वादेव नय-दुर्नयभाषयोर. विशेषः, तथा चोक्तं वादिना"सीसमइविप्फारणमेत्तत्थोऽयं को समुल्लावो। इहरा कहामुहं चेव गस्थि एवं ससमयंमि" ॥ -[सम्मतितृतीयकाण्डे गाथा-२५ ] इति चेत्, न-शिष्यमतिविष्फारकत्वं हि नयवाक्यस्य प्रमाणात्मकमहावाक्यजन्यशाब्दबोधजनकावान्तरवाक्यार्थज्ञानजनकत्वम् , तदनुकूलाकाङ्क्षोत्थापकत्वं वा, तेन तस्यादरणीयत्वस्यैव सिद्धेः, तदुक्कं वादिनैव___ "पुरिसज्जायं तु पडुच्च जाणओ पण्णविज्ज अन्नयरं। परिकम्मणानिमित्तं वाहेही सो विसेसं पि" |त्ति, -[सम्मतिप्रथमकाण्डे गाथा-५४ ] तत्र च द्रव्य-भावभाषायां च । तृतीयभाषायां सत्यामृषाभाषायाम् | आद्यन्तयोः सत्याभाषाऽनुभयस्वभावभाषयोः । आयुक्ततया अत्यन्तोपयोगवत्तया। चतसृणामपि सत्यादिचतुष्प्रकाराणामपि भाषाणाम् । अपि च प्रतीत्यसत्यारूपैव नयभाषा, तस्या भाषणं युक्तमेव साधूनामित्याह- किश्चेति । अत्र नयभाषायाम् , प्रतीत्यसत्या नाम किञ्चिदपेक्षया सत्या, सा नयभाषाऽपि 'अपेक्षावचनं नयः' इति वचनात् प्रतीत्यसत्यात्वं तस्याः सुप्रतिपदम् । सप्तभङ्गीवाक्यस्यैव प्रतीत्यसत्यात्वम् , न नयवाक्यस्येत्याशङ्कय प्रतिक्षिपति-न चेति । निषेधे हेतुमाह- अपेक्षात्मकेति- अपेक्षात्मको यो बोधस्तजनकवाक्यत्वस्यैव प्रतीत्यसत्या लक्षणत्वादित्यर्थः । अन्यथा अपक्षात्मकबोधजनकवाक्यत्वस्य प्रतीत्यसत्यालक्षणत्वमनभ्युपगम्य सप्तमहात्मकवाक्यत्वस्यैव प्रतीत्यसत्यालक्षणत्वस्याभ्युपगमे । एकत्रेति- एकत्रैव निम्बादिवृक्षे आम्रवृक्षापेक्षया इस्वोऽयमिति बिल्ववृक्षापेक्षया दीर्घोऽयमिति लौकिकवचनस्य सप्तभङ्गानात्मकत्वेन प्रतीत्यसत्यालक्षणलक्ष्यत्वं न स्यादित्यर्थः । अलौकिक्येव भाषा सत्यालक्षणलक्ष्या सर्वत्र, न लौकिकीत्याशङ्कय प्रतिक्षिपति-न चेति । निषेधे हेतुमाह-जनपदेति- जनपदसत्यादिभेदा लौकिकवाक्यानामेवेति तत्सङ्ग्रहोऽलौकिक्या एव लक्ष्यत्वे न स्यादित्यर्थः । ननु भवतु प्रतीत्यसत्यात्वं नयवाक्यस्य तथापि दुर्नयवाक्यवन्नयवाक्यस्याप्युत्सर्गतोऽनादरणीयत्वात् तयोर विशेषः, प्रमाणवाक्यस्यैव च सप्तभङ्गात्मकस्योत्सर्गत आदरणीयत्वमित्याशङ्कते-नन्विति । उक्कार्थे सम्मतिसंवादमाह-तथा चोक्तमिति । सीसमह० इति- “शिष्यमतिविस्फारण. मात्रार्थोऽयं कृतः समुल्लापः । इतरथा कथामुखमेव नास्त्येतत् स्वसमये" ॥ इति संस्कृतम् । नयवाक्यस्य शिष्यमतिविस्फारकत्वे तत एवादरणीयत्वमपि तस्य सिद्धयतीति समाधत्ते-नेति । प्रमाणेति-प्रमाणात्मकमहावाक्येन जन्यस्य शाब्दबोधस्य जनकं यदवान्तरवाक्यार्थज्ञानं तजनकत्वम्, वा अथवा तादृशवाक्यार्थानुकूलाकाङ्क्षोत्थापकत्वं यतो नयवाक्यस्य शिष्यमतिविस्फारकत्वं तेन हेतुना नयवाक्यस्यादरणीयत्वस्यैव सिद्धेः, नयवाक्यं विनाऽवान्तरवाक्यार्थज्ञानं न स्यात्, तदन्तरेण च प्रमाणात्मकमहावाक्यशाब्दबोध एव न भवेदिति प्रमाणवाक्यस्यादरणीयत्वे तजन्यज्ञानजनकज्ञानजनकत्वेन नयवाक्यमप्यादरणीयमित्याशयः । उक्तार्थेऽपि सम्मतिसंवादमाह-तदुक्तमिति । वादिनैव श्रीसिद्धसेनदिवाकरेणैव । "पुरिसज्जायं तु०" इति- "पुरुषजातं तु प्रतीत्य ज्ञायकः प्रज्ञापयेदन्यतरत् । परिकर्मणानिमित्तं वदेद्धि स विशेषमपि "॥ इति संस्कृतम् । यथा च नयवाक्यं कञ्चित् प्रतिपाद्यं पुरुषमधिकृत्य प्रवर्तते तथा प्रमाणवाक्यमपि कश्चित् पुरुषविशेषमेवोद्दिश्य प्रवर्तते, ततश्च कारणिकत्वे द्वयोः समाने यथा स्वकाले प्रमाणवाक्यस्यौत्सर्गिकत्वं तथा स्वकाले नय Page #88 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलकृतो नयोपदेशः । प्रमाणवाक्यमपि ह्यनेकान्तरुचिशालिनं पुरुषविशेषमधिकृत्यैव प्रयुज्यते, तदनयोर्द्वयोरपि कारणिकत्वे प्राप्ते स्वस्वकाले उत्सर्गिकत्वमेव न्यायसिद्धम् , विप्रतिसिद्धकारणविधिस्थले तथाव्युत्पत्तेः, तस्मात् ' स्याज्ज्ञानादिलक्षणो जीवः' इत्यपि सुनयवाक्यमेव, एकभङ्गरूपत्वात् , प्रमाणवाक्यता तत्राप्युत्थाप्याकासाक्रमेण भङ्गषट्कसंयोजनयैव । सकलादेशत्वं च प्रतिभङ्गमनन्तधर्मात्मकत्वद्योतनेन, अन्यथा च विकलादेशत्वमित्यन्येके । अखण्डवस्तुविषयत्वेन त्रिष्वेवाद्यभङ्गेषु तत् , चतुर्ष चोपरितनेष्वेकदेशविषयत्वेन विकलादेशत्वमित्यन्ये । अयं व्युत्पत्तिविशेषः सर्वसप्तभङ्गीसाधारणः, स्याच्छब्दलान्छितैकमात्रेण तु न प्रमाणवाक्यविश्रामः सुनयवाक्यार्थस्यैव ततः सिद्धेः, अत एव- "कृष्णसर्प इत्यादिविशेषणविशेष्यभावबोधकवाक्येऽपि सर्पमात्रे कृष्णत्वस्याभावाद् अनन्ते व्यभिचारात्, पृष्ठावच्छेदेन कृष्णेप्युदरा. वाक्यस्याप्यौत्सर्गिकत्वम् , यथा- 'यवैर्यजेत् , व्र हिभिर्वा यजेत्' इत्यादिविप्रतिषिद्धकारणविधिस्थले व्रीहिकरणकयागस्य स्वकाले, स्वकाले च यवकरणकयागस्यौत्सर्गिकत्वमित्याह-प्रमाणवाक्यमपीति । तत् तस्मात् । अनयोः प्रमाण-नयवाक्ययोः 'विप्रतिसिद्धः' इति स्थाने 'विप्रतिषिद्धः' इते पाठो युक्तः, यत्र कारणद्वयस्य विकल्पस्तत्रैककारणविधानकालेऽपरो विप्रतिषिद्धो भवतीति । तथाव्युत्पत्तेः स्वस्वकाले औत्सर्गिकत्वमिति व्युत्पत्तेः । उपसंहरति- तस्मादिति । 'सुनयवाक्यमेव' इत्येवकारेण श्रीमलयगिरिसम्मतस्य तत्र प्रमाणवाक्यत्वस्य व्यवच्छेदः । सुनयवाक्यत्वे हेतुमाहएकभङ्गरूपत्वादिति । 'स्याद् ज्ञानादिलक्षणो जीवः' इति वाक्यस्य प्रमाणवाक्यताऽपि, किं ज्ञानादिलक्षणभिन्नोऽपि जीव इत्याद्युत्थाप्याकाहाक्रमेण 'स्य.न ज्ञानादिलक्षणो जीवः, स्यादवकव्यो जीवः' इत्यादिभङ्गषट्कयोजनया भवतीत्याहप्रमाणवाक्यताऽपीति- तेनाऽत्राप्यनेकान्तः कान्त इत्यभिसन्धिः। इयं च सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा, प्रतिभङ्गं विकलादेशस्वभावा च श्रीदेवरिप्रभृत्याचार्याणां मते, तत्र यथा सकलादेशत्वं यथा च विकलादेशत्वं तदुपदर्शयति- सकलादेशत्वं चेति- स्यात्पदेन प्रतिभङ्गगतेनाऽनन्तधर्मात्मकत्वस्य वस्तुनि द्योतनेन प्रतिभङ्गं सकलादेशत्वमित्यर्थः, एतच्च कालादिभिरष्टभिव्यर्थादेशादभेदप्राधान्याश्रयणेन पर्यायार्थादेशादभेदोपचारतश्चैकधर्मप्रतिपादने तद्वारा सकलधर्मप्रतिपादनतः सम्भवति । यदा च कालादिभिरष्टभिः पर्यायार्थादेशाद् भेदप्राधान्याश्रयणेन द्रव्यार्थिकनयादेशाद् भेदोपचारेण वा नैकधर्मप्रतिपादनेन ततो भिन्नानामन्यधर्माणां प्रतिपादनमिति न स्यात्पदेनाऽनन्तधर्मात्मकत्वस्य द्योतनं तदैकभङ्गेनैकधर्मस्य वस्त्वंशस्यैव प्रतिपादनं न तु वस्तुन इति विककादेशत्वमित्याह- अन्यथा चेति-स्यात्पदेनाऽनन्तधर्मात्मकत्वं न द्योत्यते, किन्त्वपेक्षाभेद एवोल्लिखितधर्मस्य द्योतत इत्यभ्युपगमे त्वित्यर्थः । अखण्डवस्तुप्रतिपादकत्वं सकलादेशत्वमेकदेशप्रतिपादकत्वं विकलादेशत्वमिति ' स्यादस्त्येव, स्यान्नास्त्येव, स्यादवक्तव्यमेव' इत्याद्यभङ्गात्रयाणां सकलादेशत्वम्, तदन्येषां चतुर्णा भङ्गानां विकलादेशत्वमित्यभ्युपगन्तृणां तत्त्वार्थसूत्रकृत्प्रभृतीनां मतमुपदर्शयति- अखण्डवस्तुविषयत्वेनेति । तत् सकलादेशत्वम् , एकधर्मात्मना वस्तुप्रतिपादने तदन्यधर्माणामप्यभेदवृत्त्या तदुपचारेण वा तद्धर्माभदभावेन प्रतिपादनसम्भवतः सकलादेशत्वं घटत आद्यभङ्गत्रये, तदन्यभङ्गेषु पुनर्भेदाश्रयणेनैव विशिष्टधर्मप्रतिपादनमिति तत्राभेदाश्रयणासम्भवान्नान्यधर्माणां प्रतिपादनसम्भव इति विकलादेशत्वमित्यभिसन्धिः । अयम् अनन्तरमुपदर्शितदिशा दर्शितः । व्युत्पत्तिविशेषः सकलादेशत्व-विकलादेशत्वज्ञानप्रकारः। सर्वसप्तभङ्गीसाधारणः ‘स्याज्ज्ञानादिलक्षणो जीवः' इत्यादिसप्तभायामिव 'स्यादस्त्येव घटः 'इत्यादि-स्यान्नित्य एव घटः 'इत्याद्यशेषसप्तभङ्गीसमनुगतः । स्याच्छब्देति- ‘स्याज्ज्ञानादिलक्षणो जीवः' इत्येकभङ्गमात्रेण तु प्रमाणवाक्यविश्रामो न भवति, निराकाङ्क्षार्थावबोधस्यैकेन भनेनाजननात्, किन्तु प्रतिनियतापेक्षयकधर्मावधारणलक्षणसुनयवाक्यार्थस्यैवैकभङ्गतः सिद्धरित्यर्थः। अत एव स्याच्छन्दलाञ्छितकभङ्गस्य नयवाक्यत्वमेव न प्रमाणवाक्यत्वमित्यस्य सुव्यवस्थितत्वादेव । कृष्णसर्प इत्यादि विशेषण-विशेष्यभावबोधकवाक्येऽपि स्याच्छब्दसंयोजनया नयवाक्यत्वमित्येवं समन्तभद्र आहेत्यन्वयः। अपिना यदा नागविशेष रूढ एव कृष्णसर्प इति तदा पदत्वमेव तस्य न वाक्यत्वमिति सुनयवाक्यत्वसम्भावनैव नास्तीत्यर्थामेडनम् । अनन्त इति-अनन्ताभिधः सर्पः शुक्ल एव न कृष्ण इति सर्पत्वं तत्रास्ति न तु कृष्णत्वमित्येवं व्यभिचारादित्यर्थः । सर्पविशेषे नियमेन कृष्णत्वमस्तीत्यपि नास्ति पृष्ठावच्छेदेन कृष्णस्यापि सर्पस्योदरावच्छेदेन शुक्लत्वस्योप Page #89 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। वच्छेदेन शुक्लत्वोपलम्भाञ्च, स्याच्छब्दसंयोजनया नयवाक्यत्वम्” इत्याह समन्तभद्रः । लक्ष्य-लक्षणादिव्यवहारोऽपि नयवाक्यैरेव सिद्ध्यति, उद्देशत्रयलौकिकबोधस्यानप्रतिप्रसक्तस्य तेभ्य एव सिद्धेः, प्रमाणवाक्यं त्वलौकिकबोधार्थ सभप्तङ्गात्मकमेवाश्रयणीयम् , अत एव तद्व्यापकत्वं सम्मत्यादी महता प्रयत्नेन साधितमिति किमतिविस्तरेण ? ॥ ६ ॥ नन्वेकत्र वस्तुन्यनेकाकारा प्रमाणधीः, एकाकारा च नयधीः कथमुत्पाद्यत इति जिज्ञासायामाह यथा नैयायिकैरिष्टा चित्रेऽनेकैकरूपधीः। नय-प्रमाणभेदेन सर्वत्रैव तथाऽऽहतैः ॥ ७॥ नया०- यथेति- यथा नैयायिकैः, चित्रे नील-पीतादिना शबले घटादौ अनेकरूपाचाकारा, एकरूपा च चित्राकारा धीः, इष्टा अभ्युपगता, तथानुभवस्वारस्याद्, मतभेदाश्रयणाद् वा, तथा सर्वत्रैव लम्भेनैकान्तेन कृष्णत्वाभावादित्याह- पृष्ठावच्छेदेनेति । एवं च 'स्यात् कृष्णसर्पः' इत्येव प्रयोक्तव्यमिति स्याच्छन्दसंयोजनया नयवाक्यत्वं तस्येत्याह-स्याच्छब्देति । तदिदमर्थ प्रामाणिकमित्यावेदयितुमाह-इत्याह समन्तभद्र इति । न केवलं विशेषणविशेष्यभावबोधकवाक्यस्यैव सुनयवाक्यत्वम्, किन्तु लक्ष्य-लक्षणादिप्रतिपादकवाक्यानामपि सुनयवाक्यत्वमेवेत्याह- लक्ष्यलक्षणादिव्यवहारोऽपीति । उद्देशत्रयलौकिकबोधस्येति- उद्देश-लक्षण-परीक्षात्मकवाक्यजन्यलौकिकबोधस्येत्यर्थः । अनतिप्रसक्तस्य अलक्ष्यालक्षणाद्यविषयकस्य लक्ष्य-लक्षणादिमात्रविषयकस्येति यावत् । तेभ्य एव नयवाक्येभ्य एव । यदि च विशेषण-विशेष्यभावादिलक्ष्य-लक्षणादिव्यवहारश्च नयवाक्यादेव तर्हि प्रमाणवाक्यं किमर्थमाश्रयणीयमित्यपेक्षायामाह-प्रमाणवाक्यं त्विति । अलौकिकबोधार्थम् एकधर्मिविशेष्यकसप्तधर्मप्रकारकनिराकासबोधार्थम् , तथाबोधः सप्तभङ्गात्मकमहावाक्यत एवेति । 'सप्तभङ्गात्मकमेव' इति 'प्रमाणवाक्यम्' इत्यस्य विशेषणम् । अत एव अलौकिकबोधार्थ सप्तभङ्गात्म प्रमाणवाक्यस्याश्रयणीयत्वादेव । तद्व्यापकत्वं सप्तभङ्गात्मकप्रमाणवाक्यस्य प्रतिपादकतया वस्तुमात्रव्यापकत्वम् ॥ ६॥ ___सप्तमपद्यमवतारयति- नन्विति - एकस्मिन् वस्तुनि वस्तुस्वाभाव्याद् यदि अनेकाकारा बुद्धिः प्रमाणात्मिका तदैकाकारा नयबुद्धिः कथम् ? यदि चैकाकारबुद्धिविषयत्वमस्य स्वाभाल्यादेव तदाऽनेकाकारा बुद्धिः कथम् ? तत्कारणस्याप्येकविधबुद्धिजनकत्वस्वभाव्यादेत्यभिसन्धिः । यथेत्यादिपद्यं विवृणोति- यथेतीति । 'चित्रे' इत्यस्य विवरणम् - 'नीलपीतादिना शबले घटादो' इति । अनेकरूपाद्याकारा, 'घटोऽयं नाल पीत-रक्तादिमान्' इति, 'अस्मिन् घटे नील-पीत-रक्तादिरूपाणि' इत्येवमनेकरूपाद्याकारा। एकरूपा च 'घटोऽयं चित्ररूपवान्' इति, 'घटेऽस्मिन् चित्रं रूपम्' इत्येवमाकारा । उक्तदिशाऽनेकाकारा धीरैकाकारा धीः कथं नैयायिकैरभ्युपगतेत्यपेक्षायामाह- तथानुभवस्वारस्यादिति-चित्रघटादिश्चित्ररूपात्मकैकाकारवत्तयाऽप्यनुभूयते, नील-पीताद्यनेकाकारवत्तयाऽप्यनुभूयत इति तथानुभवस्वारस्यात् तथाऽभ्युपेयत इति । नन्वेकान्तवादे एकविधानुभव एव प्रमाणमिति तत्रैकाकारानुभवप्रामाण्ये एकाकारा बुद्धिरेव प्रामाणिकी, अनेकाकारानुभवप्रामाण्येऽनेकाकारा बुद्धिरेव प्रामाणिकी, न तूभयाकारबुद्धयोः प्रामाण्यम् , यथार्थानुभवस्वारस्यादेव वस्तुव्यवस्थितेरित्यत आह- मतभेदाश्रय द वेति-प्राचीननैयायिकैरवयवगतनीलादिरूपाणामवयविगतपीतादिरूपं प्रति प्रतिबन्धकत्वाभ्युपगमान्न तत्रावयविनि नानारूपाण्युत्पत्तुमर्हन्ति, रूपादीनां व्याप्यवृत्तिजातीयत्वस्वाभाव्यादवच्छेदकभेदेनाव्याप्यवृत्तिनानारूपाऽभ्युपगमोऽपि न सम्भवति, अवयविनि तत्र रूपानभ्युपगमे तु तस्य बहिरिन्द्रियजन्यप्रत्यक्षमेव न स्यात् , बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षे उद्भूतरूपस्य कारणत्वात् , अतोऽवयवगतनानाजातीयरूपरवयविनि चित्ररूपमेवकमुत्पद्यते, तं प्रति चावयवगतनोलादिरूपाणां न प्रतिबन्धकत्वम् , अतस्तत्र चित्ररूपस्यैकस्यौत्पत्तिसम्भव इति, नवीननैयायिकैरवयवगतनीलादीनामवयविगतपीतादिरूपं प्रति प्रतिबन्धकत्वस्यानभ्युपगमाद्रपादीनां व्याप्यवृत्तिजातीयत्वमेवेति नियमस्यानभ्युपगमात् तत्र नील-पीतादिकं नानारूपमेव, Page #90 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । वस्तुन्येकानेकरूपतया चित्रे प्रमाण-नयभेदेन द्विविधा बुद्धिराहतैरिष्टा, अनुभवसिद्धेऽर्थे विरोधाभावादिति भावः। __ यथा च सर्वस्य वस्तुनश्चित्रत्वं तथोक्तमस्माभिरात्मख्याती विस्तरभिया नेह प्रतन्यते, चित्ररूपे तु मतभेदं तर्करसिकव्युत्पत्त्यर्थमुपदर्शयामः- तत्र 'नीलं नीलान्यरूपासमवायिकारणम् , नवा ?' इति चित्ररूपे विप्रतिपत्तिः, विधिकोटिः सामानाधिकरण्येन निषेधकोटिरवच्छेदेन, तेन नांशतो बाधः सिद्धन त्वेकं विजातीयं चित्ररूपमिति, अत एव- " लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः । श्वेतः खुर-विषाणाभ्यां स नीलो वृष उच्यते " ॥१॥ ] इति वचनादेकस्मिन् नीलवृषे नानारूपसमावेशोऽवच्छेदकभेदेन प्रतिपादितः सङ्गच्छत इत्येवं प्राचीन-नवीननैयायिकमतभेदाश्रयणाद् वेत्यर्थः, एतन्मतद्वयाभिप्रायोऽनन्तरमेव ग्रन्थकृता स्पष्टीकृतो वेदितव्यः। 'एकानेकरूपतया चित्रे' इति 'वस्तुनि' इत्यस्य विशेषणम् । प्रमाण नयभेदेनेतिप्रमाणेनानेकाकारा बुद्धिः, नयेन चैकाकारा बुद्धिजैनैरभ्युपगतेत्यर्थः। नन्वेकाकारबुद्धिविषयत्वा-ऽनेकाकारबुद्धिविषयत्वयोविरोधात् कथमेकस्मिन् वस्तुनि सम्भव इत्यत आह- अनुभवसिद्ध इति- ययोरेकत्र नानुभवस्तयोरेव विरोधः, प्रकृते चापेक्षाभेदेनैकत्र वस्तुन्येकाऽनेकाकारबुद्धिविषयत्वयोरनुभव एवेति न विरोध इत्यर्थः । यथा घटादेर्नील-पीतादिना चित्रत्वं तथा सर्वस्य वस्तुनो यदि चित्रत्वं स्यात् तदा स्यादुक्तदिशैकाऽनेकाकारबुद्धिविषयत्वम्, तत्रैव तु प्रमाणं न पश्याम इत्यत आह - यथा चेति-आत्मख्यातिनामा कश्चिद् ग्रन्थोऽनेन ग्रन्थकृता कृतोऽस्ति, यत्र वस्तुमात्रस्य चित्रत्वं व्यवस्थापितम् , परमिदानीं न स दृष्टिपथमस्माकमुपयातीति । 'मतभेदाश्रयणाद् वा' इति यदुक्तं तत्र मतभेदोपदर्शनमधिकरोति-चित्ररूपेत्विति । यद्यपि वादि-प्रतिवादिनौ स्वस्वपक्षनिर्णयवन्तावेव, तथाप्याहार्यसंशयोत्पादनार्थ कथाङ्गसंशयहेतुवादि-प्रतिवाद्यभिमतपरस्परविरुद्धधर्मद्वयावबोधकविप्रतिपत्तिमध्यस्थेनाऽवश्यं विधेयेत्याशयेन चित्ररूपे विप्रतिपत्तिमुपदर्शयति-तत्रेति-मतदयप्ररूपककथायामित्यर्थः । प्राचीनमते यत्राऽवयव. मात्रे नीलमेव रूपं तत्रावय विनि नीलरूपमेवोत्पद्यत इति नीलरूपं नीलरूपस्याऽसमवायिकारणं भवति, यत्र तु कुत्रचिदवयवे नीलं कुत्रचिदवयवे पीतादिरूपं तत्राऽवयविनि चित्ररूपमेव विजातीयमुत्पद्यते, तत्राऽवयवगतं नीलरूपं नीलान्यचित्ररूपं प्रत्यसमवायिकारणं भवतीति नीलं नीलान्यरूपाऽसमवायिकारणमिति विधिकोटिः प्राचीननैयायिकस्य; नव्यनैयायिकमते तु यत्रावयवेष्वेकजातीयमेव नीलादि तत्रावयविनि तत्समानजातीयमेकरूपमेवोत्पद्यते, यत्र त्ववयवेषु नानाजातीयनील-पीतादिकं तत्र नानव नील-पीतादिकमुत्पद्यते, तत्रावयवगतं नीलमवयविगतनीलं प्रत्यसमवायिकारणम् , एवमवयवगतपीतादिकमवयविगतपीतादिकं प्रत्यसमवायिकारणम्, न तु नीलं नीलान्यरूपं प्रत्यसमवायिकारणमिति निषेधकोटिनव्यनैयायिकस्येत्याह-नीलमिति । प्राचीनमते नीलत्वरूपपक्षतावच्छेदकसामानाधिकरण्येनैव नीलरूपासमवायिकारणत्वस्य विधिः, न तु नीलत्वावच्छेदेन, तथा सति यत्रावयवेषु नीलमेव रूपं तस्य नीलरूपस्य नीलान्यरूपासमवायिकारणत्वाभावेन तन्मते बाधः स्यात् , एवं नवीनमते नीलत्वरूपपक्षतावच्छेदकावच्छेदेनैव नीलान्यरूपासमवायिकारणत्वस्य निषेधः, न तु नीलत्वसामानाधिकरण्यन, तथा सति यत्रावयवेषु नीलमेव रूपं तत्र प्राचीनमतेऽपि तस्मिन्नवयवनीले नीलान्यरूपासमवायिकारणत्वनिषेधस्य सत्त्वेन तत्साधने तं प्रति सिद्धसाधनं स्यादित्याह-विधिकोटिरिति । 'निषेधकोटिरवच्छेदेन' इति स्थाने 'निषेधकोटिरवच्छेदकावच्छेदेन' इति पाठः समीचीनः, अथवाऽवच्छेदेनेत्यतः, सामानाधिकरण्येनेत्यस्य पक्षतावच्छेदकसामानाधिकरण्येनेत्यर्थः, अवच्छेदकावच्छेदेनेत्यस्य पक्षतावच्छेदकावच्छेदेनेत्यर्थः, पक्षतावच्छेदकावच्छेदेनानुमितौ पक्षतावच्छेदकव्यापकविधेयप्रतियोगिकसम्बन्धी विधेयतावच्छेदकतया भासते, पक्षतावच्छेदकसामानाधिकरण्येनानुमितौ तु शुद्ध एव सम्बन्धी विधेयतावच्छेदकतया भासत इति तयोविवेकः । तेन विधिकोटेः पक्षतावच्छेदकसामानाधिकरण्येन निषेधकोटेः पक्षतावच्छेदकावच्छेदेन साधनेन । नांशतो बाधयिताक्छेदकसामानाधिकरण्येन साध्याभावनिश्चयलक्षणबाधो न भवतीत्यर्थः, पक्षतावच्छेदकावच्छेदेन समस्यामा प्रतादेविच्छेदन मध्याभावनिश्चयलक्षणः पक्षतावच्छेदकसामानाधि Page #91 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः। साधनं वा । यत् तु- 'नीलरूपासमवायिकारणकं पीतरूपासमवायिकारणकम् , नवा ? इति विप्रतिपत्तिः' इति, तन्न- नीलरूपासमवायिकारणस्य नीलस्य पक्षत्वे बाधात् , चित्ररूपस्य पक्षत्वे आश्रयासिद्धेः । यदपि- 'नीलरूपासमवाथिकारणकवृत्तित्वविशिष्टरूपत्वं पीतरूपासमवायिकारणवृत्ति, नवा ?' इति केषा. करण्येन साध्याभावनिश्चयलक्षणश्च बाधः प्रतिबन्धक इति पक्षतावच्छेदकसामानाधिकरण्येन साध्यानुमितौ तु पक्षतावच्छेदकावच्छेदेन साध्याभावनिश्चयलक्षणबाध एव प्रतिबन्धको न पक्षतावच्छेदकसामानाधिकरण्यन साध्याभावनिश्चयलक्षणो बाधः प्रतिबन्धकः, प्रकृते तु नीलत्वसामानाधिकरण्येन नीलान्यरूपासमवायिकारणत्वलक्षणसाध्यानुमितिरभिमतेति तत्र नीलात्वावच्छेदेनैव नीलान्यरूपासमवायिकारणत्वाभावनिश्चयः प्रतिबन्धको न तु नीलत्वसामानाधिकरण्येन नीलान्यरूपासमवायिकारणत्वाभावनिश्चय इति भावः । सिद्धसाधनं वेति- पक्षतावच्छेदकावच्छेदेन साध्यानुमितौ पक्षतावच्छेदकावच्छेदेन साध्यनिश्चय एव सिद्धसाधनविधया प्रतिबन्धको न तु पक्षतावच्छेदकसामानाधिकरण्येन साध्यनिश्चयः, पक्षतावच्छेदकसामानाधिकरण्येन साध्यानुमितौ तु पक्षतावच्छेदकावच्छेदेन साध्यनिश्चयः पक्षनावच्छदेकसामानाधिकरण्येन साध्यनिश्चयश्च प्रतिबन्धकः, तत्र प्रथमे प्रतिबध्यप्रतिबन्धकभावश्च प्रकृतपक्षतावच्छेदकव्यापकविधेयप्रतियोगिकविधेयतावच्छेदकसम्बन्धावच्छिन्नप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितप्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यताकानुमितित्वावच्छिन्न प्रतिबध्यतानिरूपितप्रकृतपक्षतावच्छेदकव्या कविधेयप्रतियोगिकविधेयतावच्छेदकसम्बन्धावच्छिन्नप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितप्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्नप्रतिबन्धकत्व. मिति. द्वितीये प्रतिबध्य-प्रतिबन्धकभावश्च निर्विशेषितविधेयतावच्छेदकसम्बन्धावच्छिन्नप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितप्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यताकानुमितित्वावच्छिन्नप्रतिबध्यतानिरूपितविधेयतावच्छेदकसम्बन्धावच्छिन्नप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितप्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्न प्रतिबन्धकतेति, प्रकृते तु नीलत्वावच्छेदेन नीलान्यरूपासमवायिकारणत्वाभावविधेयकानुमितिर्नव्यमतेऽभिमता, तां प्रति नीलत्वावच्छेदेनैव नीलान्यरूपासमवायिकारणत्वाभावनिश्चयः सिद्धसाधनविधया विरोधी, न च स प्राचीनमते समस्ति, किन्तु नीलत्वसामानाधिकरण्येन नीलान्यरूपासमवायिकारणत्वाभावनिश्चयः समस्ति, न च स प्रतिबन्धक इत्याशयः। अस्यां विप्रतिपत्तौ प्रसिद्धमेव नीलरूपं पक्षीकृतम् , नीलान्यरूपासमवायिकारणत्वमपि पीतादौ प्रसिद्धमेव, तच्चेन्नीले चित्ररूपासमवायिकारणत्वमादायैव सिद्धयति तदभावोऽपि नीले चित्ररूपासत्त्वमुपादायैव सिद्धयतीति युक्तेयं विप्रतिपतिः। विप्रतिपत्त्यन्तरं पराभिप्रेतमुद्भाव्य प्रतिक्षिपति- यत् त्विति । 'नीलरूपासमवायिकारणकम् ' इति पक्षनिर्देशः, 'पीतरूपासमवायिकारणकम्' इति साध्यनिर्देशः प्राचाम्, 'नवा' इति साध्यनिर्देशो नव्यानाम्, अत्र नीलरूपासमवायिकारणकत्वेन प्राचीन नवीनोभयमतसिद्धं नीलरूपमैव, तद् यदि पक्षस्तर्हि तत्र पीतरूपासमवायिकारणकत्वं नास्ति, नहि कोऽपि नीलं प्रति पीतरूपस्याऽसमवायिकारणत्वं स्त्रीकरोतीति प्राचीनैस्तथासाधने बाध एव, नवीनैस्तदभावसाधने सिद्धसाधनमेव, प्राचीनैरपि नीलरूपे पीतरूपासमवायिकारणकत्वाभावस्योपगमात्, प्राचीनमतेन नीलरूपासमवायिकारणकत्वेन सिद्ध चित्ररूपमपि, तस्य पक्षत्वे आश्रयासिद्धिरेव, वादि-प्रतिवाद्युभयसिद्धस्यैव पक्षत्वं नैकतरमात्रसिद्धस्येत्याशयेनोक्तविपत्तिं प्रतिक्षिपति-तन्नेति - सिद्धसाधनदोषापेक्षया बाधदोषस्य प्रबलत्वात् तन्मात्रोपन्यास इति बोध्यम् । अन्यामपि वाद्यन्तराभिमतां विप्रतिपत्तिमुद्भाव्य प्रतिक्षिपति-यदपीति, 'नीलरूपासमवायिकारणकवृत्तित्वविशिष्टरूपत्वम्' इति पक्षनिर्देशः, 'पीतरूपासमवायिकारणवृत्ति' इति स्थाने स्पष्टप्रतिपत्तये 'पीतरूपासमवायिकारणकवृत्ति' इति पाठो युक्तः, स च प्राचीनमते साध्यनिर्देशः, 'नवा' इति निषेधकोटिनव्यानाम् , अत्र नीलरूपासमवायिकारणक नीलरूपं चित्ररूपं च प्राचीनमते, तत्र नीलरूपमुपादाय नीलरूपासमवायिकारणकवृत्तित्वविशिष्टरूपत्वमुभयमतसिद्धं भवति पक्षः, पीतरूपासमवायिकारणकमपि प्राचीनमते पीतरूपं चित्ररूपं च, तत्र पीतरूपमुपादाय पीतरूपासमवायिकारणकवृत्तित्वलक्षणं साध्यं प्राचीन-नवीनोभयमतेऽपि रूपत्वे पीतरूपत्वे च सिद्धम् , तद्वत्तित्वविशिष्टस्य तत्रैव सत्त्वमिति नियमेन नीलरूपासमवायिकारणकवृत्तित्वविशिष्टरूपत्वं नीलरूपासमवायिकारणकवृत्त्येव भवितुमर्हति, एवं च तत्र पीतरूपासमवायिकारणकवृत्तित्वं तदेव सेद्धमहति यदेव रूपं नीलरूपासमवायिकारणकं तदेव यदि पीतरूपासमवायिकारणकमपि भवेत्, न च नीलरूपं पोतरूपं वा तथा, नीलरूपस्य नीलरूपासमवायिकारणकत्वेऽपि पीतरूपासमवायिकारणकत्वाभावात् , पीतरूपस्य पीतरूपासम Page #92 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । श्चिद् विप्रतिपत्त्युद्धावनम् , तदपि न रमणीयम्- विशिष्टस्य विशिष्टाधेयताया वाऽनतिरिकत्वादिति दिक् । तत्र साम्प्रदायिका:- "नानारूपवदवयवारब्धे वस्तुनि नील-पीतादिभिरेकं सम्भूय चित्रं रूपमार. भ्यते, न च सामग्रीसत्त्वान्नीलादिभिः नीलादेरपि तत्र जननापत्तिः ? अगत्या नीलेतररूपादेनीलादिकं प्रति प्रतिबन्धकत्वकल्पनात्, प्रतिबन्धकतावच्छेदकः सम्बन्धः स्वसमवायिसमवेतत्वम् , प्रतिबध्यतावच्छेदकश्च समवायः; चित्रत्वावच्छिन्नेऽपि नीलेतर-पीतेतररूपत्वादिनैव हेतुता, तेन न केवलनीलकपालारब्धे चित्रोत्पत्तिप्रसङ्गः। यत् तु- 'अवयवनिष्ठनीलाभावादिषट्कस्यैव चित्रं प्रति हेतुत्वम्' वायिकारणकत्वेऽपि नीलरूपासमवायिकारणकत्वाभावात् , किन्तु चित्ररूपमेष नीलरूपासमवायिकारणकं पीतरूपासमवायिकारणकं चेति चित्ररूपमुपादायैव निरुक्तरूपत्वलक्षणपक्षे निरुक्तविधिरूपसाध्यं सिद्धयतीति प्राचीनाभिलषितचित्ररूपसिद्धिः, नवीनमते नीलरूपासमवायिकारणकं नीलरूपमेव, पीतरूपासमवायिकारणकं पीतरूपमेवेति न नीलरूपासमवायिकारणकवृत्तित्वविशिष्टरूपत्वे पीतरूपासमवायिकारणकवृत्तित्वमिति निषेधकोटिस्तदैव सेद्धमर्हति यदि चित्ररूपं न भवेदेवेति । तादृशविप्रतिपत्त्युद्भावनस्याऽरमणोयत्वे हेतुमुपदर्शयति-विशिष्टस्येति-नीलरूपासमवायिकारणकवृत्तित्वविशिष्टरूपत्वस्य शुद्धरूपत्वानतिरिक्तत्वेन शुद्धरूपत्वस्य पीतरूपासमवायिकारणके पीतरूपे सत्त्वे विशिष्टरूपत्वस्यापि तत्र सत्तया चित्ररूपाभावेऽपि पीतरूपासमवायिकारणकवृत्तित्वस्य तत्र सत्त्वेन विधिकोटौ सिद्धसाधनात् , तनिषेधस्य तंत्राभावेन निषेधकोटौ बाधाच्चेत्याशयः । यथा च विशिष्टस्य शुद्धानतिरिक्तत्वं तथा विशिष्टाधेयताया अपि शुद्धाधेयतातोऽनतिरिक्तत्वमेवेति तत्साधने सिद्धसाधनं तदभावसाधने बाधः स्यादेवेत्याह-विशिष्टाधेयताया वेति- तवृत्तित्वविशिष्टस्य तत्रैव सत्त्वमिति नियमच विशिष्ट-शुद्धयोरनरिक्तत्वाभ्युपगन्त्रा नाभ्युपेयत एवेत्याशयः। यदि च विशिष्टस्य शुद्धानतिरिक्तत्वेऽपि विशिष्टनिरूपिताधिकरणत्वं शुद्धनिरूपिताधिकरणतातो व्यतिरिक्तमेव, तत एव 'गुणो गुण-कर्मान्यत्वविशिष्टसत्तावान्' इति प्रतीतेन प्रमात्वम् , गुण-कर्मान्यत्वविशिष्टसत्तानिरूपिताधिकरणताया गुणेऽभावादिति विभाव्यते, तदा 'नीलरूपासमवायिकारणवृत्तित्वविशिष्टरूपत्वनिरूपिताधिकरणत्वं पीतरूपासमवायिकारणकवृत्ति नवा ?' इत्यपि विप्रतिपत्तिः सम्भवतीति बोध्यम् । एवं विप्रतिपत्तौ सत्यां प्राचां मतं प्रथमत उपदर्शयति-तत्रेति । साम्प्रदायिकाः प्राचीनमतानुसारिणः । ननु समवायसम्बधेन नीलं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन नीलं कारणम् , एवं समवायसम्बन्धेन पीतादिकं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन पोतादिकं कारणमित्येवं कार्यकारणभावस्य मतद्वयेऽप्युपगमादवयगतनीलादितो यथाऽवयविनि चित्ररूपस्यैकस्योत्पत्तिस्तथोक्तकारणघटितसामग्रीबलानीलादीनामप्युत्पत्तिः स्यादित्याशङ्कय प्रतिक्षिपति-न चेति । तत्र नानारूपवदवयवारब्धेऽवयविनि, यद्यत्र कस्यचित् प्रतिबन्धकत्वं न कल्प्येत तदोक्तसामग्रीबलात् स्यादेव नीलादितो नीलाद्युत्पत्त्यापत्तिः, अतः समवायेन नीलं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन नीलेतररूपस्य प्रतिबन्धकत्वम्, एवं समवायेन पीतं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन पीतेतररूपस्य प्रतिबन्धकत्वम् , इत्येवं दिशा रक्तादिकं प्रत्यपि रक्तररूपादेः प्रतिबन्धकत्वम् , तथा च समवायसम्बन्धेन नीलं प्रति यथा स्वसमवायिसमवेतत्वसम्बन्धेन नीलरूपं कारणं तथा स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्ननीलेतररूपनिष्ठप्रतियोगिकाभावोऽपि प्रतिबन्धकाभावविधया कारणमिति तद्घटितकारणकूटलक्षणसामध्यभावान्न नानारूपपवदवयवारब्धेऽवयविनि नीलरूपोत्पत्तिः, नवा पीतादिरूपोत्पत्तिरिति निषेधहेतुमुपदर्शयति- अगत्येति-प्रतिबध्य-प्रतिबन्धकभावकल्पनाऽतिरिक्तगत्यभावेनेत्यर्थः । 'नीलेतररूपादे:' इत्यत्रादिपदात् पीतेतररूपादेरुपग्रहः, 'नीलादिकम् इत्यत्रादिपदात् पीतादेरुपग्रहः । ननु समवायसम्बन्धेन नीलं प्रति यथा स्वसमवायिसमवेतत्वसम्बन्धेन नीलरूपं कारणं तथा समवायसम्बन्धेन चित्रं प्रत्यपि स्वसमवायिसमवेतत्वसम्बन्धेन नीलरूपं कारणमिति यत्र कपालद्वयेऽपि नीलरूपमेव तत्रापि तदारब्धघटे चित्ररूपं स्यात् सामग्रोसत्त्वादित्यत आहचित्रत्वावच्छिन्नेऽपीति । 'पीतेतररूपत्वादिना' इत्यत्रादिपदाद्रक्तररूपत्वादेरुपग्रहः । एवकारेण चित्रत्वावच्छिन्नं प्रति नीलत्वादिना कारणत्वस्य व्यवच्छेदः, तथा च चित्रत्वावच्छिन्नं प्रति नीलेतररूपत्वेनैकं कारणत्वम्, एवं पीतेतररूपत्वेन कारणत्वमित्येवं दिशा षट् कारणानि, तथा च केवलनीलकपालारब्धे घटे न चित्रोत्पत्तिप्रसङ्गः, तत्र पीततररूपादिलक्षणकारणपञ्चकस्य सत्त्वेऽपि नीलेतररूपलक्षणकारणस्याभावादित्याह-तेनेति- उक्त दिशा षड्विधकार्यकारणभावस्याभ्युपगमेनेत्यर्थः । 'केवलनीलकपालारब्धे' इति तु 'केवलपीतकपालारब्धे' इत्यादीनामप्युपलक्षणम् । यत् स्विति'अवयवनिष्ठनीलाभावादिषदकस्यैव' इत्येवकारेण नीलेतररूपत्वादिना हेतुत्वस्य व्यवच्छेदः, अत्र समवायसम्बन्धः कार्यताव Page #93 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । इति, तत्र नील-पीतोभयकपालारब्धे घटे पाकनाशितावयवपीते स्वचित्रेऽवयवे व्याप्यवृत्तिनीलोत्पत्तिकाले चित्रोत्पत्त्यापत्तिः, न च कार्यसहभावेन नीलाभावादीनां तद्धेतुत्वादयमदोषः, नील-पीत-श्वेतत्रितय. कपालारब्धे पीत-श्वेतयोः क्रमेण नाशे श्वेतनाशकालेऽपि तदापत्तेरिति, पाकजचित्रे च न व्यभिचारः, पाकादेवावयवे नानारूपोत्पत्त्यनन्तरमेवावयविनि चित्रस्वीकारात्, पाकजचित्र स्वीकारे च विजातीयचित्रं प्रति नीलेतरत्वादिना हेतुता, अग्निसंयोगजचित्रे चावच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताका च्छेदकः, स्वाश्रयससमवेतत्वसम्बन्धः कारणतावच्छेदकः, केवलनीलकपालारब्धघटे तु स्वाश्रय समवेतत्वसम्बन्धेन पीताभावादिपञ्चकस्य सत्त्वेऽपि तेन सम्बन्धन नीलाभावस्यासत्त्वात् तद्पकारणाभावान्न चित्रोत्पत्तिः, एवं केवलपीतकपालारब्ध. घटादावपि पीताभावाद्यभावान चित्रोत्पत्तिः, नील-पीतकपालद्वयारब्धघटे तु नीलाभावस्य पीतकपालमादाय पीताभावस्य नीलकपालमादाय रक्ताभावादीनां च कपालद्वयमप्यादाय सत्त्वात् तत्र चित्रोत्पत्तिः सम्भवतीत्यर्थः । निरुक्ककार्यकारणभावं दूषयति-तत्रेति-निरुक्तकार्यकारणभावे इत्यर्थः । नीलेति-यस्य घटस्यारम्भकमेकं कपालं नीलं कपालान्तरं च ने लपीतोभयकपालिकारब्धत्वान्नीलपीतोभयरूपारब्धचित्ररूपवत् , तत्र पाकेन कपालिकागतपीते नष्टे सति कपाले तत्र व्याप्यवृत्तिनीलोत्पत्तिकाले घटे चित्रोत्पत्यापत्तिस्तदानीं नीलाभावस्यापि तत्र सत्त्वादिति व्याख्यानं 'स्वचित्रेऽवयवे' इति पाठमाश्रित्य स्यात् , किन्तु 'स्वचित्रेऽवयवे' इति पाठोऽधिक एव, तथा चात्रेत्थं व्याख्यानम्- कपालमेकं नीलमपरं च पीतम्, तदुभयारब्धे घटे पाकनाशितावयवपीते सति व्याप्यवृत्तिनीलमुत्पद्यते कपाले नीलोत्पत्तितः, तत्र कपाले पीतरूपनाशकाले तत्कपालमादाय नीलाभावोऽपि वर्तते, पीताभावादयस्तु पञ्च नोलकपालमादाय वर्तन्त एवेति निरुक्त रूपाभावषट्कस्य सत्त्वाच्चित्रोत्पत्त्यापत्तिः स्यादित्यर्थः, वस्तुतः 'पाकनाशितावयवपीतस्वचित्रेऽवयव' इति पाठः समीचीन:, तत्र नीलकपाल-पीतकपालोभयारब्धो घटः पूर्व चित्ररूपानेव, ततः, पाकेन कपालस्य पीतं रूपं घटस्य च चित्रं रूपं विनष्टम् , ततः कपाले नीलरूपमुत्पद्यते, ततः कपालद्वयस्य नीलरूपवत्त्वाद् विनष्टचित्ररूपे घटेऽपि नीलरूपमुत्पद्यते, तत्र घटे कपाले नीलोत्पत्तिकाले चित्रोत्पत्त्यापत्तिरित्यर्थो ज्यायानिति बोध्यम् । ननु कार्यसहभावेन नीलाभावादीनां हेतुत्वादवयवे नीलोत्पत्तिकालेऽवयविनि चित्ररूपोत्पत्त्यापादनं न सम्भवति, तदानीं नीलरूपोत्पत्त्या नीलाभावरूपकारणस्याभावादित्याशङ्कय प्रतिक्षिपति-न चेति । तद्धेतुत्वात् चित्ररूपं प्रति हेतुत्वात् । अयं चित्रोत्पत्त्या. पत्तिलक्षणः । निषेधे हेतुमाह-नीलपीतेति- एकं कपालं नीलमपरं च पीतं तदन्यच्च श्वेतमिति तादृशकपालत्रया. रब्धे घटे, पीत-श्वेतयोः क्रमेण नाशे- पूर्व पीतस्य नाशः, ततः श्वेतस्य नाश इत्येवं पीत-श्वेतयो शे सति, श्वेतनाशकाले तत्र श्वेताभावोऽपि विद्यत इति कार्यसहभावेन तत्र रूपाभावषट्कस्य सत्त्वात् , तदापत्तेः चित्ररूपापत्तेः, अवयवे नानारूपसत्त्व एवावयविनि चित्ररूपस्याभिमत्वात् पीतनाशकाले नलरूपस्य श्वेतरूपस्य च सत्त्वात् तदानीं तदुभयमुपादाय चित्ररूपस्य सम्भवेन तदानीं तदापत्तेरिष्टापत्त्याऽपि परिहर्तुं शक्यत्वान्न तदानीं चित्ररूपापादनं कृतम् , श्वेतरूपनाशकाले च पीतरूपनाशस्य पूर्वमेव वृत्तत्वात् तदानीं श्वेतस्याप्यभावादेकमेव नीलं रूपमवयवे समस्तीति न तदानीं चित्ररूपापादनस्ये. टापत्त्या परिहारो युक्त इत्याशयः। ननु पाकजचित्रमपि चित्रत्वात्मककार्यतावच्छेदकधर्माकान्तम् , तच्च नीलेतररूपादिलक्षणकारणं विनाऽपि पाकादेव भवतीति व्यतिरेकव्यभिचारान्नीलेतररूपत्व-पीतेतररूपत्वादिना चित्रत्वावच्छिन्नं प्रति कारणत्वं न सम्भवतीत्यत आह-पाकजचित्रे चेति-पाकजत्वेनाभिमते चित्रे स्वित्यर्थः, तेन पाकजं चित्रं नास्ति किन्तु तत्रावयवगतनानारूपोत्पत्त्यनन्तरं तथाभूतनानारूपेभ्य एवावयविनि चित्रमित्येवं स्वीकारेण व्यभिचारपरिहारस्य नायुक्तत्वम् । व्यभिचाराभावे हेतुमाह-पाकादेवावयव इति- अत्र 'पाकादवयवे' इति पाठो युक्तः, तथा च पाकजत्वेनाभिमतं चित्ररूपमपि नीलेतररूपादिभ्य एवोपजायत इति न तत्र व्यभिचार इति भावः । यदि च पाकस्थले पाकादेवावयविनि चित्ररूपमुपेयते तदा तच्चित्ररूपमवयवरूपजचित्ररूपतो विजातीयमेव, तथा च विजातीयचित्रत्वावच्छिन्नं प्रति नीलेतररूपत्वादिना हेतुत्वम्, विजातीयचित्रत्वावच्छिन्नं प्रति चावच्छेदकत्वसम्बन्धावच्छिन्ननोलजनकाग्निसंयोगादिनिष्टप्रतियोगिताकाभावा रूपजनकविजातीयाग्निसयोगाश्च हेतव इत्येवमुपगमेऽपि न दोष इत्याह-पाकजचित्रस्वीकारे चेति । नीलेतरत्वादिना' इति स्थाने 'नीलेतररूपत्वादिना' इति पाठो युक्तः । संयोगस्याव्याप्यवृत्तित्वेनावयविनि समवायेन वर्तमानो नीलजनकाग्निसंयोगादिरवयवेऽप्यवच्छेदकतासम्बन्धेन वर्तते, नीलजनकाग्निसंयोगादवयविनि नीलरूपमेवोत्पद्यते पीतजनका. ग्निसंयोगादवयविनि पीतरूपमेवोत्पद्यते, एवं रक्तादिजनकाग्निसंयोगादितो रक्तादिरेवोत्पद्यत इत्यतस्तेषां चित्ररूपोत्पत्तौ Page #94 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। नीलजनकाग्निसंयोगादेरभावा रूपजनकविजातीयाग्निसंयोगाश्च हेतवः, अस्तु वा तेजःसंयोगमात्रजन्ये विजातीये चित्रे विजातीयतेजःसंयोगस्य हेतुत्वम् , पाक-रूपोभयजन्ये विजातीये चित्रे चोभयोरेव, रूपमात्र. जातिरिक्त एव वा विजातीयतेजःसंयोगो हेतुः, फलबलेन वैजात्यकल्पनात् । न चाग्निसंयोगजमात्रातिरिके रूपमेव हेतुरस्तु, इति विनिगमकाभावः, उभयस्थले नीलेतरादिसमाजाभावस्यैव विनिगमकत्वाद्" इत्याहुः। शिरोमणिभट्टाचार्यमतानुसारिणस्तु-"चित्रघटेऽव्याप्यवृत्तीन्येव नील-पीतादीनि नानारूपाणि, 'एकरूपम्' इति प्रतीतेः 'एको धान्यराशिः' इतिवत् समूहै कत्वविषयत्वात् , सविषयावृत्ति-व्याप्यवृत्तिवृत्तिजातेरव्याप्यवृत्तिवृत्तित्वविरोधस्त्वप्रामाणिक एव, अत एव-- "लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः । श्वेतः खुर-विषाणाभ्यां स नीलो वृष उच्यते" ॥ muvenirvanvar प्रतिबन्धकत्वम्, तदभावानां च समवायेन चित्ररूपं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन कारणत्वमित्यवश्यं स्वीकरणम् , अन्यथा रूपजनकविजातीयाग्निसंयोगमात्रस्य चित्ररूपं प्रति कारणत्वे नीलजनकतेजस्संयोगोऽपि रूपजनकविजातीयाग्निसंयोगो भवत्येवेति ततोऽपि यत्रावयविनि नीलरूपत्पमुद्यते तत्र चित्ररूपं स्यात् , केवलनिरुक्तप्रतिबन्धकाभावानामेव विजातीयचित्रं प्रति हेतुत्वे च यत्र न रूपजनकविजातीयाग्निसंयोगस्तत्रापि तादृशरूपमुत्पद्यतेत्यतो रूपजनकविजातीयाग्निसंयोगानामपि हेतुत्वं तत्र स्वीकरणीयमित्याशयः। प्रकारान्तरेण कार्यकारणभावमुपदर्शयति- अस्तु वेति । 'तेजस्संयोगमात्र इति मात्रपदेन रूपस्य व्यवच्छेदः । उभयोरेव पाक-रूपोभयोरेव, हेतुत्वमित्य नुवर्तते । लाघवादाह-रूपमात्रजातिरिक एवेति- यच्च तेजस्संयोगमात्रजन्यं चित्रम्, यदपि पाक-रूपोभयजन्यं चित्रम् , तदुभयमपि रूपमात्रजं न भवति तेन रूपमात्रजातिरिक्तत्वेनोभयोरपि सङ्ग्रहः । तदुभयकारणे तेजस्संयोगे वैजात्यकल्पने किं नियामकमित्यपेक्षायामाह-फलबलेनेति- तादृशतेजस्संयोगादुभयविचित्ररूपमुत्पद्यत इति तद्बलात् तत्र वैजात्यं कल्प्यत इत्यर्थः। ननु तेजस्संयोगमात्रजे चित्रे तेजस्संयोगो हेतुः, तेजस्संयोगमात्रजातिरिक्त च रूपमेव हेतुरित्येव किं न स्यात् , अत्रापि केवलरूपजन्यस्य पाकरूपोभयजन्यस्य च चित्रस्याग्निसंयोगमात्रजातिरिक्तत्वेन सङ्ग्रहतो लाघवस्य व्यक्तत्वात् पूर्वदिशैव कारणत्वं नैतदिशेत्यत्र विनिगमकस्य कस्यचिदभावादित्याशङ्कय प्रतिक्षिपति- न चेति । प्रतिक्षेपे हेतुमाह- उभयस्थले इति- यच्च तेजस्संयोगजन्यं चित्रम् , यदपि पाक-रूपोभयजन्यं चित्रम् , तदुभयस्थले नीलेतररूपादिसमाजो नापेक्षित इति नीले तररूपादिसमाजाभाव उभयत्राऽविशिष्टः, रूपमात्रजे तु चित्रे नीलेतररूपादिसमाजोऽपेक्षित एवेति, तथा च यत्रैव चित्रे नीलेतररूपादिसमाजस्य कारणस्वं तत्रैव रूपमात्रस्य कारणत्वमन्यत्र तु विजातीयतेजस्संयोग एव हेतुरिति प्राचीनमतपरिष्कारः । शिरोमणिभट्टाचार्यमतानुसारिणां नव्यनैयायिकानां मतमुपदर्शयति-शिरोमणिभट्टाचार्यमतानुसारिणसिवतिअस्य 'आहुः' इत्यनेन सम्बन्धः । 'अव्याप्यवृत्तिन्येव' इत्येवकारेण व्याप्यवृत्तेर्व्यवच्छेदः, चित्रघटे नील-पीतादीनि यदि व्याप्यवृत्तीनि स्युस्तदा नीलकपालावच्छेदेनापि घटे पीतादीनामुपलम्भः प्रसज्येतातोऽव्याप्यवृत्तीन्येव तानीति । यथा च धान्यसमूहगतैकत्वविषयकत्वेन ‘एको धान्यराशिः' इति प्रतीतिरुपपद्यते, तथा रूपसमूहगतैकत्वविषयकत्वेन 'एक रूपम्' इति प्रतीतिरपि चित्रघटगतनानारूपेषूपपद्यत इत्याह-एकरूपमिति प्रतीतेरिति । सविषयावृत्तीति- सविषयावृत्तिर्या व्याप्यवृत्तिवृत्तिर्जातिस्तस्या अव्याप्य वृत्तिवृत्तित्वविरोधः, अव्याप्यवृत्तिवृत्तित्वं न सम्भवतीति नियमस्त्वप्रामाणिक एवेत्यर्थः, उक्तनियमे सविषयावृत्तित्वं यदि जातिविशेषणतया नोपादीयते तदा व्याप्यवृत्तय ईश्वरगता ज्ञानेच्छाप्रयत्नास्तदतानां ज्ञानत्वेच्छात्व-प्रयत्नत्वजातीनामस्मदाद्यात्मगता अव्याप्यवृत्तयो ये ज्ञानेच्छाप्रयत्नास्तद्वत्तित्वं समस्त्येवेति प्राचीनमतेऽपि नोक्तनियमः स्यादिति तदुपादानम् , व्याप्यवृत्ति नीलादिकं नीलावयवादिमात्रगतं तद्गता जाति लत्वादिका तस्या अव्याप्यवृत्तिवृत्तित्वं न सम्भवतीति, अयं च नियम एकस्मिन्नवयविन्यव्याप्यवृत्तिनानारूपाभ्युपगमे युज्येत, ततो नाव्याप्यवृत्तिनानारूपसम्भव इति प्राचीनमतस्य खण्डनार्थमुक्तनियमस्याऽप्रामाणिकत्वमुक्तम् , तथा चोक्तनियमस्याऽप्रामाणिकस्य भङ्गो न दोषायेति भावः । अत एव एकस्मिन्नवयविन्यव्याप्यवृत्तिनानारूपस्याभ्युपगमादेव, 'लोहितः' इत्यादिस्मृतिरेकस्मिन् वृषभे नानारूप Page #95 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीऩरणिभ्यां समलङ्कृतो नयोपदेश! | इति स्मृतिरप्युपपद्यते । अथाऽव्याप्यवृत्तिनीलादिकल्पने गौरवम, तथाहि - अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वमस्मिन् पक्षे वाच्यम्, अन्यथा पीतावयवावच्छेदेन नीलोत्पत्तिप्रसङ्गात् न च नीलस्य स्वाश्रयावच्छेदेन नीलजनकत्वस्वाभाव्यादेव न तदापत्तिः, विनैतादृशप्रतिबध्यप्रतिबन्धकभावं तथास्वाभाव्या निर्वाहात् । ननु समवायेन नीलं जायत एव पीतावयवावच्छेदेनेत्यत्र चापादकाभाव इति चेत् ? न - समवायस्येवावच्छेदकताया अपि कारणनियम्यत्वात्, एवं च नीलादौ नीलेतररूपादीनाम्, नीलेतररूपादौ वा नीलादीनां प्रतिबन्धकत्वे विनिगमकाभावः, मम तु नीलेतररूपादौ नीलादीनां न प्रतिबन्धकत्वम्, नील- पीतारब्धे नीरूपत्वप्रसङ्गस्य बाधकत्वादिति चेत् ? मैवम् - ममापि नीलत्वादिकमेव प्रतिबध्यतावच्छेदकम्, न तु नीलेतररूपत्वादि गौरसमावेशप्रतिपादिका तदैवोपपद्येत यद्येकस्मिन्नानाव्याप्यवृत्तिरूपाभ्युपगमः स्यादिति । प्राचीनमतानुयायी शङ्कते - अथेति । अवयविनि अव्याप्यवृत्तिरूपं तदेव स्याद् यद्यवयवे अवच्छेदकतासम्बन्धेन तदुत्पद्येत तद् यदि सर्वावयवेषूत्पद्येत तदा व्याप्यवृत्त्येव स्यान्नाव्याप्यवृतीत्यतः समवायेनावयविन्यव्याप्यवृत्तिनीलमुत्पद्यमानमवच्छेदकतया स्त्रैवायवे उत्पद्यते यत्र समवायेन नीलरूपमस्ति, यत्र तु समवायेन नीलेतररूपादीनि सन्ति तत्रावच्छेदकतया तन्नोत्पद्यत इत्येतदर्थं समवायेन नीलेतररूपादिकमवच्छेदकतया नीलं प्रति प्रतिबन्धकं वाच्यमिति गौरवमित्याह - तथाहीति । 'नीलादिकम्' इत्यत्रादिपदात् पीतादेरुपग्रहः । 'नीलेतर रूपादीनाम्' इत्यत्रादिपदात् पीतेतररूपादेः परिग्रहः । अस्मिन् पक्षे एकस्मिन्नवयविन्यव्याप्यवृत्तिनानारूपाभ्युपगन्तृपक्षे । अन्यथा अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वानभ्युपगमे । नन्ववयवगतं नोलमवयविगतनीलं प्रति कारणम्, तस्य चायमेव स्वभावः यदुत - स्वाश्रयावच्छेदेनैव नीलमुपजनयति इति न पीतावयवावच्छेदेन नीलोत्पत्तिप्रसङ्ग इत्याशङ्कय प्रतिक्षिपति - न चेति । न तदापत्तिः न पीतावयवावच्छेदेन नीलोत्लत्त्यापत्तिः । निषेधे हेतुमाह - विनेति । एतादृशेति- अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वमित्येवस्वरूपेत्यर्थः । तथास्वाभाव्येति - नीलस्य स्वाश्रयावच्छेदेन नीलजननस्वा भाव्येत्यर्थः । उक्तःशङ्कायां नवीनानुयायी समाधानमाशङ्कते - नन्विति समवायेनावयविनि जायमानं नीलं पीतावयवा - वच्छेदेनापि जायत इत्यापादनमापदिकाभावान्न सम्भवतीत्यर्थः । यथा समवायेन नीलं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन नीलं कारणमिति कार्यकारणभावबलादेवावयविनि नीलसमवायस्य सम्भवस्तथैवावयविगतनीलस्यावच्छेदकता नीलावयव एव न पीतावयवादावित्यत्रापि किञ्चित् कारणं वाच्यमेव तादृशकारणबल देवावच्छेदकताया नियमनसम्भवादित्याशयेनोक्तसमाधानाशङ्कां प्रतिक्षिपति नेति । एवं च अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वस्य नव्यमते आवश्यकत्वे च । नीलादाविति यथाऽवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायसम्बन्धेन नीलतररूपादीनां प्रतिबन्धकत्वं तथाऽवच्छेदकता सम्बन्धेन नीलेतररूपादिकं प्रति समवायसम्बन्धेन नीलादीनां प्रतिबन्धकत्वमपि विनिगमकाभावान्नव्यमते प्रसज्येतेत्यर्थः । मम त्विति प्राचीनमते तु यथा समवायेन नीलादिकं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन नीलेतररूपादीनां प्रतिबन्धकत्वमिति नानारूपवदवयवारब्धेऽवयविनि नीलरूपाद्यसम्भवाच्चित्रं रूपं सिद्धयति, तथा समवायेन नीलेतररूपादौ स्वसमवायिसमवेतत्वसम्बन्धेन नीलादीनां प्रतिबन्धकत्वमिति न सम्भवति, तथा सति नीलपीताद्यवयवा धे यथा न नीलपीतादिरूपं तथा चित्ररूपस्यापि नीलेतररूपत्वादिलक्षणप्रतिबध्यतावच्छेदकधर्माक्रान्तत्वेन न स्यात् तत्र सम्भव इति नीरूपमेव तदवयविस्वरूपमिति तत्प्रत्यक्षमपि न भवेदिति विनिगमकस्य भावान्नीलादिकं प्रत्येव नीलेतररूपादीनां प्रतिबन्धकत्वम्, न तु नीलेतररूपादिकं प्रति नीलादीनां प्रतिबन्धकत्वमित्यर्थः । उक्तप्राचीन मतानुयायिशङ्कां नवीनमतानुयायिनः प्रतिक्षिपन्ति - मैवमिति । ममापि नवीनमतानुयायिनोऽपि । नीलत्वादिकमेवेति- अवच्छेदकतासम्ब न्धेन नीलादिकं प्रति समवायसम्बन्धेन नीलेतररूपादीनामेव प्रतिबन्धकत्वम्, न त्ववच्छेदकतासम्बधेन नीलेतररूपादिकं प्रति समवायसम्बन्धेन नीलादीनां प्रतिबन्धकत्वम्, नीलेतररूपत्वस्य प्रतिबध्यतावच्छेदकत्वकल्पनापेक्षया नीलत्वस्य प्रतिबध्यतावच्छेदकत्वे लाघवादिति गौरवरूपबाधकबलान्न नीलेतररूपत्वं प्रतिबध्यतावच्छेदकमिति विनिगमकस्य वक्तुं शक्यत्वादित्यर्थः । ननु अवच्छेदकतासम्बन्धेन नीलं प्रति समवायसम्बन्धेन नीलतररूपत्वेन प्रतिबन्धकत्वे नीलतररूपत्वं प्रतिबन्धकतावच्छेदकम्, अवच्छेदकतासम्बन्धेन नीलेतररूपत्वावच्छिन्नं प्रति समवायसम्बन्धेन नीलत्वेन प्रतिबन्धकत्वे नीलत्वं प्रतिबन्धकतावच्छेदकमिति नीलेतररूपत्वापेक्षया नीलत्वं लघुभूतमिति तदेव प्रतिबन्धकतावच्छेदकं भवितुमर्हतीत्यत्रापि दीयतां ६२ Page #96 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।। वादिति वक्तुं शक्यत्वात् , न च, नीलत्वेन प्रतिबन्धकत्वम् , न तु नीलेतरत्वेन गौरवादित्येव किं न स्यादिति वाच्यम् , प्रतिबन्धकतावच्छेदकगौरवस्यादोषत्वात् । अस्तु वाऽवच्छेदकतया नीलादौ समवायेन नीलादीनामेव हेतुत्वम् , न च नानारूपवत्कपालारब्धघटनीलस्य तत्कपालावच्छेदेनोत्पत्तिप्रसङ्गः, केवलनीलत्वा दिनैव तद्धेतुत्वात् ; न च केवलत्वं नीलाभावासमानाधिकरणत्वमिति गौरवम् , अनवच्छिन्नस्य समवायेन नीलादिहेतुत्वस्यैव तदर्थत्वात् , समवायेन नीलादौ च स्वसमवायिसमवेतत्वसम्बन्धेन नीलादीनां हेतुत्वम् , व्याप्यवृत्तिनीलस्थलेऽव्याप्यवृत्तित्ववारणाय चावच्छेदकतया नीलादौ स्वसमवायिसमवेतद्रव्यसमवायित्वसम्बन्धेन नीलेतररूपादीनां हेतुत्वम्, इत्यव्याप्यवृत्तित्वपक्षेऽष्टादश कार्यकारणभावाः, दृष्टिरित्याशङ्कय प्रतिक्षिपति-न चेति-अस्य वाच्यम्' इत्यनेनान्वयः । 'नीलेतरत्वेन' इति स्थाने 'नीलेतररूपत्वेन' इति पाठो युक्तः । निषेधे हेतुमाह-प्रतिबन्धकतावच्छेदकगौरवस्येति-नीलत्वावच्छिन्नं प्रति नीलत्वेन कारणत्वमवयवगतनीलरूपस्यावयविगतनीलं प्रति कारणत्वानुरोधेन सुव्यवस्थितम् , तदेव नीलत्वं प्रतिबध्यतावच्छेदकतयापि यद्युपेयते तदा प्रतिबन्धकामावस्यापि कार्यतावच्छेदकं तदिति लाघवात् तस्यैव कार्यतावच्छेदकत्वं युक्तम् , नीलेतररूपत्वादिकं त्वर्थसमाजग्रस्तत्वान्न कस्यचित् कार्यतावच्छेदकतया व्यवस्थितमिति तस्य प्रतिबन्धकाभावकार्यतावच्छेदकतयाऽभ्युपगमोऽपूर्वत्वान्नादरणीय इत्यनाहार्याऽप्रामाण्यज्ञानानास्कन्दिततदभावनिश्चयत्वादिकं गुरुभूतमपि यथा प्रतिबन्धकतावच्छेदकं तथा नीलेतररूपत्वादिकं गुरुभूतमपि प्रतिबन्धकतावच्छेदकमित्येवं प्रतिबन्धकतावच्छेदकगौरवस्यादोषत्वादित्यर्थः । ननु गुरुधर्मस्य प्रतिबन्धकतावच्छेदकत्वे तदवच्छिन्नप्रतियोगिताकाभावत्वं गुरुभूतमेव कारणतावच्छेदकतया वाच्यमिति कारणतावच्छेदकगौरवस्य दोषत्वं स्यादेवेति चेद् ? न- यद्धर्मावच्छिन्नं प्रति लघुधर्मस्य यन्निष्ठकारणतावच्छेदकत्वं सम्भवति तद्धर्मावच्छिन्नं प्रत्येव तन्निष्ठकारणतावच्छेदकत्वं गुरुभूतस्य न सम्भवति, न तु सामान्यत एवेति, इतोऽप्यस्वरसादाह - अस्तु वेति । 'नीलादी' इत्यादिपदात् पीतादरुपग्रहः, एवं 'नीलादीनाम्' इत्यत्र । ननु यत्रैकं कपालं नील-पीताद्यनेकरूपवत् तत्र तदारब्धघटो नील-पीतायेनकरूपवान् भवति, तस्य घटस्य यद् नीलं रूपं तन्मात्रस्य नानारूपवत्कपालावच्छेदेनोत्पत्तिप्रसङ्गः, तस्मिन्नपि कपाले समवायेन नीलरूपस्य सत्त्वादित्याशङ्कय प्रतिक्षिपति-न चेति । निषेधे हेतुमाह- केवलनीलत्वादिनैवेति । तद्धेतुत्वात नीलहेतुत्वात् । ननु यत्र नानारूपं तत्र नीलं पीताद्यवच्छेदेन तत्रैव वर्तमानस्य नीलाभावस्य समानाधिकरणमिति नीलाभावासामानाधिकरण्यलक्षणकैवल्याभावान्न भवतीत्येतावता तत्कपालावच्छेदेन तस्मिन् घटे नीलमात्रोत्पत्तिप्रसङ्गस्य वारणेऽपि नीलाभावासामानाधिकरण्यविशिष्टनीलत्वस्थ कारणतावच्छेदकत्वे गौरवं स्यादित्याशङ्कय प्रतिक्षिपति-न चेति । अवच्छेदकतासम्बन्धेन नीलं प्रति समवायसम्बन्धेनानवच्छिन्ननीलत्वेन नीलस्य हेतुत्वेन नानारूपवत्कपाले नीलस्य किञ्चिदवच्छेदेनैव वर्तमानस्यानवच्छिन्नत्वाभावेन नीलमात्रं प्रति कारणत्वासम्भवादिति निषेधहेतुमुपदर्शयति- अनवच्छिन्नस्येति - नीलादेरिति दृश्यम् । तदर्थत्वात् केवलनोलत्वादिना नीलादिहेतुत्वमिति शब्दार्थत्वात् । अवच्छेदकत्वसम्बन्धेन नीलादौ समवायसम्बन्धेन नीलादीनां हेतुत्वमित्यत्र षट् कार्यकारणभावाः प्राप्नुवन्ति, अन्याँश्च षट् कार्य-कारणभावानुपदर्शयति-लमवायेनेति । 'नीलादी' इत्यत्रादिपदात् पीतादेरुपग्रहः, एवं 'नीलादीनाम्' इत्यत्रापि, यत्र कपालद्वयमपि नीलरूपवदेव तत्र तदुभयारब्धघटे व्याप्यवृत्त्येव नीलमुत्पद्यते, एवं पीतकपालद्वयारब्धघटादावपि व्याप्यवृत्त्येव पीतादिकमुत्पद्यते, तत्राप्यवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायसम्बन्धेन नीलादिकं कारणमिति कार्यकारणभावबलादव्याप्यवृत्तिनीलायुत्पत्ति प्रसङ्गस्य वारणायान्येऽपि षद कार्यकारणभावाः कल्पनीया इत्याह-व्याप्यवृत्तिनीलस्थल इति । 'नीलादी' इत्यत्रादिपदात् पीतादेग्रहणम् , 'नीलेतररूपादीनाम' इत्यत्रादिपदात् पीवेतररूपादीनां ग्रहणम् , तथा च अवच्छेदकतासम्बन्धेन नीलं प्रति स्वसमवायिसमवेतद्रव्यसमवायित्वसम्बन्धेन नीलं कारणम् , एवमवच्छेदकतासम्बन्धेन पीतं प्रति स्वसमवायिसमवेतद्रव्यसमवायित्वसम्बन्धेन पीतं कारणमित्येवंदिशा षट् कार्यकारणभावाः, तथा च यत्र कपालद्वये नीलमेव रूपं तत्र तदारब्धघटे व्याप्यवृत्त्येव नीलरूपं नाव्याप्यवृत्ति, यतस्तद्घटस्य नीलरूपमव्याप्यवृत्ति तदा भवेद् यदि तदवच्छेदकतया तद्घटावयवे नीलकपाले उत्पद्यत, न च तत्रावच्छेदकतया तदुत्पत्तिः सम्भवति, तत्कारणस्य नीलेतररूपस्य स्वसमवायिसमवेतद्रव्यसमवायित्वसम्बन्धेन तत्राभावात् , यत्र चैकं कपालं नीलमपरं च पीतं रकादि वा तत्र तदुभयारब्धस्य घटस्य यद् नीलरूपं तदवच्छेदकतया नीलकपाले उत्पत्तुमर्हति, यत: पीतकपालगतस्य नीलेतररूपस्य पीतस्य स्वसमवायि यत् पीतकपालं तत्र समवेतं द्रव्यं स एव घटस्तत्समवायित्वं नीलकपाले वर्तत इति तेन सम्बन्धेन Page #97 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । चित्ररूपपक्षेऽप्येतावन्त एव, चित्ररूपे नीलेतररूपादिषट्कस्य, नीलादौ च नीलादिषट्कस्य हेतुत्वम्, नीले दिषट्कस्य च नीलादौ प्रतिबन्धकत्वमित्यादिनाऽऽधिक्याभावात् वस्तुतोऽवच्छेदकतया नीलादौ स्वसमवायिसमवेतद्रव्यसमवायिसमवेतत्वसम्बन्धेन नीलेतररूपादिविशिष्टनीलत्वादिनैव हेतुत्वम्, न च नीतरत्वाद्यवच्छिन्नं प्रति नीलविशिष्टनीलेतरत्वादिना हेतुत्वेन विनिगमकाभावः, नीलत्वापेक्षया नीलेतरत्वस्य गुरुत्वात्, इत्थं च, अभिनिष्कर्षेऽस्माकं द्वादशैव कार्यकारणभावा इति लाघवाद्" इत्याहुः, तद्सत् - चित्ररूपस्वीकारपक्षेऽपि नीलादौ नीलेतरादिप्रतिबन्धकत्वेनैव शुक्लावयवमात्रारब्धे नीलाद्यनुत्पत्तिपीतरूपस्य तत्र सत्त्वात् उक्तदिशा त्रयाणां षट्कार्यकारणभावानां सम्मेलने अवयविगताव्याप्यवृत्तिनानारूपाभ्युपगमपक्षेऽष्टादश कार्यकारणभावा भवन्तीत्याह - इत्यव्याप्यवृत्तित्वपक्ष इति । चित्ररूपपक्षेऽप्यष्टादश कार्यकारणभावा इति नाव्याप्यवृत्तिरूपाभ्युपगमापेक्षया तत्पक्षे लाघत्रम्, किन्त्वतिरिक्त चित्ररूपमभ्युपगन्तव्यमिति तत्कल्पनप्रयुक्त गौरव मित्युपदर्श - यति - चित्ररूपपक्षेऽपीति । एतावन्त एव अष्टादश एव कार्यकारणभावाः । कथं तत्राष्टादश कार्यकारणभावा इत्यपेक्षायामाह - चित्ररूप इति । 'नीलेतररूपादि' इत्यादिपदात् पीतेतररूपादेरुपग्रहः । ' नीलेतररूप। दिषट्कस्य' इत्यस्य ' हेतुत्वम्' इत्यनेन सम्बन्धः । ' नीलादौ ' इत्यादिपदात् पीतादेरुपग्रहः, एवं ' नीलादि' इत्यत्रापि । नीलपीतकपालद्वयारब्धघटे नोलाद्युत्पत्तिवारणाय नीलादौ नीलेतररूपादिषट्कस्य प्रतिबन्धकत्वमिति नीलेतररूपाभावादिषट्कस्य नीलादौ कारणत्वमित्याह - नीलेतरादिषट्कस्य चेति- अत्र 'नीलेतररूपादिषट्कस्य च' इति पाठो युक्तः । अन्या - प्यवृत्तिरूपवादी स्वपक्षे द्वादश कार्यकारणभावा एवेत्युपदर्शनेन अष्टादशकार्यकारणभावाभ्युपगन्तृ चित्ररूपवाद्यपेक्षया लाघवमावेदयितुमाह-वस्तुत इति । 'नीलादो' इत्यत्रादिपदात् पीतादेरुपग्रहः, 'नीलेतररूपादि ' इत्यादिपदात् पीतेतर - रूपादेरुपग्रहः, यत्रैकस्मिन् कपाले नीलरूपमपरस्मिन् कपाले पीतरूपम्, तादृशकपालद्वयारब्धघटे जायमाननीलस्यावच्छेदकतया नीलकपाले उत्पत्तिरुक्त कार्यकारणभावबलात् सम्भवति, यतः स्त्रं नीलेतररूपं पीतरूपम्, तत्समवायि पीतकपालम्, तत्समवेतद्रव्यं तदुभयारब्धघटः, तत्समवायि नीलकपालम्, तत्समवेतत्वं तत्कपालनीले समस्तीति तेन सम्बन्धेन नीलेतररूपविशिष्टं नीलं तत् त्कपालनोलम्, तत् समवायसम्बन्धेन तस्मिन् कपाले वर्तत इति तद्रूपकारणबलात् तद्घटनीलरूपं तत्रावच्छेदकतयोत्पद्यत इति तद्घटनीलस्य भवत्यव्याप्यवृत्तित्वम्, यत्र तु नीलकपालद्वयादेव नीलघट उत्पद्यते तत्र तदारम्भके कपाले नैकस्मिन्नपि निरुक्तसम्बन्धेन नीलेतररूपविशिष्टनीलरूपमिति न तत्रावच्छेदकतया नीलोत्पत्तिसम्भव इति तद्घटन लरूपस्य भवति व्याप्यवृत्तित्वमिति । अत्र विनिगमकाभावात् कार्यकारणभावमा शङ्कय प्रतिक्षिपति - न चेति । 'नीलेतरत्वाद्यवच्छिन्नम् ' इति स्थाने 'नीलेतररूपत्वाद्यवच्छिन्नम् ' इति पाठो युक्तः, आदिपदात् पीतेतररूपत्वाtore: | 'नीलविशिष्टनीलेतरत्वादिना ' इति स्थाने ' नीलविशिष्टनीलेतररूपत्वादिना ' इति पाठो युक्तः, अत्रा. दिपदात् पीतविशिष्टपीतेतररूपत्वादेर्ग्रहणम्, यत्रावयवद्वये एकजातीयमेव नीलादिरूपं तत्रावयविन्यप्येकमेव नीलादिकम्, तस्याप्यव्याप्यवृत्तित्वं न सम्भवति, यतोऽवयविनि यदि नीलरूपं तस्य पीतेतररूपत्व - रक्तेतररूपत्वाद्यन्यतमलक्षण कार्यतावच्छेदकाक्रान्तत्वं सम्भवति तत्र पीतविशिष्टपीतेतररूपाद्यन्यतमस्यैव कारणत्वं स्यात् न च पीतविशिष्टपीतेतररूपाद्यन्यतमस्य तत्र सत्वमिति, यत्र तु नील- पीतावयवाभ्यामारब्धेऽवयविनि नील-पीतोभयरूपं तत्र नीलरूपं पतितररूपत्वलक्षण कार्यतावच्छेदकावच्छिन्नं भवति, तत् प्रति पीतविशिष्टपीतेतररूपं यत् कारणं तदपि समस्तीति तस्याव्याप्यवृत्तित्वमुपपद्यते, एवमुक्तदिशा पीतरूपस्यापि तत्राव्याप्यवृत्तित्वमुपपन्नमिति, एवमुक्तदिशा विनिगमकाभावात् षण्णां कार्यकारणभावान्तराणां प्राप्तावष्टादश कार्यकारणभावा अव्याप्यवृत्तित्वपक्षेऽपि स्युरिति शङ्कितुरभिप्रायः । निषेधे हेतुमाह - नीलत्वापेक्षयेति । ' नीलेतरत्वस्य ' इति स्थाने नीलेतररूपत्वस्य ' इति पाठो युक्तः । नव्यमतवादी स्वमतमुपसंहरति- इत्थं चेतिवस्तुतः ' इत्यादिग्रन्थोक्तदिशा कार्यकारणभावोररीकारे चेत्यर्थः । " ૬૪ प्राचीनमतानुयायी नवीनमतं प्रतिक्षिपति तदसदिति । ' नीलादौ ' इत्यत्रादिपदात् पतिदिग्रहणम् । 'नीलेतरादि ' इति स्थाने ' नीलेतररूपादि ' इति पाठो युक्तः, तत्रादिपदात् पीतेतररूपादेः परिग्रहः, अत्र प्रतिबध्यतावच्छेदकसम्बन्धः समवायः, प्रतिबन्धकतावच्छेदकसम्बन्धश्च स्वसमवायिसमवेतत्वम्, समवायेन नीलं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन यदि नीलं न कारणं तर्हि शुक्लमात्रावयवारब्धे घटे शुक्लमेव रूपं भवति कथं न नीलमिति नाशङ्कनीयम्, तत्र Page #98 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । निर्वाहात् ,नीलादौ नीलादिहेतुत्वाकल्पनात् कार्यकारणभावसङ्घयासाम्यात्, अव्याप्यवृत्तिनानारूप-तत्प्रागभाव.ध्वंसादिकल्पने परं परस्यैव गौरवात्। किन्च, अव्याप्यवृत्तिरूपपक्षेऽवच्छेदकतासम्बन्धेन रूपे उत्पन्ने पुनस्तेनैव सम्बन्धेनावयवे रूपोत्पत्तिवारणायाऽवच्छेदकतासम्बन्धेन रूपं प्रत्यवच्छेदकतासम्बन्धेन रूपं प्रतिबन्धकं कल्पनीयमिति गौरवम्, न चावयविनि समवायनोत्पद्यमानमेवावयवेऽवच्छेदकतयोत्पत्तुमर्हतीत्यवयविनि रूपस्य प्रतिबन्धकस्य सत्त्वेन रूपसामग्र्यभावादेव नावयवेऽवच्छेदकतया तदा रूपोत्पत्तिरिति वाच्यम् , एवं ह्यवयविनिष्ठरूपाभावोऽवच्छेदकतासम्बन्धेन रूपं प्रति हेतुर्वाच्यः, तथा च नानारूपवत्कपालारब्धघटस्य नीलरूपादेलकपालिकावच्छेदेनाऽनुत्पत्तिप्रसङ्गात् , तदवयविनि कपाले रूपसत्त्वात् , अपि च, नील पीतवत्यग्निसंयोगान् कपालनीलनाशात् तदवच्छेदेन रकं न स्यात् समवायेन रूपं प्रति तेन रूपस्य प्रतिबन्धकत्वात् , तदवच्छिन्नरूपे तदवच्छिन्नरूपस्य प्रतिबन्धकत्वकल्पने चातिगौरवम् । नीलप्रतिबन्धकस्य नीलेतररूपस्य सत्त्वेन तदभावरूपकारणाभावादेव नीलोत्पत्तेस्तत्रासम्भवात् , एवं पीतेतररूपादेः पीतरूपादिप्रतिबन्धकस्य तत्र सत्त्वेन तदभावरूप कारणाभावान्न पीताद्युत्पत्तिरपि, श्वेतरूपप्रतिबन्धकस्य श्वेतेतररूपस्य तत्राभावादेव तद्बलाच्छेतरूपोत्पत्तिस्तत्र सम्भवति, तथा च नीलादौ नीलादिषदकस्य हेतुत्वाकल्पनाच्चित्ररूपपक्षेऽपि द्वादशैव कार्यकारणभावा इति वादद्वयेऽपि कार्यकारणभावसङ्ख्यासाम्यमित्याह-कार्यकारणभावसङ्ख्यासाम्यादिति । ननु भवतु मतद्वयेऽपि कार्यकारणभावसङ्खयासाम्यम् , तथाऽपि चित्ररूप-तत्त्रागभाव-तद्धंसादिकल्पनगौरवं प्राचीनमते समस्तीत्यत आह-अव्याप्यवृत्तीति- यत्र प्राचामेकं चित्रं तत्प्रागभावादि तत्र नव्यानामनेकान्यव्याप्यवृत्तिरूपाणि तत्प्रागभावध्वंसादयश्चेति नव्यानामेव गौरवम् । परमित्यस्य किन्त्वित्यर्थः । परस्य नव्यमतानुयायिनः । नव्यमते गौरवान्तरमप्युपदर्शयति-किञ्चति । तेनैव सम्बन्धेन अवच्छेदकतासम्बन्धेनैव । ननु यदेव रूपं समवायेनावयविन्युत्पद्यते तदेव तदवयवेऽच्छेदकतासम्बन्धेनोत्पद्यते नान्यत् . अवयविनि समवायेन रूपस्योत्पत्त्यनन्तरं च न पुना रूपस्य समवायेनोत्पत्तिः, तदर्थं च समवायेन रूपं प्रति समवायेन रूपस्य प्रतिबन्धकत्वं तदभावस्य च कारणत्वम् , तथा च समवायेन रूपोत्पत्तिकारणस्य समवायसम्बन्धावच्छिन्नप्रतियोगिता करूपाभावस्य समवायेन रूपोत्पत्त्यनन्तरमभावात् पुनः समवायेन रूपं नोत्पद्यत इत्यत एवावच्छेदकतासम्बन्धेनाप्यवयवे रूपं पुनर्नोत्पत्तुमर्हतीति नावच्छेदकतासम्बन्धेन रूपं प्रत्यवच्छेदकतासम्बन्धेन रूपस्य प्रतिबन्धकत्वं कल्प्यत इति न तत्कल्पनाप्रयुक्तगौरवमित्याशङ्कय प्रतिक्षिपति-न चेति । तदा रूपोत्पत्त्यनन्तरम् । समवायसम्बधेन रूपं प्रति कारणीभूतस्य समवायसम्बन्धावच्छिन्नप्रतियोगिताकरूपाभावस्यावयविनिष्ठस्यैवावच्छेदकतासम्बन्धेन रूपं प्रत्यपि कारणत्वमायातम् , तथा च नानारूपवत्कपालद्वयारब्धे घटे यद् नील-पीतादि नानारूपं तस्याव्याप्यवृत्तित्वं तदैव स्याद् यदि नीलकपालिकावच्छेदेन घटे नीलरूपं पीतकपालिकावच्छेदेन पीतरूपमित्युपगम्येत, कपाले तूभयरूपस्यैव भावेन तदवच्छेदे. नैकैकरूपसमावेशस्य कर्तुमशक्यत्वात् , तथा च घटे जायमानं नीलादि यदि अवच्छेदकतया कपालिकायामप्युपजायेत तदा स्यात् तस्य कपालिकावच्छिन्नत्वम् , तच्च न सम्भवति घटे नीलाद्युत्पत्तितः प्रागेव कपाले समवायेन नीलादेः सत्त्वेन समवायसम्बन्धावच्छिन्नप्रतियोगिताकनीलाभावस्य कपालरूपावयविनिष्टस्य तदानीमभावेन तद्रूपकारणाभावात् कपालिकायामवच्छेदकतासम्बन्धेन नीलायुत्पत्तरसम्भवेन तद्घटेऽपि नीलरूपादेर्नीलकपालिकाद्यवच्छेदेनोत्पत्त्यसम्भवादिति निषेधहेतुमुपदर्शयति-एवं हीति । 'निष्ट' इति स्थाने 'निष्ठ' इति पाठः । 'नीलकपालिकावच्छेदेन' इति स्थाने 'नीलकपालिकाद्यवच्छेदेन ' इति पाठो युक्तः । तदवयविनि नील कपालिकाद्यवयविनि । दोषान्तरमाह- अपि चेति । नील-पीतवतीति- यत्र नील-पीतकपालद्वयारब्धे नील-पोतोभयवति घटेऽग्निसंयोगाद् नीलकपालस्य नीलनाशात् पीतकपालावच्छेदेन विद्यमानपीतरूपवत्येव घटे विनष्टनीलकपालावच्छेदेन रक्तरूपमुपजायते तद् न स्यात् , समवायसम्बन्धेन रूपं प्रति समवायसम्बन्धेन रूपं प्रतिबन्धकमिति रूपत्वेन रूपेण रक्तरूपस्यापि प्रतिबध्यतया समवायेन तत् प्रति रूपत्वेन रूपेण प्रतिबन्धकीभूतस्य नीलरूपस्य समवायेन तस्मिन् घटे सत्त्वेन समवायसम्बन्धावच्छिन्न प्रतियोगिताकरूपाभावलक्षणकारणस्य तत्राऽभावादित्यर्थः । तदवच्छिन्नरूप इति- समवायेन तदवच्छिन्नरूपं प्रति समवायेन तदवच्छिन्नरूपं प्रति Page #99 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । अथावच्छिन्ननीलादौ नीलाभावादिषट्कमवयवगतमवयविगतं च हेतुः, रक्त-नीलारब्धे रक्तनाशक - पाकेन व्याप्यवृत्तिनीलोत्पत्तौ चावयविनि नीलाभावाभावान्नावच्छिन्न नीलोत्पत्तिः, केवलनीले पाकेन कचिद् रक्तोत्पत्तौ च प्राक्तननीलनाशादेवावच्छिन्ननीलोत्पत्तिरिति चेत् ? न - नील- पीत- श्वेताद्यारब्धे श्वेताद्यवच्छेदेन नीलजनकपाके सति प्राक्तननीलनाशेन तत्तदवच्छिन्ननानानीलकल्पनापेक्षया, एकचित्रकल्पनाया एव लघुत्वात् । अथ व्याप्यवृत्तिरूपस्याप्यवच्छेदकतया नीलादिकं प्रत्येव समवायेन नीलादेर्हेतुत्वम्, न चैवं घटेऽपि तया नीलाद्युत्पत्तिः, अवयवनीलत्वेन द्रव्यविशिष्टनीलत्वेन बन्धकम्, तदभावस्तदवच्छिन्नरूपं प्रति कारणम्, तथा च यस्मिन् नीलकपाले नीलरूपविनाशस्तत्कपालावच्छिन्नघटीयरूपे रक्तात्मके तत्कपालावच्छिन्नस्यैव रूपस्य समवायेन प्रतिबन्धकत्वेन तस्य तस्मिन् घटेऽभावात् तद्रूपकारणसत्त्वेन तत्कपाला. वच्छिन्नरक्तरूपं समवायेन घटे स्यादेवेत्युपगमे चातिगौरवमित्यर्थः । ६६ नव्यमतानुयायी शङ्कते - अथेति । अत्र समवायसम्बन्धेनावच्छिन्ननीलं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन नीलाभावस्य कारणत्वमित्येतावताऽवयवगतस्य नीलाभावस्य कारणत्वं लभ्यते, समवायसम्बन्धेनावच्छिन्ननीलं प्रति विशेषणतासम्ब न्धेन नीलाभावस्य कारणत्वमित्यतश्चावयविगतस्य नीलाभावस्य कारणत्वम् एवं समवायसम्बन्धेनाऽवच्छिन्नपीतादिकं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन पीताभावादीनां विशेषणतासम्बन्धेन च पीताभावादीनां कारणत्वमित्येवं द्वादश कार्यकारणभावाः, तथा च यत्रावयवद्वयगतं नीलरूपमेव तत्रावयविनि नावच्छिन्ननीलेोत्पत्तिः सम्भवति, अवयवगतनीलाभावरूपकारणस्याऽभावात्, यत्र त्वेकस्मिन्नवयवे नीलमपरस्मिन् पीतम्, तदुभयारब्धे घंटे पीतक पालगत नीलाभावस्य नीलकपालगतपीताभावस्य सत्त्वादवच्छिन्ननीलस्यावच्छिन्नपीतस्य चोत्पत्तिः सम्भवति, यत्र तु नील- पीतवत्यग्निसंयोगात् कपालनीलनाशात् तत्कपालावच्छिन्नरकस्योत्पत्तिस्तत्रावयव गत रक्ताभावोऽपि विद्यतेऽवयविगतरक्ताभावोऽपीति । अवयविगतनीलाभावादिषट्कस्य कारणत्वाभ्युपगमस्य प्रयोजनमुपदर्शयति- रक्त नीलारब्ध इति यत्रैकं कपालं रकमपरं च नीलम्, तदुभयारब्धरक्त-नीलघटे रक्तनाशकपकिन कपालगतस्य घटगतस्य च रक्तस्य नाशतो घटे व्याप्यवृत्तिनीलस्योत्पत्तिस्तत्र तदुत्पत्तितः प्राग् रक्तनाशकाले एकस्मिन् कपाले नीलरूपस्य सत्त्वेऽप्यपरस्मिन् कपाले न किञ्चिद्रूपमिति तद्गतनीलाभावस्य स्वाश्रयंसमवेतत्वसम्बन्धेन घटे सत्त्वेऽपि कपालान्तरावच्छेदेन तत्र समवायेन नीलस्यैव सत्त्वेनावयविगतनीलाभावस्याभावान्नावच्छिन्ननीलोत्पत्तिः, अवयविगतनीलाभावस्य कारणत्वाभावे त्ववयवगतनीलाभावस्य तत्र सत्त्वादवच्छिन्ननीलोत्पत्त्यापत्तेः, अतोऽवयविगतनीलाभावस्यापि कारणत्वमित्यर्थः । केवलनीलकपालाभ्यामारब्धे केवलनीलघटे एकस्मिन् कपाले पाकेन नीलनाशतो यत्र रक्तोत्पत्तिस्तत्रावयविनि रक्तमप्यव्याप्यवृत्ति नीलमप्यव्याप्यवृत्ति भवति, परं तत्रैकस्मिन् कपाले नीलनाशे तद्गतनीलाभावस्य सत्त्वेऽप्यपरस्मिन् कपाले नीलस्य सत्त्वतो घटेऽपि नीलस्य सत्तया घटगतनीला भावस्यावच्छिन्ननीलकार णस्याऽभावेन तद्रूपकारणाभावात् कथं तत्रावच्छिन्ननीलोत्पत्तिरिति न वाच्यम्, तत्र घटगतस्य नीलस्य नाशादेवावच्छिन्नोत्पत्तिरित्यवय विगतनीलाभावस्यापि तत्र सत्त्वमस्त्येवेत्यर्थः । उक्ताशङ्कां प्राचीनमतानुयायी प्रतिक्षिपति नेति । नीलपीतेति- नील- पीत - श्वेतकपालैरारब्धे नील- पीत- श्वेतरूपवति घटे श्वेतावच्छेदेन नीलजनकपाके सति तदवयवावच्छेदेनापि तत्र नीलमुत्पद्यते तदर्थं पूर्वनीलस्य नाशो घटेऽप्युपेयः, अन्यथाऽवयविगतनी लाभावस्याभावात् तदवयवावच्छिन्नं नीलं न स्यात् एवं च यस्मिन्नवयवे नीलमस्त्येव तदवयवावच्छिन्नमपि नीलं घटे उत्पन्नम्, यस्मिन्नवयवे श्वेत नाशतो नीलमुत्पन्नं तदवयवावच्छिन्नमपि घटे नीलमुत्पन्नमित्येवं नानानीलबल्पनापेक्षयैकचित्ररूपकल्पनाया एव लघुत्वादित्यर्थः । ननु व्याप्यवृत्तिरूपस्याप्यवच्छेदकतयाऽवयवे सत्त्वमुपेयत एव, नीलकपालद्वयारब्धनीलघटस्यापि व्याप्यवृत्तिनीलरूपमवच्छेदकतया कपाले उत्पद्यत एव एवं च नील - पीतकपालद्वयारब्धनील- पीतरूपद्वयवद्घटस्य यद् नीलरूपं तद् नीलकपालेऽवच्छेदकतयोत्पद्यते, न पीतकपाले, पीतरूपं चावच्छेदकतया पीतकपाले, न नीलकपाले इत्यस्योपपत्तये अवच्छेदकतासम्बन्धेन नीलं प्रति समवायसम्बन्धेन नीलं कारणम्, एवमवच्छेदकतासम्बन्धेन पीतादिकं प्रति समवायसम्बन्धेन पीतादिकं कारणमित्येवोररीक्रियते इत्याशङ्कते - अथेति । ' व्याप्यवृत्तिरूपस्याध्यचच्छेदकतया नीलादिकं प्रत्येव' इति स्थाने ' व्याप्यवृत्तिरूपस्याप्यवच्छेदकतया सत्त्वाभ्युपगमेनावच्छेदकतया नीलादिकं प्रत्येव ' इति पाठो युक्तः । ' नीलादिकम् ' इत्यात्रादिपदात् पीतादेरुपग्रहः, एवं ' नीलादेः' इत्यत्रापि । Page #100 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । वा तद्धेतुत्वात्, न च नीलमात्र - पीतमात्रकपालिकाद्वयारब्धनील पीतकपाले तदापत्तिः, नीलकपालिकावच्छिन्नतदवच्छेदेन तदुत्पत्तेरिष्टत्वात्, अस्तु वा तया नीलादौ नीलेतररूपादेरेव विरोधित्वमिति चेत् ? न - नीलादौ नीलेतररूपादिप्रतिबन्धकत्वेनैवोपपत्तौ तत्र नीलादिहेतुतायां मानाभावेन नानारूपवदवयवारब्धे चित्ररूपस्यैकस्यैव प्रामाणिकत्वात् व्याप्यवृत्तेरवच्छेदका योगात्, नीलेतरादौ नीलादेः प्रतिबन्धकत्वेऽविनिगमाश्च । यदि च स्वाश्रयसम्बन्धेन नीलं प्रति स्वव्यापकसमवायेन नीलरूपं हेतुरुपेयते, नीलपीताद्यारब्धस्थले च स्वाश्रयसम्बन्धेन नीलरूपस्य पीतकपालेऽपि सम्भवेन व्यभिचारादुक्तसम्बन्धेन ननु घटेऽपि समवायेन नीलादिकं वर्तत इति तत्राप्यवच्छेदकतया नीलादेरुत्पत्यापत्तिरित्याशङ्क्य प्रतिक्षिपति - न चेति । एवम् अवच्छेदकतासम्बधेन नीलादिकं प्रति समवायेन नीलादेर्हेतुत्वाभ्युपगमे । ' घटेऽपि ' इत्यत्र घटपदं रूपाधिकरणत्वमवयविमात्रस्योपलक्षणम् । तया अवच्छेदकतया । अवच्छेदकतासमबन्धेन नीलादिकं प्रति समवायसम्बन्धेनावयवनीलत्वादिना द्रव्यविशिष्टनीलत्वादिना वा हेतुत्वमभ्युपगम्यते, घटवृत्तिनीलं च नावयववृत्तिनीलं नवा द्रव्यविशिष्टनीलमतो न घटेऽप्यवच्छेदकतया नीलायुत्पत्त्यापत्तिरिति निषेधहेतुमुपदर्शयति- अवयवनीलत्वेनेति । 'द्रव्यविशिष्टनीलत्वेन' इत्यत्र नीले द्रव्यस्य वैशिष्ट्यं स्वसमवायिसमवेतत्वसम्बन्धेनेति बोध्यम् । तद्धेतुत्वात् अवच्छेदकत'सम्बन्धेन नीलं प्रति हेतुत्वात् । ननु नील-पीतकपालिकाद्वयारब्धं यद् नील- पीतरूपद्वयवत्कपालं तत्रावच्छेदकतासम्बन्धेन नील- पीताद्युत्पत्तिः स्यात् तत्कपालरूपस्यावयवनोलत्वादिलक्षणकारणतावच्छेदकधर्माक्रान्तत्वेन तस्य तत्र सत्त्वादित्याशङ्कय प्रतिक्षिपति न चेति । कपालिकाद्वये व्याप्यवृत्त्येव रूपमित्यावेदनाय 'नीलमात्र - पीतमात्र' इति । तदापत्तिः अवच्छेदकतासम्बन्धेन नील पीताद्युत्पत्त्यापत्तिः । कपाले यद् नीलं तद् नीलकपालिकावच्छिन्नक पालावच्छेदेनोत्पद्यते, कपाले यत् पीतरूपं तत् पीतकपालिकावच्छिन्नकपालावच्छेदेनोत्पद्यत इत्यस्योपगन्तुं शक्यत्वेन तदापत्तेरिष्टापत्त्या परिहर्तुं शक्यत्वादिति निषेधहेतुमाह - नीलकपालिकावच्छिन्नेति । तदवच्छेदेन कपालावच्छेदेन । 'नीलकपालिकावच्छिन्न' इति स्थाने 'नीलकपालिकाद्यवच्छिन्न' इति पाठो युक्तः । तदुत्पत्तेः नील- पीताद्युत्पत्तेः, यत्र नीलाभ्यामेव कपालिकाभ्यां नीलमेव कपालमुत्पन्नं ततो यदि तत्र नीलघट उत्पद्यते तदा तत्र नीलघटे उत्पद्यमानस्य नीलरूपस्यावच्छेदकतया नीलकपाले उत्पत्तिरिष्टैव, यदि च तत्र कपाले नीलघटो नोत्पद्यते तदा तत्कपालगतं नीलं द्रव्यविशिष्टं नीलं न भवति, तस्मिन् कपाले समवायेन द्रव्यस्याभावेन स्वसमवायिसमवेतत्वसम्बन्धेन द्रव्यविशिष्टत्वस्य तत्राऽभावात्, अत एव च द्रव्यविशिष्टनीलत्वस्य कारणतावच्छेकतयोपदर्शनं कृतमिति बोध्यम् । नील- पीतकपालिकाद्वयारब्धनील - पीतकपाले यद्यवच्छेदकतया नीलोत्पत्तिर्नेष्टा तदा त्वाह- अस्तु वेति एतेन यस्मिन्नवयव नोलमात्रं तस्मिन्नेवावच्छेदकतया नीलोत्पत्तिरिति तत्र नीलमात्रकपालिकायामेवावच्छेदकतया नीलं पीतमात्रकपालिकायामेवावच्छेदकतया पीतमित्याशयः । प्राचीनमतानुयायी उताशङ्कां प्रतिक्षिपति नेति । तत्र नीलादौ । व्याप्यवृत्तेरवच्छेदकमभ्युपगम्य कार्यकारणभावो य उपदर्शितः सोऽपि न युक्तः, व्याप्यवृत्तेरवच्छेदकस्यैवाभावादित्याह - व्याप्यवृत्तेरिति । यथा च नीलादौ नीलेतररूप।देः प्रतिबन्धकत्वं तथा नीलेतररूपादौ नीलादेरपि विनिगमनाविरहात् प्रतिबन्धकत्वमापद्यत इत्याह- नीलेतरादाविति - अत्र 'नीलेतररूपादौ' इति पाठो युक्तः, नील पीतकपाल | भ्यामारब्धे घटे नीलान्नीलं पीतात् पीतमापद्यत इत्यतः समवायेन नीलं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन नीलेतररूपस्य प्रतिबन्धकत्वं चित्ररूपव/ दिनाऽवश्यमभ्युपेयम्, एवं समवायेन पीतादिकं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन पीतेतररूपादेः प्रतिबन्धकत्वमित्येवं दिशा षण्णां प्रतिबध्य-प्रतिबन्धकभावानामावश्यकत्वे प्रतिबन्धकाभावस्य कारणत्वमाश्रित्य षण्णां कार्यकारणभावानामावश्यकत्वमित्यपि नास्ति, स्वाश्रयसम्बन्धेन नीलं प्रति स्वव्यापकसमवायेन नीलरूपं कारणमित्येवं दिशैव कार्यकारणभावश्चित्ररूपवादिनाऽभ्युपेय:, तथा च नील- पीतकपालाभ्यामारब्धे घंटे यदि नीलरूपमुपेयते तदा तद् नीलरूपं स्वं नीलरूपम्, तदाश्रयो घटो नीलकपाले वर्तते पीतकपालेऽपि च वर्तते, तदात्मकसम्बन्धेन पीतकपालेऽपि स्यात् न च पीतकपाले नीलकपालगतं नीलरूपं नीलरूपव्यापकसमवायन समस्ति, नीलरूप व्यापकसमवायस्य नीलरूपवत्येव भावादिति कारणाभावेऽपि कार्योत्पत्तौ व्यतिरेकव्यभिचार आपतेत्, अतो न तत्र नीलरूपमुत्पद्यते, उक्तदिशैव न पीतरूपं किन्तु चित्ररूपमेवोत्पद्यत इत्येतावतैव निर्वाहे नीलं प्रति नतररूपस्य पीतं प्रति पीतेतररूपस्य रक्तादिकं प्रति रक्तेतररूपादेः प्रतिबन्धकत्वं न चित्ररूपवादिना कल्पनीयमित्यतिलाघवं चित्ररूपवादे इत्याह- यदि चेति । उक्तसम्बन्धेन स्वव्यापकसमवायेन । तत्र नील- पीताद्यारब्धघटे । ६७ Page #101 -------------------------------------------------------------------------- ________________ ६८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । हेत्वभावादेव न तत्र नीलोत्पत्तिरिति विभाव्यते तदा नीलं प्रति नीलेतररूपादेः प्रतिबन्धकत्वं चित्ररूपवादिना न कल्पनीयमित्यतिलाघवम् । एवं च 'सामानाधिकरण्यसम्बन्धावच्छिन्नप्रतियोगिताको नीलेतराभावः समानावच्छेदकत्वप्रत्यासत्त्या नीलहेतुः' इत्यपि निरस्तम् , सामानाधिकरण्यस्य व्याप्यवृत्तित्वेन तत्सम्बन्धावच्छिन्नप्रतियोगिताकनीलेतराभावासत्त्वाच्चेति बहवः सम्प्रदायमादधते । केचित् तु-"विजातीयचित्रं प्रति स्वविजातीयत्व स्वसंवलितत्वोभयसम्बन्धेन रूपविशिष्टरूपत्वेनैव हेतुत्वम् , स्ववैजात्यं च चित्रत्वातिरिक्तं यत् स्ववृत्ति तद्भिन्नधर्मसमवायित्वम् , स्वसंवलितत्वं च स्वसमवायिसमवेतद्रव्यसमवायिवृत्तित्वम् , न च स्वत्वाननुगमः सम्बन्धमध्ये एव तत्प्रवेशात् , सम्बन्धाननुगमस्य चादोषाद्" इत्याहुः ।। 'तदा नीलं प्रति' इति स्थाने 'तदा नीलादिकं प्रति' इति पाठो युक्तः, आदिपदात् पीतादेरुपग्रहः । 'नीलेतर. रूपादेः' इत्यत्रादिषदात् पीतेतररूपादेः परिग्रहः । एवं च नीलादिकं प्रति नीलेतररूपादेः प्रतिबन्धकत्वं चित्ररूपवादिना न कल्पनीयमिति व्यवस्थितौ च, नील-पीताभ्यामारब्धे नील-पीतरूपवति घटे नीलावयवावच्छेदेन नीलरूपमुत्पद्यते पीतावयवावच्छेदेन पीतरूपमुत्पद्यते, न तु पीतावयवावच्छेदेन नीलरूपस्य नीलावयवावच्छेदेन पीतस्योत्पत्तिप्रसङ्ग इत्यस्योपपत्तये अव्याप्यवृत्तिरूपवादिनेत्थं कार्यकारणभाव आधीयते । 'नीलेतराभावः' इत्यस्य स्थाने 'नीलेतररूपाभावः' इति पाठो युक्तः । समानावच्छेदकत्वप्रत्यासत्त्येति- अवच्छेदकतासम्बन्धन नीलं प्रति सामानाधिकरण्यसम्बन्धावच्छिन्नप्रतियोगिताको नीलेतररूपाभावोऽवच्छेदकतासम्बन्धन हेतुरित्यर्थः, तथा च सामानाधिकरण्यसम्बन्धन नीलेतररूपं पीतकपालावच्छेदेन तस्मिन् घटे वर्तते, सामानाधिकरण्यसम्बन्धस्य नीलेतररूपस्य पीतकपालावच्छेदेनैव भावादिति तत्सम्बन्धावच्छिन्नप्रतियोगिताको नीलेतररूपाभावो नीलकपालावच्छेदेन तत्र वर्तत इति सोऽभावोऽवच्छेदकतया नीलकपाले समस्ति, ततो नीलरूपमपि घटगतं नीलकपाल एवावच्छेदकतयोत्पद्यत इत्यपि नव्यानां कल्पनं गौरवादेव निरस्तमिति । किञ्च, सामानाधिकरण्यस्य व्याप्यवृत्तितया तस्य निरवच्छिन्नस्वरूपेगैव सत्त्वं न तु किञ्चिदवच्छेदेन, तेन सम्बन्धेन नीलेतररूपमपि तस्मिन् घटे निरवच्छिन्नतयैव वर्तत इति सामानाधिकरण्यसम्बन्धावच्छिन्नप्रतियोगिताकनीलेतररूपाभावस्य तस्मिन् घटेऽसत्त्वादेव तस्यावच्छेदकतया नीलं प्रति कारणत्वासम्भवादित्याह-सामानाधिकरण्यस्येति । तत्सम्बन्धेतिसामानाधिकरण्यसम्बन्धेत्यर्थः । इति एवं प्रकारेण । बहवः बहवोऽपि विद्वांसः । सम्प्रदायमादधते प्राचीनमतं व्यवस्थापयन्ति । __ प्राचीनमतमेव प्रकारान्तरेणोपपादयतां केषाञ्चिन्मतमुपदर्शयति- केचित् त्विति- अस्य 'आहुः' इत्यनेन सम्बन्धः । विजातीयचित्रं प्रतीति- पाकजचित्रविजातीयचित्रं प्रतीत्यर्थः । स्वविजातीयत्वेति- यत्र नील-पीतकपालाभ्यामारब्धे घटे चित्ररूपमुत्पद्यते तत्र, रूपं नीलरूपम् , तद्विशिष्टं पीतरूपम् , पीतरूपे नीलरूपस्य स्वविजातीयत्वसम्बन्धोऽपि परिष्कृतोऽस्ति, यतश्चित्रत्वातिरिक्तं यत् स्ववृत्ति- नीलवृत्ति नीलत्वं रूपत्वादि च, तद्भिन्नधर्मः पीतत्वम् , तत्समवायित्वं पीतत्वे वर्तते, स्वसंवलितत्वसम्बन्धोऽपि निरूप्यमाणः समस्ति, यतः स्वं नीलरूपम्, तत्समवायि कपालम् , तत्समवेतद्रव्यं घटः, तत्समत्रायि पीतकपालम् , तद्वत्तित्वं पीतरूपे वर्तत इति, तथा च नीलरूपविशिष्टपीतरूपलक्षणकारणस्य स्वसमवायिसमवेतत्वसम्बन्धेन तस्मिन् घटे सत्त्वात् तत्र विजातीयचित्रमुत्पद्यत इति, नील पीतादीनां रूपत्वेन साजात्यस्य सत्त्वात् कथं नीलरूपविजातीयत्वं पीतरूपस्येत्यतः स्वविजातीयत्वं पारिभाषिकं निरुक्तम्, तत्र 'चित्रत्वातिरिक्तम्' इति यदि स्ववृत्तेविशेषणं नोपादीयते तदा चित्राभ्यां कपालाभ्यामारब्धे घटे यच्चित्ररूपमुत्पद्यते तत्र रूपविशिष्टरूपत्वेन चित्ररूपविशिष्टचित्ररूपमेव कारणं वाच्यम् , तत्रैककपालचित्ररूपस्य स्वविजातीयत्वसम्बन्धोऽपरकपालचित्ररूपे न स्यात् , यतः स्वमेककपालचित्ररूपम् , तद्वत्ति चित्रत्व-रूत्वादिकम् , तद्भिन्नधर्मसमवायित्वस्याऽपरकपालचित्ररूपे न सत्त्वमिति, तदुपादाने च चित्रत्वातिरिक्तं स्ववृत्ति न चित्रत्वं किन्तु रूपत्वाद्येव, तद्भिन्नधर्मश्चित्रत्वम् , तत्समवायित्वमपरकपालचित्ररूपे समस्तीति, स्वसंवलितत्वमपि यदि स्वसामानाधिकरण्यं तदैककपालनीलरूपस्य सामानाधिकरण्यमपरकपालपीतरूपेऽभावात् तन्न स्यादतः 'स्वसमवायि' इत्यादि तन्निर्वचनम् । स्वत्वाननुगममाशय सम्बन्धमध्यप्रविष्टस्वत्वाननुगमदोषस्यादोषत्वो. पदर्शनेन परिहरति-न चेति । तत्प्रवेशात् स्वत्वस्य प्रवेशात् । Page #102 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । परे तु-" नीलपीतोभयाभाव-पीतरक्तोभयाभावादीनां स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नप्रतियोगिताकानां ( समवायसम्बन्धावच्छिन्नप्रतियोगिताकानां च ) विजातीयपाकोभयाभावादीनां यावत्त्वावच्छिन्नप्रतियोगिताक एकोऽभावश्चित्रत्वावच्छिन्नं प्रति हेतुः" इत्याहुः । रूपत्वेनैव चित्रं प्रति हेतुत्वम् , कार्यसहभावेन चित्रेतराभावस्याहेतुत्वेनानतिप्रसङ्गादित्यन्ये । . परे तु-" चित्रत्वावच्छिन्ने रूपत्वेनैव हेतुत्वम् , नील-पीतोभयारब्धवृत्तिचित्रत्वान्तरवैलक्षण्यावच्छिन्ने च नील-पीतोभयत्वेन हेतुता, एवं तत्रितयारब्धे तत्रितयत्वेन नील-पीतोभयादिमात्रारब्धे च नीलपीतादीतररूपत्वेन प्रतिबन्धकत्वान्न त्रितयारब्धचित्रवति द्वितयारब्धत्वप्रसङ्गः, न चैवं गौरवम् , प्रामा प्राचीनमतसमर्थन एवापरेषां मतमुपदर्शयति-परे त्विति-अस्य 'आहुः' इत्यनेन सम्बन्धः । नीलपीतो. भयाभाव-पीतरक्कोमयाभावादीनाम्' इत्यत्रादिपदात् नीलरतोभयाभाव-नीलश्वेतोभयाभाव रक्तश्वेतोभयाभाव-पीतश्वेतोभयाभावादीनां नील-पीत-रतत्रयाभावादीनां च ग्रहणम् , तेषां यावतामभावश्च नील-पीतोभयस्य पीत-रत्तोभयादेश्चैकैकस्य स्वसमवायिसमवेतत्वसम्बन्धेन सत्त्वेऽपि चित्ररूपोत्पत्तिनिर्वहतीति । 'विजातीयपाकोभयाभावादीनामितिअत्रादिपदाद् विजातीयपाकत्रयाभावादीनामुपग्रहः, विजातीयपाकोभयश्च नीलजनकतेजस्संयोगपीतजनकतेजस्संयोगोभयनीलजनकतेजस्संयोगरक्तजनकतेजस्संयोगोभय पीतजनकतेजस्संयोगरक्तजनकतेजस्संयोगोभयादिरूपः, एवं विजातीयपाकत्रयं च नीलजनकतेजस्संयोग-पीतजनकतेजस्संयोग-रक्तजनकतेजस्संयोगत्रयादिरूपम्, समवायसम्बन्धावछिन्नप्रतियोगिताकतदभावानां च यावन्मध्ये प्रवेशाद् यावत्त्वावच्छिन्नप्रतियोगिताकतदभावश्च प्रत्येकं नीलजनकतेजस्संयोग पं.तसंयोगोभयादेरैकैकस्य समवायसम्बन्धेन सत्त्वेऽपि सम्भवतीति यत्किञ्चित्पाकोभयतोऽपि चित्ररूपोत्पत्तिनिर्वाह इत्येकस्यैव निरूकाभावस्य चित्रत्वावच्छिन्नं प्रति कारणत्वे न कोऽपि दोष इति ।। __ अन्येषां मतमुपदर्शयति-रूपत्वेनैवेति- एवकारेण नीलेतररूपत्वादिना हेतुत्वस्य व्यवच्छेदः। नन्वेवं नीलकपाल.. द्वयारब्धघटेऽपि चित्ररूपं स्यात् , तत्रापि समवायसम्बन्धेन चित्रं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन कारणस्य रूपत्वेन नीलरूपस्य सत्त्वादित्यत आह- कार्यसहभावेनेति । 'चित्रेतराभावस्याहेतुत्वेन' इति स्थाने 'चित्रेतररूपाभावस्य हेतुत्वेन ' इति पाठो युक्तः, तथा च तत्कपालावच्छेदेन समवायसम्बन्धेन चित्ररूपं प्रति समवायसम्बन्धावच्छिन्न प्रतियोगिताकचित्रेतररूपाभावस्य स्वरूपसम्बन्धेन हेतुत्वमिति नीलकपालद्वयाभ्यामारब्धे घंटे समवायसम्बन्धेन नीलरूपमुत्पद्यत इति समवायसम्बन्धेन चित्रेतररूपस्य नीलस्य तत्कपाले सत्त्वेन तदभावरूपकारणाभावान्न तत्र चित्ररूपोत्पत्यापत्तिः, नील-पीतकपालद्वयारब्धघटे तु चित्ररूपमेवोत्पद्यत इति तत्कपाले समवायसम्बन्धेन चित्रेतररूपस्य नीलादेस्तत्राभावात् तदभावरूपकारणस्य सत्वमित्याशयः । मतान्तरमाह-परे त्विति- अस्य 'आहुः' इत्यनेन सम्बन्धः। 'रूपत्वेनैव' इत्येवकारेण नीलेतररूपत्वादिना हेतुत्वस्य व्यवच्छेदः। नन्वेवं नील-पीतकपालाभ्यामारब्धे घटे यादृशं चित्रं ततो विलक्षणं चित्रं नील-रक्त-कपालाभ्यामारब्धे घटे, एवं नील-पीत-रक्तकपालैरारब्धे घटे, तदेतत्कार्यतावच्छेदकचित्रत्वस्य कारणतावच्छेदकरूपत्वस्याविशिष्टत्वेन नीलपीतोभयारब्धघटवृत्तिचित्ररूप-नीलपातरक्तकपालत्रयारब्धघटवृत्तिचित्ररूपादिवलक्षण्यस्यानिबन्धनस्यैव भावे तस्य नियमो न स्यादित्यत आह-नील-पीतोभयेति । 'चित्रत्वान्तर' इति स्थाने 'चित्रत्वावान्तर' इति पाठो युक्तः, तथा च नील-पीतोभयारब्धं यच्चित्ररूपम् , तवृत्ति यचित्रत्वावान्तरवलक्षण्यं चित्रत्वव्याप्यचित्रत्वविशेषलक्षणसामान्यम्, तदवच्छिन्ने नील-पीतोभयत्वेन हेतुत्वमित्यर्थः । एवम् उक्तप्रकारेण । तत्रियेति-नील-पीत-रक्तत्रयारब्धचित्ररूपवृत्तिचित्रत्वव्याप्यजातिविशेषावच्छिन्ने नील-पीत-रक्तत्रितयत्वेन हेतुत्वमित्यर्थः । तत्रितयत्वेन' इत्यनन्तरं हेतुता' इत्यनुवर्तते । ननु यत्र नील-पीत-रक्ततन्तुभिश्चित्रपट उत्पद्यते तत्र तन्तुद्वयगतनील-पीतरूपाभ्यामपि पटगतविजातीयचित्ररूपं स्यादित्यत आह-नील-पीतोभयादिमात्रारब्धे चेति- आदिपदाद् नील-रक्तोभयादेरुपग्रहः । 'नील-पीतादि' इत्यादिपदाद् नील-रक्तादेग्रहणम् ‘द्वितयारब्धत्वप्रसङ्गः' इत्यस्य स्थाने 'द्वितयारब्धस्य प्रसङ्गः' इति पाठो युक्तः । उक्त प्रतिबध्यप्रतिबन्धकभावकल्पनगौरवस्य प्रामाणिकत्वेनाऽदोषत्वमुपदर्शयति- न चैवमिति । एवम् उक्तप्रकारेण प्रतिबध्यप्रतिबन्धकभावाभ्युपगमे । यथा चोक्कत्रितयारब्धस्थले उक्तप्रतिबध्यप्रतिबन्धकभावकल्पनमन्तरेणापि न द्वितयारन्ध Page #103 -------------------------------------------------------------------------- ________________ ७० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । णिकत्वात् , वस्तुतः समवायेन द्वितयजचित्रादौ स्वाधिकरणपर्याप्तवृत्तिकत्वसम्बन्धेनैव द्वितयादीनां हेतुत्वम् , नातः प्रागुक्तप्रतिबन्धकत्वकल्पनागौरवम्" इत्याहुः । उच्छृङ्खलास्तु-" नील-पीत-रक्ताद्यारब्धघटादौ नील-पीत-रक्तादिभ्य एव नीलपीतोभयज-पीतरक्तोभयज-तत्रितयजादीनामुत्पत्तिः सर्वेषां सामग्रीसत्त्वात् , किन्त्वत्र चरमं व्याप्यवृत्तिरितराणि त्वव्याप्य. वृत्तिनीति विशेषः, न चैकमेव तदस्त्विति वाच्यम् , तत्तदवयवद्वयमात्रावच्छेदेनेन्द्रिय सन्निकर्षे विलक्षणविलक्षणचित्रोपलम्भात् , न च नील-पीतादिविशिष्टचित्रेणावान्तरचित्रप्रतीतिसम्भवः, अखण्डेऽभ्रे सामान्य. चित्रत्वेनाखण्डावान्तरचित्रत्वानां सामानाधिकरण्यप्रत्ययात्, न चेदेवं तदा नीलाद्यविशेषिता ये नीलादिभेदास्तत्तदाश्रयरूपसमुदायेनानुगतचित्रप्रतीतेश्चित्रत्वं नीलादिभेदसमुदायेन नीलाद्यनुगतप्रतीतिचित्ररूपप्रसङ्गस्तथोपदर्शनेन प्रतिबध्यप्रतिबन्धकभावगौरवम म्हस्तयति-वस्तुत इति । समवायनेति- नील-पीत-रक्तकपालत्रितयारब्धघटे नीलपीतकपालद्वयगतनील-पीतोभयं नील-रक्तकपालद्वयगतनील रक्तोभयं वा स्वाधिकरणपर्याप्तवृत्तिकत्वं तद्घटस्य नास्ति नील-पीत-रक्तकपालत्रितयपर्याप्तवृत्तिकत्वसम्बन्धन न वर्तते, यतः स्वपदेन नील-पीतोभयस्य ग्रहणे तदधिकरणं नील-पीतकपालोभयम् , तत्पर्याप्तवृत्तिकत्वात् , अत एव च नील-रक्तोभयस्यापि स्वाधिकरणपर्याप्तवृत्तिकत्वसम्बन्धेन न तत्र घटे सत्त्वमिति समवायेन द्वितयजचित्ररूपकारणस्य स्वाधिकरणपर्याप्तवृत्तिकत्वसम्बन्धेन द्वितयस्य त्रितयारब्धघटेडभावान्न द्वितयारब्धचित्ररूपविशेषप्रसङ्ग इत्यर्थः। अत इति-उक्त कार्यकारणभावाभ्युपगमादेवेत्यर्थः ।। उच्छृङ्खलानां मतमुपदर्शयति- उच्छङ्खलास्त्विति- अस्य 'आहुः' इत्यनेन सम्बन्धः। 'रक्तादि' इत्यादि. पदाच्छुक्लादेरुपग्रहः, एवमग्रेऽपि। तत्रितयजेति-नील-पीत रक्ततत्रितयजेत्यर्थः, आदिपदान्नीलरतोभयज-नीलशुक्लोभयज रक्तशुक्लोभयजादीनां नीलपोतशुक्लैतत्रितयज पीतशुक्लरकैतत्रितयजादीनां नील-पीत-रक्त-शुक्कैतच्चतुष्टयजादीनां च ग्रहणम् । सर्वेषां नील-पीतोभयजादिनिखिलानाम् , नील-पीत-रक्तादित्रितयादिसत्त्वे नील-पीतोभयादेरपि नील-पीतोभया. दिजचित्रकारणस्य सत्तादित्यर्थः । किन्विति-नील पीत-रक्तैतत्रितयस्थले नीलपीतोभयज-नीलरक्कोभयज-पीतरक्तोभयज-नील पीतरक्ततत्रितयजानां चतुर्णा मध्ये चरमं नीलपीतरक्कैतत्रितयजं चित्रं व्याप्यवृत्तिः, सम्पूर्णेऽवयविनि तस्य सत्त्वात् , इतराणि तद्भिन्नानि नीलपीतोभयजादीनि त्रीणि चित्ररूपाणि अव्याप्यवृत्तीनि, यतो नील पीतोभयजं चित्रं रक्तावयवावच्छेदनावयविनि न वर्तते किन्तु नील-पीतावयवदयावच्छेदेन, एवं नील रक्कोभय चित्रं पीतावयवावच्छेदेन न वर्तते, किन्तु नील रक्कावयवद्वयावच्छेदेन, पोतरक्तोभय चित्रं नीलावयवाच्छेदेन न वर्तते किन्तु पीत-रक्तावयवद्वयावच्छेदेनेत्येवमव्याप्यवृत्तीनीत्यर्थः। ननु नील पीत-रक्तेभ्य एकमेव चित्रं तत्रोपजायत इत्याशङ्कय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः। तत् चित्रम् । निषेधे हेतुमाह-तत्तदवयवद्वयेति -नीलपीतावयवद्वय-पोतरक्कावयवद्वयनीलरकावयवद्वयेत्यर्थः । नील-पीतावयवद्वयमात्रावच्छेदेनेन्द्रियसन्निकर्षे सति यादृशं विलक्षणं चित्ररूपमनुभूयते ततो विलक्षणं चित्रं पीत-रक्तावयवद्वयावच्छेदेनेन्द्रियसन्निकर्षे सत्यनुभूयते. ततोऽपि विलक्षणं चित्रं नील-रक्तावयवद्वयावच्छेदेनेन्द्रियसन्निको सत्यनुभूयते, एकचित्रस्यैव तत्र भावे त्वित्थं विलक्षणविलक्षणचित्रोपलम्भो न भवेदतस्तत्र नानैव चित्ररूपाण्यभ्युपेयानीत्यर्थः । ननु नील-पीतादिवैशिष्ट्यमेकस्मिन्नेव चित्रे उपादायाऽवान्तरचित्रप्रतीतिसम्भवान्नाऽनेकचित्राभ्युपगमो ज्यायानित्याशङ्कय प्रतिक्षिपति-न चेति । यद्यवयविन्येकं चित्रं स्यादपराणि च नीलादीन्यपि स्युस्तदेत्थमुपपादनं स्यादपि, न चैवम् , चित्ररूपाण्येव नानाविधानि तत्र यथाऽऽकाशेऽखण्डचित्रत्वसामान्यमप्यखण्डान्यवान्तरचित्रवान्यपि ततोऽखण्डचित्रत्वसामान्यं चित्रमात्रे वर्तत इति तेन सहाखण्डावान्तरचित्रत्वानां सामानाधिकरण्यं प्रतीयत इति तेषामुपगमस्तथैवैकस्मिन्नवयविनि नानाचित्राणां सामानाधिकरण्येनानुभूयमानत्वाद् नानाचित्राण्युपेयानीति निषेधहेतुमुपदर्शयति- अखण्डेऽभ्रसामान्येति- अत्र 'अखण्डसामान्य' इति पाठो युक्तः। यद्येवं न स्वीक्रियते तदा चित्रत्वं नीलत्वादिकं च किमिति स्वीकरणीयम् ? नीलविशिष्टरक्तन नील-रक्तद्वयजचित्रप्रतीतेनीलविशिष्टपीतेन नीलपीतद्वयजचित्रप्रतीतेरेवं दिशा नील पीनद्वराजचित्रप्रतीतीनां तन्नीलतन्नीलादितत्तन्नीलादिविशेषसमुदायेन नीलानुगतप्रतीतेः, एवं पीताद्यनुगतप्रतीतीनामप्युपपत्तेरित्याह-न चेदेवमिति । नीलाद्यविशेषिताः तन्नीलतन्नीलेत्यादिदिशा नीलाद्यविशेविताः । नीलादिभेदाः नीलपीतादिविशेषाः । तत्तदाश्रयरूपेति-नीलाश्रय पीताश्रयरूपेत्यर्थः । चित्रप्रतीते: Page #104 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । सम्भवान्नीलत्वादिकमपि च विलीयेतेति, जातेरव्याप्यवृत्तित्वे पुनरस्त्वेकमेव तत्, किश्चिदवच्छेदेन तत्र नीलत्व-पीतत्व रक्तत्व-विलक्षणचित्रत्वादिसम्भवाद् ” इत्याहुः। तदिदमखिलमशिक्षितप्रलापमात्रम्- चित्रपटादौ चित्ररूपस्यैव प्रतिपत्तेरनुभवविरुद्धत्वात् , शुक्लादिरूपाणामपि परस्परभिन्नानां साक्षात्सम्बन्धेन निर्विगानं तत्र प्रतीतेः, प्रत्येतव्यकल्पनागौरवेण प्रतीति. बाधे रूपादेटिमात्रगतत्वापत्तिः, तदिदमाहुः सम्मतिटीकाकृत:-" न च चित्रपटादावपास्तशुक्लादिविशेषरूपमात्रं तदुपलम्भान्यथानुपपत्त्याऽस्तीत्यभ्युपगन्तव्यम् , कथम् ? चित्ररूपः पट इति प्रतिभासाऽभावप्रसकेः " [ ] इति, एकाधिकरण्यावच्छिन्नशुक्लादिसमुदाय एव, न कथञ्चित्समुदा. यातिरिक्तचित्रमिति तत्र शुक्लाद्यग्रहे चित्राग्रहप्रसक्तिरित्येतत्तात्पर्यम् । किञ्च, एवं शुक्लावयवावच्छेदे. नापि चक्षुःसन्निकर्षेण चित्रोपलम्भः स्यात् । सम्भवादिति दृश्यम् । 'चित्रत्वम् ' इत्यस्य — विलीयेत' इत्यनेन सम्बन्धः । नीलादिभेदसमुदायेन तत्तन्नीलादि. विशेषसमुदायेन, तत्तत्पीतादिविशेषमुदायेनेत्येवं दिशा तत्तद्विशेषसमुदायेन । 'नीलादि' इत्यादिपदात् पीतादेरुपग्रहः, 'नीलत्वादिकम' इत्यादिपदात् पीतत्वादेर्ग्रहणम् । जातेयद्यप्यव्याप्य वृत्तित्वमुपेयते तदैकस्मिन्नेव रूपे तत्तद्भागावच्छेदेन नीलत्व-पीतत्वादिकं भागद्वयावच्छेदेनावान्तरचित्रात्वादिकं सम्पूर्णावच्छेदेन चित्रत्वसामान्यमित्युपगम्य नीलपीताद्यवान्तरचित्रवादि-चित्रत्वसामान्यप्रतीतीनामुपपत्तिसम्भवादस्त्येकमेव तत्र रूपमित्याह-जातेरध्याप्यवृत्तित्व इति । तत् रूपम् । तत्र एकस्मिन् रूपे । एतावता नैयायिकमतमुपदर्थ ग्रन्थकारो जैनसिद्धान्तावलम्बनेन तत्खण्डनमधिकरोति- तदिदमिति- उक्तदिशोपदर्शितं प्राचीननैयायिकाभिमतं नानारूपवदवयवारब्धावयविनि चित्रेकरूपसमर्थनमित्यर्थः। अशिक्षितप्रलापमात्रम् अशिक्षितानां प्राचीनमतानुयायिनां नियुक्तिकवचनमात्रम् । तत्र हेतुमाह-चित्रपटादाविति। 'चित्ररूपस्यैव' इत्येवकारेण शुक्लादेर्व्यवच्छेदः । यथा तत्र चित्ररूपं प्रतीयते तथा शुक्लादिकमपि प्रतीयत इति शुक्लादिकमपि तत्राभ्युपेयमित्याहशुक्लादिरूपाणाम्पीति । अवयवगतानामेव शुक्लादिरूपाणां स्वसमवायिसमवेतत्वसम्बन्धेन तत्रावयविनि प्रतीतिर्भवतीति यदि परो ब्रूयात् तत्प्रतिषेधार्थमाह- साक्षात्सम्बन्धेनेति । निर्विगानं विवादमन्तरेण । तत्र अवयविनि । ननु अवयविनि शुक्लादिनानारूपकल्पनायां गौरवं स्यादतः साक्षात्सम्बन्धेन तत्र शुक्लादिप्रतीतिर्बाधितैवेति न तया तत्र शुक्लादिव्यवस्थितिरित्यत आह-प्रत्येतव्येति- प्रत्येतव्यं यच्छुक्लादि तत्कल्पनागौरवेण । शुक्लादिप्रतीतिबाधे चतुरणुकादावपि त्र्यणुकगतरूपादेरेव परम्परया प्रतीतेरुपपत्तेः साक्षात्सम्बन्धेन तत्कल्पनायां चतुरणुकादिगतरूपकल्पनया गौरवं स्यादतश्चतुरणुकादौ रूपादिकं न कल्प्यत इति रूपादेस्त्रुटिमात्रगतत्वापत्तिः-त्रसरेणुमात्रगतत्वापत्तिः, यद्यपि ततोऽपि परमाणुमात्रगतत्वे लाघवम् , तथापि परमाणुमात्रगतरूपादेरयोग्यत्वात् प्रत्यक्षं न स्यादिति त्रुटिमात्रगतत्वस्यैवापादनमिति । उक्तार्थे सम्मतिटीकाकृतां वचनं संवादकतयोपदर्शयति-तदिदमाहरिति । सम्मतिटीकाकृद्वचनमेवोल्लिखति-न चेति । 'चित्रपटादी' इत्यत्रादिपदाच्चित्र घटादग्रहणम् , अपास्तो निरस्तः शुक्लादिविशेषो यत्र तदपास्तशुक्लादिविशेषम् , तथाभूतं रूपमात्रं चित्रपटाग्रुपलम्भान्यथानुपपत्त्या-बहिरिन्द्रिय जन्यदव्य प्रत्यक्ष उद्भूतरूपं कारणमिति यदि चित्रपटादौ रूपं न स्यात् तत्प्रत्यक्षमेव न स्यादित्येवंरूपया, चित्रपटादावस्तीत्यभ्युपगन्तव्यं न चेत्यर्थः। पृच्छति-कथमिति- कथं नाभ्युपगन्तव्यमित्यर्थः। उत्तरयति-चित्ररूप इति यदि रूपमात्रं तत्र स्यात् ह 'रूपवान् घटः' इति प्रतिभासः स्यान्न ‘चित्ररूपः पटः' इति प्रतिभासो भवेदतो रूपमात्राभ्युपगमो न युक्त इत्यर्थः । उक्तवचनतात्पर्यमुपवर्णयति- एकाधिकरण्येति - एकाधिकरणवृत्ति. त्वविशिष्टो यः शुक्लादिसमुदायः स एव कथञ्चित्समुदायातिरिक्तं चित्ररूपमिति तत्र चित्रपटादौ शक्लादेः समुदायिनः प्रत्यकस्याग्रहे तत्समुदायरूपस्य चित्रस्याग्रहप्रसक्तिरिति सम्मतिटीकाकृदूचनतात्पर्यार्थ इत्यर्थः । शुक्ला दिभ्यः सर्वथा व्यतिरिक्तस्यैव चित्रमात्रस्य चित्रपटादावुपगमे तस्य चित्ररूपस्य सम्पूर्णपटवृत्तित्वेन प्रत्येकं शुक्काद्यवयवावच्छे देनापि सत्तया शुक्लावयवमात्रावच्छेदेन चक्षुस्सन्निकर्षेण तत्र चित्रप्रत्यक्षं स्यादित्याह-किञ्चेति । एवं शुक्लादिव्यतिरिक्तचित्ररूपाभ्युपगमे । अत्र नैयायिकः परिहारमाशङ्कते- अथेति। चित्रत्वग्रह इति- विशेष्यतासम्बन्धेन समवायसम्बन्धावच्छिन्नचित्ररूपनिष्ठप्रकारताकप्रत्यक्षे विशेष्यतासम्बन्धेन स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नावयवगतनीलेतररूपनिष्ठनिरूपकतानिरूपिताधिकरणत्व Page #105 -------------------------------------------------------------------------- ________________ ७२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ___ अथ चित्रत्वग्रहे परम्परयाऽवयवगतनीलेतररूप-पीतेतररूपादिमत्त्वग्रहो हेतुः, अत एव व्यणुकचित्रं चक्षुषा न गृह्यत इत्याचार्याः। न च, चित्रत्वनिष्ठविषयतया चित्रत्वग्रहे स्वविशेष्यसमवेतसमवेततत्वसम्बन्धेनोक्तस्य हेतुत्वे घटावयवगततगृहात् शुक्लावयवावच्छेदेन चित्रपटसन्निकर्षेऽपि तद्रूपचित्रत्वप्रत्यक्षापत्तिरिति वाच्यम् , विशेष्यतया चित्रत्वप्रकारकप्रत्यक्ष एव विनियुक्तसम्बन्धेन तद्धेतुत्वात् , न च, नीलेतररूपत्वाद्यवच्छिन्नप्रकारताग्रहो न हेतुः,नीलत्व-पीतत्वादिनाऽवयवगत-नील पीतादिनहेऽप्यवयविचित्रप्रत्यक्षोत्पादादिति वाच्यम् , विलक्षणचित्रप्रत्यक्षे तेन तेन रूपेण तत्तद्ग्रहस्यापि हेतुत्वात् , वस्तुतो नीलेतर. रूपत्वादिव्याप्यत्वेन नीलेतररूपत्व-पीतत्वाद्यनुगमान्न क्षतिरिति चेत् ? न-त्र्यणुकचित्ररूपाग्रहे चतुरणुकस्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नावयवगतपीतेतररूपनिष्ठनिरूपकतानिरूपिताधिकरणत्वादिनिष्टस्वरूपसम्बन्धावच्छिन्नप्रकारताकप्रत्यक्षं कारणमित्यवयवगतनीलेतररूपादिमत्त्वग्रहे सत्येव चित्रप्रत्यक्षं नान्यथेत्यर्थः । उक्तकार्यकारणभावे न्यायधुरन्धरोदयनाचार्यसम्मतिमुपदर्शयति- अत एवेति- निरुक्तकार्यकारणभावादेवेत्यर्थः, व्यणुके यद्यपि स्वसमवायिसमवेतत्वसम्बन्धेन व्यणुकगतनीलेतररूपादिमत्त्वं वर्तते तथापि तस्याऽयोग्यत्वात् प्रत्यक्षं न भवति, ततस्तदात्मककारणाभावात् त्र्यणुकचित्रं चक्षुषा न गृह्यत इत्युदयनाचार्या वदन्तीत्यर्थः । उक्तदिशा कार्यकारणभावं नैयायिकाभिमतमजानतः प्रकारान्तरेण कार्यकारणभावं नैयायिकाभिमतं कल्पयतः परस्य शङ्कामुत्थाप्य नैयायिकः प्रतिक्षिपति-न चेति- अस्य ‘वाच्यम्' इत्यनेनान्वयः । उक्तस्य अवयवगतनीलेतररूप-पीतेतररूपादिमत्त्वग्रहस्य, एतत्सङ्गमनं चेत्थम् - चित्रत्वप्रत्यक्षं चित्रत्वनिष्ठविषयतासम्बन्धेन चित्रत्वे समुत्पद्यते तत्रावयवगतनीलेतररूपादिमत्त्वग्रहः. स्वविशेष्योऽवयवः, तत्समवेतोऽवयवी, तत्समवेतत्वं चित्रत्वे समस्तीति तत्सम्बन्धेन समस्तीति तत्प्रत्यक्षं तत उत्पद्यत इति । अत्र 'घटावयव' इत्यादिना यदापादनं कृतं तदित्थंसङ्गमनम्-चित्रत्वमेकमेव, तत्र शुक्लावयवावच्छेदेन चित्रपटसन्निकर्षों वर्तते, घटावयवगतनीलेतररूपादिग्रह उक्तसम्बन्धेन चित्रत्वे समस्तीति घटगतचित्रत्वापत्तिः, वस्तुतोऽत्र चित्ररूपात्मकं चित्रत्वं नैकमिति तदाश्रित्य कार्यकारणभावो न, किन्तु चित्ररूपगतं यच्चित्रत्वमेकं तदाश्रित्येव कार्यकारणभावः, तत्र परम्परासम्बन्धन घटावयवगतनालेतररूपादिमत्त्वग्रहो घटविशेष्यको भवति, इत्थं च यदेव चित्रत्वं घटगतचित्ररूपे वर्तते तदेव चित्रत्वं पटगतचित्ररूपेऽपि वर्तते इति चित्रपटमादाय यदा चक्षुषः स्वसंयुक्तसमवेतत्व समवायलक्षणसन्निकर्षश्चित्रत्वे वर्तते तदानीं स्वसमवायिसमवेतत्वसम्बन्धेन घटावयवगतनीलेतररूपादिमत्त्वग्रहे स ग्रहः, स्वविशेष्यो घटः, तत्समवेतं तद्गतचित्ररूपम् , तत्समवेतत्वं चित्रत्वे समस्तीति तेन सम्बन्धेन तत्र वर्तत इति तदानककारगय सत्त्वेन चित्रपटाचित्रलप्रत्यक्षत्वापत्तिरित्यर्थः । निषेधहेतुमुपदर्शयति-विशेष्यतयेति । वि सम्बन्धेन' इति स्थाने 'निरुक्तसम्बन्धन ' इति पाठो युक्तः तस्य विशेष्यतासम्बन्धेनेत्यर्थः । तद्धतुत्वात् परम्पराऽवयवगतनोलेतररूप-पोतेतररूपादिमत्वग्रहस्य हेतुत्वात् । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । 'प्रकारताग्रह' इत्यस्य स्थाने 'प्रकारताकग्रहः' इति पाठो युक्तः । न हेतुः न चित्रत्वप्रकारकप्रत्यक्षे कारणम् । तादृशहेतुत्वाभावे व्यतिरेकव्यभिचारं हेतुत्वेनोपदर्शयति - नीलत्व पीतत्वादिनेति । उक्ताशङ्कनिषेधे हेतुमाह-विलक्षणचित्रप्रत्यक्ष इति- यादृशचित्रप्रत्यक्षमवयवगतनील-पीतादिग्रहेणोपजायते तादृशचित्र प्रत्यक्षे नीलत्व-पीतत्वादिरूपेणावयवगतनील-पीतादिग्रहस्य हेतुत्वम् , यादृशचित्रप्रत्यक्षमवयवगतनी लेतररूप-पीतेतररूपादिग्रहेणोपजायते तादृशचित्रप्रत्यक्षे नीलेतररूपत्वाद्यवच्छिन्नप्रकारताकग्रहो हेतुरित्येवमुपगमे व्यतिरेकव्यभिचाराभावादित्यर्थः । तेन तेन रूपेण नीलत्व-पीतत्वादिना । तत्तहहस्यापि अवयवगतनील-पीतादिग्रहस्यापि । नीलत्व-पीतत्वादीनां नीलेतररूपत्व पीतेतररूपत्वादीनां च नीलेतररूपत्वादिव्याप्यत्वेनानुगमय्य चित्रत्वप्रकारकप्रत्यक्षे नीलेतररूपत्वादिव्याप्यधर्मावच्छिन्नप्रकारताकग्रहत्वेन कारणत्वेऽपि न व्यभिचार इत्याह- वस्तुत इति । उक्तनैयायिकाशङ्कां प्रतिक्षिपति-नेति । अवयवगतनील-पीतादिग्रहस्यावयवगतनीलेतररूप-पीतेतररूप दिग्रहस्य चित्रप्रत्यक्षकारणत्वे चित्रत्र्यणुकारब्धचतुरणुकस्य चित्ररूपस्य प्रत्यक्ष न स्यात् , यत: त्र्यणुकचित्रस्यैव प्रथमं प्रत्यक्षं न सम्भवति, तदवयवव्यणुकग तनीलादेनीलेतररूपादेश्चायोग्यत्वेन तद्ब्रहणाभावे तद्रूपकारणाभावात् , व्यणुकचित्राग्रहे च भवन्मते तत्र चित्ररूपवति रूपान्तरस्याभावात् , येन व्यणुकगतरूपान्तरग्रहतोऽपि चतुरणुकप्रत्यक्षस्योत्पत्तिः संभाव्येत, अत उक्तदिशा कार्यकारणभावो न संभवति, चित्रावयवारब्धावयविचित्रप्रत्यक्षसाधारण्येन, किन्तु चित्रावयवारब्धचित्रग्रहेऽवयवविशेष्यकनीलेतररूपत्वादिव्याप्यचित्रत्वावच्छिन्नप्रकारकग्रहस्यैव Page #106 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । - चित्रप्रत्यक्षानुपपत्तेश्चित्रावयवारब्धचित्रप्रहेऽवयवविषयकनीलेतररूपत्वादिव्याप्यचित्रत्वावच्छिन्नप्रकारकग्रहस्यैव हेतुत्वात् , यदि च नीलेतररूप-पीतेतररूपादिमदवयवावच्छेदेनेन्द्रियसन्निकर्षस्यावयवनीलादिगतनीलत्वादिग्रहप्रतिबन्धकदोषाभावानां च चित्रप्रत्यक्षे हेतुत्वम् , अतस्त्रसरेणुचित्रस्यापि चक्षुषा ग्रह इत्युद्भाव्यते, तदा अनन्तहेतु हेतुमद्भावकल्पनागौरवाच्चित्रत्वं व्यासज्जवृत्त्येव, तत्र च समानाधिकरण. नानारूपग्रहव्यङ्गयत्वमित्येव कल्प्यमानं शोभते, नह्येवं गौरवम्, चित्रत्वग्रहे सामानाधिकरण्येन रूपविशिष्टरूपग्रहत्वेनैव हेतुत्वात् , उक्तहेत्वभावे चित्रत्वविनिर्मुक्तचित्रप्रत्यक्षस्य चोभयोस्तुल्यत्वात् , यदि च नानावयवावच्छिन्नपर्यायवृत्तिरेकं चित्रमप्यनुभूयते, अत एवैकावयवावच्छेदेन चित्राभावप्रतीतेरप्युपपत्तिरिति स्वीक्रियते, तदैकानेकचित्रद्रव्यस्वभावाभ्युपगम विना न काप्युपपत्तिः, देश-स्कन्धनियत. धर्माणां तद्वाहकसामग्रीग्राह्यत्वेनैवोक्तोपपत्तेर्देश-स्कन्धपरिमाणविशेषग्रहेऽपीयमेव गतिरिति दिक् । किञ्च, नीलेतररूपादिषट्कस्यैव चित्ररूपे हेतुत्वमित्येतावतैव नोपपत्तिः, अवयवगतोत्कृष्टा-ऽपकृष्ट. नीलाभ्यामपि चित्रसम्भवात् , ते चोत्कर्षा विचार्यमाणा अनन्ता एव, तदाहुः श्रीसिद्धसेनाःहेतुत्वमित्याह-ज्यणुकचित्ररूपाग्रह इति । 'अवयवविषयक' इति स्थाने 'अवयवविशेष्यक' इति पाठो युक्तः, अत्र च समानविशेष्यतया कार्यकारणभावो न सम्भवति, कार्य कारणयोर्विभिन्नविशेष्यकत्वात् , किन्तु समवायलक्षणसामानाधिकरणप्रत्यासत्त्यैव कार्यकारणभाव इति बोध्यम् । ननु नीलेतररूप-पीतेतररूपादिमदवयवावच्छेदेनेन्द्रियसन्निकर्षस्य चित्रप्रत्यक्षे हेतुत्वम्, तत्रावयवनीलादिगतनीलत्वादिग्रहप्रतिबन्धकदोषाभावानां च चित्रप्रत्यक्षे हेतुत्वम् , अतस्त्रसरेणुचित्रस्यापि प्रत्यक्षं सम्भवति, यतो नीलेतररूप-पीतेतररूपादिमद् यद् द्वयणुकं तद्रूपत्रसरेण्ववयवावच्छेदेनेन्द्रियसन्निकर्षोऽपि विद्यते, द्वयणुक लक्षणावयवनीलस्याऽयोग्यत्वादेव प्रत्यक्षाभावे तद्तनीलत्वस्यापि तत एव ग्रहणं न भवतीति न तत्प्रतिबन्धकदोषकल्पनेति तादृशदोषाभावोऽपि विद्यत इति तद्रूपकारणसद्भावादित्यत आह- यदि चेति । एवं सत्यनन्तहेतुहेतुमद्भावकल्पनागौरवं स्यादित्याह- तदेति । तर्हि किमम्युपेयमित्यपेक्षायामाह-चित्रत्वमिति । 'व्यासज्जवृत्त्येव' इति स्थाने 'व्यासज्यवृत्त्येव' इति पाठो युक्तः, तस्य चावयविगतनील-पीतादिचित्रपर्याप्तवृत्त्येवेत्यर्थः । तत्र च निरूक्तचित्रत्वे च । समानाधिकरणनानारूपग्रहव्यङ्गयत्वम् एकाधिकरणवृत्तिनानारूपग्रहजन्यप्रत्यक्षविषयत्वम् । इत्थं कल्पने गौरवं स्यादित्याशङ्कय प्रतिक्षिपति- नोवं गौरवमिति। उक्तहत्वभावे सामानाधिकरण्यसम्बन्धेन रूपविशिष्टरूपग्रहरूपकारणाभावे। चित्रत्वेन चित्ररूपग्रह एव तस्य कारणत्वमुपेयते, न तु चित्रप्रत्यक्षमात्र इति निरुक्तकारणाभावे चित्रत्वेन चित्रप्रत्यक्ष मा नाम जायताम् , चित्रप्रत्यक्ष तु स्यादेवेत्याह-चित्रत्वविनिर्मक्तति-चित्रत्वाविषयकेत्यर्थः। उभयो तव मम च । ननु चित्रावयविनि प्रत्येकावयवावच्छेदेन नीलादिकमपि विद्यते, नानावयवावच्छेदेनैकं चित्रमपि विद्यत इत्यभ्युपगमस्तत्राह-यदि चेति । नानावयवावच्छिन्नपर्यायवृत्तिः नानावयवावच्छिन्नावयव्यात्मकपर्यायवृत्तिः। अत एव नानावयवावच्छिन्नपर्यायवृत्त्येकचित्राभ्युपगमादेव । तथा सत्यनायासेन स्याद्वाद आपतितः, तमन्तरेणेत्थमभ्युपगमाऽसम्भवादित्याह- तदेति - एकस्वभावत्वेन चित्ररूपमपि तत्र विद्यते, नानास्वभावत्वेन नानारूपाण्यपि तत्र विद्यन्त इति स्याद्वादः सिद्ध इत्याशयः । एकैकावयवावच्छेदन चक्षुस्सन्निकर्ष एकैकावयवावच्छिन्नवृत्तिकशुक्लादिग्राहकः, नानावयवावच्छेदेन चक्षुस्सन्निकर्षो नानावयवावच्छिन्नवृत्तिकचित्ररूपग्राहक इत्येवं विभिन्नसामग्रीग्राह्यत्वेनोक्तोपपत्तिः सम्भवतीत्याह-देशेतिशुक्लादिर्देशनियो धर्मः, चित्रं तु स्कन्धनियतो धर्म इति बोध्यम् । तद्वाहकेति-देशस्कन्धग्राहकेत्यर्थः । यथा च चित्रपटादौ नानारूपैकरूपग्रहयोरुतदिशोपपत्तिस्तथैका-ऽनेकपरिमाणविशेषग्रहाणामप्युक्तदिशैवोपपत्तिरित्याह-देश-स्कन्धपरिमाणविशेषग्रहेऽपीति । यथा च नील-पीताभ्यां नील-रक्ताभ्यामित्येवं रूपद्वयवद्भयां तथा विजातीयरूपत्र येविजातीयरूपचतुष्टयादिभिरवयवैरारब्धेष्ववयविषु चित्ररूपोत्पत्तिः, तथेकजातीयरूपवद्भयां नील-नीलतरावयवाभ्यामेवं पीत-पीततरावयवाभ्यां नील-नीलतर-नीलतमावयवैः पीत-पीततर-पीततमावयवैरारब्धेष्ववयविषु विलक्षणविलक्षणचित्रोत्पत्तिरनुभूयत इति तेषामपि नित्रं प्रति कारणत्वमभ्युपगन्तव्यमेवेत्याह-किश्चेति। ते चोत्कर्षाः अवयवनीलादिगता उत्कर्षाः। Page #107 -------------------------------------------------------------------------- ________________ ७४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः। " पच्चुप्पणम्मि वि पज्जयम्मि भयणागई पडइ दव्वं, जं एगगुणाईआ अणंतकप्पा गुणविसेसा ॥” -[सम्मतितर्ककाण्ड० ३, गाथा ६ ] व्याख्या–प्रत्युत्पन्ने(ऽपि)-- वर्तमानेऽपि पर्याये, भजनागति-भेदाऽभेदप्रकारम् , पतति-आसादयति द्रव्यम् , यत्-यस्मादेकगुणकृष्णत्वादयोऽनन्तप्रकारास्तत्र गुणविशेषाः, कल्पशन्दः प्रकारवाची, तेषां च मध्ये केनचिदेव गुणविशेषेण युक्तं तदिति ।। ___कृष्णं हि द्रव्यं द्रव्यान्तरेण तुल्यमधिकमून वा भवेत् प्रकासन्तराभावात्, आये सर्वतुल्यत्वे तदेकतापत्तिः, उत्तरयोः सङ्ख्येयादिभागगुणवृद्धिहानिभ्यां षट्स्थानकप्रतिपत्तिरवश्यम्भाविनी, तथा च प्रतिनियतहानि-वृद्धियुक्तकृष्णादिपर्यायेण सत्त्वं नान्येनेति, इत्थं च नीलत्वाद्यवान्तरजातीनामनन्तत्वात् तरतमशब्दमात्रेण तदनुगमस्य कर्तुमशक्यत्वात् , तत् तदवान्तरजातीयनील-पीतादीनामनन्तानां चित्रहेतुत्वकल्पने गौरवमिति षट्रस्थानपतितवर्णपर्यायेण चित्रद्रव्यमेव स्वसामग्रीप्रभवमभ्युपगन्तव्यम्, अर्थसमाजसिद्धधर्मस्यापि तथाभवत्वकार्यतावच्छेदकत्वस्वीकारात्, एतेन चित्रप्रत्यक्षजनकतावच्छेदकमपि चक्षुःसंयोगनिष्ठं वैजात्यं स्वीकर्तव्यमित्यपि निरस्तम् , सूक्ष्मेक्षिकयाऽनन्तावान्तरचित्रानुभवादनन्तवैजात्य. कल्पनापत्तरत्यन्ताप्रामाणिकत्वादिति द्रष्टव्यम् । __तेषामुत्कर्षाणामानन्त्ये श्रीसिद्धसेनदिवाकराणां वादिप्रवराणां सम्मतिमुपदर्शयति- तदाहुरिति । ‘पचुपणम्मि०' इति- " प्रत्युत्पन्नेऽपि पर्याये भजनागतिं पतति द्रव्यम् । यदेकगुणादिका अनन्तकल्पा गुणविशेषाः"॥ इति संस्कृतम् । विवृणोति-प्रत्युपन्नेऽपीति । तत्र वर्तमानपर्याये। तेषां च अनन्तप्रकाराणां गुणविशेषाणाम् । तद् द्रव्यम् । एतावताऽक्षरार्थो भावितः । अभिप्रेतार्थमुपदर्शयति-कृष्णं हीति । प्रकारान्तराभावात् तुल्याधिकोनप्रकारत्रयातिरिक्तप्रकाराभावात् । आधे कृष्णं द्रव्यं द्रव्यान्तरेण तुल्यमिति पक्षे । 'सर्वतुल्यत्वे' इति स्थाने 'सर्वथा तुल्यत्वे' इति पाठो युक्तः । सर्वथा तुल्यत्वं तयोस्तदैव स्याद् यद्यसाधारणमप्येकस्य रूपस्यापरस्य स्यादिति तदेकत्वापत्तिः तयोर्द्रव्ययोरैक्यं स्यादित्यर्थः। उत्तरयोः कृष्णं द्रव्यं द्रव्यान्तरेणाधिक कृष्णमिति द्रव्यान्तरेणोनकृष्णमिति द्वितीय-तृतीयपक्षयोः। 'सवयेयादि' इति- आदिपदादसङ्खयेया-ऽनन्तयोः परिग्रहः । षट्स्थानकप्रतिपत्तिरिति-सङ्खयेयभाग-गुणवृद्धिः १ असङ्खयेयभागगुणवृद्धिः २ अनन्तभागगुणवृद्धिः ३ सङ्ख्ययभागगुणहानि: ४ असङ्खयेयभागगुणहानिः ५ अनन्तभागगुणहानिः ६ इत्येवं षट्स्थानकप्रतिपत्तिरित्यर्थः। तथा च षट्स्थानक प्रतिपत्तरवश्यम्भावित्व च। इत्थं च प्रतिनियतहानिवृद्धियुक्तकृष्णादिपर्यायेण सत्त्वं नान्येनेति व्यवस्थितौ च । नीलत्वाद्यवान्तरजातीनां नीलत्वादिव्याप्यैकगुणकृष्णत्वादिजातीनाम् । यदि तासां सर्वासां जातीनां केनचिद्रूपेणानुगमः स्यात् तदा तद्रूपेण चित्रं प्रति हेतुत्वकल्पने गौरवं न भवेत् , न चैवमित्याह-तरतमशब्दमात्रणेति- अर्थस्यैकस्याभावे शब्दानुगमोऽकिञ्चित्कर इत्याशयः। तदनुगमस्य नीलत्वाद्यवान्तरजातीनामनुगमस्य । अनुगमनाभावे गौरवं स्यादेवेत्याह-तत्तवान्तरेति । तर्हि किमभ्युपेयमित्यक्षायामाह-षट्रस्थाने तिषटस्थानपतिता ये एकगुणकृष्णत्वादिविशिष्टा दस्तदन्यतमपर्यायेण चित्रद्रव्यमेव स्वसामग्रीप्रभवमभ्युपेयम् , स्वसामग्रीत उत्पद्यमानं द्रव्यं तथाभूतमेवोत्पद्यते, गुणानां सहभाविपर्यायत्वेन गुणसहितमेव द्रव्यमुत्पद्यते, न तु पूर्व द्रव्यं ततोऽवयव. गुणविशेषतस्तत्र गुणविशेषोत्पत्तिरिति । यद्यपि वर्णविशेषोत्पादक.सामग्रीतो वर्णविशेषः, द्रव्यविशेषोत्पादकसामग्रीतो द्रव्यविशेष इति तदुभयसम्मिलनेन तथाभूतद्रव्यविशेषसम्भव इत्यनेकसामग्रीसमाजप्रयोज्यत्वलक्षणार्थसमाजसिद्धत्ववदेव तथाभूतद्रव्यत्वं तथापि तस्यापि तथाभवत्वस्वाभाव्यस्य कार्यतावच्छेदकत्वमुपगम्यत इति तथाभूतस्वभावबलादेव तथाभूतद्रव्योत्पत्तिरित्याह-तथाभवत्वेति । एतेनेति- अस्य निरस्तम् ' इत्यनेनान्वयः, एतेन-षटस्थानपतितवर्णपर्यायेण चित्रद्रव्यस्य स्वसामग्रीप्रभवत्वस्वीकारेण । चित्रप्रत्यक्षमपि नैकविधचित्रत्वप्रकारकमेव, किन्तु विलक्षणविलक्षणचित्रत्वप्रकारकमिति तदनुरोधेन तत्कारणीभूतेषु चक्षुस्सयोगेष्वपि बहूनि वैजात्यानि तत्तचित्रत्वप्रकारक प्रत्यक्षत्वावच्छिन्नकार्यतानिरूपितकारणतावच्छदकतयाऽभ्युपेयानि, निरुक्तदिशैवोपपत्तौ च न तथाभूतानन्तवैजात्यकल्पना प्रामाणिकी येन प्रामाणिकत्वात् तद्गौरवं दोषानावहं स्यादिति निरासहेतुमुपदर्शयति-सूक्ष्मेक्षिकयेति-सूक्ष्म विचारेणेत्यर्थः । एतावता चित्ररूपवादिप्राचीननैयायिकमतमपाकृतम् । Page #108 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । अव्याप्यवृत्तिरूपपक्षेऽप्यवयवगतोत्कृष्टाऽपकृष्टनीलाभ्यामवयविनि तयोरवच्छिन्नयोः सामान्यसामग्रीवशात् अर्थात् अनवच्छिन्नस्य नीलस्योत्पत्तिप्रसङ्गः, अवयविनीलतरत्वाद्यवच्छिन्न एवावयवनीलतरत्वादिना हेतुत्वे नीलस्वावच्छिन्नस्याकस्मिकत्वप्रसङ्गः, किमाकस्मिकत्वमिति चेत् ? तद्धविच्छिन्नाथितया प्रवृत्तिविरहः, एतत्कारणसत्त्वे नीलत्वावच्छिन्नस्यावश्यमुत्पत्तिरित्यनिश्चयश्च, प्रतीयते च तत्र नीलसामान्यमवच्छिन्नम् , अवच्छिन्नाश्च तद्विशेषाः, केवलशुक्लेऽपि च स्वल्प-बह्ववयवावच्छेदेनेन्द्रिय. सन्निकर्षेऽणु-महत्त्वोपेतशुक्लविशेषास्तदनुशक्तं शुक्लसामान्यं च, इत्येकाऽनेकवर्णविशिष्टद्रव्यपरिणामाभ्युप. गमं विना न कथमपि निस्तारः। एतेन · अव्याप्यवृत्तिनीलादिकल्पे न ग्राहकान्तरकल्पनम् , अव्याप्य अथाव्याप्यवृत्तिनानारूपवादिनवीननैयायिकमतखण्डनमधिकरोति-अव्याप्यवृत्तिरूपपक्षऽपीति । तयोः उत्कृष्टाऽपकृष्टनीलयोः। अवच्छिन्नयोः उत्कृष्टनीलावयवावच्छिन्नाऽपकृष्टनीलावयवावच्छिन्नयोः, अस्य 'उत्पत्तिप्रसङ्गः' इत्यनेनान्वयः। अर्थात् अर्थबलसिद्धात् । तद्धर्मावच्छिन्नोत्पत्तौ तद्व्यापककार्यतावच्छेदकीभूताशेषधर्मावच्छिन्नोत्पादकसामग्री तव्याप्ययत्कञ्चिद्धर्मावच्छिन्नोत्पादकसामग्री चापेक्षितेत्ययं नियमो यस्य धर्मस्य व्याप्यीभूतधर्मो व्यापकीभूतधर्मश्च कार्यतावच्छदेकः समस्ति तत्र, यस्य धर्मस्य तु व्यापकीभूतधर्मः कार्यतावच्छेदको नास्ति तत्र तद्धर्मावच्छिन्नोत्पत्तौ तद्धर्मव्याप्यकिञ्चिद्धर्मावच्छिन्नोत्पादकसामग्री अपेक्षितेति नियमः, यस्य तु न किञ्चिन्याप्यधर्मः वार्यतावच्छेदकः समस्ति तद्धर्मावच्छिन्नोत्पत्तौ तद्व्यापकीभूताशेषधर्मावच्छिन्नोत्पादकसामग्री अपेक्षितेति नियमः, स्वावच्छिन्नोत्पादकसामग्री तु सर्वत्रापेक्षितैवेति, तथा चोत्कृष्टनीलत्वस्याऽपकृष्टनीलत्वस्य च व्यापकीभूतधर्मो नीलत्वं यत्किञ्चित्कारणतावच्छेदकं समस्तीति तत्तदवच्छिन्नोत्पत्तिस्थले नीलत्वावच्छिन्नोत्पादकसामथ्या अवश्यम्भावात् ततोऽनवच्छिन्नस्य नीलस्योत्पत्तिप्रसङ्गोऽपि तत्र भवेदित्यर्थः । नीलस्योत्पत्तिप्रसङ्गः' इत्यस्य स्थाने 'नीलस्य चोत्पत्तिप्रसङ्गः' इति पाठो युक्तः। यदि च नीलत्वावच्छिन्नं प्रति नीलत्वावच्छिन्नं कारणमिति सामान्यकार्यकारणभावो नाभ्युपेयत एव, किन्त्ववयविनीलतरत्वावच्छिन्नं प्रति अवयवनीलतरत्वावच्छिन्नं कारणमित्येवाभ्युपेयते तदा नीलत्वस्य किश्चित्कारणनिरूपितकार्यतावच्छेदकत्वाभावात् तदवच्छिन्नस्याकस्मिकत्वं प्रसज्यतेत्याह-अवयविनीलतरत्वाद्यवच्छिन्न एवेति- एक्कारेण अवयविनीलतरत्वावच्छिन्ने अवयवनीलत्वेन कारणत्वस्य व्यवच्छेदः । नीलत्वाद्यवच्छिन्नस्याकस्मिकत्वं यदापद्यते तत् किमिति पृच्छति-किमिति । नीलत्वावच्छिन्नस्य यदा किञ्चित्कारणनियम्यत्वं न स्यात् तर्हि तं प्रति कस्यचित् कारणत्वस्याभावात् तं प्रति कारणत्वस्य किञ्चिद्धर्मिणि अग्रहात् तदर्थं तदुद्देश्यकतदुपादान विशेष्यकप्रवृत्तिर्न स्यात् , एवं यदेव किञ्चित्कारणजन्यं तत्रैव कृतिसाध्यत्वज्ञानात् तच्चिकोर्षया प्रवृत्तिर्भवति, नीलत्वावच्छिन्नं च न किञ्चित्कारणजन्यमिति नीलत्वावच्छिन्नविशेष्यककृतिसाध्यत्वप्रकारकज्ञानाभावात् तच्चिकीर्षाया अभावे तद्गोचरा प्रवृत्तिर्न स्यादिति नीलत्वावच्छिन्नार्थितया प्रवृत्तिविरह एव नीलत्वावच्छिन्नस्याकस्मिकत्वमित्युत्तरयति-तद्धर्मावच्छिन्नार्थितयेति । एवं नीलत्वावच्छिन्नं प्रति यदि कस्यचित् कारणत्वं भवेत् तदा तत्कारणसत्त्वेऽवश्यं नीलत्वावच्छिन्नमुत्पद्यत इति निश्चयः स्यात्, नीलत्वावच्छिन्न प्रति कस्यचित् कारणत्वाभावे तूक्तनिश्चयाभावः स्यात् , स एव चाकस्मिकत्वमित्याह-'एतत्कारणसत्त्व इति । ननु नीलत्वावच्छिन्नं प्रति कस्यचित् कारणत्वाभावान्नीलत्वावच्छिन्नं तत्रोत्पद्यत एव, किन्तु नीलतरत्वाद्यवच्छिन्नमव्याप्यवृत्त्येव तत्रोत्पद्यत इत्यत आह-प्रतीयते चेति । तत्र नीलतरादिरूपवत्यवयविनि । 'नीलसामान्यमवच्छिन्नम्' इति स्थाने 'नीलसामान्यमनवच्छिन्नम् ' इति पाठो युक्तः । तद्विशेषाः नीलविशेषाः, तथा चानवच्छिन्ननीलसामान्य-नीलतरनीलतमादिलक्षणनीलविशेषप्रतीत्यन्यथानुपपत्त्याऽनवच्छिन्ननीलसामान्यावच्छिन्ननीलविशेषाणामेकत्रं द्रव्ये स्वीकार आवश्यक इत्यर्थः। यत्र च द्रव्ये केवलशक्लमेव रूपम्, तत्रापि स्वल्पावयवावच्छेदेनेन्द्रियसन्निकर्षेऽणुशुक्लरूपं प्रतीयते बह्ववयवावच्छेदेनेन्द्रियसन्निकर्षे महच्छुक्लरूपं तदुभयानुस्यूतं शुक्लसामान्यं च प्रतीयत इति तादृशप्रतीत्यन्यथानुपपत्त्याऽनवच्छिन्नशुक्लसामान्यावच्छिन्नशुक्लविशेषाणामप्येकत्र द्रव्ये स्वीकार आवश्यकः, एवं केवलपीतादिस्थलेऽपीत्याह-केवलशक्लेऽपि चेति। तदनुशकम् ' इति स्थाने 'तदनुषक्तम् ' इति पाठो युक्तः, तस्य तदनुस्यूतमित्यर्थः । 'शुक्लसामान्यं च' इत्यनन्तरं 'प्रतीयते' इत्यनुषज्यते । उपसंहरति-इतीति-एतस्मात् कारणादित्यर्थः, एकाऽनेकवर्णविशिष्टद्रव्यपरिणामो यदि स्वसामग्रीप्रभव उपेयते तदैवैकस्यापि द्रव्यस्य तत्तद्वर्णविशिष्टत्वेन प्रत्यक्षं तत्तत् प्रत्यक्षसामग्रीबलादुपपद्यते नान्यथेत्यतस्तथाऽभ्युपगम एव ज्यायानित्याशयः । एतेन ' इत्यस्य 'निरस्तम् ' इत्यनेनान्वयः। एतेन अनेकवर्णविशिष्ट Page #109 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । वृत्तिद्रव्यसमवेतप्रत्यक्षत्वावच्छिन्नं प्रति चक्षुःसंयोगकावच्छेदकावच्छिन्नसमवायसम्बन्धावच्छिन्नाधारतासन्निकर्षेण संयोगादिप्रत्यक्षस्थले क्लप्तेनैवानतिप्रसङ्गात् , नील-पीतोभयकपालारब्धघटीयनीले च नीलकपालिकैव परम्परयाऽवच्छेदिकेत्यभ्युपगमाद्, इत्यादि निस्तरम् , शाखा-मूलोभयावच्छिन्नदीर्घतन्तु. तरुसंयोगवत् नील( नीले )तरोभयाद्यवयवावच्छिन्नविलक्षणरूपस्यानुभवसिद्धत्वेन तद्ब्राहकोभयादिपर्याप्तावच्छेदकताकाधिकरणतागर्भसन्निकर्षादिकल्पनाया अप्यावश्यकत्वात् , उपदर्शितसंयोगस्थलेऽपि एकैकावच्छिन्नसंयोगद्वयस्वीकारे च तद्वत्तिकृता सर्वैश्च नीलैरारब्धेऽवयविनि नीलात् नीलं स्वस्वावच्छेदेन समुत्पद्यमानं रूपमविरोधाद् व्यापकमेवोत्पद्यते, सजातीय-विजातीयेषु नानापदार्थेषु जायमानं समूहालम्बनमिवैकं ज्ञानमिति, तत्सर्व विलूनशीणं स्यात् , यथादर्शनमंश-कार्तयाभ्यां नानकसंयोगरूपाद्रव्यपरिणामाभ्युपगमस्योक्तदिशाऽवश्यकत्वेन । ननु व्याप्यवृत्तिनील प्रत्यक्षं प्रत्यनवच्छिन्न एव चक्षुस्संयोगः कारणम् , अव्याप्यवृत्तिनील प्रत्यक्षं प्रति तत्तदवच्छेदकावच्छिन्नचक्षुस्संयोग: कारणमित्येवं ग्राहकान्तरकल्पनमावश्यक मेवेत्यत आहअध्याप्यवृत्तीति- अव्याप्यवृत्तीनां संयोगविभागादीनां यत् प्रतिनियतावच्छेदकावच्छेदेन प्रत्यक्षं तत्र यदि तत्संयोगप्रत्यक्ष प्रति तत्संयोगावच्छेदकावच्छिन्नचक्षुःसंयोगस्य कारणत्वम् , एतत्संयोगप्रत्यक्ष प्रत्येतत्संयोगावच्छेदकावच्छिन्नचक्षुस्संयोगस्य कारणत्वम् , एवं विभागादिप्रत्यक्ष प्रतीत्येवं कार्यकारणभावाभ्युपगमे व्यक्तिभेदेनाऽनन्तकार्यकारणभावकल्पनं स्यात् तद्भयादव्याप्यवृत्तिद्रव्यसमवेतप्रत्यक्षत्वं यत् संयोगविभागादिप्रत्यक्षसाधारणं तदवच्छिन्नं प्रति चक्षुस्संयोगस्य तत्तदव्याप्यवृत्तिद्रव्यसमवेतावच्छेदकावच्छिन्नसमवायसम्बन्धावच्छिन्नाधारतासन्निकर्षेण हेतुत्वम्, तेन यदवयवावच्छिन्नसमवायसम्बन्धावच्छिन्नाधारतासन्निकर्षेण चक्षुस्संयोगस्तदवयवावच्छेदेनाव्याप्यवृत्तिद्रव्यसमवेतस्य संयोगादेः प्रत्यक्षं भवतीत्येकेनैव कार्यकारणभावेन यथा संयोगादिप्रत्यक्षाणामुपपत्तिस्तथाऽव्याप्यवृत्तिनीलादिप्रत्यक्षमप्यव्याप्यवृत्तिद्रव्यसमवेतप्रत्यक्ष भवतीति तस्यापि निरुक्तप्रत्यक्षत्वलक्षणकार्यतावच्छेदकाक्रान्तत्वेन तेनैव निर्वाहो यदवच्छेदेनाव्याप्यवृत्तिनीलादि तदवच्छेदेन चक्षुस्संयोगस्य समवायसम्बन्धावच्छिन्नाधारतासन्निकर्षत एव तत्प्रत्यक्षम् , नान्यावयवावच्छिनचक्षुस्संयोगत इत्येवमनतिप्रसङ्गादित्यर्थः । 'चक्षुस्संयोगकावच्छेदक' इति स्थाने 'चक्षुस्संयोगस्यकावच्छेदक' इति पाठो युक्तः, संयोगादिप्रत्यक्षस्थले अव्याप्यवृत्तिद्रव्यसमवेत प्रत्यक्षत्वावच्छिन्न प्रति चक्षुस्संयोगस्य क्लप्तेनैवैकावच्छेदकावच्छिन्नसम्बायसम्बन्धावच्छिन्नाधारतासन्निकर्षेणाऽनतिप्रसङ्गादित्यन्वयः । यत्र नील-पीतोभयरूपवदेवैकं कपालमपरमपि कपालं तथा, ताभ्यामारब्धे घटे यदव्याप्य वृत्तिनीलरूपं तस्य कपालं नावच्छेदकं कपाले नीलरूपवत् पीतरूपस्यापि सत्त्वेन पीतकपालावच्छेदेन चक्षुस्सन्निकर्षेऽपि घटीयाव्याप्यवृत्तिनीलरूपप्रत्यक्षं प्रसज्येतेत्यत आह-नील-पीतोभयकपालारब्धेति-नील-पीतोभयरूपवत्कपालारब्धेत्यर्थः, तेन नीलकपाल-पीतकपालोभयारब्धघटीयनीलरूपप्रत्यक्षस्य नीलकपालावच्छेदेन चक्षुस्सन्निकर्षात् संभवेन नीलकपालिकायास्तत्रावच्छेदकत्वाकल्पनेऽपि न क्षतिः । 'नील कपालिकैव' इत्येवकारेण कपालस्यावच्छेदकत्वव्यवच्छेदः। परम्परयेति-नीलकपालिका कपालनीलस्यावच्छेदिकेति तजन्य घटनीलस्याप्यवच्छेदिकेत्यर्थः। एतेन' इत्यतिदिष्टनिरासहेत्वन्तरमुपदर्शयति-शाखेति- शाखामूलोभयावच्छिन्नो यो दीर्घतन्तुना सह तरोः संयोगस्तस्येव नील. नीलतरोभयाद्यवयवावच्छिन्नं विलक्षणं रूपं तस्यानुभवसिद्धत्वेन तथाभूतविलक्षणरूपग्राहकस्य नील-नीलतरावयवद्वयादिपर्याप्ता याऽवच्छेदकता तन्निरूपिताधिकरणतागर्भसन्निकर्षादे. कल्पनाया अप्यावश्यकत्वादित्यर्थः । यदि च शाखा-मूलोभयावच्छिन्नदीर्घतन्तुतरुसंयोगस्थले शाखावच्छिन्नतन्तुतरुसंयोगोऽन्यस्तदन्यश्च मूलावच्छिन्नतन्तुतरुसंयोगश्चान्य इत्येवं संयोगद्वयम् , तर्हि नीलैरारब्धेऽवयविन्यपि तत्तदवयवावच्छिन्नानि नानैव नीलानीति तत्र समूहालम्बनेकज्ञानदृष्टान्तेन तत्तदवयबनीलैः स्वस्वाश्रयावयवावच्छेदेन जायमाननीलं व्यापकमेकमेवेत्यभ्युपगमनमपि परस्य विलीनं स्यादित्याह- उपदर्शितसंयोगस्थलेऽपीति । तदवृत्तिकृता' इति स्थाने 'तद्वन्नानानीलस्वीकृतौ यत् ' इति पाठः 'समुत्पद्यमान रूपमविरोधाद' इति स्थाने 'समुत्पद्यमानमविरोधाद्' इति पाठश्च युक्तः, समूहालम्बनज्ञानमप्येकं न भवेत् तत्रापि विषयभेदेन भिन्नमेव भवेदिति दृष्टान्तस्याप्यसङ्गतत्वं स्यादित्याशयः। यदि चोपदर्शितसंयोगस्थले शाखावच्छिन्नसंयोगो मूलाव. च्छिन्नसंयोगशाखा-मूलोभयावच्छिन्नसंयोग इत्येवं संयोगत्रयम् , तर्हि तद्वदेव प्रत्येकावयवावच्छेदेन विभिन्न नीलम्, सम्पूर्णे चैकं नीलमित्यपि स्याद्, एवं च स्याद्वादिनामेव जय इत्याह- यथादर्शनमिति- प्रतीत्यनुसारेणेत्यर्थः । Page #110 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । भ्युपगमे च जितं स्याद्वादिनैव; एतेन ' नानारूपवदवयवारब्धे व्याप्यवृत्तीन्येव नील-पीतादीन्युत्पद्यन्ते, नीलादिकं प्रति नीलेतरादिप्रतिबन्धकत्व नीलादिकारणत्वकल्पनापेक्षया व्याप्यवृत्तिनीलपीतादिकल्पनाया एव न्याय्यत्वात् , इत्यपि परेषां मतं निरस्तम् , नीलकपालावच्छेदेन चक्षुःसन्निकर्षे पीताशुपलम्भापत्तरपि तत्र दोषत्वात् , तदाहुः सम्मतिटीकाकृतः-" आश्रयव्यापित्वेऽप्येकावयवसहितेऽप्यवयविन्युपलभ्यमानेऽपरावयवानुपलब्धावप्यनेकरूपप्रतिपत्तिः स्यात् सर्वरूपाणामाश्रयव्यापित्वाद्" इति । न च नीलाद्यवयवावच्छिन्नसन्निकर्षस्य नीलादिग्राहकत्वकल्पनया न दोषः, पीतकपालिकावच्छिन्ननील-पीतोभयकपालावच्छेदेन सन्निकर्षेऽपि नीलग्रहप्रसङ्गात्, न च केवलनीलावयवावच्छिन्नसन्निकर्ष एव ग्राहक इति वाच्यम् , नील-पीतोभयड्यणुकारब्धत्रसरेणुनीलाप्रत्यक्षापत्तेः, परमाणुसन्निकर्षस्येव परमाण्ववच्छिन्नसन्निकर्षस्यापि द्रव्याग्राहकत्वेन तद्गतरूपाग्राहकत्वादिति दिक् ।। तदेवमेकानेकतया रूपस्य चित्रत्वं व्यवस्थापितम् , एवं वस्तुमात्र एव तदुपपादनीयम् । यथा च ग्राह्ये एकानेकतया चित्रस्वभावत्वमानुभविकं, तथा ग्राहके ज्ञानेऽपि, तत्राखण्डाया एकाकारतायाः 'अंशकार्तयाभ्याम्' इत्यस्य स्थाने 'अंशकात्स्याभ्याम्' इति पाठो युक्तः, 'नानैक' इत्यस्य संयोगे रूपे चान्वयः, तथा च नानकसंयोगाभ्युपगमे नानकरूपाभ्युपगमे चेत्यर्थः । 'पतेन इत्यस्य 'निरस्तम्' इत्यनेनान्वयः । 'व्याप्यवृत्तीन्येव ' इत्येवकारेणाव्याप्यवृत्तिनीलाद्युत्पत्तिव्यवच्छेदः । लाघवादित्थमुपगम इत्याह-नीलादिकं प्रतीति । निरासे हेत्वन्तरमाह-नीलकपालावच्छेदेनेति । तत्र व्याप्यवृत्तिनीलाद्युपगमपक्षे । उक्तार्थे सम्मतिटीकाकृदचनसंवादमाह- तदाहुरिति । तद्वचनमुल्हिखति-माश्रयव्यापित्वेऽपीति-नीलादेराश्रयव्यापित्वाभ्युपगमेऽपीत्यर्थः । अपरावयवोपलब्धाननेकरूपप्रतिपत्तिर्भवत्येवेत्यत उक्तम् अपरावयवानुपलब्धावपीति । उक्ता. पत्तिपरिहारमाशङ्कय प्रतिक्षिपति-न चेति-नीलावयवावच्छिन्नेन्द्रियसन्निकर्षो नीलप्रत्यक्षं प्रति कारणम् , एवं पीतावयवावच्छिन्नेन्द्रियसन्निकर्षः पीतप्रत्यक्ष प्रति कारणमिति यदवयवस्य नोपलब्धिस्तदवयवावच्छिन्नेन्द्रियसन्निवर्षोऽपि नास्तीति तदवयवावच्छेदन विद्यमानस्यावयविनि नीलादेन प्रहणमिति नापरावयवानुपलब्धावप्यनेकरूपप्रतिपत्तिरिति शङ्कितुरभिप्रायः। निषेधे हेतुमाह-पीतक.पालिकेति- यत्र नील-पीतोभयरूपवत् प्रत्येक कपालद्वयं तदारब्धे घटे नीलरूपं परम्परया नीलकपालिकावच्छेदेन, पीतरूपं परम्परया पातकपालिकावच्छेदैन, तत्र यदा न नीलकपालिकावच्छिन्ननील-पीतोभयरूपवत्कपालावच्छेदेनेन्द्रियसन्निकर्षस्तदानीं घटगतनीलरूपस्य प्रत्यक्षं न भवति, तदपीदानीमुक्तकार्यकारणभावबलात् स्यात् , पीतकपालिकावच्छिन्ननील-पीतोभयरूपवत्कपालावच्छेदेनेन्द्रियसन्निकर्षस्यापि नीलावयवावच्छिन्नसन्निकर्षत्वेन नीलरूपप्रत्यक्षकारणस्य तत्र सत्त्वादित्यर्थः। ननु केवलनीलावयवावच्छिन्नेन्द्रि सन्निकर्षों नीलप्रत्यक्ष प्रति कारणम् , एवं केवलपीतावयवावच्छिन्नन्द्रियसन्निकर्षः पीतप्रत्यक्ष प्रति कारणमित्येवंदिशा कार्यकारणभावाभ्युपगमे पीतकपालिकावच्छिन्ननीलपीतोभयवत्कपालस्य केवलनीलत्वाभावेन तदवच्छेदेनेन्द्रियसन्निकर्षस्य निरुक्तकारणतावच्छेदकधर्मानाक्रान्तत्वान्न ततो घटनीलरूपप्रत्यक्षापत्तिरित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य वाच्यम्' इत्यनेनान्वयः । निषेधे हेतुमाह-नील-पीतोभयद्वषणुकेतिनील पीतोभयरूपवढ्यणुकेत्यर्थः । ननु व्यणुकस्य नील-पीतोभयवत्तया केवल नीलत्वस्याभावेऽपि परमाणोः केवलनीलत्वं समस्तीति केवल नीलपरमाणुरपि परम्परया त्रसरेणुनीलस्यावच्छेदक इति तदवच्छेदेन चक्षुस्सन्निकर्षात् त्रसरेणुनीलप्रत्यक्ष भविष्यतीत्यत आह- परमाणुसन्निकर्षस्येवेति-परमाणुना सहेन्द्रियसन्निकर्षस्य द्रव्याग्राहकत्वेन यथा न द्रव्यगतरूपग्राहकत्वं तथैव परमाण्ववच्छिन्नेन्द्रियसन्निकर्षस्यापि द्रव्याग्राहकत्वेन द्रव्यगतरूपाग्राहकतया न नीलपरमाण्ववच्छिन्नेन्द्रियसन्निकर्षतस्त्रसरेणुनीलप्रत्यक्षसम्भव इत्यर्थः । यथा चोक्तदिशा रूपस्यैकानेकरूपत्वेन चित्रत्वं तथा वस्तुमात्र एवैकानेकस्वरूपत्वेन चित्रत्वं स्वीकरणीयमित्युपसंहरति-तदेवमिति । तत् चित्रत्वम् । उक्तदिशा विषयस्यैका-ऽनेकत्वेन चित्रत्वे सिद्धे तद्ग्राहकस्य ज्ञानस्याप्येका-ऽनेकाकारस्वभावत्वेन चित्रत्वं स्वीकरणीयमित्याह-यथा चेति ग्राहकज्ञाने चित्रस्वभावत्वं भावयति-तत्रेतिज्ञाने इत्यर्थः । अखण्डाया इति-सर्व ज्ञान स्वरूपत एकाकारमेवेति ज्ञाने एकाकारताऽखण्डेत्याशयः, 'एकाकारतायाः' इत्यस्य 'अनुभवाद्' इत्यनेनान्वयः, विशेषणे विषयता प्रकारतापदवाच्या. विशेष्ये विषयता विशेष्यतापदवाच्या विशेषण Page #111 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । सखण्डानां च नानाप्रकारता-विशेष्यता-सांसर्गिकविषयतानां परनिरूपितानां शुद्धानां चानुलोमप्रतिलोमभावेन समानसंविसंवेद्यतानियामकवैचित्र्यशालिनीनां च बहवीनामनुभावात् , अत एव" सावजजोगविरओ तिग्गुत्तो छसु संजओ। उवउत्तो जयमाणो आया सामाइयं होइ" ॥ ]त्ति । सप्तनयात्मकमहावाक्यार्थजज्ञाने एकाविशिष्टा प्रमाणाकारता, अनेकाश्चांशिक्यो नयविषयताः परस्परसंयोगजाश्च बढ्योऽनुभूयन्ते । नैयायिका स्तु-विशेष्ये विशेषणं तत्र च विशेषणान्तरम् १, विशिष्टस्य वैशिष्ट्यम् २, एकविशिष्टेऽपरवैशिष्ट्यम् ३, एकत्र द्वयम् ४ इत्येवं चतुर्धा विशिष्टवैशिष्ट्यबुद्धिः, तत्र मध्यमद्वये विशेषण-विशेष्यताविशेष्ययोः सम्बन्धे विषयता संसर्गतापदवाच्या, प्रकारत्वादिकं प्रकारतादिनिरूपितावच्छेकत्वाख्यविषयताया अप्युपलक्षणम् , प्रकारता-विशेष्यत्व-संसर्गत्वानां परस्परनिरूपकभावाङ्गीकारात् परनिरूपितत्वं यद्यप्यस्ति तथापि यत्र यत्र निरूपितत्वं तत्र तत्र स्वनिरूपितत्वं न भवत्येव किन्तु, परनिरूपितत्वमेवेत्यव्यावर्तकत्वात् 'पर' इति नोपादेयमेव स्यात्, परस्परनिरूपितानामिति तु स्यादपि, यतो निरूपितत्वमेकस्य निरूपकत्वमपरस्य निरूप्यत्वमिति कृत्वाऽपि भवति, तत्र यदपेक्षया निरूपितत्वं यस्य तदपेक्षया निरूपकत्वमपि तस्येति निरूपितत्वमात्रोक्त्या न लभ्यते परस्परनिरूपितानामित्युक्तया च लभ्यत इति, तथापि शुद्धानां चेत्यत्रापि चकारान्नानाप्रकारता-विशेष्यता सांसर्गिकविषयतानामेवानुकर्षः स्यात्, न च तासां शुद्धत्वं परस्परनिरूप्यनिरूपकभावरहितत्वरूपं सम्भवति, परस्परनिरूपितानामित्यनन्तरमुक्तस्य शुद्धानामित्यस्य परस्परनिरूपितत्वविरोधिस्वरूपस्यैव शुद्धत्वस्यार्थत्वं भवितुमर्हतीत्यन्यादृशस्य शुद्धत्वस्य वक्तुमशक्यत्वमेव, ततः परनिरूपितानामित्येव पाठो युक्तः, 'परनिरूपितानाम्' इत्यनेन पारतन्त्रीयाणां प्रकारतादीनां ग्रहणम् , यथा तद्धर्मविशिष्टे भासमानं सत् तत्रापि सामानाधिकरण्येन भासत इति नियमात् पर्वतत्वविशिष्टे भासमानो वह्निः पर्वतत्वेऽपि सामानाधिकरण्येन भासत इति पारतन्त्रीया या वह्निनिष्टप्रकारता पर्वतत्वनिष्टविशेष्यता सामानाधिकरण्यनिष्ठसांसर्गिकविषयता सा सर्वा पर्वते वह्निभानप्रयुक्त पर्वतत्वे वह्निमानसापेक्षत्वात् परनिरूपिता, स्वातन्त्रीया तु या प्रकारतादिका विषयता सा निरुक्तसापेक्षत्वाभावाच्छुद्धेति । अनुलोमेति- अनुलोम-प्रतिलोमभावेन या समानसंवेद्यता तन्नियामकं यद् वैचित्र्यं तच्छालिनीनामित्यर्थः, तत्रानुलोमभावेन समानसंवेद्यत्वम् , यथा वह्नित्वविशिष्टस्य पर्वते भाने वह्नित्वस्यापि तत्र स्वाश्रयसंयोगेन भानमित्येवं वह्निवैशिष्ट्यवह्नित्ववैशिष्ट्ययोः समानसंवित्सवेद्यत्वम् , प्रतिलोमभावेन समानसंवेद्यत्वम् , यथा-पर्वते संयोगेन वह्निः प्रकारतया भासत इति वावपि पर्वतः संयोगसम्बन्धावच्छिन्नाधेयतासम्बन्धेन भासते. एवं वहित्वं स्वाश्रयसंयोगसम्बन्धन पर्वते भासत इति वह्नित्वेऽपि पर्वतः स्वाश्रयसंयोगसम्बन्धावच्छिन्नाधेयत्वसम्बन्धेन भासते, एवं वह्निः पर्वतत्वे सामानाधिकरण्यसम्बन्धेन भासत इति सामानाधिकरण्यसम्बन्धावच्छिन्नाधेयतासम्बन्धेन पर्वतत्वं वह्नौ भासत इत्येवं प्रतिलोमभावेन समानसंवित्संवेद्यत्वम् , तन्नियामकं यत् स्वातन्त्र्य-पारतन्त्र्यलक्षणवैचित्र्यम् , तच्छालिनं नां बह्वीनां विषयतानामनुभवाज्ज्ञानेऽपि चित्रस्वभावत्वमित्यर्थः। अत एव ज्ञाने एकाकारताया अनेकविषयत्वानां च भावतश्चित्रस्वभावत्वस्यानुभवसिद्धत्वादेव । सावज इति- “ सावद्ययोगविरतस्त्रिगुप्तः षदसु संयतः। उपयुक्तो यतमान आत्मा सामायिकं भवति"॥ इति संस्कृतम् । इति एवंस्वरूपसप्तनयात्मकमहावाक्यार्थजज्ञाने, एका अविशिष्टा अखण्डस्वरूपा प्रमाणाकारता अनेकाश्चांशिक्योंऽशेषु वर्तमाना नयविषयताः, परस्परसंयोगजाश्च नयद्वय-नयत्रयादिसंयोगजाश्च बह्वयो विषयता अनुभूयन्त इत्यर्थः । प्रसङ्गाद् विशिष्टवैशिष्ट्यबोधविचारमधिकृत्य तत्र नैयायिकानां मतमुपदर्शयति-नैयायिकास्त्विति । तत्र निरुकेषु विशिष्टवैशिष्ट्यबोधस्य चतुष्प्रकारेषु मध्ये । मध्यमद्वये विशिष्टस्य वैशिष्ट्यमित्येवं विशिष्टवैशिष्ट्यबोधे एकविशिष्टेऽपरस्य वैशिष्ट्यमित्येवं विशिष्टवैशिष्टयबोधे च । विशेषणेति- विशिष्टस्य वैशिष्ट्यमित्येवं विशिष्टवैशिष्टयबोधे विशेषणतावच्छेदकप्रकारकनिश्चयत्वेन हेतुत्वम् , एकविशिष्टेऽपरवैशिष्ट्यमित्येवं विशिष्टवैशिष्ट्यबोधे विशेष्यतावच्छेदकप्रकारकनिश्चयत्वेन हेतुत्वमित्यर्थः । इतरद्वये तु विशेष्ये विशेषणं तत्र च विशेषणान्तरमित्येवं विशिष्टवैशिष्ट्यबोधे, एकत्र द्वयमित्येवं विशिष्टवैशिष्ट्यबोधे पुनः । विशेषणेति एकत्र द्वयमित्येवं विशिष्टवैशिष्ट्यबुद्धपक्षे किं कार्यतावच्छेदकं किं च तत्कारणमिति विचारोऽग्रे उपदर्शयिष्यते, इदानीं विशेष्ये विशेषण तत्र च विशेषणान्तरमित्येवं विशिष्टवैशिष्टयबुद्धिपक्षे कारणं कार्यतावच्छेदकं चावेदयति, विशेषण ज्ञानमसंसर्गाग्रहश्च तत्र कारणम्, तयोः कार्यतावच्छेदकं विशेष्ये विशेषणमिति रीत्या Page #112 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । वच्छेदकप्रकारकनिश्चयत्वाभ्यां हेतुता, इतरद्वये तु विशेषणज्ञानाऽसंसर्गग्रहयोर्विशेष्ये विशेषणमितिरीत्या बुद्धित्वं रक्तत्वाद्यवच्छिन्नप्रकारतानिरूपितदण्डत्वाद्यवच्छिन्नप्रकारताकबुद्धित्वम् , तेन 'दण्डो रक्तो दण्डवान् पुरुषः' इति समूहालम्बने नातिप्रसङ्गः, तत्र दण्डत्वावच्छिन्नप्रकारताया रक्तत्वावच्छिन्नप्रकारताऽनिरूपितत्वात् न च विशिष्ट वैशिष्ट्य विषयतास्वीकारे 'रक्तदण्डवान्' इत्यत्र 'विशेष्ये विशेषणम्' इति विषयतायां ' दण्डो रक्तो दण्डवान् पुरुषः' इतिसमूहालम्बनव्यावृत्तायां मानाभावः, रक्तरूप दण्डत्वो. बुद्धित्वम् । 'विशेषणशानासंसर्गग्रहयोः' इत्यस्य स्थाने 'विशेषणज्ञाना संसर्गाग्रहयोः' इति पाठो युक्तः। विशेष्ये विशेषणमिति रीत्या बुद्धित्वं विशेषतः परिष्कृत्य दर्शयति-रक्तत्वाधवच्छिन्नेति-- विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति रीत्या जायमानायां 'रक्तदण्डवान् पुरुषः' इति बुद्धौ पुरुषत्वावच्छिन्नविशेष्यता दण्डत्वावच्छिन्नप्रकारतानिरूपिता, दण्डत्वावच्छिन्नप्रकारता च रक्तत्वावच्छिन्नप्रकारतानिरूपितेति रकत्वावच्छिन्नप्रकारतानिरूपितदण्डत्वावच्छिन्नप्रकारताकबुद्धित्वं तत्र वर्तते इति, यद्यपि प्रकारतात्वेन विशेष्यतात्वेनैव च निरूप्यनिरूपकभावो न तु प्रकारतास्वेन निरूप्यनिरूपकभाव इति रक्तत्वावच्छिन्नप्रकारतानिरूपिता दण्डत्वावच्छिन्नविशेष्यतैव स्यात् , न तु दण्डत्वावच्छिन्नप्रकारतेति नोक्तबुद्धित्वं कुत्रापि सङ्गतिमङ्गति, तथापि अनन्तराभासमानसमानाधिकरणकज्ञानीयविषयत्वयोर्गदाधरमतेऽवच्छेद्यावच्छेदकभावो जगदीशमते च तयोरभेद इति तत्र जगदीशमते पुरुषत्वावच्छिन्नविशेष्यतानिरूपिता या दण्डत्वावच्छिन्नप्रकारता, या च रक्तत्वावच्छिन्न प्रकारतानिरूपिता दण्डत्वावच्छिन्नविशेष्यता तयोरक्याद् दण्डत्वावच्छिन्नविशेष्यताया रक्तत्वावच्छिन्नप्रकारतानिरूपितत्वे तदभिन्नाया दण्डत्वावच्छिन्नप्रकारताया अपि रक्तत्वावच्छिन्नप्रकारतानिरूपितत्वमिति भवत्युक्तबुद्धित्वस्य स्त्र सङ्गतिः, यदि च्च रक्तत्वावच्छिन्नप्रकारतानिरूपितत्वस्य दण्डत्वावच्छिन्नप्रकारतायामन्वयेऽन्वयितावच्छेदकस्य दण्डत्वावच्छिन्न प्रकारतात्वस्यैव तन्निरूप्यताया अवच्छेदकत्वं प्रतीयेत न च प्रकारतात्वं प्रकारतानिरूप्यतावच्छेदकं प्रकारत्व-विशेष्यत्वयोरभेदेऽपि विशेष्यतात्वेनैव प्रकारत्वस्य प्रकारतानिरूपितत्वेन विशेध्यतात्वस्यैव प्रकारतानिरूप्यतावच्छेदकत्वादिति विभाव्यते तदा रक्तत्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वाऽभिन्नदण्डत्वावच्छिन्नप्रकारताकबुद्धित्वमेव विशेष्ये विशेषणमिति र त्या बुद्धित्वमिति बोध्यम् । तेन उक्तप्रकारेण विशेष्ये विशेषणमिति रीत्या बुद्धित्वस्य निर्वचनेन, अस्य 'नातिप्रसङ्गः' इत्यनेनान्वयः, यथाश्रुते 'दण्डो रक्को दण्डवान् पुरुषः' इति समूहालम्बनज्ञानेऽपि विशेष्य पुरुषे दण्डो भासते, दण्डे च रत्तत्वं भासत इति तस्यापि । 'विशेष्ये विशेषणम्' इति रीत्या बुद्धित्वं प्रसज्यत इत्यर्थः । तत्र 'दण्डो रक्तो दण्डवान् पुरुषः' इति समूहालम्बन ज्ञाने । दण्डत्वावच्छिन्नप्रकारताया इति- 'रक्तदण्डवान् पुरुषः' इति ज्ञाने यथादण्डः पुरुष प्रकारो दण्डे च रक्तरूपवत्त्वं प्रकार इति दण्डगतप्रकारत्वविशेष्यत्वयोरभेदाद् विशेष्यतात्वेन रूपेण दण्डनिष्ठप्रकारताया रक्तरूपवत्त्वनिष्टप्रकारतानिरूपितत्वमिति रक्तरूपवत्त्वाद्यवच्छिन्न प्रकारतानिरूपितदण्डत्वाद्यवच्छिन्न प्रकारताकबुद्धित्वलक्षणं विशेष्ये विशेषणम्' इति रीत्या बुद्धित्वं समस्ति, न तथा 'दण्डो रक्तो दण्डवान् पुरुषः' इति समूहालम्बनज्ञाने, तदीयदण्डनिष्टप्रकारत्व विशेष्यत्वयोरनन्तराभासमानत्वाभावेनाभेदाभावाद् दण्डनिष्टविशेष्यत्वस्यैव रक्तत्वनिष्टप्रकारतानिरूपितत्वं न तु पुरुषनिष्ठविशेष्यतानिरूपितदण्ड निष्ट प्रकारतायास्तत्त्वमिति नोक्तलक्षणस्य 'विशेष्ये विशेषणम्' इति रीत्या बुद्धित्वस्य तत्र प्रसङ्ग इत्यर्थः । ननु रकत्वविशिष्टदण्डस्य पुरुष यद् वैशिष्ट्यं तद्विषयकत्वेनैव 'रक्तदण्डवान् पुरुषः' इति ज्ञानमनुभूयते, तत्र यदि विशिष्टस्य यद् वैशिष्टयं तद्विषयकत्वं नाभ्युपेयते तदा 'विशेष्ये विशेषणम्' इति रीत्या विषयतायां मानाभावात् तज्ज्ञानस्य समूहालम्बनज्ञानव्यावृत्तविषयताकत्वाभावात् ततोऽवैलक्षण्यप्रसङ्ग इत्याशङ्कय प्रतिक्षिपति न चेति । 'विषयतास्वीकारे' इत्यत्र 'विषयताऽस्वीकारे' इत्याकारप्रश्लेषः । रक्तरूपविशिष्टदण्डस्य वैशिष्टयावगाहिनि 'रक्तदण्डवान् पुरुषः' इति ज्ञाने रक्तरूपदण्डत्वोभयावच्छिन्नदण्डनिष्ठप्रकारतानिरूपितपुरुषनिष्टविशेष्यताकत्वमनुभूयते, पुरुषे दण्डो दण्डे च रक्तत्वमित्येवं 'विशेष्ये विशेषणं तत्र च विशेषणान्तरम्' इति रीत्या जायमाने 'रक्तदण्डवान् पुरुषः' इति ज्ञाने तु रक्तत्वावच्छिन्नप्रकारतानिरूपित. शुद्धदण्डत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकत्वमनुभूयते, न च तादृश विशेष्यताकत्वं समूहालम्बने इत्येवमनुभवलक्षण्यस्यैवात्र प्रमाणस्य सद्भावादिति निषेधहेतुमुपदर्शयति-रक्तरूपेति । तथा च रक्तत्वविशिष्टदण्डस्य पुरुष वैशिष्ट्यभाने पुरुषनिष्ठविशेष्यतानिरूपिता या दण्डनिष्ठप्रकारता सा रक्तत्वावच्छिन्नप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यस्वाभिन्ना दण्डत्वनिष्ठप्रकारतानिरूपित-निरवच्छिन्नदण्डनिष्टविशेष्यत्वाभिन्ना रक्तत्व-दण्डत्वोभयनिष्टावच्छेदकतानिरूपिता च भवति, विशेष्ये विशेषणम् ' इति रीत्या जायमाने तु यद्यपि दण्डनिष्ठप्रकारता निरुक्तविशेष्यताद्वयाभिन्ना तथापि सा Page #113 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तर्रा रङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । भयावच्छिन्नदण्ड निष्ठप्रकारताभिन्नाया रक्तरूपत्वावच्छिन्नप्रकारतानिरूपितशुद्धदण्डत्वावच्छिन्नप्रकारताया आनुभविकत्वात् । किञ्च, 'रक्तदण्डवान्' इत्यादिवाक्यादयुगपदुपस्थितस्त्रघटका खिलपदार्थाज्जायमानाया अनन्वितान्वयबुद्धेः ' रक्तो दण्डो दण्डवान् पुरुषः ' इति वाक्यजसमूहालम्बनावैलक्षण्ये ' रक्तदण्डाभाववान् ' इत्यादिबाधधीकालेऽप्युत्पत्त्यापत्तिरिति तत्प्रतिबध्यतावच्छेदकतयैव तत्सिद्धिः, उक्तबाधधियो रक्तरूपत्वावच्छिन्नप्रकारतानिरूपित शुद्धदण्डत्वावच्छिन्नप्रकारतानिरूपित पुरुषत्वावच्छिन्न विशेष्यताकधियैव प्रतिबध्यत्वात्, विशिष्टवैशिष्ट्यविषयताया बाधप्रतिबध्यतावच्छेदकत्वे उक्तस्थल एव अनुपपत्तेः । अपि केवलदण्डत्वावच्छिन्नैव न तु रक्तरूपावच्छिन्न ऽपि उपलक्षणधर्मस्य प्रकारत्वमेव स्वीक्रियते, 'विशेष्ये विशेषणं तत्र च विशेषणान्तरम्' इति ज्ञाने च विशेषणान्तरस्योपलक्षणत्वमेवेत्येवं विशिष्टवैशिष्ट्या वगाहिज्ञानीय प्रकार तालक्षणविषयतातो ' विशेष्ये विशेषणम्' इति ज्ञानीयप्रकार तालक्षणविषयताया भेदः, समूहालम्बने तु पुरुषनिष्ठविशेष्यतानिरूपितदण्ड निष्टप्रकारता रक्तरूपावच्छिन्नप्रकार तानिरूपिताऽपि न भवतीति तस्या निरुक्तज्ञानद्वय निरूपितप्रकारताभ्यामत्यन्तमेव वैलक्षण्यम्, तादृशी च प्रकारताऽनुभूयमाना नापलपितुं शक्येत्यावेदनाय 'आनुभविकत्वाद्' इत्युक्तमिति । अपि च 66 यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते । तेन तेनान्वितः स्वार्थः पदैरेवावगम्यते " ॥ १ ॥ [ ] इति वचनात् खण्डवाक्यार्थबोधानन्तरं महावाक्यार्थबोध इत्येकेषां मतम्, तन्मते प्रथमं 'रक्तो दण्डः इत्यकारको बोधः, तद्रूपविशेषणतावच्छेदकप्रकारज्ञानबलात् तदनन्तरं जायमाने 'रक्तदण्डवान् पुरुषः' इति ज्ञाने रक्तत्वविशिष्टदण्डस्य वैशिष्टयं पुरुषे भासत इति युज्यते पुरुषनिष्टविशेष्यतानिरूपितदण्डनिष्टप्रकारतायां रक्तत्व दण्डत्वो भयावच्छिन्नत्वम् । यदा तु " वृद्धा युवानः शिशवः कपोताः खले यथाऽमी युगपत् पतन्ति । तथैव सर्वे युगपत् पदार्थाः परस्परेणान्वयिनो भवन्ति " 11911 [ ] इति वचनात् ' रक्तदण्डवान् पुरुषः' इति वाक्याद् युगपदुपस्थितस्व घटका खिलपदार्थांज्जायते ' रक्तदण्डवान् पुरुषः' इति शाब्दबोध इति मतमाश्रीयते तन्मते न खण्डवाक्यार्थबोधानन्तरं महावाक्यार्थबोधः, किन्तु प्रथमत एव महावाक्यार्थबोध आविरस्ति तदा विशिष्टवैशिष्ट्यावगाहिबोधकारणस्य विशेषणतावच्छेदकप्रकारकनिश्चयस्य पूर्वमभावात् तस्मिन् बोधे रक्तत्वविशिष्टदण्डस्य वैशिष्टयं पुरुषे न भासते, किन्तु उपस्थित्यात्मकविशेषण ज्ञानरूपकारणबलाद् 'विशेष्ये विशेषणम्' इति रीत्यैव बुद्धिरुपजायते, तस्यां च दण्डत्वावच्छिन्नप्रकारता रक्तरूपत्वावच्छिन्नप्रकारतानिरूपिता भवति, न तु रच रूपत्वावच्छिन्नावच्छेदकता निरूपिता, तस्याश्च बुद्धे रक्तरूपत्वावच्छिन्नप्रकारतानिरूपितशुद्धदण्डत्वावच्छिन्न प्रकारता निरूपित पुरुषत्वावच्छिन्न विशेष्यताक बुद्धित्वरूपस्य 'रक्तदण्डाभाववान् पुरुषः इत्यादिबाधनिश्चयप्रतिबध्यतावच्छेदकधर्मस्यास्पदत्वेन निरुक्तबाधकालेऽनुत्पत्तिर्निर्वहति, यदि चोत्तबुद्धेः 'रक्तो दण्डो दण्डवान् पुरुष:' इति वाक्यजन्यसमूहालम्बनबुद्धितो वैलक्षण्यं न भवेत् न तदा निरुक्तबाधबुद्धिप्रतिबध्यतावच्छेदको क्तधर्माक्रान्ततेत्युक्तबाधबुद्धिकालेऽप्युत्पत्तिरापद्येत, अत एव चोक्तबाधबुद्धेर्न रक्तरूप दण्डत्वोभयावच्छिन्नदण्ड निष्टप्रकार तानिरूपितपुरुषत्वावच्छिन्नविशेष्यता कबुद्धित्वं विशिष्टवैशिष्टयबोधमात्रगतं प्रतिबध्यतावच्छेदकमित्याह- किश्चेति । ' वाक्यादयुगपदुपस्थिता' इति स्थाने ' वाक्याद् युगपदुपस्थिता ' इति पाठो युक्तः । अनन्वितान्वयबुद्धेरिति - पूर्वमनन्विततयोपस्थितानां पदार्थानामन्वयबुद्धेरित्यर्थः, एतेन विशिष्टवैशिष्ट्यबोधकारणस्य विशेषणतावच्छेदकप्रकारकनिश्चयस्य पूर्वमभावान्नास्या विशिष्ट वैशिष्टयबुद्धित्वमित्या वेदितम् अस्या: समूहालम्बनावैलक्षण्ये ' इत्यत्र 'उत्पत्त्यापत्तिः ' इत्यत्र चान्वयः । तत्प्रतिबध्यतावच्छेदकतयैव ' रक्तदण्ड | भाववान्' इत्यादिबाधधी प्रतिबध्यतावच्छेकतयैव । तत्सिद्धिः रक्तत्वावच्छिन्न प्रकारतानिरूपितशुद्ध दण्डत्वावच्छिन्न दण्डनिष्ठप्रकारतायाः सिद्धिः, तथातत्सिद्धिमेव भावयति उक्तबाधधिय इति - ' रक्तदण्डाभाववान्' इत्यादिवाधधिय इत्यर्थः अस्य ' प्रतिबध्यत्वाद्' इत्यनेनान्वयः अस्य प्रतिबध्य प्रतिबन्धकभावादित्यर्थः । 'धियैव' इत्यस्य धिया सहैवेत्यर्थः, 'प्रतिबध्यत्वाद् इत्यस्य यथाश्रुतार्थपरत्वे तु ' धियैव ' इति स्थाने ‘ धीत्वेनैव ' इति पाठो युक्तः । विशिष्टवैशिष्ट्यविषयतायाः रक्तरूप दण्डत्वोभयावच्छिन्न दण्डनिष्ठप्रकारतानिरूपित पुरुषत्वावच्छिन्न विशेष्यतायाः । उक्तस्थल एव ' रक्तदण्डवान्' इत्यादिवाक्याद्युगपदुपस्थितस्व घटका खिलपदार्थाजायमानायां ' विशेष्ये विशेषणम्' इत्यादिरीत्या बुद्धावेव । अनुपपत्ते ' रक्तदण्डाभाववान्' इत्यादिबाधबुद्धिप्रतिबध्यत्वानुपपत्तेः । यदि च प्रथमं विशेष्ये विशेषणम्' इति रीत्योक्तवाक्यादन्वयबोधः ' अनन्तरं विशिष्टवैशिष्ट्या वगाहिमानसबोध उपजायते, तद्विषयताया रक्तरूपत्वावच्छिन्नप्रकार तानिरूपित शुद्धदण्डत्वावच्छिन्नप्रकार तानिरूपित पुरुषत्वावच्छिन्न ८० f Page #114 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । च विशकलितज्ञानाद् व्यापकविषयताशालिमानसस्वीकारेण तत्साधारण्येनैव प्रतिबध्यत्वं युक्तिमत् । अथैवं ' दण्डो रक्तो नवा ?' इति संशयकाले उक्तवाक्याद् ( विशेष्ये विशेषणम् ' इति रीत्याऽन्वयबोधापत्तिरिति चेत् ? न - प्रथम मिष्टत्वात्, अनन्तरं च ' विशिष्टस्य वैशिष्ट्यम्' इति रीत्याऽन्वयधियः सम्भवात् तदनुभवोऽप्यविरुद्धः, प्रात्यक्षिकी बुद्धिरप्युक्तसंशयकाले रक्तत्वांशे संशयाकारा इष्टैव । यत् तु' घट-पटत्वादिनिर्विकल्पोत्तरं 'घटवद्' इत्यादिधीः ' विशेष्ये विशेषणम्' इति रीत्या जायते, इति, विशेष्यतात्वाभावेन निरुक्तप्रतिबध्यतावच्छेदकत्वाभावान्न तादृशमानसस्योक्तबाधबुद्धिप्रतिबध्यत्वं स्यादिति निरुक्तबाधधीकालेऽपि तादृशमानस बुद्धयापत्तिरिति विभाव्यते, तदोक्त प्रतिबध्यतावच्छेदकप्रविष्टशुद्धदण्डत्वावच्छिन्न प्रकारतास्थाने दण्डत्वावच्छिन्नप्रकारतेत्येव वाच्यम्, दण्डत्व- रक्तरूपोभयावच्छिन्न प्रकारताऽपि दण्डत्वावच्छिन्नप्रकारता भवत्येव, अवच्छेदकीभूतस्यापि रक्तत्वस्य प्रकारत्वं भवत्येवेति तस्यां रक्तरूपत्वावच्छिन्नप्रकारतानिरूपितत्वमपीत्येकेनैव तेन रूपेण 'विशेष्ये विशेषणम् ' इति रीत्या ज्ञानस्य विशिष्टवैशिष्टयावगाहिनश्वोक्त बाधबुद्धिप्रतिबध्यत्वं सुसङ्गतमेवेत्याशयेनाह - अपि चेति । विशकलितज्ञानात् ' विशेष्ये विशेषणम् ' इति रीत्या ज्ञानात् । व्यापकविषयेति - विशिष्टवैशिष्टय. ८१ विषयतेत्यर्थः, विशिष्टवैशिष्ट्यं सर्वमपि विशकलितं स्वघटकत्वेन व्याप्नोतीति तद्विषयताया व्यापकविषयतात्वं बोध्यम् । तत्साधारण्येनैव विशिष्टवैशिष्ट्यविषयताशालिमानसबोध साधारण्येनैव । प्रतिवध्यत्वं बाधबुद्धिप्रतिबध्यत्वम्, एतेनानुमितेरपि विशिष्टवैशिष्टयबोधरूपाया उक्तबाधबुद्धिप्रतिवध्यत्वं निर्वहतीति बोध्यम् । < ननु रक्तदण्डवान् पुरुष:' इत्यादिवाक्याद् ' विशेष्ये विशेषणम्' इति रीत्या बोधस्याभ्युपगमे तं प्रति विशेषणज्ञानस्यैव कारणत्वम्, न तु विशेषणतावच्छेकप्रकारकनिश्चयस्य तत्त्वमिति ' दण्डो रक्तो नवा ?' इति संशयानन्तरमप्युक्तवाक्यात् तथाबोधापत्तिः संशयरूपस्य विशेषण ज्ञानस्य सत्त्वात्, रक्तत्वप्रकार कदण्डविशेष्यकनिश्चयलक्षणविशेषणतावच्छेदकप्रकारकनिश्चयस्यानपेक्षणा दिति शङ्कते - अथेति । एवम् उक्तदिशा 'विशेष्ये विशेषणम्' इति रीत्या ज्ञानस्य समर्थने । संशयकाले संशयोत्पत्तिद्वितीयक्षणे, विशेषणतावच्छेदकप्रकारकनिश्चयाभावे उक्तवाक्याद् ' दण्डो रक्तो नवा ?' इति संशयद्वितीयक्षणे 'विशेष्ये विशेषणम्' इति रीत्या बोधो जायत एव तादृशबोधलक्षणविशेषणतावच्छेदकप्रकारकनिश्चयतश्च 'विशिष्टस्य वैशिष्टयम् ' इति रीत्याऽन्वयबोधोऽप्युपजायते, अत एव तथाविधान्वयबोधानुभवोऽपि न विरोधमधिवसतीति समाधत्ते - नेति । प्रथमं ' विशिष्टस्य वैशिष्टयम्' इति रीत्याऽन्वयबोधोत्पत्तेः प्राक्क्षणे । इत्वात् ' विशेष्ये विशेषणम्' इति रीत्या बोधस्याभ्युपगतत्वात्, तथा च ' दण्डो रक्तो नवा ? ' इति संशयानन्तरमुक्तवाक्याद् 'विशेष्ये विशेषणम्' इति रीत्या बोधापादनमिष्टापत्तिरूपत्वान्न दोषावहमिति भावः । अनन्तरं च ' विशेष्ये विशेषणम्' इति रीत्या बोधानन्तरं पुनः । तदनुभवोऽपि विशिष्टवैशिष्टयबोधानुभवोऽपि यथा च ' दण्डो रक्तो नवा ?' इति संशयानन्तरं 'रक्तदण्डवान् पुरुष:' इत्यादिवाक्याद् ' विशेष्ये विशेषणम्' इति रीत्याऽन्वयबोधो भवति, तथोक्तसंशयानन्तरं 'रक्तदण्डवान् पुरुषः इति प्रत्यक्ष बोधोऽप्युपजायते, स च रक्तत्वांशे संशयरूप इत्याह- प्रात्यक्षिकी बुद्धिरपीति । घट-घटत्वयोर्निर्विकल्पकज्ञानानन्तरं 'घट:' इति ज्ञानम्, तदनन्तरं घटत्वविशिष्टघटस्य वैशिष्टयावगाहि घटवद्' इत्यादि ज्ञानं भवतीति वस्तुस्थितिः, तत्र केचिद् घट-घटत्वयोर्निर्विकल्पक ज्ञानानन्तरमेव घटवद्' इति ज्ञानं भूतले घटस्तत्र घटत्वमित्येवं रीत्याऽभ्युपगच्छन्ति, तन्मतं दूषयितुमुपन्यस्यति यत् त्विति । भूतलादिनिष्ठविशेष्यतानिरूपिता या घटनिष्ठप्रकारता सा तैः सावच्छिन्नाऽभ्युपेयते ? निरवच्छिन्ना ?, तत्रान्त्यविकल्पो न सम्भवति, 'जात्यखण्डोपाध्यतिरिक्तस्य किञ्चिद्रूपेणैव भानम् ' इति नियमेन जात्यखण्डोपाध्यतिरिक्तघटनिष्ठप्रकारताया निरवच्छिन्नत्वासम्भवात् उक्तनियममनादृत्य घटनिष्ठप्रकारताया निरवच्छिन्नत्वोपगमस्त्व पसिद्धान्त कवलितत्वादेव परीक्षकाणामनादेयः, ' विशेष्य विशेषणम्' इति रीत्या ज्ञाने चासंसर्गग्रहस्य प्रतिबन्धकत्वं तदभावस्य च - प्रतिबन्धकाभावविधया तत्र कारणत्वम्, न च निरखच्छिन्न घटनिष्ठ प्रकारताकज्ञानस्य कस्यचित् प्रतिबध्यत्वमिति तादृशज्ञानविरोधी नासंसर्गग्रहः सम्भवतीति तदभावरूपकारणाभावादपि तथाबोधो न सम्भवति, निर्विकल्पक ज्ञानरूपविशेषणज्ञानाच्च घटत्वादिनिष्ठप्रकारताकघटनिष्ठनिवच्छिन्न विशेष्यताक ज्ञानस्वरूप ' घटः ' इत्येव ज्ञानमुपजायते न तु निर्विकल्पात्मकं ज्ञानं ' विशेष्ये विशेषणम्' इति रीत्या जायमानज्ञाने विशेषणज्ञानविधया कारणम्, किन्तु तत्र सप्रकारकमेव विशेषणज्ञानं कारणमिति निर्विकल्पात्मकविशेषणधियो ' विशेष्ये विशेषणम्' इति रीत्या ज्ञानेऽहेतुत्वाच न ततो निरवच्छिन्नघटनिष्ठप्रकार ताक बोधसम्भवः; घटनिष्टप्रकारता सावच्छिन्नेति प्रथमपक्षाभ्युपगमे तु , ११ Page #115 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । तत्र घटाद्यंशे तद्विप्रकारताया निरवच्छिन्नत्वेऽपसिद्धान्तः, जात्यतिरिक्तस्य किञ्चित्प्रकारेणैव भानात्, तादृशधीविरोधिनोऽसंसर्गप्रहस्यासम्भवात् तथाविशेषणधियोऽहेतुत्वाच्च, तस्या घटत्वाद्यवच्छिन्नत्वे तु तद्धियः 'घटो नास्ति ' इत्यादिबुद्धिवद् विशिष्टवैशिष्ट्य धीत्वस्यैव सिद्धेः तेन ' प्रकारकज्ञानमेवोपनायकम्, तस्य च कार्यतावच्छेदकं लौकिकविषयताशून्य तद्विषयकज्ञानत्वापेक्षया लाघवाद विशिष्टवैशि ष्ट्याख्यविषयताशालि प्रत्यक्षत्वमेवेति घटत्वप्रकारकज्ञानोत्तरं जायमानायां 'घटवद्' इति बुद्धौ विशिष्टवैशिष्ट्य त्वमेव निर्विकल्पकोत्तरं तु 'विशेष्ये विशेषणम्' इति रीत्या लौकिकविषयताशालिज्ञानस्यैव स्वीकारः, न च ' दण्डः' इत्याद्यात्मक मानस बोधासङ्ग्रहः, तत्र ज्ञानांशे दण्डस्य प्रकारत्वात्, न कामिन्युतत्र धर्मान्तरस्यावच्छेदकस्याभावाद् घटत्वावच्छिन्नैव सेति घटत्वावच्छिन्न घटनिष्ठप्रकारता निरूपितभूतलत्वाद्यवच्छिन्नविशेष्यताबोध एव 'घटवद् भूतलम् ' इत्याकारक इति तस्य विशिष्टवैशिष्ट्य धीत्वमेव 'भूतले घटो नास्ति ' इत्यादिबुद्धेरिव घटत्वावच्छिन्न प्रतियोगिताका भावत्वावच्छिन्नप्रकारतानिरूपित भूतलत्वावच्छिन्न विशेष्यतानिरूपिकाया इव न तु विशेष्ये विशेषणम्' इति रीत्या बुद्धिरित्याशयवान् तन्मतं दूषयति- तत्रेति तथाऽभ्युपगम इत्यर्थः । ' तद्विप्रकारतायाः ' इति स्थाने ' तद्धीप्रकारतायाः' इति पाठो युक्तः, घटवद्' इति बुद्धिप्रकारताया इति तदर्थः । घटनिष्ठप्रकारताया निरवच्छिन्नत्वाभ्युगमेऽपसिद्धान्तापत्तिः कथमित्यपेक्षायामाह - जात्यतिरिक्तस्येति । यस्याः ' विशेष्ये विशेषणम्' इति रीत्या विरोधी असंसर्गग्रहः समस्ति सैवासंसर्गाग्रहतो भवितुमर्हति निरवच्छिन्नघटनिष्ठ प्रकारताक बुद्धेश्वाप्रतिबध्यतया तद्विरोधिनोऽसंसर्गग्रहस्यासम्भवेन तदभावरूपकारणस्याप्यप्रसिद्ध्याभावेन न ततस्तदुत्पत्तिसम्भव इत्याह- तादृशधीविरोधिन इति - निरवच्छिन्नघट निष्ठप्रकारता कधीविरोधिन इत्यर्थः, विशेष्ये विशेषणमिति रीत्या ज्ञानं प्रति निर्विकल्पक भिन्नमेव विशेषणज्ञानं कारणमिति निर्विकल्पक विशेषणज्ञानात् तदुत्पत्त्यसंभव इत्याह- तथाविशेषणधिय इति निर्विकल्पक विशेषणबुद्धेरित्यर्थः । अहेतुत्वात् विशेष्ये विशेषणमिति रीत्या ज्ञानं प्रत्यकारणत्वात् । तस्या घटाद्यंशे 'घटवद्' इत्यादिश्रीप्रकारतायाः । तद्धियः 'घटवद्' इत्यादिबुद्धेः । 'विशिष्ट्य वैशिष्ट्य धीत्वस्यैव' इत्येवकारेण विशेष्ये विशेषणमिति रीत्या धीत्वस्य व्यवच्छेदः, 'तेन' इत्यस्य 'निरस्तम्' इत्यनेनान्वयः तेन उक्तदिशा 'घटवद्' इति ज्ञानस्य विशेष्ये विशेषणमिति रीत्या धीत्वस्य व्यवच्छेदेन, 'प्रकारक' इति स्थाने 'सप्रकारक' इति पाठो युक्तः, अयमन्त्रार्थ:- सप्रकारकमेव ज्ञानं ज्ञानलक्षणप्रत्यासत्तिविधया स्वविषयीभूतार्थस्योत्तर ज्ञानेऽवभासकम् ज्ञानलक्षणप्रत्यासत्तिरूपस्य च स प्रकारकज्ञानस्य कार्यतावच्छेदकं न लौकिक विषयताशून्यस्वविषयविषयक ज्ञानत्वं गौरवात् किन्तु तदपेक्षया लाघवाद विशिष्टवैशिष्टयाख्यविषयताशालिप्रत्यक्षत्वमेव कार्यतावच्छेदकम् तथा च ज्ञानलक्षणप्रत्यासत्तिरूपस्य घटत्वप्रकारक ज्ञानस्योत्तरं जायमानायां 'घटवद्' इति बुद्ध घटत्वविशिष्टघटवैशिष्टयधीत्वमेव तथा सत्येव तस्या घटत्वप्रकारकज्ञान कार्यतावच्छेदकाक्रान्तत्वेन तदनन्तरं प्रादुर्भावसम्भवः, घट-घटत्वयोर्निर्विकल्पकं तु न सप्रकारकमतो न तस्य ज्ञावलक्षणविधया कारणत्वं तेन तत्प्रभवे 'घटवद्' इति ज्ञाने नालौकिक विषयतायाः सम्भवः, अलौकिक प्रत्यासत्तिप्रभव एव ज्ञानेऽलौकिक विषयताया अभ्युपगमात् किन्तु तन्निर्विकल्पकं विशेषणज्ञानविधया 'घटवद्' इति ज्ञाने कारणम्, तस्य च ज्ञानस्य सप्रकारकज्ञान कार्यत्वाभावादेव न विशिष्टवैशिष्टधीत्वम्, किन्तु विशेष्ये विशेषणमिति रीत्या धीत्वमेवेति । ननु दण्डादेर्यो मानसो बोधो न स लौकिकसन्निकर्षप्रभवः, दण्डदीनां बाह्यानां मनोजन्यलौकिक प्रत्यक्षविषयत्वाभावात् किन्त्वलौकिकसन्निकर्षाप्रभव एव स इति सप्रकारकज्ञान लक्षणोपनायकज्ञानस्य कार्यतावदच्छेदकं विशिष्टवैशिष्ट्य ख्यविषयताशालिप्रत्यक्षत्वमेवोपेयते, न च तद् ' दण्डः' इत्यादिमानसज्ञाने दण्डत्वविशिष्टस्य दण्डस्य कुत्रापि वैशिष्ट्यस्याभानादिति तज्ज्ञानासङ्ग्रहो न स्यादित्याशङ्कय प्रतिक्षिपति- म चेति । तादृशमानसे दण्डत्वविशिष्टदण्डस्य वैशिष्ट्यं ज्ञान एव भासत इति तस्य विशिष्टवैशिष्ट्याख्यविषयताशालिप्रत्यक्षत्वं समस्त्येवेति न तदसङ्ग्रह इति निषेधे हेतुमुपदर्शयति तत्रेति उक्तमानस इत्यर्थः । ननूपनायकं ज्ञानमेव भवतीति न नियमः, यत्र ज्ञानं नास्ति तत्रापि कामाद्युपनीतं वस्तु मानसे भासत एवेति तादृशमानसे न दण्डादेर्ज्ञानांशे प्रकारता ज्ञानस्यैवाभावेन तत्र तस्य प्रकारत्वासम्भवात् न च येनोपनीयते तत्रैव प्रकारत्वं सप्रकारक संस्कारस्याप्युपनायकत्वेन संस्कारस्य च मानसलौकिकप्रत्यक्षाविषयत्वेन तद्विशेषणतया बाह्यस्य दण्डादेर्भानाऽसम्भवान्मान से संस्कारदेग्नुलिरूयमानत्वाच्चेत्यगत्या तत्र लौकिक विषयताशुत्यतद्विषयक ज्ञानत्वमेवोपनायकस्य कार्यतावच्छेदकमुपेयमित्याशङ्कय प्रतिक्षिपति- नेति - अस्य 'निवेशनीयम्' इत्यनन्तरं सम्बन्धः । 'कामिन्युपनीत' इति स्थाने 'कामायुपनीत' इति पाये ८२ , Page #116 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ८३ पनीतभानभावे च ज्ञानाभावेऽपि तत्रागत्या लौकिकविषयताशून्यत्वं निवेशनीयम् , तादात्म्येन स्वस्मिन् स्वप्रकारत्वाभ्युगाद्' इत्यादि निरस्तम्, नव्यनये निर्विकल्पकसाधारणप्रत्यासत्तिस्वीकारेणोपनयकार्यतावच्छेदके लौकिकविषयताशून्यत्वस्यैव निवेशात् ' घटवद् ' इत्यादौ सर्वत्र · विशेष्ये विशेषणम् ' इति रीत्या विषयतायां प्रागस्मदुक्तबाधकस्यैव साम्राज्यात् । अथैवम् 'अभावो दण्डीयो नवा ?' इति संशयकाले 'दण्डाभाववद्' इति धीः 'विशेष्ये विशेषणम्' इति रीत्या स्यात् , तयाऽभावे प्रतियोगितावच्छेदकविशिष्टप्रतियोगिनो बुद्धेरप्रसिद्ध्या तत्प्रतिबन्धकत्वस्याप्ययोगादिति चेत् ? न-ताशबुद्धेरप्रसिद्धत्वे दण्डाभावासंसर्गाग्रहादिसामान्यसामग्र्या विशिष्टवैशिष्टयविषयिताकबोधहेतुत्वात् तादृशबुद्धेरापादकाभावात् 'विशेष्ये विशेषणम्' इति विषयिताया विशिष्टवैशिष्ट्य विषयिताकबोध एव हेतुत्वात् तादृशबुद्धेरापादकायुक्तः, ज्ञानाभावेऽपि कामायुपनीतभानभावे चेति सम्बन्धः । तत्र निरुक्तमानसानुरोधेनोपनायककार्यतावच्छेदककोटौ । न निवेशनीयमित्यत्र हेतुमाह-तादात्म्येनेति- 'दण्डः' इत्याद्यात्मकमानसज्ञाने दण्डत्वविशिष्टदण्डस्य तादात्म्यलक्षणं वैशिष्ट्य दण्डे भासत इति विशिष्टवैशिष्ट्याख्यविषयताशालिप्रत्यक्षत्वमुपनायककार्यतावच्छेदकं तत्रापि समस्त्येवेति तादृशमानसबोधस्यापि सङ्ग्रह इत्यर्थः । 'तेन' इत्यतिदिष्टं निरासहेतुमुपदर्शयति- नव्यनय इति- पूर्व घट-घटत्वयोनिर्विकल्पकम् , ततो 'घटः' इति विशिष्टबुद्धिः, तद्रूपसप्रकारकज्ञानलक्षणोपनयप्रत्यासत्त्योपनीतभानाभ्युपगमापेक्षया विशेषणविषयकज्ञानत्वस्यैव निर्विकल्पकसविकल्पकसाधारणस्यैवोपनायकतावच्छेदकत्वौचित्यात् , तथा च निर्विकल्पक ज्ञानादप्युपनयादुपनीतभानस्येष्टत्वेन तस्य विशेषणतावच्छेदकप्रकारकज्ञानाभावेऽपि जायमानस्य विशिष्टवैशिष्टयप्रत्यक्षत्वासम्भवाल्लौकिकसनिकर्षप्रयोज्यपुरोवर्तिघटनिष्टविषयताया लौकिक्या उपनयाप्रयोज्यत्वेन तव्यावृत्तये लौकिकविषयताशून्यतद्विषयक ज्ञानत्वस्यैवोपनायककार्यतावच्छेदकत्वादिति तदालिङ्गितस्य विशिष्टबुद्धित्वमेवेत्याशयः। घट-घटत्वयोनिर्विकल्पकाद् भूतले घटस्तत्र घटत्वमिति रीत्या 'घटवद् इति ज्ञानं न सम्भवति, तत्र घटनिष्ठप्रकारताया निरवच्छिन्नत्वासम्भवात् सावच्छिन्नघटनिष्टप्रकारताकज्ञानस्य विशिष्टवैशिष्टयबुद्धित्वस्यैव न्याय्यत्वादित्यभिप्रायकस्यास्मदुक्तबाधकस्यैव भावादित्याह- 'घटवद्' इत्यादाविति । ननु 'रक्तो दण्डो नवा ?' इति संशयानन्तरं 'रक्तदण्डवान् पुरुषः' इति विशिष्टवैशिष्टयावगाहिबोधस्य विशेषणतावच्छेदकप्रकारकनिश्चय कार्यस्य विशेषणतावच्छेदकनिश्चयाभावादभावेऽपि यथा विशेष्ये विशेषणमिति रीत्या बोधस्तत्रोपेयते तथाऽभावः प्रतियोगितासम्बन्धेन 'दण्डवानवा ?' इति संशयानन्तरं विशेषणतावच्छेदकप्रकारकनिश्चयरूपकारणाभावात् प्रतियोगितासम्बन्धेन दण्डविशिष्टाभाववैशिष्टयावगाहिबोधानुत्पत्तावपि धर्मिण्यभावस्तत्र प्रतियोगितासम्बन्धेन दण्ड इत्येवं विशेष्ये विशेषणमिति रीत्या 'दण्डाभाववद्' इति ज्ञानं स्यात् , अभावबोधो विशिष्टवैशिष्टयावगाहिबोधमर्यादां नातिशेत इति नियमेन तत्रेटापत्तेः कर्तुमशक्यत्वादिति शङ्कते- अथेति। एवम् उक्तदिशा विशेष्ये विशेषणमिति रीत्या 'दण्डरक्तवान्' इति बोधस्य 'दण्डो रक्को नवा ?' इति संशयानन्तरमुपगमे । अभाव: 'प्रतियोगित्वसम्बन्धावच्छिन्नदण्डनिष्ठप्रतियोगिताकाभाववान् , इत्येवंस्वरूपपर्यवसितोऽभावः, 'दण्डाभाववान्' इति बाधधीर्यदि तत्र स्यात् तदा तया प्रतिबन्धाद् विशेष्ये विशेषणमिति रीत्याऽपि ज्ञानं न स्यात् , न चोक्तसंशयकाले तादृशबाधबुद्धेरपि सम्भवः, तस्या अपि अभावे प्रतियोगितावच्छेदकविशिष्टप्रतियोगिनो वैशिष्टयावगाहित्वेन विशेषणतावच्छेदकप्रकारकनिश्चयकार्यत्वेन विशेषणतावच्छेदकप्रकारकनिश्चयाभावेऽ. भावादित्याह-तयेति- अत्र 'तदा' इति पाठो युक्तः, तस्य संशयकाले इत्यर्थः । तत्प्रतिबन्धकत्वस्य बाधबुद्धिप्रतिबन्धकत्वस्य । समाधत्ते-नेति। तादृशबुद्धेः अभावे प्रतियोगितावच्छेदकविशिष्टप्रतियोगिनो बुद्धेः । 'दण्डाभावासंसर्गाग्रहादि' इत्यादिपदा विशेषणबुद्धरुपग्रहः । 'विशिष्टवैशिष्ट्यविषयताकबोधहेतुत्वात्' इति स्थाने 'विशिष्टवैशिष्टयविषयताकबोध एव हेतुत्वाद्' इति पाठो युक्तः, एवकारेण विशेष्ये विशेषणमिति रीत्या बोधहेतुत्वस्य व्यवच्छेदः, तथा च 'अभावो दण्डीयो नवा?' इति संशयकाले विशेष्ये विशेषणमिति रीत्या बोधस्य ‘दण्डाभाववद् इत्याकारकस्यापादकाभावादेव नापत्तिसम्भव इत्याह-तादृशबुद्धेरिति-विशेष्ये विशेषणमिति रीत्या बुद्धरित्यर्थः । 'तादृशबुद्धेरापादकाभावाद्' इत्यनन्तरं "विशेध्ये विशेषणमितिविषयताया विशिष्टवैशिष्टयविषयताकबोध एव हेतुत्वात् तादृशबुद्धरापादकाभावात्" इत्यधिकः पाठोड. नुपादेयः । किञ्च, विशेष्ये विशेषणमितिबुद्धिविषयताया विशिष्ट वैशिष्टयबुद्धिविषयताव्यापकत्वपक्षे विशेष्ये विशेषणमिति रीत्या बुद्धिविषयताकज्ञानत्वाविच्छिन्नं प्रत्येव 'दण्डो रक्को नवा ? इति संशयादेः प्रतिबन्धकत्वं कल्प्यत इति निरुक्तसंशयसत्त्वे यथा न रक्तत्वविशिष्टदण्डवैशिष्टयावगाहिज्ञानं तथा विशेष्ये विशेषणमिति रीत्या ज्ञानमपि न भवत्येव, एवं च 'अभावो Page #117 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । , भावाद ' विशेष्ये विशेषणम्' इति विषयिताया विशिष्टवैशिष्ट्यविषयिताव्यापकत्वे ' दण्डाभाववद् इति ज्ञानेऽपि तस्याः सत्वेन तदवच्छिन्नं प्रति प्रतिबन्धकत्वसम्भवाच्च, अत एव 'दण्डो रक्को नवा ?' इति संशयकाले यदि ' विशेष्ये विशेषणम्' इति रीत्यापि ' रक्तदण्डवान्' इति धियो नोत्पत्तिः, तदा तत्र ' दण्डो रक्तः ' इत्यादि निश्चयाभावविशिष्टो ' दण्डो रक्तो नवा ?' इत्यादिसंशयप्रतिबोधकः स्वीक्रियते, इत्थं च व्यापकत्वाद् ' विशेष्ये विशेषणम्' इति रीत्या विषयितैवानुमितिप्रवृत्यादिजनकतावच्छेदिका, विशिष्टवैशिष्ट्यबुद्धित्वं तु रक्तदण्डत्वा दिविशिष्ट पर्याप्तिप्रकारताकबुद्धित्वं 'रक्तं दण्डेन जानामि इति प्रतीते:, इति सम्प्रदायविदः, तदसत् - अस्या एवानुमित्यादिजनकतावच्छेदकत्वे विशिष्ट - दण्डीयो नवा ?' इति संशयानन्तरं 'दण्डाभाववद्' इति ज्ञानं विशेष्ये विशेषणमिति रीत्याऽपि न स्यादेवेत्याह- विशेष्ये विशेषणमिति विषयताया इति । 'दण्डाभाववद्, इति ज्ञानेऽपीति- अभावे दण्डत्वविशिष्टदण्डवैशिष्टया वगाहिज्ञानेऽपीत्यर्थः, अपिना विशेष्ये विशेषणमिति रीत्या ज्ञानस्य समुच्चयः । तस्याः विशेष्ये विशेषणमिति विषयतायाः । तदवच्छिन्नं प्रति विशेष्ये विशेषणमितिविषयताकबुद्धित्वावच्छिन्नं प्रति । प्रतिबन्धकत्वसम्भवाच्च 'अभावो दण्डीयो नवा ?' इति संशयस्य प्रतिबन्धकत्वाच्च तथा चोक्तप्रतिबन्धकसद्भावादेव यथा न 'दण्डाभाववद्' इति विशिष्टवैशि ष्टयावगाहिज्ञानं तथा विशेष्ये विशेषणमिति रीत्या ज्ञानमपि नेत्याशयः । अत एवेति - विशिष्टवैशिष्ट्यविषयिताव्यापिकाया विशेष्ये विशेषणमितिरीत्या विषयिताया निरुक्तसंशय प्रतिबध्यतावच्छेदकत्वादेव तदा 'दण्डो रक्तो नवा ?' इति संशयकाले विशेष्ये विशेषणमिति रीत्याऽपि 'रक्तदण्डवान्' इति धियो नोत्पत्तिरित्यस्योपपादनार्थम् । तत्र विशेष्ये विशेषणमिति रीत्या 'रक्तदण्डवान्' इति बुद्धौं । 'नवेत्यादिसंशयप्रतिबोधकः' इत्यस्य स्थाने 'नवेत्यादिसंशयः प्रतिबन्धकः' इति पाठो युक्तः, 'दण्डो रक्तो नवा' इति संशयद्वितीयक्षणे 'दण्डो रक्तः' इत्याकारकविशेषणतावच्छेदकप्रकारकनिश्चये तदानीमुक्तसंशयसत्त्वेऽपि रक्तदण्ड निति बुद्धिर्विशिष्टवैशिष्ट्यविषयिताशालिनी तद्व्यापकविशेष्ये विशेषणमितिविषयिताशालिनी चोत्पद्यत एवेत्यतो 'दण्डो रक्तः' इत्यादिनिश्चयाभाववैशिष्ट्यं निरुक्तसंशये विशेषणम् । इत्थं च 'दण्डो रक्तः ' इत्यादिनिश्चयाभावविशिष्टस्य 'दण्डो रक्तो नवा ?' इत्यादिसंशयस्य विशिष्टवैशिष्टयविषयिताव्यापक विशेष्ये विशेषणमितिविषयित्वावच्छिन्नप्रतिबन्धकत्वव्यवस्थितौ च । विषयितैवेत्येवकारेण विशिष्टवैशिष्ट्यविषयिताया अनुमितिप्रवृत्त्यादि - जनकतावच्छेदकत्वव्यवच्छेदः, अयमभिप्रायः - पर्वते धूमो धूमे च वह्निव्याप्यत्वमिति रीत्या यद् 'वह्निव्याप्यधूमवान् पर्वतः ' इति ज्ञानम् यच्च वह्निव्याप्यत्वविशिष्टधूमस्य पर्वते वैशिष्टयावगाहिज्ञानम्, तदुभयत्र विशेष्ये विशेषणमिति रीत्या विषयितायाः सत्त्वादुक्त परामर्शद्वयस्यापि निरुक्तविषयितालक्षणानुमितिकारणतावच्छेदकधर्माकान्तत्वाद् द्विविधादपि परामर्शादनुमि त्युत्पत्तिः सम्भवति, तथा 'इदमेतद्धर्मवद्, अयं धर्म इष्टसाधनातावच्छेदकः' इत्येवंरीत्या यज्ज्ञानम्, यच्च 'इष्टसाधनता - वच्छेदकधर्मवद्' इति ज्ञानम् विशेष्ये विशेषणमिति रीत्या विषयितायाः प्रवृत्तिजनकतावच्छेदिकायाः सत्त्वादुभयस्मादुक्तज्ञानात् प्रवृत्तिनिर्वाह इति । रक्तरूपत्वावच्छिन्नप्रकारता निरूपित शुद्धदण्डत्वावच्छिन्नप्रकार तानिरूपित पुरुषत्वावच्छिन्न विशेयतानिरूपित विषयिताया विशेष्ये विशेषणमिति रीत्या विषयितारूपाया विशिष्टवैशिष्ट्यविषयिताव्यापकत्वेऽवधृते विशिष्ट - वैशिष्ट्यबुद्धित्वं किमित्यपेक्षायामाह - विशिष्ट वैशिष्ट्यबुद्धित्वं त्विति । रक्तेति- रक्तदण्डत्वादिविशिष्टे न तु रक्तत्वविनिर्मुक्तदण्डत्वादिविशिष्टे पर्याप्तिर्यस्याः प्रकारतायाः सा रक्तदण्डत्वादिविशिष्टपर्याप्तिप्रकारता, रक्तत्वदण्डत्वो भयपर्याप्तावच्छेदकताकप्रकारता न तु केवलदण्डत्वनिष्ठावच्छेदकताकप्रकारता, तन्निरूपकबुद्धित्वं विशिष्टवैशिष्ट्यबुद्धित्वमित्यर्थः । निरुक्तबुद्धित्वस्य विशिष्टवैशिष्टय बुद्धिरूपत्वेऽनुव्यवसायं प्रमाणमुपदर्शयति- रक्तमिति - 'रक्तं दण्डेन जानामीति प्रतीतेः ' इति स्थाने 'रक्तदण्डेन पुरुषं जानामीति प्रतीतेः' इति पाठो युक्तः, तस्य रक्तदण्डनिष्टप्रकारता कपुरुषनिष्ठविशेष्यता कज्ञानवनहमिति प्रतीतेरित्यर्थः, अत्र तृतीयार्थे प्रकारत्वे रक्तदण्डस्याधेयतयाऽन्वये रक्तदण्डत्वावच्छिन्नत्वमपि तत्रान्वेतीति । विशेष्ये विशेषणमिति रीत्या विषयिताया अनुमितिप्रवृत्त्यादिजनकतावच्छेदकत्वमभ्युपगच्छतां प्राचां मतमपहस्तयति - तद सदिति । अस्या एव विशेष्ये विशेषणमिति रीत्या विषयिताया एव एवकारेण विशिष्टवैशिष्टयविषयिताया अनुमित्यादिजनकतावच्छेदकत्व व्यवच्छेदः, विशिष्टवैशिष्टयवुद्धावपि रक्तत्वं दण्ड एव प्रकारो दण्डश्च पुरुषे प्रकार इत्येवानुभूयत इति रक्तत्वनिष्ठप्रकारतानिरूपितैव दण्डनिष्टविशेष्यता न तु रक्तत्वनिष्टावच्छेदकतानिरूपिता दण्डनिष्ठप्रकारतेति । अत्र प्रतीतिं ८४ " Page #118 -------------------------------------------------------------------------- ________________ % 3D% 3D नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ८५ वैशिष्ट्यविषयतायां मानस्य दूरापास्तत्वात् , 'रक्तदण्डवान्' इत्यादिज्ञानेऽपि रक्तत्वादिप्रकारतानिरूपित. दण्डादिनिष्ठविशेष्यताया एवानुभावात् , रक्तादेर्दण्डादिविशेष्य इत्येव प्रतीतेः, तस्माद् विशिष्टवैशिष्ट्यविषयताकबुद्धित्वमेवानुमित्यादिजनकतावच्छेदकम् , ' विशेष्ये विशेषणम् ' इति बुद्धित्वं तु विशेषणतावच्छेदकसंशयकालीनज्ञानसाधारणमेवेत्यलं संशयप्रतिबन्धकत्वेन । विशिष्टपर्याप्तप्रकारकवाक्यबुद्धित्वं विशिष्टवैशिष्ट्यबुद्धित्वमित्यपि न युक्तम् , 'वहिव्याप्यन्धनवान्' इत्यादौ विशिष्टव्याप्तेरसिद्धत्वेन प्रकारत्वासंभवभिया परामर्शदीधितौ खण्डशो निरुक्तेरानर्थक्यापातात् । एतेन, वैशिष्ट्यं च वैज्ञानिकम् , तेन 'लोहितवह्निमान्' इत्यादौ न विशिष्टवैशिष्ट्य बोधानुपपत्तिरिति मथुरानाथायुक्तमपास्तम् , विशिष्टवैशिष्ट्यविषयता विशेषणतावच्छेदकसम्बन्धभेदेन भिन्नेति सर्वैः स्वीकारेण समवायादिघटिततदसम्भवस्य प्रमाणयति-रक्तादेरिति । 'दण्डादिविशेष्य' इति स्थाने 'दण्डादिर्विशेष्यः' इति पाठो युक्तः, रक्तत्वविशिष्टदण्डस्य पुरुषविशेषणत्वे दण्डद्वारा पुरुषोऽपि रक्तस्य विशेष्य इति पुरुषोऽपि रक्तादेविशेष्य इति सम्प्रत्ययः स्यात् , न चैवमित्यावे. दनायैवकारोपादानम् । तस्मादिति - यस्माद् विशेष्ये विशेषणमिति बुद्धिविषयताया अनुमितिप्रवृत्त्यादिजनकतावच्छेदकत्वाभ्युपगमे प्रमाणाभावाद् विशिष्टवैशिष्टयविषयताया असिद्धिप्रसङ्ग इत्येतस्माद् हेतोः । विशेष्ये विशेषणमिति रीत्या बोधश्च विशेषणतावच्छेदकप्रकारकसंशयकाले भवत्येवेति न तस्याः संशयप्रतिबध्यतावच्छेदकत्वमिति संशयकालीनज्ञानेऽपि विशेष्ये विशेषणमिति रीत्या विषयता समस्त्येवेत्याह-विशेष्ये विशेषणमिति बुद्धित्वं त्विति । विशिष्टवैशिष्टयबुद्धित्वस्य लक्षणान्तरं पराभिप्रेतमुत्प्रेक्ष्य दूषयति-विशिष्टपर्याप्तति-विशिष्टे पर्याप्ता या प्रकारता तन्निरूपिका या वाक्यजन्या बुद्धिस्तत्त्वं विशिष्टवैशिष्टयबुद्धित्वमित्यर्थः, अत्र वाक्यजन्यत्वं किमिति निवेशितमिति न विद्मः, प्रत्युत तन्निवेशे प्रमाणान्तरोपजातबुद्धेर्विशिष्टवैशिष्ट्यबुद्धित्वमेवापहस्तितं स्यादिति। अयुक्तत्वे हेतुमुपदर्शयति-वह्निव्याप्येन्धनेति । 'विशिष्टच्याप्तरसिद्धत्वेन' इत्युक्तिहेतुव्यापकसाध्यसामानाधिकरण्यलक्षणव्याप्तिमवलम्ब्य, अन्यथा साध्याभाववदवृत्तित्वलक्षणव्याप्तः प्रकृते वह्नयभाववदवृत्तित्वरूपतया तस्या अप्रसिद्ध्यभावात् , इन्धनसमानाधिकरणस्य वयभावस्य प्रतियोगित्वेन वह्वेस्तादृशाभावाप्रतियोगिवह्निसामानाधिकरण्यव्याप्तेरप्रसिद्धियुज्यत इति । खण्डशो निरुक्तेरिति- हेतुविषयतानिरूपिताधिकरणविषयतानिरूपितवृत्तित्वविषयतानिरूपितामावविषयतानिरूपितप्रतियोगित्वविषयतानिरूपिताभावविषयतानिरूपितसाध्यविषयतानिरूपिताधिकरणविषयतानिरूपितवृत्तित्वविषयतेत्येवं दिशा निर्वचनस्येत्यर्थः । आनर्थक्यापत्तेरिति-'वहिव्याप्यन्धनवान्' इतिवाक्यजबुद्धेविशिष्टवैशिष्टयबुद्धित्वस्योपपत्त्यर्थमेव तथा निर्वचनम्, परं तथा निर्वचनेऽपि विशिष्ट पर्याप्तप्रकारताकबुद्धित्वस्य विशिष्टाप्रसिद्धथा तत्र सङ्कटनं न स्यादेवेत्याशयः । 'एतेन' इत्यस्य 'अपास्तम्' इत्यनेनान्वयः । एतेन खण्डशो निरुक्केरानर्थक्या. पातेन, इन्धनसमानाधिकरणाभावप्रतियोगिनि वह्नौ तादृशप्रायोगित्वाभावस्य स्वरूपसम्बन्धेन वैशिष्टयासम्भवेऽपि वैज्ञानिकसम्बन्धेन तद्वैशिष्टयस्य तत्र सम्भवेन विशिष्टव्याप्तेरसिद्धत्वाभावेन निरूप्यनिरूपकभावापन्नविषयताकज्ञानत्वेन व्याप्तिज्ञाननिर्वचनस्थानर्थक्यादित्याशयः । तेन वैशिष्टयस्य वैज्ञानिकस्याभ्युपगमेन । लोहिते ति- वह्नस्तेजस्स्वरूपस्य भास्वरशुक्लरूपवत्त्वेन लोहितत्वस्य रक्तरूपलक्षणस्य समवायरूपवैशिष्टस्याभावेऽपि स्वप्रकारकज्ञानविषयत्वलक्षणस्य लोहितत्वप्रतियोगिकवैज्ञानिक सम्बन्धस्य तत्र सत्त्वेन तेन सम्बन्धन लोहितत्वविशिष्ट ववैशिष्टयविषयता 'लोहितवह्निमान्' इत्यादौ सम्भवेन तादृशविषयलाको 'लोहितवह्निमान्' इत्याकारको विशिष्ट वैशिष्ट्यबोध उ पद्यत इति मथुरानाथोक्त्यर्थः। मथुरानाथोक्तापासने हेत्वन्तरमप्युपदर्शयति-विशिष्टेति-'लोहितवह्निमान्' इत्यादौ स्वरसतो लोहितत्वस्य रक्तरूपस्य वह्नौ समवायेन वैशिष्टयस्यैव भासमानत्वेन तस्यासम्भवादेव लोहितत्वविशिष्टवर्वैशिष्ट्य विषयता न संभवतीति तथाविधबोधस्य न विशिष्टवैशिष्ट्यबोधत्व. मित्याक्षेपस्य वैज्ञानिकसम्बन्धेन लोहितत्ववैशिष्ट्यस्य वहावुपदर्शनमात्रेग प्रतिविधानस्य कर्तुमशक्यत्वादित्यभिसन्धिः। तदसम्भवस्य विशिष्टवैशिष्टयविषयताऽसम्भवस्य । येन येन सम्बन्धेन विशेषणे यस्य यस्य विशेषणत्वेन विशेषणताव. च्छेदकत्वमभिमतं तत्तत्सम्बन्धनिरूपितो यो वैज्ञानिकसम्बन्धस्तत्तत्सम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावत्त्वलक्षणस्तेन सम्बन्धेन विशिष्टविशिष्टबुद्धित्वावच्छिन्नं प्रति तत्तत्सम्बन्धेन विशेष्यतावच्छेदकप्रकारकनिश्च यस्य कारणत्वमिति धर्मिणि मतुर्थे विशेषण वह्नौ समवायेन विशेषणतया विशेषगतावच्छेदकं यलोहितत्वं समवायन तत्प्रकारकनिश्चयेन निरुक्तवैज्ञानिकसम्बन्धेन लोहितत्वविशिष्टवह्निवैशिष्टयबोधस्य 'लोहितवह्निमान्' इत्याकारकस्योपपत्तिरित्येवं समाधानं कर्त Page #119 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। वैज्ञानिकसम्बन्धेन समाधातुमशक्यत्वाच्च, तत्तत्सम्बन्धेन विशेषणतावच्छेदकप्रकारकनिश्चयस्य तत्तत्स. म्बन्धनिरूपितवैज्ञानिकसम्बन्धेनैव विशिष्टवैशिष्ट्यबुद्धित्वावच्छिन्नं प्रति हेतुत्वकल्पने त्वतिगौरवम् , संशयदशायामपि शुद्धसम्बन्धेन कार्यापत्तिश्च, न चेष्टापत्तिः, अनुभवविरोधात्, अन्यथा विशिष्टवैशिष्ट्यं न कार्यतावच्छेदकमर्थसमाजसिद्धत्वात् , विशेषणज्ञानद्वयादेव तादृशबोधोपपत्तिरिति मिश्रमत साम्राज्यापत्तेः, ' दण्डो रक्तो नवा ?' इति संशयानन्तरमजायमानस्य दण्डो रक्त इति निश्चयानन्तरं च जाय. मानस्य बोधस्यानुभवसिद्धत्वादेव हि तत्रोक्तकार्यकारणभावेन तन्मतं निराक्रियते, नियतसम्बन्धगर्भत्वेऽपीयमेव युक्तिरिति । इदं तु स्याद् ' रक्तदण्डवान्' इत्यत्र दण्डाश्रितैव प्रकारता, तदवच्छेदकता च शक्यमित्यत आह-तत्तत्सम्बन्धेनेति-तत्तत्सम्बन्धनिरूपितवैज्ञानिकसम्बन्धस्य गुरूभूतस्य निरूपकीभूततत्तत्सम्बन्धभेदभिन्नस्य कार्यतावच्छेदकसम्बन्धतयाऽभिमतत्वेऽतिगौरवं स्पादित्यर्थः । तथा गौरवस्य सह्यतायां दोषान्तरमाह-संशयदशायामपीति- ‘दण्डो रक्तो नवा ?' इति विशेषणतावच्छेदकप्रकारकसंशयदशा यामपीत्यर्थः । तदानीं विशेषणतावच्छदकप्रकारकनिश्चयाभावे विशेषणतावच्छेदकप्रकारकनिश्चयकार्य तत्तत्सम्बन्धनिरूपितवैज्ञानिकसम्बन्धेन विशिष्टवशिष्टयज्ञानं मा भूत् , शुद्धसम्बन्धेन वैज्ञानिकादिलक्षणेन विशिष्टवैशिष्टयज्ञानं च न तत्कार्यमिति तत् स्यादित्यर्थः । 'रक्तो दण्डो नवा ?' इति संशयदशायां 'रक्तदण्डवान्' इति विशिष्टवैशिष्टयावगाहिनिश्चयस्याननुभूयमानत्वेनेष्टापत्त्या तदापादनस्यादोषत्वमुररीकर्तुमशक्यमित्याह-न चेष्टापत्तिरिती । अन्यथा अननुभूयमानस्यापि विशेषणतावच्छेदकप्रकारकसंशयदशायां विशिष्टवैशिष्टयबोधस्याभ्युपगमे। अर्थसमाजसिद्धत्वात् रक्तत्वरूपविशेषणज्ञानाद् रक्तत्वविशिष्टदण्डस्य भानं दण्डरूपविशेषणज्ञानाद् दण्डवैशिष्टयस्य भानमित्येवं तद्धटकप्रत्यकधर्मावच्छिन्नभानसमाजसिद्धत्वात् । एतदेव स्पष्टयति-विशेषणज्ञानद्वयादेवेति- रक्तत्वज्ञान-दण्डज्ञानद्यादेवेत्यर्थः । तादृशबोधोपपत्तिः रक्तत्वविशिष्टदण्डवैशिष्टयबोधोपपत्तिः। इति मिश्रमतसाम्राज्यापत्तेः इत्येवस्वरूपं यत् पक्षधरमिश्रस्य मतं तत्साम्राज्यापत्तेः । विशेषणज्ञानद्वयादेव विशिष्टवैशिष्टयबोध इति पक्षधरमिश्रमतस्य निराकरणं तेन सम्बन्धेन तद्धर्मविशिष्टवैशिष्टबुद्धिं प्रति तेन सम्बन्धेन तद्धर्मलक्षणविशेषणतावच्छेदकप्रकारकनिश्चयः कारणमित्येवं कार्यकारणभावबलादेव क्रियते, तदुक्तवैज्ञानिकसम्बन्धेन कार्यकारणभावपक्षे संशयदशायामपि विशिष्टवैशिष्टयबोधस्याभ्युपगतौ न सम्भवतीत्यावेदनायाह- 'दण्डो रक्तो नवा ?' इति संशयानन्तरमिति । 'अजायमानस्य' इत्यस्य ‘बोधस्य' इत्यनेनान्वयः, 'वोधस्य' इत्यस्य विशिष्टवैशिष्टयबोधस्येत्यर्थः । तत्र विशिष्टवै. शिष्टयबोधे। उक्तकार्यकारणभावेन तेन सम्बन्धेन तद्विशिष्टवैशिष्टयबोधं प्रति तेन सम्बन्धन तद्धर्मप्रकारकनिश्चयः कारणमित्येवंकार्यकारणभावेन । तन्मतं विशेषणज्ञानद्वयादेव विशिष्टवैशिष्टयज्ञानमिति पक्षधरमिश्रमतम् , यदि च संशयानन्तरमजायमानत्वमुक्तबोधस्य न स्यात् किन्तुसंशयानन्तरमप्युक्तबोधो जायेत तदा व्यभिचारेण विशेषणतावच्छेदकप्रकारकनिश्चयस्य तं प्रति कारणत्वमेव न स्याद्, यदि वा विशेषणतावच्छेदकप्रकारकनिश्चयानन्तरमप्युक्तबोधो न जायेत तदाऽप्यन्वयव्यभिचारेण विशेषणतावच्छेदकप्रकारकनिश्चयस्य तं प्रति कारणत्वं न भवेत् , न चैवं किन्तु विशेषणतावच्छेदकप्रकारकनिश्चयेन सहोक्तबोधस्य कार्यकारणभावग्राहकावन्वयाव्यतिरेको विद्यते इत्यावेदनाय 'संशयानन्तरमजायमानस्य' इति निश्चयानन्तरं जायमानस्य, इति च 'बोधस्य' इत्यस्य विशेषणमिति बोध्यम् । विशेषणज्ञानस्य सम्बन्धविशेषविषयकत्वापुरस्कारेणैव विशिष्टबुद्धि प्रति कारणत्वस्याभ्युपगततया विशेषणज्ञानद्वयादेव विशिष्टवैशिष्टयावगाहिज्ञानस्याभ्युपगमे तत्र नियतसम्बन्धभान न स्यात् , तेन सम्बन्धेन विशेषणतावच्छेदकीभूततद्धर्म प्रकारकनिश्चयस्य तेन सम्बन्धन तद्धर्मविशिष्टवैशिष्टयबुद्धि प्रति कारणत्वे तु नियतसम्बन्धविशेषभानमपि तत्रोपपद्यते इत्येतदर्थमेव निरुक्तकार्यकारणभावस्य नियतसम्बन्धगर्भत्वमित्याहनियतसम्बन्धगर्भत्वेऽपीति । 'रक्तदण्डवान् ' इति विशिष्टवैशिष्टयावगाहिबोधे प्रकारत्वं दण्डमात्रस्य तदवच्छेदकत्वं रक्तत्व-दण्डत्वयोः पर्याप्तम्, विशिष्टौशिष्टयबोधीयप्रकारत्वस्यावच्छेदकत्वं तदवच्छेदकत्वं वा यथा समानाधिकरणधर्मे तथा व्यधिकरणधर्मेऽपि, तेन 'लोहितवह्निमान् ' इति ज्ञानं लोहितत्वात्मकव्यधिकरणधर्मनिष्ठावच्छेदकतानिरूपितवह्नि. त्वात्मकसमान धिकरणधर्मनिष्ठावच्छेदकतानिरूपितवहिनिष्टप्रकारतानिरूपकं ज्ञानम्, 'रक्तदण्डवान्' इति च ज्ञानं रक्तत्व-दण्डत्वोभयपर्याप्तावच्छेदकतानिरूपितदण्डनिष्ठप्रकारतानिरूपकम् , लोहितवह्निमत्वान्' इति च ज्ञानं लोहितत्वात्मकव्यधि. करणधर्मनिष्ठावच्छेदकतानिरूपितव हनिष्ठावच्छेदकतानिरूपितवह्निमन्निष्टप्रकारतानिरूपकमित्येवं दिशा तत्तनिष्टावच्छेदकतानिरूपितप्रकारताकबुद्धित्वं विशिष्टवैशिष्टयबुद्धित्वमवसेयमिति ग्रन्थकारः स्वाभिप्राय प्रकटयति- इदं तु स्यादिति । 'दण्डा Page #120 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकृतो नयोपदेशः । रक्ते दण्डत्वे च पर्याप्ता, 'रक्तेन दण्डत्वेन चामुमत्र जानामि' इति प्रतीतेः, व्यधिकरणस्याप्यवच्छेदकता. वच्छेदकत्वा दिकं 'रजतम्' इत्यादि 'पीतशङ्खवद्' इत्यादिभ्रमवदविरुद्धम् , साऽवच्छेदकता तत्तद्धर्माशे समानाधिकरण-व्यधिकरणतत्तत्सम्बन्धावच्छिन्ना, तत्तन्निरूपितबुद्धित्वं विशिष्टवैशिष्ट्य बुद्धित्वम् , 'वह्नि श्रितव' इत्येवकारेण प्रकारतायां रक्तत्वविशिष्टदण्डाश्रितत्वस्य व्यवच्छेदः, तेन विशिष्टपर्याप्तप्रकारताकबुद्धित्वं विशिष्टवैशिष्टयबुद्धित्वमिति नाभ्युपगम्यते किन्तु विशेषणतावच्छेदकतयाऽभिमतधर्मपर्याप्तावच्छेदकताकप्रकारकताकबुद्धित्वमेव विशिष्टवैशिष्ट्यबुद्धित्वम् , 'विशेष्ये विशेषणं तत्र च विशेषणम्' इति रीत्या बोधं च विशेषणविशेषणे प्रकारत्वमेव न तु साक्षाद्विशेषणनिष्ठप्रकारताया अवच्छेदकत्वमिति ततो विशिष्टवैशिष्ट्यबोधस्य भेदः। रक्तदण्डवानिति ज्ञानानन्तरं तदनुव्यवसायस्य 'रक्तत्वेन दण्डत्वेन च मुमत्र जानामि' इत्येवं रूपेणोपजायमानत्ववतो रक्तत्वे दण्डत्वे च दण्डनिष्ठप्रकारतानिरूपितावच्छेदकता स्वीक्रियत इत्याह-रक्तनेति-अत्र रक्तपदं रक्तरूपपरम् , तेन रक्तरूपवत्त्वेनेति तदर्थः, अत्र तृतीयार्थोऽवच्छेदकत्वं तस्य 'अमुम्' इति द्वितीयार्थे कर्मत्वे प्रकारतारूपेऽन्वयः, सविषयकार्थकधातुसमभिव्याहृतद्वितीयार्थस्य कर्मत्वस्य विषयतारूपतयैवाङ्गीकारात् , यद्यपि कारकविभक्त्यर्थस्य धात्वर्थक्रियायामेवान्वयो व्युत्पन्नस्तथाऽपि द्वितीयार्थप्रकारतानिरूपकत्वविशिष्टे धात्वर्थज्ञाने तृतीयाविच्छेदकतात्मकविषयताया निरूपकत्वेनान्वये द्वितीयार्थेऽपि तस्यान्वयो व्युत्पत्तिवैचित्र्यादाश्रीयते, द्वितीयाप्रकृतीदम्पदार्थदण्डस्याधेयतया प्रत्ययार्थप्रकारतायामन्वयः, अत्रेति त्रत्प्रत्ययार्थो विशेष्यत्वम् , तस्यापि निरूपकतया धात्वर्थज्ञानेऽन्वयः, विशेष्यत्वे चेदमर्थस्य पुंस आधेयतयाऽन्वयः, एवं च 'रक्तदण्डवान्' इति ज्ञानानुव्यवसायाभिलापकाद् 'रकेन दण्डत्वेन चामुमत्र जानामि' इति वाक्याद् 'रक्तरूपवत्त्वनिष्ठावच्छेदकतानिरूपितदण्डत्वनिष्ठावच्छेदकतानिरूपितेदमर्थदण्डनिष्टप्रकारतानिरूपकेदमर्थपुरुषनिष्ठविशेष्यतानिरूपकज्ञानवान्' इति प्रतीतेर्दण्डनिष्टप्रकारतानिरूपितावच्छेदकत्वस्य रक्तत्व-दण्डत्वोभयपर्याप्तस्य सिद्धेः, यद्यपि दण्डत्वनिष्ठावच्छेदकता दण्डत्वमात्रवर्तिनी न रक्तत्वे वर्तते, रक्तत्वनिष्ठावच्छेदकता च रक्तत्वमात्रवर्तिनी न दण्डत्वे वर्तत इति नैकस्या अवच्छेदकताया रक्तत्व-दण्डत्वोमयपर्याप्तत्वम् , तथापि प्रत्येकं भिन्नाऽपि सा दण्डनिष्टप्रकारतानिरूपितावच्छेदकतात्वेनैका भवतीति तद्रपेणोभयपर्याप्तति स्याद्वादमतेऽनेकस्यापि कथञ्चिदेकत्वमविरुद्धमिति बोध्यम् । यद्यपि वहिव्याप्यत्वं वह्नयभावदवृत्तित्वं स्वव्यापकवह्निसामानाधिकरण्यलक्षणं वा नेन्धने समस्ति तथापि व्यधिकरणधर्म. विधयैव वहिव्याप्तेरिन्धननिष्ठप्रकारताया अवच्छेदकत्वम् , धर्मिणि प्रकारीभूते वेन्धने सामानधिकरण्यद्वारा विशेषणीभूते वह्वित्वे याऽवच्छेदकता तस्या व्यधिकरणधर्मविधयेन्धनसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकत्वस्यावच्छेदकत्वं भविष्यतीत्यतो 'वहिव्याप्येन्धनवान्' इति विशिष्टवैशिष्टयबोधस्याप्युपपत्तिरित्याह-व्यधिकरणस्यावीति । 'अवच्छेदकतावच्छेदकतादिक.म' इति स्थाने 'अवच्छेदकत्व-तदवच्छेदकत्वादिकम्' इति पाठो युक्तः, तदवच्छेदकत्वम्अवच्छेदकतावच्छेदकत्वम् , आदिपदादवच्छदकतावच्छेदकतावच्छेदकत्वादेरुपग्रहः । 'रजतम्' इत्यादीति- 'इदं रजतम्' इति भ्रमे पुरोवर्तिन्यां शुक्तौ तादात्म्येन रजतस्य प्रकारत्वे व्यधिकरणस्य रजतस्य प्रकारत्वमेव, तदवच्छेदकं च रजतत्वं समानाधिकरणमेव, रजतत्वस्य समवायेन प्रकारत्वे तस्यापि व्यधिकरणस्य प्रकारत्वमेव, तच्च प्रकारत्वं निरवच्छिन्नमेवेति तफिरूपितावच्छेदकतैव नास्तीति तत्र व्यधिकरणस्यावच्छेदकत्वचचैव न सम्भवति, परन्तु व्यधिकरणस्य यथा प्रकारत्वं तथा प्रकारतावच्छेदकत्वमपि व्यधिकरणस्य सम्भवतीत्येतावन्मात्रेण तस्य दृष्टान्तता, 'पीतशङ्खवद्' इति भ्रमे च शङ्खत्वांशेऽभ्रमरूपे पीतत्वांशे भ्रमात्मनि शङ्खांशे पीतत्वस्य भाने शङ्खनिष्टप्रकारताया अवच्छेदकत्वं यथा व्यधिकरणस्य पीतत्वस्य तथाऽन्यत्रापि व्यधिकरणस्य प्रकारतावच्छेदकत्वम् , यदि च सामानाधिकरण्यसम्बन्धेन पीतत्वविशिष्टशकत्वस्यैव शङ्कनिष्ठप्रकारताया अवच्छेदकत्वं तदा शङ्खनिष्टप्रकारतानिरूपितशङ्खत्वनिष्ठावच्छेदकताया व्यधिकरणस्य पीतत्वस्य यथाऽवच्छेदकत्वं तथाऽन्यत्रापि प्रकारतावच्छेदकत्वं व्यधिकरणस्य सम्भवतीति बोध्यम् । साऽवच्छेदकता प्रकारतानिरूपितावच्छेदकता। तत्तद्धर्माश इति- यत्र समवायन रक्तरूपवद्दण्डवानिति बोधस्तत्र समवायसम्बन्धावच्छिन्ना दण्डनिष्ठप्रकारतानिरूपिता रक्तरूपनिष्टावच्छेदकता समानाधिकरणसम्बन्धावच्छिन्ना, यत्र तु संयोगेन स्वरूपेण वा रक्तरूपवद्दण्डवानिति ज्ञानं तत्र तादृशी रक्तरूपनिष्ठाऽवच्छेदकता व्यधिकरणसंयोग-स्वरूपादिसम्बन्धावछिन्नेति । 'तत्तन्निरूपितबुद्धित्वम्' इति स्थाने 'तत्तनिरूपित प्रकारताकवुद्धित्वम्' इति पाठो युक्तः, तस्य च समानाधिकरणसम्बन्धावच्छिन्ना व्यधिकरणसम्बन्धावच्छिन्ना वा समानाधिकरणधर्मनिष्टा व्यधिकरणधर्मनिष्ठा वा याऽवच्छेदकता तन्निरूपितप्रकारतानिरूपकबुद्धित्वमित्यर्थः। विशिष्ट Page #121 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ana निरक्या. इयमेवानमित्यादिजनकता .. व्याप्येन्धनवान्' इत्यादावपि सम्भवतीत्यलं दीधिति कृतः वच्छेदिका, नानाप्रकारतादिघटितधर्मस्य जनकताद्यवच्छेदकत्वे गौरवादिति । अथ 'दण्डो रक्तः' इति निर्णयस्य रक्तत्व-दण्डत्वोभयधर्मावच्छिन्नप्रकारताकत्वं जन्यतावच्छेदकमित्यभ्युपगमेऽपि रक्तत्वधर्मितावच्छेदकदण्डत्वप्रकारकनिर्णयजन्ये 'दण्डरत्नवान्' इति विशिष्टवैशिष्ट्य बोधे व्यभिचार इति चेत् ? न- रक्तत्वप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यताशालित्वस्यापि तादृशनिर्णयजन्यतावच्छेदके प्रवेशात् , उक्त. स्थले दण्डत्वप्रकारतानिरूपितरक्तत्वावच्छिन्नविशेष्यताया एव सत्त्वात्, विच्छिन्नप्रकारतां " क वैशिष्टयबुद्धित्वमिति- अस्य 'सम्भवति' इत्यनेनान्वयः, उक्तलक्षणं यद् विशिष्टबुद्धित्वं तद् वहिव्याप्येन्धनवानित्यादावपि सम्भवति,यतोव हिव्याप्तिस्तदभाववदवृत्तित्वरूपा प्रसिद्धव,इन्धनसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकवह्नित्वावच्छिन्नसामानाधिकरण्यरूपायामपि तत्रानवच्छेदकत्वान्तमन्यत्र प्रसिद्धमिति तदात्मकव्याधिकरणधर्मनिष्ठावच्छेदकतानिरूपितवह्नित्वनिष्ठावच्छेदकतानिरूपितेत्यादिक्रमेण तत्तद्धर्मनिष्ठावच्छेदकतानिरूपितेन्धननिष्ठप्रकारतानिरूपकज्ञानत्वं 'वह्निव्याप्येन्धनवान्' इति ज्ञानेऽपि सम्भवतीति तद्रूपेण तस्य कारणत्वं वह्नयनुमितो भ्रमदशायां सम्भवतीति 'वह्निव्याप्पन्धनवान्' इति भ्रमात्मकपरामर्शस्योक्तानुमिति प्रति कार णत्वोपपत्तये प्रकृत हेतुतावच्छेदकनिष्टप्रकारतानिरूपितविशेष्यत्वावच्छेद्यप्रकृतहेतुनिष्टप्रकारतानिरूपितविशेष्यत्वावच्छेद्याधिकरणनिष्टप्रकारतानिरूपितविशेष्यत्व वच्छेद्यवृत्तित्वनिष्टप्रकारतानिरूपितविशेष्यत्वावच्छेद्याभावनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छेद्यप्रतियोगित्वनिष्टप्रकारतानिरूपितविशेष्यत्वाच्छेद्यप्रतियोगित्वसम्बन्धावाच्छिन्नावच्छेदकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वाच्छेद्याभावनिष्टप्रकारतानिरूपितविशेष्यत्वावच्छेद्याधयत्वसम्बन्धावच्छिन्नसाध्यतावच्छेद कनिष्टप्रकारतानिरूपितविशेष्यत्वावच्छेद्यनिरूपित्वसम्बन्धावच्छिन्नावच्छेदकत्वनिष्टप्रकारतानिरूपितविशेष्यत्वावच्छेद्यनिरूपितत्वसम्बन्धावच्छिन्ननिरूपकत्वनिष्टप्रकारता निरूपितविशेष्यत्वावच्छेद्याधिकरणत्वनिष्टप्रकारतानिरूपितविशेष्यत्वावच्छद्यनिरूपितत्वसम्बन्धावच्छिन्ना धिकरणनिष्टप्रकारतानिरूपितविशेष्यत्वावच्छेद्यवृत्तित्वनिष्ठप्रकारत निरूपितविशेष्यत्वावच्छेद्य हेतुतावच्छेदकसम्बन्धावच्छिन्नहेतुता वच्छेदकधर्मावच्छिन्न हेतुनिष्ठप्रकारतानिरूपितपक्षतावच्छेदक वच्छिन्नपक्षनिष्टविशेष्यताक निश्चयत्वेन खण्डशः प्रसिद्ध या परामर्शस्यानुमिति प्रति कारणत्वमित्यभिप्रायेण दीधितिकृतः खण्डशो निरुत्तया, अलं पर्याप्तम् , तथा निर्वचनस्य न किञ्चित्प्र. योजनमित्यर्थः । इयमेव अनन्तरोपवर्णिता तत्तन्निष्टावच्छेदकतानिरूपितप्रकारत कबुद्धित्वलक्षणा विशिष्ट वैशिष्ट्यबुद्धितैव । दीधितिकृदभितधर्मस्य नानाप्रकारतादिघटितधर्मस्य गुरुभूतत्वनानुमितिजनकतावच्छेदकत्वाभावादित्याह-नानेति । 'प्रकारतादि' इत्यादि पदान्नानाविशेष्यत्वानामुपग्रहः, अनेन च 'विशेष्ये विशेषणम्' इति रीत्या विषयितैवानुमितिप्रवृत्त्यादिजनकताव. च्छेदिकति साम्प्रदायिकमतमपि निरस्तं भवति, तत्र रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यत्वावच्छेद्यदण्डत्वनिछावच्छेदकतानिरूपितदण्डनिष्ट प्रकारताव बुद्ध रेव 'विशेष्य विशेषणम्' इति रीत्या बुद्धित्वेन तेन रूपेणानुमितिप्रवृत्त्यादिजनकत्वे नानाप्रकारताविशेष्यत्वादिघटित धर्मस्य तदवच्छेकत्वे गौरवं स्याद् उक्तदिशा निरुक्तेन तत्तधर्मनिष्टावच्छेदकतानिरूपितप्रकारताकबुद्धित्वलक्षणविशिष्टयेशिष्ट्यबुद्धित्वेनानुमितिप्रवृत्त्यादिजनकत्वे नानाप्रकारत्व-विशे'यत्वादीनां कारणत्वावच्छेदकघटकत्वाभावाल्लाघवमित्याशयः। ननु रक्तत्वस्वरूपविशेषणतावच्छेदकधर्मप्रकारकदण्डविशेष्यकनिर्णयस्य 'दण्डो रक्तः' इत्याकारकस्य जन्यतावच्छेदकं भवन्मते रक्तत्व दण्डत्योभयपर्याप्तावच्छेदकताकदण्डनिष्टप्रकारताकबुद्धिवलक्षणं रक्तत्वविशिष्टदण्डवैशिष्टयावगाहिवुद्धित्वम् , तद् यथा 'रक्तदण्डवान्' इति बुद्धौ वर्तते तथा रक्तत्वावच्छिन्नविशेष्यकदण्डत्वप्रकारकनिर्णयस्वरूपस्य 'रक्तो दण्डः' इति निर्णयस्य जन्ये 'दण्डरक्तवान्' इति विशिष्टयवैशिष्ट्यबोधेऽपि वर्तत इति सोऽपि 'दण्डो रक्तः' इति रक्तत्वप्रकारकदण्डविशेष्यकनिर्णयजन्यतावच्छेदकाक्रान्तः, स तु रक्तत्वप्रकारकदण्डविशेष्यकनिर्णयमन्तरेणैव रत्तत्वावच्छिन्नविशेष्यकदण्डत्वप्रकारकनिर्णयादुपजायत इति व्यतिरेकव्यभिचारेणोक्तरीत्या विशेषणतावच्छेदकप्रकारकनिर्णय विशिष्ट वैशिष्ट्यबोधयोः कार्यकारणभावे न सम्भवतीति शङ्कते- अथेति । 'दण्डरत्नवान' इत्यस्य स्थाने 'दण्ड (क्तवान्' इति पाठो युक्तः । दण्डत्व रक्तत्वोभयप्तिावच्छेदकताकदण्डनिष्टप्रकारतानिरूपकत्वे सति रक्तत्वनिष्ट प्रकारतानिरूपितदण्डत्वावच्छिन्नविशेप्यताशालिबुद्धित्वस्यैव रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यलाशालिनिर्णयजन्यतावच्छेदकतया स्वीकारेण 'दण्डरक्तवान् । इति बोधे दण्डत्वनिष्ठप्रकारतानिरूपितरक्तत्वावच्छिन्नविशेष्यतानिरूपके रक्तत्वनिष्टप्रकारतानिरूपितदण्डत्वावच्छिन्न विशेष्यता Page #122 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । परित्यज्योभयपर्याप्तप्रकारतानिवेशेन हेतुत्वस्वीकारे तु 'पर्वतो लौहित्याभाववान्' इति ज्ञानकाले 'लोहितवह्निमान्' इति विशिष्टवैशिष्ट्य बुद्ध्यनापत्तिः, 'पर्वतो न लोहितः' इति ज्ञानस्य लौहित्यप्रकारकपर्वतविशेष्यकज्ञान एव प्रतिबन्धकत्वात् न च रक्तत्वावच्छिन्न विशेष्यताकरक्तप्रकारकस्य 'रक्तो रक्तः' इति स्मरणस्य प्रसङ्गस्तत्र तथा निर्णयस्य हेतुत्वादिति वाच्यम्, रक्तत्वावच्छिन्न विशेष्यतायास्तत्र रक्तत्व प्रका रतानिरूपितत्वेऽपि रक्तत्वावच्छिन्न विशेष्यतात्वेन तस्यास्तादृशप्रकारतानिरूपितत्वानभ्युपगमात् तेन रूपेण रक्तत्वप्रकारतानिरूपितरक्तत्वावच्छिन्न विशेष्यताशालिज्ञानस्यैव 'रक्तो रक्तः' इत्याकारकस्मृतिजनकत्वस्याभावेन 'दण्डो रक्त:' इति निर्णयजन्तावच्छेदको घर्मानाक! न्तत्वेनोक्तनिर्णयाभावे जायमाने तस्मिन् व्यभिचाराभावादिति समाधत्ते-नेति । तादृश निर्णयेति-स्वत्वनिष्ठ प्रकारता कदण्डत्वावच्छिन्नविशेष्यताकनिर्णयेत्यर्थः । उक्तस्थले 'दण्डरक्तवान्, इति बोधे । एवकारेण रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यताया व्यवच्छेदः । ननु रक्तत्वदण्डत्वोभयपर्याप्तावच्छेदकताकप्रकारताकज्ञानत्वस्य रक्तत्वविशिष्टदण्डवैशिष्ट्या वग हिबुद्धित्वस्वरूपत्वं यदुपेयते तत्र रक्तत्व- दण्डत्वोभयवत्पर्याप्त प्रकारताक बुद्धित्वस्वरूपत्वमेव तस्य किमिति नोपेयत इत्यपेक्षायामाह - उभयधर्मावच्छिन्नप्रकारतामिति'उभयपर्याप्तप्रकारताम्' इति स्थाने 'उभयधर्मवत्पर्याप्तप्रकारताम्' इति पाठो युक्तः, तथा च स्तत्व - दण्डत्वो भयवत्पर्याप्तप्रकारताकबुद्धित्वावच्छिन्नं प्रति रक्तलप्रकारकनिश्चयः कारणमित्येवं कार्यकारणभावोऽभ्युपगतः स्यात्, तथा च सति वह वह्नित्वस्य सत्त्वेऽपि लौहित्याभावेन लौहित्या-वहित्वोभयवान् वह्निर्न भवतीति 'लोहितवहिमान्' इति ज्ञानं व्यधिकरणीभूतलौहित्यनिष्ठ|बच्छेदकतानिरूपितवहित्वावच्छिन्न वह्निनिष्ठप्रकारतानिरूपकमपि लौहित्य - वहित्वोभयवत्पर्याप्त प्रकारतानिरूपकं न भवतीति न 'लोहितो वह्निः' इत्याकारक लौहित्यलक्षणविशेषणतावच्छेदक प्रकार कवह्निविशेष्यकज्ञान कार्यमिति 'लोहितो वहिः' इति ज्ञानासत्त्वेऽपि 'लोहितवह्निमान्' इति ज्ञानमापद्येत, तदपि ज्ञानं लौहित्यस्य विशिष्टबुद्धयात्मकमिति तत्र विशेषणज्ञानविधया लौहित्यज्ञानमपेक्षितमिति तत् पर्वते लौहित्याभावज्ञानार्थं प्रतियोगिज्ञानतयाऽपेक्षितं समस्त्येवेत्याह- पर्वतो लौहित्याभाववान्' इति ज्ञानकाल इति - पर्वते यदि लौहित्यं स्यात् तर्हि सामानाधिकरण्यसम्बन्धेन तदेव वह विशेषणीभूय भासेतेत्यौपाधिकस्य लौहित्यस्य तत्र सम्भवे लौहित्य - वह्नित्वोभयवत्वमपि तत्र स्यादित्युभयधर्मवत्पर्याप्तप्रकारता सम्भाव्येतापि, न चैवमित्यावेदनायेत्थमुपन्यासः, 'विशिष्टवैशिष्ट्यबुद्धयनापत्तिः' इति स्थाने विशिष्टवैशिष्ट्य - बुद्धयापत्तिः' इति पाठो युक्तः, उभयधर्मावच्छिन्न प्रकाताक बुद्धित्वलक्षणविशिष्टवैशिष्ट्यबुद्धित्वावच्छिन्नं प्रति विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वे तु व्यधिकरणधर्मस्यापि प्रकारतावच्छेदकत्वस्य स्वीकृतत्वेन 'लोहितवह्निनान्' इति ज्ञानस्य लौहित्यवहित्वोभयपर्याप्तावच्छेदकता कप्रकारत । कज्ञानत्ववत्तया कार्यतावच्छेदकधर्माक्रान्तत्वेन 'लोहितो वह्निः' इति ज्ञानलक्षणविशेषणतावच्छेदकप्रकारकनिर्णयरूपकारणाभावे नापत्तिसम्भव इत्याशयः । ननु 'लोहितवह्निमान्' इति ज्ञानस्य विशेषणतावच्छेदकप्रकारकनिश्चयकार्यत्वाभावेऽपि 'पर्वतो लौहित्याभाववान्' इति ज्ञानप्रतिबध्यतया न तज्ज्ञानरूपप्रतिबन्धककाले तदुत्पत्त्यापत्तिसम्भव इत्याह- 'पर्वतो न लोहितः' इति ज्ञानस्येति । 'ज्ञान एव' इत्येवकारेण 'लोहितवह्निमान्' इति ज्ञानस्य व्यवच्छेदः । ननु 'रक्तो दण्डः' इति ज्ञानं यथा रक्तत्वनिष्ठप्रकारतानिरूपकं तथा रक्तत्वावच्छिन्न विशेष्यतानिरूपकमपि, विशेष्यतायां प्रकारावच्छिन्नत्वस्य स्वीकारेण दण्डत्वावच्छिन्नविशेष्यताया अपि रक्तत्वावच्छिन्नत्वात् तथा च 'रक्तो दण्डः' इति ज्ञानं रक्तत्वनिष्ठप्रकारता निरूपितरक्तत्वावच्छिन्न विशेष्यताका नुभवरूपमिति तेन 'रक्तो रक्तः' इत्याकारकस्य रक्तत्वनिष्ठप्रकारतानिरूपितरक्तत्वावच्छिन्नविशेष्यता कस्मरणस्यापत्तिः स्यादित्याशङ्कय प्रतिक्षिपति - न चेति - अस्य 'वाच्यम्' इत्यनेनान्वयः । तत्र 'रक्तो रक्तः' इति स्मरणे । तथा निर्णयस्य रक्कत्वनिष्टप्रकार तानिरूपित र तत्वावच्छिन्नविशेष्यताक निर्णयरूपानुभवस्य कामं दण्डत्वावच्छिन्नविशेष्यता रक्तत्वरूपप्रकारावच्छिन्ना भवति, परन्तु दण्डत्वावच्छिन्नविशेष्यतात्वेन रक्तत्वनिष्टप्रकारतात्वेनैव निरूपयनिरूपकभावस्तत्रोपेयते, न तु रक्तत्वनिष्ठ प्रकारतात्वेन रक्तस्वावच्छिन्नविशेष्यतात्वेन निरूप्य - निरूपकभाव इति रक्तत्वनिष्ठप्रकारतानिरूपित रक्तत्वावच्छिन्न विशेष्यताकस्मरणं प्रति रक्तत्वनिष्ठ प्रकारतात्वावच्छिन्ननिरूपकतानिरूपितरक्कत्वावच्छिन्न विशेष्य तात्वावच्छिन्ननिरूप्य तावद्विशेष्यता कनिर्णयत्वेनैवोक्तनिर्णय रूपानुभवस्य कारणत्वमिति न 'रको दण्ड: ' इत्यनुभवाद् ‘रक्तो रक्त: ' इति स्मरणस्यापत्तिरिति निषेधहेतुमुपदर्शयति- रक्तत्वावच्छिन्नविशेष्यताया इतिरक्तत्वरूपप्रकारावच्छिन्नत्वेन रक्तत्वाच्छिन्नविशेष्यतात्मिकाया दण्डत्वावच्छिन्नविशेष्यताया इत्यर्थः । तत्र 'रक्तो दण्डः' इति १२ Page #123 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः | कतया तादृशस्मरणापत्त्यसम्भवात्, 'दण्डो रक्तो नवा ?' इति संशयानुव्यवसायस्तु न रक्तत्वविशिष्टtosवैशिष्ट्याही 'रक्तदण्डेन सन्देह्नि' इत्यप्रत्ययात्, किन्तु रक्तत्व तदभावप्रकारकत्व दण्डविशेष्यकस्वावगाही, 'रक्तत्वेन तदभावेन च दण्डं सन्देसि' इति प्रत्ययादिति न तत्र व्यभिचार इति केचित्, सञ्चिन्त्यम्, समुच्चयानुव्यवसायवत् तत्तद्विशेषणद्वय निरूपितवैशिष्ट्य विषयताशालित्वस्यैव वक्तुं शक्यत्वात्, 'रक्तदण्डेन सन्देह्नि' इत्यनभिलापस्य च ' दण्डिनं न जानामि' इत्यनभिलापवदेवोपपत्तेर्ज्ञानत्वेन सन्देहा व्यवसाये चोक्तप्रकाराभावात्, विशेषणोपर्युल्लेख्यमानस्य विशेषणतावच्छेदकस्य विशेष्यनिष्ठज्ञाने । तस्या दण्डत्वावविच्छन्न विशेष्यतास्वरूपाया रक्तत्वावच्छिन्न विशेष्यतायाः । तादृशप्रकार तेति- रक्तत्वनिष्ठप्रकारतेत्यर्थः । तेन रूपेण रक्तत्वावच्छिन्नविशेष्यतात्वेन रूपेण । तादृशस्मरणेति 'रक्तो रक्तः' इति स्मरणेत्यर्थः, तथा च तेन रूपेण रकत्व प्रकारतानिरूपित' इत्यस्य रक्तत्वनिष्ठप्रकारतात्वावच्छिन्ननिरूपकतानिरूपितरक्कत्वावच्छिन्न विशेष्यतात्वावच्छिन्ननिरूप्य तावदित्यर्थः । तादृशस्मरणेति - 'रक्तो रक्तः' इत्याकारकस्मरणेत्यर्थः । ननु ' दण्डो रक्तो नवा' इति संशयानन्तरं तत्संशयानुव्यवसाश्व रक्तत्वविशिष्टदण्डस्य संशये विषयितारूपवैशिष्ट्या वगाहीति विशिष्टवैशिष्ट्यबुद्धित्वरूपकार्यतावच्छेदकधर्माक्रान्तस्य तस्य रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्न विशेष्यताक निर्णयात्मक विशेषणतावच्छेदक निर्णयं विनैव भावेन व्यभिचारेण निरुक्तवैशिष्टयवुद्धित्वावच्छिन्नं प्रति विशेषणतावच्छेदकप्रकारक निर्णयस्य कारणत्वं न संभवतीत्यत आह- 'दण्डो रक्तो नवा' इति संशयानुव्यवसायस्त्विति - 'रक्तदण्डेन' इति तृतीयान्तार्थस्य रक्तदण्डवैशिष्टयस्य सन्देह विशेषणतयोक्तानुव्यवसाये भाने तस्य रक्तत्वविशिष्टदण्डवैशिष्ट्या वगाहित्वं स्यात् न चैवम्, किन्तु 'रकत्वेन तदभावेन च दण्डं सन्देह्मि' इत्युलेखशेखर एव 'दण्डो रक्तो नवा' इति संशयानुव्यवसायः, तत्र 'रक्तत्वेन तदभावेन च' इत्युभयत्र तृतीयार्थः प्रकारत्वम्, 'दण्डम्' इति द्वितीयार्थश्च विशेष्यत्वम्, तृतीयार्थप्रकारताद्वयस्य द्वितीयार्थस्य विशेष्यत्वस्य च निरूपकतया धात्वर्थसन्देह एव विशेषणत्वम्, तथा च नथोहिख्यमानोऽनुव्यवसायो 'रक्तत्वनिष्ठप्रकारताकर कत्वाभाव निष्टप्रकारताक- दण्डनिष्टविशेष्यताकसंशयवान्' इत्येवंस्वरूप एव पर्यवसित इति तस्य रक्तत्वविशिष्टदण्डवैशिष्ट्या वगाहित्वाभावाद्रक्तत्वप्रकारक निश्चयं विना भावेऽपि न व्यभिचार इति केचित् प्रतिपन्ना इत्यर्थः । 'पर्वतो वह्निमान् धूमवाँश्च' इति समूहालम्बनस्य 'पर्वतं वह्निना धूमेन च जानामि' इत्यनुव्यवसायस्य यथा वह्नि धूमात्मकविशेषणद्वयनिरूपितवैशिष्ट्यविषयताशालित्वं तथा 'दण्डो रक्तो नवा' इति संशयानुव्यवसायस्यापि रक्तत्व तदभावात्मकविशेषणद्वयनिरूपितवैशिष्ट्यविषयताशालित्वस्य वक्तुं शक्यत्वेन रक्तत्वविशिष्टदण्डवैशिष्ट्या वगाद्दित्वस्य सम्भावनापथावतीर्णत्वतो 'दण्डो रक्तो नवा' इति संशयानुव्यवसायी 'रक्तदण्डेन सन्देति' इत्येवं नाभिलप्यत इत्येतावता न स रक्तत्वविशिष्टदण्डवैशिष्ठयावगाही' इत्येवमभिधानं न युक्तमिति चिन्ताबीजोपदर्शन पूर्वक मृजुमार्गसमाश्रितानां विदुषां प्रकारान्तराश्रयणेन संशयानुव्यवसायस्य विशिष्टवैशिष्ट्या वगाहित्व रूप विशेषणतावच्छेदक. धर्मप्रकारक निश्चयजन्यतावच्छेदकधर्मानाक्रान्तस्वतो व्यभिचारवारणमुपदर्शयति- समुच्चयानुव्यवसायवदिति । ननु रक्तत्वविशिष्टदण्डस्य विषयत्वात्मक वैशिष्टयं संशयगतं यदि संशयानुव्यवसायोऽवगाहेत तदा 'रक्तदण्डेन सन्देह्नि' इत्येवं तदभिलापोऽपि भवेत्, न च तथा तदभिलप्य इति न स रक्तत्वविशिष्टदण्डस्य वैशिष्टयं संशयेऽवगाहत इत्यत आह- रक्तदण्डेनेति । ज्ञाने यस्य विषयतात्मक वैशिष्टयं तदनुव्यवसायस्याभिलापस्तद्वाचकपदोत्तर वैशिष्ट्या र्थक तृतीयाविभक्तिमुपादाय भवत्येवेति नास्ति नियमस्तथा सति दण्डात्मक - विषयस्य विषयतात्मक वैशिष्टयं संशयादिज्ञाने समस्तीति तस्य तथाऽनुव्यवसायोऽपि 'दण्डेन जानामि' इत्येवमभिलप्येत, न चैवमभिलप्यते इति यथा तस्य न तथाऽभिलापस्तथैव प्रकृतेऽप्युक्तनियमाभावादुपपद्यत इत्याह- दण्डेनेति - 'दण्डिनं न जानामि' इत्यस्य स्थाने 'दण्डेन जानामि' इति पाठो युक्तः । यथा च संशये संशयत्वं समस्ति तथा ज्ञानत्वमपि समस्ति तथा च संशयत्वस्यैक धर्मिक विरुद्धो भय प्रकारकज्ञानत्वरूपत्वात् तद्रूपेण तदनुव्यवसायस्य रकत्व-तदभावप्रकारत्वदण्डविशेष्यकत्वावगाहित्वेऽपि ज्ञानत्वेन तदनुव्यवसायस्य न तथात्वमिति ज्ञानत्वेन तदनुव्यवसाये रक्तत्वविशिष्टदण्डवैशिष्टयावगाहिनि व्यभिचारणस्य वारणं नोक्तप्रकारेण सम्भवतीत्याह-ज्ञानत्वेनेति । ननु 'रक्तत्वेन दण्डं संदेमि' इति संशयानुव्यवसाये संदेहे विशेषणीभूतं दण्डे विशेषणतया विशेषणातावच्छेदकस्य रक्तत्वस्य संशयात्मक विशेष्यनिष्ठो यो निरूपकतया प्रकारत्वसम्बन्धस्तदवगाहित्यमेव न तु रक्तत्वविशिष्टदण्डस्य संशयगत वैशिष्टचावगाहित्वमिति संशयानुव्यवसाये विशिष्टवैशिष्टयावगाद्दित्वाभावात् तत्र विशेषणतावच्छेदकधर्मप्रकारकनिश्चयजन्यत्वाभावेऽपि न व्यभिचार इत्यत ९० Page #124 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । सम्बन्धावगाहिताया एवोक्तज्ञाने समर्थने चान्यत्राप्यतिप्रसङ्गात् , तस्माद् 'विशेष्ये विशेषणम्' इति रीत्यैव संशयानुव्यवसाय इति न व्यभिचार इति बहवः । न च 'सन्देह्मि' इत्यनुव्यवसायस्य 'विशेष्ये विशे. षणम्' इति रीत्याऽभ्युपगमे 'रक्तदण्डो द्रव्यम्' इति व्यवसायानन्तरमपि 'रक्तदण्डं जानामि' इत्यनुव्यव. सायप्रसङ्ग इति वाच्यम्, रक्तविशिष्टदण्डप्रकारतानिरूपितविषयित्वसांसर्गिकविषयतानिरूपितविशेष्यता. सम्बन्धेनानुव्यवसायं प्रति रक्तत्वप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यताकत्वेन व्यवसायहेतुताया आवश्यकत्वात् , अन्यथा 'रक्तो दण्डः' इति प्रत्यक्षानन्तरं 'ररुवान् दण्डव' इति समूहालम्बनस्मर. णादिस्थले 'रक्तदण्डं स्मरामि' इत्यनुव्यवसायापत्तेः, न च 'दण्डो रक्तः' इति ज्ञानोपरमेऽपि 'रक्तदण्डं आह-विशेषणोपर्युल्लिख्यमानस्येति- विशेषणविशेषणतयोल्लिख्यमानस्येत्यर्थः । उक्तज्ञाने संशयानुव्यवसाये । अन्य. त्रापि निश्चयात्मकव्यवसायानुव्यवसायेऽपि । अतिप्रसङ्गात् विशेषणतावच्छेदकस्य विशेष्यनिष्ठसम्बन्धावगाहितायाः प्रसङ्गात् , तथा चानुव्यवसायमात्रस्य विशिष्टवैशिष्टयावगाहित्वमुच्छिद्यतेत्यर्थः । संशयानुव्यवसायः संशये विषयतया दण्डं तत्र च रक्तत्वं तदभावं चावगाहत इति 'विशेष्ये विशेषणं तत्र च विशेषणम्' इति रीत्यैव जायत इति विशिष्टवैशिष्टयावगाहिबोधत्वलक्षणविशेषणतावच्छेदकधर्मप्रकारकनिश्चयकार्यतावच्छेदकधर्मानाक्रान्तत्वान्न तत्र व्यभिचार इत्युपसंहरति-तस्मादिति । ननु संदेहानुव्यवसायस्य 'विशेष्ये विशेषणम्' इति रीत्याऽभ्युपगमेऽनुव्यवसायो विशिष्टवैशि. टयावगाह्येव भवतीति नियमो नाभ्युपेयत एव, एवं च रक्तत्वं दण्डाविशेषणतयैवारगाहमानो रक्तत्वावच्छिन्ने वा प्रकारतया दण्डावगाही वा 'रको दण्डो द्रव्यम्' इति यो व्यवसायस्तदनन्तरमपि ज्ञाने विषयितया दण्डं तत्र च रकत्वमवगाहमानस्य 'रक्तदण्डं जानामि' इत्यनुव्यवसायस्य प्रसङ्गः, तस्य विशिष्ट वैशिष्ट्यानवगाहित्वेन रक्तत्वप्रकारकदण्डविशेष्यकनिश्चयमन्तराऽप्युत्पत्तिसम्भवादित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः । 'रक्तदण्डति' इत्यस्य स्थाने 'रको दण्डो द्रव्यम्' इतीति पाठो युक्तः, अयं च व्यवसायः समूहालम्बनात्मको बोध्यः, 'दण्डो रको द्रव्यम्' इत्येवमुल्लेखेऽपि समूहालम्बनात्मकत्वं सम्भवति, परं तथोखे दण्डविशेष्यकरक्तत्वप्रकारकत्वमप्यस्य बुद्धावारोहेत् तद्व्युदासार्थ 'रक्को दण्डः' इत्येवमुल्लेखः, एवं च 'उद्देश्यवचनं पूर्व विधेयवचनं ततः,' इति वचनाद् यदि प्रकारविशेष्यभावेनाप्यवगाहनं तत्र भवेत् तदाऽपि रक्तस्यैव विशेष्यत्वं दण्डस्य प्रकारत्वं न तु दण्डे रक्तत्वरय प्रकारत्वमिति, विशेष्ये विशेषणम्' इति रीत्याडनुव्यवसायस्य तु विशिष्टबुद्धित्वेन तत्र विशेषणज्ञानविधया कारणं 'रक्तो दण्डो द्रव्यम्' इति ज्ञानं समस्त्येवेति तथाऽनुव्यवसायस्य कारणसम्पत्तिः । निषेधे हेतुमाह-रक्कविशिष्टेति-रक्तत्वविशिष्टेत्यर्थः, तथा च रकत्वविशिष्टदण्डनिष्टप्रकारतानिरूपितविषयित्वनिष्ठसांसर्गिकविषयतानिरूपितविशेष्यतासम्बन्धेनानुव्यवसायं प्रति रक्तत्वनिष्टप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यताकत्वेन रूपेण व्यवसायस्य तादात्म्यसम्बन्धेन कारणत्वम् , 'विषयतासम्बन्धेन प्रत्यक्ष प्रति तादात्म्यसम्बन्धेन विषयस्य कारणत्वम्' इति सामान्य कार्यकारणभावे सति प्रत्यक्षविशेष प्रति विषयविशेषस्य कारणत्वस्यावश्यकत्वेनोक्तसम्बन्धेन 'रकदण्डं जानामि' इत्यनुव्यवसायस्य रक्तत्वप्रकारकदण्डविशेष्यकव्यवसाय एव सत्त्वेन तत्र कारणीभूतस्य रक्तत्वप्रकारकदण्डविशेष्यकव्यव. सायस्य तदानीमभावेन 'रक्तो दण्डो द्रव्यम्' इति व्यवसायानन्तरं 'रक्तदण्डं जानामि' इत्यनुव्यवसायस्यापत्त्यसम्भवादित्यर्थः । अन्यथा उकरीत्याऽनुव्यवसायं प्रति व्यवसायस्य विशिष्यकार्यकारणभावस्यानुपगमे । 'रक्तो दण्डः' इति प्रत्यक्षानन्तरं रक्तत्वावच्छिन्नविशेष्यताकदण्डत्वनिष्ठप्रकारताकप्रत्यक्षानन्तरम् , निरुक्तप्रत्यक्षस्योद्बोधकविधया 'रक्तवान् दण्डश्च' इति सम्हालम्बनस्मरणे प्रयोजकत्वम् , 'रक्तवान् दण्डश्च' इति समूहा लम्बनस्मरणलक्षणव्यवसायस्य रक्कत्वनिष्ठप्रकारतानिरूपितदण्डत्वाव. च्छिन्नविशष्यताकत्वरूाकारणतावच्छेदकधर्मानाक्रान्तत्वादुक्त विशिष्यकार्यकारणभावाभ्युपगमे कारणाभावान्न 'रकदण्डं स्मरामि' इत्यनुव्यवसायापत्तिरिति भावः । ननु प्रथमक्षणे 'इदं मदिष्टसाधनं मत्कृतिसाध्यं च' इति ज्ञानम्, ततो द्वितीयक्षणे चिकीर्षा, ततस्तृतीयक्षणे कृतिः ततश्चतुर्थक्षणे कृतिसाक्षात्कार इति वस्तुस्थितौ 'रक्तदण्डं करोमि' इत्यनुव्यवसायस्य रक्तत्वविशिष्टदण्ड. निष्ठप्रकारतानिरूपितविषयित्वनिष्ठसांसर्गिकविषयतानिरूपितविशेष्यतासम्बन्धेन रक्तदण्डविषयककृतावुत्पद्यमानत्वेन तत्र रकत्वनिष्टप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यताकव्यवसायस्तादात्म्येन नास्ति, तथाव्यवसायस्य 'दण्डो रकः' इत्येवंरूपस्य 'रक्तदण्डो मदिष्टसाधनम्' इत्येवरूपस्य वा पूर्वमेव विनष्टत्वात् , यदि च कारणतावच्छेदककोटौ ज्ञानत्वं न निवेश्यत इति रकत्वप्रकारकदण्डत्वावच्छिन्नविशेष्यककृतिरपि निरुक्ककारणतावच्छेदकधर्माकान्तत्वात् कारणमिति न तत्र व्यभिचार इति Page #125 -------------------------------------------------------------------------- ________________ - नयामृततरङ्गिणी-तरङ्गिणीत रणिभ्यां समलङ्कृतो नयोपदेशः । करोमि' इत्याकारककृतिसाक्षात्कारोत्पत्त्या व्यभिचार:, हेतुतावच्छेदके ज्ञानत्वानिवेशे च 'रक्तदण्डः ' इत्यनुबुद्ध संस्काराद् रक्तत्वनिर्विकल्पकदशायां विशिष्टवैशिष्ट्य बोधापत्तिः, उद्बोधकानां संस्कारज विशिष्ट. वैशिष्ट्यबोधहेतुत्वेऽपि तदभावे सामान्यसामग्र्या फलजनने बाधकाभावादिति वाच्यम्, कृतिसाक्षात्कारपूर्व नियमतो 'दण्डो रक्त:' इति स्मरणानभ्युपगमात् वस्तुतः संस्कारव्यावृत्तज्ञानेच्छाकृतिवृत्तिजातिविशेषं कल्पयित्वा विशेषणतावच्छेदकप्रकारक विजातीयगुणत्वेनैव हेतुत्वं स्वीक्रियते, अनन्तस्मृतिव्यक्ति तद्धेतुकल्पनापेक्षया तादृशजातिकल्पनाया एवोचितत्वात् न च कृतिसाक्षात्कारपूर्वं विषयस्मृतिकल्पनमावश्यकमन्यथोपनायकज्ञानविरहेण विषयभानासम्भवेन कृतिसाक्षात्कारानुदयप्रसङ्गादिति वाच्यम्, - ज्ञानलक्षणप्रत्यासत्तीतरमपीच्छा कृति साधारणतद्विषयकविजातीयगुणत्वेनैव हेतुत्वोपगमात्, अवश्यं च गुणमानसजनकतावच्छेदकतया संस्कारादिव्यावृत्तजातिविशेषकल्पनम्, अन्यथा संस्कारादीनां मानसविभाव्यते तदा रक्तदण्डविषयकानुद्बुद्धसंस्कारतो रकत्वस्य निर्विकल्पकोत्पत्त्यनन्तरकाल एवं रक्तदण्डं जानामि' इत्यनुव्यवसायापत्तिः, तत्र संस्कारे निरुक्तः नुव्यवसायोऽप्युक्तसम्बन्धेन वर्तते कारणतावच्छेदकधर्माक्रान्त उक्त संस्कारोऽपि, यदि च संस्कार जवैशिष्ट्यबोधे स्वातन्त्र्येणोद्बोधकानामपि कारणत्वमिति तदभावादेव न संस्कारज विशिष्टवैशिष्टयबोधापत्तिः, एवमपि विशिष्टवैशिष्ट्य बुद्धित्वलक्षणसामान्यधर्मावच्छिन्नस्य कारणसद्भावात् तदापत्तिः स्यादेवेत्याशङ्कय प्रतिक्षिपति - न चेति - अस्य 'वाच्यम्' इत्यनेनान्वयः । 'रक्तत्वनिर्विकल्पकदशायाम्' इत्यस्य 'रक्तत्व निर्विकल्पको त्पत्तिद्वितीयक्षणे' इत्यर्थः, 'निर्विकल्पकोत्पत्तिक्षणे' इत्यर्थस्तु यदि विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य यत् कारणत्वं तत्रापि ज्ञानत्वमनिवेश्य विशेषणविषयकत्वेनैव कारणत्वमास्थीयते तदा सम्भवति, अन्यथाऽनुव्यवसायस्य विशिष्टबुद्धित्वस्यापि सम्भवात् तत्र कारणीभूतस्य रक्तत्वलक्षणविशेषणज्ञानस्योक्तनिर्विकल्पकात् पूर्वमभावेन न तदानीमापत्तिसम्भव इति बोध्यम् । तदभावे उद्बोधकाभावे । सामान्यसमश्या विशिष्टवैशिष्ट्य बुद्धित्वावच्छिन्न सामान्योत्पादक सामय्या, अत्रेदं बोध्यम्- संशयानुव्यवसायस्य विशेष्ये विशेषणम्' इति रीत्या जायमानत्वेऽपि कृत्याद्यनुव्यवसायस्य विशिष्टवैशिष्ट्यावगाहित्वेन तत्र विशेणतावच्छेदकप्रकारकज्ञानस्य कारणत्वेन तत्रैव व्यभि चाराशङ्कनमिदम्, तत्र कार्यतावच्छेदकः कारणतावच्छदेकश्च सम्बन्धः समवाय एव तत एव च कारणतावच्छेदककोटौ ज्ञानत्वानिवेशेऽनुद्बुद्धसंस्काराद् विशिष्टवैशिष्टयवोधापादनं सङ्गतिमङ्गति, अन्तरा व्यवसायहेतुत्वाभिधानं तु अनुव्यवसायं प्रत्येवेति । विशिष्टवैशिष्ट्यबुद्धिं प्रति विशेषणतावच्छेदकप्रकारकज्ञानस्य यत् कारणत्वं तत्र कारणतावच्छेदककोटौ ज्ञानस्वं निवेश्यत एव तेन नानुद्बुद्धसंस्काराद् विशिष्टवैशिष्ट्यबोधापत्तिः, 'रक्तदण्डं करोमि' इति कृतिसाक्षात्कारात् पूर्वं नियमतो 'दण्डो रक्त:' इति स्मरणमुपेयते, तद्रूपविशेषणतावच्छेदकप्रकारकज्ञानत एव विशिष्टवैशिष्टयबोधात्मा कृतिसाक्षात्कार इति न तत्र व्यभिचारोऽपीति निषेधहेतुमुपदर्शयति- कृति साक्षात्कार पूर्वमिति । 'स्मरणानभ्युपगमाद्' इति स्थाने 'स्मरणाभ्युपगमाद्' इति पाठो युक्तः । लाघवादाह- वस्तुत इति । हेतुत्वं विशिष्टवैशिष्टयावगाहिबुद्धित्वावच्छिन्नं प्रति कारणत्वम्, विशेषणतावच्छेदकप्रकारक विजातीयगुणो रक्तत्वप्रकारक दण्ड विशेष्यक कृतिरपि भवति, ततो 'रक्तदण्डं करोमि ' इत्याकारकस्य रक्तत्वविशिष्टदण्डवैशिष्टया व गाहिनोऽनुव्यवसायस्य सम्भवान्न तत्र व्यभिचार इत्याशयः । कृतिसाक्षाकारात् पूर्वं नियमतो विशेषणतावच्छेदकस्मरणस्य कल्पने यदा यदा कृति साक्षात्कारात्मक विशिष्ट वैशिष्टयबुद्धिर्भवति तदा तदा तत्स्मरणं कल्पनीयमिति गौरवमतः संस्कारव्यावृत्तस्य ज्ञानेच्छा कृतिवर्तिनो जातिविशेषस्य निरुक्तकारणतावच्छेदकतया कल्पनमेवोचितमित्याह- अनन्तेति । तद्धेत्विति - अनन्त स्मृति हेत्वित्यर्थः । तादृशजातीति - ज्ञानेच्छाकृतिवृत्तिजातीत्यर्थः । ननु मनोजन्यप्रत्यक्षं ज्ञानादिषु तदाश्रयीभूतात्मनि च लौकिकमिति तत्र लौकिकसन्निकर्षस्याधिपत्येऽपि ज्ञानादिविषयीभूतस्य बाह्यपदार्थस्य यत् तत्र भानं तत्र न मनसो लौकिकसन्निकर्षः किन्तु ज्ञानलक्षणा लौकिकसन्निकर्ष इति तद्बलादेव मानसे ज्ञानादिविशेषणतया बाह्यो भासत इति यदि कृतिसाक्षात्कारपूर्वं नियमतो निरुक्तस्मरणं न करूप्येत तदा कृत्यंशे रक्तत्वविशिष्टदण्डवैशिष्टयावगाह्यनुव्यवसाय एव न स्यादिति ज्ञानलक्षणप्रत्यासत्तिसम्पत्तये स्मरणंकल्पनमावश्यकमित्याशङ्क्य प्रतिक्षिपति न चेति- अस्य 'वाच्यम्' इत्यनेन सम्बन्धः । अन्यथा कृतिसाक्षात्कारपूर्वं विषयस्मृतेरकरूपने । उपनायकज्ञानविरहेण कृतौ विशेषणतया विषयभानप्रयोजकस्य ज्ञानलक्षणालौकिकसन्निकर्षस्याभावेन । कृतिसाक्षात्कारानुदयप्रसङ्गात् स्वविषयविशिष्टकृति साक्षात्कार लक्षणकृत्यनुव्यवसायानुत्पत्तिप्रसङ्गात् । तद्विषयका लौकिकप्रत्यक्षं प्रति ज्ञानलक्षणप्रत्यासत्तेस्तद्विषयकविजातीयगुणत्वेन हेतुत्वमिति कृतिसाक्षात्कारे कृत्यंशे विशेषणतया विषयस्य भानं तद्विषयक कृतिरूप प्रत्यासत्तित एवेति निषेधहेतुमुपदर्शयति- ज्ञानलक्षणेति- 'ज्ञानलक्षणप्रत्यासत्तीतरमपीच्छा कृतिसाधारण' ९२ Page #126 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिना समलङ्कतो नयोपदेशः । ९३ तापत्तेरिति विशिष्टवैशिष्ट्यानुभवत्वमेव च जन्यतावच्छेदकमास्थीयते, स्मरणे च तादृशविषयतानियामकः, इति बहवः । ___ केचित् तु-" अनुभवत्वजातौ मानाभावेन ज्ञानत्वस्यापि नित्यसाधारणतया जन्यतानवच्छेदकत्वाजन्यप्रत्यक्षवृत्तिजातिविशेष एव विशेषणतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेदकः, अनुमित्यादौ च परामर्शादिरेव तादृशविषयतानियामकः, एवं शाब्दबोधेऽवान्तरवाक्यार्थबोध एव तथा । अथ विजा इति स्थाने 'ज्ञानलक्षण प्रत्यासत्तेरपि ज्ञानेच्छाकृतिसाधारण' इति पाठो युक्तः । ज्ञानेच्छाकृतिसुख-दुःखद्वेषाणां मानसप्रत्यक्षं भवति धर्मा-ऽधर्मभावनानां तन्न भक्त्यात्मविशेषगुणत्वाविशेषेऽपीत्यतो ज्ञानेच्छादिषु षट्सु विषयविधया मानसकारणेषु जातिविशेषस्तत्कारणतावच्छेदकः, तदभावान्न धर्मादीनां त्रयाणां मानसमित्यात्मविशेषगुणमानसजनकतावच्छेदकतया सिद्धो निरुक्तजातिविशेषो नाप्रामाणिक इति तस्य विशिष्टवैशिष्टयबुद्धिजनकतावच्छेदककोटौ ज्ञानलक्षणप्रत्यासत्तिनिष्टकारणतावच्छदककोटी प्रवेशो न कल्पनागौरव प्रसङ्गावह इत्याह-अवश्यं चेति । अन्यथा आत्मविशेषगुणमानसजनकतावच्छेदकतया संस्कारादिव्यावृत्तजातिविशेषाकल्पने । उक्तदिशा विशेषणतावच्छेदकप्रकारकविजातीयगुणत्वस्य कारणतावच्छेदकत्वव्यवस्थितौ तदवच्छिन्नकारणतानिरूपितकार्यतावच्छेदककोटावनुभवत्वमेव निवेशनीयम्, स्मृत्यनुभवयोस्तु समानप्रकारताप्रत्यासत्त्या कार्थकारणभाव इति विशिष्टवैशिष्टयावगाह्यनुभवजन्ये विशिष्टवैशिष्टयावगाहिस्मरणे विशिष्टवैशिष्टयविषयता तादृशानुभवविषयता. प्रयुक्ता एवेति बहूनां विदुषां मतमुपदर्शयति-विशिष्टवैशिष्टयानुभवत्वमेवेति । जन्यतावच्छेदकं विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकम् । स्मरणस्योक्तजन्यतावच्छेदकधर्मानाक्रान्तत्वेन तत्र विशिष्टवैशिष्टयविषयतानियामकं न विशेषणतावच्छेदकमतस्तस्य नियामकं वाच्यमित्यपेक्षायामाह-स्मरणे चेति- अत्र 'स्मरणे च तादृशविषयतानियामकः' इति स्थाने 'स्मरणे च तादृशानुभव एव तादृशविषयतानियामकः' इति पाठो युक्तः । तादृशानुभव: विशिष्टवैशिष्टयावगाह्यनुभवः । तादृशविषयतेति-विशिष्टवैशिष्टयविषयतेत्यर्थः । 'अनुभवामि' इत्यनुव्यवसायः प्रत्यक्षात्मकज्ञानस्यैव, अनुमित्यादीनामनुव्यवसायस्तु सामान्यतो 'जानामि' इत्याकारकः, विशेषतस्तु 'अनुमिनोमि' इत्याकारक एवेत्यनुभवत्वजाती मानाभावान्न तस्य कार्यतावच्छेदककोटिसन्निविष्टत्वम् , ज्ञानत्वं तु नित्यानित्यसाधारणतया न जन्यतावच्छेदकं किन्तु जन्यप्रत्यक्षबृत्तिजातिविशेष एव तत्कार्यतावच्छेदककोटिनिविष्ट इति केषाश्चिन्मतमुपदर्शयति-केचित स्विति । जन्य. प्रत्यक्षवृत्तिजातिविशेष एवेति- प्रत्यक्षत्वसामान्यस्यापि नित्येश्वरप्रत्यक्षसाधारण्येन जन्यतानवच्छेदकत्वाद् विशिष्टवैशिष्टयावगाहित्वे सति जन्यप्रत्यक्षमात्रवृत्तिजातिविशेषस्येन्द्रियसन्निकर्षजन्यतावच्छेदकतया सिद्धस्य विशेगतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेकत्वमिति । नन्वेवं विशेषणतावच्छेदकप्रकारकनिर्णयाजन्यप्रत्यक्षविशेषे विशिष्टवैशिष्टयविषयत्वस्य सम्भवेऽप्यनुमित्यादौ नियामकाभावाद् विशिष्टवैशिष्टयविषयत्वं न स्यादित्यत आह-अनुमित्यादाविति। तादृशविषयतानियामकः विशिष्टवैशिष्टयविषयतानियामकः । तथा विशिष्टवैशिष्टयविषयतानियामकः । ननु यद्यनुमितौ विशिष्टवैशिष्टयविषयत्वे परामर्श एव नियामको न तु विशेषणतावच्छेदकप्रकारकनिर्णयस्तजन्यतावच्छेदकस्य विजातीयप्रत्यक्षत्वस्यानुमिताव. भावात् , तथा सति 'पृथिवी इतरेभ्यो भिद्यते' इत्यत्र 'इतरव्यापकीभूताभावप्रतियोगिपृथिवीत्ववती पृथिवी' इत्याकारकव्यतिरेकपरामर्शात् 'पृथिवीतरभिन्ना' इत्यनुमितिः पृथिवीतरभेदत्वविशिष्टवैशिष्टयावगाहिनी पृथिवीतरभेदत्वरूपविशेषणताव च्छेदकप्रकारकनिर्णयशून्यकालेऽपि स्यात्, यदि चान्वयसहचारेणेव व्यतिरेकसहचारेणाप्यन्वयव्याप्तिग्रहणे सत्येव 'पृथिवी पृथिवीतरभिन्ना' इत्यनुमितिरिति न व्यतिरेकपरामर्शादुक्तानुमितिः, अन्वयपरामर्शसत्त्वे तु इतरभेदत्वप्रकारकज्ञानमवश्यं समस्तीति नोक्तविशेषणतावच्छेदकप्रकारकज्ञानाभावकाल उक्तानुमित्यापत्तिः सम्भवतीति विभाव्यते, तदा यत्र व्यतिरेकपरामर्शो विद्यते स्वातन्त्र्येणेतरभेदत्वप्रकारकज्ञानं च समस्ति तत्र पृथिवीतरभेदानुमित्युत्पत्तिग्नुभूयते, साऽपि न स्यादन्वयव्याप्तिज्ञानाभावात् , इतरभेदलक्षणसाध्यविशेष्यकपृथिवीरूपपक्षप्रकारिकैव 'पृथिव्यामितरभेदः' इत्याकारकानुमितिस्तदानीमुत्पद्यत इति च वक्तुमशक्यम्, साध्यविशेष्यकानुमिती साध्यप्रसिद्धेविरोधित्वेन स्वातन्त्र्यणेतरभेदत्वप्रकारकज्ञानस्य साध्यप्रसिद्धिरूपतया तपप्रतिबन्धकसत्त्वे तादृशानुमित्युत्पादासम्भवात् , व्यतिरेकपरामर्शतो 'विशेष्ये विशेषणम्' इति रीत्या 'पृथिवी पृथिवीतरभिन्ना' इति रीत्याऽनुमितिर्जायत एवेत्यपि न वाच्यम्, तथा सति साध्यज्ञानं नास्ति साध्यप्रसिद्धिरूप Page #127 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। तीयप्रत्यक्षत्वस्य तज्जन्यतावच्छेदकत्वे 'इतरव्यापकीभूताभावप्रतियोगिपृथिवीत्ववती पृथिवी' इत्याकारकपरामर्शाद् इतरभेदत्वप्रकारकज्ञानदशायामिव तच्छून्यदशायामपि 'पृथिवी इतरभेदवती' इत्याकारकविशिष्टवैशिष्ट्य विषयताशालिन्या अनुमितेरापत्तिः, सादृशानुमितावन्वयव्याप्तिज्ञानस्यैव हेतुत्वान्नापत्तिरित्युको च स्वातन्त्र्येणेतरभेदत्वप्रकारकज्ञानस्य सत्त्वे सादृशानुमित्यनुदयापत्तिः, न च पृथिव्यामितरभेदविशेष्यकानुमितेरेव स्वीकारानेयमापत्तिः, साध्यविशेष्यकानुमितौ साध्यप्रसिद्धेविरोधितया तत्र प्रबन्धकाभावाद् व्यतिरेकपरामर्शतः सायविशेष्यिका 'पृथिव्यामितरभेदः' इत्याकारिका 'पृथिवी पृथिवीतरभिन्ना' इत्याकारिका च साध्यप्रकारिका 'विशेष्ये विशेषणम्' इति रीत्याऽनुमितिः स्यात् , साध्यरूपविशेषणज्ञानमपि विशिष्टबुद्धिकारणं यद्यपेक्षितं तदपि प्रमेयत्वेनेतरभेदज्ञानकाले समस्त्येव, साध्यतावच्छेदकप्रकारकसिद्धेरेव साध्यप्रसिद्धिविधया साध्यविशेष्यकानुमितिविरोधितया तस्याः प्रमेयत्वेन रूपेण साध्यज्ञानकालेऽभावात् , यदि च साध्यज्ञानमेव साध्यसिद्धिरिति प्रमेयत्वेन तज्ज्ञानमपि साध्यसिद्धिर्भवत्येव, तर्हि इतरभेदत्वलक्षणसाध्यतावच्छेदकप्रकारकं यद् भेदान्तरविशेष्यकज्ञानं तन्न साध्यसिद्धिरिति तत्काले साध्यविशेष्यकानुमितिरिष्टैव स्यात् तदर्थ प्रतिबन्धककोटौ विशिष्य साध्यविशेष्यकत्वं निवेशनीयं भवेदिति गौरवं स्यात् , अत इतरभेदत्वप्रकारकज्ञानकाले व्यतिरेकपरामर्शादपि विशिष्टवैशिष्ट्यावगाह्य नुमितिरेव भवति न तु 'विशष्ये विशेषणम्' इति रीत्या, एवं च तस्या विशेषणतावच्छेदकप्रकारकज्ञानशून्यकाले आपत्तिवारणाय विशेषणतावच्छेदकप्रकारक. ज्ञानजन्यतावच्छेदकमनुमितिसाधारणमेव स्वीकरणीयमिति शङ्कते- अथेति । विजातीयप्रत्यक्षत्वस्य जन्यप्रत्यक्षमात्रवृत्तिजातिविशेषस्य । तजन्यतावच्छेदकत्वे विशेषणतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेदकत्वे । इतरव्यापकीभूतेतिपृथिवीतरव्यापकीभूतेत्यर्थः । व्याप्यतावच्छेदकसम्बन्धश्च तादात्म्यम् । तच्छन्यदशायामपि इतरभेदत्वप्रकारकज्ञानशून्यदशायामपि, अनुमितौ विशिष्टवैशिष्ट्यावगाहिन्यामपि विशेषणातावच्छेदकप्रकारकनिर्णयस्याकारणत्वेन तत्सत्ताया अनावश्यकत्वात् । तादृशानुमितौ पृथिवी पृथिवीतरभेदवती' इत्याकारकानुभितौ । 'अन्वयव्याप्तिज्ञानस्यैव, इत्येवकारेण व्यतिरेकव्याप्तिज्ञानस्य व्यतिरेकव्याप्तिविशिष्टहेतुमत्तापरामर्शस्य च तादृशानुमितौ कारणत्वस्य व्यवच्छेदः ।' स्वातन्त्र्येणेति- यत्र 'पृथिवीतरव्यापक भूताभावप्रतियोगिपृथिव त्ववती पृथिवी' इत्याकारकव्यतिरेकपरामर्शः, परामर्शासन्निविष्टतयव पृथिवीतरभेदत्वप्रकारकज्ञानं च तत्र 'पृथिवी पृथिवीतरभिन्ना' इत्याकारकानुमितिरुत्पद्यमानाऽनुभूयते, सा न स्यात् तां प्रति तदानीं विद्यमानम्य व्यतिरेकपरामर्शस्याकारणत्वात् , तत्कारणतयाऽभिमतस्यान्वयव्याप्तिज्ञानस्य तदानीमभावादित्यर्थः । 'सादृश' इति स्थाने 'तादृश' इति पाठो युक्तः । तदानीं 'पृथिव्यामितरभेदः' इत्याकारिका आधेयतासम्बन्धेन पृथिवीप्रकारकपृथिवीतरभेदविशेष्यकैवानुमितिरेवोदयते इत्याशङ्कय प्रतिक्षिपति-न चेति । नेयमापत्तिरिति- तदानीं पृथिवीविशेष्यकपृथिवीतरभेदप्रकार कानुमितेरनुपगमान्न तदनुत्पत्त्यापादनम् , इष्टापत्तिरूपतया न दोषावहमित्यर्थः । साध्यविशेष्यकानुमितौ साध्यप्रसिद्धेविरोधित्वेन स्वातन्त्र्येणेतरभेदत्वप्रकारकज्ञानस्य विरोधिनः सत्त्वे तदानीं साध्यविशेष्यकानुमित्युत्पादस्यासम्भवेन साध्यप्रकारकानुमित्युत्पादस्यैव स्वीकर्तुमुचितत्वेन तदनुमित्यनुत्पादापादनस्यानिष्टतयेष्टापादनत्वेन तत्परिहरणं कर्तुमशक्यमिति निषेधहेतुमुपदर्शयति - साध्य विशेष्यकानुमिताविति । तत्र इतरभेदत्वप्रकारकज्ञानकाले । तादृशानुमित्युत्पादासम्भवात् पृथिव्यामितरभेदविशेष्यकानुमित्युत्पादस्यासम्भवात् । तदानीं 'विशेष्ये विशेषणम्' इति रीत्या साध्य प्रकारिकाऽनुमितिरुपजायत इत्याशङ्कय प्रतिक्षिपति-न चेति । तत्र स्वातन्त्र्येणेतरभेदत्वप्रकारकज्ञानकाले । यदि 'विशेष्ये विशेषणम्' इति रीत्येव पृथिवीतरभेदप्रकारिकानुमितिरुपेयते तदा तत्र विशेषणतावच्छेदकप्रकारकज्ञानस्य नापेक्षेति यदा स्वातन्त्र्येणापि पृथिवीतरभेदत्वप्रकारकज्ञानं नास्ति किन्तु केवलव्यतिरेकपरामर्श एव विद्यते तदानीं साध्यविशेष्यकानुमितिप्रतिबन्धकसाध्यप्रसिद्धरभावात् साध्यविशेष्यिकोक्तदिशा साध्यप्रकारिका चेत्युभयाकारानुमितिः स्यादिति निषेधहेतुमुपदर्शयति-तथा सतीति- विशेष्ये विशेषणमिति रीत्या साध्यप्रकारकानुमितेरभ्युपगमे सतीत्यर्थः, । तादृशपरामर्शात् 'पृथिवीतरव्यापकीभूताभावप्रतियोगिपृथिवीत्ववती पृथिवी' इत्याकारकव्यतिरेकपरामर्शात् , ननु विशेष्ये विशेषणमिति रीत्याऽनुमितिरपि विशिष्टबुद्धिर्भवत्येव, सा साध्यरूपविशेषणज्ञानजन्येति साध्यज्ञानाभावे कारणाभावानोत्पतुमहतीत्याशङ्कय प्रतिक्षिपति-न चेति । नेयमापत्तिः पृथिवी पृथिवीतरभिन्ना' इत्याकारकानुमित्यापत्तिर्न सम्भवति । निषेधे हेतुमाह-एवमपीति- स्वातन्त्र्येण पृथिवीतरभेदत्वप्रकारकज्ञानशून्यकाले विशेषणज्ञानाभावात् ' साध्यप्रकारकशानलक्षणसाध्यविशिष्टबुद्धयापादनासम्भवेऽपीत्यर्थः । तथाविधानुमितेः 'पृथिवी पृथिवीतरभिन्ना' इत्याकारिकायाः, तरकपरामर्श एवं पृथिवीतरव्या वात- विशेष्ये विष्यकोक्तदिशा विशेष Page #128 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । - तादृशानुमित्युत्पादासम्भवात् , न च 'विशेष्ये विशेषणम्' इति रीत्या 'पृथिवी इतरभेदवती' इत्याकारकानुमितिस्तत्र जायत एवेति वाच्यम् , तथा सति साध्यज्ञानशून्यकाले तादृशपरामर्शात् 'पृथिव्यामितरभेदः, पृथिवी इतरभेदवती' इत्याद्याकारकद्विविधविषयताशालिन्या अनुमितेरापत्तेः, न च विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य हेतुत्वान्नेयमापत्तिः, एवमपि प्रमेयत्वेनेतरभेदज्ञानकाले तथाविधानुमितेरापत्तिसम्भवात्, न च प्रमेयत्वादिना साध्यज्ञानकाले साध्यविशेष्यकानुमितिप्रतिबन्धकीभूतसाध्यसिद्धिसत्वेन न तत्र तथाविधविषयताशाल्यनुमित्यापत्तिरिति वाच्यम् , साध्यतावच्छेदकप्रकारकसिद्धेरेव साध्यविशेष्यकानुमितिविरोधित्वात् , अन्यथेतरभेदत्वरूपेण भेदान्तरावगाहिसिद्धिकाले तादृशानुमितिवारणाय तत्र पक्षविशेध्यतां निवेश्य सिद्धेः प्रतिबध्यप्रतिबन्धकभावान्तरापत्तेः, तस्मादितरभेदत्वप्रकारकज्ञानकालीनव्यतिरेकव्याप्तिज्ञानजन्यानुमितिविशिष्टवैशिष्ट्यविषयतास्वीकार आवश्यकः, तत्साधारण्यं च विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकस्यावश्यकम् , तथा च सति नेतरभेदत्वप्रकारकज्ञानशून्यकाले 'विशेष्ये विशेष. णम्' इति रीत्येतरभेदत्वप्रकारकद्विविधविषयताशाल्यनुमित्यापत्तिः, विशिष्टवैशिष्ट्यानवगाहिन्या विशेष्ये विशेषणमिति रीत्या जायमानाया अनुमितेरप्रसिद्धः, विशिष्टवैशिष्ट्यावगाहिन्यां च विशेषणतावच्छेदकपृथिव्यामितरभेदः' इत्याकारिकायाश्चैत्येवंद्विविधविषयताशालिन्या अनुमितेः। ननु प्रमेयत्वेन रूपेण यदितरभेदज्ञानं तत् साध्यप्रसिद्धिरूपत्वात् साध्यविशेष्यकानुमितिप्रतिबन्धकमिति तत्काले जायमानाया अनुमितेः साध्यविशेष्यकत्वाभावान्नोक्तद्विविधविषयताशाल्यनुमित्यापत्तिरित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य वाच्यम्' इत्यनेनान्वयः। तत्र प्रमेयत्वादिना साध्यज्ञानकाले । तथाविधेति-निरुक्तद्विधेत्यर्थ. । साध्यविशेष्यकानुमिति प्रति साध्यसिद्धेः साध्यतावच्छेदकप्रकार कमिद्धित्वेनैव प्रतिबन्धकत्वम् , प्रमेयत्वं च न प्रकृतसाध्यतावच्छेदकमिति तत्प्रकारकज्ञानस्य साध्यतावच्छेदकप्रकारकज्ञानत्वाभावात् प्रतिबन्धकत्वाभावेन तथाविधविषयताशाल्यनुमित्यापत्तिः स्यादेवेति निषेधहेतुमुपदर्शयति-साध्यतावच्छेदकप्रकारकसिद्धेरेवेति । अन्यथा साध्यतावच्छेदकप्रकारक ज्ञानत्वेन साध्यविशेष्यकानुमितिं प्रति साध्यसिद्धेः प्रतिबन्धकत्वमनभ्युपगम्य साध्यविषयकज्ञानत्वेन प्रतिबन्धकत्वाभ्युपगमे । 'तादृशानुमितिवारणाय' इति स्थाने 'तादृशानुमित्यनुत्पत्तिवारणाय' इति पाठो भवितुमर्हति । अत्रायमभिप्रायः- साध्यतावच्छेदकप्रकारक ज्ञानत्वेन साध्यसिद्धेः प्रतिबन्धकत्वे इतरभेदत्वेन भेदान्तरावगाहिज्ञानस्यापि साध्यविशेष्यकानुमितिं प्रति प्रतिबन्धकत्वेन तत्काले साध्यविशेष्यकानुमित्यनुत्पत्तिरयत्नोपनतेव, साध्यज्ञानत्वेन प्रतिबन्धकत्वपक्षे तु यत्साध्यस्य ज्ञानं तत्साध्यविशेष्यकानुमितिर्न भवतीति पृथिवी. तरभेदत्वेन भेदान्तरावगाहि ज्ञानं न साध्यविशेष्यक ज्ञानमिति तन्न स्त्र प्रतिबन्धकमिति भवत्येव तत्र साध्यविशेष्यकानुमितिरित्येवं यत् तादृशानुमित्युनुत्पत्तेरिणं तद् विशिष्य साध्यविशेष्यकत्वस्य प्रतिबध्यप्रतिबन्धकभावकोटौ निवेशे सत्येव इत्येवं प्रतिबध्यप्रतिबन्धकभावान्तरापत्त्या गौरवमिति । 'पक्षविशेष्यताम' इत्यस्य पक्षनिरूपिता या साध्यनिष्ठविशेष्यता तामित्यर्थः । 'अथ' इत्याशङ्कि । स्ववक्तव्यमुपसंहरन्नाह-तस्मादिति । 'झानजन्यानुमिति' इति स्थाने 'ज्ञानजन्यानुमितौ' इति पाठो. युक्तः । यदा चोक्तानुमितौ विशिष्टवैशिष्टयविषयता तदा तादृशानुमितिरपि विशेषणतावच्छेदकप्रकारकनिर्णयजन्येति विशिष्टवैशिष्टयप्रत्यक्षत्वं तदवृत्तित्वान्न्यूनवृत्तितया न विशेषणतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेदकं किन्तु प्रत्यक्षानुमितिसाधारणमेव विशेषणतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेदकमुपेयमित्याह-तत्साधारण्यं चेतिअनुमितिसाधारण्यं चेत्यर्थः, विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकस्य तत्साधारण्यं चावश्यकमित्यन्वयः। तथा च सति विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकस्यानुमितिसाधारण्ये च सति । नेतरेति- नमोऽनुमित्यापत्तिरित्यनेनान्वयः । कथं नोक्तद्विविधविषयताशाल्यनुमित्यापत्तिरित्यपेक्षायामाह-विशिष्टवैशिष्ट्यानवगाहिन्या इति'विशेष्ये विशेषणम्' इति रीत्या काऽप्यनुमितिर्भवत्येव नेत्यप्रसिद्धत्वादेव पृथिवी पृथिवीतरभिन्ना' इत्याकारकानुमितेः 'विशेष्ये विशेषणम्' इति रीत्याऽभ्युपगन्तुमशक्यत्वाद् विशिष्टवैशिष्ट्यावगाहिनी सा भवति, किन्तु तां प्रति विशेषणतावच्छेदकप्रकारकनिर्णयविधया पृथिवीतरभेदत्वप्रकारकनिर्णयः कारणमिति तच्छून्यकाले तद्रूपकारणाभावादेव न सोत्प. तुमर्हतीति 'पृथिवी इतरभेदव्यापकीभूताभावप्रतियोगि थिवीत्ववती' इत्याकारकव्यतिरेकपरामर्शात् तदानीं 'पृथिव्यामितरभेदः' इत्येकाकारैवानुमितिरिति द्विविधविषयताशाल्यनुमित्यापत्तिर्न सम्भवतीत्यर्थः। विशिष्टवैशिष्ट्यावगाह्यनुभवत्वमेव Page #129 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । प्रकारकनिर्णयस्य हेतुत्वादिति चेत् ? एवमप्यनुमितौ स्वातन्त्र्येणैव हेतुत्वम् , अनुमितिसाधारणजन्यताव. च्छेदकत्वे नित्यव्यावर्तनाय जन्यत्वनिवेशस्यावश्यकत्वे मिथोविशेषणविशेष्यभावे विनिगमनाविरहेण नानाकार्यकारणभावस्यावश्यकत्वादवच्छेदकगौरवाञ्च' इत्याहुः । परे तु-"अनुभवत्वादिकमनिवेश्यं विशिष्टवैशिष्ट्यविषयतावत्त्वमेव तदवच्छेदकम् , विशेषणतावच्छेदकप्रकारकज्ञानशून्यकालीनस्मरणे ईश्वरज्ञाने च विशेष्ये विशेषणम्' इत्येतादृशविषयतामात्र. मभ्युपेयते, अतो न व्यभिचारो नवा नित्यसाधारणम्” इत्याहुः। ... केचित् तु विशेषणतावच्छेदकसंशयकाले विशिष्टवैशिष्ट्यबोधं स्वीकृत्य विशेषणतावच्छेदकप्रकारकप्रत्यक्षा-ऽनुमितिसाधारणम्, तच्च नित्यप्रत्यक्षसाधारणत्वान्न कार्यतावच्छेदकम् , जन्यानुभवमात्रवृत्तिजातिविशेषश्च नाभ्युपगन्तुं शक्यः, प्रत्यक्षत्वाभाववत्यनुमितौ तस्य सत्त्वं तदभाववति नित्यप्रत्यक्षे प्रत्यक्षत्वस्य सत्त्वमित्येवं परस्परात्यन्ताभावसामानाधिकरण्ये सति तयोर्जन्यप्रत्यक्षे विद्यमानत्वेन प्रत्यक्षत्वेन साङ्कर्यात् , किन्तु जन्यत्वे सति विशिष्टवैशिष्ट्यावगाह्यनुभवत्वं तदुभयसाधारणं विशेषणतावच्छेदकप्रकारकनिर्णयकार्यतावच्छदकं वाच्यम् , तत्र यथा जन्यत्वं सामानाधिकरण्यसम्बन्धेनानुभवत्वस्य विशेषणं तथाऽनुभवत्वमपि सामानाधिकरण्यसम्बन्धेन जन्यत्वस्य विशेषणं सम्भवत्येव, न चात्र विनिगमकं किञ्चिद् येन जन्यत्वविशिष्टमनुभवत्वमेव निरुक्तजन्यावच्छेदक नानुभवत्वविशिष्ट जन्यत्वं तथेति गुरुधर्मावच्छिन्न कार्यकारणभावद्वय प्रसङ्ग इत्यतोऽनुमितेविशिष्टवैशिष्ट्यागाहिन्या यद् विशेषणतावच्छेदकप्राकारकनिर्णयजन्यत्वं तदवच्छेदकमन्यदेव, तदन्यदेव च विशिष्टवैशिष्ट्यावगाहिप्रत्यक्षे विशेषणतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेदकमिति- समाधत्ते- एवमपीति- अनुमितेविशिष्टवैशिष्ट्यावगाहित्वेन विशेषणतावच्छेदकप्रकारकनिर्णयजन्यत्वेऽपीत्यर्थः । स्वातन्त्र्येणैवेति-विशिष्टवैशिष्टयावगाह्यनुमितित्वावच्छिन्नं प्रति विशेषणतावच्छेदकप्रकारकनिर्णयत्वेन कारणत्वमित्यर्थः। नन्वेवमुक्तानुमिति प्रति पृथकारणत्वं पृथक् च प्रत्यक्षविशेष प्रति कारणत्वमित्येवं गौरवं स्यादतोऽनुमितिसाधारणधर्मस्य कार्यतावच्छेदकत्वमुररीकृत्यैक कारणत्वकल्पनमेव न्यायमित्यत आह- अनुमितीति- अनुमितिसाधारणधर्मस्य विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकल इत्यर्थः । नित्यव्यावर्तनाय नित्यप्रत्यक्षे कार्यतावच्छेदकधर्मस्य व्यावर्तनाय । जन्यत्वनिवेशस्य जन्यत्वे सति विशिष्टवैशिष्टयावगाह्यनुभवत्वावच्छिन्नं प्रति विशेषणतावच्छेदकप्रकारकनिर्णयः कारणमित्येवं कार्यकारणभावक्लप्ती कार्यतावच्छेदककोटी जन्यत्वनिवेशस्य । मिथोविशेषणविशेष्यभाव इति- सामानाधिकरण्यसम्बन्धेन जन्यत्वविशिष्टनिरुक्तानुभवत्वं प्रकृतकार्यतावच्छेदकयुक्तानुभवत्वविशिष्टं जन्यत्वं वा तथेत्येवं विशेषणविशेष्यभावे । नानाकार्यकारणभावः स्वातन्त्र्येणानुमितित्वस्य कार्यतावच्छेदकत्वेऽप्यत आह-अवच्छदकगौरवाच्चेति । विशिष्टवैशिष्टयविषयतावत्त्वावच्छिन्नं प्रति विशेषणतावच्छेदकप्रकारकनिर्णयः कारणमित्येकविध एव कार्यकारणभाव:. विशिष्टवैशिष्ट्यविषयतावत्त्वं यथा प्रत्यक्षविशेषे तथाऽनुमितावपीति, ईश्वरप्रत्यक्षं विशेषणतावच्छेदकप्रकारकज्ञानशून्यकालीनं स्मरणं च 'विशेष्ये विशेषणम्' इति रीत्यैवोपेयत इति तत्र विशिष्टवैशिष्ट्यविषयतावत्त्वस्याभावादेव व्यभिचाराप्रसक्तावीश्वरप्रत्यक्षव्यावर्तनाय जन्यत्वस्य स्मरणव्यावर्तनायानुभवत्वस्य कार्यतावच्छेदककोटौ न निवेश इति परेषां मतमुपदर्शयति-परे विति- अस्त्र 'आहुः' इत्यनेन सम्बन्धः । 'अनिवेश्यम्' इत्यस्य स्थाने 'अनिवेश्य' इति पाठो युक्तः। तदवच्छेदकं विशेषणतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेदकम् । अत: ईश्वरक्षाने निरुक्तस्मरणे च विशिष्टवैशिष्ट्यविषयतावत्त्वाभावात् । 'दण्डो रक्तो नवा' इति संशयानन्तरं 'रक्तदण्डवान्' इति रक्तत्वविशिष्टदण्डवैशिष्टयावगाहिबुद्ध्यनुत्पत्तावेव विशेषणता. वच्छेदकप्रकारकनिर्णयत्वेन विशिष्टवैशिष्टयावगाहिबुद्धि प्रति कारणत्वमभ्युपेयम्, न चैवम् , उक्त संशयानन्तरमपि विशिष्टवैशिष्टयावगायुक्तबुद्धिरुत्पद्यत एवेति विशिष्टवैशिष्टयावगाहिबुद्धिं प्रति विशेषणतावच्छेदकप्रकारकज्ञानत्वेनैव कारणत्वं लाघवादुपेयते, अथवा लाघवाद् विशेषणतावच्छेदकप्रकारकज्ञानत्वेन विशिष्टवैशिष्टयावगाहिबुद्धि प्रति कारणत्वे व्यवस्थिते विशेषणतावच्छेदकप्रकारकसंशयकालेऽपि विशिष्टवैशिष्टयावगादिबोधः स्वीक्रियत इति केषाञ्चिन्मतं प्रतिक्षेप्तुमुपन्यस्यतिकेचित् त्विति- अस्य 'आहुः' इत्यनेनान्वयः। अत्र संशयस्य ज्ञानत्वादिना कारणत्वं प्रतिबन्धकत्वं वा, तत्राप्रामाण्यज्ञानस्य निर्णयत्वेनैवोत्तेजकत्वम् , अर्थात् अप्रामाण्यनिर्णयानास्कन्दितस्यैव ज्ञानस्य कारणत्वं प्रतिबन्धकत्वं वा, यतोऽप्रामाण्यनिर्णये सति तज्ज्ञानविषयस्य वैपरीत्यं सुनिश्चितं भवतीति तज्ज्ञानं स्वविषयस्य संशयात्मना निर्णयात्मना चाव्यवस्थिती Page #130 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । ज्ञानत्वेनैव हेतुत्वमाहुः, तदसत् - संशयसाधारणज्ञानस्य हेतुत्वेऽप्रामाण्यनिर्णयस्यैवोत्तेजकतया निर्णयत्वेन हेतुत्वे चाप्रामाण्यज्ञानस्यैव तथात्वे निर्णयत्वेन हेतुत्वकल्पनाया एवोचितत्वाद्, अन्यथा विशेषणतावच्छेदकप्रकारकज्ञानीयनिर्णयत्वापेक्षया गुरुशरीरस्याप्रामाण्यज्ञाननिर्णयत्वस्य निवेशेन महागौरवप्रसङ्गात्, अथ विशेषणतावच्छेदकसंशयकाले तत्र चाप्रामाण्यशङ्कायां भवन्मत इव ममापि विशिष्टवैशिष्ट्य बोधो न जायत इत्यप्रामाण्यज्ञानत्वावच्छिन्नाभावस्यैव निवेशे क्व दोष इति चेत् ? एवमपि संशयसाधारणज्ञानस्य विशिष्टवैशिष्ट्यबोधहेतुत्वे अनुमित्यादिकं प्रति परामर्शहेतुत्वे व्याध्याद्यंशे निर्णयत्वनिवेशे महान स्वकार्यं कार्यान्तरं वा कुर्यात् प्रतिबध्नीयाद् वा, तत्राप्रामाण्यसंशये तु तदधीनो विषयसंदेह एव, न तद्वैपरीत्यमिति स्वविषयसंशयात्मकत्वं तस्याक्षुण्णमेवेति तदात्मनस्तस्य स्वकार्यकरणसामर्थ्यं कार्यान्तरः तिबन्धनसामर्थ्यं च समस्त्येवेत्य प्रामाण्यसंशयस्याकिञ्चित्करत्वान्न तत्रोत्तेजकत्वम्, यत्र तु निर्णयस्यैव कारणत्वं प्रतिबन्धकत्वं वा तत्राप्रामाण्यज्ञानस्याप्रामाण्यज्ञानत्वेनैवोत्तेजकत्वम्, अर्थादप्रामाण्यज्ञानानास्कन्दितस्यैव तस्य कारणत्वं प्रतिबन्धकत्वं वा, यतस्तत्राप्रामाण्यसंशये अप्रामाण्यनिर्णये वा सति तस्य स्वविषये सन्दिग्धत्वस्य वैपरीत्यस्य वा प्राप्तौ निर्णयरूपता तस्य स्वदिषयादपैतीति निर्णयात्मना तस्य न स्वकार्यकारित्वं कार्यान्तरप्रतिबन्धकत्वं वेति, एवं च प्रकृते विशेषणतावच्छेदकप्रकारकज्ञानत्वेन विशिष्टवैशिष्टयावगाहिबुद्धिं प्रति कारणत्वे तत्राप्रामाण्यनिर्णयत्वेनैवाप्रामाण्यज्ञानस्योत्तेजकत्वमिति गौरवम्, विशेषणतावच्छेदकप्रकारकनिर्णयत्वेन कारणत्वे तु अप्रामाण्यज्ञानत्वेनैवोत्तेजकत्वमिति लाघवम्, ततो विशेषणतावच्छेदकप्रकारक निर्णयत्वस्यैव प्रकृतकार्यकारणत्वावच्छेदकत्वं युक्तमतः केषाञ्चिन्मतं न युक्तमित्याह - तदसदिति । तथात्वे उत्तेजकत्वे । अन्यथा निर्णयत्वस्य कारणतावच्छेदककोटावनिवेश्य तत्स्थाने ज्ञानत्वस्य निवेशे । विशेषणले ति - विशेषणतावच्छेदकप्रकारक निर्णयत्वं विशेषणतावच्छेदकाभावाप्रकारकत्वे सति विशेषणतावच्छेदकप्रकारकज्ञानत्वम्, तदपेक्षया तदभाववन्निष्ठविशेष्यता निरूपिततन्निष्ठप्रकारताकत्वलक्षणाप्रामाण्या भावाप्रकारकत्वे सति निरुक्ताप्रामाण्यनिष्ठ प्रकारता कल लक्षणाप्रामाण्यज्ञाननिष्ठनिर्णयत्वस्योत्तेजककोटौ विशेषणतावच्छेदकप्रकारकज्ञानत्वेन कारणत्वपक्षे प्रविष्टस्य गुरुत्वं सुव्यक्तमेवातो महागौरवप्रसङ्गादप्रामाण्यज्ञानानास्कन्दितविशेषणतावच्छेदकप्रकारकनिर्णयत्वेनैव विशिष्टवैशिष्टयावगाहिबुद्धिं प्रति कारणत्वं न तु अप्रामाण्य निर्णयानास्कन्दितविशेषणतावच्छेदकप्रकारकज्ञानत्वेनेति । ननु विशेषणतावच्छेदकप्रकारक ज्ञानत्वेन कारणत्वपक्षेऽप्यप्रामाण्यज्ञानत्वेनैवोतेजकत्वम्, यथा विशेषणतावच्छेदकप्रकारकनिर्णयत्वेन कारणत्वपक्षे विशेषणतावच्छेदकप्रकारक निर्णये अप्रामाण्यशङ्कायां ततो विशिष्टवैशिष्टयावगाहिज्ञानं न जायते तथा विशेषणतावच्छेदकप्रकारकज्ञानत्वेन कारणत्वपक्षेऽपि विशेषणतावच्छेदकप्रकारकसंशयेऽप्रामाण्यशङ्कायां ततो विशिष्टवैशिष्टयावगाहिबोधो न जायत एवेति तत्त्वेन कारणत्वपक्षेऽपि न गौरवमित्याशङ्कते - अथेति । तत्र च विशेषणतावच्छेदकसंशये च । भवन्मत इव विशेषणतावच्छेदकप्रकारक निर्णयत्वेन कारणत्वमिति मते विशेषणतावच्छेदकप्रकारकनिर्णयेऽप्रामाण्यशङ्कायामिव । ममापि विशेषणतावच्छेदकप्रकारक ज्ञानत्वेन कारणत्वमित्यभ्युपगन्तुर्मतेऽपि । निवेशे विशेषणतावच्छेदकप्रकारक ज्ञाननिष्ठ कारणतावच्छेदकतया निवेशे । विशिष्टवैशिष्टयबोधं प्रति विशेषणतावच्छेदकप्रकारक निर्णयस्य हेतुत्वे अनुमितिं प्रति हेतुत्वेनाभिमतस्य परामर्शस्य विशिष्टवैशिष्टयावगाहिबोधात्मकस्य कारणं विशेषणतावच्छेदकीभूतव्याप्तिप्रकारक निर्णय एवेति ततो जायमानस्य न व्याप्यंशे संशयरूपता, व्याप्त्यभावप्रकारक - ज्ञानं प्रति व्याप्तिप्रकारकनिश्चयस्य प्रतिबन्धकत्वेन व्याप्तिप्रकारक निर्णयोत्तरजायमानज्ञाने व्याप्यभावप्रकारकत्वासम्भवादित्येतावतैव परामर्शो व्याप्त्यंशे निर्णयरूप एवेति, यद्यपि अनाहार्याप्रामाण्यज्ञानानास्वन्दिततद्वत्ता निश्चयस्यैव तदभाववत्ताबुद्धिं प्रति प्रतिबन्धकत्वमित्याहार्यव्याप्तिप्रकारकनिश्चये सत्यपि तदनन्तरजायमानज्ञाने व्याप्त्यभावप्रकारकत्वं सम्भवति, तथापि विशेषणतावच्छेदकप्रकारकनिश्चयस्यानाहार्य प्रामाण्यज्ञानानास्कन्दितस्यैव विशिष्टवैशिष्ट्यबोध हेतु मिति विशिष्टवैशिष्ट्या वगाहिपरामर्शहेतुतयाऽऽदरणीयस्य व्याप्तिलक्षणविशेषणतावच्छेदकप्रकारक निर्णयस्यानाहार्यत्वमेवेति न तदनन्तरं व्याप्तिप्रकारक संशयसम्भव इति अनुमितिं प्रति परामर्शस्य हेतुत्वे व्याप्यंशे निश्चयत्वं न निवेश्यते, विशेषणतावच्छेदकप्रकारक ज्ञानत्वेन संशयसाधारणधर्मेण कारणत्वपक्षे तु व्याप्तिरूपविशेषणतावच्छेदकप्रकारकसंशयादपि निरुक्तपरामर्शस्य सम्भवेन व्याप्यंशे संशयरूपस्यापि तस्य सम्भवेन ततोऽनुमित्युत्पत्तिवारणाय व्याप्यंशे निर्णयात्मकत्वं तस्य कारणतावच्छेदककोटौ निवेशनीयमिति गौरवं स्यादिति समाधत्ते - एवमपीति- विशेषणतावच्छेदकप्रकारकसंशयेऽप्रामाण्यसंशयदशायां विशिष्टवैशिष्ट्यबोधोत्पादस्यान १३ ९७ Page #131 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । गौरवात्, विशेषणतावच्छेदकप्रकारकनिश्चयस्य चानाहार्यस्यैव हेतुत्वस्वीकारादाहार्यतदुत्तरोत्पन्नज्ञाने व्याप्त्यंशे निर्णयत्वनिवेशानावश्यकत्वात् , ननु तथापि 'विशेष्ये विशेषणम्' इति ज्ञानसाधारण्येवातिरिक्तप्रकारिताऽस्तु तदवच्छिन्नेऽप्रामाण्यनिश्चयाभावकूटविशिष्टसंशयाभावस्य नियामकस्याप्रामाण्यज्ञानाभावकूटविशिष्टनिश्चयत्वावच्छिन्नतो लघुत्वात् , इयमेव योग्यताज्ञानादिनिष्ठहेतुतावच्छेदिका बाधादिप्रतिबन्धकतावच्छेदिका च, अत एवानन्वितान्वयबुद्धेर्बाधादिप्रतिबद्ध्यत्वप्रतिबन्धकरवे, अत एव (च) व्याप्तिप्रकारनिश्चयोत्तरमपि व्याप्त्यभावांशे आहार्यसंशयात्मकतथाविधज्ञानादनुमित्यनापत्तिः, कार्यसहभावेन तथाविधसंशयस्य प्रतिबन्धकत्वादिति चेत् ? न-अप्रामाण्यनिश्चयत्वावच्छिन्नाभावविशिष्टनिरुक्त भ्युपगमेऽपीत्यर्थः । आहार्यतदुत्तरोत्पन्नज्ञान इति- आहार्यं यद् विशेषणतावच्छेदकीभूतव्याप्तिप्रकारकनिर्णयात्मकं तदव्यवहितोत्तरोत्पन्नज्ञाने इत्यर्थः, तच्च ज्ञानमनाहार्यत्याप्तिप्रकारकनिर्णयाभावाद् व्याप्तिविशिष्टवैशिष्टयावगाहि परामर्शात्मकं न भवत्येवेति तदानीं परामर्शाभावादेव नानुमितिरिति तत्र व्याप्यंशे निर्णयत्वस्यानावश्यकत्वादित्यर्थः । ननु यदि विशेषणतावच्छेदकप्रकारकसंशयतो विशिष्टवैशिष्टयावगाहिबोधो न भवतीति संशयसाधारणरूपेण न कारणत्वं तर्हि 'विशेष्ये विशेषणम्' इति रीत्या ज्ञानसाधारणी याऽतिरिक्तप्रकारिता तामुपगम्य तदवच्छिन्नं प्रति तत एव विशेषणतावच्छेदकप्रकारकसंशयकाले न तादृशप्रकारित्वावच्छिन्नोत्पत्त्यापत्तिसम्भव इति तादृशप्रकारित्वावच्छिन्नोत्पत्तिवारणाय तादृशप्रकारित्वावच्छिन्नं प्रति अप्रामाण्यज्ञानाभावकूटविशिष्टविशेषणतावच्छेदक प्रकारकनिश्चयत्वावच्छिन्नस्य नियामकत्वं न कल्पनीयं तादृशसंशयाभावापेक्षया तस्य गुरुत्वात् , विशेष्ये विशेषणमिति रीत्या ज्ञानसाधारणी प्रकारितैव च शब्दबोधं प्रति योग्यताज्ञानस्य या कारणता तदवच्छेदिक पि, तथा तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयलक्षणबाधनिश्चयस्य यत् प्रतिबन्धकत्वं यच्च तन्निरूपितप्रतिबध्यत्वं तयोरवच्छेदिकाऽपि, एवं तदभाववत्ताबुद्धिं प्रति तद्वत्तानिश्चयस्य यत् प्रतिबन्धकत्वं यच्च तन्निरूपितप्रतिबध्यत्वं तयोरव. च्छेदिकाऽपि, तत एव च 'विशेष्ये विशेषणम्' इति रीत्या यः शाब्दबोधोऽनन्वितान्वयबोधात्मा तस्यापि बाधबुद्धिं प्रति प्रतिबध्यत्वं प्रतिबन्धकत्वं च सम्भवतः, अप्रामाण्यनिश्चयाभावकूटविशिष्टसंशयाभावस्य प्रतिबन्धकाभावविधया कार्यसहभावेन तादृशप्रकारित्वावच्छिन्नं प्रति नियामकत्वाश्रयणादव यत्र व्याप्तिप्रकारकनिश्चयानन्तरं व्याप्त्यभावांशे आहायसंशायात्मको व्याप्तिविशिष्टवैशिष्टयावगाहिपरामर्शस्तत्र ततो नानुमित्यापत्तिः कार्यकाले निरुक्तसंशयस्यैव कार्यसहभावेन प्रतिबन्धकस्य भावादिति शङ्कते-नन्विति । तदवच्छिन्ने विशेष्ये विशेषणमिति ज्ञानसाधारणप्रकारित्वावच्छिन्ने, अस्य 'नियामकस्य' इत्यनेनान्वयः, तच्च संशयाभावस्य' इत्यस्य विशेषणम्, 'संशयाभावस्य' इत्यस्य 'लघुत्वाद्' इत्यत्रान्वयः । इयमेव विशेष्ये विशेषणमिति ज्ञानसाधारणप्रकारितव, 'बाधादि' इत्यादिपदात् तद्ववत्तानिश्चयादः प्रतिबन्धकान्तरज्ञानस्य चोपग्रहः । अत एव निरुक्तप्रकारिताया बाधादिप्रतिबन्धकताद्यवच्छेदकत्वोपगमादेव । अत एव च निरुक्तप्रकारित्वावच्छिन्नेऽप्रामाण्यनिश्चयाभावकूटविशिष्टसंशयाभावस्य नियामकत्वादेव पुनः । तथाविधज्ञानात् विशेष्ये विशेषण मिति ज्ञानसाधारणप्रक रित्वावच्छिन्नपरामर्शात्मकज्ञानात् । तथाविधसंशयस्य अप्रामाण्यनिश्चयाभावकूटविशिष्टस्य व्याप्त्यभावांशे आहार्यसंशयस्य । अप्रामाण्यनिश्चयत्वावच्छिन्नाभावविशिष्टनिरुक्तसंशयत्वेन प्रतिबन्धकत्वं तदभावत्वेन च कारणत्वमिति कल्पनापेक्षयाऽप्रामाण्य ज्ञानाभावविशिष्टविशेषणतावच्छेदकप्रकारकनिश्चयत्वेन कारणत्वस्यैव लाघवादौचित्यम् , विशिष्टवैशिष्टथविषयता च 'अभावबोधो हि विशिष्टवैशिष्टथावगाहिमर्यादां नातिशेते' इति नियमबलादभावबोधे सिद्धा, तत्र विशे. षणतावच्छेदकीभूतप्रतियोगितावच्छेदकप्रकारकनिश्चयस्य यत् कारणत्वं क्लुप्तं तस्य कार्यकोटावभावांशमप्रवेशस्यैव विशिष्टवैशिष्टयावगाहिबोधत्वावच्छिन्ने युक्तत्वमिति समाधत्ते-नेति । 'प्रतियोगितावच्छेदकप्रकारकनिश्चयस्य' इत्यस्य 'हेतुत्वम्' इत्यनेनान्वयः, अभावांशाप्रवेशेनेति- 'प्रतियोगितावच्छेदकविशिष्टस्याभावेन सह वैशिष्टयावगाहिप्रत्यक्षे' इत्यत्रा. भावेन सहेत्यनुक्त्वा प्रतियोगितावच्छेदकविशिष्टस्य वैशिष्टयज्ञान इत्युक्तौ लाघवं व्यक्तमेव । तादृशज्ञान एवं प्रतियोगितावच्छेदकविशिष्टवैशिष्टयज्ञान एव तथा च प्रत्यक्षस्थाने ज्ञानस्यैव प्रवेशो विधेय इत्येतावता विशिष्टवैशिष्ट्यज्ञाने विशेषणतावच्छेदकप्रकारकज्ञानस्य कारणत्वं 'यद्विशेषयोः कार्यकारणभावस्तत्सामान्ययोरपि सः' इति न्यायादायाति, यतः Page #132 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । संशयाभावत्वेन हेतुत्वे गौरवात्, प्रतियोगितावच्छेदकप्रकारकनिश्चयस्य प्रतियोगितावच्छेदकविशिष्टविषयकेऽभावस्य प्रत्यक्षे हेतुत्वं कल्प्यमानमभावांशाप्रवेशेन लाघवात् तादृशज्ञान एव युक्तमिति तद्बलेन निश्चयजन्यतावच्छेदकविशिष्टवैशिष्ट्य विषयतासिद्धेश्च । __ "शाकपाकजत्वादौ साध्यव्यापकत्वसन्देहेनाहितो हेतौ साध्यव्यापकत्वव्यभिचारसन्देह उपाधिः" इति दीधित्युक्तस्तु फलीभूतसन्देहे शाकपाकजत्वविशिष्टे साध्यव्यापकस्याविशेषणात्, अन्यथा तु द्रव्यत्वादौ तस्य निश्चयात् तत्र तद्विशेषणे तु साध्यव्यापकत्वांशे 'विशेष्ये विशेषणम्' इति रीत्या प्रतियोगितावच्छेदको विशेषणतावच्छेदकधर्मविशेष एव तत्प्रकारकज्ञानं विशेषणतावच्छेदकप्रकारकज्ञानविशेषः. प्रतियोगितावच्छेदकविशिष्टवैशिष्ट्यावगाहिज्ञानं च विशिष्टवैशिष्ट्यावगाहिज्ञानविशेष इति, एतेन विशिष्टवैशिष्ट्यावगाहिज्ञानविधयैव प्रतियोगितावच्छेदकविशिष्टवैशिष्ट्यावगाह्यभावज्ञानस्य कार्यत्वं विशेषणतावच्छेदकप्रकारकनिर्णयविधयैव च प्रतियोगितावच्छेदकज्ञानस्य कारणत्वं न तु स्वातन्त्र्येण तयोः कार्यकारणभाव इत्यपि लाघवं सुस्पष्टं प्रतीयते । 'हेतुत्वम्' इति पूर्वमुक्तस्य 'युक्तम्' इत्यनेनान्वयः। तद्वलेनेति-प्रतियोगितावच्छेदकविशिष्टवैशिष्ट्य ज्ञाने प्रतियोगितावच्छेदकप्रकारकज्ञानस्य यत् कारणत्वं तद्बलाजम्यतावच्छेदकतया विशिष्टवैशिष्ट्यविषयतासिद्धेरिति तदवच्छिन्ने विशेषणतावच्छेदकप्रकारकनिर्णयस्य सामान्यतः कारणत्वं युज्यत एवेति । ननु यदि विशिष्टवैशिष्ट्यावगाहिबुद्धिं प्रति विशेषणतावच्छदकप्रकारकनिश्चयस्य सामान्यतः कारणत्वं तदा 'स श्यामो मित्रातनयत्वाद्, इत्यत्र शाकपाकजत्वमुपाधिः, तद्धि शामत्वलक्षणसाध्यस्य व्यापकं मित्रातनयत्वलक्षणसाधनस्याव्यापकमतः साध्यव्यापकत्वे सति साधनाव्यापकत्वलक्षणोपाधिस्तत्र विद्यते, व्यभिचारानुमान चोपाधेः प्रयोजनम् , तद्यथा- मित्रातनयत्वं श्यामत्वव्यभिचारि श्यामत्वव्यापकशाकपाकजत्वव्यभिचारित्वादिति, अत्र शाकपाकजत्वे श्यामत्वव्यापकत्वनिश्चये तद्व्यभिचारलक्षणहेतुरपि मित्रातनयत्वलक्षणप्रकृततौ निश्चीयते, यदा तु शाकपाकजत्वे श्यामत्वव्यापकत्वसंदेहस्तदा तेन मित्रातनयत्वे श्यामत्वव्यापकव्यभिचारित्वसंदेहः, सोऽयं हेतुसंदेहः साध्यव्यभिचारित्वलक्षणसाध्यसंदेहस्य प्रयोजक इति, स च साध्यव्यभिचारसंदेहो ग्राह्यसंशयविधया व्याप्तिज्ञान प्रतिबन्धक इत्यभिप्रायेण शाकपाकजत्वादौ साध्यव्यापकत्वसंदेहाहितो हेतौ साध्यव्यापकव्यभिचारसंदेह इत्येवमुपाधिग्रन्थे शिरोमणिभट्टाचार्येण यदुक्तं तत् कथं सङ्गच्छते ? साध्यव्यापकव्यभिचारसंदेहस्य साध्यव्यापकत्वविशिष्टवैशिष्टयावगाहिबोधरूपत्वेन तं प्रति विशेषणतावच्छेदकीभूतसाध्यध्यापकत्वप्रकारकनिश्चयस्य कारणत्वेन साध्यव्यापकत्वसंदेहेनातथाभूतेन तदाधानासम्भवादित्यत आह-शाकपाकजत्वादाविति। "साध्यव्यापकत्वव्यभिचारसंदेह उपाधिः इति दीधित्युक्तस्तु" इत्यस्य स्थाने “साध्यव्यापकव्यभिचारित्वसन्देहः" इत्युपाधिदीधित्युक्तस्तु" इति पाठो युक्तः, 'इत्युपाधिदीधित्युक्तस्तु' इत्यस्य ‘एवंस्वरूप उपाधिनिरूपणात्मकोपाध्यभिख्यदीधितिग्रन्थैकदेशप्रकरणोकस्तु' इत्यर्थः, 'शाकपाकजत्वविशिष्टे साध्यव्यापकस्याविशेषणाद्' इत्यस्य स्थाने 'शाकपाकजत्वविशिष्टे साध्यव्यापकत्वस्याविशेषणत्वाद्' इति पाठो युक्तः, तथा च 'फलीभूतसन्देहे' इत्यादेरयमर्थ:- शाकपाकजत्वादौ साध्यव्यापकत्वसंदेहस्य फलीभूतो यः संदेहो हेतौ साध्यव्यापकत्वसन्देहस्तत्र शाकपाकजत्वत्वेन रूपेण शाकपाकजत्वस्याविषयत्वेन तत्र साध्यव्यापकत्वस्याविशेषणत्वात् , एवं च साध्यव्यापकत्वविशिष्टस्य शाकपाकजत्वत्वावच्छिन्नस्य वैशिष्टयावगाहिज्ञानं हेतौ साध्यव्यापकव्यभिचारित्वसन्देहो न भवत्येवेति न तत्र शाकपाकजत्वविशेष्यकसाध्यव्यापकत्वप्रकारकनिर्णयस्य हेतुत्वमिति शाकपाकजत्वादौ साध्यव्यापकत्वसन्देहतो हेतौ साध्यव्यापकव्यभिचारित्वसन्देहेऽपि न व्यभिचार इति भावः । यदि तु यद्धर्मविशिष्टयद्धविच्छिन्नवैशिष्टयावगाहिज्ञान एव तद्धर्मप्रकारकतद्धविच्छिन्नविशेष्यकनिर्णयः कारणं सामान्यतस्तु तद्धर्मविशिष्टवैशिष्टयावगाहिज्ञाने तद्धर्मप्रकारकनिर्णयमात्र कारणमिति विभाव्यते तदा शाकपाकजत्वादौ श्यामत्वव्यापकत्वसन्देहेऽपि द्रव्यत्वादौ श्यामत्वव्यापकत्वनिर्णयः समस्येव, एकस्यापि ज्ञानस्यैकत्र तत्संशयरूपस्यान्यत्र तन्निश्चयरूपस्य समूहालम्बनस्य सम्भवादिति तत एवोक्कविशिष्टवैशिष्टयावगाहिनिरुक्तसंशयसंभवेन न तत्र व्यभिचार इत्याह- अन्यथा विति- प्रकारान्तरेण पुनः, सामान्यत इति यावत् । तस्य साध्यव्यापकत्वस्य ।; यदि तु 'हेतौ साध्यव्यापकव्यभिचारित्वसन्दहः' इत्यस्य 'हेतौ साध्यव्यापकशाकपाकजत्वव्यभिचारित्वसन्देहः' इत्यर्थमुपादाय फलीभूतसन्देहे शाकपाकजत्वविशिष्टे साध्यव्यापकत्वं विशेषणतया भासत इति विभाव्यते तदा व्यभिचारित्वे निरूपितत्वसम्बन्धन शाकपाकजत्वं तत्र साध्यव्यापकत्वमित्येवं 'विशेष्ये विशेषणं तत्र च विशेषणान्तरम्' इत्येवंरीत्यैव निरुक्तसंशय इति तस्य विशिष्टवैशिष्टयावगाहित्वाभावादेव न तत्र व्यभिचार इत्याह-तत्र तद्विशेषणे विति- शाकपाकजत्वत्वविशिष्टे साध्य Page #133 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । संशयाकार एव सः, 'रक्तो दण्डो नवा' इति संशयकालीनो रक्तदण्डवान् इति प्रात्यक्षिकबोध इव रक्तत्वांशे इति द्रष्टव्यम् । १०० इदं तु बोध्यम् - किञ्चिद्धर्मावच्छिन्ने यद्विशेषणतावच्छेदकं तत्प्रकारकनिश्चयत्वेनैव हेतुत्वम्, अन्तरा धर्मितावच्छेदका नियन्त्रितस्थले 'दण्डवद्' इत्यादौ तु दण्डत्वादिप्रकारकज्ञानत्वेनैव निर्धर्मितावच्छेदक निश्चयत्वस्य दुर्वचत्वात् तत्प्रवेशवैयर्थ्यांच्चेति । 'विशिष्टवैशिष्ट्यम्' इति बुद्धित्वं तु रक्तत्वदण्डत्वोभयधर्मावच्छिन्न विशेष्यतानिरूपितप्रकारताशा लिबुद्धित्वम्, कारणता च तत्र दण्डत्वावच्छिन्न विशेष्यता निरूपितर तत्वप्रकारताशालिनिर्णयत्वेन, कार्यता व्यापकत्वस्य विशेषणत्वे त्वित्यर्थः । सः फलीभूतसन्देहः । यत्र विशेषणतावच्छेदकप्रकार कसन्देहस्तत्र तद्गतज्ञानं 'विशेष्ये विशेषणम्' इति रीत्या भवतीत्यत्र दृष्टान्तमाह- 'रक्तो दण्डो नवा' इतीति- रक्तत्वप्रकारकदण्डविशेष्यकज्ञानानन्तरं जायमानो रक्तदण्डवानिति प्रात्यक्षिकबोधो यथा धर्म्यंशे दण्डं तत्र च रक्तत्वमित्येवमवगाहमानो 'विशेष्ये विशेषणम्' इति रीत्या भवतु न तु रक्तत्वविशिष्टदण्डस्य वैशिष्टयावगाही तथा हेतौ साध्यव्यापकोपाधिव्यभिचारसन्देहोऽपि व्यभिचारे उपाधिमुपाधौ साध्यव्यापकत्वमित्येवमवगाहमानो विशेष्ये विशेषणमिति रीत्या भवति न तु साध्यव्यापकत्वविशिष्टोपाधेर्व्यभिचारे वैशिष्टयावगाहीति विशिष्टवैशिष्टयावगाहिबोधत्वलक्षणकार्यतावच्छेदकधर्मानाक्रान्तस्य तस्य साध्यव्यापकत्वरूपविशेषणतावच्छेदकप्रकारकनिश्चयं विना भावेऽपि न व्यभिचार इत्यर्थः । यत्र कमपि धर्मं धर्मितावच्छेदकीकृत्य विशिष्टस्वरूपविशेषणसन्निविष्टं विशेषणं विशेषणेऽवगाहते विशिष्टवैशिष्ट्य बुद्धिस्तत्र यद्धर्मावच्छिन्ने यद्धर्मो विशेषणीभवन् विशेषणतावच्छेदको भवति तद्धर्मावच्छिन्न विशेष्यकतद्धर्मप्रकार कनिश्चयत्वेनैव तादृशविशिष्टवैशिष्टयबुद्धिं प्रति कारणत्वम्, यद् विशिष्टस्वरूपं तु नैकं धर्मं धर्मितावच्छेदकी कृत्या परधर्मवैशिष्टयतो निष्पन्नस्वरूपं किन्त्वेकधर्मवद्रूपतया प्रतिभासमानतयैव विशिष्टं तद्वैशिष्टयबुद्धिं प्रति कञ्चिद्धर्मितावच्छेदकम निवेश्यैव विशेषणताव च्छेदकप्रकारकज्ञानत्वेनैव हेतुत्वं न तु तथाविधबुद्धिं प्रति विशेषणतावच्छेदकप्रकारकनिश्चयत्वेन हेतुत्वम्, तदभावनिष्ठप्रकारत्वानिरूपित तन्निष्टप्रकारतानिरूपित किच्चिद्धर्मावच्छिन्न विशेष्यताक ज्ञानत्वमेव तन्निश्चयत्वं तत्संशयत्वविरुद्धं सधर्मितावच्छेदकज्ञानगतमेव, निर्धर्मितावच्छेदकज्ञानगतं तु निश्चयत्वं तु निर्वक्तुमशक्यम्, यतः संशयविरोधिज्ञानस्यैव निश्चयत्वम्, संशयश्च कधर्मिविशेष्यकविरुद्ध भावाभावोभयप्रकारको नियमेन सधर्मितावच्छेदक एव तद्विरोधिज्ञानमपि सधर्मितावच्छेदकमेव भवितुमर्हति एकधर्मविशिष्टवैशिष्टयावगाहिज्ञानं च 'दण्डवद् इति ज्ञानम्', तच्च 'दण्डो न वा' इत्येवं संशयस्वरूपादपि दण्डत्वप्रकारक ज्ञानादुत्पत्तुमर्हतीति तत्कारणावच्छेदककुक्षौ निश्चयत्वनिवेशनं विफलमपीति सूक्ष्मेक्षिकां स्वयं ग्रन्थकृदाहइदं तु बोध्यमिति । 'अन्तरा' इत्यादिकं न पूर्वेणान्वितं किन्तूत्तरेण, यस्य वैशिष्टयं विशिष्टवैशिष्टयतयाऽभिमतं तत् तस्य च तद् विशेषणं तयोर्मध्ये धर्मितावच्छेदको न यत्र समस्ति तादृशस्थले इत्यर्थः तादृशस्थलमेवोपदर्शितम् ' दण्डवद्' इत्यादौ तु इत्यनेन । तत्प्रवेशवैयर्थ्याच्च निश्चयत्वस्य कारणतावच्छेदककुक्षौ प्रवेशस्य वैयर्थ्याच्च तथा च 'दण्डवद्' इत्याकार कदण्डत्वविशिष्टवैशिष्टयबुद्धौ विशेषणतावच्छेद की भूतदण्डत्वप्रकारक ज्ञानत्वेनैव हेतुत्वं न तु दण्डत्वप्रकारकनिर्णयत्वेन, 'रक्तदण्डवान्' इत्यादौ तु किञ्चिद्धर्मावच्छिन्ने दण्डत्वावच्छिन्ने रक्तत्वं विशेषणत्वाद् विशेषणतावच्छेदकमतो दण्डत्वावच्छिन्नविशेष्य करक्तत्वप्रकारकनिर्णयो 'रक्तदण्डत्वान्' इति विशिष्टवैशिष्टयावगाहिबुद्धिहेतुरित्यर्थः । विशिष्टवैशिष्ट्यबुद्धेश्चत्वारो भेदा नैयायिकाभिमताः, तत्र 'विशिष्ये विशेषणम्' इति रीत्या यो विशिष्टवैशिष्ट्यबुद्धिप्रकार: उपवर्णित :- 'विशेष्ये विशेषणम्' इति रीत्या बुद्धित्वं 'रक्तत्वाद्यवच्छिन्नप्रकारता निरूपितदण्डत्वाद्यवच्छिन्नप्रकार ताकबुद्धित्वम्' इत्यादिना ग्रन्थेन, 'विशिष्टस्य वैशिष्ट्यम्' इति यो विशिष्टवैशिष्टयबुद्धिप्रकारः स व्यावर्णितः - विशिष्टवैशिष्ट्यबुद्धित्वं तु रक्तदण्डत्वादिविशिष्टपर्याप्तिप्रकारताकबुद्धित्वम्' इत्यादिप्रन्थेन, इदानीम् 'एक विशिष्टेऽपरवैशिष्टयम्' इति रीत्या बोधलक्षणो यो विशिष्टवैशिष्ट्यबुद्धेः प्रकारस्तं व्यावर्णयति - विशिष्टवैशिष्ट्यबुद्धित्वं त्विति - अत्र 'विशिष्टे वैशिष्टय बुद्धित्वं तु' इति पाठो युक्तः । रक्तत्वेति- 'रक्तदण्डः प्रमेयः' इति ज्ञानं रक्तत्वविशिष्टदण्डे प्रमेयत्वस्य वैशिष्टयावगाहि, तत्र रक्तत्व-दण्डत्वोभयधर्मावच्छिन्ना या विशेष्यता सा रक्तदण्डनिष्टविशेष्यता, तन्निरूपिता प्रकारता प्रमेयत्वनिष्ठप्रकारता, तच्छालिबुद्धित्वं तन्निरूपकज्ञानत्वं समस्तीति लक्षणसङ्गतिः । तत्र कीदृशः कार्यकारणभाव इत्यपेक्षायामाह - कारणता चेति । तत्र 'विशिष्ट वैशिष्टम्' इति बुद्धिस्थले । 'रक्तदण्डः प्रमेयो रक्तदण्डो वाच्यो रक्तदण्डो द्रव्यम्' इत्येवं रक्तत्वविशिष्टदण्ड Page #134 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । १०१ D च रक्तत्वविशिष्टदण्डत्वावच्छिन्नविशेष्यताशालिज्ञानत्वेनैव, तेन ‘एको द्वयम्' इति रीत्या 'दण्डो रक्कोऽयं मेयश्च' इति ज्ञाने न व्यभिचारः, तत्र दण्डत्वविशिष्टविशेष्यताया रक्तत्वानवच्छिन्नत्वेन रक्तत्वं धर्मितावच्छेदकीकृत्य प्रमेयत्वादिबाधकालेऽपि तथाविधज्ञानापत्तिरिति तादृशविशेष्यताया रक्तत्वावच्छिन्नत्वमावश्यकमिति वाच्यम् , एकस्या अपि प्रमेयत्वादिप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यताभिन्नाया एव रक्तत्वावच्छिन्नविशेष्यताया अभ्युपगमात् , एकस्या विशेष्यताया रक्तदण्डत्वोभयानवच्छिन्नत्वेनाव्यभिचारात् तत्रापि रक्तत्वधर्मितावच्छेदकदण्डत्वप्रकारकनिर्णयजन्ये 'दण्डो रक्तः प्रमेयः' इत्येतादृशबोधे विशेष्यकप्रमेयत्वादिप्रकारकज्ञानमात्रमेव 'रक्तो दण्डः' इति निर्णयात्मक ज्ञाने सत्येव भवतीति तस्मिज्ञाने दण्डत्वावच्छिन्नविशेष्यतानिरूपितरक्तत्वनिष्टप्रकारताशालिनिर्णयत्वं समस्तीति तद्रपेण तस्य कारणत्वं निर्वहति, यदि तादृशकारणतानिरूपित. कार्यता रक्तत्व विशिष्टदण्डत्वावच्छिन्नविशेष्यतानिरूपितप्रमेयत्वनिष्ठप्रकारताशालिज्ञानत्वेन, तदा 'रक्तदण्डो वाच्यः' इत्यादिज्ञानानां निरुक्तकार्यतावच्छेदकधर्मानाक्रान्तत्वान्न तानि प्रति 'रक्तो दण्डः' इति निर्णयस्य कारणत्वं स्यात् , यदि च रक्तत्वविशिष्टदण्डत्वावच्छिन्नविशेष्यतानिरूपितवाच्यत्वनिष्टप्रकारताशालिज्ञानत्वादिनाऽपि कार्यत्वं तदा कार्यतावच्छेदकभेदेनानन्तकार्यकारणभावप्रसङ्ग इति प्रकारताविशेषानन्तर वेणैव कार्यतावच्छेदकधर्ममुपदर्शयति-कार्यता चेति । एवकारेण रक्तत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वाभिन्नदण्डत्वावच्छिन्नविशेष्यताशालिज्ञानत्वेन कार्यत्वस्य व्यवच्छेदः । तद्वयवच्छेदप्रयोजनमुपदर्शयति-तेनेति- अस्य 'न व्यभिचारः' इत्यनेनान्वयः । ‘एको द्वयम्' इति रीत्येति- 'दण्डो रक्तोऽयं मेयश्च' इति दण्डे रक्तत्वं मेयत्वं च प्रकार इति एको दण्डो रक्तप्रमेयोभयरूप इति 'दण्डो रक्तोऽयं मेयश्च' इति ज्ञानं भवति ‘एको दूयम्' इति रीत्येति, यद्येवकारेणोक्तव्यवच्छेदो न क्रियते तदा 'दण्डो रक्तोऽयं मेयश्च' इति ज्ञानमपि रक्तत्वनिष्टप्रकारतानिरूपितविशेष्यत्वाभिन्नदण्डत्वावच्छिन्नविशेष्यताशालिज्ञानत्वलक्षणकार्यतावच्छेदकाक्रान्तमिति तद् 'दण्डो रकः' इति निर्णयं विनाऽपि भवतीति व्यतिरेकव्यभिचारः स्यात् , रक्तत्वविशिष्टदण्डत्वावच्छिन्नविशेष्यताया एव कार्यतावच्छेदककोटौ प्रवेशे चोक्तज्ञानस्य निरुक्तकार्यतावच्छेदकधर्मानाक्रान्तत्वान्न व्यभिचारः इत्यर्थः । निरुक्तज्ञानस्योक्तकार्यताव. च्छेदकधर्मानाक्रान्तत्वावबोधनायाह-तत्रेति- 'दण्डो रक्कोऽयं मेयश्च' इति ज्ञाने इत्यर्थः । 'रक्तवानवच्छिन्नत्वेन रक्तत्वम्' इति स्थाने 'रक्तत्वानवच्छिन्नत्वात् , न च रक्तत्वम्' इति पाठो युक्तः ‘दण्डो रक्तोऽयं मेयश्च' इति ज्ञाने दण्डत्व. विशिष्टविशेष्यताया रक्तत्वावच्छिन्नत्वाभाव तज्ज्ञानं प्रमेयत्वनिष्ठप्रकारतानिरूपितरक्तत्वावछिन्नविशेष्यताकत्वाभावाद् 'रक्तो न प्रमेयः' इत्याकारकस्य रक्तत्वावच्छिन्नविशेष्यतानिरूपितप्रमेयत्वाभावनिष्टप्रकारताकबाधनिर्णयस्य प्रतिबध्यत्वाभावात् तत्कालेऽप्यापद्यतेत्यतस्तज्ज्ञाने दण्डत्वविशिष्टविशेष्यतायां रक्तत्वावच्छिन्नत्वं स्वीकरणीयमित्याशङ्कय प्रतिक्षिपति-नचेति- अस्य 'वाच्यम्' इत्यनेनान्वयः, । तथाविधज्ञानापत्तिः 'दण्डो रक्तोऽयं प्रमेयश्च' इति ज्ञानापत्तिः। ताशविशेष्यतायाः प्रमेयत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यतायाः । निषेधे हेतुमाह- एकस्या अपीति- एतत्स्थाने 'एतस्या अपि' इति पाठो युक्तः, प्रमेयत्वनिष्ठप्रकारतानिरूपिताया अपीत्यर्थः । 'दण्डो रक्कोऽयं प्रमेयश्च' इति ज्ञाने एका मेयत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यता, द्वितीया मेयत्वनिष्ठप्रकारतानिरूपितरक्तत्वावच्छिन्नविशेष्यता, तथा चोक्तज्ञानस्य 'रक्कोऽयं न प्रमेयः' इति बाधनिश्चयनिष्ठप्रमेयत्वाभावनिष्ठप्रकारतानिरूपितरक्तत्वावच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्नप्रतिबन्धकतानिरूपितप्रमेयत्वनिष्ठप्रकारतानिरूपितरक्तत्वावच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्न प्रतिबध्यताशालित्वान्नोक्तबाधदशायामापत्तिरित्यर्थः, एवं च 'दण्डो रक्तोऽयं प्रमेयः' इति ज्ञाने दण्डत्वावच्छिन्नविशेष्यतानिरूपितरक्तत्वनिष्ठप्रकारताकनिर्णयत्वावच्छिन्नकारणतानिरूपितकार्यतावच्छेदकस्य रक्तत्वविशिष्टदण्डत्वावच्छिन्नविशेष्यताकबुद्धित्वस्याभावेन तस्य दण्डो रक्तः इति निर्णयं विनाऽभावेऽपि न व्यभिचार इत्याह- एकस्या इति । ननु दण्डत्वविशिष्टरक्तत्वावच्छिन्नविशेष्यकप्रमेयत्वप्रकारकं यद् ‘दण्डो रक्तो प्रमेयः' इति ज्ञानं तदपि रक्तत्व दण्डत्वोभयावच्छिन्नविशेष्यताशालिज्ञानत्वरूपकार्यतावच्छेदकधर्माकान्तं भवति, जायते च तत् दण्डत्वनिष्ठप्रकारतानिरूपितरक्तत्वावच्छिन्नविशेष्यताशालिनिर्णयाद् 'दण्डरक्तः' इत्याकारकात्, न तु दण्डत्वावच्छिन्नविशेष्यतानिरूपितरक्तत्वनिष्टप्रकारताकनिर्णयाद् 'रक्तो दण्डः' इत्याकारकादिति तत्र व्यभिचार इत्यत आह-तत्रापीति- निरुक्त कार्यकारणभावेऽपीत्यर्थः । तादृशविशेष्यतायामितिरक्तत्व-दण्डत्वोभयावच्छिन्नविशेष्यतायामित्यर्थः । विशेष्यताभिन्नत्वम्' इत्यत्र विशेष्यताऽभिन्नत्वमित्याकारप्रश्लेषः, रक्तप्रकारतेत्यस्य 'रक्तत्वनिष्टप्रकारतेत्यर्थः, तथा च रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यत्वाभिन्ना या Page #135 -------------------------------------------------------------------------- ________________ १०२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । व्यभिचारवारणाय तादृशविशेष्यतायां रक्तप्रकारतादिनिरूपितदण्डत्वावच्छिन्नविशेष्यताभिन्नत्वं निवे. शनीयम् । 'एकत्र द्वयम्' इति विषयिता च प्रकारिताद्वयावच्छिन्नविशेष्यतारूपा, यथा-चैत्रो दण्डी कुण्डलीत्यत्र, न चैवमेकत्र त्रयादिकमप्यतिरिच्येत 'एकत्र द्वयम्' इति सज्ञयैव सङ्ग्रहात्, एवं च 'दण्डी चैत्रो न कुण्डली' इति ज्ञानप्रतिबध्यतावच्छेदिका दण्डप्रकारित्वकुण्डलप्रकारित्वनिरूपितचैत्रत्वावच्छिन्नविशेष्यताकनिश्चयत्वस्या 'चैत्रो दण्डी कुण्डली, दण्डी चैत्रः कुण्डली' इत्युभयत्र सत्त्वात्, उद्देश्यतावच्छेदकत्व-विधेयत्वयोः प्रकारताविशेषत्वात् , तादृशबाधधीप्रतिबध्यतावच्छेदकत्वादेव चास्याश्चैत्रत्वेन रकत्व-दण्डत्वोभयावच्छिन्नविशेष्यता तन्निरूपकबुद्धित्वावच्छिन्नं प्रति दण्डत्वावच्छिन्नविशेष्यतानिरूपितरक्तत्वनिष्टप्रकारताशालिनिर्णयत्वेन कारणत्वम्, 'दण्डो रक्तः प्रमेयः' इति ज्ञाने च प्रमेयत्वनिष्ठप्रकारतानिरूपितरक्तत्व-दण्डत्वोभयावच्छिन्नविशेष्यता दण्डत्वनिष्टप्रकारतानिरूपितरक्तत्वावच्छिन्नविशेष्यत्वाभिन्ना, न तु रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वा. वच्छिन्नविशेष्यत्वाभिन्नति 'दण्डो रक्तः प्रमेयः' इति ज्ञानस्य दण्डविशेष्यकर क्तत्वप्रकारकनिर्णयजन्यतावच्छेदकनिरुक्तधर्मानाक्रान्तत्वान्न तत्र व्यभिचार इत्याशयः।। विशिष्टवैशिष्ट्यबुद्धस्तुरीयं प्रकारम् 'एकत्र द्वयम्' इति रीत्या ज्ञान प्ररूपयति- 'एकत्र द्वयम्' इतीति । 'विशेप्यतारूपा' इति स्थाने 'विशेष्यितारूपा' इति पाठो युक्तः, यथा च अनन्तराभासमानसमानाधिकरणैकज्ञानीयविषयत्वानां मतभेदेनाभेदोऽवच्छेद्यावच्छेदकभावश्च, तथैकज्ञाननिष्टविषयित्वानामपि, तत्र विशिष्टबुद्धौ विशेष्यतया भासमानस्य प्राधान्यं तदाश्रयणेन विशेषणानां प्रवृत्तरिति तद्गतत्वाद् विशेष्यतायाः प्राधान्यम् , तत एव च तन्निरूपितविशेष्यिताया अपि प्राधान्यम् , विशेषणस्याप्राधान्य तद्वतत्वात् प्रकारताया अप्राधान्ये तन्निरूपितप्रकारिताया अप्यप्राधान्यम्, प्रधानाप्रधानयोश्चाप्रधानमवच्छेदकं भवतीति 'एकत्र द्वयम्' इति ज्ञाने प्रकारताद्वयनिरूपितैका विशेष्यतेति प्रकारिताद्वयावच्छिन्नविशेष्यितात्मकविषयितावज्ज्ञानत्वम् ‘एकत्र द्वयम्' इति ज्ञानत्वमित्यर्थः । उदाहरति- यथेति- 'चैत्रो दण्डो कुण्डली' इति ज्ञाने चैत्रस्य विशेष्यत्वं दण्ड कुण्डलयोश्च प्रकारत्वमिति दण्डनिरूपितप्रकारित्वकुण्डलनिरूपित प्रकारित्वदयावच्छिन्नचैत्रनिरूपितविशेष्यिता. वज्ज्ञानत्वं तत्र समस्तीति लक्षणसमन्वयः । ननु यथा 'एकत्र द्वयम्' इति रीत्या ज्ञानं तथा 'एकत्र त्रयम्' इति ‘एकत्र चतुष्टयम्' इत्यादिरीत्याऽपि ज्ञानमित्येवं बहवः प्रकारा 'विशिष्टवैशिष्ट्यबुद्धेः स्युरिति तेषामनुपवर्णनान्यूनत्वमित्याशङ्कय प्रतिक्षिपतिन चेति । 'त्रयादिकम्' इत्यत्रादिपराच्चतुष्टयादेरुपग्रहः । प्रकारिकाद्वयेति प्रकारितात्रयादीनामप्युपलक्षणमिति नानाप्रकारित्वावच्छिन्नविशेष्यितावज्ज्ञानत्वमेवैषामनुगमकलक्षणमिति ‘एकत्र त्रयम्' इत्यादिप्रकाराणामनेनैव सङ्ग्रहान्न न्यूनत्वमिति प्रतिक्षेपहेतुमुपदर्शयति- 'एकत्र द्वयम्' इति सज्ञयैव सङ्गहादिति- एकत्र द्वयमेकत्र त्रयमित्याद्यशेषज्ञानानामेकत्र द्वयमिति संज्ञा, तया निरुक्तसर्वज्ञानानां सङ्ग्रहादित्यर्थः । 'एवं च' इति स्थाने 'इय च' इति पाठो युक्तः,प्रकारिताद्वयाव. च्छिन्नविशेष्यितारूपविषयिता चेति तदर्थः, 'दण्डी चैत्रो न कुण्डली' इति निश्चयनिष्ठदण्डचैत्रत्वोभयावच्छिन्नविशेष्यतानिरूपितकुण्डलाभावत्वावच्छिन्नप्रकारताकनिश्चयत्वावच्छिन्न प्रतिबन्धकतानिरूपित प्रतिबध्यतावच्छेदिका दण्डनिष्टप्रकारतानिरूपितप्रकारित्व-कुण्डलनिष्टप्रकारतानिरूपितप्रकारित्वद्वयावच्छिन्न चैत्रत्वावच्छिन्नविशेष्यतानिरूपितविशेष्यित्वात्मकविषयितेत्यर्थः । अस्या निरुक्तबाधप्रतिबध्यतावच्छेदकतयोररीकारे सति निरुक्तबाधप्रतिबध्यत्वं 'चैत्रो दण्डी कुण्डली' इति ज्ञाने 'दण्डी चैत्रः कुण्डली' इति ज्ञाने च सम्भवति, निरुक्तज्ञानद्वयेऽपि निरुक्तप्रकारिताद्वयावच्छिन्नचैत्रत्वावच्छिन्नविशेष्यतानिरूपितविशेष्यित्वस्य सत्त्वादित्याह-दण्डप्रकारित्वेति । 'कुण्डलप्रकारित्वनिरूपित' इत्यत्र निरूपितत्वमवच्छिन्नत्वरूपम् । 'चैत्रत्वा. वच्छिन्नविशेष्यताकनिश्चयत्वस्या' इत्यस्य स्थाने 'चैत्रत्वावच्छिन्नविशेष्यतानिरूपितविशेष्यितावन्निश्चयत्वस्य' इति पाठो युक्तः । ननु 'चैत्रो दण्डी कुण्डली च' इति ज्ञाने चैत्रस्य विशेष्यत्वं दण्ड-कुण्डलयोश्च प्रकारत्वमिति निरुक्तप्रकारिता. यावच्छिन्नविशेष्यिता तत्र सम्भवति, 'दण्डी चैत्रः कुण्डली' इति ज्ञाने तु दण्ड-चैत्रत्वोभयावच्छिन्नस्य विशेष्यत्वं केवलकुण्डलस्यैव प्रकारत्वमिति कथं तत्र निरुक्तप्रकारिताद्वयावच्छिन्नविशेष्यितेत्यत आह- उद्देश्यतावच्छेदकत्वेति-'दण्डी चैत्रः कुण्डली' इत्यत्र दण्डविशिष्टचैत्रस्योद्देश्यत्वे उद्देश्यतावच्छेदकता या दण्डनिष्ठा सा प्रकारताविशेषरूपा, कुण्डलस्य तत्र विधेयत्वमिति कुण्डलनिष्ठविधेयताऽपि प्रकारताविशेषरूपेति तादृश प्रकारताद्वयनिरूपितप्रकारिताद्वयावच्छिन्नविशेष्यितावन्निश्चयत्वं तत्र समस्तीति 'दण्डी चैत्रो न कुण्डली' इति बाधनिश्चयप्रतिबध्यत्वम् , 'चैत्रो दण्डी कुण्ड ली' इत्यत्र तु दण्ड-कुण्डलयो Page #136 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । शारीरद्वयं नेदं कुण्डलग्रहादेकत्र चैत्रे 'चैत्रोऽयं दण्डी कुण्डली च' इति धियो विशेषो रक्तदण्डाभावधियः समूहालम्बनादिव, इयं चैकविशिष्टेऽपरवैशिष्ट्य विषयताव्यापिका 'दण्डी कुण्डली चैत्रो द्रव्यम्' इत्यत्रेव 'दण्डी कुण्डली चैत्रः' इत्यत्रापि सत्त्वात् , तत्प्रयोजकसामग्री व्यापकसामग्री व्यापकत्वाचेति वदन्ति. तदसत-सामान्य-विशेषापेक्षयैकानेकात्मकवस्त्वनभ्युपगमे एकान्तवादस्य कुत्राप्यघटविधेयत्वेन विधेयतायाः प्रकारताविशेषरूपत्वेन तादृशप्रकारतास्यनिरूपितप्रकारिताद्वयावच्छिन्नविशेष्यितावन्निश्चयत्वं तत्रापि समस्तीति तस्यापि निरुक्तबाधप्रतिबध्यत्वम् , यत्र चैकं चैत्रमुद्दिश्य दण्डविधेयकं द्वितीयं चैत्रमुद्दिश्य कुण्डलविधेयक 'चैत्रो दण्डी, कुण्डली च चैत्रः' इति समूहालम्बनज्ञानं तत्रैकस्य चैत्रत्वविशिष्टस्य शरीरविशेषावच्छिन्नात्मनः कुण्डलविशेध्यत्वादपरस्य च चैत्रत्वविशिष्टस्य शरीरविशेषावच्छिन्नात्मनो दण्डविशेष्यत्वादिति तस्य समूहालम्बनज्ञानस्य न दण्डनिष्ठप्रकारतानिरूपितप्रकारित्व-कुण्डलनिष्टप्रकारतानिरूपितप्रकारित्वद्वयावच्छिन्नचैत्रनिष्टकविशेष्यितावज्ज्ञानत्वमिति 'न दण्डी चैत्रो न कुण्डली' इति बाधनिश्चय प्रतिबध्यत्वमित्याह-ताशबाधधीति- 'दण्डी चैत्रो न कुण्डली' इति बाधज्ञानेत्यर्थः । अस्याः दण्ड निरूपितप्रकारित्व- कुण्डलनिरूपितप्रकारित्वद्वयावच्छिन्नचैत्रत्वावच्छिन्नविशेष्यतानिरूपितविशेष्यतायाः। 'चैत्रत्वेन शारीरद्वयं नेदं कुण्डलग्रहादकत्र' इत्यस्य स्थाने 'चैत्रत्वेन शारीरदये दण्ड कुण्डलग्रहादेकत्र' इति पाठो युक्तः, चैत्रत्वेनैकस्मिन् चैत्रे दण्डस्यापरस्मिश्चैत्रे कुण्डलस्य समूहावलम्बनग्रहाद् एकस्मिन्नेव चैत्रे दण्ड-कुण्डलयोर्या 'एकत्र द्वयम्' इति रीत्या 'चैत्रोऽयं दण्डी कुण्डली च' इति धीस्तस्या विशेषः, यत: सा निरुक्तबाधधीप्रतिबध्यतावच्छेदकनिरुका विशेष्यिताधर्माकान्ता, विभिन्नचत्रधर्मिकसमूहालम्बनधीश्च तादृशधर्मविकलेत्यर्थः । उक्तविशेषं दृष्टान्तावष्टम्भन द्रढयतिरक्त-दण्डाभावधिय इति- 'रक्ताभावो दण्डाभावश्च' इति समूहालम्बनबुद्धितो 'रक्तदण्डाभावः' इति बुद्धर्यथा विशेषस्तथेत्यर्थः, अत्र 'रक्तदण्डधियः समूहालम्बनादिव' इत्येतावन्मात्रपाठ उपादानाहः, तत्र 'रत्तो दण्डश्च' इति समूहालम्बनाद् यथा रक्तदण्डः' इति बुद्धभेदस्तथेत्यर्थः । इयं च प्रकारिताद्वयावच्छिन्नविशेष्यितारूपा ‘एकत्र द्वयम्' इति ज्ञाननिष्ठविषयिता च । 'विषयताव्यापिका' इति स्थाने 'विषयिताव्यापिका' इति पाठो युक्तः । यत इयम् ‘एकत्र द्वयम्' इति ज्ञाने 'एकविशिष्टेऽपरवैशिष्टयम्' इति ज्ञाने च वर्ततेऽत एकविशिष्टेऽपरवैशिष्टयनिरूपितविषयताया व्यापिकेति स्पष्टयति-दण्डीति'दण्डो कुण्डली चैत्रो द्रव्यम्' इति ज्ञानं दण्ड कुण्डलविशिष्टचैत्रे द्रव्यत्ववैशिष्ट्यावगाहित्वादेकविशिष्टेऽपरवैशिष्टयज्ञानम् । 'दण्डी कुण्डली चैत्रः' इति ज्ञानं चैत्र चत्रे दण्डकुण्डलद्वयवैशिष्टयावगाहित्वादेकत्र द्वयमिति, तदुभयत्र निरुक्तैकत्र द्वयमिति विषयितायाः सत्त्वादेकविशिष्टेऽपरवैशिष्टयविषयिताव्यापकत्वम् । ततः किमित्यपेक्षयामाह- तत्प्रयोजकसामग्रीतिव्यापकत्वात् तत्प्रयोजकसामग्री व्यापकसामग्रीत्यन्वयः, एवं च तत्प्रयोजकसामग्री व्यापकसामग्रीविधया 'एकविशिष्टेऽपरवैशिष्टयम्' इति ज्ञानीयविषयताप्रयोजिकाऽपीति भावः । इत्थं विशिष्टवैशिष्टयबुद्धेविशिष्ये विशेषणमिति १ विशिष्टस्य वैशिष्ट्यमिति २ विशिष्टे वैशिष्टयमिति ३ एकत्र द्वयम् ४ इत्येवं चत्वारः प्रकारा इति नैयायिकानां मतं व्युत्पाद्य प्रतिक्षिपति-तदसदिति । उक्तप्रकारेष्वपि सामान्यविशेषापेक्षाया आवश्यकत्वेनापेक्षाख्यबोधत्वलक्षणनयत्वमवश्यमभ्युपगन्तव्यम् , एकान्तवादेऽविशिष्टस्वरूपे वस्तुनि न कस्यचिद् वैशिष्टयम् , सामान्य कान्तात्मके नापरवैशिष्टयनिबन्धनविशिष्टरूपता विशेषकान्तात्मके चैकधर्मविशिष्टस्य नापरधर्मविशिष्टता धर्मभेदन तयोरत्यन्तभेदादिति नोक्तप्रकारसम्भावनाऽपीत्यभिप्रायेण प्रतिक्षेपहेतुमुपन्यस्यति- सामान्येति- सामान्यापेक्षयकात्मक विशेषापेक्षया चानकात्मकं यद् वस्तु तस्यानभ्युपगमे इत्यर्थः, एकान्तवादे वस्तुनः सामान्यैकान्तरूपत्वेन विशेषरूपत्वाभावान्न कस्यचिद् वैशिष्टयमिति विशेष्ये विशेषणम्' इत्यादिरूपता विषयावगाहनवलक्षण्य निबन्धना कुतो ज्ञानस्य, विषयावगाहनस्यापि सामान्य कान्तरूपस्य लक्षण्याभावात्, विशेषकान्तरूपत्वेन च धर्मद्वयाधारसामान्यरूपाभावादेकधर्मविशिष्टमेव नापरधर्मविशिष्टमिति विशेष्यतावच्छेदकधर्मालिङ्गितो विशेष्यस्वभावोऽन्य एव तदन्य एव च विशेषणालिङ्गितस्वभाव इत्येवमपि विशष्ये विशेषणमित्यादिरूपता ज्ञानस्य तथाविधविषयाभावात् तदवगाहनविशेषस्याप्यभावेन न सम्भवत्येव, अनेकान्तवादे तु धर्मद्वयाधारत्वमेकस्य धर्मिणः सामान्यस्वभावेन, विशेषस्वभावेन च विशेष्यरूपत्वं विशिष्टरूपत्वं प्रत्येकधर्मविशिष्टरूपत्वं धर्मद्वयविशिष्टरूपत्वमित्याद्यनेकस्वभावत्वमिति विवक्षाभेदेन तत्तद्विषयावगाहनस्वभावमुपादाय ज्ञानस्य प्रकारभेदः सम्भवति, परं तत्र चतुधैव ज्ञानस्य विशिष्टवैशिष्टयवोधात्मनो विभाग इत्यकान्तो नात्मानं लभते निरूपकवैलक्षण्यनिबन्धनानल्पविषयत्वानुभवैन विषयताबाहुल्यप्रयुक्तविशिष्टवैशिष्ट यज्ञानप्रकारबाहुल्यसम्भवादित्याशयेनाह-विशिष्टबुद्धिष्वपीति-विशिष्टबुद्धिषु यथा Page #137 -------------------------------------------------------------------------- ________________ १०४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयपदेशः । मानत्वात् , विशिष्टबुद्धिष्वपि हि सामान्यत एकाविशेषितस्यापरस्य निरूपितत्वेन बहुतरापि विषयता अनुभूयन्त इति चतुर्कैवेति को विभागः, अत एवैकत्र द्वयस्थलेऽप्येकत्र भासनयोर्विशेषणयोः परस्परएकविशेषितोऽपरो विषय इति तन्निष्टविषयता तत्सम्बन्धित्वेन तन्निरूपिता समस्ति, सा च तत्तद्विशेषणनिष्ठप्रकारतानिरूपितविशेष्यतारूपा, तामुपादाय च प्रकारचतुष्टयोपवर्णनं कृतं तथा स्वतन्त्रतया विशेषणस्वरूपं विशेष्यस्वरूपं च विषयः, कथमन्यथा दण्डविशिष्टपुरुषज्ञानस्य विशेष्यांशमुपादाय पुरुषमात्रविषयकपुरुषज्ञानविषयकत्वं विशेषणांशमुपादाय दण्डमात्रविषयकपुरुषज्ञानविषयकत्वं विशेषणांशमुपादाय दण्डमात्रविषयकदण्डज्ञानविषय विषयकत्वमनुभूयमानमुपपद्यत, दण्डविशिष्टपुरुषज्ञाने दण्डविशिष्टपुरुषनिष्ठविषयताकत्वमेव समस्ति, पुरुषमात्रज्ञाने च दण्डाविशेषितपुरुषनिष्टविषयताकत्वमेव समस्ति, एवं दण्डविशिष्टपुरुषज्ञाने पुरुषविशेषणीभवद्दण्डनिष्ठविषयताकत्वमेव समस्ति, दण्डमात्रज्ञाने च पुरुषाविशेषणीभूतदण्डनिष्टविषयताकत्वमेव समस्तीति 'दण्डी पुरुषः' इति ज्ञाने विशेष्यांशमुपादाय या केवलपुरुषज्ञानेन सहकविषयविषयकत्वं विशेषणांशमुपादाय या केवलदण्डज्ञानेन सहैकविषयविषयकत्वं तदनुरोधेनकाविशेषितापरनिरूपितविषयता विशेषण-विशेष्य-संसर्गादिविभिन्न विषयस्वरूपगतत्वेन बहुतरा स्वीकरणीया, एवं विशिष्टे यदपरवैशिष्टयबुद्धिस्तस्या विशिष्टस्वरूपनिविष्टविशेष्यांशमुपादाय तत्रापरवैशिष्टयबुद्धिरूपताऽपि, तत एव च तस्याः केवले विशेष्यस्वरूपे याऽपरवैशिष्टयबुद्धिस्तया सहक विषयविषयकत्वमिति तत्तद्विषयतानामुपादानेनापि परिगणितप्रकारच्यतिरिक्तप्रकाराणां सम्भवाच्चतुधैव विभाग इति नैयायिकपरिकल्पनं न युक्तमिति । अत एव बहुतराणां विषयत्वानामनुभवानुरोधात् स्वीकरणीयत्वादेव । एकत्रेति- यदि च 'एकाविशेषितस्यापरस्य' इति स्थाने 'एकविशेषितस्यापरस्य' इति पाठोऽनुभवपथमवतरति तदा विशिष्टस्य वैशिष्टयबुद्धौ यथा विशेषणतावच्छेदकधर्मनिष्ठावच्छेदकतानिरूपितस्वासाधारणधर्मनिष्टावच्छेदकतानिरूपितविशेष्यीभूतनिष्टप्रकारताख्या विषयता, यथा वा विशेषणतावच्छेदकधर्मनिष्ठपकारतानिरूपितस्वासाधारणधर्मनिष्टावच्छेदकतानिरूपितविशेष्यत्वाभिन्नतादृशधर्मद्वयनिष्ठावच्छेदकतानिरूपितविशेष्यीभूतनिष्ठप्रकारत्वा ख्यविषयता, विशेषण-विशेष्योभयस्वरूपमेव विशेषण-विशेष्यभावमापन्नं विशिष्टं न त्वतिरिक्तमित्यभिप्रायाश्रयणेनाभिमता, तथा विशेषण-विशेष्यभावेन निष्पन्नं विशिष्ट स्वरूपं कथञ्चिद्विशेषणविशेष्यस्वरूपाभ्यां भिन्नमेवेत्यभिप्रायाश्रयणेन कञ्चिद्वयतिरिक्तस्वरूपस्य विशिष्टस्य प्रकारत्वाख्यविषयत्वमप्यतिरिक्तं, तदवच्छेदकताऽपि विशिष्टासाधारणधर्मस्वरूपातिरिक्तधर्मगताऽतिरिक्ता, तन्निरूपितसंसर्गताऽपि तदवच्छेदकसम्बन्धगता विलक्षणवेति तत्तद्विषयनिष्टविषयतानिरूपितविषयताकबोधोऽपि विशिष्टवैशिष्ट्यबोधप्रकारक: सम्भवति, एवं तथाभूतानां विषयत्वानां मध्ये एकस्य निरूपितत्वमपरस्य निरूपकत्वमिति समाश्रयणेन यः प्रकाररततो विलक्षणप्रकारो भवत्यैवैकस्य निरूपकत्वमपरस्य निरूपितत्वमित्या त्रयणेन प्रकारः, तथा यद्धर्म. विशिष्टस्य यत्र प्रकारत्वं तत्र तद्धर्मस्य पि प्रकारत्वमित्यभिप्रायाश्रयणेन तद्धर्मनिष्ठपरम्परासम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यताकबोधलक्षणोऽप्यपरः प्रकार इत्येवं सूक्ष्मेक्षिकया बहूनां विशिष्टवैशिष्टयबुद्धिप्रकाराण सम्भवे चतुधैवेति विभागो न युक्त इत्याशयः । 'एकत्रद्वयस्थलेऽपि' इत्यपिना यथा 'विशिष्टबुद्धिषु' इत्यनेनाभिमतस्य विशिष्टवैशिष्टयबुद्धिषु दर्शितदिशा विषयताऽभेदस्तथेत्यस्थार्थस्यामेडनम् , 'चैत्रो दण्डी बु.प्डली' इत्येवम् ‘एकत्र द्वयम्' इति ज्ञाने दण्डत्वावच्छिन्न प्रकारतानिरूपिता सती कुण्डलत्वावच्छिन्नप्रकारतानिरूपिता या चैत्रत्वावच्छिन्नविशेष्यता तन्निरूपकबोधत्वमित्येकविशेष्यतायाः प्रकारताद्वयनिरूपित्वेन तत्र विशेष्यितायाः प्रकारिताद्वयावच्छिन्नत्वमित्येवमन्यप्रकाराद् यथा वैलक्षण्यं तथैकत्र चैत्रे भास. मानयोर्दण्डकुण्डयोरपि परस्परं सामानाधिकरण्यसम्बन्धेनवैशिष्ट्यभानमिति । सामानाधिकरण्यसम्बन्धावच्छिन्नदण्डनिष्ठ. प्रकारतानिरूपितकुण्डलनिष्टविशेष्यताकत्वं सामानाधिकरण्यसम्बन्धावच्छिन्नकुण्डलनिष्टप्रकारतानिरूपितदण्डनिष्ठविशेष्यताकत्वमपीति, तथा च सामानाधिकरण्यसम्बन्धावच्छिन्ना या दण्डनिष्टप्रकारता या च संयोगसम्बन्धावच्छिन्नदण्डनिष्टप्रकारता तयोरवच्छेद्यावच्छेदकभावः, एवं सामानाधिकरण्यसम्बन्धावच्छिन्ना या कुण्डलनिष्ठप्रकारता या च संयोगसम्बन्धावच्छिन्नकुण्डलनिष्टप्रकारता तयोरवच्छेद्यावच्छेदकभावः, एवमवच्छेद्यावच्छेदकभावापन्नप्रकारत्वानां स्वसमानाधिकरणविशेष्यतयावच्छेद्यावच्छेदकभावः, तथा प्रकारत्वाख्यविशेष्यत्वाख्यविषरतावलक्षण्ये तन्निरूपितप्रकारित्व विशेष्यित्वयोरपि वैलक्षण्यम्, तादृशविशेष्यित्वस्यापि प्रकारितयाऽवच्छेद्यावच्छेदकभाव इति, तथा च विषयताभेदप्रयुक्तमेकत्र दूयमिति ज्ञानस्यापि प्रकारान्तरं सम्भवतीत्यतोऽपि चतुधैवेति विभागोऽनुपपन्न इत्याशयः । ननु ‘एकत्र द्वयम्' इत्यत्रै कविशेष्यतानिरूपितयोः प्रकारतयोर्विशेष्यताद्वारा यत् परम्परया निरूपितत्वलक्षणो निरूपितत्वविशेषः समूहालम्बनज्ञानीयप्रकारत्वयोनास्तीत्येतावतैव समूहालम्बनादितो बैलक्षण्यस्य सम्भवेनापरधर्मनिष्ठसामानाधिकरण्यसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यत्वाभेदमपरधर्मनिष्ठविशेष्यतानिरूपितप्रकारत्वाभेदं चाभ्युपगम्यान्यज्ञानीयप्रकारतातो भेदो नाभ्युपेय इति न तत्र भासमानयोर्विशेषणयोः Page #138 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । १०५ मपि सामानाधिकरण्येन वैशिष्ट्यभानाद् विषयताभेदः, यदि च तत्र प्रकारतयोर्निरूपितत्वविशेषान्नातिरेकस्तदा विशिष्टवैशिष्ट्यस्थलेऽप्येकप्रकारतावच्छिन्नापरप्रकारतयोपपत्तावतिरेके किं मानम् ? 'विशेष्ये विशेषणम्' इति स्थले हि रक्तत्वप्रकारतानिरूपिता दण्डत्वावच्छिन्नप्रकारता, विशिष्टवैशिष्ट्यस्थले च रक्तत्वप्रकारतावच्छिन्ना दण्डत्वावछिन्नप्रकारतेत्येवं विशेषसम्भवात् , स्वीक्रियतां वा तत्रावच्छेदकत्वाख्येष्वेव प्रकारता, प्रकारताद्वयघटितरूपेण च यथा हेतुतावश्यकत्वं तथा प्रागुक्तमेव यथा सन्निवेश- . ध्रौव्येणेति न रक्तत्व-दण्डत्वोभयावच्छिन्नप्रकारतयैव रक्तदण्डस्यैव विशिष्टवैशिष्ट्य विषयता, अन्यथा 'रक्तदण्डद्रव्यवान्' इत्यतः 'रक्तदण्डवान्' इत्यस्य वैलक्षण्याद् रक्तत्व-दण्डत्वनिष्ठद्वित्वावच्छिन्नपरस्परं सामानाधिकरण्यसम्बन्धेन वैशिष्टयभानमभ्युपेयमित्यत आह-यदि चेति । तत्र 'एकत्र द्वयम्' इति ज्ञाने । निरूपितत्वविशेषात् अन्यज्ञानीयप्रकारतातो य एकविशेष्यतानिरूपितत्वलक्षणो विशेषस्तस्मात् । नातिरेकः परस्परं सामानाधिकरण्येन वैशिष्टयभाननिबन्धन ज्ञानान्तरीयप्रकारतातो न भेदः, 'रक्तदण्डवान् पुरुषः' इति विशिष्टवैशिष्टयबोधेऽपि 'पुरुषे दण्डस्तत्र रक्तत्वम्' इत्येवं रीत्या जायमान रक्तदण्डवान् पुरुषः' इति ज्ञानीयप्रकारतातः प्रकारताया न भेदः किन्तूभयत्र रक्तत्वे दण्डे च प्रकारता समैव । विशिष्टवैशिष्टयबुद्धिप्रकारतयोरवच्छेद्यावच्छेदकभावो 'विशेष्ये विशेषणम्' इति ज्ञानप्रकारतयोनिरूप्यनिरूपकभाव इत्येवं तयोर्विशेषसम्भवादित्याह-तदेति । कि मानमिति- न किञ्चिन्मानमित्यर्थः । तादृशबोधद्वयवैलक्षण्यस्यान्यथाऽप्युपपत्त्या न तदन्यथानुपपत्तिस्तत्र मानमित्य ह- 'विशेष्ये विशेषणम्' इति स्थले हीति- यद्यपि ज्ञानान्तरे प्रकारत्वविशेष्यत्वयोरेव निरूप्यनिरूपकभाव इति प्रकारतात्वावच्छिन्ननिरूपकतानिरूपितनिरूप्यतावच्छेदकं विशेष्यतात्वमेव न प्रकारतात्वमिति रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यतैव भवति न तु दण्डत्वावच्छिन्नप्रकारतेति दण्डत्वावच्छिन्नविशेष्यताऽतिरिक्ता तत्राभ्युपगम्यैव, तथा च रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यतावच्छेद्यैव तत्र दण्डनिष्टप्रकारता न तु रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नप्रकारतारूपा सा, तथापि यथकत्र द्वयमिति स्थले प्रकारत्वयोनिरूपितत्वविशेषमुपास्य सामानाधिकरण्यसम्बन्धेन परस्परवैशिष्टयभानप्रयुक्तस्य सम्भवतोऽपि विषयतातिरेकस्यानभ्युपगमस्तथैवान्यत्रादृष्टस्यापि प्रकारतात्वाभ्यां निरूप्यनिरूपकभावस्य विशिष्टवैशिष्टयबोधतो विशेषाधिगतये 'विशेष्ये विशेषणम्' इति ज्ञानीयप्रकारत्वयोरम्युपगमेन तत्र दण्डे विशेष्यतालक्षणविषयताभेदानभ्युपगम इत्याशयः । 'विशेष्ये विशेषणम्' इति बोधतो विषयतातिरेकाभ्युपगममन्तरेणापि विशेषमुपदर्शयति-विशिष्टवैशिष्टयस्थले चेतियद्यप्यत्रापि अनन्तराभासमानसमानाधिकरणकज्ञानीयविषयत्वयोरेवावच्छेद्यावच्छेदकभावो ज्ञानान्तरीयविषयतास्थले दृष्ट इति रक्तदण्डवान्' इति विशिष्टवैशिष्टयज्ञाने या रक्तत्वनिष्ठप्रकारता या च दण्डत्वावच्छिन्नदण्डनिष्ठप्रकारता तयोरेकज्ञानीययोरपि सामानाधिकरण्याभावान्नोक्तनियमानुसारेणावच्छेद्यावच्छेदकभावसम्भवः, तथापि विशेष्ये विशेषणम्' इति ज्ञानीयप्रकारतातो विशेषाधिगत्यर्थमन्यत्रादृष्टस्याप्येतस्य कल्पनम् , एतावतैवान्यबुद्धितो विशिष्टवैशिष्टयबुद्धर्भेदस्य सम्भवान्नातिरिक्तविषयताकल्पनमित्याशयः । यदि च व्यधिकरणविषयतात्मनो रक्तत्वनिष्ठप्रकारत्व-दण्डत्वावच्छिन्नप्रकारत्वयो वच्छेदकभावस्तदा विशिष्टवैशिष्टयबोधे या रक्तत्वनिष्ठप्रकारता सा रक्तत्वनिष्टावच्छेदकतैव, तन्निरूपितत्वादेव दण्डत्वाववच्छिन्नप्रकारताया: 'विशेष्ये विशेषणम्' इति ज्ञानीयप्रकारतातो विशेष इत्याह-स्वीक्रियतां वेति । तत्र विशिष्टवैशिष्ट्यबोधे । 'अवच्छेदकत्वाख्येष्वेव' इति स्थाने 'अवच्छेदकताख्यव' इति पाठो युक्तः । "विशेष्ये विशेषणम्' इति ज्ञानीयविषयताया रक्तत्वनिष्ठप्रकारतानिरूपितशुद्धदण्डत्वावच्छिन्नप्रकारतारूपाया अनुभवसिद्धत्वं कारणतावच्छेदकत्वं च पूर्वमुपपादितमेवेति स्मार. यति-प्रकारताद्वयघटितरूपेणेति । रक्तत्वनिष्ठप्रकारत्वावच्छिन्नदण्डत्वावच्छिन्न प्रकारताकत्वेन विशिष्टबोधस्य बोधान्तरतो विशेषे तद्रूपेणैव तस्य स्वकार्य प्रति कारणत्वादिकं परिभावनीयम् , प्रकारान्तराश्रयणेन तत्र विशिष्टनिष्ठप्रकारतानिर्वचनं तु न सम्भवदुतिकमित्याह-न रक्तत्वेति-प्रथमवकारेण रकत्व-दण्डत्वद्रव्यत्वादित्रितयधर्मावच्छिन्नप्रकारतया रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नप्रकारतया विशिष्टवैशिष्ट्यबुद्धिविषयत्वस्य व्यवच्छेदः, द्वितीयवकारेण रक्त-दण्ड-द्रव्यादेः प्रकृतदण्डवानिति विशिष्टवैशिष्ट्यबुद्धिविषयत्वव्यवच्छेदः, नयभेदेन बहूनां विशिष्टवैशिष्ट्यबुद्धिप्रकाराणां सम्भवे रक्तत्वनिष्ठप्रकारत्वावच्छिन्नदण्डत्वावच्छिन्नप्रकारतयाऽपि रक्तदण्डस्येव रक्तदण्डद्रव्यत्वादेरपि विशिष्टवैशिष्टयबुद्धिविषयता सम्भवत्यैवेति तळ्यवच्छेदनं न न्याय्यमिति निषेधहेतुरत्रावसेयः । अन्यथा निरुक्कैकान्तस्यैवाश्रयणे । 'रक्तदण्डवान्' इत्यस्य लक्षण्याद' अस्य Page #139 -------------------------------------------------------------------------- ________________ १०६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। पर्यायाधी(धा)रताकावच्छेदकताप्रकारताश्रयणेऽतिगौरवात् , 'गुणवान् दण्डवान्' इत्यतो वैलक्षण्यसम्पादनाय रक्तविशिष्टदण्डत्वोभयपर्याप्तावच्छेदकताकप्रकारतानुधावने रक्तत्वेन दण्डे पीतावगाहिनि तादृशबोधेऽगतेश्च, तस्माद् रक्तत्वत्वावच्छिन्नावच्छेदकतानिरूपकदण्डत्वावच्छिन्नप्रकारताकबुद्धित्वमेव 'रक्तदण्डवान्' इति विशिष्टवैशिष्ट्यबुद्धित्वमाश्रयणीयम् , अनुमितिहेतुपरामर्शेऽपि हेतुतावच्छेदकावच्छिन्नस्थाने 'रक्तदण्डवान्' इत्यस्यावलक्षण्याद्' इति पाठः सम्यग, रक्तत्व-दण्डत्वोभयावच्छिन्न प्रकारता यथा रक्तदण्ड निष्ठप्रकारता तथा रक्तदण्डद्रव्यनिष्ठप्रकारताऽपि तस्यां द्रव्यत्वस्याधिकस्यावच्छेदकत्वेऽपि रक्तत्व-दण्डत्वोभयस्यावच्छेदकत्वानपायात् , एवं च रक्तत्व-दण्डत्वोभयावच्छिन्न प्रकारताकबुद्धित्वलक्षणं रक्तदण्डवैशिष्ट्यावगाहिबुद्धित्वं 'रक्तदण्डवान्' इति बुद्धाविव 'रक्तदण्डद्रव्यवान्' इति बुद्धावपीति तयोवलक्षण्यं न स्यादिति तादृशप्रकारतयैव विशिष्टवैशिष्टयधीविषयत्वस्योररीकारेऽपि रक्तदण्डस्यैवेत्यवधारणं न घटते रक्तदण्डद्रव्यस्याप्युक्तप्रकारत्वसद्भावादित्यर्थः । ननु रतत्व दण्डत्वनिष्टद्वित्वावच्छिन्नपर्याप्ताधारताकावच्छेदकतानिरूपितप्रकारतयैव रक्तदण्डस्यैव निरुक्कविशिष्टवैशिष्टयधीविषयतेत्येवमवधारणं सम्भवति, यतो 'रक्तदण्डद्रव्यवान्' इति ज्ञानीयप्रकारतानिरूपितावच्छेदकतापर्याप्तिसम्बन्धेन रक्तत्व दण्डत्व-द्रव्यत्वेषु त्रिषु वर्तत इति पर्याप्तिसम्बन्धावच्छिन्नतादृशावच्छेदकतानिष्ठनिरूपकतानिरूपिताधारता रक्तत्व-दण्डत्व द्रव्यत्वैतद्गतत्रित्वावच्छिन्ना न तु रक्तत्व दण्डत्वनिष्ठद्वित्वावच्छिन्ना, तादृशद्वित्वावच्छिन्नाधारता तु रक्तदण्डवानिति ज्ञानीयप्रकारतानिरूपितावच्छेदकत्वनिष्ठपर्याप्तिसम्बन्धनिरूपकतानिरूपितैवेति भवति 'रक्तदण्डद्रव्यवान्' इत्यतो रक्तदण्डवान्' इत्यस्य वैलक्षण्यम् , तादृशप्रकारतयैव रक्तदण्डस्यैव विशिष्टवैशिष्टयधी. विषयतेत्यवधारणं च सुसङ्गतमित्यत आह-रक्तत्व-दण्डत्वनिष्ठेति- रक्तत्व दण्डत्वगतं यद् द्वित्वं तदवच्छिन्नानुयोगितानिरूपिका या पर्याप्तिस्तत्सम्बन्धावच्छिन्ननिरूपकतानिरूपिताधारताका याऽवच्छेदकता तनिरूपितप्रकारताकबुद्धित्वं रक्तदण्डवैशिष्टयबुद्धित्वमित्येवमभ्युपगमेऽतिगौरवादित्यर्थः, किञ्च गुणवद्दण्डवानितिबुद्धितो रक्तदण्डवानितिबद्धलक्षण्यं न रक्तत्वदण्डत्वोभयावच्छिन्नप्रकारताकबुद्धित्वेन सम्भवति गुणवद्दण्डवानिति बुद्धरपि गुणत्वेन गुणमात्रस्य दण्डविशेषणत्वे रक्तरूपस्यापि गुणत्वेन दण्डविशेषणतया रक्तत्वदण्डत्वोभयावच्छिन्नप्रकारताक बुद्धित्वादतस्ततो वैलक्षण्याय रूपत्वावान्तरसामान्यरूपं यदक्तत्वं तद्विशिष्टं यद्रक्तरूपं यच्च दण्डत्वं तदुभयपर्याप्तावच्छेदकताकप्रकारताकबुद्धित्वमेव रक्तदण्डवैशिष्टयबुद्धित्वं वाच्यम् , 'गुणवतव्यवान्' इति बुद्धिप्रकारतायां च गुणत्वेनैव रक्तरूपस्यावच्छेदकत्वं न तु रक्तत्वविशिष्टस्य तत्त्वमिति भवति तद्वारणम्, किन्तु रक्तत्वेन पीतस्य दण्डेऽवगाहकं यद् रक्तदण्डवान्' इति ज्ञानं तदपि रक्तदण्डवैशिष्टयावगाहित्वेन सम्मतम् , तस्य सङ्ग्रहो न भवेत् , तज्ज्ञानीय प्रकारताया रक्तत्वविशिष्टं यद् रक्तरूपं तद्-दण्डत्वोभयपर्याप्तावच्छेदकताकत्वाभाव दित्याह- 'गुणवान् दण्डवान्' इत्यत इति-एतस्य स्थाने 'गुणवद्दण्डवानित्यतः' इति पाठो युक्तः । रक्तत्वविशिष्ट इत्यत्र रक्तत्वपदेन रूपत्वावान्तरसामान्यरूपं रक्तत्वं ग्राह्यम् । स्वसम्मतं विशिष्टवैशिष्टयबुद्धित्वस्वरूपमुपसंहरतितस्मादिति- 'रक्तदण्डद्रव्यवान्' इत्यत्र रक्तं यद् दण्डात्मकं द्रव्यं तद्वानित्येवं स्वरूपपर्यवसाने रकत्वत्वावच्छिन्नावच्छेदकता. निरूपकं द्रव्यत्वावच्छिन्नप्रकारत्वमेव न दण्डत्वावच्छिन्न प्रकारत्वमिति तद्वयवच्छेदः, 'गुणत्ववद्व्यवान्' इत्यत्र दण्डत्वावच्छिन्नप्रकारतानिरूपितावच्छेदकता गुणत्वावच्छिन्ना न रक्तत्वत्वावच्छिन्नेति तद्वयवच्छेदः, रक्तत्वत्वपदेनात्र रूपत्वावान्तरसामान्य रक्त. त्वमेव विवक्षितम् , रकत्वेन दण्डे पीतावगाहिबोधीयप्रकारतानिरूपिता पीतनिष्ठावच्छेदकताऽपि रक्तत्वत्वावच्छिन्ना भवत्येवेति तत्सङ्ग्रहश्चेति । अनुमितिं प्रति परामर्शस्य यद् विशिष्टवैशिष्ट्यावगाहित्वेन कारणत्वं तत्रापि कारणतावच्छेदक विशिष्टवैशिष्टयबुद्धित्वमित्यमेव निर्वक्तव्यमित्याह-अनुमितिहेतपरामर्शेऽपीति । हेततावच्छेदकावच्छिन्नेति- 'हेतुसमानाधिकरणात्यन्यताभावप्रतियोगितानवच्छेदकसाध्यतावच्छेदकावच्छिन्नसाध्यसमानाधिकरणहेतुमान् पक्ष.' इत्याकारकः परामर्शोऽनुमितिकारणम् , निरुक्तपरामर्शीयपक्षनिष्टविशेष्यतानिरूपितहेतुनिष्ठप्रकारतायाः साक्षादवच्छेदको हेतुतावच्छेदकताघटकसम्बन्धेन हेतुतावच्छेदकः स्वरूपसम्बन्धेन वृत्तित्वं च, यद् यत्र विशेषणं तत् तन्निष्टावच्छेदकताया अवच्छेदकम् , असाधारणधर्मस्यावच्छेदकत्वेऽपि तत्तद्धर्मावच्छिन्नत्वेनैव तत्तद्धर्मिनिष्ठावच्छेदकता निविशते विशेषणान्तरनिष्ठावच्छेदकतानिरूपितत्वेनावगतिसौलभ्याय, एवं च वृत्तित्वेऽधिकरणं तत्र साध्यं तत्र साध्यतावच्छेदकं तत्राभावस्तत्र प्रतियोगितयाऽवच्छेदकत्वं तत्र प्रतियोगिता तत्राभावस्तत्र वृत्तित्वं तत्राधिकरणं तत्र हेतुस्तत्र हेतुतावच्छेदकमसाधारणधर्मतया विशेषणम् , तदवलम्बनेन 'हेतुतावच्छेदकावच्छिन्नहेतुनिष्ठावच्छेदकतानिरूपित' इत्यादि निवेशः, हेत्वधिकरणस्य साध्याधिकरणस्य चाधिकरणत्वने प्रवेशो नाभिलषित इत्यधिकरणत्वावच्छिन्नत्वन नाधिकरणनिष्ठावच्छदकतानिवेश आहतः, अधिकरणत्वेन तत्प्रवेशस्या. Page #140 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । १०७ हेतुनिष्ठावच्छेदकतानिरूपिताधिकरणनिष्ठावच्छेदकतानिरूपिताधेयत्वत्वावच्छिन्नावच्छेदकतानिरूपिताभावत्वावच्छिन्नावच्छेदकतानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपिताभावत्वावच्छिन्नावच्छेदकतानिरूपितवह्नित्वनिष्ठावच्छेदकतानिरूपितसाध्यनिष्ठावच्छेदकतानिरूपिताधेयत्वत्वावच्छिन्नावच्छेदकतानिरूपितहेतुतावच्छेदकावच्छिन्नप्रकारताकत्वमेव निवेश्यताम् , न च, यत्र व्याप्ति धूमत्वयोः 'एकत्र द्वयम्' इति रीत्यैव हेतुनिष्ठप्रकारतावच्छेदकत्वं तादृशपरामर्शादनुमित्यापत्तिः, इष्टापत्तौ च विरोध-व्यभिचारयो. हेत्वाभासत्वानुपपत्तिः, तादृशज्ञानस्य तज्ज्ञानाप्रतिबद्ध्यत्वात् , इति तद्वारणाय व्याप्तिप्रकारतानिरूपितविशेष्यतात्वेन धूमत्वावच्छिन्नप्रकारता निवेशनीया, तत्त्वेन धूमत्वावच्छिन्नत्वं च धूमप्रकारतायां तत्रैव भिमतत्वे तु हेतुनिष्ठावच्छेदकतानिरूपिताधिकरणत्वावच्छिन्नाधिकरणनिष्टावच्छेदकतानिरूपितेत्येवं वक्तव्यम् , अधिकरणनिष्ठावच्छेदकतेत्युक्त्यैवाधिकरणत्वावच्छिन्नत्वं तत्र लभ्यते, अत एव यत्रासाधारणधर्मावच्छिन्नत्वेन निवेशनं न तत्र धर्मिनिष्ठतयाऽवच्छेदकत्वोपादानम् , तेनाधेयत्वत्वावच्छिन्नत्वेनोपादाने आधेयत्वनिष्टत्वेन नोपादानमेवमप्रेऽपि, 'प्रतियोगित्वनिष्ठावच्छेदकतानिरूपिताभावत्वावच्छिन्नावच्छेदकतानिरूपित' इत्यस्य स्थाने 'प्रतियोगित्वनिष्ठावच्छेदकतानिरूपितावच्छेदकतात्वावच्छिन्नावच्छेदकतानिरूपिताभावत्वावच्छिन्नावच्छेदकतानिरूपित' इति पाठो युक्तः, हेतुतावच्छेदकादीनां सामान्यत एव निवेशे कस्यचिद् विशेषत उपादानं न सङ्गतिमङ्गतीति 'वह्नित्वनिष्ठावच्छेदकता' इति स्थाने 'साध्यतावच्छेदकनिष्ठावच्छेदकता' इति पाठो युक्तः, 'साध्यनिष्ठावच्छेदकतानिरूपिताधेयत्वत्वावच्छिन्नावच्छेदकता' इति स्थाने 'साध्यनिष्ठावच्छेदकतानिरूपिताधिकरणनिष्ठावच्छेदकतानिरूपिताधेयत्वत्वावच्छिन्नावच्छेदकता' इति पाठो युक्तः । ननु पर्वते धूमव्यक्ति तत्र धूमव्यापकवह्निसामानाधिकरण्य-धूमत्वे अवगाहमाना या 'एकत्र द्वयम्' इति रीत्या बुद्धिः साऽपि 'हेतुतावच्छेदकावच्छिन्नहेतुनिष्ठावच्छेदकतानिरूपित' इत्यादिनिरुक्ककारणतावच्छेदकधर्माकान्ता, यतस्तत्र धूमनिष्ठप्रकारताया धूमत्वावच्छिन्नत्वस्य निरुकव्याप्तिनिष्ठावच्छेदकतानिरूपितत्वस्यास्त्येव सत्त्वमिति ततोऽप्यनुमित्यापत्तिः, नेयमापत्तिरिष्टापत्तितया परिहर्तुं शक्या, तथा सत्यनुमितिकारणस्य निरुक्तपरामर्शस्य विरोध-व्यभिचारप्रतिबध्यतावच्छेदकं यद् व्याप्तिनिष्टप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्नविशेष्यताबुद्धित्वं तदनाक्रान्तत्वेन तं प्रति विरोध. व्यभिचारज्ञानयोरप्रतिबन्धकतया विरोध-व्यभिचारयोर्हेत्वाभासत्वमेव न स्यात्, इत्येकत्र द्वयमिति रीत्या जायमानपरामर्शस्यानुमितिकारणत्ववारणाय व्याप्तिनिष्ठप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्नविशेष्यतात्वेन हेतुप्रकारता निवेशनीया, एवं च तत्र व्याप्यवच्छिन्नत्वनिवेशनमफलमित्याशय प्रतिक्षिपति-न चेति-अस्य वाच्यम्' इत्युत्तरेण सम्बन्धः । तादृशपरामर्शात् हेत्वंशे 'एकत्र द्वयम्' इति रीत्या व्याप्तिहेतुतावच्छेदकोभयावगाहिपरामर्शात् । इष्टापत्तौ च निरुक्तपरामर्शादनुमित्यापत्तरिष्टापत्तिरूपतयाऽदोषत्वाभ्युपगमे च । विरोधेति- साध्यव्यापकीभूताभावप्रतियोगिहेतुलक्षणविरोधस्य पक्षधर्मिकहेतुमत्तानिश्चयविशिष्टनिश्चयत्वेनानुमितिप्रतिबन्धकस्वज्ञानविषयत्वेन हेत्वाभासत्वसम्भवेऽपि साध्यासामानाधिकरण्यात्मकहेतुनिष्ठविरोधस्य साध्यसामानाधिकरण्य घटितव्याप्तिज्ञानविरोधिज्ञानविषयत्वेनैव हेत्वाभासत्वस्य स्वीकृततया तन्निश्चयस्य व्याप्तिघटकीभूतसाध्यसामानाधिकरण्यनिष्टप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्नव्याप्तिप्रकारकहेतुविशेष्यकज्ञाननिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकताशालितायामेव विरोधस्य तद्विषयस्य हेत्वाभासत्वं भवेत् , निरुक्तपरामर्शस्य तु निरुक्तप्रतिबध्यताशून्यत्वेनोक्तप्रतिबन्धकताशून्यनिश्चयविषयत्वेन विरोधस्य हेत्वाभासत्वं न स्यात् , एवं व्यभिचारस्यापि व्याप्तिनिष्ठप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्न प्रतिबध्यतानिरूपित प्रतिबन्धकताशालिनिश्चयविषयत्वेनैव हेत्वाभासत्वं नान्यथा निरुक्तपरामर्शस्य तु व्याप्तिनिष्टप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्नविशेष्यताकत्वलक्षणप्रतिबध्यतावच्छेदकधर्मानाक्रान्तत्वेनाप्रतिबध्यत्वे तदप्रतिबन्धकनिश्चयविषयस्य व्यभिचारस्यापि हेत्वाभासत्वं न स्यादित्यर्थः। तादृशज्ञानस्य 'एकत्र द्वयम्' इत्यादिरीत्या हेत्वंशव्याप्तिहेतुतावच्छेदकोभयावगाहिनः परामर्शस्य । तज्ज्ञानाप्रति. बध्यत्वात् विरोधव्यभिचारज्ञानाप्रतिबध्यत्वात् । इति एतस्माद् हेतोः । तद्वारणाय तादृशपरामर्शदनुमित्यापत्तिवारणाय । व्याप्तीति- 'एकत्र द्वयम्' इति रीत्या व्याप्ति-हेतुतावच्छेदकोभयप्रकारक-हेतुव्यक्तिविशेष्यकपरामर्शे च व्याप्तिनिष्ठप्रकारतानिरूपितहेतुनिष्टविशेष्यता हेतुतावच्छेदकनिष्ठप्रकारतानिरूपितैव न तु हेतुतावाच्छेदकावच्छिन्नेति नोकरूपेण तस्य कारणत्वमतो नोक्तपरामर्शदनुमित्यापत्तिः । तत्त्वेन व्याप्तिनिष्टप्रकारतानिरूपितविशेष्यतात्वेन, यत्र धूमत्वस्य व्याप्तिधर्मितावच्छे. दकत्वं तत्रैव धूमप्रकारतायां तत्त्वेन धूमत्वावच्छिन्नत्वमित्यन्वयः। अन्यत्र तु यस्मिन् ज्ञाने न धूमत्वस्य व्याप्ति Page #141 -------------------------------------------------------------------------- ________________ १०८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । यत्र धूमत्वस्य व्याप्तिधर्मितावच्छेदकत्वमन्यत्र तु धूमप्रकारकत्वेनैवेति नातिप्रसङ्गः, तथा च प्रागुक्तरीत्या व्याप्यत्वावच्छिन्ननिवेशनमफल मिति वाच्यम् , व्याप्त्यंशे संशयाकारज्ञानादनुमितिवारणाय तत्तदंशे निश्चयनिवेशापेक्षया लाघवादुक्तरीत्या व्याप्यत्वावच्छिन्ननिवेशस्यैवोचितत्वात , न चायमेकान्तोऽपि युक्तः, परस्परानिरूपितावान्तरावयवस्थानीय विषयताया अप्यनुभवात् , न च विशिष्टपर्याप्त प्रकारतैकान्तपक्षोऽपि युक्तः, विशिष्ट पर्याप्तप्रकारतान्तरस्यापि सिद्ध्यापत्तेः, तत्सिद्धाविष्टापत्तिः, दण्डविशिष्टपुरुषविशिष्टभूतलपर्याप्तप्रकारताकबुद्धौ च दण्डांशे निश्चयात्मकदण्डविशिष्टपुरुषवद्भूतलमिति निश्चयो हेतुः, धर्मितावच्छेदकत्वं तस्मिन् ज्ञाने पुनः । 'धूमप्रकारत्वेनैव' इति स्थाने 'धूमप्रकारतात्वेनैव' इति पाठो युक्तः, तस्य धूमप्रकारतात्वेनैव धूमप्रकारतायां धूमत्वावच्छिन्नत्वं न तु व्याप्तिप्रकारतानिरूपितविशेष्यतात्वेनेत्यर्थः । नातिप्रसङ्ग इति- ‘एकत्र द्वयम्' इति रीत्या धूमे व्याप्ति धूमत्वोभयावगाहिपरामर्शस्य व्याप्तिनिष्टप्रकारतानिरूपितविशेष्यत्वाभिन्नधूमत्वावच्छिन्नप्रकारताकनिश्चयत्वलक्षणानुमितिकारणतावच्छेदकधर्मानाक्रान्तत्वान्न ततोऽनुमित्यापत्तिरित्यर्थः । तथा च अनुमित्यापत्तिवारणाय व्याप्तिनिष्ठप्रकारतानिरूपितविशेष्यतात्वेन धूमत्वावच्छिन्नप्रकारतानिवेशस्यावश्यकत्वे च । प्रागुक्तरीत्या हेतुतावच्छेदकावच्छिन्नहेतुनिष्ठावच्छेदकतानिरूपितेत्यादिप्रकारेण। व्याप्यत्वावच्छिन्ननिवेशनं व्याप्तिनिष्ठावच्छेदकतानिरूपितेति निवेशनम् । निषेधे हेतुमाह-व्याप्यंशे संशयाकार ज्ञानादिति- व्याप्त्यंशे संशयाकारस्यापि परामर्शस्य व्याप्तिनिष्ठप्रकारतानिरूपितहेतुनिष्ठविशेष्यताकत्वस्य भावेन निरुक्तकारणतावच्छेदकधर्माकान्तत्वेन ततोऽनुमित्यापत्तिः स्यादेवेति व्याप्तिनिष्टप्रकारतानिरूपिता या व्यायभावनिष्टप्रकारत्वानिरूपिता विशेष्यता तदभिन्नहेतुतावच्छेदकावच्छिन्नप्रकारताकज्ञानं व्यायंशे निश्चयस्वरूपं कारणं वाच्यमिति गौरवं स्यात् , प्रागुक्तरीत्या व्याप्तिनिष्ठावच्छेदकतानिरूपितहेतुतावच्छेदकावच्छिन्नप्रकारताक ज्ञानत्वेन परामर्शस्यानुमितिकारणत्वे तु तथाभूत परामर्शस्य व्याप्तिविशिष्टवैशिष्ट्यावगाहिबुद्धिरूपस्य विशेषणतावच्छेदकीभूतव्याप्तिप्रकारकनिश्चयजन्यत्वेन तत्पूर्व व्याप्तिनिश्चयस्यावश्यं सद्भावेन तस्य व्याप्तिसंशयविरोधितया ततो जायमानज्ञाने व्यायंशे संशयरूपत्वाभावेन व्यायंशे निश्चयरूपत्वस्यानिवेशनीयत्वेन लाघवमित्यतो व्याप्यत्वावच्छिन्ननिवेशस्यैवोचितत्वादित्यर्थः । विशिष्टवैशिष्ट्यावगाहिज्ञानलक्षणपरामर्श तत्तदवच्छेदकतानिरूपितप्रकारत्वाख्यविशिष्टवैशिष्टयविषयतैव समस्तीत्येकान्तोऽपि न साधीयान् , तत्र परामर्श परस्परानिरूपितव्याप्तिस्वरूपसन्निविष्टतत्तत्पदार्थनिष्टविषयताऽपि समस्त्येव यामुपादाय केवल. तत्तत्पदार्थविषयक ज्ञानविषयविषयक त्वमपि परामर्शेऽनुभवपथमायातील्याह-न चेति- 'युक्तः ' इत्यनेनान्वयः । अयं प्रागुक्तरीत्योपवर्णितस्वरूप: परामर्शः । एकान्तः तत्तदवच्छेदकतानिरूपितहेतुनिष्टप्रकारताशाल्येव । अयुक्तत्वे हेतुमाह-परस्परानिरूपितेति-निरूप्यनिरूपकभावलक्षणशृङ्खलानालिङ्गितेत्यर्थः । अवान्तरेति-हेत्वधिकरणाद्यखिलघटितव्याप्तिस्वरूपघटकेत्यर्थः । अवयवस्थानीयेति- निरूप्यनिरूपकभावलक्षणशृङ्खलाबद्धविषयतासमष्टिस्वरूपनिष्पन्ना विशिष्टवैशिष्टयविषयताऽवयविस्थानीया, तदन्तर्गतकै कविषयताऽवयवस्थानीयेत्यर्थः । न साऽपलपितुं शक्याऽनुभूयमानत्वादित्याह- अनुभवादितियथा तत्र विशिष्टवैशिष्टयविषयतानुभूयते तथा प्रत्येकविषयताऽपीत्यावेदनाय 'अपि' इति । विशिष्टवैशिष्टयबोधे 'रक्तदण्डवान्' इत्यत्र रक्तत्वविशिष्टदण्डपर्याप्तव प्रकारता समस्तीत्येकान्तोऽपि न युक्तः, तत्र रक्तत्वे दण्डत्वे दण्डे च प्रत्येकमविशिष्टेऽपि प्रकारत्वानामनुभवात् , तत एव च तज्ज्ञानस्य रक्तत्वादिप्रकारकज्ञानैः समं समानप्रकारकत्वमप्यनुभववीथीमवतरतीत्याह-न चेति-अस्य ‘युक्तः' इत्यनेनान्वयः। अयुक्तत्वे हेतुमाह-विशि ऐति- 'विशिष्टपर्याप्तप्रकारतान्तरस्यापि' इति स्थाने 'विशिष्टापर्याप्तप्रकारतान्तरस्यापि' इति पाठो युक्तः । तादृशविषयत्वानामनुभूयमानत्वेन तदापादनमुक्तदिशा भवदिष्टापत्तिरूपतयैव परेणापि स्वीकारेणानुभवमुखमवलोकयतेत्याहतत्सिद्धाविष्टापत्तिरिति-विशिष्टवैशिष्टयबोधे परस्परा निरूपिताविषयताविशिष्टापर्याप्तप्रकारतान्तरसिद्धाविष्टापत्तिरित्यर्थः । एवंदिशा यद्यपि बढ्यो विषयताः सन्त्येव विशिष्टवैशिष्टयबोधे, परं ताः सर्वा क्षयोपशमविशेषजन्यतावच्छेदकतयैवोपगमार्हाः, अत्र परेषां कार्यकारणभावान्तवलम्बनं गौरवप्रतिहतं न युक्तमित्यावेदयितुमाह- दण्डविशिष्टेति- दण्डिपुरुषवद्भूतलवानिति दण्डविशिष्टपुरुषविशिष्टभूतलपर्याप्तप्रकारताकबुद्धौ ‘दण्डिपुरुषवद्भूतलम्' इति निश्चयो दण्डविशिष्टपुरुषवैशिष्टयावगाही दण्डांशे निश्चयात्मको हेतुः, तेन दण्डांशे संशयात्मकात् पुरुषांशे निश्चयात्मकाद् दण्डविशिष्टपुरुषवैशिष्ट्यावगाहि 'दण्डदण्डाभाववत्पुरुषवान्' इति ज्ञानान्न दण्डविशिष्टपुरुषविशिष्टभूतलवानिति दण्डविशिष्टपुरुषविशिष्टभूतलवैशिष्टयावगाहिज्ञानं ततो भव॑श्च दण्डांशे 'विशेष्ये विशेषणम्' इति रीत्या दण्डवत्पुरुषवद्भतलवानिति ज्ञानमिष्टमेवेति तदापादनं नानिष्टावहमित्याह Page #142 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । १०९ अत एव दण्डांशे पुरुषांशे च संशय-निश्चयात्मकतादृशज्ञानाद् दण्डांशे 'विशेष्ये विशेषणम्' इति रीत्या पुरुषांशे विशिष्टनिरूपितवैशिष्ट्यविषयताशालिज्ञानापत्तिरित्यभ्युपगमे च सविशेषणविशिष्टवैशिष्ट्यबुद्धिस्थले नवत्यंशे निश्चयात्मकमेकं ज्ञानहेतुभूतं कल्पनीयम् , ततः पूर्व चैकैकहासेनाष्टानवतिज्ञानानि पश्चानुपूा हि तु भूतानि कल्पनीयानीति सर्वमिदमनुभव विरुद्धम् । तत्र विशृङ्खलोपस्थिततावद्विशेषणानां 'विशेष्ये विशेषणम्' इति रीत्या बोधस्वीकारे च तत्तदंशेऽनुभूयमानस्य निश्चयाकारस्य नियामक स्तत्र संशयसामग्यभाव एव वाच्यः, तथा च विशिष्टवैशिष्ट्यविषयता 'वहिव्याप्तितदभार इत्यादित इव 'पर्वतो वहिव्याप्यधूमवान् नवा' इत्यादितोऽपि व्यावृत्तस्तत्तदवच्छिन्ननियामकश्च तत्तत्. अत एवेति-दण्डविशिष्टपुरुषविशिष्टभूतलपर्याप्त प्रकाराताकबुद्धौ दण्डांशे निश्चयात्मक दण्डविशिष्टपुरुषवद् भूतलम्' इति निश्चयस्य हेतुत्वादेवत्यर्थः । इत्यभ्युपगमे च उक्तदिशा परेरित्थमभ्युपगमे च | सविशेषणविशिष्टवैशिष्ट्यबुद्धिस्थले नवत्यंशे' इत्यस्य स्थाने 'शतविशेषणवैशिष्टयबुद्धिस्थले नवनवत्यंशे' इति पाठः, 'ज्ञानहेतुभूतं' इत्यस्य स्थाने 'ज्ञानं हेतुभूतं' इति पाठः, 'हि तु भूतानि' इत्यस्य स्थाने 'हेतुभूतानि' इति पाठश्च युक्तः। अयमर्थः-विशेष्यविशेषणभावापत्नयावद्विशेषणविशिष्टस्य वैशिष्टयबुद्धौ यावत्सु विशेषणेषु निश्चयात्मकं विशेषणतावच्छेदकप्रकारकज्ञानं यदि हेतुरभ्युपगम्यते तदा विशेष्यविशेषभावशङ्खलावबद्धशतत्वसङ्खयावच्छिन्नविशेषणवैशिष्टयबुद्धौ नवनवतिसंख्यावच्छिन्ना ये विशेषणविशेषणत्वाद् विशेषणतावरे.. कधर्मास्तत्प्रकारकं ज्ञानं नवनवत्यंशे निश्चयात्मकमेकं कारण कल्पनीयम् , तदपि ज्ञानमष्टानवतिसङ्खथावच्छिन्नधर्मविशिष्टस्य वैशिष्ट्यावगाहीति तत्राष्टानवतिसङ्ख्यावत्सु विशेषणतावच्छेदकधर्मेषु निश्चयात्मकमष्टानवतिसंख्यावच्छिन्नविशेषणतावच्छेदकप्रकारकमेकं ज्ञानं कारणं कल्पनीयम् , तदपि ज्ञानं सप्तनवतिसङ्ख्यावच्छिन्नधर्मविशिष्टस्य वैशिष्टयावगाहीति तत्र सप्तनवतिसङ्ख्यावत्सु विशेषणतावच्छेदकधर्मेषु निश्चयात्मकं सप्तनवतिसख्यावच्छिन्नविशेषणतावच्छेदकप्रकारकं ज्ञानं कारणं कल्पनीयमित्येवं पश्चानुपूर्व्या हेतुभूतान्यष्टानवति ज्ञानानि विशिष्टवैशिष्टयबोधहेतुभूतानि कल्पनीयानीति परमते सर्वमिदमनुभवविरुद्धमिति । उक्तदिशा विशिष्टवैशिष्टयबुद्धौ विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वे यथा परेषामनुभवविरुद्धानेककारणपरिकल्पनदोषस्तथा तत्रैव विशेषणतावच्छेदकीभूततत्तद्धर्मप्रकारकनिश्चयाभावदशायां 'विशेष्ये विशेषणम्' इति रीत्या जायमाने तत्तद्धर्माशे निश्चयात्मके ज्ञाने तत्तद्धाशनिश्चयत्वप्रयोजकतया तत्तधर्माशसंशयप्रयोजकतत्तत्सामग्र्यभावकल्पनदोषोऽपीत्याह- तत्रेति- शतविशेषणविशिष्टवैशिष्टयबुद्धिस्थल इत्यर्थः । विहलोपस्थिततावद्विशेषणानामिति- उत्तरज्ञाने स्वस्वविशेष्यत्वेन भासमानतत्तद्विशेषणविशेषणतया पूर्वज्ञानागोचरीकृतनवनवत्यादिसङ्ख्यावच्छिन्नविशेषणानां विशेष्यविशेषणभावानापन्नत्वलक्षणस्वातन्त्र्येण पूर्वज्ञानविषयीभूतशतसङ्ख्यावच्छिन्नविशेषणानामित्यर्थः। तत्र तत्तदंशे । यथा च धूमांशे वहिव्याप्तिरूपविशेषणस्य संशयात्मकात् परामर्शान भवति वयनुमितिस्तथा पर्वताशे वहिव्याप्तिविशिष्टधूमरूपविशेषणस्य संशयात्मकपरामर्शादपि न भवति पर्वते वह्नयनुमितिः, एवं महानसादिलक्षणविशेष्ये वहिव्याप्यधूमस्य संशयात्मकपरामर्शादपि महानसादौ न भवति वयनुमितिरिति धूमलिङ्गकवयनुमितित्वावच्छिन्न कार्यतानिरूपितवयव्याप्यधूमविषयकपरामर्शनिष्टकारणतावच्छेदिका विशिष्टवैशिष्टयविषयता यथा वहिव्याप्तिमद्वह्निव्यायभाववद्धमवान्' इति ज्ञानाद् वयनुमित्यजनकाद् व्यावृत्ता तथा 'पर्वतो वहिव्याप्यधूमवान् नवा' इति ज्ञानादपि व्यावृत्ता, एवमालोकादिलिङ्गकपरामर्शादपि वह्नयनुमितिर्भवति, तत्रालोकलिङ्गकवह्नयनुमितित्वावच्छिन्नकार्यतानिरूपितवह्निव्याप्यालोकादिविषयकपरामर्शनिष्ठकारणतावच्छेदिकाऽपि विशिष्टवैशिष्ट्यविषयता यथा 'वहिव्याप्तिमद्वहिव्याप्त्यभाववदालोकवान्' इत्यादिज्ञानाद् वह्नयनुमित्यजनकाद् व्यावृत्ता तथा ' पर्वतो वहिव्याप्यालोकवान् नवा' इत्यादिज्ञानादपि पर्वतादिविशेष्यकवन्यनुमित्यजनकाद् व्यावृत्ता स्वीकरणीयेति तादृशतादृशविषयताविशेषावच्छिन्ननियामकस्तत्तत्संशयसामग्यभावोऽभ्युपेय इति कल्पनागौरवं परेषां दुष्परिहरणीयमित्याह-तथा चेतितत्तदंशेऽनुभूयमाननिश्चयाकारप्रयोजकतया तत्तदंशे संशयसामग्र्यभावस्याभ्युपगमे चेत्यर्थः। विशिष्टवैशिष्ट्यविषयत्वानां बहुत्वाद् विशिष्टवैशिष्टयविषयता इति बहुवचनान्तं बोध्यम् , तदभावेति- वह्निव्यायभावेत्यर्थः । 'इत्यादितः' इत्यादिपदाद् 'वहिव्याप्तितदभाववदालोकवान्' इत्यादर्ग्रहणम् । 'पर्वतो वह्निव्यायधूमवान् नवा' इत्यादितोऽपि इत्यत्रादिपदात् 'पर्वतो वह्निव्याप्यालोकवान् नवा' इत्यादेर्ग्रहणम् । 'व्यावृत्तस्तत्तदवच्छिन्न' इति स्थाने 'व्यावृत्ताः, तत्तदवच्छिन्न' इति पठो युक्तः, 'व्यावृत्ताः' इति च 'विशिष्टवैशिष्टयविषयताः' इति पूर्वेणान्वितम् । तत्तदच्छिन्नेतिविशिष्टवैशिष्टयविषयता यावन्तस्तत्प्रत्येकावच्छिन्नेत्यर्थः। तत्तत्संशयसामग्रयभाव इति- 'विशेष्यं विशेषणमितिरीत्या Page #143 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । - संशयसामग्र्यभाव एवेति विशेष्यताविशेषपर्यनुयोगे किमुत्तरम् ? तस्मात् क्षयोपशमविशेषजन्यतावच्छेदिकाः समनियता एवैता विषयिता अन्यापेक्षा भेदेन प्रतीयमाना अंशसमुदितपर्याप्ता अनेका प्रतिपत्तव्याः, ग्राह्यस्येव ग्राहकस्य चित्रस्वभावस्यापेक्षयैव विवेचयितुं शक्यत्वात् , हन्त ! एवमखण्डोऽपि विषयताविशेषः सिध्येत् सामान्यदृष्ट्या तथाप्यनुभवात् , तया च तेनैव परामर्शादेहेतुत्वापत्तिरिति चेत् ? निश्चीयमानतया विशिष्टवैशिष्टयबोधविषयीक्रियमाणतत्तद्धर्मविषयकसंशयसामग्र्यभाव इत्यर्थः । उक्तदिशा प्रकारताविशेषलक्षणविशिष्टवैशिष्टयविषयतानियामकः परैरुपदर्शितो भवति, न च प्रकारतालक्षणविषयताविशेषनियामक एव विशेष्यताविशेषनियामक इति तत्र विशेष्यताविशेषस्य किं नियामकमिति जिज्ञासायां तन्नियामकमप्यन्यदेव किश्चिद् वाच्यमिति तन्नियामकविशेषकल्पनगौरवमपि परमतेऽपरिहार्यमेवेत्याशयेनाह-विशेष्यताविशेषेति-विशिष्टपर्याप्तप्रकारतानिरूपितविशेष्यतातो विशेष्ये विशेषणमितिज्ञानीय प्रकारतानिरूपितविशेष्यता विलक्षणैव तन्नियामक किमिति पर्यनुयोगे प्रश्न किमुत्तरं नाकल्पितमुत्तरं तत्र सम्भवतीति किञ्चिन्नियामकं परिकल्प्यैवोत्तरं ते स्यात् तत्र च कल्पनागौरवमुपतिष्ठते, एवं प्रकारता-विशेष्यत्वयोर्विलक्षणयोरनेकप्रकारयोरिव संसर्गत्वाख्यविषयत्वस्यापि विलक्षण स्यावश्यं स्वीकरणीयतया तन्नियामकमप्यन्यदेव किञ्चित् परेण वाच्यमिति तत्कल्पनागौरवमपीत्याशयः । इत्थमपेक्षाभेदेनैका ऽनेकस्वभावत्वं ग्राह्यस्य ग्राहकस्यानभ्युपगच्छतामेकान्तवादिनां मननं न युक्तमित्येतावतोपपाद्य, 'यथा च ग्राह्ये एका-ऽनेकतया चित्रस्वभावत्वमानुभविक तथा ग्राहकज्ञानेऽपि ' इत्यादि सप्तनयात्मकमहावाक्यार्थज्ञाने एकाऽवशिष्टा प्रमाणाकारता, अनेकाश्चशिक्यो नयविषयता. परस्परसंयोगजाश्च बढ्योऽनुभूयन्ते' इत्यन्तं स्वयं यत् प्रतिज्ञातं तत्समर्थनं च विशिष्टवैशिष्ट्यबोधस्थलीयनैयायिकाभिमततच्चतुर्विधविभजनकदर्थनमुखेन संक्षेपतः परिसमाप्योपसंहरति- तस्मादिति- उक्तदिशा परेषां विशिष्टवैशिष्ट्यबुद्धिस्थले तत्कार्यकारणभावपरिकल्पनायामनुभवविरुद्धानेककारणपरिकल्पन गौरवतोऽपेक्षाविनिर्मुक्तैकान्तपक्षस्यानुपपद्यमानत्वादित्यर्थः।क्षयोपशमेति- 'रक्तदण्डवान् पुरुषः' इत्यादिविशिष्टवैशिष्ट्यज्ञानं तावन्मतिज्ञानम् , तच्च मतिज्ञानावरणीयकर्मक्षयोपशमविशेषसमुत्थमिति तत्र यावन्त्यो विशिष्टवैशिष्ट्यविषयितास्तत्तद्धटकधर्मनिरूपिताः परस्परानिरूपिता अनेका अंशपर्याप्ताः परस्परविशेष्यविशेषणभावशङ्खलावबद्धत्वप्रयुक्तवैशिष्टयभावलब्धात्मलाभविशिष्टवस्तुस्वरूपनिरूपिता परस्परनिरूप्यनिरूपक.भावलब्धात्मलाभकविषयतानिरूपितकविषयिताः ताः सर्वा अनेकांशसमुदितांशिस्वरूपज्ञानगतत्वादंशपर्याप्ता अंशिपर्याप्ता भवन्त्येकज्ञानगतत्वात् समनियताः, अंशानामपि परस्परमंश्यभेदतोऽभिन्नत्वमिति विभिन्नतदशगतानामपि समनियतत्वम् , तावद्विषयिताविशिष्टमतिज्ञानात्मक विशिष्टवैशिष्ट्यबोधस्यावरणक्षयोपशमजन्यत्वे तासां सर्वासामपि निरुक्तक्षयोपशमविशेषजन्यतावच्छेदकत्वमिति तावद्विषयिताविशिष्टवैशिष्ट्यबोधं प्रति मतिज्ञानावरणीयकर्मक्षयोपशमविशेषः कारणमित्येकविधकार्यकारणभाव एव स्याद्वादिभिः कल्प्यते, निरुक्तक्षयोपशमविशेषजन्यतावच्छेदकविषयिताश्चैकस्मिन्नपि ज्ञाने विभिन्नापेक्षाभेदनैवानुभूयन्त इति केषाश्चिद पेक्षाभेदेनांशपर्याप्ततयाऽनुभू. यमानानां तत्तन्नयनिरूपितत्वमंशिपर्याप्ततयाऽनुभूयमानायाश्च प्रमाणनिरूप्यत्वमपि सुघटमेव, तावतैवाने कस्वभावस्य ज्ञानस्य प्रमाणापेक्षयैकत्वं नयापेक्षयाऽनेकत्वं चेत्येवं चित्रस्वभावस्य ज्ञानस्य ग्राह्यस्येवापेक्षाभेदेन विवेचनं सुशकमेवेत्यपेक्षाख्यबोधत्वलक्षणं नयत्वमुपपद्यतेतरा मित्यर्थः । 'अन्यापेक्षा भेदेन' इति यथाश्रुतपाठे अन्यापेक्षाः स्वस्वाभ्युपगन्तृनयविशेषप्रमाणापेक्षाः, भेदेन परस्परं भेदेन, प्रतीयमाना अनुभूयमाना इत्यर्थः, 'अन्यापेक्षाभेदेन' इति समस्तपाठे तु अन्यः परस्परं भिन्नो यो नैगमसङ्ग्रहादिः, यच्च नयाद् भिन्नं प्रमाणं तल्लक्षणो योऽपेक्षाभेदो निमित्तभेदस्तेन प्रतीयमाना इत्यर्थो बोध्यः । ननु यथा विशिष्टवैशिष्ट्यबोधे प्रमाणप्रयोज्या समुदितपर्याप्तका विषयता तन्निरूपितका विषयिता वा, विभिन्ननयप्रयोज्या अंशपर्याप्ता अनेका विषयतास्तन्निरूपिता अनेका विषयिता वाऽनुभूयमानत्वादभ्युपगम्यन्ते, तथा सङ्ग्रहनयेनाखण्डसन्मात्राभ्युपगन्त्राऽखण्डमपि वस्तु तत्र प्रतीतिपदमारोह तीति सङ्ग्रहनयापेक्षयाऽखण्डवस्तुगतोऽखण्डोऽपि विषयताविशेषस्तन्निरूपितोऽखण्डो विषयिताविशेषोऽपि वा प्रतीयमानत्वादभ्युपेयः, तथा चानुमितिं प्रति परामर्शस्य हेतुतावच्छेदकावच्छिन्नहेतुनिष्ठावच्छेदकतानिरूपिताधिकरणनिष्ठावच्छेदकतानिरूपितेत्या दिदर्शितनिरूप्यनिरूपकभावशृङ्खलावबद्ध हेतुतावच्छेदकावच्छिन्नप्रकारताकत्वेन किमिति कारणत्वं कल्पनीयम् , किन्तु सामान्यदृष्ट्यपेक्षयाऽनुभूयमानेन विषयताविशेषेण विषयिताविशेषेण वा हेतुत्वमेवोपेयतामित्याशङ्कते-हन्तेति 'विषयताविशेष' इति विषयिताविशेषस्याप्युपलक्षणम् । सामान्य दृष्ट्या सामान्यग्राहि सङ्ग्रहनयाश्रयणेन । तथापि अखण्डविषयतावत्तयाऽपि । अनुभवात् विशिष्टवैशिष्ट्यबोध. स्यानुभवात् । 'तथापि' इति स्थाने 'तस्यापि' इति पाठे- अस्य अखण्डविषयताविशेषस्येत्यर्थः । तथा च अखण्डविषयताविशेषस्य सिद्धौ च। तेनैव अखण्डविषयताविशेषरूपेणैव । समाधत्ते- सत्यमिति- सामान्यदृष्ट्याऽखण्डविषयता Page #144 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिनां समलकृतो नयोपदेशः । सत्यम्-भावसङ्ग्रहेण विषयताविशेषेण शक्तिविशेषणहेतुत्वे अभावसङ्ग्रहेण चाभावविशेषेण तथात्वे बाधका. भावात् , व्यवहारोच्छेदस्य व्यवहारनयसिद्धकार्यकारणभावेनैव निराकरणाद्, अनुभवसिद्धास्तु ग्राह्य. प्राहकनिष्ठाः सामान्यविशेषधर्मा न कल्पनामात्रेणापोहितुं शक्या इति दिक् । उत्तिष्ठन्तु विकल्पवीचिनिचयाः पर्यायमर्यादया, द्रव्यार्था[व]हिते तु चेतसि चिरं शाम्यन्तु तत्रैव ते । वस्तु प्रस्तुतमस्तु सागरसमं सर्वोपपत्तिक्षम, बाह्यं वा स्फुटमान्तरं समुचितस्याद्वादमुद्राङ्कितम् ॥ १॥ विशेषेण परामर्शादेहेतुत्वमिष्टमेवेति तदापादनं स्याद्वादिनं प्रति नानिष्टापादनमित्यर्थः, सामान्यं भावस्वरूपं विशेषोऽभावस्वरूप इति ग्राह्यवद् ग्राहकस्यापि सामान्य विशेषोभयरूपत्वमित्यखण्डविषयताविशेषः सामान्यांशः, अन्याश्च तत्तद्विषयनिरूपिता विषयता विशेषांश इति तत्र सामान्यग्राहिपरसङ्ग्रहनयेनाखण्डविषयतालक्षणशक्तिविशेषेण हेतुत्वं विशेषग्राह्यपरसङ्ग्रहेण नैगमनयविशेषेणातत्तद्विषयतानिरूपिततत्तद्विषयतालक्षणसखण्डविषयतास्वरूपशक्तिविशेषेणापि हेतुत्वमित्यखण्ड. विषयताविशेषेणैव हेतुत्वमित्यवधारणस्यायुक्तत्वमित्याशयेनाह-भावसाहेणेति-भावः- सामान्यांशस्तं संग्रहीतुं शीलमस्येति भावसङ्ग्रहः, परसामान्यग्राहिसङ्ग्रहनयस्तेनेत्यर्थः । 'शक्तिविशेषणताहेतुत्वे' इति स्थाने 'शक्तिविशेषण हेतुत्वे' इति पाठो युक्तः, शक्तिविशेषश्चात्र सामान्यांशगतः सामर्थ्यविशेषो बोध्यः। अभावसङ्गाहकेणेति- अभावो विशेषांशस्तं प्रहीतुं शीलमस्येति अभावसङ्गाहकोऽपरसामान्यग्राही नयस्तेनेत्यर्थः । अभावविशेषेण तत्तत्खण्डविषयताविशेषेण । तथात्वे हेतुत्वे । नन्वखण्ड विषयत्वादिना परामर्शादरनुमित्यादिकं प्रति कारणत्वं नापामरसाधारणव्यवहर्तृणां व्यव. हारवीथीमवतरतीति तथा कार्यकारणभावमाश्रयतां तत्तध्यापकविधेयकानुमितिस्तत्तस्याप्यविषयकपरामर्शादित्येवं विशिष्यानुमितिपरामर्शकार्यकारणभावावलम्बिनो व्यवहारस्योच्छेदः स्यादित्यत आह-व्यवहारोच्छेदस्येति- अस्य 'निराकरणाद्' इत्यनेनान्वयः, आपामरानुभवगोचरीक्रियमाणतत्तद्विषयताविशेषघटितमूर्तिकाभ्यां परामर्शत्वा-ऽनुमितित्वाभ्यां व्यवहारनयसिद्धो योऽनुमिति-परामर्शयोः कार्यकारणभावः सोऽपि सर्वनयमये स्याद्वादे समस्त्येव, तादृशकार्यकारणभावेनैवापामरसिद्धानुमिति परामर्शकार्यकारणभावस्य व्यवहारोपपत्तेर्व्यवहारोच्छेदस्यासम्भवादित्यर्थः । नन्वनुमिति-परामर्शकार्यकारणभाव विशिष्टवैशिष्ट्यबोधविशेषणतावच्छेदकनिश्चयकार्यकारणभावव्यवहारादिकं यदि व्यवहारनयसिद्धापामरानुभवगोचरीक्रियमाणतत्तद्विषयताविशेषसङ्कटितमूर्तिकानुमितित्व-परामर्शत्वादिकमुपादायैव तदोक्तदिशा व्यवस्थाप्यमानाखण्ड विषयतादिकमनतिप्रयोजनकमेव न प्रामाणि काभ्युपगमाई मित्यत आह- अनुभवसिद्धास्त्विति- अनुभूतिर्हि सर्वतो बलवती प्रामाणिकानपि स्वपक्ष एव व्यवस्थापयति, व्यवहारो हि भवत्युपचारबहुलो यथा यथा यद् यद् व्यवहियते तथा तथा तत् तत् कल्प्यते, न त्वेवं व्यवहारमात्रानुरोधिस्थूलकल्पनामात्रेणानुभवसिद्धानां धर्माणामपहवः शक्यः कर्तुमिति सामान्यविशेषात्मकस्य ग्राह्यस्य वस्तुनः सामान्य-विशेषात्मकमेव ग्राहकं युक्तिक्षममिति ग्राह्ये ग्राहके चानुभवसिद्धाः सामान्य-विशेषधर्मा अखण्डसखण्डरूपाः स्वीकरणीया एव प्रामाणिकैरुक्तदिशा व्यवस्थाप्यमाना विशिष्टवैशिष्टयबोधीयानल्पप्रकारविषयताविशेषा आवरणक्षयोपशमविशेषजन्यतावच्छेदिकाः प्रमाण-नयापेक्षात्मलाभा इत्यर्थः । विशिष्टवैशिष्ट्यबोधविचारफलं पद्येनोपदर्शयति-उत्तिष्ठन्त्विति । 'द्रव्यार्थाहिते तु' इत्यस्य स्थाने 'द्रव्यार्थावहिते तु' इति पाठो युक्तः, पर्यायमर्यादया विकल्पवीचिनिचया उत्तिष्ठन्तु, सागरे यथा क्रमश एकवीचिप्रादुर्भावोपशमानन्तरमपरवीचिप्रादुर्भावोपशमनं पुनस्तदनन्तरमपरवीचिप्रादुर्भावोपशमनमित्येवं वीचि नचयाः-तरङ्गपरम्पराः, तीरमर्यादयं त्तिष्ठन्ति- समुद्रः स्वतीरद्वयमनतिक्रम्यैवावतिष्ठते न स्वावस्थानमर्यादां कदाचिदप्युल्लङ्यति ततस्तदीयजलतरङ्गपरम्परा अपि मर्यादितदेशव्यापिन्यः एव भवन्ति, तथा स्याद्वादाभ्युपगतं वस्तु यत् सागरोपमया समलङ्कतं तद्विषयकं चैतन्यमपि सागरतयाऽध्यवसितं तस्मिंश्चित्ते, पर्यायमर्यादया पर्यायनयापेक्षया, यावन्तो धर्मविशेषस्वरूपा वस्तुगतास्तज्ज्ञानगताश्च धर्मास्ते सर्वे पर्याया एव, तद्विषयका विकल्पा एव वीचयस्तरङ्गास्तासां निचयाः समुदायाः, उत्तिष्ठन्तु तत्तत्पर्यायग्राहिनयापेक्षया प्रादुर्भवन्तु, यदा हि ग्राहकस्य विशेषरूपतामाकलयन्ति प्रेक्षाविददग्धास्तदोत्तिष्ठन्त्येव तत्तद्विशेषापेक्षया तत्तद्विकल्पाः, विशेषाः सर्वे सामान्य कस्वरूपा एव, न तु सामान्यातिरिक्ता विशेषाः सन्तीत्येवं सङ्घहै कनयकृतादरा भवन्ति यदा कृतिनस्तदा द्रव्यावहिते द्रव्य सामान्यमेव तत्त्वमित्येवं द्रव्यार्थिकनयापेक्षया द्रव्याथेकावगाहनप्रवणे, चेतसि ज्ञाने सति, तत्रैव तस्मिन्नेकस्वरूपे चेतस्येव, ते विकल्पवीचिनिचयाः, चिरं यावत्पर्यायनयविचारसम्मुखीना न भवन्ति कृतिनस्तावत्कालपर्यन्तम् , शाम्यन्तु तिरोभूता भवन्तु, नहि द्रव्यार्थ Page #145 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । ईहाडपायपरम्परापरिचयः सर्वोऽप्ययं युज्यते, वस्त्वंशेऽप्युपयोगमाकलयतामन्तर्मुहूर्तावधिम् । अन्येषां तु विकल्प शिल्पघटितो बोधस्तृतीयं क्षणध्वंसी ध्वस्त समस्तहेत्वमिलितः कस्मिन् विचारे क्षमः ॥२॥ नयविचारणायां पर्यायनयविषयतद्विकल्पानां मनागप्यस्त्याविर्भावसङ्कथेति भावः, अतः सागरोपमं प्रस्तुतं स्याद्वाद्यभ्युपगतं वस्तुतत्त्वमस्तु । कथमित्थमभ्युपगन्तुं शक्यमित्यपेक्षायामाह - सर्वोपपत्तिक्षममिति - सामान्य पेक्षया विशेषापेक्षया च ये एकस्मिन्नेव वस्तुनि बोधवैचित्र्यप्रकारा व्यवहृतिभेदास्तन्निबन्धन कार्यकारणभावभेदाः प्रामाया प्रमाण्यव्यवस्थादयश्च तेषां सर्वेषां स्याद्वाद्यभ्युपगतेऽनेकान्तात्मक वस्तुन्येवोपपत्तिरिति सर्वविचित्रप्रत्यय-व्यवहारादिसमर्थमित्यर्थः । तदीदृशं वस्तु न केवलं बाह्यमेवान्तरमेव तथा, किन्तु बाह्यमाभ्यन्तरं च स्फुटं तथानुभूयमानत्वात् तथाभ्युपगन्तव्यमित्याह- बाह्यं वा स्फुटमान्तरमिति - अत्र वाकारः समुच्चयार्थकः । ननु सामान्य- विशेषस्वभावा दीनामखण्ड-सखण्डविषयत्वादीनां विरोधाद् यत् सामान्यात्मकं तद्विशेषात्मकं न भवितुमर्हति यस्मिन् प्रत्यये नानाविषयताशालित्वं न तत्रैकविषयताशालित्वम्, अखण्डविषयतादति च न सखण्डविषयतावत्स्त्वमिति प्रस्तुतं वस्तु न सम्भवतीत्यत आह- समुचितस्याद्वाद मुद्राङ्कितमिति - प्रामाणिकानां मध्ये विशिष्टाधिपत्यशालित्वेन राजपदाभिषिक्तानामनेकान्तवादिनां तत्तन्नयोपस्थापिततत्तन्निमित्तापेक्षया सामान्य विशेषादिविरोधप्रतिरोधकत्वेन समुचितो यः स्याद्वादोनेकान्तवादस्तलक्षणा या मुद्रा तयाऽङ्कितमित्यर्थः । उपमाने समुद्रेऽपि गङ्गायमुना दिनदीसमागमप्रभवो यो जलसमष्टेः पर्यायः - परित आय आगमनम्, तस्य या मर्यादा तीरमनुल्लङ्घयैव व्यवस्थानं तया, तीरमुलद्धयापि जलागमनस्य भावे तेन सहैव जलकल्लोलमालायाः समतलस्वभावतयैवानवरतान्यान्य भूभागसमवगाहने ऊर्ध्वदेशाक्रान्त्यभावादुत्थानं न द निरुक्तपर्यायमर्यादयैव समुद्रे वीचिनिचया उत्तिष्ठन्तीति, तद्रष्टुः पुरुषस्य द्रव्यं सुवर्णरत्नादिकं तद्रूपो योऽर्यमाणत्वादर्थो धनं तदवद्दिते तदवधानपरे - एतस्मिन् रत्नाकरे बहूनि रत्नानि सन्ति तानि कल्लोलमालया यदि तीरमागच्छेयुस्तर्हि यथेष्टतदुपादानतः कृतार्थो भविष्यामीत्येवं तदेकाग्रे, चिरं चिरकालं यावत् चेतसि सति, तत्रैव यस्मात् समुद्रादुत्तिष्ठन्ति कल्लोलास्तस्मिन्नेव समुद्रे, ते शाम्यन्ति न तु समुद्रात् तीरं रत्नान्यानयन्तीति द्रष्टुश्चेतसि मनोरथैकप्रवाहशालिनि मनोरथमपरिपूर्यैव शाम्यन्ति - विषयभावं परित्यज्यन्ति, सोऽयं समुद्रः सर्वेषां नदी-नदानां योपपत्तिरेकत्र सर्वेषां प्राप्तावपि निराबाधमवस्थानं न तु कस्यचित् तत्रान्तः प्रवेशोऽन्यस्य च तत्र प्रवेशाभाव इत्येवं वैषम्यलक्षणानुपपत्तिस्तत्र क्षमः, सागरे 'समुद्र:' इति संज्ञाऽन्वर्था - मुद्रया सह वर्तत इति, उयते नौकादिना यत् तत्र तद् ब्राह्यम् रत्नादिकं चान्तर्व्यवस्थितत्वादान्तरम्, तदुभयमपि स्फुटं यथा स्यात् तथा समुचितस्याद्वादमुद्राङ्कितम् - समुचितो यः स्याद्वाद :अमुकप्रदेशेऽस्य बाह्यं वस्तु, अमुक प्रदेशेऽस्यान्तरं वस्त्वित्येवमस्तित्ववादः, तस्यातिविपुलशरीरत्वादतिगम्भीरदुरवगाहाधस्तलत्वाच्च यन्मुद्रणं प्रत्यक्षादिबुद्धावप्रतिभासनम्, तेनाङ्कितं चिह्नितं बाह्यमाभ्यन्तरं चास्य न प्रत्यक्षादिबुद्धयाऽवधारयितुं शक्यमित्येवं ज्ञेयमिति ॥ १ ॥ ११२ यत्र चेतस्यनेकान्तवस्तुविचारकर्मठे विकल्पवाचिनिचया उत्तिष्टन्त्यनेकरूपतायां पर्यायार्थिकनयाभिमतायाम्, द्रव्यार्थिकनयाभिमतायां त्वेकरूपतायां शाम्यन्ति, तस्य चेतस एकाऽनेकरूपस्य सतो दीर्घोपयोगरूपतया चिरकालावस्थाने सत्येवैतन्मननपरायणस्य स्याद्वादिनः प्रामाणिकपरिषदि सुग्राह्यवचनत्वम्, तदेतत् कथमित्यपेक्षायामाह - ईहेति- अवगृहीतस्य विशेषाकाङ्क्षणमीहा, यथा 'किञ्चिदिदम्' इति नैश्वयिका व ग्रहगृहीतस्य सामान्यवस्तुनः श्रोत्रग्राह्यत्वादिना प्रायः शब्देनानेन भवितव्यमिति ' शब्दोऽयम्' इति व्यावहारिकावग्रहगृहीतस्य वा शब्दत्वावान्तर- सामान्यवतो मधुरत्वसुश्रवत्वादिगुणयोगेन प्रायः शाङ्खादिनानेन भवितव्यमिति ज्ञानमीहा, ततः परः ' शब्द एवायम्, शाङ्ख एवायम्' इति निर्णयोऽवायः, ईहितविशेष निर्णयलक्षणः, तत्परम्परा - विशिष्टबुद्धि-विशिष्टवैशिष्ट्या वगाहिबुद्ध युपलक्षितं वैशिष्ट्या वगाहिबुद्धिविशिष्टवैशिष्टयबुद्धये कत्रद्वयमितिबुद्धिलक्षणावान्तरप्रभेदलक्षणा तत्परिचय:- परितः सर्वतोभावेन च य एकत्रोपयोगेऽपेक्षाभेदेन सम्मिलनम्, परिचीयते निश्चीयतेऽनेनेति वा परिचयः, तत्तत्सखण्डाखण्डेका नेकविषयतावैलक्षण्ययोगः । अयम् अनन्तरदर्शितस्वरूपः सर्वोऽपि, अपिना न तु तत्र किञ्चिद् युज्यते किञ्चिन्न युज्यत इत्यर्थस्य संशब्दनम् । युज्यते युक्त्या घटते । केषां मते युज्यते ! इत्यपेक्षयामाह - वस्त्वंशेऽपीति- अपिना वस्तुनि किमु वक्तव्यमित्यर्थस्यानेडनम् । अन्तर्मुहूर्तावधिमुपयोगमाकलयताम् अन्तर्मुहूर्त यावदेक उपयोगोऽवतिष्ठत इत्यन्तर्मुहूर्त स्थितिकमेकमुपयोगमभ्युपगच्छतां स्याद्वादिनां मत इत्यर्थः, वस्त्वंशेऽप्येकोपयोगस्यान्तर्मुहूर्त स्थितिकस्य भावे बहुविचारेहापायादिरूपस्य तस्यांशभेदेन विशिष्टबुद्धित्व-विशिष्टवैशिष्ट्यबुद्धित्वादिधर्मसमावेशस्य सम्भवेनैकानेक सखण्डाखण्ड विषयत्वादीनां तत्र सम्भवेन तदा Page #146 -------------------------------------------------------------------------- ________________ नयामततरहिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । तदेवमेकानेकरूपा नयप्रमाणप्रतिपत्तयः प्रामाणिक्य इति स्थितम् ॥ ७ ॥ अथेदं नयज्ञानं प्रमा-ऽप्रमयोः कुत्रान्तर्भवतीत्याशय तदुभयविलक्षणमेवेति निश्चिनोति अयं न संशयः कोटेरेक्यान्न च समुच्चयः । न विभ्रमो यथार्थत्वादपूर्णत्वाच्च न प्रमा ॥ ८॥ नयामृत०-अयमिति-अयं नयात्मको बोधः, संशयो न, कुतः ? कोटे:-प्रकारस्य ऐक्यात् , संशयस्य चैकत्र विरुद्धोभयप्रकारकज्ञानस्वरूपत्वात् , अत एव समुच्चयोऽपि न, चोऽप्यर्थः, तस्य एकत्राश्रयणेन पूर्व परिभावितो विचार उपपद्यतेतराम् । एकान्तवादिनां तु विचारो न कोऽपि युक्त्योपपद्यत इत्याह- अन्येषां स्विति- एकान्तवादिनां नैयायिकादीनां पुनरित्यर्थः । विकल्पशिल्पघटितः विशिष्टबुद्धिश्चतुर्धा-विशेष्ये विशेषणमिति बुदिः, विशिष्टस्य वैशिष्ट्यमिति बुद्धिः, विशिष्टे वैशिष्ट्यमिति बुद्धिः, एकत्र द्वयमिति बुद्धिरित्येवं विकल्परचनानिर्मितः। 'बोधस्तृतीयं क्षणध्वंसी' इत्यस्य स्थाने 'बोधस्तृतीयक्षणध्वंसी' इति पाठो युक्तः, तस्य 'बोधस्तृतीयक्षणवृत्ति. ध्वंसप्रतियोगी' इत्यर्थः, प्रथमक्षणे बुद्धिरुत्पद्यते, द्वितीयक्ष ज्ञानान्तरमुत्पद्यते इच्छादिकं वा, तेन तृतीयक्षणे प्रथमक्षणोत्पन्ना बुद्धिविनश्यतीति क्षणद्वयमात्रस्थायी बोध इति यावत् । यस्मात् कारणकदम्बादयं बोध उदितस्तेन कारण काळे सामानाधिकरण्यमनुभवतीति तत्तद्विषयेतदीयविषयसमष्टयपादानतो योऽयं विचारपरिपूर्तिभावो यो युक्तायुक्तविवेकाय प्रामाणिकैZग्यते स एव न स्यात्, दीर्घोपयोगे सत्येव हेतुहेतुमद्भावापन्नज्ञानस्तोमात्मकैकज्ञानत एव विचार्यस्वरूपविशेषनिष्टहनपटिष्ठविचारपरिसमाप्तेरित्याह- ध्वस्तसमस्तहेत्वमिलित इति-स्वोत्पत्तिसमयक्षणवृत्तिध्वंसप्रतियोगितत्तद्विषयपरिभावुकबुद्धिकदम्बात्मकस्वहेत्वधिकरणसमयावृत्तिरित्यर्थः । कस्मिन् विचार न कस्मिन् विचारे, क्षमः समर्थः, ततश्च स्वाभीष्टसमर्थनप्रवणविचारनिष्पादनासमर्थानामेकान्तवादिनां न किमपि विचार्य सिद्धिपद्धतिमुपगच्छतीति तेषां सर्वोऽपि तदर्थ प्रयासो निष्फल एवेति भावः ॥२॥ उपसंहरति- तदेवमिति ॥ ७॥ एतावता नयात्मकं ज्ञानं व्यवस्थाप्य तस्य प्रमा-ऽप्रमोभयविलक्षणस्वरूपत्वप्रतिपादनप्रत्यलमष्टमपद्यमवतारयतिअथेति । इदम् अनन्तरमेव प्रामाणिकतया निष्टङ्कितस्वरूपम् । तदुभयविलक्षणमेव प्रमाऽप्रमोभयविलक्षणमेव । अष्टमपद्यं विवृणोति-अयमितीति । अयम् इति मूलम् , तद्विवरणम्- 'नयात्मको बोधः' इति, इदमः प्रत्यक्षवाचि. त्वेनेदानी नयनिरूपणप्रवणस्य नयोपदेशकर्तुर्बुद्धौ विपरिवर्तमानत्वात् सन्निहितो नयात्मकबोध एव मानसप्रत्यक्षविषयत्वात् प्रत्यक्ष इति स इदम्पदव्यपदेश्यो भवतीति, यद्यप्येककोटिकज्ञानलक्षणस्य नयस्य संशयत्व-समुच्चयत्वे न प्राप्ते, अत एव तत्र तदन्तर्भावस्य सम्भावनाऽपि नास्तीत्याकलय्य प्रमा-Sप्रमयोरेकत्रैव तदन्तर्भावः सम्भाव्यतेति 'प्रमा-Sप्रमयोः कुत्रा. न्तर्भवति' इत्येवमाशङ्कयैव तदाशङ्कोन्मूलनप्रवणतदुभयविलक्षणत्वनिष्टङ्कनपरतयैव पद्यमवतारितम् , तथापि यन वस्तु निश्चयरूपं तत्संशयरूपमिति नियमावलम्बिनः कस्यचिद् वस्त्वंशावगाहिनि नये वस्तुनिश्चयत्वाभावेन संशयरूपत्वं सम्भावनापथमधिरोहेत्, एवं वस्तुगत्या प्रत्येकमेककोटिकत्वेऽपि विभिनधर्मद्वयग्राहिणो नयद्वयस्यैकनयस्वरूपत्वभ्रान्तिमतः कस्यचित् तस्य समुच्चयत्वमपि प्रतीतिकोटिमापतेदित्यतो भ्रान्तिप्राप्तयोस्तयोर्व्यपोहनं नायुक्तम् , अवतरणे तु विचारकाणां प्रतिपत्तॄणां न नये उत्सर्गतः संशयत्व-समुच्चयत्वयोः शङ्का समुल्लसतीत्यभिसन्धानेन प्रमा-प्रमान्यतरस्वरूपत्वस्यैव तत्र प्रेक्षावद्भिः सम्भावयितुं तदन्यतरान्तर्भावशङ्काप्रतिविधानपरत्वमेव दर्शितमिति बोध्यम् । प्रकारस्यैक्यात् नये प्रकारतया भासमानस्यैकत्वात् , अत्र 'नयात्मको बोधः संशयो न भवति प्रकारस्यैक्याद्' इत्येवमनुमानप्रयोगो न सम्भवति, संश.. यत्वाभावलक्षणसाध्यस्य नयरूपपक्षे सद्भावेऽपि 'प्रकारस्यैक्याद् इति हेतोस्तत्राभावात् , तस्य संशयविषयीभूतप्रकार एवं भावात् , किन्तु 'नयात्मको बोधः संशयो न भवति, एकप्रकारतामात्रनिरूपकत्वादुमयसम्प्रतिपत्रनिश्चयवद् इति प्रकारताव्यनिरूपके संशयेऽप्येकप्रकारतानिरूपकत्वं समस्तीत्यत एकप्रकारतानिरूपकत्वादित्यनुक्त्वा 'एकप्रकारतामात्रनिरूपकत्वाद' इत्युक्तम् , एकमात्रनिष्ठप्रकारतानिरूपकत्वमपि संशयं समस्त्येव, विधिकोटिनिष्टप्रकारताया विधावेव निषेधकोटिनिष्ठप्रका Page #147 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । विरुद्धोभयधर्मप्रकारकज्ञानस्वरूपत्वात्, संशये प्रकारताद्वयनिरूपिता एका विशेष्यता, समुच्चये तु विशेष्यताभेद इत्यन्ये, तदपि भेदा-ऽभेदवादे कथञ्चित् सङ्गच्छते, नैकान्तवादे, विषये तद्वति तत्प्रकारकत्वनिरपेक्ष विशेष्यताभेदेऽभ्युपगम्यमाने साकारवादप्रसङ्गात्, यथार्थत्वात् विभ्रमो न, अवगाहते हि रताया निषेध एव सत्त्वादिति तन्नोपादातुं शक्यमिति बोध्यम् । एकप्रकारतामात्रनिरूपकत्वस्य संशयत्वासामानाधिकरण्येन संशयत्वाभावव्याप्यत्वं भावयितुमाह-संशयस्य चेति । एकत्रेति- एकधर्मावच्छिन्नविशेषतानिरूपितविरुद्धधर्मनिष्ठप्रकारताद्वयनिरूपकज्ञानस्वरूत्वादित्यर्थः । अत एव नयस्यैकप्रकारतामात्रनिरूपकत्वादेव, प्रकारता चात्र मुख्या ग्राह्या, मुख्यप्रकारतात्वं चावच्छेदकतानात्मकप्रकारतात्वम् , तेन नयात्मकज्ञाने विशेष्यतावच्छेदकस्य निरवच्छिन्नविशेष्यतानिरूपितप्रकारतावत्वेऽपि न क्षतिः, विशेष्यतावच्छेदकनिष्टप्रकारताया अवच्छेदकतात्मकत्मकत्वात् , जात्यखण्डोपाध्यतिरिक्तस्य यत्र नये प्रकारत्वं तत्र प्रकारताया विशेष्यतात्मकत्वस्य सम्भवेन विशेष्यतानात्मकप्रकारतात्वं तत्र न सम्भवतीत्यतो विशेष्यतानात्मकत्वं परित्यज्यावच्छेदकतानात्मकत्वमुक्तम् । चोऽप्यर्थः मूले न च इत्यत्र चकारोऽप्यर्थकः, तस्य ‘समुच्चयः' इत्यनेन सम्बन्धात् समुच्चयोऽपि नेति लभ्यते। एकप्रकारतामात्रनिरूपकत्वस्य नयगतस्य समुच्चयत्वासामानाधिकरण्येन समुच्चयत्वाभावव्याप्यत्वं भावयितुमाह-तस्येति- समुच्चयस्येत्यर्थः । निरूपकीभूतप्रकारताभेदेन संशये समुच्चये च विशेष्यस्यैकत्वेऽपि तनिष्ठाया विशेष्यताया भेदः, इयाँस्तु विशेषः संशये प्रकारगततया विरोधस्य भानं समुच्चये तु प्रकारगततयाऽविरोधस्य भानं विरोधस्याभानं वेत्यभिप्रायण संशयस्वरूपोपदर्शने प्रकारविशेषणतया विरोधस्य समुच्चयस्वरूपो पदर्शने च प्रकारविशेषणतयाऽविरोधस्योपादानमिति । संशये विरोधस्य समुच्चयेऽविरोधस्य च न भानं किन्तु संशये प्रकारताद्वयनिरूपितका विशेष्यता समुच्चये तु प्रकारताद्वयनिरूपिता विशेष्यताद्वयी, तत एव च संशयात् समुच्चयस्य भेद इत्यन्येषां मतमुपदर्शयति-संशय इति । तदपि संशये विशेष्यतैक्यं समुच्चये विशेष्यताभेद इत्यन्येषां मननमपि । भेदा-ऽभेदवादे एकस्यापि वस्तुनः किञ्चिदपेक्षया भेदः किश्चिदपेक्षयाऽभेद इत्यभ्युपगन्तृस्याद्वाद्यभिमतभेदाभेदवादे । कथञ्चिदिति- एकविशेष्यलक्षणाधाराभेदात् तदपेक्षया समुच्चयज्ञानीयविशेष्यताया अभेदेऽपि पर्वतो वह्निमान् वह्नयभाववॉश्चेति समुच्चयस्य वह्निमति वह्निप्रकारत्वेन पर्वतो वह्निमानितिज्ञानसमानविषयताशालिनो वह्नित्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताकत्वमित्यत एका वह्नित्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यता, वह्नयभाववति वह्नयभावप्रकारकत्वेन पर्वतो वहयभाववानिति ज्ञानसमानविषयताशालिनो वह्नयभावत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेध्यताकत्वमित्यतस्तदन्या वह्नयभावत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यतेति समुच्चयज्ञानस्यांशभेदतो विषयभेद इत्यतोऽपेक्षाभेदेन तत्र विशेष्यताभेदो युज्यतेऽशभेदनिबन्धनविषयभेदप्रयुक्तविशेष्यताख्यविषयताभेदस्य युक्तत्वात् , संशये तु कोटिद्वयेऽपि दोलायमानरूपत्वेन ज्ञानान्तरस्य चैकैकप्रकारकत्येनादोलायमानरूपस्यैव सम्भवेन न तेन सह समानविषयत्वम् , दोलायमानरूपस्यादोलायमानरूपेण सह समानविषयत्वासम्भवात् , तयोः समानविषयत्वे वा दोलायमानस्वरूपमप्यदोलाय. मानस्वरूपं स्याददोलायमानस्वरूपमपि वा दोलायमानस्वरूपं स्यादतो विलक्षणमेव संशयस्वरूपम् , यत्र सदपि तद्वति तत्प्रकारत्वमनिर्णीतस्वरूपमेवेति सत्यपि प्रकारताभेदे तद्भेदप्रयुक्तभेदमप्रधानीकृत्याधारीभूतविशेष्यखरूपाभेदप्रयुक्ताभेदमेव प्रधानीकृत्य तत्स्वरूपसंवेदनं भवति शमुषीविशेषशालिनामिति सूक्ष्मदृष्ट्यरेक्षया विशेष्यताऽभेदः सुदृढनिरूढ इत्येवं भेदाऽभेदवादे स्याद्वादे अन्येषां मन्नमपि साधु सङ्गच्छत इत्याशयः। विषयभेदप्रयुक्तभेदमनादृत्यैकान्ततः समुच्चये विशेष्यताभेदोपगमस्स्वेकान्तवादिनो न युक्त इत्याह-नैकान्तवाद इति- एकान्तवादेऽन्येषामुक्तदिशा मननं न सङ्गच्छत इत्यर्थः । विषय इति-विषयावच्छेदेन यत् तद्वति तत्प्रकारकत्वम्, अत्र तत्पदेन समुच्चये प्रकारतयाऽभिमतयोरुभयोरपि प्रत्येक ग्रहणम् , तन्निरपेक्षो यो विशेष्यताभेदो ज्ञानस्यैव विलक्षणाकारानुरोधेन विशेष्यताभेदो विशेष्यतावैलक्षण्यं संशये विशेष्यताया अभेदः समुच्चये तस्या भेदस्तस्मिन्नभ्युपगम्यमाने सति साकारवादप्रसङ्गात्, विषयवैलक्षण्यनिबन्धनं न संशये विशे. ध्यताऽभेदः समुच्चये विशेष्यताभेदः किन्तु ज्ञानाकारभेदप्रयुक्तः संशयस्य दोलायमानकारता, समुच्चये तद्विलक्षणाकारता, तनिबन्धस्य विशेष्यताऽभेदस्य तद्भेदस्य चोत्पत्तिस्तदा स्याद् यदि साकार ज्ञानं भवेदित्येवं साकारवादप्रसङ्गात् । तद्वति तत्प्रकारकत्वं ज्ञानस्य यथार्थत्वम् , तथा चास्ति घट इति द्रव्यार्थिकनयोऽस्तित्ववति घटेऽस्तित्वमवगाहते, नास्ति घट इति पर्यायास्तिकनयो नास्तित्ववति घटे नास्तित्वमवगाहते. इति तद्वति तत्प्रकारकत्वलक्षणयथार्थत्वान्नयो द्रव्यार्थिकादिन Page #148 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । द्रव्यार्थिकादिरस्तित्वादिमति कथञ्चिदस्तित्वादिकम् , अपूर्णत्वात् सप्तभङ्गपरिकरितवस्त्ववगाहितात्पर्याभाववत्त्वाच प्रमा न,-अनेनालौकिकप्रामाण्याभाव आवेदितः, लौकिकं तु प्रामाण्यं तद्वति तत्प्रकारक. स्वरूपं न बाधितमिति न व्यवहारविरोधः, विचारोपयिकं चा(च)प्रामाण्यं प्रस्तुतम् , न प्रवृत्तिमात्रोपयिकमिति नयज्ञानस्य न पूर्णप्रमात्वमत उक्तचतुष्टयविलक्षणमेवेदं नयज्ञानमनुभवसिद्धमभ्युपगन्तव्यम् , न चेदं स्वमनीषिकाविजृम्भितम, यत उक्तं तत्त्वार्थभाष्ये "तथाप्येते तन्त्रान्तरीयाः स्वतन्त्रा बा चोदकपक्षप्राहिणो मतिभेदेन विप्रधाविता" [अत्राह-किमेते तन्त्रान्तरीया वादिनः ? आहोस्वित् स्वतन्त्रा एव चोदकपक्षग्राहिणो मतिभेदेन प्रधाविता इति ?, अत्रोच्यते-नैते तन्त्रान्तरीयाः, नापि स्वतन्त्रा मतिभेदेन प्रधाविताः, ज्ञेयस्य त्वर्थस्याध्यवसायान्तराण्येतानि । तत्त्वार्थ० अध्याय० १, सूत्र विभ्रम इत्याह-अवगाहते हीति । 'द्रव्यार्थिकादिः' इत्यत्रादिपदात् पर्यायार्थिकस्योपग्रहः, सामान्यतो द्रव्यार्थिकपर्यायार्थिकयोर्ग्रहणे तदवान्तरभेदानामपि सङ्ग्रहादीनामपि तत्त्वेन ग्रहणमायातमेवेति बोध्यम् । 'अस्तित्वादि' इत्यादिपदान्नास्तिस्वादेरुपग्रहः । एकान्तास्तित्वादिकमवगाहमानस्य दुर्नयत्वेन विभ्रमत्वमिष्टमेव तस्य यथार्थत्वाभावात् , नोकान्तास्तित्वादिमत् किमपि समस्तीति तस्य न तद्वति तत्प्रकारकत्वाभावात् , किन्तु कथञ्चिदस्तितादिमति कथञ्चिदस्तित्वादिकमवगाहमानस्य सुनयस्य यथार्थत्वाद् विभ्रमत्वाभाव इत्यावेदनायोक्तम्-कश्चिदस्तित्वादिकमिति । 'अपूर्णत्वाद, इत्यस्य स्थाने 'अपूर्णत्वाच्च' इति पाठो युज्यते तत एव तत्तद्विवरणं चकारान्तामति । 'सप्तभड़परिकरितवस्त्ववगाहितात्पर्याभाववत्त्वाञ्च' इत्यस्य स्थाने 'सप्तभङ्गपरिकरितवस्त्ववगाहितापर्यायभाववत्त्वाच' इति पाठो युक्तः, सप्तभङ्ग्यात्मकमहावाक्यजन्यबोधस्य निराकाङ्क्षस्य सप्तभङ्गप्रतिपाद्यकथञ्चिदस्तित्वादिसप्तविधधर्मात्मकवस्त्ववगाहितापर्याप्तिमत्त्वेन प्रमाणत्वं तदभाववत्त्वाच्चैकधर्मात्मकवस्त्ववगाहिनो नयस्य न प्रमाणत्वमित्यर्थः । नन्वनन्तधर्मात्मकवस्तुनी न सप्तविधधर्मात्मकतयैव पूर्णतेति तत्त्वेनावगाहमानस्य बोधस्यापि न पूर्णत्वमिति कथं प्रमाणत्वनिमित्तं निरुतपर्याप्तिमत्त्वम् , तथाऽपि एककधर्माश्रयणेन प्रत्येकं सप्तधर्मात्मकत्वमेव भवति वस्तुन इति तथावबोधे सति न तद्धर्माश्रयणेन भवत्याकाङ्केति निराकाङ्क्षत्वनिमित्तकपूर्णत्वनिमित्तकं निरुक्तपर्याप्तिमतः प्रमाणत्वम् , यच्च 'स्याद्वाद-केवलज्ञाने सकलार्थावभासने' इति वचनात् सप्तभङ्गात्मकस्याद्वादप्रभवज्ञानस्य सकलार्थावभासकत्वेन प्रामाण्यमभिमतं तत् सकलादेशमहिम्नेव सम्भवति नान्यथा, सकलादेशमहिना चैकभङ्गेनापि स्यात्पदलान्छितेन स्याद्वादस्वरूपतामाभेजाननानन्तधर्मात्मक. वस्तुग्रहणलक्षणप्रमाणोत्पत्तिः सम्भवत्येव, परं सकलादेशाश्रयणं नात्राभिमतं तथा सति 'सप्तभङ्गपरिकरित' इत्युक्तिरसमजसा स्यादिति बोध्यम्। अनेन न प्रमेति वचनेन । न बाधितं नये न बाधितं किन्त्वबाधितमेव । इति एतस्मात् कारणात् । न व्यवहारविरोध इति- एकैकधर्मावगाहिज्ञानादिष्टसाधनताज्ञानलक्षणाद् यः प्रवृत्तिलक्षणो व्यवहारो यश्च तादृशज्ञानाद् द्विष्टसाधनताज्ञानलक्षणानिवृत्तिलक्षणो व्यवहारस्तस्यानुपपत्तिलक्षणविरोधो नेत्यर्थः । ननु नयस्य लौकिकप्रामाण्यस्याप्यभावेऽलौकिकप्रामाण्यपरिकलितादेव ज्ञानात् प्रवृत्ति-निवृत्तिलक्षणव्यवहारो भविष्यतीत्येतावताऽपि न व्यवहारविरोध इत्यत आह-विचारोपयिकं चेति । प्रस्तुतं नयज्ञाने निषेध्यत्वेन प्रक्रान्तमलौकिकम् । न प्रवृत्तिमात्रोपयिकम् न लौकिकप्रवृत्ति-निवृत्त्यादिलक्षणव्यवहारोपयोगि, तथा च प्रवृत्तिमात्रोपयिकं प्रामाण्यं न प्रस्तुतं येन तस्य नये सत्त्वेन तनिषेधो नोपपद्येत किन्तु विचारोपयिकमेव प्रामाण्यं प्रस्तुतम् , तच्च सप्तभङ्गपरिकलितवस्त्ववगाहिपर्याप्तिमत्त्वलक्षणपूर्णप्रमात्वमेव, तन्न नयज्ञानस्येति निगमयति- इति नयज्ञानस्य न पूर्णप्रमात्वमिति । अतः उक्तदिशा नये संशयत्वादिनिषेधात् । उकचतुष्टयविलक्षणम् संशय-समुच्चय-भ्रम-प्रमाविलक्षणम् । ननु स्वकपोलकल्पितं नयस्य संशयादिवैलक्षण्यं न परीक्षकमान्यमित्यत आह-न चेदमिति । तत्त्वार्थभाष्यग्रन्थमुल्लिखति-तथापीति । एते अनन्तरोपदर्शितस्वरूपा नयाः। तन्त्रान्तरीयाः एकान्ताभिनिवेशग्रहपहिलनैयायिकाद्यभिमतबोधस्वरूपाः । स्वतन्त्रा वेति-जैनराद्धान्तगता एव, किन्तु चोदकस्य प्रश्नकर्तुर्योऽभिमतः पक्षः तद्राहिणः सन्तो मतिमेदेन 'सामान्यमेव तत्त्वं विशेषाणां सत्तामहासामान्यव्यतिरिक्तानामभावात् , विशेषा एवार्थक्रियाकारिणस्तत्त्वं दोहनवाहनाद्यर्थक्रियाऽसमर्थस्य सामान्यस्य तत्त्व. रूपत्वासम्भवाद्' इत्येवं मतिभेदेनाभिप्रायभेदेन विप्रधाविताः विरुद्धवस्तुनिरूपणमार्ग समाश्रिताः, तथा चैते विप्रति Page #149 -------------------------------------------------------------------------- ________________ ११६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। ३५ भाष्यम् ] उभयथापि मिथ्यात्वमिति चेत् ? न-प्रमाणापेक्षात्वेनैतेषामुभयवैलक्षण्यादिति, अत एव संयोगेऽपि नैतेषां विप्रतिपत्तित्वम् , सत्व-जीवाजीवात्मकत्व-द्रव्यगुणपर्यायात्मकत्व-चतुर्दर्शनविषयत्वपश्वास्तिकायावरुद्धत्व-षड्व्य क्रोडीकृतत्वधम्मैरेकत्व-द्वित्व-त्रित्व-चतुष्टव-पश्चत्व-षड्त्वाध्यवसायानामिव पर्यायविशुद्धिवशात् पृथगर्यप्राहिणां मतिज्ञानादीनामिवैकत्रार्थे प्रतिनियतयिषयविभागशालिनां प्रत्यक्षादी. नामिव वा नैगमाद्यध्यवसायानामविरुद्धनानाधर्मग्राहित्वेनाविप्रतिपत्तिरूपत्वादिति सम्प्रदायः, अत्र त्रिमिनिदर्शनेविरुद्धधर्मग्राहित्वांऽशप्राहित्व-परस्परफलवैलक्षण्यानां विप्रतिपत्तित्वसाधकहेतूनामसिद्धिव्यभिचारप्रदर्शनादिष्टसिद्धिरित्यस्मदीयो विवेकः ॥ ८ ॥ पत्तय इत्यर्थः । उभयथाऽपि नयानां तन्त्रान्तरीयत्वे स्वतन्त्रत्वे चेत्यर्थः। मिथ्यात्वं भ्रमत्वम्, तथा च मिथ्याज्ञानं न वस्तुसिद्धयङ्गमिति न नयानां तत्त्वाधिगमाङ्गत्वमिति प्रश्नाभिसन्धिः, समाधत्ते-नेति । 'प्रमाणापेक्षात्वेन' इति स्थाने 'प्रमाणापेक्ष्यत्वेन ' इति पाठः शोभनः । एतेषां नैगमादिनयानाम् । उभयेति- तन्त्रान्तरीय-स्वतन्त्रोभयेत्यर्थः, प्रमाणं सत्वाऽसत्त्वाद्यनन्तधर्मात्मकतया वस्तुतत्त्वं गृह्णाति, न च परस्परविरुद्धानां सत्त्वा-ऽसत्त्वादीनामेकस्मिन् समावेश इति तेषामपेक्षाभेदेनकत्र समावेशतोऽविरोध इत्यधिगतिप्रयोजनका निमित्तभेदोपदर्शका नया विवेकेन स्वविषयधर्माणामेकस्मिन् समावेशसौष्ठवाय प्रमाणेनापेक्ष्यन्ते, तन्त्रान्तरीयाश्चैकान्तेनैव सत्त्वा-ऽसत्त्वादिधर्मग्राहका इति नाविरोधोपपादनप्रत्यलाः, प्रत्युत विरोधोपस्थापका एवेति न प्रमाणापेक्ष्याः, एवं चोदकपक्षप्राहिणः स्वतन्त्रा अपीति नयानां प्रमाणापेक्ष्यत्वं तन्त्रान्तरीयाणां स्वतन्त्राणां च तदभाव इति विरुद्धधर्मयोगान्न नयानां तन्त्रान्तरीयत्वं स्वतन्त्रत्वं वा किन्तु तदुभयविलक्षणत्वमेवेत्यर्थः। अत एव प्रमाणापेक्ष्यत्वेन नयानामुभयवैलक्षण्यादेव । संयोगेऽपीति-अपिना केवलस्यैकैकस्यैकैकधर्मग्राहकत्वेनैव विरुद्धधर्मद्वयग्राहकत्वाभावादेव न विप्रतिपत्तित्वमित्यस्योपग्रहः, नययोः संयोगे निष्पन्ननयद्वयस्वरूपस्य धर्मद्वयग्राहकत्वेऽपि विषयीभूतयोधर्मयोर्विरोधाभावादेव विरुद्धधर्मद्वयादिग्राहकत्वलक्षणं विप्रतिपत्तित्वमेतेषां नयानां नेत्यर्थः । नैगमादिनयानामविरुद्धनानाधर्मग्राहित्वेनाविप्रतिपत्तिरूपत्वं दृष्टान्तत्रयोपढौकनेन द्रढयति-सत्वेति- 'सर्वमेकं सदविशेषाद् ' इति सत्त्वधर्मेण सर्वस्यैकत्वाध्यवसायः, 'सर्व द्विस्वभावं जीवाजीवात्मकत्वाद्' इति जीवा-ऽजीवात्मकत्वधर्मेण सर्वस्य द्वित्वाध्यवसायः, 'सर्व त्रितयस्वरूपं द्रव्यगुणपर्यायात्मकत्वाद्' इति द्रव्य गुण-पर्यायात्मकत्वधर्मेण सर्वस्य त्रित्वाध्यवसायः, ' सर्वं चतुष्टयस्वरूपं चतुर्दर्शनविषयत्वाद् ' इति चतुर्दर्शनविषयत्वधर्मेण सर्वस्य चतुष्ट्वाध्यवसायः, 'सर्व पञ्चात्मकं पञ्चास्तिकायावरुद्धत्वाद्' इति पञ्चास्तिकायावरुद्धत्वधर्मेण सर्वस्य पञ्चात्मकत्वाध्यवसायः, 'सर्व पदस्वरूपं षड्व्व्यक्रोडीकृतत्वाद्' इति षड्द्रव्यक्रोडीकृतत्वधर्मेण सर्वस्य पदत्वाध्यवसाय इत्येवमुक्तानां षण्णामध्यवसायानामिवेत्यर्थः, । पर्यायेति- पर्यायविशुद्धिवशादेकत्रैवार्थे न्यूनाधिकपर्यायग्राहित्वेन पृथगर्थप्राहिणां मतिज्ञानध्रुतज्ञानादीनामिवेत्यर्थः, एकत्रार्थ इति- एकस्मिन् घटादिरूपेऽर्थे प्रतिनियतरूपरसादिविषयविभागशालिनां चाक्षुषरासनादिप्रत्यक्षादीनामिवेत्यर्थः । एकेनैव निदर्शनेन नैगमादीनामविप्रतिपत्तिरूपत्वस्य निर्णीतिसम्भवेन निदर्शनत्रयोपादानं किमर्थमित्यपेक्षायामाह- अति - नैगमादयो नया विप्रतिपत्तयो विरुद्धधर्मग्राहित्वाद्' इत्यनुमानहेतोविरुद्धधर्मग्राहित्वस्यासिद्धयुपदर्शनाय प्रथमनिदर्शनम् , यथैकत्व-द्वित्वाद्यव्यवसायविषया एकत्व-द्वित्वादयोऽपेक्षाभेदनैकत्र वर्तमाना न विरुद्धा इति तद्भाहिणामेकत्व-द्वित्वाद्यध्यवसायानामविरुद्धनानाधर्मग्राहित्वमेव न विरुद्ध नानाधर्मग्राहित्वं तथा नैगमाद्यध्यवसायविषयाः सामान्यविशेषधर्मा अप्यपेक्षाभेदेनैकत्र वर्तमाना न विरुद्धा इति तदाहिणामपि नैगमाद्यध्यवसायानामविरुद्धनानाधर्मग्राहित्वमेव न विरुद्धनानाधर्मग्रााहित्वमिति तस्यासिद्धिः, 'नैगमादयो नया विप्रतिपत्तयोऽशनाहित्वाद्' इत्यनुमानहेतोरंशसाहित्वस्य व्यभिचारोपदर्शनार्थ द्वितीयनिदर्शनम् , विप्रतिपत्तित्वस्य व्याप्यं नांशप्राहित्वं मतिज्ञानादीनामंशग्राहित्वेऽपि विप्रतिपत्तित्वाभावादित्यंशग्राहित्वहेतुळभिचरितः, ' नैगमादयो नया विप्रतिपतयः परस्परफलवलक्षण्याद्' इत्यनुमानहेतोरपि व्यभिचारप्रदर्शनार्थ तृतीयनिदर्शनम्, विप्रतिपत्तित्वाभावेऽपि प्रत्यक्षादिषु परस्परफलवलक्षण्यस्य सद्भावादिति व्यभिचार्येव परस्परफलवैलण्यलक्षणो हेतुरतो नैगमादीनां न विप्रतिपत्तित्वमितीष्टं निर्वहतीति निदर्शनत्रयोपादानं युक्तमेव, अयं च विवेको नान्येन परिभावितः किन्तु मया यशोविजयोपाध्यायेनैवेत्यावेदनायाह- इत्यस्मदीयो विवेक इति ॥८॥ Page #150 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। ११७ उक्तमेवार्थ लौकिकदृष्टान्तेन समर्थयति न समुद्रोऽसमुद्रो वा समुद्रांशो यथोच्यते । नाप्रमाणं प्रमाणं वा प्रमाणांशस्तथा नयः ॥९॥ नयामृत-'न समुद्रः-स्पष्टः। पर्याप्ति-तदन्यसम्बन्धाभ्यां समुद्रत्व-तदभाववत्तया प्रमाणाऽप्रमाणोभयवैलक्षण्यम् , अन्यत्र तु तज्जातीयतयेति फलितार्थः ॥ ९॥ स्वार्थनिश्चायकत्वरूपं नयप्रामाण्यसंशयेन विषयसंशयात् निश्चयस्यानिश्चयपरिणत्या न कथश्चिदित्यत्रापि नयानामनेकान्त एवेति शिक्षयति स्वार्थे सत्या परैना असत्या निखिला नयाः। विदुषां तत्र नैकान्त इति दृष्टं हि सम्मतौ ॥ १०॥ नयामृत०-स्वार्थ इति-स्वार्थे स्वविषये, सत्याः निश्चायकाः, परैः नयैः, नूना अप्रामाण्याः शङ्काविषयीकृताः, असत्याः अनिश्चायकाः, निखिला नयाः नैगमादयः, विदुषां सिद्धान्तव्युत्पन्नानाम् , तत्र नयप्रामाण्या ऽप्रामाण्ययोः, नैकान्तः, वक्तुं युक्त इति शेषः, इति दृष्टं परीक्षिनम्, हि सम्मती, अभियुक्तवचनसंवादप्रदर्शनमेतत् , तद्वचनं च- नवमं पद्यमवतारयति- उत्कमेवेति- नयस्य प्रमाणा-ऽप्रमाणैवलक्षण्यमेवय॑थः । “न समुद्र०" इत्यादि पद्यं स्पष्टार्थत्वान्न विवरणार्हमतो नतझ्याख्या वितन्यत इत्यावेदनायाह-शष्ट इति-श्लोकोऽयं स्पष्टार्थ इत्यर्थः । यथाश्रुतार्थस्य स्पष्टत्वेऽपि फलितार्थस्य स्थूलमत्यगोचरत्वात् तमुपदर्शयति- पर्याप्तीति- अत्र 'पर्याप्ति-तदन्यसम्बन्धाभ्यां समुद्रत्व तदभाववत्तया' इत्यस्य स्थाने 'समुद्रांशे वैलक्षण्यं पर्याप्ति-तदन्यसम्बन्धाभ्यां समुद्रत्व तदभाववद्भधाम् ' इति पाठो युक्तः, तथा च समुद्रांशे समुद्रत्वं पर्याप्तिसम्बन्धेन न वर्तते, समुद्रांशे पर्याप्तिसम्बन्धेन समुद्रत्वस्य सत्त्वे तस्मिन्नेकस्मिन्नेवांशे समुद्रत्वस्य परिसमाप्तत्वात् सम्पूर्णः समुद्रः समुद्रो न भवेत् , तथा समुद्रांशे समुद्रत्वाभावोऽपि स्वरूपसम्बन्धेन न वर्तते, समुद्रांशे स्वरूपसम्बन्धेन समुद्रत्वाभावस्य सत्त्वे एकस्मिन्नेवान्यास्मन्नपि समुद्रांशे विनिगमनाविरहेण समुद्रत्वाभावस्य सत्त्वमित्यशेषाणामेव समुद्रांशानां समुद्रत्वाभाववत्तयांऽशेषांशभिन्नस्यांशिनः समुद्रस्याभावेन न कोऽपि समुद्रः स्यादिति पर्याप्तिसम्बन्धेन यत् समुद्रत्ववत् , यच्च-तदन्यसम्बन्धेन पर्याप्तिभिन्नसम्बन्धेन स्वरूपसम्बन्धेनेति यावत् , तदभाववत् समुद्रत्वाभाववत् , ताभ्यां समुद्रांशे वैलक्षण्यमित्यर्थः । प्रमाणेति। तु पुनः । अन्यत्र नयरूपे प्रमाणांशे, प्रमाणा-ऽप्रमाणोभयवैलक्षण्यं प्रमाणाप्रमाणाभ्यां वैलक्षण्यम् । तज्जातीयतया प्रमाणजातीयतया अप्रमाणजातीयतया च, अर्थान्नयः सप्तभङ्गपरिकरितवस्त्ववगाहितावद् यत् प्रमाणं तब तीयत्वाभावान्न प्रमाणमिति प्रमाणविधर्मा, तदभाववति तत्प्रकारकत्ववद् यदप्रमाणं तजातीयत्वाभावान्नाप्रमाणमित्यप्रमाणविधर्मेत्यर्थः ॥९॥ . दशमं पद्यमवतारयति-स्वार्थनिश्वायकत्वरूपमिति-अत्र 'स्वार्थनिश्चायकत्वरूपं नयप्रामाण्यसंशयने' इत्यस्य स्थाने 'स्वार्थनिश्चायकत्वरूपं प्रामाण्यमपि परनयप्रयुक्तप्रामाण्यसंशयेन' इति पाठो युक्तः, अयमर्थः- स्वार्थनिश्चायकत्वरूपं यन्नयगतं प्रामाण्यं तदपि- स्वप्रतिपक्षभूतनय प्रयुक्तो यः स्वस्मिन् प्रामाण्यसंशयस्तेन, स्वविषये संशयानिश्चयात्मकस्यापि स्वस्यानिश्चयपरिणत्या अनिश्चयात्मना परिणामेन न कथञ्चित् कथञ्चिन्न भवत्यपि। इति एतस्मात् कारणात् । अत्रापि स्वगतप्रामाण्येऽपि । नयानामनेकान्त एव नयाः कथञ्चित् प्रमाणं कथञ्चिदप्रमाणमित्येवमनेकान्त एव । इति शिक्षयति एवं निरूपयति । 'स्वार्थ सत्या परैना' इत्यस्य स्थाने 'स्वार्थे सत्याः परैर्नुन्ना' इति पाठो युक्तः, टीकायामपि नूनेति स्थाने नुन्नेति पाठो बोध्यः। 'परैः' इत्यस्य विवरणम्- 'नयैः' इति, तस्य परनयैः स्वविपक्षनयैरित्यर्थः, 'नूना अप्रामाण्याः शङ्काविषयीकृताः' इत्यस्य स्थाने 'नुन्ना अप्रामाण्याशङ्काविषयीकृताः' इति पाठः Page #151 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । "णिययवयणिज्जसच्चा, सव्वणया परविआलणे मोहा । ते पुण ण दिट्ठसमयो विभयइ सच्चे य अलीए वा ॥ १०॥" [सम्मतौ का०, गाथा-२८ ]त्ति, ननु नयग्रन्थे सम्मत्यादी बौद्धादिदर्शनपरिग्रहेण नैयायिकादिदर्शनखण्डनं श्रूयते, तत्र दुर्नय. परिग्रहे कथं न मिथ्यात्वैकान्त इत्याशङ्कयाह बौद्धादिदृष्टयोऽप्यत्र वस्तुस्पर्शेन नाप्रमाः।। उद्देश्यसाधने रत्नप्रभायां रत्नबुद्धिवत् ॥ ११ ॥ नयामृत-बौद्धादीति-अत्र नयग्रन्थे, उद्देश्यं यदभिनिविष्टेतरनयखण्डनं तत्साधने तत्साधननिमित्तम् बौद्धादिदृष्टयोऽपि बौद्धादिनयपरिग्रहा अपि, वस्तुस्पर्शन शुद्धपर्यादिवस्तुप्राप्त्या, नाप्रमाः फलतो न मिथ्यारूपा इत्यर्थः, किंवत् ? रत्नप्रभायां रत्नबुद्धिवत यथाहि तत्रारत्ने रत्नावगाहितया स्वरूपतो न प्रामाण्यम् , अदूरविप्रकर्षात् तु वस्तुप्रापकतया फलतः प्रामाण्यं तथा दुर्नयान्तरच्छेदाय दुर्नयान्तरपरिग्रहेऽपीति न कश्चिद् दोषः ॥ ११ ॥ सम्यग् । तद्वचनं च अभियुक्तवचनं च । णियय० इति- " निजकवचनीयसत्याः सर्वनयाः परविचालने मुग्धाः । तान् पुनर्न दृष्टसमयो विभजते सत्या वा अलीका वा" इति संस्कृतम् ॥ १०॥ एकादशपद्यमवतारयति-नन्विति । नयग्रन्थे नयप्रतिपादकान्थे। दुर्नयपरिग्रहे एकान्तक्षणिकत्वादिविषयकाध्यवसायलक्षणदुर्नयबौद्धादिदर्शनपरिग्रहे सति । विवृणोति-बौद्धादीति । अभिनिविष्टेति- अभिनिवेश एकान्तस्थैर्यादिविषयकाध्यवसायकदाग्रहस्तच्छाली य इतरनय एकान्तनैयायिकादिदर्शनलक्षणनयः, तत्खण्डनं तस्मिन्नप्रामाण्यज्ञापनं यदुद्देश्यमभीष्टम् , 'तत्साधने ' इत्यत्र सप्तमी निमित्तार्थिकेत्यभिप्रायेण तत्साधने' इत्यस्य विवरणम्- 'तत्साधननिमित्तम् ' इति, नैयायिकादिदर्शनखण्डनसाधननिमित्तमित्यर्थः । 'शुद्धपर्यायादि' इत्यादि पदाच्छुद्धद्रव्यस्य परिग्रहः, बौद्धादिकदर्शनखण्डनसाधननिमित्तं नैयायिकादिदर्शनपरिग्रहस्याप्यादृतत्वेन शुद्धद्रव्यप्राप्तेरपि सम्भवात् । ननु शुद्धपर्यायो द्रव्यानात्मकपर्यायः, शुद्धद्रव्यं च पर्यायानात्मकद्रव्यम्, तदुभयमध्यसदेव ॥ "द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । व कदा केन किंरूपा दृष्टा मानेन केनचित्" ॥१॥ इत्यादिवचनात् , तथा च शुद्धपर्यायादिवस्तुप्रापका अपि बौद्धादिदृष्ट्या अप्रमा एवेति चेत् ?, न- ऋजुसूत्रादिपर्यायनयेष्वन्त्यपर्यायनय एवम्भूतनयस्तद्विषयो यः पर्यायः सोऽन्त्यपर्यायत्वात् शुद्धपर्यायः, सङ्ग्रहादिद्रव्याथिकेषु सङ्ग्रहनयः शुद्धद्रव्यार्थिकस्तद्विषयस्य सत्तारूपमहासामान्यस्य कस्याप्यपेक्षया विशेषत्वाभावात् तदुभयात्मकं चैकं वस्तु, तदात्मतया द्रव्यस्य पर्यायस्वरूपत्वं पर्यायस्य च द्रव्यस्वरूपत्वम्, स्वरूपतस्तु पर्याय द्रव्ययोरन्त्ययोर्मेद एवेत्येकान्तद्रव्यात्मकत्वमेव वस्तुन इति मतस्य खण्डनेन पर्यायात्मकत्वस्यैकान्तपर्यायात्मकत्वमेव वस्तुन इति मतस्य खण्डनेन द्रव्यात्मकत्वस्य च व्यवस्थापनेन तदुभयात्मकं वस्त्ववाप्यत इत्यनेकान्तात्मकवस्तुप्राप्तिलक्षणफलस्य वास्तवत्वेन ततो मिथ्यारूपा अपि बौद्धादिदृष्टयः फलतो न मिथ्यारूपा इत्यर्थः । स्वरूपतोऽप्रमात्मकस्यापि साधनज्ञानस्य यथार्थफलजनकत्वेन फलतः प्रामाण्यमित्यत्र दृष्टान्ततया मूले 'रत्नप्रभायां रत्नबुद्धिवद्' इति दर्शितमवतार्य विवृणोति-किंवदिति । दृष्टान्ते स्वरूपतः प्रामाण्या भावं फलतः प्रामाण्यं च भावयति- यथाहीति । तत्र रत्नप्रभायां रत्नबुद्धौ । अरत्ने रत्नत्वाभाववति रत्नप्रभास्वरूपे धर्मिणि । रत्नावगाहितया रत्नत्वप्रकारकतया । एतावता तदभाववति तत्प्रकारकत्वलक्षणमप्रामाण्यं तत्रावेदितम् , तथा च तद्वति तत्प्रकारकत्वलक्षणं प्रामाण्यं । स्वरूपतस्त्र नास्तीत्याह-स्वरूपती न प्रामाण्यमिति । अदूरविप्रकर्षात् त्विति-तु पुनः, दूरविप्रकर्षो व्यवहितकालत्वम् , तदभावोऽदूरविप्रकर्षः, विप्रकृष्टकालत्वाभावः, तस्माददूरविप्रकर्षात्, किञ्चियवहितोत्तरकाले इति यावत् वस्तुप्रापकतयेति- मणिप्रभायां मणिबुद्धया प्रवृत्तस्तद्वशं गतस्तत्रत्यं मणिमासादयतीति Page #152 -------------------------------------------------------------------------- ________________ गयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समझहतो नयोपदेशः। ११९ एवं सामान्यलक्षणं विविच्य तद्विभागमाह अयं संक्षेपतो द्रव्य-पर्यायार्थतया द्विधा। द्रव्यार्थिकमते द्रव्यं तत्त्वं नेष्टमतः परम् ॥ १२ ॥ नयामृत-अयमिति-अयं सामान्यलक्षणलक्षितो नयः, सरूपतः अवान्तरभेदापरिग्रहेण, द्रव्य-पर्याय(यार्थ)तया द्रव्यार्थिकः पर्यायार्थिकश्चेति द्विधा द्विप्रकारः, तीर्थकरवचनसङ्ग्रह-विशेषप्रस्तारमूलत्वेनेत्थमेव मूलन यविभजनात् , तदाह वादी ___" तित्थयरवयणसंगह-विसेसपत्थारमूलवागरणी । दवढिओ अ पज्जवणओ अ सेसा विगप्पासिं ॥" [सम्मतौ का० १, गाथा-३ ]त्ति तत्रादौ द्रव्यार्थिकमतमाह-द्रव्यार्थिकस्य मते द्रव्यं तत्वं परमार्थसत् , अतः द्रव्यात् पृथग भिन्नं विकल्पसिद्धं गुण-पर्यायस्वरूपं तत्त्वं नेष्टम् , संवृतिसतोऽपि तस्य परमार्थतोऽसत्वादिति भावः ॥१२॥ एतदेवाह तिर्यगूर्ध्वप्रचयिनः पर्याया खलु कल्पिताः। सत्यं तेष्वन्वयि द्रव्यं कुण्डलादिषु हेमवत् ॥ १३ ॥ नयामृत-तिर्यगिति-तिर्यप्रचयिनः परस्परसगानाधिकरणत्वे सति परस्परभिन्नकालीना रक्त-अणुत्वस्थूलत्वादयश्च, उर्द्धप्रचयिनः परस्परसमानाधिकरणत्वे सति परस्परभिन्नकालीना रक्तश्यामादयः संयोगो विभागादयश्च पर्यायाः, खलु निश्चितम् , कल्पिताः वासनाविशेषप्रभवविकल्पमणिप्रभाधर्मिकमणिबुद्धेर्मणिलक्षणवस्तुप्राप्तिजनकत्वेनेत्यर्थः फलतः प्रामाण्यमिति- संवादिप्रवृत्तिजनकत्वमेव फलतः प्रामाण्यम् , तच्च मणिप्रभायां मणिबुद्धौ समस्तीत्यर्थः । दान्तिके फलतः प्रामाण्यं दर्शयति-तथेति ॥ ११ ॥ द्वादशपद्यमवतारयति- एवमिति- उक्तप्रकारेण नयसामान्यलक्षणं प्रमाणादिव्यावृत्तमुपदर्य नयविभागं कथयति प्रन्थकार इत्यर्थः । विवृणोति - अयमितीति । ननु नैगम-सङ्ग्रह-व्यवहारर्जुश्त्र-शब्द समभिरूढवम्भूतभेदात् नयाः सप्तत्येवमन्यत्र सप्तधा नयविभागः कृतः, किमित्यत्र द्विधैव नयो विभज्यत इत्यत आह-तीर्थकरेति- तीर्थकरस्य जिनस्य यद् वचनमागमस्तस्य यः सङ्ग्रह-विशेषप्रस्तारः, संग्रहः सामान्यं द्रव्यमिति यावत् विशेषः पर्यायः, तयोः प्रस्तारः-विशेषेण प्रपञ्चः सामान्यप्रतिपादकविशेषप्रतिपादकवचनसन्दर्भः तस्य मूलत्वेन यानि द्रव्यात्मकसामान्यप्रतिपादकवचनानि तानि सर्वाणि द्रव्यार्थिकनयात् प्रवृत्तानि, यानि पर्यायात्मकविशेषप्रतिपादकवचनानि तानि सर्वाणि पर्यायार्थिकनयात् प्रवृत्तानीत्यतस्तीर्थकरवचनसङ्ग्रह-विशेषप्रस्तारमूलं द्रव्यार्थिकः पर्यायार्थिकश्चेत्येवं निरुक्तमूलत्वेनेत्यर्थः। इत्थमेव द्रव्यार्थिकः पर्यायार्थिकश्चेति द्विधा नय इत्येवं प्रकारेणैव । उक्तप्रकारेण मूलनयविभजने वादिप्रकाण्डश्रीसिद्धसेनदिवाकरवचनं संवादकतया दर्शयति-तदाहेति । तित्थयर० इति- " तीर्थकरवचनसङ्ग्रह-विशेषप्रस्तारमूलव्याकरणी द्रव्यार्थिकश्च पर्यवनयश्च शेषा विकल्पा अनयोः"॥ इति संस्कृतम्। तत्र द्रव्यार्थिक पर्यायार्थिकभेदेन द्विधा विभक्त नये। आदौ प्रथमम् । 'पृथग' इति 'परम्' इत्यस्य विवरणम् , तस्य पर्यायकथनं — भिन्नम् ' इति । किं तदित्यपेक्षायामाह-विकल्पसिद्धं गुणपर्यायस्वरूपं तत्त्वमिति । कथं नेष्टमित्यपेक्षायामाह-संवृतिसतोऽपीति-संवृणोति स्वाकारेण बाह्यमिति संवृतिर्विकल्पात्मकं ज्ञानम् , तेन सतोऽपि यदैव ज्ञानं तदैव गुण-पर्यायस्वरूपमिति ज्ञानसत्त्वमेवास्य सत्त्वमित्येतावता संवृत्या सत्त्वमुपादाय गुण-पर्यायस्वरूपं संवृतिसदिति कथ्यते, तादृशस्यापीत्यर्थः । तस्य गुण-पर्यायस्वरूपस्य ॥ १२ ॥ त्रयोदशपद्यमवतार यति- एतदेवाहेति- द्रव्याद्भिन्नं गुणपर्यायस्वरूपं कल्पितमेव न परमार्थसदित्येव कथयतीत्यर्थः । विवृणोति-तिर्यगितीति । ये समानकालीना एकाधिकरणवर्तिनः पर्यायास्ते तिर्यक्प्रचयिनः पर्यायाः, ये तु विभिन्न Page #153 -------------------------------------------------------------------------- ________________ १२० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । सिद्धाः, अपारमार्थिका इति यावत् , तेषु कल्पनारूढेषु पर्यायेषु, अन्वयि व्यापकतया प्रतीयमानम् , द्रव्यं सत्यम् , कुण्डलादिषु नानाकाश्चनपर्यायेध्वन्वीयमानहेमवत् , अयं भावः-यथा शुक्तौ रजतभ्रान्ती बाधावतारानन्तरं रजताभावमानेऽपि तत्र शुक्त समानत्वात् शुक्तेः सत्यत्वं रजतस्य चासत्यत्वं तथा कुण्डलाद्यभावभानेऽपि हेम्नो भानात् कुण्डलादिपर्यायाणामसत्यत्वं हेमद्रव्यस्य च सत्यत्वम् , एवमन्यत्रापि भावनीयमिति । नन्वेवं भ्रमाधिष्ठानत्वमेव सत्यत्वं भ्रमविषयत्वं चासत्यत्वमित्यागन्तुं अत्र चासत्यत्वम्, प्रत्यक्षाप्रतीयमानेषु पर्यायेष्वव्यापकम् , एवं तत्र तदसत्त्वरूपसत्यत्वमपि तेष्वव्यापककालीना एकाधिकरणवर्तिनः पर्यायास्ते ऊर्ध्वप्रचयिन इति क्रमेण निदर्शन पदर्शनपुरस्सरं दर्शयति- तिर्यक्प्रचयिन इति । अणुत्व-स्थूलत्वादयश्चेति- आमलकमाम्रापेक्षयाऽणु बदरीफलापेक्षया स्थूलं चेत्येकदैवाणुत्वस्थूलत्वादयः पर्याया अपेक्षाभेदेनैकत्र वर्तन्त इत्यभिसन्धिः । पर्यायेषु द्रव्यस्य सत्त्वे आधारत्वान्यथानुपपत्त्या पर्यायाणां सत्त्वं स्यादत आहकल्पनारूढेष्विति- आधारतया कल्पनाविषया एव ते न वस्तुत आधारत्वमिति मूलाभिसन्धिः। द्रव्यस्य पर्यायव्यापकत्वे द्रव्यव्याप्याः पर्याया: सन्त एव स्युरित्यतः 'अन्वयि' इत्यस्य 'व्यापकतया प्रतीयमानम्' इति विवरणम् , कल्पनारूढानां पर्यायाणां वस्तुतोऽसतामपि व्यापकतया प्रतीयमानं द्रव्यमित्यर्थः । कल्पनारूढेषु पर्यायेषु व्यापकतया प्रतीयमानस्य द्रव्यस्य सत्यत्वे निदर्शनमाह-कुण्डलादिष्विति । भावार्थमावेदयति-अयं भाव इति । बाधावतारानन्तरं नेदं रजतमिति शुक्तौ रजतत्वबाधानन्तरम् । 'रजताभावभानेऽपि' इत्यस्य स्थाने 'रजतभानाभावेऽपि' इति पाठो युक्तः, यथाश्रुतपाठस्तु न युक्तः, यतो बाधस्यैव रजताभावज्ञानरूपतया रजताभावभानस्य बाधकालीनतया तत्र बाधावतारानन्तरमिति विशेषणं न सुसङ्गतं स्यात् , तत्र रजतं यदि सत्यं स्यात् तदा पूर्वमिव बाधानन्तरमपि मासेत, न च तदानीं रजतं भासत इति तन्न सत्यमित्याशयः । तत्र बाधानन्तरकाले, अथवा 'रजताभावभानेऽपि' इत्यपि पाठः सम्यग् , यथा बाधकाले रजताभावो भासते तथा तदनन्तरकालेऽपि रजताभाव एव भासते, न तु रजतमतो न रजतस्य सत्यत्वम् । कुण्डलाद्यभावभानेऽपीति- कटक-केयूराद्यवस्थाकाले कुण्डलाभावभानमेव भवति, न तु कुण्डलभानम्, सुवर्ण तु तदानीमप्यवभासत इति कुण्डलादिपर्यायःणामसत्यत्वं हेमद्रव्यरय च सत्यत्वमित्यर्थः, 'कुण्डलाद्यभावभानेऽपि' इत्यस्य स्थानेऽपि 'कुण्डलादिभानाभावेऽपि' इति पाठो युक्तः, कुण्डलाद्यभावभानकाले कुण्डलादिक न भासत इत्यत एव कुण्डलादीनामसत्यत्वं व्यवस्थापनीयम् , तच्च 'कुण्डलादिभानाभावेऽपि' इति पाठ एव सौसङ्गत्यमहतीति, पूर्ववद् वा स पाठोऽपि युक्ततया निभालनीयः । ननु शुक्तौ रजतस्य यथाऽसत्यत्वं तथा द्रव्ये पर्यायाणामसत्यत्वमित्येवं दृष्टान्त दार्टान्तिकभावा. वष्टम्भेन पर्यायाणामसत्यत्वं द्रव्यस्य सत्यत्वं यत् समार्थतं तेनेदं ज्ञायते- यदुत, भ्रमाधिष्ठानत्वं सत्यत्वं भ्रमविषयत्वं चासत्यत्वमिति, तथा चोक्तरूपमसत्यत्वं भ्रान्तप्रत्यक्षे ये पर्यायाः प्रतीयन्ते तत्रैव स्यात् , ये च पर्याया नास्मादृशां प्रत्यक्षसमधिगम्यास्तेऽपि बहवः सन्ति तेषु न स्यात् , एवं ये यत्र न सन्ति तेषामेव तत्र ज्ञानं भ्रमः, पर्यायास्तु द्रव्ये सन्त्येवेति न तत्र तज्ज्ञानं भ्रमः ये च प्रत्यक्षेण न प्रतीयन्ते तेषु तत्र तदसत्त्वमेव तदसत्यत्वमित्यपि पर्यायेषु प्रत्यक्षाप्रतीयमानेषु न स्यादेव, तेषां द्रव्ये सत्त्वेन तदसत्त्वस्याभावादिति शङ्कते-नन्वेवमिति । 'अत्र चासत्यत्वं प्रत्यक्षप्रतीयमानेषु' इत्यस्य स्थाने 'एतच्चासत्यत्वं प्रत्यक्षाप्रतीयमानेषु' इति पाठो युक्तः । एतच्चासत्यत्वं भ्रमविषयत्वलक्षणमसत्यत्वं पुनः 'प्रत्यक्षाप्रतीयमानेषु' इत्यनेनैतत् कथितं भवति-यदि प्रत्यक्षप्रतीयमानत्वं तेषु स्यात् तदैतद् वक्तुं शुक्तौ रजतप्रत्यक्षवद् द्रव्ये तेषां प्रत्यक्षं भ्रम इति प्रत्यक्षात्मकभ्रमविषयत्वमुपादायोक्तलक्षणमसत्यत्वं तेषु स्यादपि, यदा प्रत्यक्षेण न प्रतीयन्त एव ते तदा नोक्तस्वरूपमसत्यत्वं तेष्विति । ते च पर्याया द्रव्ये वर्तन्त एवेति तत्र तदसत्त्वरूपमसत्यत्वमपि तेष्वव्यापकमित्याह-एवमिति । 'तदसत्वरूपमसत्यत्वमपि' इत्यस्य स्थाने 'तदसत्त्वरूपमसत्यत्वमपि' इति पाठो युक्तः । समाधत्ते-नेति । 'सत्यरजतस्यापि' इत्यस्य स्थाने 'असत्यरजतस्यापि' इति पाठो युक्तः, तत्र तद. सत्त्वमात्रमविशेषितमसत्यत्वं न द्रव्यार्थिकनयेऽभ्युपगम्यते, तथा सति शुक्तौ यद्रजतं प्रतीयते तच्छुक्तिरजतपदप्रतिपाद्यं प्रातिभासिकरजतमिति गीयते, तस्यासत्यरजतस्यापि प्रतिभासकाले यदा प्रतीयते तदानीं सत्ताभानेन शुक्तौ तस्य प्रतिभासकाले सत्त्वमेवेत्युक्तलक्षणमसत्यत्वं तस्य न स्यात्, किन्तु कालत्रयसत्त्वमेव सत्यत्वं द्रव्यार्थिकनये, तदभाव एव Page #154 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलट्टतो नयोपदेशः । १२१ मिति चेत् १ न-सत्यरजतस्यापि प्रतिभासकाले सत्ताभानेन कालत्रयसत एवैतनये सत्यत्वस्वीकारात्, अत एव कालवृत्त्यत्यन्ताभावाप्रतियोगित्वमेव परमार्थसत्यत्वमित्यभिप्रेत्याहैतत्साम्प्रदायिक:- ॥ १३ ॥ आदावन्ते च यन्नास्ति मध्येऽपि हि न तत्तथा । वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥१४॥ नयामृत-आदाविति-आदावन्ते च यत् वस्तु, नास्ति तत् मध्येऽपि मध्यमकालेऽपि न तथा नास्तीत्यर्थः, नहि प्रागभावध्वंसानवच्छिन्नकालसम्बन्धः सत्तेत्यभ्युपगन्तुं शक्यम् , उत्पत्ति-विनाश्यता. समययोः उत्पत्ति-विनाशव्यापारव्यप्रयोरन्वयिव्यवहारात्, न च तद्विवेके मध्यभागः कश्चिदवशिष्यते इक्षुदण्डस्येव सकलमूलाऽप्रभागच्छेदे । किञ्च पूर्व पश्चाचासत्स्वभावस्य कथं मध्यमक्षणे सत्स्वभावत्वं स्वभावविरोधात्, मध्यक्षणे सन्नेव पर्यायः पूर्वाऽपरकालयोरसद्व्यवहारकारीति न स्वभावविरोध इति चासत्यत्वं शुक्तिरजतस्य प्रतिभासकाले सत्त्वेऽप्यप्रतिभासकाले न सत्त्वमिति कालत्रयसत्त्वाभावाद् यथाऽसत्यत्वं तथा पर्यायाणामपि वर्तमानकाले सत्त्वेऽपि स्वोसादात् पूर्व स्वविनाशानन्तरं चासत्त्वेन कालत्रयसस्वाभावादसत्यत्वम्, एतच्च प्रत्यक्षप्रतीयमानप्रत्यक्षाप्रतीयमानपर्यायगतमिति न कुत्राप्यव्याप्तिरिति निर्गलितोऽर्थः । एतन्नये द्रव्यार्थिकनये । अत एव द्रव्यार्थिकनये कालत्रयसत एव सत्यत्वस्वीकारादेव, कालवृत्त्यन्ताभावाप्रतियोगित्वलक्षणं परमार्थसत्यत्वं तत्रैव यत् कालत्रयेऽपि वर्तते, यच्च प्रतिनियतकाल एव वर्तते तत्र कालपदेन स्वानधिकरणीभूतकालोऽपि प्रहीतुं शक्यत इति तवृत्यन्ताभावस्य प्रतियोगित्वमेव न तदप्रतियोगित्वमिति न परमार्थिकसत्यत्वं तस्य, इत्यभिप्रेत्य एवम्भूताभिप्रायं समाश्रित्य । एतत्साम्प्रदायिकः द्रव्यार्थिकनयसम्प्रदायकुशलो विपश्चित्, आह कथयति ॥१३॥ किमाहेत्यपेक्षायां तदीयपद्यमुल्लिखति-आदावन्ते चेति- यद्येतत् पद्यमन्यकर्तृकं न मूल कर्तृकपद्यसमष्ट्यन्तर्गतं ततस्तत्पद्यसङ्खयान्तःपातिचतुर्दशमितसङ्खयागणनीयत्वाभावात् तदङ्कचिह्नितं न भवितुमर्हति, तथापि चतुर्दशसङ्ख्याकृचिह्नितमेव ग्रन्थनिबद्धं यदस्ति तत् तथाऽनुट्टङ्कने 'अयं द्रव्योपयोगः स्याद्' इति पद्यमेव चतुर्दशसङ्ख्यास्पदत्वेन तथोट्टङ्कितं भवेत् , तथा चाग्रिमः सर्वोऽप्योङ्कनप्रकारस्तदनुक्रमेणैव समुचितो भवेत् , न च तथासनिवेशनं समस्तीत्युपेक्षवात्र प्रेयसी, अथवा 'आदावन्ते च' इति पद्यमेकाचिह्नितमेव समुल्लिरूप 'अयं द्रव्योपयोगः' इति पद्यमेव चतुर्दशमलथाङ्कचिह्नितमुल्लेख्यम्, तदग्रिमपद्येषु तदनुक्रमेण सङ्ख्याङ्कयोजना विधेयेति। 'आदावन्ते च' इति परकीयं पद्यं विवृणोति-आदावितीति। आदौ स्वो. त्पत्तितः प्राकाले । अन्ते च स्वध्वंसानन्तरकाले च। मध्यमकालेऽपि वर्तमानसमयेऽपि । 'नहि' इत्यस्य 'शक्यम्' इत्यनेनान्वयः, प्रागभावधंसानवच्छिन्नः कालो वर्तमानसमयः, तत्सम्बन्धो वस्तुनः सत्तेत्यभ्युपगन्तुं नहि शक्यमित्यर्थः । निषेधे हेतुमाह- उत्पत्तीति- उत्पत्तिपमये उत्पत्तिव्यापारे व्यग्रो विनश्यतासमये विनाशव्यापारे व्यग्रस्तयोर्योऽन्वयिव्यवहा. रोऽनुगामिद्रव्यव्यवहारस्तस्मादित्यर्थः, अत्र 'उत्पत्ति-विनाशव्यापारव्यग्रयोरन्वयिव्यवहारात्' इत्यस्य स्थाने 'उत्पत्ति-विनाशव्यप्रसत्तयैवान्वयिव्यवहारात्' इति पाठो युक्तः, तस्य 'उत्पत्ति विनाशव्यग्रो यः सन् तत्त्वेनैवान्वयिद्रव्यस्य व्यवहारात्' इत्यर्थः, तथा चोत्पत्तिकाले उत्पत्तिव्यापारव्यग्र एवेति न तदानीं स्थायिता, विनश्यतासमये च मध्यमव्यापारव्यग्र एवेति. न तदानीं स्थायिता, तद्भिन्नश्च वर्तमानसमयो नानुभूयत इति उत्पत्ति-विनाशव्यग्रो य सन् तत्त्वेनैव न तु वर्तमानसमयवृत्तित्वेन, अन्वयिव्यवहारादन्वयिनो व्यवहियमाणत्वात् , तथा च क्षणिकस्य वस्तुनः कश्चिदुत्पत्तिसमयः कश्चिद्विनाशसमयः, तद्विवेके मध्यभामो वर्तमानसमयो न च कश्चिदवशिष्यते, न च कश्चिदुत्पत्ति-विनाशसमयव्यतिरिक्तो मध्यमसमयो नामेति न वतमानसमयसम्बन्धः सत्तेत्यभ्युपगन्तुं शक्यमित्यर्थः । मध्यसमयाभावे दृष्टान्तमाह- इक्षुदण्डस्येवेति- सकला ये मूला-ऽप्रभागास्तेषां छेदे खण्डने सति इक्षुदण्डस्य यथा मध्यभागो नास्ति तथा प्रकृतेऽपीत्यर्थः । यस्य यः स्वभावः स तस्य सर्वदैवेति नियमे पूर्वा-ऽपरयोरसत्स्वभावस्य वस्तुनो मध्यमक्षणेऽप्यसत्स्वभावत्वमेव न तु सत्स्वभावत्वं विरोधादिसाह-किश्चेति । परः शङ्कते- मध्यक्षण इति-वर्तमानसमय इत्यर्थः, तथा च मध्यक्षणस्थायित्वलक्षण एकस्वभावो Page #155 -------------------------------------------------------------------------- ________________ १२२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । चेत् ? तर्हि पूर्वाऽपरकालयोरसत्स्वभाव एवायं मध्यक्षणसम्बन्धेन सद्व्यवहारकारीत्येव किं न स्वीक्रियते, तस्मान्न निरपेक्षपारमार्थिकसत्तावन्तः पर्यायाः, किन्तु वितथैः शशविषाणादिभिः काल्पनिकत्वेन सदृशाः सन्तः, अनादिलौकिकव्यवहारवासनात् अवितथा इत्र लक्षिता लोकैरिति शेषः ॥ १४ ॥ __नन्वेवं द्रव्यार्थिकनये पर्यायाणां शशविषाणप्रायत्वात् तदवगाहिज्ञानमलीकविषयत्वेन मिथ्या स्यात्, न च घटादिज्ञानविनिर्मुक्तविषयको द्रव्योपयोगः कश्चिदवशिष्यत इति नामशेषतैव तस्य स्यादि. त्याशय शुद्धावान्तरद्रव्यार्थिकभेदेन तस्य द्वैविध्याद् नानुपपत्तिरित्यभिप्रायवान्नाह अयं द्रव्योपयोगः स्याद् विकल्पेऽन्त्ये व्यवस्थितः। अन्तरा द्रव्य-पर्याया धीः सामान्य-विशेषवत् ॥ १५॥ नयामृत-अयमिति । अयं द्रव्योपयोगः द्रव्यार्थिकनयजन्यो बोधः, अन्त्ये विकल्पे शुद्धसङ्ग्रहाख्ये, व्यवस्थितः पर्यायबुझ्याऽविचलितः स्यात्, अन्तरा शुद्धसङ्ग्रह-शुद्धर्जुसूत्रविषयमध्ये, द्रव्यपर्यायधीरेव स्यात्, सामान्य विशेषबुद्धिवत् - यथा हि परेषां द्रव्यत्वा दिकं द्रव्याद्यपेक्षया सामान्य सद् गुणाद्यपेक्षया विशेषाख्यां लभते तथाऽस्माकं घटादिकं स्वपर्यायापेक्षया सामान्यं सद् गुणाद्यपेक्षया पर्यायाख्यां लभत इति घटावगाही अवान्तरद्रव्यार्थिकः पर्यायोपसर्जनतां द्रव्यमुख्यतां चावगाहमानो न वस्तुनो न तु पूर्वापरकालासत्त्वस्वभावोऽपि तस्य, मध्यक्षणस्थायिस्वभावस्यैवास्य पूर्वा-ऽपरकालयोरसद्व्यवहारकारित्वमपीष्यते, ततः पूर्वाधारकालयोरसद्वयवहारोऽपि तस्योपपद्यते इत्यर्थः । समाधत्ते-तीति । 'पूर्वापरकालयोरसत्स्वभाव एव' इत्येवकारेण मध्यक्षणे सत्स्वभावस्य व्यवच्छेदः, एवं सति कथं मध्यक्षणे सद्व्यवहारस्तस्येत्यपेक्षायामाह- मध्यमेति । उपसंहरति-तस्मादिति-प्रागभाव ध्वं मानवच्छिन्नकालसम्बन्धस्य सत्तारूपत्वासम्भवादित्यर्थः । निरपेक्षेति-कालवृत्त्यत्यन्ताभावाप्रतियोगित्व लक्षणा या प्रतिनियतकालनिरपेक्षपारमार्थिकसत्ता तन्तो न पर्यायाः, तर्हि किंरूपास्त इति पृच्छतिकिन्त्विति । उत्तरयति-वितथैरिति । 'वासनात' इत्यस्य स्थाने 'वासनावशात्' इति पाठो युक्तः ॥ १४ ॥ पञ्चदशपद्यमवतारयति- नन्वेवमिति। तदवगाहिज्ञानं पर्यायावगाहिज्ञानम् । ननु पर्यायावगाहिज्ञानस्य मिथ्यात्वा. पादनमिष्टमेवेत्यत आह-न चेति- अस्य ‘अवशिष्यते' इत्यनेनान्वयः । द्रपज्ञानं यदा यदा जायते तदा घट-पटादिज्ञानरूपेणवेति घट पटादिज्ञानव्यतिरिको द्रव्योपयोग एव नास्तीति तल्लक्षणको द्रव्यार्थिकनयोऽपि न स्यादित्याह-घटादि. ज्ञानेति-घटादिज्ञानेन विषयतया विनिर्मुक्तो घटादिज्ञानविनिर्मुक्तः, घटादिज्ञानाविषय इति यावत् , तद्विषयको द्रव्योपयोगः कश्चिन्नावशिष्यते, घटादिज्ञानविनिर्मुक्तो यदि कश्चिद् द्रव्यनामको विषयः स्यात् तर्हि तद्विषयको द्रव्योपयोगो भवेत् , तथाविधविषयाभावे तु निर्विषयको द्रव्योपयोगो न भवेदेवेत्यर्थः । नामशेषतैव नाममात्रतैव । तस्य द्रव्योपयोगस्य । शुद्धति-शुद्धद्रव्यार्थिकोऽवान्तरद्रव्यार्थिक श्चेत्येवं द्रव्यार्थि कस्य द्वैविध्यात् घटादिज्ञानविनिर्मुक्तविषयकः समस्त्येव द्रव्योपयोग इति तस्य नानुपपत्तिरित्यभिप्रायवान् ग्रन्थकार आहेत्यर्थः । 'द्रव्यपर्याया धीः' इत्यस्य स्थाने द्रव्य पर्यायधीः' इति पाठो युक्तः। विवृणोति-अयमितीति । दृष्टान्त-दान्तिकसङ्गमनां करोति-यथा हीति । परेषां नैयायिकादीनाम् । 'द्रव्यत्वादिकम्' इत्यत्रादिपदाद् द्रव्यत्वावान्तरजातीनां गुणत्व-कर्मत्व-तदवान्तरजातीनां चोपग्रहः, 'द्रव्याद्यपेक्षया' इत्यत्रादिपदात् पृथिव्यादीनां गुण-कर्म-तद्विशेषरूपरसाधुत्क्षेपणावक्षेवणादीनामुपप्रहः, 'गुणाद्यपेक्षया' इत्यत्रादिपदाद् द्रव्यादरुपग्रहः. अयमभिप्राय - द्रव्यत्वं द्रव्यमात्रानुगामित्वाद् द्रव्यापेक्षया सामान्य सद् गुणादिषु न वर्तत इति गुणादिव्यावृत्तत्वाद् गुणाद्यपेक्षया विशेषोऽपि भवति, एवं गुणत्वं गुणमात्रानुगामित्वाद् गुणापेक्षया सामान्यं सद् द्रव्यादिषु न वर्तत इति द्रव्यादिव्यावृत्तत्वाद् द्रव्याद्यपेक्षया विशेषो भवति, एवं कर्मत्वमपि सामान्य-विशेषरूपं बोध्यम् , उक्तदिशा पृथिवीत्वादीनां रूपत्वादीनामुत्क्षेपणत्वादीनां च सामान्यविशेषरूपत्वं बोध्यम् । अस्माकं जनानाम् । 'घटादिकम्' इत्यत्रादिपदात् पटादीनां नीलादीनां च प्रहणम् । 'गुणाद्यपेक्षया' इत्यत्र 'मृदाद्यपेक्षया' इति पाठोऽनुगणः । ननु घटादेव्यत्ववत् पर्यायत्वस्यापि भावे तदवगाहिनयस्यावान्तरद्रव्यार्षिकत्वमेव कथम् ? पर्यायार्थिकत्वस्यापि तत्र सम्भवादित्यत आह-पर्यायोपसर्जनतामिति- अस्य Page #156 -------------------------------------------------------------------------- ________________ नामृततरविणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । १२३ विरुध्यते, असतोऽप्युपसर्जनतयाऽऽश्रयणं च कर्णशष्कुल्यवच्छिमाकाशस्य शब्दप्राहकतां वदतां तार्किकाणाम् , आनुपूर्वीविशेषविशिष्टस्य शब्दस्य श्रोत्रप्राह्यतां वदतां मीमांसकादीनां च दृश्यत एवेति भावः । यद्वा घटादेव्यार्थिकेन पर्यायविनिर्मुक्तद्रव्याकारेणैव ग्रहः, पर्यायनयेन तत्र पर्यायत्वापादने च पर्यायविशिष्टतया ग्रहणमित्येवं सूक्ष्मैक्षिकायां शुद्धसङ्ग्रहाद् अन्त्यविशेषं यावद् अव्यवस्थितिः, अन्यविशेषविकल्पे च शुद्धर्जुसूत्रलक्षणे कारणाभावादेव द्रव्योपयोगो व्यवस्थितः स्यात्- उयुपरतः स्यादिति व्याख्येयम्, न चानया व्यवस्थयवैकस्यापि बोधस्यानापत्तिः, तत्तदवान्तरभेदप्रवृत्तौ वा विषयान्तरसचारानुपपत्तिः, पर्यायान्तरजिज्ञासोपरमे तद्बोधविश्रान्तः, इति विभावनीयम् , तदिमुक्तं सम्मतौ'अवगाहमानः' इत्यनेनान्वयः, तथा च घटाद्यवग ह्यपयोगो द्रव्यार्थिकनये घटाऽपेक्षया पर्यायः सन्नपि तस्योसर्जनतां गौणतामेवावगाहते, द्रव्यस्वरूपस्य तस्य मुख्यतामवगाहत इत्यतोऽवान्तरद्रव्यार्थिको भवन् घम ध्यत इत्यर्थः । ननु पर्यायो द्रव्यार्थिकनयेऽसन्नेवेति कथं तस्योपसर्जनतयाऽऽश्रयणमित्यत आह-असतोऽपीति । तार्किकाणां नैयायिकानाम्, नन्वाकाशे कर्णशष्कुल्यवच्छेदः समस्त्येवेति कथं कर्णशष्कुल्यवच्छिन्नाकाशस्य शब्दग्राहकत्वाभ्युपगमेऽसत उपसर्जनतयाऽऽश्रयणमायातीति चेत् ? इत्थम्-श्रोत्रेन्द्रियस्य शब्देन सह समवायः सन्निकर्षः शब्दप्रत्यक्ष कारण तरिष्यते, न च शब्दस्थ समवायः कणेशष्कुलीरूपोपाधौ किन्तु शुद्धाकाशस्वरूप एव, शुद्धाकाशस्तु तन्मते निष्प्रदेश एव व्यापकः, व्यापकत्वं च देशावच्छेदराहित्ये सत्येव सर्वमूर्तसंयोगित्वलक्षणं सम्भवति, ततो देशावच्छेदरहितस्य शब्द. समवायितया शब्दप्राहकस्याकाशस्य कर्णशष्कुल्यवच्छिन्नत्वमसदेव शन्दग्रहणोपयोगितयाऽऽश्रीयते, उपसर्जनत्वं तु तस्याकाशस्वरूपेऽवर्तमानत्वेऽप्यन्यतो व्यावर्तकत्वादेवेति, मीमांसकमते व्यापकनित्यद्रव्यरूपे शब्दे एकवर्णाव्यवहितोत्तरकालवृत्तित्व. रूपस्य कालकृतक्रमावस्थानलक्षणस्यैकवर्णदेशाव्यवहितदेशवृत्तित्वरूपस्य देशकृतक्रमावस्थानलक्षणस्य वाऽनुपूर्वीस्वरूपस्याभावेऽपि व्यजकध्वनिगतस्य तस्यारोपेण तद्विशिष्टस्य शब्दस्य श्रोत्रग्राह्यत्वमित्यसत एवानुपूर्वीविशेषवैशिष्ट्यस्य शब्दातिरिक्तस्य तस्य न श्रोत्रग्राह्यत्वमत उपसर्जनतयाऽऽश्रयणमिति बोध्यम् । सूक्ष्मेक्षिकामाश्रित्य व्याख्यानान्तरं दर्शयतियद्वेति । तत्र घटादौ । पर्यायत्वापादने चेति- यद्यपि द्रव्यार्थिकमते पर्यायाभावात् पर्यायत्वं कुत्रापि नास्ति, ततस्तदापादनमपि न सम्भवति, क्वचित् सत एवापादनसम्भवात् , तथापि पर्यायनयः पर्यायमभ्युपगच्छति तत्र पर्यायत्वमपि स्वीकरोति, स द्रव्यमपि पर्यायदृष्ट्यव पश्यति, तथा च घटादिरपि तन्मते पर्याय एव तत्र पर्यायत्वज्ञानं प्रमैवेति न तस्यापादनं किन्तु द्रव्यनयस्तत्र तज्ज्ञानं भ्रान्तमेवाभिमन्यत इति तदृष्ट्या पर्यायत्वापादने' इत्युक्तिः, यदा चापादितपर्यायत्वको घटादिस्तदा पर्यायविशिष्टतया घटादेव्यस्य द्रव्यार्थिकेन ग्रहणम् । 'अन्त्यविशेषम्' इत्यत्र विषयेण विषयिणोऽन्त्यविशेषज्ञानस्याप्युपलक्षणम् । 'यावद' इति मर्यादायाम् , तेनान्त्यविशेषविकल्पं विहाय शुद्धसङ्ग्रहादारभ्योपान्त्यविशेषविकल्पपर्यन्तं द्रव्योपयोगोऽव्यवस्थितोऽव्युपरत इत्यर्थः । कारणामावादेव सामान्यावगाहित्वादेवोपयोगस्य द्रव्योपयोगतेति द्रव्योपयोगे विषयविधया द्रव्यं कारणं तदभावादेव । ननु विशेषाणामानन्त्यात् तेष्वन्त्यविशेषं परित्यज्य द्रव्योपयोगप्रवृत्त्युपगमे तत्तद्विशेषाणां स्वस्वोत्तरविशेषापेक्षया सामान्यरूपत्वाद् द्रव्योपयोगपरम्पराप्रवृत्तितो न कोऽपि द्रव्योपयोगो विश्रान्तः स्यात् , तथा तस्यैव विषयावान्तरवैलक्षण्यनिबन्धनद्रव्योपयोगावान्तराशुद्धा-ऽशुद्धतरा-ऽशुद्धतमतत्तत्पर्यायविशिष्टद्रव्यग्रहणाविच्छिन्नधारायां विषयान्तरसञ्चारोऽपि न स्यादित्याशङ्कय प्रतिक्षिपति-न चेति । अनया व्यवस्थयेतिशुद्धसङ्ग्रहादारभ्योपान्त्यविशेषपर्यन्तं द्रव्योपयोगोऽव्युपरतोऽन्त्यविशेषविकल्पे द्रव्योपयोगो व्युपरत इति व्यवस्थयेत्यर्थः । अनापत्तिः अपर्याप्तिः, पर्याप्तस्तु बोधस्तदैव यदि तद्विषयेऽनन्तरमेव ज्ञानान्तरापेक्षा न भवति, प्रकृते यदस्य बोधस्य विषयो यदपेक्षया सामान्यं सोऽपि विशेषस्तदुत्तरविशेषापेक्षया किं सामान्य स्यादिति जिज्ञासायां तज्ज्ञानस्यैवं तद्विषयापेक्ष्यविशेषस्योत्तरविशेषापेक्षया किं सामान्यं स्यादिति जिज्ञासायां तज्ज्ञानस्यैवं ज्ञानान्तरापेक्षाया अवश्यंभावादेकस्यापि बोधस्यापर्याप्तेरित्याशयः । जिज्ञासाऽवश्यं भवत्येवेति नियमाभावेन यज्ज्ञानविषयस्य पर्यायजिज्ञासा न भवति तद्वोध एव विश्रान्तिसम्भवान्नानवस्था नवा विषयान्तरसञ्चारानुपपत्तिरिति निषेधहेतुमुपदर्शयति-पर्यायान्तरेति । उत्काथें सम्मतिसम्मतिमुपदर्शयति-तदिदमुकं सम्मताविति । पजव० इति- "पर्यायनयव्युत्कान्तं वस्तु द्रव्यार्थिकस्य Page #157 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । 66 पजणयतं वत्थं दग्बट्ठिअस्स वयणिज्जं । जाव दविओवओगो अपच्छिम विकल्प णिश्वयणो " ॥ न्ति [ सम्मतौ का० १, गाथा-८ ] व्याख्या- न विद्यते पश्चिमे विकल्प निर्वचने - सविकल्पधीर्व्यवहारलक्षणो यत्र स तथा सङ्ग्रहा वसान इति यावत्, ततः परं विकल्प वचनाप्रवृत्तेः, ईदृशो यावद् द्रव्योपयोगो प्रर्वतते तावद् द्रव्यार्थिकस्य वचनीयं वस्तु, तच पर्यायनयेन वि- विशेषण, उत्- ऊर्ध्वम्, क्रान्तमेव विषयीकृतमेव, पर्यायानाक्रान्तसत्तायां मानाभावादित्ये कोऽर्थः यद्वा यद् वस्तु सूक्ष्मतर- सूक्ष्मतमादिबुद्धिना पर्यायनयेन स्थूलरूपं त्यजता ( उत्तरत्र सूक्ष्मरूपाश्रयणात् ) व्युत्क्रान्तं गृहीत्वेदमुक्तम्, यथा किमिदं मृत्सामान्यं यत् घटादिविशेषानुपरक्तता विषयीभवेद्' इत्येवमाकारेण यात्रच्छुकुरूपतमोऽन्त्यो विशेषस्तावत् तत् सर्व द्रव्यार्थिकस्य वचनीयता यावदपश्चिमविकल्प निर्वचनो योऽन्त्यः विशेषस्तावद् द्रव्योपयोगः प्रवर्तत इति द्वितीयोऽर्थः । अत एव द्रव्य - पर्यायविषयतया तदितरातिषयतया वा न शुद्धजातीय द्रव्यार्थिक व्यवस्था, किन्तूपसर्जनी कृतानर्थ- प्रधानीकृतस्वार्थविषयतया, तदुक्तम् — " दव्वडिओ त्ति तम्हा णत्थि गयो नियमसुद्धजाईओ । णय पज्जवट्ठिओ णाम को इ भयणाय उ विसेसो " ॥त्ति [ सम्मतौ का० १, गाथा - ९] १२४ 'चचनीयम् । यावद्द्रव्योपयोगोऽपश्चिमविकल्प निर्वचनः " ॥ इति संस्कृतम् । उक्तसम्मतिगाथां विवृणोति न विद्यत इतिअत्र 'न विद्येते विकल्प-निर्वचने सविकल्पधी व्यवहारलक्षणे यत्र स तथ। ' इति पाठः सम्यक्, तथा अपश्चिमविकल्प- निर्वचनः । ततः परं सङ्ग्रहात् परम् । इदृशः सङ्ग्रहावसानः । तञ्च द्रव्यार्थिकवचनीयं वस्तु च । उक्तगाथायाः प्रकारान्तरेण व्याख्यानमुपदर्शयति- यद्वेति । 'स्थूलरूपं त्यज्यता' इत्यस्य समर्थकम् - 'उत्तरत्र सूक्ष्मरूपाश्रयणाद्' इति । 'गृहीत्वेदमुक्तम्' इत्यस्य स्थाने ‘गृहीत्वा त्यक्तम्' इति पाठो युक्तः, गृहीत्वा त्यक्तमित्येव भावयति - यथेति । 'उपरक्तता विषयीभवेद्' इत्यस्य स्थाने 'उपरकं सद् विषयीभवेद्' इति पाठो युक्तः । ' याचच्छुक्कुरूपतमः' इत्यस्य स्थाने 'यावत्सूक्ष्मरूपतमः' इति पाठो युक्तः । 'वचनीयता' इति स्थाने 'वचनीयम्' इति पाठः सम्यक् । निर्गलितार्थमाह- यावदपश्चिमेति । अत एवेति - यत एव सङ्ग्रहावसान यावद् द्रव्योपयोगः प्रवर्तते तत् सर्वं द्रव्यार्थिक वक्तव्यं पर्यायनयेन विषयीकृतमेव, तथाऽन्त्यविशेषं यावत् पर्यायनयेन गृहीत्वा मुक्तं तत् सर्वं द्रव्यार्थिकस्य वक्तव्यमित्येवमशेषस्य द्रव्यार्थिकनयविषयस्य पर्यायनयविषयत्वमशेषस्य पर्यायार्थिकनयविषयस्य द्रव्यार्थिकनयविषयत्वमेतस्मादेव कारणात् । द्रव्येति द्रव्यविषयको नयः शुद्ध जातीयद्रव्यार्थिकः, पर्यायविषयो नयः शुद्धजातीयपर्यायार्थिक इति द्रव्येतराविषयको नय शुद्धजातीय द्रव्यार्थिकः पर्यायेतराविषयको नयः शुद्धजातीय पर्यायार्थिक इति वा व्यवस्था न सम्भवति, पर्यायार्थिकस्यापि द्रव्यविषयकत्वाद् द्रव्यार्थिकस्यापि पर्यायविषयकत्वाद् द्रव्यार्थिकस्य द्रव्येतरपर्यायविषयकत्वेन द्रव्येतराविषयकत्वासम्भवात् पर्यायार्थिकस्यापि पर्यायेतरद्रव्यविषयकत्वेन पर्यायेतराविषयकत्वासम्भवादित्यर्थः । तर्हि शुद्ध जातीय द्रव्यार्थिक पर्यायार्थिकव्यवस्था कथमिति पृच्छति किन्त्विति । उत्तरयतिउपसर्जनीकृतेति - ' उपसर्जनीकृतानर्थ' इति स्थाने 'उपसर्जनीकृतान्यार्थ ' इति पाठो युक्तः, तथा चोपसर्जनीकृतपर्याय- प्रधानीकृतद्रव्यविषयको नयः शुद्धजातीयद्रव्यार्थिकः, उपसर्जनीकृत द्रव्य-प्रधानीकृतपर्याय विषयको नयः शुद्धजातीय पर्यायार्थिक इत्येव व्यवस्था युक्तेत्यर्थः । वस्तुतो द्रव्यार्थिकेऽप्युपसर्जननया पर्यायस्य, पर्यायार्थिकेऽप्युपसर्जनतया द्रव्यस्य नियमतो विषयत्वेन न शुद्ध जातीयो द्रव्यार्थिकः पर्यायार्थिको वा व्यवस्था तु द्रव्यार्थिकत्व पर्यायार्थिकत्वाभ्यामेव न तत्र शुद्ध जातीयत्वमेव प्रविशतीति बोध्यम् । उक्तार्थे सम्मतिसंवादमाह तदुक्तमिति । दव्वट्ठिओ० इति - " द्रव्यार्थिक इति तस्मान्नास्ति नयो नियमशुद्ध जातीयः । न च पर्यवार्थिको नाम कोऽपि भजनायास्तु विशेषः " ॥ इति संस्कृतम् । भजनया तु द्रव्यार्थिक-पर्याया Page #158 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । भजना - उपसर्जन प्रधानभावावगाहना, आह सामान्यसङ्ग्रहेऽपि शुद्धद्रव्यार्थैकान्तिको न स्यादिति चेत् ? न स्यादेव, पर्यायनयविचारानवतारदशायामेव तस्य शुद्धत्वव्यवस्थितेः, तदवतारे तु पूर्वप्रवृतद्रव्यार्थिकाप्रामाण्यनिश्चयेन तदर्थाभावस्यैव निश्चयात्, तदुक्तम् " दव्वट्ठिअवत्तव्यं अवत्थु नियमेण होइ पज्जाए । तह पज्जववस्तु अवत्थमेव दव्वट्टि अनयस्स 11 [ सम्मतौ का० १, गाथा - १० ] अवस्तु- इतरनयप्राधान्योपस्थितिज नितनयाप्रामाण्यनिश्च यकृता वस्त्वनिश्चयविषयः, तस्मात् पर्यायविनिर्मुक्तप्रकाराकस्य पर्यायनिष्ठोपसर्जनत्वाख्यविषयताकस्य वा द्रव्यार्थिकस्य तत्तकपनीत स्वार्थ विचारदशायामेव शुद्धत्वम्, पर्यायनयार्थान्तरभावाकाङ्क्षायां चाशुद्धत्वमिति विवेकः ।। १५ ।। पर्यायार्थिक मतमुपन्यस्यति - ܕܕ पर्यायार्थमते द्रव्यं पर्यायेभ्योऽस्ति नो पृथक् । १२५ यत् तैरर्थक्रिया दृष्टा नित्यं कुत्रोपयुज्यते ? ॥ १६ ॥ ) 1 नयामृत - पर्यायार्थमत इति । पर्यायार्थमते द्रव्यं द्रव्यपदार्थः सदृशक्षणसन्ततिरेव न तु र्थिकयोर्विशेषस्तत्र का नाम भजनेत्यपेक्षयामाह - भजनोपसर्जन- प्रधानभावावगाहनेति - द्रव्यार्थिकेन पर्यायस्योपसर्जनमा - वेन द्रव्यस्य प्रधानभावेन याऽवगाहना, या व पर्यायार्थिकेन द्रव्यस्योपसर्जनभावेन पर्यायस्य प्रधानभावेनावगाहना सा भजनेत्यर्थः। अत्र पराशङ्कामुत्थाप्यापहस्तयति- आहेति - परो वक्तीत्यर्थः । सामान्यसङ्ग्रहेऽपि महासामान्य सत्त्वावगाहिनि सङ्ग्रहनयेऽपि । 'शुद्धद्रव्यार्थैकान्तिको न स्याद्' इत्यस्य स्थाने 'शुद्धद्रव्यार्थतैकान्तिकी न स्याद्' इति पाठो युक्तः । प्रन्थकार आह-न रुपादेवेति- सामान्य सङ्ग्रहेऽपि शुद्धद्रव्यार्थतैकान्तिकी न स्यादेवेत्यर्थः तथा चोक्तापादनमिष्टापादत्वान्न दोषावहमिति भावः । तर्हि सामान्यसङ्ग्रहः शुद्धद्रव्यार्थिक इति व्यवहारस्य का गतिरित्यपेक्षयामाह - पर्यायेति यदा पर्यायनयविचारो नावतरति तदानीमेव सामान्यसङ्प्रहाख्यद्रव्यार्थिकस्य शुद्धत्वव्यवस्थितेरित्यर्थः । तदवतारे तु पर्यायनयविचारावतारे पुनः । पूर्वेति- पर्यायनयविचारावतारात् पूर्वं प्रवृत्तो यो द्रव्यार्थिको द्रव्यार्थिकनयस्तस्मिन् पश्चात् प्रवृत्तेन पर्याय - र्थिकनय विचारेण योऽप्रामाण्यनिश्चयो द्रव्यार्थिकनयो न प्रमाणमित्याकारकस्तेन, तदर्थाभावस्यैव द्रव्यार्थिकनय विषयाभावस्यैव निश्चयात् तथा च द्रव्यार्थिकनयविषयस्य द्रव्यवस्तुन एवाभावे तच्छुद्धताया अध्यभावान्न तद्विषयकस्य सामान्यसम्प्रहात्मकद्रव्यार्थिकनयस्य शुद्धत्वमित्यर्थः । इत्थं च पर्यायार्थिकनय विचारदशायां द्रव्यार्थिकनय विषयोऽवस्तुतयैव निश्चीयते, द्रव्यार्थिकनयविचारदशायां पर्यायार्थिकनयविषयोऽप्यवस्तु तयैव निश्चीयत इत्यत्र सम्मतिसंवादमाह तदुक्तमिति । दव्वडिअ० इति - " द्रव्यार्थिकव कव्यमवस्तु नियमेन भवति पर्याये । तथा पर्यववस्तु अत्रस्त्वेव द्रव्यार्थिकनयस्य " ॥ इति संस्कृतम् । ननूक्तरीत्या द्रव्यार्थिक पर्यायाथिंकविषययोरवस्तुत्वे सामान्य विशेषयोर्द्वयोरप्यभावाद् वस्तुकथैवोच्छिद्येत, नवा वस्तु केनाप्यवस्तु कर्तुं शक्यमतोऽवस्त्वित्यस्यार्थमाह- अवस्त्विति । इतरेति द्रव्यार्थिकनयव्यतिरिक्तस्य पर्यायार्थिकनयस्य प्राधान्येन योपस्थितिस्तज्जनितो नयस्य द्रव्यार्थिकस्य योsप्रामाण्यनिश्चयस्तत्कृतो योऽवस्तुत्वनिश्चयस्तद्विषयो द्रव्य । र्थिकन यविषयो भवति, एवं पर्यायार्थिकन यव्यतिरिक्तस्य द्रव्यार्थिकनयस्य प्राधान्येन योपस्थितिस्तजनितो नयस्य पर्यायार्थिकनयस्य योऽप्रामाण्यनिश्चय स्तत्कृतो योऽवस्तुत्वनिश्चयस्त विषयः पर्यायार्थिकनयविषयो भवतीत्यर्थः । द्रव्यार्थिकस्य शुद्धत्वा शुद्धत्वविवेकमुपसंहरति-तस्मादिति । स्वार्थविचारेति - द्रव्यार्थिकनयार्थविचारेत्यर्थः । पर्यायनयार्थान्तरभावाकाङ्क्षायां पर्यायनयविषयीभूतपर्याय रूपद्रव्यभिन्नार्थभावापेक्षायाम् ||१५|| षोडशपद्यमवतारयति - पर्यायेति । विवृणोति- पर्यायार्थमत इतीति स्पष्टम् । भावार्थमुपदर्शयति- अयं भाव इति । अन्यैः नित्यद्रव्याभ्युपगन्तृभिः पर्यायमात्राभ्युपगन्तृभिन्नैर्वा । यत् किञ्चिदिति - सत्तासामान्यलक्षणम् उत्पाद Page #159 -------------------------------------------------------------------------- ________________ १२६ नयामृतसरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। पर्यायेभ्यः पृथगस्ति, यत्- यस्मात् कारणात् , तैः-पर्यायैः, अर्थक्रिया- जलाहरणादिरूपा दृष्टा, नित्यमप्रच्युता ऽनुत्पन्न-स्थिरैकस्वभावं वस्तु कुत्रोपयुज्यते ? न कुत्रचिदित्यर्थः, अयं भावः- सत्त्वं तावदन्यैर्यत् किश्चित् परिभाष्यताम् , अस्मन्मते तु भावानां प्रत्यक्षसिद्धमर्थक्रियाकारित्वमेव तत् , तच्च क्रमयोगपद्याभ्यां व्याप्तम् , नहि क्रमा-ऽक्रमाभ्यामन्यः प्रकारः शङ्कितुमपि शक्यते, व्याघातस्योद्भवात्, न क्रम इति निषेधादेवाक्रमस्य, नाक्रम इति निषेधादेव च क्रमस्योपगमात् , अभ्युपगमश्च प्रतिक्षेपं व्याहन्तीति क्रमा-ऽक्रमौ स्थिरेऽसम्भवन्तौ अर्थक्रियामपि ततो व्यावर्तयतः । न च 'मो नानाकालीन. कार्यजनकत्वं स्वकार्यप्रागभावसमानकालीनकार्य जनकत्वं वा, अक्रमश्चैकदा यावत्स्वकार्यजनकत्वम्' इति, कारितागर्भत्वेन व्यावर्त्य-व्यावर्तकयोरविशेषः, कारिताद्वयव्यावृत्या तत्सामान्यव्यावृत्यापादाने तात्पर्यात् , समर्थो हि भावो वर्तमानार्थक्रियाकरणकालेऽतीतानागतेऽर्थक्रिये कुर्यादेव, यत्काले यत्करणसमर्थ तत्काले तदुत्पादकत्वमिति व्याप्तः, असमर्थत्वे तु पूर्वा-ऽपरकालयोरप्यकरणापत्तिः, समर्थोऽप्य. व्यय ध्रौव्ययुक्तत्वरूपं त्रिगुणात्मकप्रकृत्यात्मकत्वरूपं प्रतीतिकालसत्त्व-व्यावहारिकसत्त्व-पारमार्थिकसत्त्वान्यतमात्मकमित्यादिस्वस्वसिद्धान्तानुगुणमित्यर्थः । परिभाष्यताम् आधुनिकस्मस्वसङ्केतविषयः क्रियताम् , युक्त्याऽघटमानत्वेन परपरिकल्पितस्वरूपस्य तस्य वस्तुत्वाभावादित्याशयः। अस्मन्नते पर्यायार्थिकन यमते। 'प्रत्यक्षसिद्धम्' इत्यनेन प्रमाणसिद्धस्य तस्य सर्वैरप्युपादेयत्वमित्याविष्कृतम् । तत् सत्त्वम्। अर्थक्रियाकारित्वलक्षणं सत्त्वं च नित्यतया पराभिमते द्रव्ये न सम्भवतीति न तत् सदित्युपपादनायाह- तच्चेति- अर्थक्रियाकारित्वं चेत्यर्थः । क्रमकारित्व-युगपत्कारित्वाभ्यामन्यस्य प्रकारस्य सम्भवे तेन रूपेणार्थक्रियाक रिणि वर्तमानमर्थक्रियाकारित्वं व्यभिचारान्न कम-योगपद्याभ्यां व्याप्तं स्यादतस्तथाभूतप्रकारस्यासम्भवमुपदर्शयति-नहीति- अस्य 'शक्यते' इत्यनेनान्वयः। क्रमा-ऽक्रमव्यतिरिक्तप्रकाराभ्युपगमे व्याघातमेव भावयतिन क्रम इतीति । 'अक्रमस्य' इत्यस्य 'उपगमाद्' इत्यनेन सम्बन्धः । न क्रम इत्येवं निषेधे अक्रमस्याभ्युपगम आयाति, स च नाक्रम इत्येवनक्रमप्रतिक्षेपं विरुणद्धि, तथा नाकम इत्येवं निषेधे क्रमस्याभ्युपगमः प्राप्नोति, स च न क्रम इत्येवं क्रमप्रतिक्षेपं हिनस्तीत्याह- अभ्युपगमश्चेति । यदा च क्रमा-ऽक्रमाभ्यां व्याप्तमर्थक्रियाकारित्वलक्षणं सत्त्वं व्यवस्थितं तदा व्यापकीभूतयोः क्रमकारित्वा ऽक्रमकारित्वयोर्यत्राभावस्तत्रावश्यं तव्य प्यस्यार्थक्रियाकारित्वस्याप्यभावः, व्यापकाभावस्य व्याप्याभावव्याप्यत्वात् , एवं च क्रमा-क्रमरूपव्यापफस्याभावात् स्थिरे व्याप्यस्यार्थक्रियाकारित्वस्याभाव: सिध्यतीत्याह-क्रमा-ऽक्रमाविति । ततः स्थिरात् । ननु क्रमा-ऽक्रमयोरर्थक्रियाकारित्वरूप एव पर्यवसानात् तदभावयो. रप्यैक्यान क्रमा-क्रमाभावतोऽर्थक्रियाकारित्वाभावसाधनं सम्भवतीत्याशङ्कय प्रतिक्षिपति-न चेति । स्वकार्येति-यत् क्रमेण कार्य करोति तस्य स्वकार्य यद् द्वितीयादि कार्य पूर्वकार्योत्तरकालभावि तत्प्रागभावसमानकालीनं तत्पूर्वकालभाविकार्य तजनकत्वं समस्तीति । निषेधे हेतुमाह-कारिताद्वयव्यावृत्त्येति- क्रमकारित्वा-ऽक्रमकारित्वोभयव्यावृत्येत्यर्थः, विशेषाभावकूटस्य सामान्याभावव्याप्यत्वेन सामान्याभावसाधकत्वं सर्वानुमतमिति प्रकृतेऽपि क्रमकारित्वाऽक्रमकारित्वे कारित्वसामान्यस्य विशेषरूपे इति क्रमकारित्वाभावा-ऽक्रमकारित्वाभावोभयेन विशेषाभवकूटरूपेण कारित्वाभावस्य सामान्याभावरूपस्यापादने दोषाभावादित्यथः । नित्यस्य द्रव्यस्य तावद् युगपदर्थक्रियाकारिते स्वकार्यत्वेनाभिमतानामशेषाणामपि प्रथमक्षग एव करणे द्वितीयक्षणे करणीयस्य कस्यापि कार्यस्थाभावे तत्कारित्वलक्षणसत्त्वस्याभावान्नित्यत्वं न स्यात्, तथैकस्मिन्नपि क्षणे येन स्वभावेन ककार्यकारित्वं तेनैव स्वभावेनान्यकार्यकारित्वे एक कार्यस्य यद् रूपं तत्स्वभावजनितं तदेव रूपनन्यकार्याणामपि तत्स्वभावजनितमित्यशेषकार्यस्य कारणैकस्वभाव जनितकस्वभावस्यानुषङ्गः, यदि च यावन्ति कार्याणि तावत्कार्यानुगुणानेकस्तभाववत्वमर्थादेकेन स्वभावेनैककार्यजनकत्वं तद्भिन्नेन स्वभावेनापरकार्यजनकत्वमित्येवमनेकस्वभाववत्त्वम् , तथा सति स्वभावभेदेन कारणभेद आवश्यक इति नैकस्य कारणस्य युगपदनेककार्यकारित्वमित्येवं स्थिरादू युगपत्कारित्वस्य व्यावृत्तिः, क्रमकारित्वं यथा स्थिराद् व्यावर्तते तथोपदर्शयति-समर्थो हीति- यदा यत् कार्य प्रति यः समर्थस्तदा तत् कार्य स करोत्येवेति वर्तमानक्रियाकरणकाले वर्तमानक्रियां प्रति समर्थो भावो यथा वर्तमानक्रियां Page #160 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कतो नयोपदेशः। पेक्षणीयासन्निधेर्न करोतीति चेत् ? केयं सहकारिणामपेक्षा ? किं तैः सह करोतीत्यन्वयपर्यवसितः स्वभाव (वा)भेदः १ उत तैर्विना न करोतीति व्यतिरेकिनिष्टं स्वरूपम् २, आहोस्वित् तैरुपकृतः करोती. त्युपकारभेदः ३ १, न प्रथमः-सहकार्यभावकालेऽपि स्वभावस्य तादवस्थ्यात् तदा तत्कार्यकरणापत्तेः, तत्स्वभावताइवस्थ्य एव तैः सहैव करोतीति स्वभावहानिभिया तदा न कार्य करोतीति चेत् ? स तर्हि स्वभावाभेदः सहकारिसाहित्ये सति कार्यकरणनियतः सहकारिणो न जह्यात् , प्रत्युत स्वगल एव बनीयात् । अत एव न द्वितीयः- अकर्तृस्वभावापरावृत्तेः, स हि स्वभावः कालान्तरे उपनयतोऽपि सहकारिणः पराणुद्य कार्य प्रतिबध्नीयात्, तद्विरहादकर्तृशीलः खल्वयमिति; अथ सहकारिषु सत्सु कर्तृस्वभावस्तद्विरहे त्वकर्तृरूपोऽयमित्यभिप्रायः, विरुद्धधर्माध्यासस्तर्हि भावं भिन्द्यात् ; न चायं कालभेदेन करोति तथाऽतीतानागतक्रिये प्रति समर्थोऽतीतानागते अपि कुर्यादेवेत्यर्थः, अतीतानागतेऽर्थक्रिये' इत्यस्य स्थाने 'अतीतानागते अर्थक्रिये' इति पाठो युक्तः, अतीता चानागता चेत्यतीता ऽनागते, ते अतीतानागते इति द्वितीयाया द्विवचनान्तमेतत् , एवमर्थक्रिये अपि । समर्थोऽपि भावो वर्तमानक्रियाकरणकाले अतीता-ऽनागते अर्थक्रिये न करिष्यतीत्युपगमो न सम्भवति, तत्प्रतिपन्थिन्या 'यत्काले यस्य यत्करणसामर्थ्य तत्काले तस्य तदुत्पादकत्वम्' इति व्याप्तेः सद्भावादित्याह-यत्काल इतिअत्र : यत्काले यस्य यत्करणसामर्थ्य तस्य तत्काले तदुत्पादकत्वमिति व्याप्तेः" इति पाठो युक्तः । ननु स्थिरस्थापि भावस्य वर्तमानक्रियाकरणकाले अतीतानागते अर्थक्रिये प्रति न सामर्थ्य मतो नातीतानागते अर्थक्रिये तदानीं विदधातीत्यत आह- असमर्थत्वे विति- यद् यत्कार्य प्रति न समर्थं तत् तत्कार्य कदाचिदपि न करोति, यथाऽङ्कुरं प्रत्यसमर्थ शिलाशकलं कदाचिदपि नाङ्करं करोति, अतीतानागते अर्थक्रिये प्रति असमर्थ च प्रकृतमिति प्रयोगोऽत्र ज्ञेयः। पूर्वेतिस्थिसे भावः पूर्वकाले पूर्वकालीनं कार्य करोति. उत्तरकाले उत्तरकालीन कार्य करोतीत्येवं पूर्वा-ऽपरकालयोः कार्ययोर्यत् करणं तदभावः प्रसज्यत इत्यर्थः । द्रव्यवादो शङ्कते- समर्थोऽपीति- वर्तमानक्रियाकरणकाले भावोऽतीता-ऽनागते अर्थक्रिये प्रत्यपि समर्थ एव, किन्तु तदुत्पादनेऽपेक्षणीयस्य सहकारिणो वर्तमानक्रियाकरणकालेऽसन्निधेस्तदानीमतीता-ऽनागते अर्थक्रिये न करोतीत्यर्थः । समाधत्ते-केयमिति । तैः सहकारिभिः, एवमग्रेऽपि । 'व्यतिरेकिनिष्टम्' इत्यस्य स्थाने 'व्यतिरेकनिष्ठम्' इति पाठो युक्तः, तस्य व्यतिरेकपर्यवसितमित्यर्थः । न प्रथम इति-तैः सह करोतीति प्रथमपक्षो न युक्त इत्यर्थः, तैः सह करोतीति योऽयमस्य स्वभावः स यदि सर्वदाऽस्य भवेत् तदैव स तस्य स्वभावः स्यात्, एवं च यदा न सहकारिसमवधानं तदापि स स्वभावस्तस्य समस्त्येवेति तद्वलादतीता ऽनागते अपि अर्थक्रिये तदानीं कुर्यादेवेत्यर्थः । द्रव्यबाढी आह-तत्स्वभावेति - यदा न सहकारिसमवधानं तदानीमपि तैः सह करोतीति स्वभावस्तस्य तदवस्थ एव, यदि तदानीं कार्य कुर्यात् तर्हि सहकारिणामभावेऽपि कार्यकारित्वमापतितमस्येति तैः सह करोतीति स्वभाव एव विलायतेत्युक्तस्वभावरक्षार्थमेव तदानीं कार्य न करोतीत्यर्थः, तैः सह करोतीति स्वभावो हि सहकारिसाहित्य सति यत् कार्यकरणं तेन नियतः, यश्च येन नियतः स तस्मिन् सत्येवावतिष्ठते, अन्यथा तन्नियतत्वमेव तस्य न स्यात् , एवं च सहकारिभिः सह करोतीति स्वभावस्य सर्वदाऽवस्थाने तय पकस्य सहकारित्वे सति कार्यकरणस्यापि सर्वदावस्थानमेव, तच तदा स्याद् यदि सहकारिसाहित्यमपि सर्वदा स्यात् , अन्यथा सहकारिसाहित्ये सति कार्यकरणमित्येव न भवेत् , तथा चोक्तस्वभावरक्षार्थ पलायमानानपि सहकारिणो गले बनीयादेव, न तु कदाचिदपि जह्यादित्यर्थः । अत एव स्वस्त्रभावापरित्यागादेव । न द्वितीय इति-तैर्विना न करोतीति द्वितीयपक्षोऽपि न सम्भवतीत्यर्थः । 'अत एव' इत्यतिदिष्टमेव हेतुमुपदर्शयति- अकर्तृस्वभावापरावृत्तेरिति- सहकारिसमवधाने सत्यपि सहकारिभिर्विना न करोतीति स्वभावस्यापरावृत्तरप्रच्यवादित्यर्थः । सहकारिराहित्ये तत्कार्याकरणं तन्नियतः खलु सहकारिभिर्विना न करोतीति स्वभावः, स च सर्वदा समस्तीति तद्व्यापकं सहकारिराहित्ये सति कार्याकरणमपि सर्वदा भवेत्, तत्स्वरूपसन्निविष्टं सहकारिराहित्यमपि सर्वदैव भवितुमर्हतीति स्वसन्निधापककारणबलादापततोऽपि सहकारिणो दूरीकृत्य स्वकार्य न कुर्यादेव, अन्यथा सहकारिभिर्विना न करोतीति स्वभाव एव तस्य न सुरक्षित इत्याह-स हीति । पर हादसास्य । तद्विरहात सहकारिविरहात् । अयं स्थिरो भावः। द्रव्यवादी स्वाभिप्रायमुद्घाटयति- अथेति । तद्विरहे पक्रियेत करोती गयकारितासह Page #161 -------------------------------------------------------------------------- ________________ १२८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । परिहर्तव्यः, प्रतीत्योत्पत्तिकधर्मसमुदायाद्धर्मिणोऽनतिरेकात्, अन्यथा तस्य सामर्थ्या-ऽसामर्थ्याभ्यां भिन्नस्य निरुपाख्यत्वापत्तेः; न च परं प्रत्यापाद्याप्रसिद्धिः, अयमकुरो यदि स्वधर्मभिन्नः स्यादकुरो न स्यात् पटवदित्यापादानार्थत्वात् । उपकारपक्षस्त्वनेकमुखानवस्थादुस्थतयोपन्यासानह एवेति । न च, क्षणिकपक्षेऽपि निरपेक्षत्वात् कदाचिदपि कार्यानुत्पत्तेः सापेक्षस्यैवार्थक्रियाकारित्वमाश्रयणीयम , तत्त्वं च नानुपकारपेक्षायामतिप्रसङ्गात्, उपकारापेक्षायां चानवस्थादौस्थ्यमेव, तथा पुञ्जात् पुञ्जोत्पत्तौ बीज. मपि पवनपाथस्तेजोऽइकुरान् जनयतीति पक्षे किं येनैव स्वभावेनाकुरं करोति तेनैव पवनादीन् अन्येन वा ? नाद्यः- एकस्वभावाधीनत्वेन कार्याणामभेदप्रसङ्गात्, पवनादिकं यदि यावदकुरप्रयोज्यं सहकारिविरहे। पर्यायवादी उत्तरयति-विरुद्धधर्माध्यास इति- 'अयमेव भेदो भेदहेतुर्वा, यदुत-विरुद्धधर्माध्यासः, स च चेन्न भेदको विश्वमेकं स्याद् ' इति वचनाद् विरुद्धधर्माध्यासस्य भेदकत्वमविगानेन मन्तव्यम् , तथा च सहकारिषु सस्सु कर्तृत्वं सहकारिविरहे त्वकर्तृत्वमित्येवं विरुद्धधर्माध्यासः स्थिरं भावं भिन्द्यादित्यर्थः। ननु यदा सहकारिसमवधानं तत्कालावच्छेदेन सहकारिषु सत्सु कर्तृत्वमित्ययं स्वभावः, यदा च न सहकारिसमवधानं तत्कालावच्छेदेन सहकारिविरहेऽकर्तृत्वस्वभाव इत्येवं कालावच्छेदकभेदे कत्रापि भावरूपधर्मिण्युक्तस्वभावदयस्य सम्भवेन न विरोध इति परिहृतविरोधस्य स्वभावदयस्थ सद्भावतो न भेदापत्तिरित्याशङ्कय प्रतिक्षिपति-न चेति । अयं निरुक्तकर्तृत्वाकर्तृत्वस्व. भावयोर्विरोधः, सहकारिसमवधाने सति कर्तृत्वस्वभावः सहकारिसमवधानादुत्पद्यते, सहकारिविरहेऽकर्तृत्वस्वभावः सहकारिविरहादुत्पद्यते इति स्वभाव-तद्वतोरभेदात् स्वभावोत्पादे स्वभाववतोऽप्युत्पत्तिरित्येवमपि भावस्य भेदः स्यादेवेति निषेधहेतुमुपदर्शयति-प्रतीत्येति- किच्चिदपेक्ष्योत्पत्तिको यो धर्मस्तत्समुदायाद्धर्मिणोऽनतिरेकादभेदात् , तथा च धर्मोत्पादे धर्मिण उत्पाद आवश्यक इति न नित्यत्वं तस्येत्यर्थः । अन्यथा धर्मसमुदायाद्धर्मिणोऽभेदानभ्युपगमें। तस्य कारणतयाऽभिमतस्य भावस्य । निरुपाख्यत्वापत्तेः अलीकत्वापत्तेः । ननु भावो यदि सामर्थ्या-ऽसामर्थ्याभ्यां भिन्नः स्यात् निरुपाख्यः स्यात् शशशृङ्गवदित्येवमापादनमत्राभिमतम् , तच्च द्रव्यवादिनं प्रति न सम्भवति, तन्मते असत्ख्यातेरनभ्युपगमेनासत आपादनासम्भवादित्याशङ्कय प्रतिक्षिपति-न चेति । परं प्रति द्रव्यवादिनं प्रति । आपाधाप्रसिद्धिरिति- यदेव क्वचित् प्रसिद्धं तस्यैवांपादनं भवति, अलीकं त्वसत्ख्यात्यनभ्युपगन्तद्रव्यार्थिकमते न क्वचित् प्रसिद्धमिति तस्यापादनं न सम्भवतीत्याशयः । निषेधहेतुमाह-अयमिति- अत्राङ्कुरभेद आपाद्यः, स च परमतेऽपि प्रसिद्ध एवेति । सहकारिभिरुपकृतः कार्य करोतीति तृतीयपक्षस्य दुष्टत्वमुपदर्शयति-उपकारपक्षस्त्विति । अनेक मुखेति- सहकारिभिराधीयमान उपकारो भावाद् भिन्नोऽभिन्नो वा?, आद्ये भेदे सम्बन्धायोगादुपकारसम्बन्धाभावादनुपकृत एव भावः स्यात्, भिन्नेनाप्युपकारेण भावे कश्चिदुपकारः क्रियत इत्युपकृतो भवति भाव इति याच्यते तदा सोऽप्युपकारो भावाद् भिन्न एवेति तस्मिन् जातेऽपि भावोऽविचलितरूप एवेत्यनुपकृत एव स्यात् , तेनाप्युपकारेणोपकारान्तराधानेऽनवस्था स्यादित्येवं दिशाऽनेकानवस्थादुःस्थत्वं बोध्यम् । द्रव्यवादिनः पर्यायवाद्यद्भावितं स्वपक्षगतदोषकदम्बकं तन्मतेऽपि संलग्नमित्याशङ्कामुद्भाव्य पर्यायवादी प्रतिक्षिपति - न चेति- अस्य ‘वाच्यम् ' इत्यनेन सम्बन्धः। तत्त्वं च सापेक्षस्वार्थक्रियाकारित्वं च । अनुपकारापेक्षायाम् उपकारेण जनकतया हीनोऽनुपकारः, अनुपकारी, एवम्भूतस्य सहकारिणोऽ. पेक्षायामित्यर्थः। अनुपकारिसहकार्यपेक्षयाऽर्थक्रियाकारित्वे बीजं यथा सलिलादिकमपेक्ष्याङ्करं करोति तथोपलखण्डादिकमपेक्ष्याप्यङ्करं विदध्यादित्येवमतिप्रसङ्गानानुपकारिसहकार्यपेक्षातः कार्यकारित्वं क्षणिकस्यापीत्याह- अतिप्रसङ्गादिति। उपकारिणं सहकारिणमपेक्ष्य क्षणिकः स्वकार्थमर्जयतीत्युपगमे उसकारेऽपि कर्तव्ये सहकारी उपकारिणं सहकारिणमपेक्षेत, अन्यथाऽतिप्रसङ्गस्यात्रापि प्रसङ्ग इत्येवमुपकारिसहकार्यपेक्षायामनवस्था क्षणिकेऽपि संलनैवेत्याह- उपकारापेक्षायां चेति। पुञ्जात् पुञ्जमुत्पद्यत इति क्षणिकवादिराद्धान्तोऽपि दोषग्रस्त एवेत्याह-तथेति । नाद्य इति- बीजं येनैव स्वभावेनाङ्करं करोति तेनैव स्वभावेन पवनादीन् करोतीति प्रथमपक्षो न युक्त इत्यर्थः । निषेधे हेतुमाह-एकस्वभावाधीनत्वेनेतिएकस्वभावेनानेककार्यकारित्वलक्षणमापादकं कारणे, आपाद्यं चाभेदः कार्येष्वित्यापाद्या ऽऽपादकयोवैयधिकरण्यादापाद्यापादकभावो न भवेदतः कार्येष्वेकस्वभावाधीनत्वस्यापादकत्वमभेदस्य चापाद्यत्वमाश्रित्येत्थमुक्तिः, तथा च कार्याणि यदि कारणैकस्वभावा Page #162 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । १२९ स्यादङ्करं स्यादित्यापादयितुं शक्यत्वात्, न द्वितीयः- एकस्यापि क्षणस्य स्वभावभेदेन भेदापत्तेः, तव मते स्वभाव-स्वभाववतोरभेदाभ्युपगमादिति वाच्यम् ; इतरसाहित्यनियतायां फलोपधानलक्षणाया. मपेक्षायां क्षणिकस्य सापेक्षत्वादेव समर्थस्य सहकार्यव्यभिचारात्, योग्यत्वे सतीतरव्यतिरेकात् कार्याभाववत्वलक्षणायां चापेक्षायां तस्य निरपेक्षत्वादेव तैर्विना तस्यासत्त्वात् विशिष्टार्थानिर्वचनात्, स्थिरस्य तु भावस्य तैर्विनापि समर्थत्वे कार्यकरणप्रसङ्गस्य वज्रलेपत्वात् , एकस्यैवानेककार्यकारिस्वभावस्य स्वकारणादुत्पत्तेः कार्यभेदेन स्वभावभेदापादनस्य च दूरे निरसनात् ; एतेनानकुरस्य पवनादेरकुरत्वे. नैकजातीयताप्रसङ्गः, अनङ्करदेशस्य तद्देशीयतया एकदेशप्रसङ्गश्च निरस्तः, नानाजातीय-नानादेशीयकार्यकारित्वलक्षणैकस्वभावत एव स्वहेतोरुत्पत्तेरभ्युपगमात् , न चास्थैर्येऽप्येष न्यायः सम्भवति, तदुत्पत्तेधीनानि स्युरभिन्नानि स्युरित्येवं प्रसञ्जने नापाद्या-ऽऽपादकयोवैयधिकरण्यम् । एतावता सामान्यतः प्रसञ्जनस्य सुग्रहत्वेऽपि विशेषतः प्रसञ्जनं न सुग्रहमित्यत आह-पवनादिकमिति- बीजं यथा येन स्वभावेनाङ्करं करोति तेनैव स्वभावेन पवनादीन् , तथा पवनोऽपि येन स्वभावेनाङ्करं करोति तेनैव स्वभावेन पवनादीन् . एवं कारणान्तरमपीत्यङ्करप्रयोजका यावन्तः कारणाना स्वभावास्ते सर्वे पवनादिकार्यप्रयोजका इति यावदङ्कुरप्रयोजकप्रयोज्यत्वलक्षणमापादकं पवनादिषु समस्तीति, “ यावदकुरप्रयोज्यं स्यात्" इत्यस्य स्याने यावदङ्करप्रयोजकप्रयोज्यं स्यात्' इति पाठो युक्तः । न द्वितीय इति- बीजमेकेन स्वभावनाङ्करं करोति, अन्येन स्वभावेन पवनादीन् करोतीति द्वितीयपक्षोऽपि न युक्त इत्यर्थः । निषेधे हेतुमाह-एकस्यापीति-क्षणमात्रवृत्तित्वात् क्षणरूपस्यै कस्यापि बीजस्याङ्कुरजननोपयोग्येकस्वभावः पवनजननोपयोग्यपरस्वभावः पाथोजननोपयोग्यन्यस्वभाव इत्येवं स्वभावभेदेन भेदप्रसङ्गादित्यर्थः । न चैकस्यापि कार्यभेदेनानेके स्वभावा भवन्तु नाम, तावतात. नेकस्वभावत्वमेवास्य भवेन्न तु भेद इत्यत आह-तय मत इति-पर्यायवादिनो मते इत्यर्थः, यदि स्वभावभेदेऽपि स्वभाववतो भेदो न भवेन्न तर्हि स्वभावस्वभाववतोरभेदो भवेत् , अभ्युपगम्यते च पर्यायवादिना तयोरभेद इति तदभ्युपगमबलादेव स्वभावभेदे स्वभाववतो भेदोऽभ्युपगन्तव्य इत्यर्थः । द्रव्यवादिनत्थं पल्लविताया आशङ्कायाः प्रतिक्षेपस्य हेतुं पर्यायवादी दर्शयति- इतरसाहित्यनियतायामिति-क्षणिकस्याङ्कुरकुर्वद्रूपात्मकस्य बीजस्य याऽङ्कुरलक्षणकार्य प्रति फलोपधानलक्षणा कारणता सैवापेक्षा, सा सहकारिनियतैव, इनरसहकारिसहितस्यैव बीजस्य सापेक्षत्वादेव फलोपधानलक्षणसामर्थ्यवतो नियमेन सहकारिसमवहितत्वमिति सहकार्यव्यभिचारान्नोपकारापेक्षानिबन्धनाऽनवस्थादुःस्थता क्षणिकपक्षे इत्यर्थः । स्वरूपयोग्यतालक्षण. कारणता तु क्षणिके नाभ्युपगम्यत एव पर्यायवादिनेति स्वरूपयोग्यतालक्षणकारणतामादृत्य या योग्यत्वे सतीतरव्यतिरेकात् कार्याभावत्त्वलक्षणाऽपेक्षा सा नास्त्येव क्षणिके इति तादृशापेक्षाराहित्यलक्षणनिरपेक्षत्वादेव क्षणिकस्य स्वकार्यकारित्वं समस्त्येवोक्तनिरपेक्षत्ववत एव क्षणिकात् कार्योत्पत्तिरभ्युपेयत एवं पर्यायवादिना, सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वं क्षणिकस्य तदा भवेद् यदि सहकारिविरहकालेऽपि तस्य सत्त्वं स्यात् , न चैवमिति तस्य स्वसत्त्वदशायां कार्याभाववत्त्वं नास्त्येवेति कस्य सहकारिविरहप्रयोज्यत्वमित्याह-योग्यत्वे सतीति । 'इतरव्यतिरेकाद' इत्यत्र पञ्चम्यर्थः प्रयोज्यत्वम् । तस्य क्षणिकस्य, एवमग्रेऽपि । स्थिरस्य तु सहकारिविरहकालेऽपि सत्त्वमस्तीति सहकारिविरहप्रयुक्तकार्याभाववत्त्वलक्षणापेक्षा समस्त्येवेति न तादृशापेक्षायामाहतायां निरपेक्षत्वं तस्य, तथा च तस्य सहकारिविरहकाले सामर्थ्याभ्युपगमे कार्यकरणप्रसङ्गः स्यादेव, तद नीमसामर्थ्य च सामर्थ्या-ऽसामर्थ्यलक्षणविरुद्धधर्माध्यासाद् भेद आपतेदेवेत्याहस्थिरस्य त्विति । तैर्विनाऽपि सहकारिमिर्विनाऽपि । एकस्य क्षणस्य कार्यभेदेन स्त्रभावभेदतो भेदापादनं यत् कृतं द्रव्यवादिना तत् पर्यायवादी परिहरति- एकस्यैवेति । एतेन' इत्यस्य 'निरस्तः' इत्यनेनान्वयः । तद्देशीयतया अङ्करदेशीयतया । एतेन' इत्यदिष्टमेव हेतुं दर्शयति-नानेति- 'स्वभावतः' इत्यस्य स्थाने 'स्वभाववतः' इति पाठो युक्तः, नानाजातीयानि नानादेशीयानि यानि कार्याणि तत्कारित्वलक्षणो य एकस्वभावस्तद्वत एव बीजादिलक्षणस्य क्षणिकस्य कारणस्य स्वहेतोः स्वकारणादुत्पत्तरभ्युपगमादित्यर्थः । ननु स्थैर्यपक्षेऽपि नानाजातीय-नानादेशीय-नानाकालीनकार्यकारित्वलक्षणैकस्वभाववतः स्थिरस्य कारणस्य स्वहृतोरुत्पत्तेस्ततः क्रमिककार्योत्पत्तिः स्यादित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य 'सम्भवति' इत्यनेनान्वयः। 'न चास्थैर्ये' इत्यस्य स्थाने 'न च स्थैर्ये' इति पाठो युक्तः । निषेधे हेतुमाहतदुत्पत्तेरिति-स्थिरकारणोत्पत्तरित्यर्थः । ननु कारणसमुदायलक्षणसामम्याः कार्योत्पत्तिव्याप्यत्वं 'यस्मिन् क्षणे यत्कार्य Page #163 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । रनन्तरमेव तत्कार्यकरणप्रसङ्गात् , सामग्र्याः कार्योत्पत्तिव्याप्यत्वापेक्षया कुर्वद्रूपत्वसामर्थ्यवतः कारणस्यैव कार्योत्पत्तिव्याप्यत्वे लाघवात्, त्वया हि स्वेतरकारणविशिष्टबीजवादिनाऽङ्कुरायुत्पत्तिव्याप्यत्वं कर्त्तव्यम्, मया तु कुर्वद्रूपत्वेनैवेति; एतेन 'क्षणिकोऽपि भावः कुर्वद्रूपः सहकारिभिः सहैव करोतीति नियतस्वभावश्चेत् ? अन्वयवत् तैर्विना (न) करोत्येवेति व्यतिरेकोऽप्यवर्जनीयः, अन्वय व्यतिरेकनियमयोमिथो नान्तरीयकत्वमिति त्वदीयसिद्धान्तात् , तथा च व्यतिरेकनियमे सहकारिणः स्वकारणादापत. तोऽपि निवार्य न कुर्यात्, तैर्विना न करोतीति स्वभावाप्रच्यवात् ; अथ स्वभावाधीनसन्निधीनां सहकाकारणसमुदायलक्षणसामग्र्यनन्तरत्वं तस्मिन् क्षणे तत्कार्योत्पत्तिः' इत्येवंरूपमुपगम्यत इति नैककारणोत्पत्त्यनन्तरकाल एव तत्कार्योत्पत्तिः, किन्तु सामध्यनन्तरसमय एव सेत्यत आह-सामग्या इति । लाघवमेव स्पष्टयति- त्वयेति- स्थिरवादिनेत्यर्थः । 'स्वेतरकारण' इति स्थाने 'स्वेतरसकलकारण' इति पाठो युक्तः। मया तु क्षणिकवादिना पुनः । 'एतेन' इत्यस्य 'अपास्तम्' इत्यनेनान्वयः, एतेन स्थैर्यवाद्यवश्याभ्युपगन्तव्यस्य स्वेतरकारणविशिष्टबीजवादिना बीजादिरूपकारणस्याङ्करादिकार्योत्पत्तिव्याप्यत्वस्य 'यदा यत्र स्वेतरकारणविशिष्ट बीजादिकं तदा तत्राङ्कुराद्युत्पत्तिः' इति नियमस्य कल्पनापेक्षया क्षणिकवाद्यभ्युपगतस्य तत्तत्कार्यकुर्वद्रूपत्वेन बीजादिकारणस्थाङ्करादिकार्योत्पत्तिव्याप्यत्वस्य- 'यदा यत्राङ्करकुर्वदात्मकं बीजं तदा तत्राङ्करोत्पत्तिः' इत्यादिनियमरूपस्य कल्पने बीजादिरूपकारणे स्वेतरकारणवैशिष्ट्यस्य व्याप्यतावच्छेदकतयाऽप्रवेशप्रयुक्तलाघवेन । क्षणिकोऽपि भावो बीजादिरङ्करादिकुर्वद्रपः सलिल-धरणि-धामादिलक्षणसहकारिभिः सहैवाङ्करादि कार्य करोतीत्येवंस्वरूपनियतस्वभावो यदि तदाऽयं स्वभावो विधिरूपत्वादन्वयः, सकलसहकारिसहित एव क्षणिककुर्वद्रूपात्मको बीजादिभावोऽङ्करादि कार्य करोतीत्येवंरूपो यथाऽभ्युपगमस्तथाऽत्रैवकारार्थप्रवेशसामर्थ्यात् क्षणिकोऽपि कुर्वद्रूपो बीजादिः सहकारिभिविना न करोत्येवाङ्करमित्ययं स्वभावो निषेधरूपत्वाद् व्यतिरेकोऽप्यवश्यमभ्युपगन्तव्यः क्षणिकवादिना, 'यत्रान्वयस्तत्र व्यतिरेकोऽपि ' 'यत्र व्यतिरेकस्तत्रान्वयोऽपि ' इत्येवं स्वरूपमन्वय-व्यतिरेकनियमयोमिथो नान्तरीयकत्व- परस्परव्याप्यत्वं न स्थैर्यवादिभिरेवाभ्युपगतं किन्तु क्षणिकवादिना बौद्धेनाप्यभ्युपगतमिति स्वसिद्धान्तादप्यन्वयनियमं सहकारिभिः सहैव कुर्वद्रूपः क्षणिको भावः कार्य करोतीत्येवंस्वरूपमभ्युपगच्छतो बौद्धस्य क्षणिकः कुर्वद्रूपो भावः सहकारिभिविना न करोत्येव कार्यमित्येवस्वरूपव्यतिरेकनियमाभ्युपगन्तृत्वं स्यादेवेत्याह - अन्वय-व्यतिरेकनियमयोरिति- अन्वय-व्यतिरेकव्याप्योरित्यर्थः । मिथोनान्तरीयकत्वं परस्परव्याप्यत्वम् , समनियतत्वमिति यावत् । इति एवम् । त्वदीयसिद्धान्तात् बौद्धसिद्धान्तात् । 'व्यतिरेकोऽप्यवर्जनीयः' इति पूर्वस्मिन् हेतुः । तथा च यत्रान्वयनियमस्तत्र व्यतिरेकनियमोऽपीत्यस्य व्यवस्थितौ च। व्यतिरेकनियमे क्षणिकोऽपि कुर्वपो भावः सहकारिभिर्विना न करोतीत्येवेति नियमे। आपततोऽपि स्वनिकटमागच्छतोऽपि । निवार्य निवर्त्य । न कुर्यात् कुर्वद्रूपोऽपि भावः कार्य न कुर्यात् । तत्र हेतुः-तैर्विना न करोतीति स्वभावाप्रच्यवादिति- यदि सहकारिणस्तत्सन्निधिमागच्छेयुरेव 'तेविना' इत्यस्य न करोति' इत्यस्य चाभावे सहकारिविरहप्रयुक्त कार्यकारित्वाभावस्वरूपस्य तैर्विना न करोति' इति स्वभावस्यैवाभावप्रसङ्गादित्यर्थः । प्रतिवन्द्या प्रतिविधानं कर्तुमिच्छुरुदयनाचार्य:- सम्भावनाविषयीभूतार्थप्रतिपादको यदिशब्दः, सम्भावनाविषयीभूतार्थश्च क्वचिद् विधिरूपः क्वचिच्च निषेधरूपः, द्विविधोऽप्ययमों यथार्था-ऽयथार्थभेदेन द्विविधः, तत्र यत्रेष्टापादनरूपः प्रसङ्गस्तत्र सम्भावनाविषयीभूतोऽथों यथार्थः, यथा-यदि पर्वते धूमः स्याद् वह्निरपि स्यादित्यत्र वह्नि-धूमौ पर्वताधिकरणको विधिरूपौ यथार्थों, यथा वा- इदे यदि वह्निर्न स्याद् धूमोऽपि न स्यादित्यत्र हदाधिकरणको वह्नयभाव-धूमाभावौ निषेधरूपौ यथार्थो, यत्र चानिष्टापादनरूपः प्रसङ्गस्तत्र सम्भावनाविषयीभूतोऽर्थोऽयथार्थः, यथा- यदि इदे धूमः स्याद् वह्निरपि स्यादित्यत्र इदे वह्नि-धूमौ विधिरूपावयथाथी, यथा वा-पर्वते यदि वह्निर्न स्याद् धूमोऽपि न स्यादित्यत्र पर्वते वह्नयभाव-धूमाभावौ निषेधरूपावयथार्थों, एवं च यद्यर्थघटितस्वभावावप्यन्वयव्यतिरेको क्वचिदप्यधिकरणे सम्भाव्यमानौ तथा भवतः, न तयोराश्रये सत्त्वं, तद् यावदाश्रयकालनियतकालमेवेति नियम इति कुर्वद्रूपे कारणे सहकारिसमवधानकनियते कार्यकारित्वलक्षणान्वयैकनिलये यद्यर्थघटितसहकारिसमवधानाभावसहितकार्यकारित्वाभावलक्षणव्यतिरेकोऽसन्नपि कल्पनापथमवतरतीति पराकूतमुत्प्रेक्ष्य परशङ्कामुत्थापयति- अथेति । स्वभावाधीनसन्निधीनां कुर्वद्रूपात्मककारणरूपेऽवश्यं सन्निहितेन भाव्यमित्येवम्भूतस्वभावाधीनसन्निधीनाम् , अथवा प्रतिनियतकारणेभ्यः Page #164 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । रिणामुपनयना-ऽपनयनयोरयमनीश्वर एव यद्युपनिबन्धेन तूच्यते- 'यदि सहकारिणो न स्युर्न कुर्याद्' इति न दोष इति चेत् ? स्थिरपक्षेऽप्येवं वक्तुं शक्यम् - स्वकारणाधीनसन्निधीनां सहकारिणामुपनयना - ऽपनयनयोर मनीश्वर एव यद्युपनिबन्धेन तूच्यते- 'यदि सहकारिणः स्युः कुर्याद्', इत्याद्युदयनोक्तमपास्तम्, सहकार्यभावस्य कार्याभावव्याप्यत्वेन व्यतिरेकपक्षे यद्युपनिबन्धसम्भवेऽप्यन्वयपक्षे तदसम्भवात् लाघवात् कारणस्यैव कार्योत्पत्तिव्याप्यत्वेन सहकारिघटित सामग्र्याऽतथात्वेनापाद्याऽऽपादकयोर्व्याध्यप्रसिद्धे!; अथ क्षणिकोऽपि भावः स्वकालस्थ एकामपि यां काचिदर्थक्रियां करोति तामेव कालान्तरे कुतो न करोति ? असन्त्वादिति चेत् ? करणस्य सत्त्वाप्रयुक्तत्वात्, अत एव स्वप्नावसानकं विज्ञानं प्रहराद्यन्तरितमपि सुषुप्तस्य जागराद्यज्ञानमुत्पादयतीति प्रज्ञाकरः; असामर्थ्यादेव न करोतीति चेत् ? तर्हि कालकुर्वद्रूपात्मक कारणसन्निहिता एवोलद्यन्ते सहकारिण इत्येवम्भूतस्वभावाधीनसन्निधीनाम् । उपनयना ऽपनयनयोः स्वसन्निहितदेशागमन स्वसन्निधानापसरणयोः । अयं प्रकृतकुर्वद्रूपः । अनीश्वरः असमर्थः एव न तु तयोः समर्थः 1 पनिबन्धनेन सम्भावनाविषयीभूतार्थप्रतिपादकय दिशब्दस्य व्यतिरेकस्वभावप्रतिपादकवाक्यघटकीकरणेन । उच्यते बौद्धेनाभिधीयते । तद्वाक्यस्वरूपमुल्लिखति - 'यदि सहकारिणो न स्युर्न कुर्यात् ' इति । इति यद्यर्थघटितव्यतिरेकस्वभावाभ्युपगमे । न दोषः स्थिरवाद्यभिहितः 'व्यतिरेकोऽप्यवर्जनीयः' इति दोष इष्टापादनस्वरूपत्वान्न दोषत्वमावहति । इति चेत् एवं पराशङ्कायाम् । उदयनः प्रतिविधानमाविष्करोति- स्थिरपक्षेऽपीति । एवं यथा क्षणिकवादिभिस्तैर्विना न करोतीति व्यतिरेकोपपत्तये उच्यते तथा । तदेव वक्तव्यमुल्लिखति स्वकारणाधीनसन्निधीनामित्यादि । ' एतेन ' इत्यतिदिष्टमेव निरासहेतुं स्पष्टयति- सहकार्य भावस्येति । अवतरणोपदर्शितबौद्धाभिप्राये असदर्थस्यापि यदिशब्दघटित - स्वभावप्रतिपादकवाक्यप्रतिपाद्यस्वभावे प्रवेशः सम्भवति, तेन कुर्वद्रूपात्मक कारणे सहकार्यभावस्य कार्यकारित्वाभावस्य चासद्रूपयोः प्रवेशो व्यतिरेकखभावे सम्भवति, व्यापकाभावावत्तया निर्णीते धर्मिणि व्याप्यारोपेण व्यापकारोपः प्रसङ्ग इति प्रसङ्गलक्षणोपपादकं सहकार्यभावस्यापादकस्य कार्यकारित्वाभावरूपापाद्यव्याप्यत्वं समस्तीति यद्यर्थघटितव्यतिरेकस्वभावस्य सम्भवेऽपि यदि सहकारिणः स्युस्तदा कुर्यादित्येवमन्वय स्वभावो यद्यर्थघटिनमूर्तिर्न सम्भवति, तत्रापादकस्य सहकारि समवधानविशिष्टकारणत्वस्य कार्योत्पत्तिमत्त्वपर्यवसित कार्यकारित्वरूपापाद्यव्याप्यत्वाभावेन प्रसङ्गप्रवृत्त्यभावेन यद्युपनिबन्धनस्य यदिशब्दघटितत्वस्यान्वय स्वभावप्रतिपादकवाक्येऽसम्भवात् कारणत्वस्यैव लघुभूतस्य कार्योत्पत्तिव्याप्यत्वसम्भवेन सकलसहकारिसमवधानलक्षणसहकारिवैशिष्ट्यस्य गौरवेण व्याप्यतानवच्छेदकत्वात् यथाऽसद्धेतौ व्याप्यतानवच्छेदकस्य तद्विशेषणत्वे व्यर्थविशेषणघटितत्वाद् व्याप्यत्वासिद्ध्याऽसाधकत्वं तथाऽऽपादकेऽपि व्याप्यतानवच्छेदकस्य विशेषणत्वे व्याप्यत्वासिद्धयाऽनापादकत्वमित्याशयेनाह - अन्वयपक्षे तदसम्भवादिति - अन्वयस्वभावप्रतिपादकवाक्ये निरुक्तार्थकय दिशब्दघटितत्वासम्भवादित्यर्थः । ( सामग्र्यातथात्वेन ' इत्यस्य स्थाने ' सामग्र्या अतथात्वेन ' इति पाठः सम्यक् । अतथात्वेन कार्योत्पत्तिव्याप्यत्वाभावेन । आपाद्याऽपादकयोः कार्योत्पत्तिरूपापाद्य सामग्रीसत्त्वरूपापादकयोः । द्रव्यवादी शङ्कते - अथेतिपर्यायवादिमते क्षणविशरारोर्भावस्य कार्यकालेऽम्रत एव कारणत्वमिति स्वकालस्थ एव स स्वानधिकरणे द्वितीयस्मिन् क्षणे यामर्थक्रियां करोति तामर्थक्रियां कालान्तरे तदर्थक्रियोत्पत्तिमत्काल भिन्नकाले कुतो न करोतीत्यर्थः । अत्र पर्यावादिनः समाधानमाशङ्क्य प्रतिक्षिपति - असत्वादिति चेदिति - ' चेत्' इत्यनन्तरं 'न' इति दृश्यम् कार्योत्पत्त्यापादनास्पदतयाऽभिमतस्य कालस्याव्यवहितपूर्वसमयेऽसत्त्वान्न करोतीत्यर्थः । प्रतिक्षेपहेतुं दर्शयति- करणस्येति - कार्योत्पादनस्येत्यर्थः । सत्त्वाप्रयुक्तत्वात् कार्योत्पत्तिसमयाव्यहितपूर्वसमये यत् कारणस्य सत्त्वं तदप्रयुक्तत्वात् । अत्रार्थे प्रज्ञाकरवचनसंवादमुपदर्शयति- अत एवेति - कार्योत्पत्तेः स्वसमयाव्यवहितपूर्वसमयगत कारणसत्त्वाप्रयुक्तत्वादेव । स्वप्नेति - यत्र स्वप्नानन्तरं सुषुप्तिस्तदनन्तरं जागरितं तत्र जागराद्यज्ञानं सुषुप्त्यवस्थायां ज्ञानाभावात् स्वप्नावसानकं स्वप्नान्त्यसमयभावि विज्ञानमेवोत्पादयति, न च स्वप्नान्त्य समय भाविविज्ञानं जागरायज्ञानोत्पत्तिसमयाव्यवहितपूर्व समयवृत्तीत्यतः करणस्य कारणसत्त्वाप्रयुक्तत्वं प्रज्ञाकरस्य सम्मतमित्यर्थः । ' प्रहराद्यन्तरितम्' इति विशेषणेन कार्याव्यवहितपूर्वसमये न तस्य सत्त्वमित्यावेदितम् । १३१ Page #165 -------------------------------------------------------------------------- ________________ १३२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। भेदेन समर्था-ऽसमर्थतया भेदापत्तिरिति चेत् ? न- वस्तुनः स्वकाले समर्थस्य कालान्तरेऽसमर्थतया संवृत्यैव व्यवहारात्, अभावानुप्रवेशेन वस्तुसिद्ध्यापादने शशविषाणादेरपि सिद्धिप्रसङ्गात् ; अत एव क्षणिकस्यापि प्रथम सतः पश्चादसत्त्वे स्वभावविपर्यय इति निरस्तम् , स्वदेश-कालस्थस्यैवान्यदेश-कालयोरसद्व्यवहारकारिस्वभावाभ्युपगमेनैवोपपत्तेः, निषेधव्यवहाराद् विधिव्यवहारस्य बलवत्त्वे लाघवमेव विनिगमकम् । ननु क्षणिकपक्षे क्षणिकानामेव हेतुत्वे तत्तत्क्षणोत्पन्नानामुदासीनानामपि हेतुत्वं किं न स्यादिति चेत् ? न- कुर्वद्रूपत्वजात्या प्रसिद्धहेतूनामेवानुगमेनानतिप्रसङ्गात् , अन्वय-व्यतिरेकाभ्यां पर्यायवादिनः समाधानान्तरं स्वेष्टापादनानुकूलतयोपदर्शयति- असामर्थ्यादेवेति-स्वकालस्थो भावः तदर्थक्रियां प्रत्यसमर्थत्वादेव न करोतीत्यर्थः। स्थैर्यपक्षे सामर्थ्या-ऽसामर्थ्यलक्षणविरुद्धधर्माध्यासात् स्थिरस्य भावस्य भेदापत्तिर्या त्वयोद्घोष्यते सा तव मतेऽपि क्षणिकस्य भावस्य संलग्नेत्याह-तीति । भवन्मते स्थिरो भावो यथाऽभिमतकार्यकालसमये वर्तते तथा कालान्तरेऽपि वर्तत इत्यभिमतकालावच्छेदेन तत्कार्य प्रति सामर्थ्यवत् कालान्तरावच्छेदेन तत्कार्य प्रत्यसामर्थ्यमपि तस्य वस्तुभूतमेवेति वस्तुभूतसामर्थ्या-ऽसामर्थ्यलक्षणविरुद्धधर्माध्यासात् स्थिरस्य भावस्य भेद आपादयितुं शक्यते, वस्तुतः स्वकाले स्वार्थक्रियां प्रति समर्थस्य क्षणिकस्य भावस्य कालान्तरे न सत्त्वमिति तदानीमसति तस्मिन् न सामर्थ्य नाप्यसामर्थ्य वस्तुतः समस्ति, अथापि कालान्तरेऽसमर्थत या तस्य या व्यवहृतिः सा संवृत्यैव भवति, तथा च संवृत्याऽसमर्थतया व्यवहाराद् बस्तुभूतस्यासामर्थ्यलक्षणविरुद्धधर्मस्य सिद्धयभावेन न तादृशधर्माध्यासतः क्षणिकभावस्य भेद आपादयितुं शक्यत इत्याशयवान् पर्यायवादी द्रव्यवाद्युद्भावितामाशङ्कां प्रतिक्षिपति-नेति । 'संवृत्यैव' इत्येवकारेण प्रमि. त्याऽसमर्थतया व्यवहारस्य प्रतिक्षेपः। ननु कालान्तरे क्षणिको भावोऽसत्त्वात् समर्थो न भवतीत्येतावताऽसामर्थ्यमयत्नोपनतमेव सामर्थ्याभावस्यासामर्थ्यरूपत्वादिति भवत्यसामर्थ्यलक्षणवस्तुसिद्धिरित्यत आह-अभावानुप्रवेशेनेतिअभावशरीरसन्निविष्टत्वेनेत्यर्थः, तच्च प्रकृते असामर्थ्याभावे सामर्थ्य नास्तीत्येवंस्वरूपोऽभाव एव नोपपद्यत इत्यभावस्वरूपोदलकत्वं बोध्यम् , शशविषाणं नास्तीत्येवं प्रतीयमानाभावशरीरे प्रतियोगितया सन्निविष्टस्य शशविषाणादेरप्यभावानुप्रवेशेन सिद्धयापत्त्या वस्तुत्वं स्यादतः संवृत्यैव यथा निषेध्यतया व्यवह्रियमाणत्वं शशशृङ्गादेरिति न वस्तुत्वं तथा संवृत्यैव व्यवह्रियमाणस्या सामर्थ्यस्य न वस्तुत्वमित्याशयः । 'अत एव' इत्यस्य 'निरस्तम्' इत्यनेनान्वयः । स्वभावविपर्ययः स्वभावस्य सत्त्वस्य विपर्ययोऽसत्त्वम् , तथा च सत्त्वा ऽसत्त्वरूपविरुद्धधर्माध्यासात् क्षणिकस्यापि भेदापत्तिरित्यर्थः । 'अत एव' इति निर्दिष्टमेव निरासहेतुमुपदर्शयति-स्वदेश-कालस्थस्येवेति- यस्मिन् देशे यस्मिन् काले वर्तते क्षणिको भावस्तद्देश-कालस्थस्यैव तस्यान्यदेश-कालयोर्योऽसद्व्यवहारस्तत्क रिस्वभाव इत्यभ्युपगमेन देशान्तरकालान्तर योरसद्व्यवहारस्योपपत्ते सत्त्वं धर्मान्तरं तस्योपैयत इति न स्वभावविपर्यय इति भावः। ननु क्षणिकस्य भावस्य स्वदेशकालयोः सद्बुद्धथा यथा सयवहारो भवति तथा देशान्तर कालान्तरयोरसद्बुद्धयाऽस व्यवहारोऽपि भवति, एवं च विनिगमकाभावात् किमिति सद्बुद्धिप्रभवसद्व्यवहारबलात् सत्त्वमेवोपेयते, असबुद्धि प्रभवासद्व्यवहारबलान्नासत्त्वमित्यत आहनिषेधव्यवहारादिति- असत्त्वलक्षणनिषेधविषयकासद्व्यवहारात् सत्त्वलक्षणविधिविषयकव्यवहारस्य बलवत्त्वे लाघवमेव विनिगमकम् , निषेधव्यवहारे निषेध्यज्ञानस्याप्यपेक्षा विधिव्यवहारे तु व्यवहर्तव्यविधिमात्रज्ञानापेक्षेति लाघवं स्फुटमेवेति । ननु क्षणभङ्गपक्षे पूर्वपूर्वक्षणस्योत्तरोत्तरक्षणं प्रति यत् कारणत्वं तत्र कार्यस्वरूपानुस्यूतत्वं न नियामकं किन्तु कार्याव्यवहितपूर्वकालवृत्तित्वमेव, तच्च यथा खसन्तत्यनुपतितपूर्वपूर्वक्षणे तथा सन्तानान्तरगतोदासीनक्षणेऽपि समस्ति, एकसन्तानान्तर्गतपूर्वक्षणस्य यथा तदव्यवहितोत्तरक्षण जायमानतत्सन्ततिगतकार्याव्यवहितपूर्ववर्तित्वं तथा तत्क्षणसमानकालीनानां सन्तानान्तरवर्तिनामपि क्षणानामुदासीनानामिति तेषामपि तत्कारणत्वं स्यादिति शङ्कते-नन्विति यत्कार्यकुर्वद्वपात्मना स्वकारणतो यदुत्पन्नं तत् तत्कुर्वद्रूपत्वेन तत्कार्य प्रति कारणमित्येव पर्यायवादिना स्वीक्रियते, एकसन्ततिपतितपूर्वपूर्वक्षणानामेवैकसन्ततिपतितोत्तरोत्तरक्षणं प्रति कारणत्वं नोदासीनानामिति नोदासीनानामव्यवहितपूर्वक्षणवर्तिनां कारणत्वप्रसङ्ग इति पर्यायवादी समाधत्ते-न-कुत्र जात्यति । प्रसिद्धहेतूनामेवेति- यद् यत् कार्य प्रति यद् यत् कारणतया प्रसिद्ध तस्य तस्यैव तत्तत्कार्यकुर्वद्रपत्वेन तत् तत् कार्य प्रति कारणत्वमित्युदासीनानां प्रसिद्धहेतुभिन्नानां तत्तत्काव्यिवहितपूर्वक्षण Page #166 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । सादृश्यानुसारेणैव कार्यकारणभावव्यवहारात् तन्निश्चयानुसारेणैव तच्छक्यानुभवस्यापि प्रकल्पनात् । अथाऽसतोऽजनकत्वान्न क्षणविशरारो: कार्यप्रसवः इति चेत् ? न - अनभ्युपगमात्, कार्यकाले सत्त्रस्य कारणतायामप्रयोजकत्वात्, कुर्वद्रूपत्वस्यैव तथात्वात्, तथाप्यविनष्टाद् द्वितीयक्षणव्यापारसमावेशवर्तिनः कार्यप्रसवाभ्युपगमे क्षणभङ्गभङ्गप्रसङ्ग इति चेत् न - द्वितीयक्षणप्रतीक्षाव्यतिरेकेणापि स्वमहिम्नैव कार्यकरणप्रवृत्त्यभ्युपगमात्, अन्यथा द्वितीयक्षणभाविव्यापारजननेऽप्यपरव्यापारसमावेशव्यतिरेकेणाप्रवृत्तेः, तत्राप्यपरव्यापारसमावेशकल्पनायामनवस्थानात्, अपरव्यापारनिवर्तकत्वाभ्युपगमे च किमपराद्धं १३३ वृत्तित्वेऽपि तत्तत्कार्य कुर्वद्रूपत्वाभावेन न तत् तत् कार्यं प्रति कारणमित्येवमनतिप्रसङ्गादित्यर्थः । नन्वव्यवहितपूर्ववर्तित्वं स्वसन्तानगतक्षणेष्विव सन्तानान्तरगतक्षणेष्वप्यविशिष्टमिति स्वसन्तानगतक्षणेष्वेव तत्तत्कार्य कुर्वद्रूपत्वं न सन्तानान्तरर्गतक्षणेष्वित्यत्रैव नियामकं न पश्याम इत्यत आह- अन्वयव्यतिरेकाभ्यामिति तत्सन्तानपतितक्षणसत्त्वे तत्सन्तानपतिततदुत्तरक्षणसत्त्वं तत्सन्तानपतितक्षणाभावे तत्सन्तानपतितोत्तरक्षणाभाव इत्येवमन्वय - व्यतिरेकाभ्यामित्यर्थः । सादृश्यानुसारेणैव पूर्वपूर्वक्षणानां तत्सन्तानपतितानामुत्तरोत्तरतत्सन्तानपतितक्षण सादृश्यानुसारेणैव कार्यकारणभावव्यवहाराद् ययोरेकसन्तानपतितक्षणयोः सादृश्यमनुभूयते तयोरेव कार्यकारणभावव्यवहाराद् इदमस्य कार्यमिदमस्य कारणम्' इत्येवं कार्यकारणभावव्यवहारात् । यद्यपि कुर्वद्रूपत्वजातिरितीन्द्रियत्वान्न प्रत्यक्षविषयस्तथापि कार्यकारणभावव्यवहार निबन्धनस्य सादृश्यस्य यत्र सत्त्वं तत्र तत्कार्यकुर्वत्त्वमित्येवं व्याप्तर्यत्र निरुक्तसादृश्यनिश्चयस्तत्र तत्कुर्वेद्रपत्वस्यापि निश्चयः स्यादेवेत्याह-तनिवयानुसारेणैवेति- सादृश्यनिश्चयानुसारेणैवेत्यर्थः । ' तच्छक्यानुभवस्यापि ' इत्यस्य स्थाने ' तच्छक्त्यनुभवस्यापि ' इति पाठो युक्तः, तत्कुर्वद्रूपत्वानुभवस्यापीति तदर्थः, शक्तिः सामर्थ्यम्, तच्च प्रकृतै कुर्वद्रूपत्वमेवेति बोध्यम् । ननु क्षणिक कारणं कार्यकाले न समस्तीति यत्कार्यकाले यन्न सत् तन्न तत्कार्यकारणमिति न क्षणिकात् कार्यजन्मसम्भव इति शङ्कतेअथेति । असतः कार्योत्पत्तिकालेऽसतः । समाधत्ते - नेति । अनभ्युपगमात् यत् कार्यकालेऽसत् तन्न कारणमित्यस्य - नभ्युपगमात् असत्त्वादकारणत्वं तदा स्यात् यदि सत्त्वात् कारणत्वं भवेत् न च कार्यकाले सत्त्वस्य कारणतायां प्रयोजकत्वमित्याह- कार्यकाल इति । तर्हि कारणतायां किं प्रयोजकमित्यपेक्षायामाह - कुर्वद्रूपत्वस्यैवेति । तथात्वात् कारणतायां प्रयोजकत्वात् । ननु सव्यापारमेव कारणं कार्योत्पादने प्रत्यलमिति द्वितीयक्षणे सव्यापारादेव कारणात् कार्योत्पत्तिरिति व्यापारानुरोधेन द्वितीयक्षणवृत्तित्वव्यवस्थितौ क्षणभङ्गस्य क्षणैकमात्रवृत्तित्वस्य भङ्ग एवोपतिष्ठत इत्याशङ्कते -- तथाऽपीति- कुर्वद्रूपत्वस्य कारणतायां प्रयोजकत्वेऽपीत्यर्थः । अविनष्टात् द्वितीयक्षणेऽविनष्टात् । कथमित्थमित्यपेक्षायामाहद्वितीयक्षणव्यापारसमावेशवर्तिन इति - द्वितीयक्षणे यो व्यापारसमावेशो व्यापारसमवधानं तेन सह वर्तनशीलस्य, द्वितीयक्षणवृत्तिव्यापारवत इति यावत् । कार्यप्रसवाभ्युपगमे कार्योत्पत्त्यभ्युपगमे । क्षणभङ्गभङ्गप्रसङ्गः क्षणभङ्गस्योत्पत्यनन्तरमेव भावो विनश्यतीति क्षणभङ्गवादस्य भङ्गो विनाशस्तस्य प्रसङ्ग आपत्तिः । सव्यापारात् कारणात् कार्यजन्मेत्येव नेष्यतॆ, कुतो व्यापारानुरोधिद्वितीयक्षणापेक्षा ? किन्तु कुर्वद्रूपत्वलक्षणस्वमहिम्नैव कार्यकरणे प्रवर्तते भाव इत्येवोपेयत इति न क्षणभङ्गभङ्ग इति समाधत्ते - नेति । अन्यथा सव्यापारस्यैव कारणत्वमिति व्यागरानुरोधेन द्वितीयक्षणप्रतीक्षाया आवश्यकत्वमित्यभ्युपगमे । यदि व्यापारमन्तरेण न कारणं कार्यजननायालमित्युपेयते तर्हि व्यापारोऽपि कार्यमिति तज्जननेऽपि व्यापारान्तरापेक्षा स्यादेव, तदपि व्यापारान्तरं कार्यमिति तज्जननायाप्यपरव्यापारापेक्षेत्येवमनवस्था स्यादित्याह द्वितीयक्षणेति । ' व्यापारजनवेऽपि ' इत्यस्य ' अप्रवृत्तेः ' इत्यनेनान्वयः । तत्रापि द्वितीयक्षणभाविव्यापारजननेऽपि । ननु व्यापारातिरिक्तकार्यजनन एव सव्यापारत्वं कारणस्यापेक्षितं व्यापाररूपकार्थं तु व्यापारमन्तरेणापि करोत्येव कारणमिति नानवस्त्यत आह- अपरेति - अत्र “अपव्यापार निवर्तकत्वाभ्युपगमे च " इत्यस्य स्थाने 'अपरव्यापारसमावेशव्यतिरेकेणापि द्वितीयक्षणभाविव्यापारनिवर्तकत्वाभ्युपगमे च' इति पाठो युक्तः । यथा व्यापारमन्तरेणैव व्यापाररूपकार्यं करोति कर तथा कार्यान्तरमपि व्यापारमन्तरेणैव करिष्यति कारणमित्याद्यव्यापारकरूपनं व्यर्थमेव, तथा च न तदनुरोधेन द्वितीयक्षणस्थायित्वं भावस्येत्याह- किमपराद्धं कार्येणेति- न किमपि विरुद्धमाचरितं कार्येणेति तदपि व्यापारमन्तरेणैव करोतु Page #167 -------------------------------------------------------------------------- ________________ १३४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । - - TETUEI TOHET कार्येण येनाद्यव्यापार विनैव न तज्जन्यत इति, न च व्यापारमन्तरेणार्थक्रिया नोपपत्तिमती, व्यापारेणैव व्यभिचारादिति विभावनीयम् । अथानष्टान् कारणादुपजायमाने कार्ये कार्य-कारणयोः सहभावप्रसक्तिः, नष्टाच्च कारणात् कार्योत्पत्त्यभ्युपगमे तृतीयक्षणे तत्प्रसङ्गः, तथाहि-प्रथमे क्षणे कारण. सत्ता, द्वितीये तद्विनाशः, तृतीये च कार्योत्पत्तिरिति चेत् ? न-यथैव कारणविनाशस्तत्सत्तापूर्वको नष्टाद् भवति तथैव तत्समानकालं कार्य नष्टात् कारणाद् भविष्यतीति दोषाभावात् ; बतवं विनाशोऽपि हेतुमान स्यादिति चेत् ? न-नीरूपत्वेन तत्र हेतुल्यापार(रा)सम्भवात् , तदुपन्यासस्यात्र व्यवधायककालासम्भवदर्शनार्थत्वात् , ततो द्वितीयक्षणे कारणं नश्यति कार्य चोपजायत इति कुतस्तयोः सहभाव. प्रसक्तिः , तदुक्तम्"अनष्टाज्जायते कार्य हेतुश्चान्योऽपि तत्क्षणम् । क्षणिकत्वात् स्वभावेन तेन नास्ति सह स्थितिः" । ] इति । अत्र चाविद्धकर्णोद्योतकरादिभिर्यदुक्तं " यदि तुलान्तयो मनोन्नमनवत् कार्योत्पत्तिकाल एव कारण विनाशस्तक : कारणस्य विनाशः कारणोत्पाद एव " उत्पाद एव । कारणमित्याशयः । येन अपराधेन । तत् कार्यम् । व्यापारेणैवेति- व्यापारोऽपि अर्थक्रियैव, स च व्यापारमन्तरेणैव भवतीति व्यापारमन्तरेणार्थक्रिया न भवतीति नियमस्त त्रैव व्यभिचारान्न सम्भवतीत्यर्थः। ननु क्षणभजपक्षे नष्टादनष्टाद् वा कारणात् कार्यजन्मनो न सम्भवः, यतः प्रथमक्षण एव कारणमनष्टमिति तदानीमेव यदि कार्यजन्मोपेयते तदा यदैव कारणमुत्पद्यते तदैव कार्यमप्युत्पद्यत इति स्यात् , न चैवं सम्भवति- सहभाविनोः सव्येतरगोविषाणयोरिव कार्यकारणभावाभावात् , नष्टात् कारणात् कार्यजन्म तु प्रथमक्षणे कारणमुत्पद्यते द्वितीयक्षणे विनश्यतीति द्वितीयक्षणे तन्नष्टमतस्तृतीयक्षणे ततो नष्टात् स्यात्, एवं सति कारणव्यक्ति- कार्यव्यक्तयोरेकैन क्षणेन व्यवधानादव्यवहितकारणकार्यक्षणपरम्परालक्षणसन्ततिरुत्सन्ना स्यादिति शङ्कते- अथेति । तत्प्रसङ्गः कार्योत्पत्तिप्रसङ्गः। तृतीयक्षणे कार्योत्पत्तिप्रसङ्गमेव भावयति-तथाहीति । तद्विनाशः कारणविनाशः । नष्टात् कारणात् कार्योत्पत्त्यभ्युपगम एव, एवमपि द्वितीयक्षण एवं कार्यजन्म, यथा ध्वंसं प्रति प्रतियोगिनः कारणत्वमिति नष्टात् कारणात् तद्धंसो भवन्नपि द्वितीयक्षण एव भवति तथैव नष्टात् कारणाद् भवदपि कार्य द्वितीयक्षण एव भवतीत्येवमुपगमे दोषाभावादिति समाधत्ते-नेति । तत्सत्तापूर्वकः कारणसत्तापूर्वकः। तत्समानकालं कारणविनाशसमकालम् । नन्वहेतुको विनाशो भावोत्पत्त्यनन्तरमेव भवतीति सिद्धान्तः क्षणभङ्गवादिनो विनाशस्य हेतुमत्त्वाभ्युपगमे भज्यतेति शङ्कते- वनैवमिति-बतेति खेदे, खिद्यते मे मनः सूक्ष्मेक्षणविदग्धस्यापि परस्यैवं खसिद्धान्तविरुद्ध प्रलपतः किमयं बुद्धिव्यामोह इति भावयतः । एवं विनाशस्य कारणसत्तापूर्वकत्वाभ्युपगमे। समाधत्तेनेति । नीरूपत्वेन तुच्छत्वेन । तत्र ध्वंसे । यदि हेतुव्यापारो ध्वंसे नास्ति तर्हि कथं दृष्टान्ततया तदुपन्यास इत्यत आह-तदुपन्यासस्येति । अत्र कारण कार्ययोः, यथा कारण-तद्विनाशयोर्न व्यवधायकः कालस्तथा कारण-कार्ययोरपि न व्यवधायकः काल इत्यवगत्यर्थमेव तदुपन्यास इति । एवं च सति यत् सिद्धं तदाह - तत इति । तयोः कारणकार्ययोः। उक्तार्थे वृद्धबौद्धवचनसंवादमाह- तदुकमिति । “अनष्टाजायते कार्यम्" इति पद्यखारस्यात् 'यथैव.' इत्यादिप्रन्थोऽपि 'यथैव कारणविनाशस्तत्सत्तापूर्वकोऽनष्टाद्भवति तथैव तत्समानकालं कार्यमनष्टात् कारणाद् भविष्यतीति दोषाभावाद्' इत्येवंरूपोऽवसेयः, तदवतरणेऽपि 'नष्टाद' इत्यस्य स्थाने 'अनष्टाद्' इत्येव वाच्यमिति बोध्यम् , 'हेतुश्चान्योऽपि तत्क्षणम' इत्यस्य स्थाने 'हेतुर्नान्वेति तत्क्षणम्' इति पाठो युक्तः, तस्य कार्याधिकरणक्षण हेतुर्न संबनातीत्यर्थः । अत्र च इत्थं क्षणिकवाद्युपगतपदार्थतत्त्वे पुनः । 'यदुक्तम्' इत्यस्य 'निरस्तम् ' इत्यनेनान्वयः । अविद्धकर्णाद्युक्तिमेवोल्लिखति- यदी. त्यादिना । तुलान्तयोः तुलाकोव्योः । नमनोन्नमनवत् अधिकगुरुत्ववन्मीयमानधान्यादिसम्बन्धाद् यदैवैककोटेनमनं तदैव तदल्पप्रमाणवस्तुसम्बन्धादपरकोटेरुन्नमनमिति समकालीनत्वं नमनोन्नमनयोः, एवमेव यदा कार्योत्पत्तिस्तदेव कारण Page #168 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतौ नयोपदेशः । विनाश " [ ] इति वचनात् एवं च कारणेन सह कार्यमुत्पन्नमिति प्राप्तम्, यदि च स एव विनाशस्तदा प्रथमेऽपि क्षणे न सत्ता भावस्य स्यात्, तदैव विनाशात्, भावस्यैव विनाशत्वे सर्वदा भावस्य सत्त्वं वा स्यात्, अन्यथा क्षणोत्तरं तन्नाशाभ्युपगमस्याप्रामाणिकत्व प्राप्तेः, अथ कारणोत्पादात् कारणविनाशो भिन्नस्तदा कृतकत्वस्वभावत्वमनित्यत्वस्य न भवेत्, उत्पाद- विनाशयोस्तादात्म्यसम्बन्ध एव तस्य वक्तुं शक्यत्वात् व्यतिरिक्ते च नाशे समुत्पन्ने न भावस्य निवृत्तिरिति कथं क्षणिकत्वम् "इति तन्निरस्तम्, यतो द्विविधो विनाशः -संव्यवहारार्थस्तात्त्विकश्च, आद्यो भावनिवृत्तिरूप एव, द्वितीयश्च भावरूपः, तत्र कारणनिवृत्तिरूपोऽभावो लोकप्रतीत एत्र, नायं भावस्वभाव इष्यते, नापि कारणोत्पादभिन्नोऽभिन्नो वा नीरूपत्वात्, भेदाभेदप्रतिषेध एव केवलमस्य क्रियते, तदुक्तम् - " भावे ह्येकविकल्पः स्याद् विधेर्वस्त्वनुरोध [तः ]" [ ] इति, तेन व्यतिरिक्ते नाशे जाते क्षणिकरूपस्य भावस्यानिवृत्तिरित्यपास्तम्, यतश्च द्वितीयक्षणोत्पत्तिकाल एव प्रथमक्षणनिवृत्तिस्तेनैकक्षणस्थो विनाश इति समकालीनत्वं कार्य कारणविनाशयोरुपेयते तदा तयोः कार्यकारणभावो न स्यादित्यर्थः । तत्र हेतुमाह- यत इति । एवं च कारणविनाशस्य कारणोत्पादरूपत्वे च कारणविनाशस्य कारणोत्पादरूपत्वे च यदा कारण विनाशस्तदा कारणोत्पाद एव तथा च कार्योत्पत्तिकाले कारणविनाशो नाम कारणोत्पाद इति समकालोलत्तिकयोः कार्यकारणयोः कथं कार्यकारणभाव इत्यर्थः । यदि च कारणविनाश एव कारणोत्पाद इत्युपेयते तदा कारणमुत्पद्यत इत्युक्तत्या कारणं विनश्यतीत्येव प्रतीयते, तथा च यदा कारणोत्पादस्तदा कारणविनाश एवेति प्रथमक्षणेऽपि कारणविनाशस्यैव प्राप्तौ कारणस्य प्रथमक्षणेऽपि सत्त्वं न स्यादित्याह यदि च स एव विनाश इति - अत्रैवकारो विनाश इत्यनन्तरं योज्यः, तथा च स विनाश एवेत्यन्वये कारणोत्पादः कारणविनाश एवेत्यर्थो लभ्यते । तदैव प्रथमक्षण एव । यदि च विनाशो न भावाद् भिन्नः किन्तु भावस्यैव विनाशत्वं तदा प्रथमक्षणे भावोऽस्तीति निर्विवादं द्वितीयक्षणेऽपि भावविनाशस्य सत्त्वे भावस्यैव सत्त्वमिति सर्वदा भावस्य सत्त्वं स्यादित्याह - भावस्यैव विनाशत्व इति । अन्यथा भावस्य सर्वदा सत्त्वाभावे । क्षणोत्तरं द्वितीयक्षणे । तन्नाशाभ्युपगमस्य भावनाशाभ्युपगमस्य । अप्रामाणिकत्व प्राप्तेः अप्रामाणिकत्वप्रसङ्गात्, यतो भाव यदि द्वितीयक्षणे सत्तामनुभवेत् तदा तद्रूपो भावविनाशोऽपि द्वितीयक्षणे स्यात् भावस्य द्वितीयक्षणेऽसत्त्वे च तद्रूपस्य तन्नाशस्यापि द्वितीयक्षणेऽसत्त्वमेवेति द्वितीयक्षणे तन्नाशाभ्युपगमस्या सद्विषयकत्वेनाप्रामाणिकत्वमयत्नोपनतमित्यर्थः । यदि च कारणविनाशः कारणोत्पादाद् भिन्न एव, तथा च द्वितीयक्षणे कारणविनाशसद्भावेऽपि न कारणसद्भाव इति न कारणस्य सर्वदा सत्त्वापत्तिस्तर्हि कृतकत्वेन हेतुना विनाशित्वं यच्छन्दादीनां साध्यते तत्र कृतकत्वहेतुः स्वभावतयैवानित्यत्वस्य साधकः क्षणिकवादिनोऽभिमतः स्वभावहेतुश्च स एव भवति यस्य साध्येन सह तादात्म्यम् तश्च कृतकत्वमुत्पादरूपमनित्यत्वं विनाशरूपं तयोरभेदे सत्येव घटते, कारणविनाशस्य कारणोत्पादाद् भिन्नत्वे कृतकत्वा ऽनित्यत्वयोस्तादात्म्यलक्षणाविनाभावाभावात् कृतकत्वेनानित्यत्वानुमानं न स्यादित्याह - अथेति । तस्य अनित्यत्वे कृतकत्वस्वभावत्वस्य । कारणविनाशस्य कारणाद् भेदे कारणविनाशस्य समुत्पादेऽपि कारणस्य न किमपि जातमिति न तस्य निवृत्तिरिति न क्षणिकत्वं स्यादित्याह - व्यतिरिक्तं चेति । अविद्धकर्णाद्युक्तस्य निरसने हेतुमुपदर्शयति-यत इति । आद्यः सांव्यवहारिकः । द्वितीयश्च तात्त्विकः पुनः । तत्र तयोर्विनाशयोर्मध्ये । नायं भावस्वभाव इष्यते कारणनिवृत्तिरूपः सांव्यवहारिको विनाशो भावस्वरूपो नेष्यते । नापीति कारणनिवृत्तिरूपो विनाश: कारणोत्पादाद् भिन्नोऽभिन्नो वा नापीष्यते । तत्र हेतु: - नीरूपत्वादिति कारणनिवृत्तिरूपस्य विनाशस्य तुच्छत्वात् तुच्छे च भावस्वभावत्वादिकं न संभवत्येवेत्यभिसन्धिः । अस्य कारणनिवृत्तिरूपस्य ध्वंसस्य । अत्र वृद्ध बौद्धसंवादमाह - तदुक्तमिति । ' भावे ह्येकविकल्पः स्याद् ' इत्यस्य स्थाने 'भावे ह्येष विकल्पः स्याद् ' इति पाठो युक्तः, एष विकल्पो भिन्नो वाऽभिन्नो वेत्येवंस्वरूपो विकल्पः, हि यतः भावे वस्तुस्वरूपे, स्याद् भवेत् विधेः भेदाभेदादिविधानस्य वस्त्वनुरोधतः वस्तुन्येव संभवात्, प्रतिषेधस्य तु न वस्त्वनुरोधोऽतो नीरूपेऽपि भेदाभेदप्रतिषेधः कर्तुं शक्य इत्याशयः । ' तेन' इत्यस्य १३५ Page #169 -------------------------------------------------------------------------- ________________ १३६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । यो भावो विनाशशब्देनोच्यते, अयं च भावरूपत्वात् तात्त्विकः साधनस्वभाव एव विनाशः कार्योत्पत्तिकाले च निवर्तत इति, कार्यभिन्नकालभावेन च सर्वकालमस्य सद्भावो भावस्यासत्त्वात् , यद्वा विनाशोऽस्य ( स्यास्तीति ) विनाशीति व्युत्पत्तेरविनाशिव्यावृत्तो भाव एव नाश उच्यत इति न दोषः । तदेवं क्षणिकाः सर्वे स्वपर्यायाः, त एवार्थक्रियाकारित्वेन सत्या इति निर्मूढम् ॥ १६ ॥ ___ नन्वस्मिन्नेवायं घट इति प्रत्यभिज्ञाऽनुपपत्तिः, भिन्नेषु घटक्षणेष्वेकत्वस्य प्रतिसन्धातुमशक्यत्वात्, न च प्रत्यभिज्ञान प्रमाणम् , "तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् । अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम् " ॥ १ ॥ इति प्रमाणलक्षणयोगात्, ___ न च स्मृतिपूर्वकत्वात् स एवायमिति प्रत्यभिज्ञानस्य प्रत्यक्षत्वमयुक्तमिति शङ्कनीयम् , सत्संप्रयोगजत्वेन स्मरणपश्चाद्भाविनोऽप्यक्षजप्रत्ययस्य लोके प्रत्यक्षेण प्रसिद्धत्वात् , न च पूर्वापरकाल सम्बन्धिद्रव्यस्यैकत्वात् कालस्य चाऽतीन्द्रियत्वात् प्रमेयानतिरेकादस्याप्रामाण्यमिति वाच्यम् , तथापि सोऽयं 'अपास्तम्' इत्यनेनान्वयः। तेन ध्वंसस्य भावव्यतिरिक्तत्वस्याविधानेन, सांव्यवहारिककारणनिवृत्तिरूपत्वस्याभ्युपगमेन च। तेन द्वितीयक्षणोत्पत्तिकाले प्रथमक्षणनिवृत्तिभावेन । अयं च विनाशशब्दवाच्य एकक्षणस्थो भावश्च । साधन स्वभाव एवं कारणस्वभाव एव, कारणात्मैवेति यावत् । यदा च कारणस्वरूपोऽयं तात्त्विक्तो विनाश एकक्षणस्थ एव, कार्यकाले च नश्यति तदाऽस्य नाशस्य कार्यभिन्नकाल एव भावेन कार्यकालेऽसत्त्वान्न सर्वकाले सद्भावः, कारणस्वरूपस्यास्य कारणस्य सर्वदाऽभावेऽस्यापि सर्वदाऽभावादित्याह-कार्यभिन्नकालभावेन चेति । 'सर्वकालमस्य' इति स्थाने 'न सर्वकालमस्य' इति पाठो युक्तः । अस्य साधनस्वभावस्य विनाशस्य । भावस्यासत्त्वात् साधनस्य सर्वकालमसत्त्वात् । भावस्यैव विनाशशब्दवाच्यत्वमतव्यावृत्तिमुखेन दर्शयति - यद्वेति- यथा घटत्ववत्त्वं घटत्वमेव तथा विनाशित्वं विनाश एव, घटत्वादीनां यथाऽघटव्यावृत्त्यादिरूपत्वं तथा विनाशस्याप्यविनाशिव्यावृत्तिरूपत्वम् , पर्यायनये च भावा विनाशिन एवेति भवन्त्यविनाशिव्यावृत्ताः, तत्त्वादेव च नाशरूपत्वमेषां न तु नाशो नामातिरिक्तो भावेभ्य इति हृदयम् । पर्यायार्थिकमते द्रव्यं नास्त्येव, पर्याया एव तु सत्या अर्थक्रियाकारित्वलक्षणसत्त्वयोगादित्युपसंहरति-तदेवमिति। त एव पर्याया एव । नियूढं सुव्यवस्थितम् ॥ १६ ॥ ____ सप्तदशपद्यमवतारयति- नन्विति । 'नन्वस्मिन्नेवायं' इत्यस्य स्थाने 'नन्वस्मिन् नये स एवायं' इति पाठो युक्तः । अस्मिन् नये पर्यायार्थिकनये । प्रत्यभिज्ञानुपपत्तौ हेतुमुपदर्शयति-भिन्नेष्विति- एकसन्तानगता ये पूर्वोत्तरकालवर्तिनो घटक्षणास्तेऽन्योऽन्यं भिन्ना एव, तेष्वेकत्वस्यासतः प्रतिसन्धातुमशक्यत्वादित्यर्थः । ननु प्रत्यभिज्ञा न प्रमारूपेति तस्या अनुपपत्तिर्न दोषावहेत्याशय प्रतिक्षिपति-न चेति । प्रमाणस्य यलक्षणमन्यत्र क्लुप्तं तस्य प्रत्यभिज्ञायामपि सत्त्वेन प्रमाणलक्षणयोगात् प्रत्यभिज्ञायाः प्रामाण्यस्यावश्यं स्वीकरणीयत्वादिति निषेधहेतुमुपदर्शयति-तत्रेति । अधिगतार्थाधिगन्तृ. ज्ञानेऽतिव्याप्तिवारणाय 'अपूर्वार्थविज्ञानम्' इति । संशयेऽतिव्याप्तिवारणाय 'निश्चितम्' इति । बाधितार्थविषयके विभ्रमेऽतिव्याप्तिवारणाय 'बाधवर्जितम्' इति । यश्च विपर्ययोऽसदर्थविषयकोऽपि स्वविषयेऽजातबाधः स बाधवर्जितो भवत्येवेति तत्रातिव्याप्तिवारणाय 'अदुष्टकारणारब्धम्' इति । प्रत्यभिज्ञायाः प्रत्यक्षरूपत्वेन प्रामाण्यं मीमांसका अभ्युपगच्छन्ति, तत्र प्रत्यक्षत्वमसहमानस्य वादिन आशङ्कामुद्भाव्य प्रतिक्षिपति-न चेतेि- अस्य 'शङ्कनीयम्' इत्यनेनान्वयः । निषेधे हेतुमाह-सत्संप्रयोगजत्वेनेति- सता वर्तमानेनार्थेन सहेन्द्रियस्य यः संप्रयोग, सन्निकर्षस्तजन्यत्वेनेत्यर्थः, इन्द्रियार्थसंप्रयोगजन्यज्ञानत्वं प्रत्यक्षस्य लक्षणम् , तच्च प्रत्यभिज्ञानेऽपि समस्तीति स्मरणपृष्ठभाविनोऽप्यस्य लोके प्रत्यक्षेण प्रसिद्धत्वात् प्रत्यक्षत्वं स्त्रीकरणीयमित्यर्थः । पूर्वज्ञानेनोत्तरज्ञानेन च यदेव द्रव्यं विषयीक्रियते तदेव प्रत्यभिज्ञानेनापि विषयीक्रियते, कालस्त्वतीन्द्रियत्वादेव न प्रत्यभिज्ञाप्रत्यक्षविषय इति यदेव प्रमाणान्तरस्य प्रमेयं तदेवास्यापि प्रमेयमिति प्रमेयानतिरेकात् प्रत्यभिज्ञानस्य न प्रामाण्यामित्याशय प्रतिक्षिपति-न चेति- अस्य वाच्यम्' इत्यनेनान्वयः। अस्य प्रत्यभिज्ञानस्य । प्रमेयानतिरेकेऽपि मानान्तरानिवर्त्यसंशयनिवर्तकत्वेन प्रत्यभिज्ञानस्य प्रामाण्यमिति निषेधहेतुमुप Page #170 -------------------------------------------------------------------------- ________________ नयामृततरक्षिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । १३७ नवेति सन्देहनिराकरणेनास्य प्रामाण्यसिद्धेविषयातिरेकस्यै(स्ये)व सन्देहापाकरणस्यापि प्रामाण्य निब. न्धनत्वात् , न च सविकल्पत्वादेवास्या अप्रामाण्यं, नीलमनुभवामीति विकल्पादविकल्पनीलानुभवस्य सौगतैरिव पूर्वदृष्टं पश्यामीति विकल्पात् , अविकल्पात् तु यद्रूपशब्दानुभवस्यास्माभिः कल्पयितुं शक्यस्वादिति जाग्रत्कत्वं प्रत्यभिज्ञाने कथं क्षणिकपर्यायसिद्धिरित्याशङ्कायामाह यथा लून-पुनर्जातनखादावेकतामतिः । तथैव क्षणसादृश्याद घटादौ द्रव्यगोचरा ॥ १७ ॥ नयामृत-यथेति । यथा लून-पुनर्जातनखादी भेदाग्रहात्, एकतामतिः- स एवायं नखः' इत्याद्यभेदामिमानात , तथैव क्षणसादृश्यात्-सदृशापरापरक्षणोत्पत्तिरूपदोषात् , घटादौ द्रव्यगोचरैकता. मतिर्भवेत्, तथा च प्रत्यभिज्ञाया भ्रान्तत्वान्न क्षणिकत्वसिद्धिप्रतिबन्धकत्वमिति भावः, न च लून. पुनर्जातनखादौ विच्छेदाभिज्ञैर्भेदग्रहणादस्तु तत्राभेदग्रहो भ्रमः, अत्र तु नैवमिति वैषम्यमिति वाच्यम् , अवगतविच्छेदानामपि प्रमातृणां समानवर्ण-संस्थान-प्रमाणेषु केशादिषु तदन्येषामिव प्रत्यक्षेण भेदनिश्वयाभावात्, आनुमानिकभेदनिश्चयस्य चात्रापि साम्यात्, न च विकल्पवादनुभवस्य विषयव्यवस्था दर्शयति-तथाऽपीति-प्रमेयानतिरेकेऽपीत्यर्थः । अस्य प्रत्यभिज्ञानस्य । विषयातिरेकस्येव प्रमाणान्तरविषयभिन्नविषयकत्वस्येव । सन्देहापाकरणस्यापि सन्देहनिवर्तकत्वस्यापि । ननु निर्विकल्पकप्रत्यक्षमेव प्रमाणम्, प्रत्यभिज्ञा तु सविकल्पात्मिकाऽतो न प्रमाणमित्याशक्ष्य प्रतिक्षिपति-न चति । अस्याः प्रत्यभिज्ञायाः । निषेधे हेतुमाह-नीलमनुभवामीति- अनुभवरूपविकल्पद्वारा निर्विकल्पस्य प्रामाण्यं सौगतैरिष्यते, ततो विकल्पस्य साक्षादप्रामाण्येऽपि स्वजनकनिर्विकल्पकानुभवव्यापारविधया प्रामाण्यम् , तत एव यत्र विकल्पस्तत्र विकल्पात् कार्यानिर्विकल्पकस्यानुमित्यात्मककल्पनमिति नीलमनुभवामीति विकल्पादविकल्पस्यानुभवस्य सौगतैर्यथा कल्पना क्रियते तथा मीमांसकादिभिरपि पूर्वदृष्टं पश्यामीति विकल्पादविकल्पस्यात्रुट्य पशब्दाद्यनुभवस्य कल्पयितुं शक्यत्वादित्यर्थः । “विकल्पात्, अविकल्पा तु यद्रपशब्दा. द्यनुभवस्यास्माभिः” इत्यस्य स्थाने 'विकल्पादविकल्पात्रुट्यपशब्दाद्यनुभवस्यास्माभिः' इति पाठो युक्तः । तथा च पूर्वापरैकत्वमाहिणि प्रत्यभिज्ञाने सति क्षणिकपर्यायसिद्धिर्न स्यादेवेत्याह-इति जाग्रदिति- अत्र 'जाग्रत्कत्वं प्रत्यभिशाने. इत्यस्य स्थाने 'जाग्रत्यैकत्व प्रत्यभिज्ञाने' इति पाठो युक्तः ॥ विवृणोति-यथेतीति । भेदाग्रहात् लूनेन नखादिना पुनर्जातनखादे:दस्य ज्ञानाभावात् । 'मानात तैथव' इत्यस्य स्थाने 'मानस्तथैव' इति पाठो युक्तः, । 'एकतामतिः' इति मूलस्य विवरणम् -' स एवायं नखः' इत्याद्यभेदाभि. मान इति, 'अभिमानः' इत्यनेनोक्तज्ञानस्य भ्रमत्वमाविष्कृतम् , भ्रमस्य दोषजन्यत्वमिति नियमेन भेदाग्रहस्य कारणत्वमत्र दोषविधयेति बोध्यम् । तथा च सदृशापरापरक्षगोत्पत्तिरूपदोषजन्यत्येन दृष्टान्त दार्शन्तिकयोवैषम्यमाशङ्य प्रतिक्षिपतिन चेति-अस्य 'वाच्यम्' इत्यनेनान्वयः । विच्छेदाभिरिति- यादप्रमाण इदानीन्तननखादिस्तादृक्प्रमाणः पूर्वनखादिविनष्ट इत्येवं विच्छेदाभिरित्यर्थः । भेदग्रहणात पूर्वानुभूतनखादितो वर्तमाननखादेर्भेदस्य ग्रहणात् । तत्र लूनपुनर्जातनखादौ । अभेदग्रहः विच्छेदानभिज्ञस्य भेदाप्रहरूपदोषात् पूर्वानुभूतनखादितो वर्तमाननखादेरभेदग्रहः । भ्रमोऽस्तु भ्रमात्मको भवतु नाम । अत्र तु स एवायं घट इत्यादिप्रत्यभिज्ञायां पुनः । नैवं न कोऽपि पूर्वघटो नष्टोऽन्य एवेदानोन्तनघट इत्येवं विच्छेदाभिज्ञः समस्ति यस्य भेदग्रहो भवेदपि, ततो न पूर्वापरघटैकत्वादिज्ञानं भ्रमः । निषेधहेतुमाह- अवगतविच्छेदानामपीति । तदन्येषामिव अनवगतविच्छेदानां प्रमातृणामिव । ननु लून-पुनर्जातनख-केशादौ प्रत्यक्षात्मकभेदनिश्चयाभावेऽप्यनुमित्यात्मकभेदनिश्चयः समस्त्येवेत्यत आह-आनुमानिकति । अत्रापि प्रत्यभिज्ञानविषयघटादावपि । किच्च, सोऽयं घट इति प्रत्यभिज्ञानात्मकविकल्पबलानिर्विकल्पकोऽप्यत्रुय्यदूपघटादिगोचर इत्यत्र न प्रमाणमस्ति समानविषयकनिर्विकल्पकमन्तरेणापि वासनादितो विकल्पस्य सम्भवादित्याह - न चेति- अस्य 'सङ्गच्छते' इत्यनेनान्वयः । विषयव्यवस्था यद्विषयको १८ Page #171 -------------------------------------------------------------------------- ________________ १३८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। सङ्गच्छते; किञ्च, सोऽयमित्याकारयोरन्योऽन्यानुप्रवेशेन भाने परोक्षापरोक्षरूपमेकं ज्ञानं स्यादन्योन्याननुप्रवेशेन च भाने प्रतिभासद्वयं परस्परविविक्तमायातमिति प्रतिभास्यस्यापि भेद एव ध्रुवः, न चात्रुट्यद्रूपतया प्रतिभासात् प्रतिभास्यस्यैकत्वम् , पूर्वदृष्टाप्रतिभासनेन त्रुट्यद्रूपताया विद्युदादाविव स्तम्भादावपि तुल्यत्वात् , अविरतोपलब्धिरूपायाश्चात्रुट्यद्रूपताया अगृहीतभेदान्यान्यविषयत्वेनाप्युपपत्तिरिति दिक। ___ ननु तथापि विनाशस्य सहेतुकत्वात् तद्धत्वभावादेव कियत्कालं स्थैर्योपपत्तौ न घटादेः क्षणिकत्वमिति चेत् ? न-विनाशस्य सहेतुकताया एवासिद्धेः, तथाहि-इन्धनादीनामग्निसंयोगावस्थायां त्रितयमुपलभ्यते-तदेवेन्धनादि, कश्चिद् विकारोऽङ्गारादिः, तुच्छरूपश्चाभावः कल्पनाज्ञानप्रतिभासी, तत्राग्न्यादीनां क व्यापार इति वक्तव्यम, न तावदिन्धनादिजन्मनि स्वहेतुत एव तेषामुत्पत्तेः, नाप्यङ्गारादौ विवादाभावात्, किन्त्वग्न्यादिभ्योऽङ्गाराद्युत्पत्ताविन्धनादेरनिवृत्तत्वात् तथैवोपलब्ध्यादि. प्रसङ्गः, अङ्गारादेरेवेन्धनादिनिवृत्तिरूपत्वात् तद्ग्रहे न तदुपलब्धिरिति चेत् ? न-तस्य निवृत्तित्वे साध. विकल्पस्तद्विषयको निर्विकल्पक इति विकल्पस्य पूर्वापरकत्वावगाहित्वे निर्विकल्पमपि पूर्वापरकत्वावगाहीत्येवं विषयव्यवस्था । अपि च, सोऽयमिति यदेकं ज्ञानं तस्य स इत्याकारोऽयमित्याकारश्च, तत्र स इत्याकारो यद्ययमित्याकारानुप्रवेशेन भासते, अयमित्याकारश्च स इत्याकारानुप्रवेशेन च भासते तदा प्रतिभासविवेकाभावात् स इत्याकारांशेऽपि ज्ञानं परोक्षमपरोक्षं च, अयमित्याकारेऽपि तथा, यतः स इति परोक्षाकारस्तद्वत्त्वात् परोक्षत्वम् , तस्यैव चायमिति प्रत्यक्षाकारानुप्रवेशात् प्रत्यक्षाकारत्वमपि, तदाकारवत्त्वात् प्रत्यक्षत्वमपि, एवमयमिति प्रत्यक्षाकारस्तद्वत्त्वात् प्रत्यक्षत्वम् , तस्यैव च स इति परोक्षाकारानुप्रवेशात् परोक्षाकारत्वमपि, तदाकारवत्त्वात् परोक्षत्वमपीति; यद्युक्ताकारयोरन्योऽन्याननुप्रवेशेन भानं तदा स इत्याकारकं यज्ज्ञानं न तस्यायमित्याकारः, यच्चायमित्याकारकं ज्ञानं न तस्य स इत्याकार इति परोक्षप्रतिभास्येकं ज्ञानं प्रत्यक्षप्रतिभासि च ज्ञानान्तरमित्येवं ज्ञानद्वयमापन्नम् , तथा च तत्प्रतिभास्यस्य विषयस्यापि भेद इति नोक्तप्रत्यभिज्ञानबलात् पूर्वापरैकत्वसिद्धिरित्याह-किञ्चेति- अन्योऽन्यानुप्रवेशेन भाने परोक्षापरोक्षरूपं यदेकज्ञानं प्राप्तं तद्विरुद्धधर्माध्यासान्न संभवति, अन्योऽन्याननुप्रवेशेन भाने यदर्थं प्रत्यभिज्ञानप्रमाणाश्रयणं तदभिलषितं न सिध्यतीत्याशयः। प्रतिभासस्य भेदेऽपि प्रतिभास्यस्य विषयस्यात्रुट्यद्रूपतया प्रतिभासादेकत्वमित्यपि नास्ति, यदाऽयमिति वर्तमानकालवृत्तितया प्रतिभासते तदा न पूर्वकालवृत्तितया, यदा च पूर्वकालवृत्तितया रा इति प्रतिभासते तदा न वर्तमानकालवृत्तितयेति विद्यदादीनामिव स्तम्भादीनामपि त्रुट्यद्रूपतयैव प्रतिभासादित्याह- न चेति । अत्रुट्यद्रूपतया पूर्वापरकालाविच्छिन्नरूपतया, एकज्ञाने पूर्वरूपं वर्तमानरूपं च यदि प्रतिभासेत तदा पूर्वापरकालाविच्छेद लक्षणात्रुय्यद्रपताप्रतिभासनं शक्येताभ्युपगन्तुम् , न चैवमित्याशयः। ननु स्तम्भादिकं कियत्कालमविरतमुपलभ्यते न तु विद्यदादिकमित्यविरतोपलब्धिलक्षणात्रव्यदूपता स्तम्भादावस्ति न तु सा विद्युदादा. वित्यस्ति विशेषः, तद्वलादेव प्रतिभास्यस्यैकत्वं स्यादित्यत आह- अविरतोपलब्धिरूपायाश्चेति-अगृहीतेति- यद्यपि प्रतिक्षणं स्तम्भादीनामन्यान्यभाव इति पूर्वक्षणवृत्तिस्तम्भादिव्यक्तिभ्य उत्तरोत्तरक्षणवर्तिनीनां स्तम्भादिव्यक्तीनां भेद एव तथापि सौसादृश्यदोषात् स भेदो न गृह्यत इत्यगृहीतभेदा या अन्या अन्यास्तम्भादिव्यक्तयस्तद्विषयकत्वेनाप्युक्तम्वरूपाया अत्रुव्यद्रूपताया उपपत्तिरिति नातः प्रतिभास्यस्यैकत्वमित्यर्थः । द्रव्यवादी शङ्कते-नन्विति । तथापि उक्तदिशा प्रत्यभिज्ञाया अप्रामाण्यसमर्थनेऽपि । तद्धत्वभावादेव विनाशहेत्वभावादेव । कियत्कालं यावन्न विनाशहेतुसमवधानं तावत्कालम् । पर्यायवादी समाधत्ते-नेति। विनाशस्य सहेतुकत्वाभावमेव भावयति-तथाहीति । तेषाम् इन्धनादीनाम् । विवादाभावादिति- अग्न्यादीनामगारादौ व्यापार इत्यतोऽग्न्यादिभ्योऽङ्गाराजीनामुत्पाद इति यदीप्यते तदाऽस्मदादिभिरप्यग्न्यादिभ्योऽङ्गारादीनामुत्पाद इष्यत एवेति तथोपगमे विवादाभावादित्यर्थः। यदि नास्ति विवादस्तत्किमित्थमस्माभिरुपदर्शिते भवद्भिस्तूष्णीम्भूय स्थातव्यमिति पृच्छतिकिन्त्यिति । एवमुपगमे भवत्पक्षे दोषान्तरोपदर्शने सावकाशा एव वयमित्युत्तरयति- अग्न्यादिभ्य इति । तथैव पूर्ववदेव । तबहे अङ्गारादिलक्षणेन्धनादिनिवृत्तिग्रहे । तदुपलब्धिः इन्धनाधुपलब्धिः । तस्य अजारादेः । निवृत्तित्वे इन्धनादि Page #172 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । काभावात् ,मिथोऽनुपलम्भनियमस्य तत्साधकत्वे अन्योन्याश्रयात्। 'अव्यक्तस्वात्मरूपविकारान्तरोध्वंसः' इत्यनुद्धोष्यम् , बुद्ध्यादीनामात्मरूपविकारापत्तौ प्रमाणाभावात् , प्रदीपादेश्चाव्यक्तरूपस्य विकारस्य कार्यविशेषादर्शनेनासिद्धेः। किञ्च, भावान्तरस्य प्रध्वंसत्वे तद्विनाशात् घटाद्युन्मजनप्रसङ्गः, घटप्रागभाव-तद्धंसानाधारकालस्य घटाधारत्वव्याप्यत्वात्; न च कपालादेर्भावरूपतैव ध्वस्ता नाऽभावात्म. कतेति नायं दोषः, धर्मिप्रच्यवे धर्मप्रच्यवात् निराश्रयधर्मावस्थानायोगात् ; कपालादिकार्यपरम्परायामेव घटध्वंसत्वस्वीकारात् नायं दोष इति चेत् ? न-एवं सति घटध्वंसत्वस्य व्यासज्यवृत्तित्वे यावदाश्रयभानं विनाऽभानप्रसङ्गात्; तस्मात् तुच्छरूप एव ध्वंस इत्यवशिष्यते, तत्र च कारकव्यापारासम्भव एव, हेतुमत्त्वे तस्य भावत्वप्रसङ्गात्, भवनधर्मा हि भावः, अङ्कुरादावपि भावशब्दप्रवृत्तिनिमित्तं निवृत्तिरूपत्वे । नन्वङ्गाराग्रुपलम्भे इन्धनादिकं नोपलभ्यते, इन्धनाद्युपलम्भेऽङ्गारादिकं नोपलभ्यत इत्यतोऽङ्गारादिकमिन्धनादिनिवृत्तिरूपमुपेयत इत्यत आह-मिथोऽनुपलम्भनियमस्येति । तत्साधकत्वे निवृत्तिरूपत्वसाधकत्वे । अन्योन्या. श्रयादिति-अङ्गारादिजन्मनि कथमिन्धनं नोपलभ्यते इति पृच्छायामङ्गारादिक यत इन्धनादिनिवृत्तिरू रम् , कथमङ्गारादिकमिन्धनादिनिवृत्तिरूपमिति पृच्छायां यतोऽङ्गारादिजन्मनि इन्धनादिकं नोपलभ्यत इत्येवमुत्तरवितरणेऽन्योऽन्याश्रयस्य स्पष्ट प्रतीतेरित्याशयः। स्वस्वरूपाव्यक्तविकारो ध्वंस इति मतमुद्भाव्य प्रतिक्षिपति-अव्यक्तेति । बुद्धयादीनां यदा विनाशो भवति तदानीं बुद्धयादिरूपो विकारो नोपलभ्यत इत्यनुपलभ्यमानाव्यक्तबुद्धयादिरूपविकारे प्रमाणाभावेन बुद्धयादीनामुक्तस्वरूपध्वंसानापत्तेरित्याह-बुद्धयादीनामिति । एवं प्रदीपादेप्युक्तविकारे प्रमाणाभावेन तदात्मकध्वंसाभावापत्तिरित्याहप्रदीपादेश्चेति । अभावाभावस्य प्रथमाभावप्रतियोगिस्वरूपत्वेन घटादिध्वंसध्वंसस्य घटादिस्वरूपतया घटादिध्वंसस्य कपालादिभावस्वरूपत्वे कपालादिध्वंसाद्धटाद्युन्मजनप्रसझान्न ध्वंसस्य भावान्तरस्वरूपत्वमित्याह-किश्चेति । तद्विनाशात् कपालादिस्वरूपघटादिध्वंसविनाशात् । कथं भावान्तररूपत«सविनाशात् तदुन्मजनप्रसङ्ग इत्यपेक्षायामाहघटप्रागभावेति । तद्धवंसेति-घटध्वंसेत्यर्थः । 'कालस्य' इति स्थाने 'कालत्वस्य' इति पाठः, भावप्रधानो वा निर्देशः, व्याप्तिश्च यत्र घटप्रागभाव-तद्ध्वंसानाधारकालत्वं तत्र घटाधारत्वमित्येवंरूपा । ननु कपालादेर्या घटध्वंसादिरूपता सा कपालादिनाशेऽपि न नश्यतीति घटादिध्वंसरूपताया नाशाभावान्न घटाद्युन्मजनप्रसङ्ग इत्याशङ्कय प्रतिक्षिपति-न चेति । भावरूपतैव कपालादिभावात्मकतैव । ध्वस्ता कपालादिनाशाद् विनष्टा,। नाभावात्मकता कपालादेर्घटादिध्वंसात्मकता न विनष्टा । इति एतस्माद्धेतोः । नायं दोषः घटाद्युन्मजनप्रसङ्गरूपो दोषो न । प्रतिक्षेपे हेतुमाह-धर्मिप्रच्यव इति- कपालाद्यात्मकधर्मिणो नाशे सति धर्मस्य घटादिध्वंसरूपत्वस्यापि विनाशात् निराश्रयस्याधाररहितस्य धर्मस्यावस्थानासम्भवादित्यर्थः। ननु कपालं यथा घटध्वंसरूपं तथा कपालानन्तरं यत्कार्य तदपि घटघसरूपम् , एवं तत्कार्यानन्तरकायमपीत्येवं कपालादिकार्यपरम्परायामेव घटधसत्वस्य स्वीकारेण कपालविनाशेऽपि तदनन्तरकार्यस्य विद्यमानत्वेन तदात्मना घटध्वंसस्य विद्यमानतया घटवंसध्वंसाभावान्न घटोन्मजनप्रसङ्ग इत्याशङ्कते- कपालादीति । यदि कपालादिकार्येषु प्रत्येक परिसमाप्तं घटध्वंसत्वं तदैकस्य कपालादिरूपकार्यस्य नाशे तदात्मना घटध्वंसस्यापि नाशः स्यादिति घटोन्मजनप्रसङ्गः स्यादेव, यदि च कपालादिपरम्परितकार्यसमूहेष्वेव पर्याप्तं घटध्वंसत्वं तदा व्यासज्यवृत्तस्तस्य यावदाश्रयप्रत्यक्षे सत्येव प्रत्यक्ष भवेत्, व्यासज्यवृत्तिधर्मप्रत्यक्ष प्रति यावदाश्रयप्रत्यक्षस्य हेतुत्वात्, तथा च मुद्गरपाततः कपालकदम्बके जाते सति घटो ध्वस्त इत्येवंरूपेण घटध्वंसस्य तत्त्वेन यत् प्रत्यक्षं भवति तन्न स्यादिति समाधत्ते-नेति । एवं सति कपालादिकार्यपरम्पसयामेव घटध्वंसत्वस्य स्वीकारे सति । तस्मात् भावान्तरस्य ध्वंसरूपत्वासम्भवात् । तत्रच तुच्छरूपध्वंसे च। यदि च तुच्छरूपेऽपि ध्वंसे कारकव्यापारोऽभ्युपगम्यते तदा तुच्छरूपत्वमेव तस्य न स्यात् किन्तु हेतुमत्त्वे भवनधर्मकस्य ध्वंसस्य भावत्वमेव स्यात्, अन्यत्राप्यकुरादौ भवनधर्मरूपभावशब्दप्रवृत्तिनिमित्तबलादेव भावशब्दप्रवृत्तिः, भवनं च हेतुमति ध्वंसेऽपि समस्तीति तत्रापि भावशब्द एव प्रवतेत नाभाव इत्याह-हेतमत्वे इतिकारणवत्त्व इत्यर्थः। तस्य ध्वंसस्य । तश्चेत् भवनं चेत् । अभावे ध्वंसे । अस्ति वर्तते । कथं न भावः ध्वंस: कथं न भावशब्दप्रतिपाद्यः स्यात् , अपि तु स्यादेवेत्यर्थः । प्रतिनियतेन रूपेण स्वग्राहिणि ज्ञाने यत् प्रतिभासते तस्यैव भावत्वं स्वीक्रियते, न च ध्वंसः प्रतिनियतेन रूपेण स्वग्राहिणि ज्ञाने प्रतिभासतेऽतो नास्य भावत्वमित्याशङ्कय Page #173 -------------------------------------------------------------------------- ________________ १४० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । नापरमुपलभ्यते, तच्चेदभावेऽस्ति कथं न भाव इति; स्वग्राहिणि ज्ञाने प्रतिनियतेन रूपेणाप्रतिभासनादभाव इत्येतदपि न वक्तव्यम् , अत्यन्तपरोक्षचक्षुरादीनामप्यभावत्वापत्तेः । किञ्च, यद्यभावरूपो विनाशो हेतुमांस्तदा हेतुभेदात्तद्भेदप्रसङ्गः, न चायमनुभूयते, अग्न्यभिघातादिहेतुभेदेऽपि घटनाशभेदाननुभवात् , तस्मादहेतुरयं निःस्वभावस्तुच्छोऽभ्युपगन्तव्यः, अग्निसंयोगादयस्तु काष्ठादिष्वङ्गारादिकमेव जनयन्ति, काष्ठादयः स्वरसत एव निरुध्यन्त इत्यनवद्यम , किञ्च, स्वभावतो भावानां नश्वरत्वेऽपरब्यापारवैफल्यादनश्वरत्वे च तत्स्वभावस्यान्यथाकर्तुमशक्यत्वाद् व्यों नाशहेतुः; अथ स्वहेतुभिर्नियतकालस्थायिस्वभावः पदार्थो जनित इति नोत्पादानन्तरमेव विनष्टुमुत्सहते इति चेत् ? तर्हि तस्मिन् स्वभावे व्यवस्थितः कथमन्तेऽपि विनश्येत् , तथा चान्तेऽन्ते तावत्तावत्कालस्थायिस्वभावानपगमे सदा स्थाष्णुरेव स्यात्, स्वभावापरावृत्तावकिञ्चित्करैर्मुद्रादिभिस्तन्नाशायोगात् ; न च भवतामप्यकिश्चित्करमपि मुद्रादिकमपेक्ष्य कथं प्रवाहो निवर्तत इति वाच्यम् , यतो न विशरारुक्षणव्यावृत्तोऽपरः प्रवाहो विद्यते यो निवर्तमानोऽकिञ्चित्करं मुद्गरादिकमपेक्षत इति प्रतिजानीमहे, किन्तु परस्परविविक्तपूर्वापरक्षणा एव प्रवाहः, ते च स्वरसत एव निरुध्यन्त इति न कचिदकिश्चित्करापेक्षा निवृत्तिः, केवलं मुद्गप्रतिक्षिपति-स्वग्राहिणीति। अत्यतं परोक्षाये चक्षुरादयस्तेऽपि स्वग्राहिणि ज्ञाने न प्रतिनियतेन रूपेण प्रतिभासन्ते इति तेषामप्युक्तनियमबलादभावत्वं प्रसज्यत इति निषेधहेतुमुपदर्शयति- अत्यन्तेति । अपि च यो हि हेतुमान् तस्य हेतुभेदाद् भेदो दृश्यते, यथा रक्तमृत्तिकादिप्रभवाद् घटादितः कृष्णमृत्तिकादिप्रभवस्य घटादेः, एवं च यदि ध्वंसो हेतुमान् स्यात् तदा तस्यापि हेतुभेदाद् भेदो दृश्यते न च दृश्यते तथेति न ध्वंसो हेतुमान् इत्याह-किश्चेति । तद्भेदप्रसङ्गः विनाशभेदप्रसङ्गः। न चेति- हेतुभेदाद् भेदो ध्वंसस्य न चानुभूयत इत्यर्थः । अत्रैव हेतुमुपदर्शयति- अग्न्यभिधातादीतिआदिपदान्मुद्रपातादग्रहणम् , यादृश एव घटनाशोऽग्न्यभिघाततो जायमानो दृश्यते तादृश एव स मुद्रपातादितोऽपि जायमानो दृश्यत इति हेतुभेदेऽपि घटनाशभेदाननुभवान्न हेतुमान् विनाशः । पर्यायवादी विनाशस्य तुच्छरूपत्वाहेतुमत्त्वे उपसंहरति-तस्मादिति । अयं विनाशः। यदि ध्वंसो न हेतुमान् तर्हि तत्कारणत्वेन व्यवहियमाणानामग्निसंयोगादीनां किं प्रति जनकत्वमित्यपेक्षायामाह- अग्निसंयोगादयस्त्विति । ननु यद्यग्निसंयोगादिभ्यो न काष्ठादीनां निवृत्त्यात्मा ध्वंसो जनितस्तदा काष्ठादयः किमिति पूर्ववन्नोपलभ्यन्त इत्यत आह-काष्ठादय इति । स्वरसतः स्वभावतः, काष्ठादीनां स्वभाव एवायं यदुत द्वितीयक्षणनिरुद्धा भवन्ति, सत्तां नानुभवन्तीति यावत् , ततः स्वभावत एव निरुद्धयन्ते काष्टादयो ज तदर्थमतिरिक्तविनाशलक्षणनिवृत्त्यपेक्षेति भावः । अपि च भावा यदि स्वभावत एव नश्वरास्तदा हेतुं विनाऽपि विनयन्तीति तदर्थ हेतुव्यापारणं व्यर्थम् , यदि व स्वभावतोऽनश्वरस्वभावास्ते तर्हि तत्स्वभावपरावर्तनं केनापि कर्तुमशक्यमिति हेतुव्यापारणे तत्स्वभावान्यथाभावासम्भवाद् व्यर्थ एव नाशहेतुरित्याह-किश्चेति । अनश्वरत्वे च स्वभावतो भावानामनश्वरत्वे च । तत्स्वभावस्य भावानामनश्वस्त्वस्वभावस्य । अन्यथा कर्तुं नश्वरस्वभावतां कर्तुम् । ननु स्वकारणसामग्र्या जायमानो भावो नियतकालस्थायिस्वभाव एव जन्यते, स यद्युत्पादानन्तरमेव नश्येत् नियतकालस्थायिस्वभावतेवास्य हीयेत, ततः स्वस्वभावान्यथानुपपत्त्या नियतकालावस्थानानन्तरमेव नश्यतीति न क्षणिकत्वं भावस्येति पराकूतं प्रतिक्षेप्तुमुपन्यस्यति- अथेति । यस्मिन् क्षणेऽसौ भावो नश्यति तदव्यवहितपूर्वक्षणेऽप्यस्य नियतकालस्थायित्वमेव स्वभावः, तथा च यदि तदव्यवहितक्षणेऽसौ नश्येत् न तर्हि स्वभावोऽस्य भवेदिति नाशकालत्वेनाभिमतक्षणेऽपि नासौ नश्येत् , एवं च सति यदा यदाऽस्य नाशः सम्भावनीयस्तत्तदव्यवहितपूर्वक्षणे तत्स्वभावस्य तादवस्थ्यान्न तदा तदाऽस्य नाशो भवेदिति सदातनत्वमेवास्य प्रसज्यत इति समाधत्ते-तहीति । तस्मिन् स्वभावे नियतकालस्थायिस्वभावे । यदा च स्वभावोऽस्य नियतकालस्थायिलक्षणो न केनापि परावर्तयितुं शक्यः, तदाऽकिञ्चिकरैर्मुद्रादिभिस्तन्नाशासम्भवात् सदातनत्वं परिहर्तुमशक्यमित्याह-स्वभावापरावृत्ताविति । तन्नाशायोगात् नियतकालस्थायिस्वभावपदार्थनाशासम्भवात् । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । भवतामपि क्षणक्षयवादि Page #174 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । रादिना रहिता सामग्री अविभक्तं कार्यं सम्पादयति, तत्सन्निधाने तु विभक्तं कार्यान्तरं जनयतीति विशेषः, न तु मुद्गरादयः कारणसामर्थ्य खण्डयतीति । अथायं विकल्पोऽतिप्रसञ्जकत्वादसारः, तथाहिउत्पादेऽप्येवं शक्यत एव वक्तुम्-स्वभावतो ह्युत्पत्तिस्वभावस्य न किञ्चिदुत्पत्तिहेतुमि:, तत्तत्स्वभावतयैव समुत्पादात्, अनुत्पत्तिस्वभावस्य तु व्यर्थी उत्पत्तिहेतवः, तथा चान्यथात्वस्य कर्तुमशक्यत्वात्, मैवम्-अभूत्वाभवनलक्षणायामुत्पत्तौ च भावगर्भायां हेतोरकिश्चित्करत्वस्येष्टापत्तेः, उत्पत्तिस्वभावभावीति मुखीभूते कारणकलापे कार्यकारित्वव्यपदेशहेतौ अकिश्चित्करत्ववचनस्य च व्याहतत्वात्, उत्पत्ति-ध्वंसस्वभावात्मको भात्रः सहेतुक एव, उत्पत्ति-ध्वंसयोः सांवृतयोस्त्वहेतुः, कथं ? केवलं भावनामपि | पर्यायवादी प्रतिक्षेपहेतुमुपदर्शयति- यत इति । ते च परस्परविविक्तपूर्वापरक्षणाश्च । यदि निरुक्तलक्षणप्रवाहः स्वभावत एव निरुद्धयते तर्हि मुद्गरादीनां क उपयोग इत्यपेक्षायामाह - केवलमिति । तत्सन्निधाने तु मुद्गरादिसन्निधाने पुनः । द्रव्यवादी पर्यायवादिनं प्रति प्रतिबन्दीं गृह्णन् शङ्कते - अथेति । अयं विकल्पः 'किञ्च स्वभावतो भावानां नश्वरत्वे' इत्यादिना दर्शितो विकल्पः । अतिप्रसञ्जकत्वात् उत्पादस्य सहेतुकत्वं त्वयाऽप्युपेयते, तत्राप्युक्तविकल्पप्रसरादुत्पादहेतुवैयर्थ्यप्रसङ्ग लक्षणातिप्रसङ्गहेतुत्वात् । उत्पादहेतुवैयर्थ्यप्रसङ्गलक्षणातिप्रसङ्गमेव भावयति - तथाहीति । 'तत्त त्स्वभावतयैव' इत्यस्य स्थाने 'तत्स्वभावतयैव' इति पाठो युक्तः, उत्पत्तिस्वभावतयैवेति तदर्थः । यद्यनुत्पत्तिस्वभावो भावस्तदा कारणसहस्रव्यापारणेन । प्युत्पत्तिस्वभावो न भवितुमर्हतीत्युत्पत्तिदे तूनां वैयर्थ्यमित्याह - अनुत्पत्तिस्वभावस्य त्विति । ' तथा चान्यथात्वस्य ' इति स्थाने ' तथात्वान्यथात्वस्य तत्स्वभावान्यथात्वस्य ' इति वा पाठः समीचीनः पाठद्वयेऽपि अनुत्पत्तिस्वभावान्यथात्वस्येत्येवार्थः । पर्यायवादी समाधत्ते – मैवमिति । 'च भावगर्भायाम्' इत्यस्य स्थाने ' चाभावगर्भायाम्' इति पाठो युक्तः, य उत्पद्यते स उत्पत्तिस्वभाव एव तत्रोत्पत्तिरभूत्वा भवनलक्षणाऽभावगर्भा यतोऽभवनमभाव एव तत्र सन्निविष्टः, तस्यां च हेतोरकिञ्चित्करत्वस्येष्टापत्तेः, तत्र हेतोरकिञ्चित्करत्वेन तदापादनस्येष्टत्वादित्यर्थः । तत्र हेतुमाह- उत्पत्तीति- अत्र “ उत्पत्तिस्वभावभावीति मुखीभूते ' इत्यस्य स्थाने 'उत्पत्तिस्वभावभावित्वात् तस्याः, तदुन्मुखीभूते " इति पाठः सङ्गतिमङ्गति, तदर्थस्तु तस्याः अभूत्वाभवनलक्षणाया उत्पत्तेः, भावस्य य उत्पत्तिस्वभावस्तद्भावित्वात् एवमपि उत्पत्तिहेतावुत्पत्तिस्वभाव भावोन्मुखीभूते कारणकलापे, कार्यकारित्वव्यपदेशहेतौ उत्पत्तिस्वभावभावोन्मुखे कारणकलापे सति अयं कारणकलापः कार्यकारीति व्यपदेशो भवति निरुक्तकारणकलापाभावे कार्यकारीति व्यपदेशो न भवतीत्यन्वयव्यतिरेकाभ्यां कार्यकारित्वव्यपदेशात्मककार्यकारिणि निरुक्तकारणकलापे, अकिञ्चित्करत्ववचनस्य स्वभावतो ह्युत्पत्तिस्वभावस्य न किञ्चिदुत्पत्तिहेतुभिः' इति वचनस्य, व्याहतत्वात् अर्थकारिण्यर्थ कारित्वाभाववचनस्य वन्ध्या पुत्रवतीतिवचनवद् व्याहतत्वादित्यर्थः । पर्यायवादी स्त्रविचार निश्यूतमर्थमुपदर्शयति- उत्पत्तीति- 'भावः' इत्युक्त्या तत्र हेतु पारसा फल्यमावेदितम् अभावे तु तुच्छरूपे शशशृङ्गादाविव हेतुव्यापारस्य वैफल्यम्, नहि हेतुसहस्रव्यापारेऽप्यभावो भावो भवितुमर्हतीति भवनप्रयोजकस्य हेतोस्तत्र वैफल्यमेवेत्याशयः । ननु ध्वंसस्वभावस्य भावस्य सहेतुकत्वाभ्युपगमे निर्हेतुको ध्वंस इति वचनमसङ्गतं भवत: प्रसज्यत इत्यत आहउत्पत्तिध्वंसयोरिति । "सांवृतयोस्त्वहेतुः, कथम्?" इत्यस्य स्थाने " सांवृतयोस्त्व हेतुत्वकथनम् ” इति पाठः समीचीनः, भावस्वरूपा योत्पत्तिः भावस्वरूपो यो ध्वंसस्तयोः सहेतुकत्वमेव, किन्तु सांवृतयो:- कल्पित योस्तूत्पत्तिध्वंसयोरहेतुत्वकथनमित्यर्थः । ननु यदि सांवृतयोरुत्पत्तिविनाशयोर्द्वयोरप्य हेतुत्वकथनं तर्हि किमित्युत्पत्तेः सहेतुकत्वव्यवहारो नाशस्य चाहेतुकत्वव्यवहारः, अहेतुकत्वाविशेषे सांवृतमोर्द्वयोरप्यहेतुकत्वव्यवहार एव समुचितः, भावात्मकयोश्च तयोः सहेतुकत्वाविशेषे सहेतुकत्वव्यवहार एव वा समुचित इत्यत आह- केवलमिति - किन्त्वित्यर्थः । भावेति- अभूत्वाभवनलक्षणा योत्पत्तिस्तस्यामभूत्वेत्यनेनाभावांशो यः सन्निविष्टस्त स्मिंस्तुच्छरूपे कारकव्यापारो न सफल इत्यभावांशमुपादाय तत्र हेतोरकिञ्चित्करत्वेनाहेतुकत्वम्, यश्च तत्र भवनांशो भावरूपस्तत्र सन्निविष्टस्तत्र हेतुव्यापारः सफल एवैति तदंशमुपादायोत्पत्तेः सहेतुकत्वमपि सम्भवतीति तदंशमुख्यतया तदुत्पत्तित्वं तेन सहेतुकत्वव्यवहार उत्पत्तौ घटते, नाशस्य तु न लक्षणस्वरूपसन्निविष्टो भावांशः किन्तु निवृत्तिस्वरूप तुच्छत्वमेव ध्वंसत्वं तेनाभावस्य मुख्यतया तत्र हेतुव्यापारः कथञ्चिदपि न १४१ Page #175 -------------------------------------------------------------------------- ________________ १४२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । मुख्यतयोत्पत्तित्वेन सहेतुकत्वव्यवहारः, नाशत्वेन चाभावमुख्यतयाऽहेतुकत्वव्यवहारः, उत्पत्तिव्यव. हार विकल्पसमनन्तरप्रत्यक्षं चाद्यान्तक्षण योरेव, परेषां प्रागभाव-ध्वंसप्रत्यक्षयोः प्रतियोगिव्याप्यसन्निकर्षाणां हेतुत्वकल्पनापेक्षया अस्माकमुत्पत्ति-धंसनिश्चये विलक्षणहेतुताकल्पन एव लाघवात् , अत एव भ्रान्तिकारणविगमादन्ते प्रत्यक्षनिबन्धनः क्षणक्षयनिश्चय उत्पद्यत इति सौगत इति दिक् । इदं च शुद्धपर्यायास्तिकनयमतम् , तदवान्तरभेदास्तु यावदपश्चिमविकल्पनिर्वचनं द्रव्यार्थिकावान्तरभेदवत् न्यायसिद्धा नानाविधा अभ्युपगन्तव्याः। अथैवं पश्चिमविकल्पनिर्वचनतया माध्यमिकदर्शनप्रवर्तक एवम्भूत एव शुद्धपर्यायार्थिकः स्यात्, इध्यते चर्जुसूत्रोऽपि शुद्धपर्यायार्थिक इति कथमियं व्यवस्थेति चेत् ? क्षणिकविषयताव्यापकपर्यायविषयताशाली शुद्धपर्यायार्थिक इति परिभाषाश्रयणादिति साफल्यमञ्चतीति तद्रपेणाहेतुक एव धस इति तत्राहतुकत्वव्यवहारो घटत इति विवेकः । ननु क्षणक्षयमते विशरारुक्षणप्रवाहलक्षणसन्ततिरूपे द्रव्येऽभ्युपगम्यमाने प्रतिक्षणमुत्तरपर्यायस्योत्पत्तिः पूर्वपर्यायस्य च विनाश इति किमित्युत्पत्तिविनाशव्यवहार-विकल्पौ प्रतिक्षणं न भवतः, व्यवहर्तव्यस्य विकल्प्यस्य च प्रतिक्षणमेव भावेन तादृशव्यवहारविकल्पानुगुणाविकल्पात्मकसमनन्तरप्रत्यक्षस्यापि प्रतिक्षणं सम्भवात् , सन्ततेराद्यक्षण एवोत्पत्तिव्यवहार विकल्पो सन्ततेरन्त्यक्षण एव च नाशविकल्प व्यवहारावित्यपि कथमित्यत आह-उत्पत्तीति अत्र 'उत्पत्तिव्यवहार-विकल्पसमनन्तरप्रत्यक्षं चाद्यान्तक्षणयोरेव' इत्यस्य स्थाने — उत्पत्ति-विनाशव्यवहार-विकल्पहेतुसमनन्तरप्रत्यक्षं चाद्यान्त्यक्षणयोरेव' इति पाठो युक्तः, तदर्थश्च-उत्पत्ति-विनाशयो? व्यवहार-विकल्पौ तयोर्हेतुर्यत् समनन्तरप्रत्यक्षं तच्चाद्यान्त्यक्षणयोरेव सन्ततेराद्यान्त्यक्षणयोरेव, सन्ततेराद्यक्षणे उत्पत्तिव्यवहार-विकल्पहेतुसमनन्तरप्रत्यक्षं भवति, ततः सन्ततेराद्यक्षणाव्यवहितोत्तरक्षणे उत्पत्तिव्यवहारविकल्पौ भवतः, सन्ततेरन्त्यक्षणे विनाशव्यवहार-विकल्पहेतुसमनन्तरप्रत्यक्षं भवति, ततः सन्ततेरन्त्यक्षणाव्यवहितोत्तरक्षणे नाशव्यवहार-विकल्यौ भवत इति । ननूत्पत्तिनिश्चयं प्रति सन्तत्याद्यक्षणभाविसमनन्तरप्रत्यक्षस्य कारणत्वम् , विनाशनिश्चयं प्रति सन्तत्यन्त्यक्षणोपजातसमनन्तरप्रत्यक्षस्य च कारणत्वमित्येवं कार्यकारणभावकल्पने पर्यायवादिनो गौरवं स्यादित्यत आह-परेषामिति-स्थिरवादिनां नैयायिकादीनामित्यर्थः । 'प्रतियोगिव्याप्यसन्निकर्षाणाम् इत्यस्य स्थाने 'प्रतियोगि. तद्व्याप्येतरयावत्प्रतियोग्युपलम्भकसन्निकर्षादीनाम्' इति पाठः समीचीनः, अत्र प्रतियोग्युपलम्भकयत्किञ्चित्सन्निकर्षादिसत्त्वे प्रागभावादिप्रत्यक्षं न भवतीत्यतो यावदिति, प्रतियोगिनो घटादेः प्रत्यक्षे विषयविधया प्रतियोग्यपि कारणमिति यावत्प्रतियोग्युपलम्भक सन्निकर्षादिमध्ये प्रतियोगिनोऽपि प्रवेशः स्यात्, न च प्रतियोगी स्वप्रागभावध्वंसप्रत्यक्षे कारणमिति प्रतियोगीतरत्वं यावत्प्रतियोग्युपलम्भके विशेषणम् , एवमपि प्रतियोगिप्रत्यक्ष प्रतियोगिना सहेन्द्रियसन्निकर्षा-ऽऽलोकसंयोग-महत्त्वोद्भूतरूपादिसम्बन्धानामपि कारणत्वेन प्रतियोगतरयावत्प्रतियोग्युपलम्भकमध्ये तेषामपि प्रवेशः, न च ते प्रागभाव ध्वंसप्रत्यक्ष कारणमतः प्रतियोगिन्याप्येतरत्वं यावत्प्रतियोग्युपलम्भके विशेषणम् , प्रतियोगिना सहेन्द्रिय सन्निकर्षादयश्च प्रतियोगिव्याप्या एवेति तेषां वारणमिति बोध्यम् । अस्माकम् क्षणक्षयवादिनाम् । उत्पत्ति,सनिश्चये उत्पत्तिनिश्चये ध्वंसनिश्चये च । विलक्षणेति- सन्तत्याद्यक्षणोत्पन्नसमनन्तरप्रत्यक्षस्योत्पत्तिनिश्चयं प्रति हेतुनाकल्पने सन्तत्यन्त्यक्षणोत्पन्नसमनन्तरप्रत्यक्षस्य ध्वंसनिश्चयं प्रति हेतुताकल्पने च लाघवादित्यर्थः । अत एव सन्तत्यन्त्यक्षणोत्पन्नसमनन्तरप्रत्यक्षस्य ध्वंसनिश्चयं प्रति हेतुत्वादेव । भ्रान्तिकारणविगमात् अभेदभ्रमकारणस्य स्वानन्तरसुमदृशोत्पादस्य विगमात् । अन्ते सन्ततेरन्त्यक्षण । प्रत्यक्षनिबन्धनः क्षणिकस्वलक्षणप्रत्यक्षात्मकसमनन्तरप्रत्यक्षनिबन्धनः । इति सौगतः एवं बौद्धः, अभ्युपगच्छतीति शेषः। इदं च अनन्तरोपवर्णिसं च, एतावता शुद्धपर्यायास्ति कनयसामान्यमतमुपदर्शितम् , अन्तिमविकल्पनिर्वचनपर्यन्तं तु नानाप्रकारा युक्तिसिद्धाः शुद्धपर्यायास्तिकनयावान्तरभेदाः स्वीकर्तव्या यथा द्रव्यार्थिकनयान्तरभेदा अपश्चिमविकल्पनिर्वचनं यावत् स्वीकृता भवन्तीत्याह- तदवान्तरभेदास्त्विति- शुद्धपर्यायास्तिकनयावान्तरभेदाः पुनः, अस्य न्यायसिद्धा नानाविधा अभ्युपगन्तव्याः' इत्यनेनान्वयः। तटस्थः शङ्कते-अथैवमिति । एवं पश्चिमविकल्पमन्त्यविशेषं विहायान्यविशेषेवपि द्रव्यार्थिकनयप्रवृत्त्युपगमे, तथा चान्त्यविशेषातिरिक्तविशेषः स्वविशेषापेक्षया सामान्यमिति द्रव्यनयविषयः स्वसामान्यापेक्षया Page #176 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। १४३ गृहाण; नन्वेवं शुद्धद्रव्यार्थिकपर्यायार्थिकयोरितरेतरविषयप्रतिक्षेपकत्वेन समुदितद्रव्यलक्षणाग्राहित्वेन मिथ्यादृष्टित्वमवान्तरतद्भेदानां च वैपरीत्येन सम्यगृहष्ठित्वं स्यादिति यथाश्रुतशुद्धाशुद्धविवेकानुपपत्तिरिति चेत् ? इदमित्यमेव जात्या शुद्धाशुद्धत्वैकान्तस्य वादिनैव प्रतिक्षिप्तत्वात् , यो नयोपयोगः स्वार्थे इतरनयार्थसंयोजनायां व्यापिपति तस्य तावत्याऽपेक्षया सम्यग्दृष्टित्वस्य, यथाश्रुतार्थप्रवाहप्रवृत्तस्य तथोपयोगवैकल्येन मिथ्यादृष्टित्वस्य च सम्प्रदायसिद्धत्वात् , तदुक्तम् " दव्वं पज्जवविउअं दव्वविजुत्ता य पजवा णत्थि । उप्पाय-ठुिइ-भंगा हंदि दविअलक्खणं एयं ॥ एए पुण संगहओ पाडिक्कमलक्खणं दुविण्डं पि । तम्हा मिच्छट्ठिी पत्तेयं दो वि मूलनया । ण य तइओ अत्थि णओ न य सम्मत्तं न तेसु पडिपन्नं । जेण दुवे एगन्ते विभजमाणा अणेगन्ते ।। जह एए तह अन्ने पत्तेयं दुन्नया नया सव्वे । हंदि हु मूलनयाणं पन्नवणे वावडा ते वि ।। सब्वणयसमूहम्मि वि णत्थि णओ उभयवायपण्णवओ। मूलनयाण उ आणं पत्तेयविसेसिअंबिंति ॥" [ सम्मतिप्रथमकाण्डे गाथाः-१२, १३, १४, १५, १६ ] त्ति ॥ विशेष इति पर्यायनयविषयः, तथा च तद्विषयको नयः पर्यायार्थिनयावान्तरभेदो द्रव्यनयविषयविषयकत्वादशुद्धपर्यायास्तिक एव भवेदिति पश्चिमस्यान्त्यस्य विकल्पस्य विशेषस्य निर्वचनतया निरूपणप्रवणत्वेन माध्यमिकर्दशनप्रर्वतकः शून्यवादिमतप्रवर्तक एवम्भूतनय एव शुद्ध पर्यायार्थिको भवेत् । न तु ऋजुसूत्रादय इत्यर्थः । भवत्येवमेवेत्यत आह-इष्यते चेतिअभ्युपगम्यते चेत्यर्थः । इयं व्यवस्था ऋजुसूत्रादीनामशेषाणामपि शुद्धपर्यायास्तिकनयावान्तरभेदत्वेन प्ररूपणारूपा व्यवस्था। सा तु तदेवोपपद्येत यदि ऋजुसूत्रादीनामपि शुद्ध पर्यायास्तिकत्वं भवेत् , शुद्धस्यैव हि शुद्धावान्तरभेदत्वं न त्वशुद्धस्येत्याशयः । समाधत्ते-क्षणिकेति-शुद्धपर्यायार्थिकपदस्य सामान्यानात्मकविशेषावगाहिनये निरूढा वृत्ति त्राश्रिता येन ऋजु. सूत्रादौ तत्प्रवृत्तिनैव भवेत् , किन्तु क्षणिकनिष्ठविषयताव्यापकपर्यायनिष्ठविषयताशालिनि नये आधुनिकसङ्केतित एव शुद्धपर्यायार्थिक शब्दः, तथा च ऋजुसूत्रादयः सर्वेऽपि नयाः क्षणिकमेव पर्यायमभ्युपयन्तीति ते क्षणिकनिष्टविषयताव्यापकपर्यायनिष्टविषयताशालिन इति शुद्धपर्यायार्थिकपदव्यपदेश्या भवन्तीति परिभाषाश्रयणाच्छुद्ध पर्यायार्थिकतयाऽवान्तरभेदा भवन्ति ऋजुसूत्रादयस्तेन निरुकव्यवस्था सूपपादेवेति, नन्वेवं परिभाषाश्रयणादृजुसूत्रादयः शुद्धपर्यायार्थिका अपि वस्तुस्थित्याऽशुद्धपर्यायार्थिका एव, किन्त्वेवम्भूतनय एव शुद्धपर्यायार्थिकः, एवं महासामान्यसत्तामात्रग्राही परसङ्ग्रह एव शुद्धद्रव्यार्थिकः, अपरसङ्कहनेगमादयस्त्वशुद्धद्रव्यार्थिका एव, एवं च शुद्धद्रव्यार्थिकः, पर्यायं नाभ्युपगच्छतीति तस्य ध्रौव्यमात्रग्राहित्वं नोत्पादव्ययग्राहित्वम् , शुद्धपर्यायार्थिकस्य त्वेवम्भूतस्य न द्रव्याभ्युपगमः किन्तु स पर्यायमात्रग्रहित्वादुत्पादव्ययोभयग्राह्येव न ध्रौव्यमाहीति ' गुणपर्यायवद् द्रव्यम्” (तत्त्वार्थसूत्रम्- ५-३७] इति यत् समुदितद्रव्यलक्षण तदाहित्वं द्रव्यप्रतिक्षेपकस्य शुद्धपर्यायार्थिकस्य नास्ति पर्यायप्रतिक्षेपिणः शुद्धद्रव्यार्थिकस्य च नास्तिीति तयोमिथ्यादृष्टित्वं स्यात् , तदवान्तरभेदास्तु द्रव्यमप्युपयन्ति पर्यायमपीति समुदितद्रव्यलक्षणग्राहिण इति तेषां सम्यग्दृष्टित्वं प्रसज्येतेत्यतो यथाश्रतशुद्धा-ऽशद्धविवेकोऽनुपपन्न इत्याशङ्कते- नन्वेवमिति । अवान्तरतद्भेदानां शुद्धद्रव्यार्थिशुद्धपर्यायार्थिकावान्तरभेदानाम् । वैपरीत्येन इतरेतरविषयाप्रतिक्षेपकत्वेन समुदितद्रव्यलक्षप.प्राहित्वेन । यथाश्रुतेति- स सम्यग्दृष्टिः स शुद्धनयः, यो मिथ्यादृष्टिः सोऽशुद्धनय इत्येवं यथाश्रतो यः शुद्धविवेकस्तस्यानुपपत्तिः, प्रत्युत यो मिथ्यादृष्टिः स शुद्धः, यश्च सम्यग्दृष्टिः सोऽशद्ध इत्येवायातम् । समाधत्ते- इदमित्थमेवेति- भवता शुद्धाशुद्धविवेकानुपपत्तिप्रदर्शनं रत् कृतं तत् तथैवेत्यर्थः । न चैवं स्वकपोलकल्पितत्वं श्रीसिद्धसेनदिवाकर सूरिसम्मतोऽयमर्थ इत्यावेदनायाह-जात्येति- विषयविनिमोकेण तत्तन्नयजात्यपेक्षयैव । तस्य नयोपयोगस्य । तावत्याऽपेक्षया स्वार्थे इतरनयार्थसंयोजनापेक्षया । यथाश्रतेति- केवलस्वस्वार्थमात्रा. वगाहनप्रवृत्तस्येत्यर्थः । तथोपयोगवैकल्येन स्वार्थे इतरनयार्थसयोजनोपयोगवैकल्येन । ___ उक्तार्थे सम्मतिगाथा पञ्चकं संवादकतयोपदर्शयति- तदुक्तमिति । दव्यं० इति- " द्रव्यं पर्यववियुक्तं द्रव्यवियुक्ताश्च पर्यवा न सन्ति । उत्पाद स्थितिभङ्गा हन्दि द्रव्यलक्षणमेतत् ॥ १ ॥ एते पुनः सङ्ग्रहतः प्रत्येकमलक्षणं द्वयोरपि । तस्मान्मिथ्यादृष्टी द्वावपि मूलनयौ ॥२॥ न च तृतीयोऽस्ति नयो न च सम्यक्त्वं न तयोः प्रतिपन्नम् । येन द्वावेकान्तौ Page #177 -------------------------------------------------------------------------- ________________ १४४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलङ्कतो नयोपदेशः । तस्मादितरनयार्थविषयसंयोजनोपयोगमुख्य-गौणतया स्व-परार्थग्राहिणामवान्तरभेदानां सम्यगदृष्टित्वं युज्यते, न तु स्वतन्त्रकल्पितोभयविषयग्राहिणां नैगमभेदामिति प्रतिपत्तव्यम् , अत एव द्रव्यार्थिकनय-" परिणामो ह्यर्थान्तरगमनं, न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः ॥" [ पर्यायास्तिकनये च-" सत्पर्यायेण विनाशः प्रादुर्भावोऽसता च पर्यायतः। द्रव्याणां परिणामः प्रोक्तः खलु पर्यवा न यस्य ॥" [ . . ] इति यत् परिणामलक्षणं परिणामपदव्याख्यायामुक्तं तदुपपद्यते, पूर्वत्र विशिष्टरूपेणोत्पाद-भङ्गयोः पर्यायलक्षणस्योत्तरत्र चाधारतया ध्रौव्यस्य द्रव्यलक्षणस्य संयोजनयोभयोरपि सम्यग्दृष्टित्व सिद्धेः, कथं तर्हिविभज्यमानावनेकान्तौ ॥ ३॥ यथैतौ तथाऽन्ये प्रत्येकं दुर्नया नयाः सर्वे । हंदि हु मूलनययोः प्रज्ञापने व्यापृतास्तेऽपि ॥४॥ सर्वनयसमूहेऽपि नास्ति नय उभयवादप्रज्ञापकः । मूलनययोस्त्वाज्ञां प्रत्येक विशेषितां ब्रवीति ॥५॥” इति संस्कृतम् ॥ केषाछिन्नयावान्तरभेदानां सम्यग्दृष्टित्वं केषाञ्चिच्च मिथ्याष्टित्वं निगमनयन्नाह - तस्मादिति- इतरनयस्य योऽर्थस्तस्य विषये-खविषये यः संयोजनोपयोग:- संयोजनव्यापारस्तेन या मुख्यगौणता स्वविषयस्य मुख्यतयाऽवगाहनमितरनयविषयस्य गौणतयाऽवगाहनं तया, स्वपरार्थग्राहिणां स्वविषयस्य परनयविषयस्य च प्राहिणाम् , मूलनयावान्तरभेदानां सम्यग्दृष्टित्वं युज्यते युक्त्या घटते, ये च नैगमभेदा न्यायादिनयमूलीभूता: स्वतन्त्र-परस्परमत्यन्तभिन्नमत एव कल्पितं न तु वस्तुस्थित्या वस्त्वंशतया व्यवस्थितं यदुभयं- सामान्यविशेषोभयं तद्रूपविषयस्य प्राहिणस्तेषां नैगमविशेषाणां सम्यग्दृष्टित्वं न तु युज्यते, मिथ्यादृष्टय एव ते इति ज्ञातव्यमित्यर्थः । अत एवेति- 'अत एव इति यत् परिणामलक्षणं परिणामपदव्याख्यायामुक्तं तदुपपद्यते' इति सम्बन्धः, अत एव स्वविषये इतरनयविषयसंयोजनतो नयानां सम्यग्दृष्टित्वस्य युक्तत्वादेव । 'द्रव्यार्थिकनय' इत्यस्य स्थाने 'द्रव्यार्थिकनये' इति पाठो युक्तः, एतदुक्तिश्च 'परिणामो ह्यर्थान्तरगमनम्' इति पद्यं द्रव्यार्थिकनयाभिप्रेतपरिणामलक्षणप्रतिपादकमित्यावेदनाय । तद्विदां परिणामस्वरूपज्ञानां द्रव्यार्थिकनयरहस्यज्ञानां वा, हि यतः, अर्थान्तरगमनं मृद्र्व्यस्यैव घटादिलक्षणार्थान्तररूपेण गमनं मृद्रव्यमेव घटादिरूपं भवतीति यावत् , तदेव परिणाम इष्टः, सर्वथा व्यवस्थानं मृद्रव्यरूपतयैव सर्वदाऽवस्थानम् , सर्वथा विनाशः घटपर्यायभवनसमये मृव्यस्य मृद्रव्यरूपतयाऽपि विनाश एतद् द्वितयमपि परिणामो न चेष्ट इत्यर्थः । इति एवंस्वरूपम् , अस्य 'यत् परिणामलक्षणम्' इत्यनेनान्वयः, 'पर्यायास्तिकनये च' इत्यस्य ‘इति यत् परिणामलक्षणम्' इत्यनेनान्वयः। पर्यायास्तिकनयाभिमतपरिणामलक्षणप्रतिपादकं “सत्पर्यायेण०" इत्यादि पद्यम् । 'पर्यायतः' इत्यस्य स्थाने 'पर्यायण' इति पाठः, 'खलु, पर्यवा नयस्य' इत्यस्य स्थाने 'खलु पर्यवनयस्य' इति पाठश्च युक्तः । पर्यवनयस्य पर्यायार्थिकनयस्य, “मते' इति शेषः । खलु निश्चयेन । द्रव्याणां सत्यपर्यायण विनाशः मृद दिद्रव्याणां पूर्व यः सत्पर्यायो मृत्पिण्डादिलक्षणस्तद्रूपेण विनाशः, असता च पर्यायेण पूर्वमविद्यमानो यो घटादिलक्षणपर्यायस्तद्रूपेण, प्रादुर्भाव. आविर्भावः पूर्वपर्यायो नश्यति उत्तरपर्यायश्च प्रादुर्भवति, योऽयं पूर्वपर्यायविनाश उत्तरपर्यायप्रादुर्भावश्च स परिणामः प्रोक्तः प्रकर्षेण कथितः । कुत्रेदं लक्षणं नयभेदेन परिणामस्योपवर्णितमित्यपेक्षायामाह- परिणामपदव्याख्यायामुक्तमिति । तत् नयभेदेनोपदर्शितं परिणामलक्षणम् । 'अत एवोपपद्यते' इति यदुक्तं तदेव भावयति-पूर्वत्रेति- द्रव्यार्थिकनयाभिप्रेते 'परिणामो ह्यान्तरगमनम् ' इति परिणामलक्षणे इत्यर्थः, विशिष्टरूपेणोत्पाद-भङ्गयोः पर्यायलक्षणस्य संयोजनयेत्यन्वयः, अर्थान्तरगमनं तदैव घटते मृव्यस्यैव सतः पृथुबुनोदराद्याकारणोत्पादो मृत्पिण्डाद्याकारेण भङ्गश्च भवेत् , उत्पाद-भङ्गौ च पर्यायलक्षणमिति तस्य द्रव्यार्थिकनयविषये या संयोजना तया द्रव्यार्थिकनयस्य सम्यग्दृष्टित्वसिद्धः, उत्तरत्र पर्यायार्थिकनयाभिप्रेते 'सत्पर्यायेण विनाशः' इत्यादिपरिणामलक्षणे । च पुनः । आधारतया ध्रौव्यस्य द्रव्यलक्षणस्य 'द्रव्याणाम्' इत्युक्त्या पूर्वपर्यायविनाशोत्तरपर्यायोत्पादयोराधारतया ध्रौव्यात्मक द्रव्यं प्रतीयते, तथा च ध्रौव्यस्य द्रव्यलक्षणस्याधारतया या पर्यायनयविषये संयोजना तया पर्यायार्थिकन यस्य सम्यग्दृष्टित्वसिद्धरित्येवमुभयोर्द्रव्याधिकपर्यायार्थिकनययोः सम्यग्दृष्टित्वसिद्धरित्यर्थः । ननु यदि द्रव्य-पर्यायनयावान्तरभेदानां मुख्य-गौण या स्वपरार्थग्राहित्वेन सम्यग्दृष्टित्वं तदा द्रव्यार्थिक-पर्यायार्थिकनययोयोरपि समानविषयत्वमायातमिति तयारसनिविषयत्व. Page #178 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कतो नयोपदेशः । "जीवो गुणपडिवन्नो नयस्स दव्वछिअस्स सामइयं । सो चेव पज्जवहिअणयस्स जीवरस एस गुणो॥" [विशेषावश्यकनियुक्तिगाथा-२६४३ ] ॥ . इत्यत्रैकैकनयस्येतरासमानविषयत्वध्रौव्यमुद्भाव्य भिन्नाभिन्नदव्य-पर्यायोभयग्राहके(क)नयद्वयवादिव्याख्यातृमतं भाष्यकृता निरस्तमिति चेत् ? तत्र 'किं सामायिकं गुणो द्रव्यं वा' इति शुद्धगुणत्वव्यत्वान्यतरप्रकारकजिज्ञासायां शुद्धद्रव्यास्तिक-पर्यायास्तिकनययोरेवाश्रयणस्य युक्तत्वात्, अवा. न्तरभेदाश्रयणे तादृशजिज्ञासाया अनिवृत्तिप्रसङ्गादिति बोध्यम् । अत एवैकैकस्योभयविषयकत्वाभ्युपगमे संयोगस्योक्तजिज्ञासाऽनिवर्तकाधिकविषयानुपकत्वेनानतिप्रयोजनत्वमेव दोषो भाष्यकृतोद्भावितः, अन्यथा तु प्रत्येकमेकैकविषयत्वेऽप्युभयोर्मिलनस्य स्यात्कारलाञ्छनेन सम्यक्त्वापादनं यत् प्रयोजनं तस्य प्रत्येकनियममाश्रित्य भाष्यकृता “जीवो गुणपडिवन्नो०” इत्यादिगाथाव्याख्याकर्तुः पर्यायार्थिको भिन्नद्रव्य पर्यायोभयग्राहको द्रव्यार्थिकोऽभिन्नद्रव्य-पर्यायोभयग्राहक इत्येवं भिन्नाभिन्नद्रव्य-पर्यायोभयग्राहकद्रव्यार्थिक-पर्यायार्थिकनयद्वयवादिनो मतं कथं प्रतिक्षिप्तमिति शङ्कते-कथमिति- अस्य 'निरस्तम्' इत्यनेनान्वयः। जीवो० इति-"जीवो गुणप्रतिपन्नो नयस्य द्रव्यार्थिकस्य सामायिकम् । स एव च पर्यवार्थि कनयस्य जीवस्यैष गुणः" ॥ इति संस्कृतम् । अत्र एतदाथाव्याख्याने । एकैकेति-द्रव्यार्थिको नयः पर्यायार्थिकनयासमानविषय एव, पर्यायार्थिको नयो व्यार्थिकनयासमानविषय एवेत्येवमुद्भाव्येत्यर्थः । भिन्नेति- प्रत्येकं भिन्नद्रव्यपर्यायोभयग्राहकमभिन्नद्रव्यपर्यायोभयग्राहकं यन्नयद्वयं तद्वादी यो व्याख्याता तस्य मतमित्यर्थः। “जीवो गुणपडिवनो." इति गाथा यादृशजिज्ञासानिवृत्त्यर्थमुपदिष्टा सा जिज्ञासा शुद्धद्रव्यास्तिकनयाश्रयणेन शुद्धपर्यायास्तिकनयाश्रयणेन चोक्तगाथाव्याख्यानत एवं निवर्तयितुं शक्या नान्यथेत्यतो द्रव्य-पर्यायोभयविषयकद्रव्यार्थिक-पर्यायार्थिकनयावान्तरनयाश्रयणेन व्याख्यानं नास्या युक्तमित्याशयेनैव भाष्यकृता तन्मतं व्युदस्तमिति समाधत्ते- तत्रेति- “जीवो गुणपडिवनो." इति गाथाव्याख्यायामित्यर्थः । ताहशजिज्ञासायाः शुद्धगुणत्व-द्रव्यत्वान्यतरप्रकारकजिज्ञासायाः, स्वविषयसिद्धयैव जिज्ञासानिवृत्तिः, प्रकृतजिज्ञासाविषयश्च शुद्धगुणत्व-द्रव्यत्वान्यतरप्रकारकसामायिकविशेष्यकज्ञानम् , तच्च गुणः सामायिक द्रव्यं सामायिकम्' इत्येवंरूपमेव, न तु 'जीवभिन्नगुणः सामायिक जोवाभिन्नगुणः सामायिकम्' इत्येवंरूपमिति तादृशज्ञानजनकान्तरनयाश्रितव्याख्यानस्योक्तजिज्ञासानिवर्तकतद्विषयसिद्धचनसत्वेनायुक्तत्वमित्याशयवतो भाष्यकृतो भिन्नाभिन्नद्रव्यपर्यायोभयग्राहकनयद्वयवादिव्याख्यातृमतखण्डनं नायुक्तमित्यर्थः । अत एव अवान्तरनयभेदाश्रयणेन व्याख्यानस्योक्तजिज्ञासाविषयसिद्धथनाधायकत्वेनोक्तजिज्ञासानिवर्तकत्वाभावादेव । एकै. कस्य प्रत्येक द्रव्यार्थिकस्य पर्यायार्थिकस्य च । उभयविषयकत्वाभ्युपगमे द्रव्य-पर्यायोभयविषयकत्वाभ्युपगमे । संयोगस्य द्रव्यनयविषये पर्यायनयविषयसंयोजनस्य पर्यायनयविषये द्रव्यनयविषयसंयोजनस्य च । 'विषयानुपकत्वेन' इत्यस्य स्थाने 'विषयानुमापकत्वेन' इति पाठः 'विषयाधायकत्वेन' इति वा पाठो भवितुमर्हति, उक्कजिज्ञासाया अनिवर्तको योऽधिकविषयस्तदनुमारकत्वेन तदाधायकत्वेन वेत्यर्थः । अनतिप्रयोजनत्वमेव विशिष्टप्रयोजनवाभाव एव, यदि संयोजनेऽकृते उक्कजिज्ञासा न निवर्तेत, कृते च संयोजने सा निवर्तेत, तदा संयोगस्य विशिष्टप्रयोजनत्वं स्यात्, न चैवम्, कृते संयोजने योऽधिकविषयः स जिज्ञ साया अनिवर्तक एवेत्यर्थः, 'अनतिप्रयोजनत्वमेव' इत्येवकारेण सामान्यतो निष्प्रयोजनत्वस्य व्यवच्छेदः, सामान्यतो निष्प्रयोजनत्वस्य संयोगेऽभावादेव न तद्दोषतया भाष्य. कृतोद्भावितमित्यर्थः। अथवा “विषयानुपधायकत्वेन" इत्येव पाठः, 'जिज्ञासानिवर्तक' इत्यत्र 'जिज्ञासानिवर्तक' इत्यकारप्रश्लेषो न कार्यः, तथा चैकस्योभयविषयकत्वाभ्युपगमे संयोजनेऽप्युभयविषयकत्वमेव भवति, तच स्वभावत एक प्राप्तमिति संयोगस्योभयनयमेलनस्य जिज्ञासानिवर्तको योऽधिकविषयः- प्रत्येकनयविषयातिरिक्तविषयस्तस्यानुपधायकत्वेन- असमर्पकत्वेन, अनतिप्रयोजनत्वमेव-विशिष्टप्रयोजनाभाववत्त्वमेव दोषो भाष्यकृतोद्भावित इत्यर्थः । अन्यथा उक्तरीत्या निरुक्तजिज्ञासाऽनिवर्तकत्वेनानतिप्रयोजनत्वस्य दोषत्वं संयोगेऽनभ्युपेत्य सामान्यतो निष्प्रयोजनत्वस्य दोषतयोपगमे । सामान्यतो निष्प्रयोजनस्वस्य तत्राभावादेव तस्य दोषत्वं न सम्भवतीत्यवगतये एकैकस्योभयविषयकत्वाभ्युपगमेऽपि संयोगस्य सप्रयोजनत्वमुपपादयति-प्रत्येकमिति- केवलस्य द्रव्यार्थिकस्य द्रव्यमात्रविषयकत्वं केवलस्य पर्यायार्थिकस्य पर्यायमात्रविषयक Page #179 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । मुभयविषयकत्वाभ्युपगमेऽपि निष्प्रत्यूहत्वात् , तव मते ' स्याद्गुणविशिष्टजीव एव सामायिकं स्याज्जीव. गुण एव सामायिकम्' इति मिलिताभिलापवत् मम मते ' स्याज्जीवाभिन्नगुण एव सामायिकं स्याज्जीवभिन्नगुण एव सामायिकम् 'इति मिलिताभिलापस्यापि सम्भव इति न कश्चिद् दोष इति परेण वक्तुं शक्यत्वात् । न चैवं भङ्गद्वयेऽपि द्वयप्राधान्यालाभः, ' स्याज्जीवाभिन्नगुण एव' इत्यादेः 'स्याद्गुणाभिन्नजीव एव' इत्यादेरपि समानसंविसंवेद्यतया लाभाभ्युपगमात् । किञ्च, मम मते 'जीवो गुणप्रतिपन्नः' इति नियुक्तिप्रतीके 'गुणाभिन्नः' इत्यर्थे साम्मुख्यम् , तव मते तु गुणानामौत्प्रेक्षिकत्वेन शुको रजतस्येव जीवे गुणानां वैज्ञानिकसम्बन्धस्यैवाभ्युपगमेन ‘गुणनिरूपितवैज्ञानिकसम्बन्धवान्' त्वमित्येवं प्रत्येकमेकै कविषयत्वेऽपि । उभयोमिलनस्य द्रव्यार्थिकपर्यायार्थियोः संयोगस्य । स्यात्कारलाञ्छनेन स्यात्पदसंयोजनेन 'स्याद्गुणविशिष्ट जीव: सामायिकम् ' इत्येवंरूपेण । सम्यक्त्वापादनं सम्यक्त्वसंपादनं, 'यत् प्रयोजनम्, इत्यत्र 'उभयोमिलनस्य' इत्यत्त्य सम्बन्धः, तस्य स्यात्कारलञ्छनेन सम्यक्त्वापादनलक्षणप्रयोजनस्थ, प्रत्येकमभयविषयकत्वाभ्युपगमेऽपि द्रव्यार्थिकस्य द्रव्यपर्यायोभयविषयकत्वं पर्यायार्थिकस्य द्रव्यपयायोभयविषयकत्वमित्यभ्युपगमपक्षेऽपि, उभयोर्मिलनस्य निष्प्रत्यइत्वात् निर्विघ्नं सम्भवात् ; प्रत्येकमेकैकविषयत्वे मिलनस्य यत् प्रयोजनं स्यात्कारलाञ्छनेन सम्यक्त्वापादनं तदेव प्रयोजनं मिलनस्य प्रत्येकमुभयविषयकत्वाभ्युपगमेऽपीर्थः । मिलिताभिलापो यथा प्रत्येकमेकैकविषयत्वाभ्युपगमपक्षे तथा प्रत्येकमुभयविषयकत्वाभ्युपगमपक्षेऽपि स इत्याह- तवेति- प्रत्येकमेकैकविषयकत्वाभ्युपगन्तुरित्यर्थः। मिलिताभिलापखरूपमुलिखति-स्यारणविशिष्टेति । मम मते प्रत्येकमुभयविषयकत्वमित्यभ्युपगन्तुर्मते । तत्र मिलिताभिलापस्वरूामुल्लिखति- स्याज्जीवाभिनेति । परेण उभयोः प्रत्येकमुभयविषयकत्वमि. त्यभ्युपगन्त्रा। ननु मम मते 'स्याद्गुणविशिष्ट जीवः सामायिकम् ' इति भरे विशेष्यतया जीवस्य प्राधान्यात् प्राधान्येन द्रव्यग्राहिणो द्रव्यार्थिकस्य मतेऽयं भङ्गः, 'स्थाजीवगुण एव सामायिकम् ' इति भने विशेष्यतया गुणलक्षणपर्यायस्य प्राधान्यात् प्राधान्येन पर्यायमभ्युपगच्छतः पर्यायार्थिकन यस्य मतेऽयं भङ्ग इति विवेकः सम्भवति, तव मते तु भादयेऽपि विशेष्यतया गुणस्यैव प्राधान्याद् द्रव्यस्य कुत्रापि प्राधान्यालाभेन 'स्याजीवभिन्नगुण एव सामायिकम्' इत्यस्येव 'स्थाजीव भिन्नगुण एक सामायिकम् ' इत्यस्यापि पर्यायार्थिकनयमान्यत्वमेव स्यान्न द्रव्याथिकनयमान्यत्वमित्याशय प्रतिक्षिपति-न चेति । गुणे जीवाभिन्नत्वस्य यत्र ज्ञाने भानं तत्र जीवे गुणाभिन्नत्वमपि भासत एव, एवं गुणे जीवभिन्नत्वस्य यत्र ज्ञाने भानं तत्र जीवे गुणभिन्नत्वमपि भासत एव, नहि गुणे जीवाभिन्नत्वेन ज्ञाते जीवो गुणा भिन्नत्वेन न ज्ञात इति संभवति, एवं नहि गुणे जीवभिन्नत्वेन ज्ञाते जीवो गुणभिन्नत्वेन न ज्ञात इत्यपि संभवति तथा च गुणगतजीवाभिन्नत्व-जीवगतगुणाभिन्नत्वयोर्गुणगतजीवभिन्नत्व-जीवगतगुणभिन्नत्वयोश्च समानसंविसंवेद्यत्वेन गुणे जीवाभिन्नत्वप्रतिपादकभङ्गेन जीवे गुणाभिन्नत्वस्यापि प्रतिपादनात् तस्य द्रव्यार्थिकनयमान्यत्वं स्यादेवेति निषेधहेतुमुपदर्शयति- स्याजीवाभिन्नेति-प्रथमादिपदेन 'स्याजीवभिन्नगण एव' इत्यस्य द्वितीयादिपदेन 'स्याद्गुणभिन्न जीव एव' इत्यस्योपग्रहः, प्रथमादिषदं पञ्चम्यन्तं द्वितीयादिपदं षष्ठ्यन्तं बोध्यम् , यद्यपि उक्तदिशा प्रथमभङ्गेऽपि द्रव्यस्य पर्यायस्य च प्राधान्यं लब्धं द्वितीयभङ्गेऽपि, एवं च द्रव्यप्राधान्याद् द्रव्यार्थिकमान्यत्वं पर्यायप्राधान्यात् पर्या पार्थिकमान्यत्वं भगदयेऽप्यविशेषेण प्राप्तम् , तथापि पर्यायार्थिको द्रव्यं पर्यायच भिन्नतयैवाभ्युपैति, द्रव्यार्थि कश्च तयोरभिन्नत्वमेव स्वीकरोति, तथा च प्रथमभङ्गे द्रव्य पर्याययोरुभयोः प्राधान्येऽप्यमेदस्यैवावगाहना द्रव्यार्थिकमान्यत्वम्, द्वितीयभङ्गेऽपि द्वयोः प्राधान्येऽयि भेदस्यैवावगाहनात् पर्यायार्थिकमान्यत्वमिति । नययस्य द्रव्य-पर्यायोभयविषयकत्वमित्युपगन्ता स्वपक्षे 'गुणप्रतिपन्न.' इति नियुक्तिदलस्य 'गुणाभिन्न ' इत्यर्थे साम्मुख्यमक्लिष्टत्वलक्षणम् , परपक्षे तस्य 'गणनिरूपितवैज्ञानिकसम्बन्धवान् ' इत्यर्थेऽसाम्मुख्यं क्लिष्टकल्पनयोपनीतत्वलक्षणमिति विशेषोपदर्शनेन स्वपक्षस्य ज्यायस्त्वमावेदयति-किञ्चेति । मम मते नयद्वयस्य द्रव्य-पर्यायोभयग्राहकत्वमित्यभ्युपगन्तुर्मते । तव मते तु नयद्वयस्य प्रत्येकमेकै कविषयकत्वमित्यभ्युपगन्तुमते पुनः । औत्प्रेक्षिकत्वेन कल्पनामात्रगोचरत्वेन । वैज्ञानिकसम्बन्धस्यैव स्वप्रकारकज्ञानविषयत्वलक्षणसम्बन्धस्यैव । ननु भवन्मते द्रव्यार्थिको द्रव्य-गुणयोरभेदमभ्युपगच्छनीति यदेव द्रव्यं तदेव गण इति द्रव्यस्य वाचको यथा द्रव्यशब्दस्तथा Page #180 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो क्योपदेशः । १४७ इत्यर्थो वाच्य इत्यसाम्मुख्यम् । न च मम मते द्रव्यार्थिकपक्षे न्य-गुरुपदयोराभेदेन पर्यायस्वापत्त्या द्रव्यं गुणो वेत्येकतरनिर्भीरणानुपपत्तिः, तव मते द्रव्यार्थिकपले गुणस्येव मम मते द्रव्या. र्थिकपक्षे द्रव्य-गुणयोरभेदस्य वास्तवत्वेऽपि गुणे द्रव्यभेदस्योत्प्रेक्षिकस्याङ्कीकारेण तमादाय द्रव्य गुणपदयोः पर्यायत्वापत्त्युद्धारसम्भवादित्यपि परेण वक्तुं शक्यमित्याद्यधिकमनेकान्वव्यवस्थायाम् ॥ १७ ॥ तदेवमुक्ती द्रव्यार्थिक-पर्यायार्थिकलक्षणौ मूलनयभेदी, अनयोतेरमादिषु मतभेदेन यथान्तर्भावस्तथाह.... तार्किकाणां त्रयो भेदा, आद्या द्रव्यार्थतो मताः। - सैद्धान्तिकानां चत्वारः, पर्यायार्थगताः परे ॥ १८ ॥ नयामृत-तार्किकाणामिति । तार्किकाणां-वादिसिद्धसेनमतानुसारिणाम् , आयात्रयो भेदाःनैगम-सङ्ग्रह व्यवहारलक्षणाः, द्रव्यार्थतो मताः- द्रव्यमेवार्थ विषयीकृत्याभिप्रेताः, आद्यालयो भेदास्तार्किकमते द्रव्यार्थिका इति सम्मुखोऽर्थः, सैद्धान्तिकानां- जिनभद्रगणिक्षमाश्रमणवचनानुसारिणाम् , चत्वारः-आया ऋजुसूत्रसहिता द्रव्यार्थिका इति शेषः, परे तु- उक्तशेषा उभयेषामपि पर्यायार्थगुणशब्दोऽपि, तथा च तयोरेकार्थकत्वेन पर्यायत्वमेवापतितम् , इत्थं च द्रव्यं सामायिकमित्युक्तेऽपि गुणस्य सामायिकत्वं प्राप्तम्, तथा गुणः सामायिकमित्युक्तेऽपि द्रव्यस्य सामायिकत्वमागतम् , तथा च द्रव्य गुणयोरुभयोरपि सामायिकत्वे 'द्रव्यं सामायिकम्' इत्युक्त्या द्रव्यस्यैव ' गुण: सामायिकम् ' इत्युक्त्या गुणस्यैव सामायिकत्वमिति यदेकतरनिर्धारणं तस्यानुपपत्तिः स्यादित्याशङ्का प्रतिक्षिाति-न चेति । मम मते द्रव्यपर्यायोभयग्राहकनयद्वयाभ्युपगन्तुमते । प्रतिक्षेपहेतुमुपदर्शयति- तव मत इति- नययोः प्रत्येकमेकैकविषयत्वमित्यभ्युपगन्तुर्मते इत्यर्थः । गुणस्येव वास्तविकस्य गुणस्याभावेऽप्यौत्प्रेक्षिकस्य गुणस्याङ्गीकार इव, मम मते इत्यस्य पूर्वोक एवार्थः। तमादाय औत्प्रेक्षिकगुणगतद्रव्यभेदमादाय । परेण द्रव्यपर्यायो भयग्राहकनयवादिना। निरुक्तविचारविशेषाधिगतये विशेषजिज्ञासुभिरनेकान्तव्यवस्था परिशीलनीयेत्युपदेशाभिप्रायेणाहअधिकमनेक.न्तव्यवस्थायामिति ॥ १७ ॥ अष्टादशपद्यमवतारयन्नाह- तदेवमिति । अनयोः द्रव्यार्थिक-पर्यायार्थिकन क्योः । विवृणोति-तार्किकाणामि. तीति। के चत्वारः किमात्मकाश्चेत्युभयविधजिज्ञासासम्भवात् तन्निवृत्तये पूरयति-आधा काजुसूत्रसहिता द्रव्याथिका इति शेष इति-ननु ' मताः' इत्यस्यानुवर्तनं यथा तथैव ' आद्याः' इत्यस्य द्रव्यार्थतः' इत्यस्य चानुवृत्तिः, 'ऋजुसूत्रसहिताः' इत्येतावन्मात्रस्यैव शेषः कर्तव्य इति चेत् ? सत्यम्-किन्तु द्रव्यार्थत आद्यानयो भेदास्तार्किकाणां मताः, परे पर्यायार्थगताश्चत्वारो भेदाः सैद्धान्तिकानां मता इत्येवमन्वयभ्रान्त्या द्रव्यार्थिका आयास्त्रयो नयास्तार्किकामा मता इत्युक्त्या द्रव्यार्थिकनयाभ्युपगन्तार एवं तार्किका न तु पर्यायार्थिकन याभ्यु गन्तारः, परे पर्यायार्थगताश्चत्वारः सैद्धान्तिकानां मता इत्युक्त्या पर्यायार्थिकनयाभ्युपगन्तार एवं सैद्धान्तिका न तु द्रव्यार्थिकन याभ्यु गन्तार इत्येवं कस्यचिद् भ्रान्तिः स्यात् तन्निवृत्तये स्पष्टप्रतिपत्तये 'आद्या ऋजुसूत्रसहिता द्रव्यार्थिका इति शेषः' इत्युक्तम्, अन्यथा “ नैगमः सङ्ग्रहश्चैव व्यवहारर्जुसूत्रको। शब्दः समभिरूढाख्य एवम्भूतश्च सप्त ते"॥ इत्यग्रिमपद्यो कसप्तनयक्रमाधिगतौ सत्यामेवाद्यास्त्रयो भेदा इत्यनेन नैगमसङ्ग्रव्यवहाराणां प्रतिपत्तिस्तथा आद्या इत्यनुवृत्तिमात्रंणाद्याश्चत्वार इत्यनेन नैगम-सङ्ग्रह-व्यवहार - सूत्राणां प्रतिपत्तिसम्भवात् , 'ऋजुसूत्रसहिता' इत्यपि पूरणमनावश्यकं स्यादिति विभावनीयम् । परे विति-तुशब्दो मुलेऽनुक्तोऽपि विशेषावगमाय पूरितः, 'परे' इत्यस्य 'उक्तशेषाः' इति विवरणम् , मता इत्यस्यानुवृत्त्या लाभेऽपि केषामित्याकाङ्क्षानिवृतये 'उभये गम्' इत्युक्तम् , यदा नैगमादयस्त्रयो द्रव्यार्थिका वादिसिद्धसेनमतानुसारिणां मते तदा ततोऽवशिष्टा ऋजुसूत्र-शब्द समभिरूलैवम्भूताश्चत्वारः पर्यायाथिकास्तेषां मते, नैगम-सङ्ग्रह-व्यवहारर्जुसूत्राचत्वारो द्रव्यार्थिकाः क्षमाश्रमणानां मते, तर्हि ततोऽवशिष्टाः शब्द-समभिरूदैवम्भूतास्त्रयो नयाः पर्यायार्थिका क्षमाश्रमणानां Page #181 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । - गता:-पर्यायार्थिकाः, ऋजुसूत्रादयश्चत्वारः पर्यायार्थिका वादिनः, शब्दादयत्रय एव च क्षमाश्रमणानामिति निर्गलितोऽर्थः । ऋजुसूत्रो यदि द्रव्यं नाभ्युपेयात् तदा उक्तम् " उजुसुयस्स एगे अणुवउत्ते एग दवावस्सयं पुहत्ते णेच्छइ [ अनुयोगद्वारसूत्र- १४ ] इति सूत्रं विरुध्येतेति सैद्धान्तिकाः । तार्किकानुसारिणस्तु अतीता-ऽनागत-परकीय भेद-पृथक्वपरित्यागाजुसूत्रेण स्वकार्यसाधकत्वेन स्वकीय. वर्तमानवस्तुन एवोपगमानास्य तुल्यांश-ध्रुवांशलक्षणद्रव्याभ्युपगमः, अत एव नाश्यासद्घटितभूतभावि. पर्यायकारणत्वरूपद्रव्यत्वाभ्युपमोऽपि, अध्रुवधर्माधारांशद्रव्यमपि नास्य विषयः शब्दनयेष्यतिप्रसङ्गात् । उक्तसूत्रं त्वनुपयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्यपदोपचारात् समाधेयम् , पर्यायार्थिकेन मुख्यमते इति निर्गलितार्थ दर्शयति-ऋजुसूत्रादय इति । नगमादयस्त्रयो द्रव्यार्थिकाः शब्दादयस्त्रयः पर्यायाथिका इत्यत्रोभयेषामपि सम्प्रतिपत्तिः, केवलमृजुसूत्रे पर्यायार्थिकत्वं तार्किका अभ्युपगच्छति, सैद्धान्तिकास्तु तत्र द्रव्यार्थिकत्वमभ्युपयन्ति, तत्र क्षणिकपर्यायमात्राभ्युपगन्तुर्कजुसूत्रस्य पर्याय र्थिकत्वं बुद्धिपथमारोहति, द्रव्यार्थिकत्वं तु तस्य कथं सैद्धान्तिकैराश्रितमित्यपेक्षायामाह-ऋजुसूत्र इति। 'उक्तम्' इत्यस्य 'सूत्रम्' इत्यनेनान्वयः। सूत्रमुल्लिखति- उजु. इति"ऋजुसूत्रस्यैकोऽनुपयुक्त एकं द्रव्यावश्यकं पृथक्वं नेच्छति" इति संस्कृतम्, इदं सूत्रं द्रव्यावश्यकाभ्युपगन्तृत्वमृजुसूत्रस्य प्रतिपादयति, तस्य विरोष ऋजुत्रस्य द्रव्यर्थिकत्वानभ्युपगमे इति ऋजुसूत्रस्य द्रव्यार्थिकत्वमुक्तसूत्रानुरोधादभ्युपगन्तव्यमिति सैद्धान्तिका वदन्तीत्यर्थः । ननूक्तसूत्रं तार्किकाणामपि मान्यमैवेति कथं द्रव्यार्थिकत्वं तस्य तार्किका नाभ्युपगच्छन्तीत्यत आह- तार्किकानुसारिणस्त्विति । अतीतेति- अतीतादीनां परित्यागस्तदनभ्युपगम एव । यद्यतीतादय ऋजुसूत्रेण परित्यज्यन्ते तर्हि तत्परित्यागस्तेन किमुपेयते इत्यपेक्षायामाह-स्वकार्येति-अतीतो विनष्टत्वादनागतस्तदानीमभावात् परकीयधनादिकं परतन्त्रत्वान्न स्वकार्यसाधकं किन्तु स्वकार्यसाधकं स्वकीयं वर्तमानमेव वस्त्विति स्वकार्यसाधकत्वेन स्वकीयवर्तमानवस्तुन एवं ऋजुसूत्रेणाभ्युपगमादित्यर्थः । नास्येति- अस्य ऋजुसूत्रस्य, 'तुल्यांशलक्षणद्रव्यं गोत्वादितिर्यक्सामान्य समानाकारपरिणतिलक्षणम् , ध्रुवांशलक्षणद्रव्यं मृत्पिण्डशरावोदञ्चनाद्यनुगतं कालत्रयानुगामि मृद्व्यम् ' इत्युक्तद्रव्यद्वयस्याभ्युपगमो न, तथा च निरुक्तद्रव्याभ्युपगन्तुर्नयस्यैव द्रव्यार्थिकत्वम्, निरुक्तद्रव्याभ्युपगन्तृत्वाभावाजुसूत्रस्य न द्रव्यार्थिकत्वमित्यर्थः । अत एव स्वकी यवर्तमानवस्तुमात्राभ्युपगन्तृत्वादेव । 'नाश्य' इति स्थाने 'नास्य' इति पाठो युक्तः, अस्य ऋजुसूत्रस्य, भूत-भाविनोवर्तमान कालेऽसत्त्वादसद् यद् भूतं भावि च तद्धटितं यद् भूतपर्यायकारणत्वरूां यच्च भाविपयोयकारणत्वरूपं द्रव्यत्वं तस्याभ्युपगमोऽपि नेत्यर्थः । अध्रवेति-अध्रव अनित्या ये धर्मास्तेषामाधारभूतो यो वस्त्वंशस्तदात्मकद्रव्यमपि ऋजुसूत्रस्य न विषय इत्यर्थः । यद्यध्रवधर्माशद्रव्यविषयकत्वमृजुसूत्रस्याभ्युपगम्य द्रव्यार्थिकत्वं तदा शब्दनयेषु शब्दसमभिरूढैवम्भूतेषु तथाभ्युपगमतो द्रव्यार्थिकत्वं प्रसज्यतेत्यर्थः, तदेवं यद् यद् द्रव्यपदेन व्यपदिश्यते तस्य सर्वस्य न ऋजुसूत्रविषयत्वमिति द्रव्यमात्रविषयकत्वाभावाहजुसूत्रस्य न द्रव्यार्थिकत्वमित्याशयः । ऋजुसूत्रस्य द्रव्यार्थिकत्वानभ्युपगमे "उजुसूयस्स." इति सूत्रविरोधः सैद्धान्तिकैर्य उद्भाव्यते तं परिहरति-उकसूत्रं त्विति-'अनुपयोगो द्रव्यम् ' इति वचनादनुपयोग एव द्रव्यम् , तमुरादाय वर्तमानावश्यकपर्याय एवं द्रव्यपदस्योपचारो गौणवृत्तिः, ततोऽद्रव्येऽपि वर्तमानावश्यकपर्याये द्रव्यपदप्रयोगस्तेन ऋजुसूत्रस्य वास्तविकद्रव्यविषयकत्वाभावेन द्रव्यार्थिकत्वाभावेऽपि वर्तमानावश्यकपर्यायानुपयोगरूपोपचरितद्रव्यविषयकत्वं सम्भवतीति नोकसूत्रविरोध इत्यर्थः। ननूक्तलक्षगद्रव्यविषयकत्वमपि पर्यायार्थिकस्य तस्य कथम् ? तत्त्वे पर्यायार्थिकत्वमेव तस्य न स्याद् द्रव्याप्रतिक्षेपकत्वादित्यत आह-पर्यायार्थिकेनेति । 'मुख्यद्रव्यपदार्थस्यैव' इत्येवकारेणोपचरितद्रव्यपदार्थस्य व्यवच्छेदः, तेनोपचरितद्रव्यपदार्थाप्रतिक्षेपकत्वेऽपि पर्यायार्थिकत्वस्य न हानिः । ननु अन्यविषयकानुपयोगो नान्यस्य द्रव्यम्, नहि घटानुपयोगो द्रव्यपटः, किन्तु घटविषयकानुपयोगो घटद्रव्यमिति, तथा च 'एकोऽनुपयुक्तः' इत्यत्र वर्तमानाव. श्यकपर्यायविषयकानुपयोग एव 'अनुपयोग' इत्यनेनाभिमतः, द्रव्यावश्यकमपि वर्तमानावश्यकपर्यायविषयकानुपयोग इति, तथा चाथैक्याद् यथा घटो घट इत्येवमुद्देश्य-विधेयभावो न भवति तथा प्रकृतेऽप्यथै क्यादुद्देश्य-विधेयभावानुपपत्तिः Page #182 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलङ्कतो नयोपदेशः। १४९ द्रव्यपदार्थस्यैव प्रतिक्षेपात् । यदि चैवमपि ' एकानुपयुक्त एक द्रव्यावश्यकम् ' इत्यत्रानुपयोगस्य विषयनियन्त्रितत्वेनार्थक्यादुदेश्य-विधेयभावानुपपत्तिरिति विभाव्यते, यथा द्रव्यावश्यकपदं द्रव्यावश्यकत्वेन व्यवहर्तव्यम् , पर विवरणपरतया चैतत् योजनीयमिति न कश्चिद् दोष इत्यालोचयामः ॥ १८ ॥ उक्तानुभयनयभेदानेव विशिष्य लक्षयितुं नामग्राहं सहामि ------ नैगमः सङ्ग्रहश्चैव व्यवहारर्जुसूत्रको । रावदारमत्रको। ... शब्दः समभिरूढाख्य एवम्भूतश्च सप्त ते ॥१९॥ नयामृत-नैगम इति स्पष्टा, ते-मूलनयप्रभेदाः ॥ १९ ॥ तत्रादौ नैगमलक्षणमाह निगमेषु भवो बोधो, नैगमस्तत्र कीर्तितः। तद्भवत्वं पुनलोकप्रसिद्धार्थोपगन्तृता ॥ २०॥ नयामृत-निगमेविति-निगमेषु- लोकेषु भवो बोधो नैगमनयः, तत्र- तेषु मध्ये कीर्तितः, तद्भवत्वं च तदाश्रयेणोत्पत्तिकत्वम् , ज्ञानरूपस्य नयस्यात्मन्येव शब्दरूपस्य च भाषावर्गणायामेवोत्पत्तेः, किन्तु लोकप्रसिद्धार्थोपगन्तृता- लोकप्रसिद्धार्यकस्वीकर्तृत्वम् , पारिभाषिकं तदित्यर्थः ॥ २० ॥ स्यादित्यत आह- यदि चैवमपीति । एवमपि अनुपयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्यपदोपचाराद् द्रव्यावश्यकमित्येवं सम्भवेऽप। 'एकानुपयुक्तः' इत्यस्य स्थाने 'एकोऽनुपयुक्तः' इति पाठो युक्तः । विषयनियन्त्रितत्वेन प्रतिनियतविषयघटितमूर्तिकत्वेन । अर्थैक्यात् य एव एकोऽनुपयुक्त इत्यस्यार्थः स एव एकं द्रव्यावश्यकमित्यस्याप्यर्थ इत्यर्थेक्यात् । 'यथा द्रव्यावश्यकपदम्' इत्यस्य स्थाने 'दा द्रव्यावश्यकपदम् ' इति पाठो युक्तः, व्यम, परं' इत्यस्य स्थाने 'व्यवहर्तव्यपरम्,' इति पाठो युक्तः, 'चैतत्' इत्यस्य स्थाने 'वैतत्' इति पाठो युक्तः, तथा च एकोऽनुपयुक्तवर्तमानावश्यकपर्यायो द्रव्यावश्यकत्वेन व्यवहर्तव्य इत्येवमनुपयुक्त-द्रव्यावश्यकपदयोरक्याभावादुद्देश्य-विधेयभावः सम्भवति । या अथवा । 'एकं द्रव्यावश्यकम् ' इत्यस्य विवरणम्- 'एकोऽनुपयुक्तः' इति, यथा'पचति' इत्यस्य 'पाकं करोति' इति वित्रियमाणस्य विवरणेन सहाथैक्यमनुकूलतामेवावति, अर्थभेदे विवरण वित्रिय. माणभावस्यैवाभावादित्येवमभ्युपगमे न कश्चिद् दोष इत्येवं यशोविजयोपाध्याया वयमालोचयाम इत्यर्थः। 'आलोचयामः, इत्युक्त्या मदेकपरिशीलितोऽयमभिनवः पन्था मदन्थाध्ययनाटुभिरेवासादयितुं शक्यो नान्ये नेत्यर्थोऽभिव्यज्यते ॥१८॥ ___एकोनविंशतितमं पद्यमवतारयति- उक्तानिति । यद्यपि य एव मूल कारः स एवात्र बृत्तिकारस्तथापि मूलकर्तृतो भेदमेव विवरणकरगवेलायामात्मनि वृत्तिकारो मनुते, तेन 'सगृहामि' इत्यस्य स्थाने 'सङ्गलाति' इति पाठो युक्तः । श्लोकार्थस्य स्पष्टत्वान्नात्र विवरणं वितन्यत इत्याशयेनाह- नैगम इति स्पष्ट इति ॥ १९॥ ..विंशतितमं पश्यमवतारयति-तत्रेति- उक्तेषु सप्तसु मध्य इत्यर्थः । विवृणोति-निगमेवितीति। तेषु मध्ये नैगमादिनयेषु सप्तसु मध्ये। तद्वत्वं निगमभवत्वम् । न तदाश्रयेणोत्पत्तिकत्वं न लोकाश्रयेगोत्पत्तिमत्त्वम् , लोकाधिकरणकोत्पत्तिमत्त्वं नेति यावत् । तद्भवत्वं च' इति स्थाने 'तद्भयत्वं न' इति पाठ एव समुचितः, तमवलम्ब्यायमर्थ उपदर्शितः। निषेधे हेतुमाह-ज्ञानरूपस्येति-नयो हि ज्ञानरूपः शब्दरूपश्च, तत्र ज्ञानरूपस्य नयस्यात्मन्येवाधिकरणे उत्पत्ते., शब्दरूपस्य च नयस्य भाषावर्गणात्मकाधिकरण एवोत्पत्तेः, लोकेष्वधिकरणेषु कस्यापि नयस्योत्पत्तेरभावालो काधिकरणकोत्पत्तिमत्त्वलक्षणं लोकोद्भवत्वं नयस्य न सम्भवतीत्यर्थः । तर्हि किं तद्भवत्वमिति पृच्छतिकिन्विति । उत्तरयति- लोकप्रसिद्धार्थोपगन्तृतेति- अस्य मूलस्य विवरणम् - लोकमसिद्धार्थस्वीकर्तृत्वमिति- लोकप्रसिद्धो यः सामान्यात्मा विशेषात्मा च परस्परं भिन्नोऽर्थस्तत्खीकर्तृत्वम् , तच अस्मिन् नये स नयो नैगम Page #183 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः | तत्प्रसिद्धिश्च सामान्य-विशेषायुभयाश्रया। तदन्यतरसन्यासे व्यवहारो हि दुर्घटः ॥ २१ ॥ नयामृत-तत्प्रसिद्धिश्च- लोकप्रसिद्धिश्च, सामान्य विशेषाधुभयाश्रया-सामान्यविशेष-नित्यानित्यत्व-भेदाभेदाधुभयावलम्बिनी, हि- यतः, तेषां मध्ये, अन्यतरस्य- एकस्यापि, सन्न्यासे-परित्यागे, व्यवहारो दुर्घटः, सामान्याद्यभावे अनुगतप्रतीत्यादेः, विशेषाद्यभावे च व्यावृत्त्यादिबुध्यादेरसम्भवादित्यर्थः । तथा च सामान्य विशेषोभयस्वीकर्तृजातीयैकदेशबोधत्वं नैगमत्वमिति लक्षणं लब्धम् । अथानेन स्वतन्त्रसामान्य विशेषोभयाभ्युपगमे कणादवद् दुर्नयत्वम् , शबलतदभ्युपगमे च प्रमाणत्वमेव, यथास्थानं इत्यर्थः । लोकप्रसिद्धार्थोपगन्तृत्वलक्षणेऽर्थे तद्भवत्वशब्दो न मुख्यवृत्त्या प्रवर्तते तदधिकरणकभवनवत्त्वलक्षणार्थ एव तस्य मुख्यवृत्तेः सम्भवादन आह-पारिभाषिकमिति - जैनसिद्धान्तरहस्य जैस्तत्र सङ्केतितस्तद्भवत्वशब्दस्तेन लौकिकप्रभवत्वशब्दस्य या उक्कार्थे आधुनिकसङ्केतलक्षणा परिभाषा तद्विषय इत्यर्थः । तत् तत्प्रभवत्वमित्यों ज्ञातव्य इत्यर्थः ॥ २० ॥ लोकप्रसिद्धिरेव किमर्थाश्रयेसपेक्षायामे कविंशतितमं पद्यमाह-तत्प्रसिदिश्चेति । विवृणोति-तत्प्रसिद्धिश्चेति । अनुगतप्रतीत्यादेरित्यस्यासम्भवादित्यनेनान्वयः । 'सामान्यायभावे' इत्यत्रादिपदान्नित्यत्वा-ऽभेदादेरुपग्रहः । 'अनुगतप्रतीत्यादेः' इत्यत्रादिदात् प्रत्यभिज्ञानादेग्रहणम् । 'विशेषाद्यभावे' इयत्रादिपदादनित्यत्व भेदादेः परिप्रहः । 'व्यावृत्यादि' इत्यत्रादिपदाद् धंस-प्रागभावादेब्रहणम् । 'बुद्धयादेः' इत्यादिादाद् धंस-प्रागभाव-भेदादिप्रतीत्यादेः सङ्ग्रहणम् । तथा च सामान्यविशेषोभयाश्रया लोकप्रसिद्धि लोकप्रसिद्धार्थोपगन्तृत्वलक्षगनिगमप्रभवस्ववागमनय इति व्यवस्थितौ च । सामान्येति -एतेन नियत्वा-ऽनित्यत्रोभ पस्त्रीकर्नृजातीयैकदेशबोधलं भेदा-ऽभेदोभयस्वीकर्तृजातीयैकदेशप्रभवत्वमित्यादिकमपि नैगमलक्षणमवसे यम् , जातिघटितलक्षणकरणाद् यो नैगमविशेषो नित्यत्वं प्रधानतयाऽवगाहते अनित्यत्वमेव वा प्रधानतयोररीकरोति भेदमेव वा प्रधानतयाऽभ्युपैति अभेदमेव वा तथा खीकरोति सामान्यमेव विशेषमेव वाऽभ्युपैति, तेषु सर्वेषु सामान्योभ यस्त्रोकर्तृत्वस्य नित्यत्वानित्यत्वोभयस्त्रीकर्तृत्वादेरभ वेऽपि न क्षतिः, या नैगमव्यक्ति: सामान्य विशेष चाभ्युपैति सा सामान्य-विशेषोभयस्वीकी तद्वत्तियत्वावान्तरजातिगमत्वजातिस्तद्वान् एकदेशविषयको बोधोऽखिल एव नथात्मा बोधस्तत्वं सर्वेषु नयेषु वर्तत इति लक्षणसमन्वयः; नयत्व जातिमादाय सङ्ग्रहादि. नयेष्वतिव्याप्तिवारणाय जातियत्वावान्तरजातित्वेन प्रवेशनीया, न तु सामान्य-विशेषोभयस्वीकर्तृमात्रवृत्तित्वेन जातिप्रवेशः समुचितः, तथा सति नैगमत्व जातेरपि सामान्य-विशेषोभ यस्वीकनै गमव्यक्तिव्यतिरिक्तनित्यत्वा-ऽनित्यत्वोभयस्वीकर्तृनैगमव्यक्तिवृत्तित्वेन सामान्य-विशेषोभयस्वीकर्तृमात्रवृत्तित्तस्याभावेनासङ्गहः प्रसज्यतेति बोध्यम् , नयत्वावान्तरत्वं च नयत्वव्याप्यत्वमात्रमिह विवक्षितं न तु नयत्वव्याप्यत्वे सति नबत्वाव्याप्याव्याप्यत्वं नैगमत्वावान्तरजातेस्रहणेऽपि क्षत्यभावात्, नयत्वव्याप्यत्वमपि नयत्वन्यूनवृत्तित्वमेवात्राभिमतं न तु नयत्वाभाववदवृत्तित्वरूपम् , तेन नयत्वस्य नयत्वाभाववदवृत्तित्व. लक्षणनयत्वव्याप्यत्वस्य सत्त्वेऽपि न तदादाय नयान्तरेष्वतिव्याप्तिः, नयत्वन्यूनवृतित्वमपि नयत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वमेव विवक्षितं न तु नयत्वसमानाधिकरणत्वे सति नैगमत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वरूपम् , सामान्यविशेषोभयस्वीकर्तृवृत्तित्वस्य जातिविशेषणतयोपात्तत्वेन तत एव नयावृत्तिज तेर्ग्रहणासम्भवात् , इत्थं च यत्किञ्चिन्नयावृत्ति. सामान्यविशेषोभयस्वीकर्तृवृत्तिजातिमदेकदेशविषयकबोधत्वं नैगमत्वमित्येवमपि नैगमनयलक्षणाभिधानं युक्तमेव, यत्किञ्चिन्नया. वृत्तित्वाभाव देव नयत्वजातेस्रहणासम्भवात् , 'शाब्दबोधविशेषा एवं नयबोधाः' इत्यस्य 'श्रुतप्रमाणपरिच्छिन्नार्थेकदेशावगाह्यभिप्रायविशेषो नयः' इति नयसामान्यलक्षणानुगमनबलादादरणे श्रुतत्वस्य ज्ञानत्वव्याप्यजातेरपि निखिलनयवर्तिन्या यत्किञ्चिन्नयावृत्तित्वाभावादेव ग्रहणासम्भवान्न तामादायातिप्रसक्तिः, प्रमाणभात्रवृत्तिप्रमाणत्वजातेयसामान्यावर्तिन्याः सामान्य विशेषोभयस्वीकर्तृप्रमाणवर्तिन्या यत्किञ्चिन्नयावृत्तित्वेन सङ्ग्रहेऽपि तजातिमान् वस्तुबोध एव न त्येकदेशबोध इत्येतावतैव तामुपादायापि नातिव्याप्तिः, एतत्पक्षे मतिज्ञानत्वं नयवृत्त्ये। न तामुपादायाप्यतिव्याप्तिः, यदि चैकदेशावगाहिमतिज्ञानविशेषोऽपि नय इति मतिज्ञानत्वमपि नयवृत्ति भवति, तच्च श्रुतात्मकन यज्ञानावृत्त्यपोति तदुपादानेन मति ज्ञानविशेषे नयान्तरेऽतिव्याप्तिरिति भवति परीक्षकाणां मतिस्तदा नयवाभाववदवृत्तित्वरूप नयत्वव्याप्यत्वमेव जातावुपादेयम् , नयत्ववारणाय च नयत्व Page #184 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो भयोपदेशः। १५१ - - प्रत्येकं गौणमुख्यभावेन तदुपगमे च सङ्ग्रह-व्यवहारान्यतरप्रवेशः स्यादिति चेत् ? न- तृतीयपक्षाश्रयणे दोषाभावात् , कचित् सङ्ग्रह-व्यवहारसमानविषयत्वेऽपि कचिदेकस्य सत उभयग्रहणोपयोगव्यावृत्तत्वेन तदतिरेकात्, अत एव न संयोगेनान्यथा सिद्धिः, प्रत्येकविषयताद्वयातिरिक्तस्वतन्त्रविषयताकत्वादिति दिक ॥ २१ ॥ सङ्ग्रहं लक्षयति सङ्ग्रहः सङ्ग्रहीतस्य पिण्डितस्य च निश्चयः । सहाहीतं परा जातिः पिण्डितं त्वपरा स्मृता ॥ २२ ॥ नयामृत०-सह इति । सङ्ग्रहीतस्य पिण्डितस्य च निश्चयः सङ्ग्रहः, तत्र सङ्गहीतं परा- सर्वध्यापिका जातिः, सत्ताख्यमहासामान्यमिति यावत् , पिण्डितं स्वपरा- देशव्यापिका जातिः, द्रव्यत्वादि सामान्यमिति यावत्, यद्यप्येतदुभयप्राहित्वं प्रत्येकग्राहिण्यव्याप्तं प्रत्येकग्राहित्वं चाननुगतं तथापि भिन्नत्वमपि तत्र देयमिति विभावनीयम् । तटस्थः शङ्कते · अथेति । अनेन नैगमनयेन । स्वतन्त्रेति- अत्यन्तपरस्परभिनेत्यर्थः । कणादवदिति- वैशेषिकदर्शनसूत्रणसूत्रधारः कणादनामा मुनिद्रव्य-गुण-कर्म-सामान्य विशेष-समवायभेदेन षड् भावानुररीचकार, तत्र सामान्यविशेषयोरत्यन्तभेदमेव सोऽभ्युपगतवानिति तन्मतस्य यथा दुर्नयत्वं तथा नैगमस्यापि दुर्नयत्वं स्यादित्यर्थः,। शबलतदभ्युपगमे चेति- सामान्येन सह कश्चिदभिन्नो विशेषो विशेषेण सह कथञ्चिदभिन्नं सामान्यमित्येवमन्योन्यमिश्रितयोः सामान्य-विशेषयोनंगमेनाभ्युपगमे पुनरित्यर्थः । प्रमाणत्वमेवेति-सामान्य-विशेषोभयात्मकवस्त्वभ्युपगन्तृत्वमेव प्रमाणत्वम् , सामान्य-विशेषोभयात्मकवस्त्वभ्युपगमे नैगमस्य तत् प्रसज्यते, तथा च नयत्वं तस्यैकदेशाभ्युपगमन्तृत्वाभावान स्यादित्यर्थः । यथास्थानमिति- यत्र यद् विवक्षितं तत्र तदनतिक्रम्येत्यर्थः । प्रत्येकमितिक्वचित् सामान्यस्य मुख्यतया विशेषस्य गौणतयोपगमः, कचित् पुनर्विशेषस्य मुख्यतया सामान्यस्य च गौणतयाभ्युपगम इत्येवं प्रत्येक गौण मुख्यभावेन सामान्य विशेषयोनैगमेनाभ्युपगमे चेत्यर्थः । सहेति- यत्र सामान्यस्य प्राधान्येनावगाहनं विशेषस्य गौण तयाऽवगाहनं तस्य नेगमस्य सङ्ग्रहेऽन्तभावः, यत्र विशेषस्य प्राधान्येनावगाहनं सामान्यस्य गौणतयाऽ. वगाहनं तस्य नैगमस्य व्यवहारेऽन्तर्भाव इति सङ्ग्रह-व्यवहाराभ्यामेव नैगमाभ्युपगमस्योपपत्तेनैगमनयोऽतिरिक्को न भवेदित्यर्थः । समाधत्ते- नेति । तृतीयपक्षाश्रयणे इति- यथास्थानं प्रत्येक गौण मुख्यभावेन सामान्य विशेषयो गमेनोपगम इति पक्षाश्रयणे दोषाभावादित्यर्थः । ननु तत्पक्षे नैगमस्य सङ्ग्रह-व्यवहाराभ्यामेवं गतार्थत्वादतिरिक्तनयविशेषरूपता न स्यादिति दोषः संलग्न एवेति न दोषाभाव इत्यत आह-कचिदिति- यत्र सामान्यस्य प्राधान्येनावगाहनं विशेषस्य गौणतयाऽवगाहनं तत्र नेगमस्य सङ्ग्रहसमानविषयत्वम् , यत्र विशेषस्य प्राधान्येन सामान्यस्य गौणतयाऽवगाहनं तत्र नैगमस्य व्यवहारसमानविषयत्वमित्येवं क्वचिन्नैगमस्य सङ्ग्रह-व्यवहाराभ्यां सह समानविषयत्वेऽपि यत्रैकस्यैव नैगमाध्यवसायस्य सतः प्राधान्येन सामान्यस्य प्राधान्येन विशेषस्य चाभ्युपगमे पटीयस्त्वं तत्र नेगमस्य सङग्रव्यवहाराभ्यामसमानविषयत्वेन ताभ्यां तस्य भेदादित्यर्थः, 'उभयग्रहणोपयोगव्यावृत्तत्वेन' इत्यस्य स्थाने 'उभयग्रहणोपयोगव्यात्वेन' इति पाठो युक्तः। अत एव क्वचिदेकस्य नैगमाध्यवसायस्य प्राधान्येन सामान्य-विशेषोभयग्रहणोपयोगव्यापृतत्वादेव । संयोगेन सङ्ग्रह-व्यवहारयोर्मेलनेन, न अन्यथा सिद्धिः अतिरिक्तनैगमाभावेन प्राधान्येन सामान्य-विशेषोभयलक्षणविषयसिद्धिनेत्यर्थः । अत एव' इत्युपदिष्टमेव निषेधहेतुमुपदर्शयति-प्रत्येकेति- समृहनिरूपिता या प्राधान्येन सामान्यगता विषयता या च व्यहारनिरूपिता प्राधान्येन विशेष्यगता विषयता, ताभ्यामतिरिक्ता या स्वतन्त्रप्रधानीभूत-सामान्यविशेषोभयगता विषयता तन्निरूपकत्वान्मिलित सङ्घहव्यवहारोभयावृसे गमस्य मिलिंतसहव्यवहारोभयभिन्नत्वादित्यर्थः ॥ २१ ॥ द्वाविंशतितमं पद्यमवतारयति-सङहं लक्षयतीति। विवृणोति-सह इतीति । एतदुमयग्राहित्वं परसामान्याऽपरसामान्योभयग्राहित्वम् । प्रत्येकग्राहिण्यव्याप्तं, केबलमहासामान्यपाहिशि परसङ्प्रहे केवलावान्तरसामान्यग्राहि. ण्यपरसद्महेऽव्याप्त- न वर्तते, तथा च सङ्ग्रहदयावृत्तित्वाइसम्भवदोषग्रस्तमिदं लक्षणमिति भावः। प्रत्येकग्राहित्वं Page #185 -------------------------------------------------------------------------- ________________ १५२ - नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। सामान्यमात्राभ्युपगमप्रवणैकदेशबोधत्वं सङ्ग्रहनयत्वमिति लक्षणं बोध्यम् , “ संगहिय-पिण्डिअत्यं संगहवयणं समासओ बिति" [विशेषावश्यकनियुक्तिगाथा-२१८३] त्ति सूत्रस्वारस्याचेत्थमुक्तिः । यद्वा (नैगमायुपगतार्थसङ्ग्रहप्रवणोऽध्यवसायविशेषः सङ्ग्रहः, सामान्यनैगमवारणाय ) नैगमायुपगतार्थपदं, सङ्घहश्च विशेषविनिर्मोकोऽशुद्धविषयविनिर्मोकश्चेत्यादिर्यथासम्भवमुपादेयस्तेन न प्रस्थकस्थले सामान्यविधेरसवाहात् तत्स्थलप्रदर्शितसङ्घहनयेऽव्याप्तिरित्यादिकं बोध्यम् । " अर्थानां सर्वैकदेशसङ्ग्रहणं सङ्ग्रहः” [ तत्त्वार्थसूत्र० अ० १, सूत्र ३५] इति तत्वार्थभाष्यम्, अत्र सर्व- सामान्यम्, एकदेशश्च- विशेषस्तयोः सङ्ग्रहणम् , सामान्यैकदेशस्वीकार इत्यर्थः, अयं हि घटादीनां भवनानन्तरत्वाद् चाननुगतमिति- केवलमहासामान्यग्राहित्वं यदि सङ्ग्रहत्वं तदा तस्यापरसामान्य प्राहिण्यपरसङ्ग्रहेऽवृत्तित्वादव्याप्तिलक्षणदोषः, एवं केवलापरसामान्यग्राहित्वं यदि सङ्ग्रहत्वं तदा तस्य महासामान्यग्राहिणि परसङ्गहेऽवृत्तित्वादव्याप्तिरित्यर्थः। परत्वमपरत्वं च सामान्यविशेषणतया लक्षणकोटौ न निवेश्यते, किन्तु सामान्यमानाभ्युपगमप्रवणे कदेशबोधत्वं सङ्ग्रहनयत्वम् , तथा च नासम्भवो लक्ष्यमात्रे तस्य सत्त्वादत एव नाव्याप्तिरपीत्याह- तथापीति- 'सामान्याभ्युपगम' इत्यायुक्ती सामान्य-विशेषोभयाभ्युपगमप्रवणे नैगमे सामान्याभ्युपगमप्रवणत्वस्य भावेनातिव्याप्तिः स्यादतः 'सामान्यमात्राभ्यपगम' इत्य युक्तम् , सामान्याभ्युपगमप्रवणत्वस्य प्रमाणेऽपि सत्त्वात् तत्रातिव्याप्तिवारणाय एकदेशबोधत्वम्' इति यद्यपि मात्रपदनिवेशे सति न सम्भवति प्रमाणस्य सामान्यमात्राभ्युपगमप्रवणत्वस्यैवाभावेनातिव्याप्तेवाभावात् , तथापि खरूपमात्रोपदर्शकमुपरजकमेवेदम् , यदि च दुर्नय विषयकान्तमहासामान्यं कल्पितमेव न वस्त्वंशः, तदाहिनयो नैतल्लक्षणलक्ष्यम् , तदाऽत्रातिव्याप्तिवारणाय 'एकदेशबोधत्वम्' इत्युक्तम् , तस्य दुर्नयस्य सामान्यमात्राभ्युपगमप्रवणत्वेऽपि तद्विषयस्यैकान्तमहासामान्यस्य कल्पितैकरूपस्य वस्त्वेकदेशत्वाभावेन तद्विषय कबोधरूपस्य नयस्यैकदेशबोधत्वाभावादिति बोध्यम् । ननु यदि सामान्यमात्राभ्युपगमप्रवणैकदेशबोधत्वमेव सङ्ग्रहस्य लक्षणं तदा पद्येन तथैव लक्ष्यलक्षणाभिधानमुचितम् , यथाश्रतं तु पद्याभिहितमुक्तदिशाऽसम्भवा-ऽव्यायन्यतरदोषकवलितमतः कथं तथोक्तिरित्यत आह- संगहिया इति- “सङ्गहीत-पिण्डार्थ सङ्ग्रवचनं समासतो अवन्ति"। इति संस्कृतम् । इति एवंस्वरूपं यत् सूत्रं तत्स्वारस्याच तदभिप्रायात् पुनः। इत्थमुक्तिः- “सङ्ग्रहः सहीतस्य पिण्डितस्य च निश्चयः' इत्येवं लक्षणवचनम् , दर्शितपर्यालोचनया तात्पर्य तूक्तसूत्रस्यापि 'सामान्यमात्राभ्युपगमप्रवण.' इत्यादिलक्षण एवेति बोध्यम् । 'यद्वा' इत्यादिप्रन्थ. घटक प्रक्षिप्तं वा सर्वथाऽप्युपादेयम्, महासामान्यावगाहिनेगमोऽपि महासामान्यरूपेणाशेषविशेषसङ्ग्रहप्रवण इति तत्राति. च्याप्तिवारणाय नैगमायुपगतार्थ०' इति सङ्ग्रहस्य विशेषणम् , तथा च नैगमायुपगता ये अर्था महासामान्याऽवान्तरसामान्य-विशेषाद्यास्तेषां सर्वेषां सत्त्वलक्षणमहासामान्यन सङ्ग्रहप्रवणो विशेषविनिर्मोकादिलक्षण ऽङ्ग्रहप्रवणो न नैगमः किन्तु सङ्ग्रह एवेति न नैगमेऽतिव्याप्तिरित्याह-सामान्येति, नैगमायुपगतार्थसङ्ग्रहप्रवण. ' इत्यत्र विशेष विनिर्मोकलक्षणः सङ्ग्रहो यद्यभिमतस्तदा प्रस्थकस्थले आसादितप्रस्थ कपर्यायमाकुट्टितनामानं मेयारूढमभ्युपगच्छतः सङ्ग्रहविशेषस्य सङ्ग्रहो न भवेत् , तस्य महासामान्याभ्युपगन्तृत्वाभावेन सामान्यमविदधतो विशेषविनिर्मोकलक्षणसङ्ग्रहप्रवणत्वाभावेन तत्रोकलक्षणाव्याप्तेः। यदि चाशुद्धविषयविनिकिलक्षणः सङ्ग्रहोऽभिमतस्तदा यः सङ्ग्रहः सामान्यविधायकत्वेन विशेषविनिर्मोकप्रवण एव न तु अशुद्धविषयविनिर्मोकश्वगस्तत्राव्याप्तिः स्यादित्यत आह-सहश्चेति- अस्य 'उपादेयः' इत्यनेनान्वयः । 'तेन न' इत्यस्य 'अव्याप्तिः' इत्यनेनान्वयः। सामान्यविधरसङ्गहात् सामान्यविधानतो विशेषविनिर्मोकलक्षणसङ्ग्रहाभावात् । तत्स्थलेति- प्रस्थकस्थलेत्यर्थः । तत्त्वार्थभाष्योक्तं सग्रहलक्षणमुपदर्शयति- अर्थानामिति । सामान्य-विशेषोभयात्मकानां सामान्य-विशेषयोः खरूपसन्निविष्टयोर्यः सामान्यात्मक एकदेशोऽशस्तस्य स्वीकार सङ्ग्रह इत्यर्थ निरुक्तभाष्याचनपर्यवसितार्थमुपदर्शयति- अत्रेति । तयोः सामान्य विशेषयोः। सङ्ग्रहणं नामकरूपेण ग्रहणम् , तत् प्रकृते सामान्यरूपेण सामान्यस्य विशेषस्य च ग्रहणम् , ग्रहणमप्यत्र खीकारस्वरूपमित्यभिसन्धानेनाह- सामान्यैकदेशस्वीकार इति- सामान्यरूपो य एकदेशस्तदात्मना सामान्य-विशेषयोः स्वीकारो न तु विशेषस्य विशेषात्मनाऽपि खोकार इत्यर्थः । Page #186 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। १५३ - भावांश एव च प्रत्यक्षादिप्रमाणप्रवृत्तेस्तन्मात्रत्वमेव स्वीकुरुते, घटादिविशेषविकल्पस्त्वविद्योपजनित एवेति मन्यते, अतव्यावृत्तिव्यवहारोऽप्यस्य प्रतियोगिसापेक्षत्वेन कल्पनामूल एव, अयं चाशुद्धसङ्ग्रहविषयः, एवं तदवान्तरभेदास्तु यद्यत्सामान्यान्तर्भावेन विधिव्यवहार प्रवर्तयन्ति तत्तत्सामान्यैकदेशस्वीकारिणो द्रष्टव्याः । तादृशतादृशसङ्ग्रहनय विचारे च तत्तवान्तरधर्माकारश्रुतिनिश्रितं मतिज्ञानमपि जायत एव 'रूपविशेषवान मणिः पद्मरागः' इत्युपदेशार्थप्रतिसन्धानानन्तरं चाक्षुषोपयोगे पद्मरागा. कारमिव प्रत्यक्षमिति कार्यविशेषादपि तद्विशेष इति दिक् ॥ २२ ॥ सङ्ग्रहावान्तरभेदैरेव सङ्ग्राह्यार्थ[ व्यवहार भेदमुपदर्शयति एक-द्वि-त्रि-चतुः-पञ्च-षड्भेदा जीवगोचराः।। भेदाभ्यामस्य सामान्य-विशेषाभ्यामुदीरिताः ॥ २३ ॥ नयामृत-एकेति-चेतनत्वेन जीव एकः, त्रस-स्थावरत्वाभ्यां द्विविधः, पुंवेद-स्त्रीवेद-नपुंसकवेदैत्रिविधः, देव-मनुष्य-तिर्यग-नारकगतिभेदैश्चतुर्विधः, एकेन्द्रिय द्वीन्द्रिय त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियभेदात् पश्वविधः, पृथ्वीकाया-ऽकाय-तेजस्काय-वायुकाय-वनस्पतिकाय त्रसकायभेदात् षड्विधः, इत्येवं ये जीवगोचराः सङ्ग्रहप्रकारा उदीरिताः सिद्धान्ते तेऽस्य- सङ्ग्रहनयस्य सामान्य-विशेषाभ्यां-सामान्यसङ्ग्रह-विशेषसङ्ग्रहलक्षणाभ्यां भेदाभ्यामवगन्तव्याः ॥ २३ ॥ सामान्यवत् विशेषस्यापि वस्त्वंशतया कथं न तस्य विशेषरूपेण स्वीकारः, सामान्यरूपेणैव तस्य स्वीकारे किं निमित्त यपेक्षायामाह-अयमिति-सङ्ग्रहनय इत्यर्थः, अस्य ‘स्वीकरोति' इत्यनेनान्वयः । हि यतः, भवनानन्तरत्वात् भवनं भावः सत्तालक्षणमहासामान्यं तदनर्थान्तरत्वादभिन्नत्वात् । भावांश एव च सत्तास्वरूपांश एव पुनः । प्रत्यक्षादिप्रमाणप्रवृत्तेः प्रत्यक्षादिप्रमाणे भावांश एव भासतेऽतः प्रत्यक्षादिप्रमाणस्य भावांश एव प्रवृत्तेः । 'तन्मात्रत्वमेव' इत्यत्र 'घटादीनाम्' इत्यस्यान्वयः, तेन घटादीनां तन्मात्रत्वमेव भावमात्रत्वमेव सत्तामात्रस्वरूपत्वमेव, मात्रपदेन भावातिरिक्तस्वरूपत्वस्य व्यवच्छेदः । ननु यदि सङ्ग्रहनयो घटादीनां भावमात्रस्वरूपत्वमेव स्वीकरोति तर्हि 'घट:, पटः, मठः' इत्यादिबोधस्तन्मते न स्याद् घटत्वादीनां विशेषाणां तन्मतेऽभावादित्यत आह-घटादिविशेषविकल्पस्त्विति । अखण्डमेव वस्तुतत्त्वं यद् यत् सखण्डमन्यापेक्षाश्रयणेन व्यवह्रियते तत् तत् कल्पितमेवैतन्मतेऽतो घटोऽघटाद्वयावृत्त इति व्यवहारोऽपि प्रतियोगिसापेक्षत्वेन कल्पित एवेत्याह-अतद्वयावृत्तिव्यवहारोऽपीति । अस्य सङ्ग्रहस्य । घटत्वमघटव्यावृत्तिरूपं सामान्यं तदाश्रयणेन योऽयमघटव्यावृत्तिव्यवहारः सोऽशुद्धसङ्ग्रहस्य विषयो न शुद्धसङ्ग्रहस्य, तस्य विशेषमात्रासंस्पर्शादित्याह- अयं चेति । अथवा योऽयं सामान्यैकदेशस्वीकारलक्षणः सङ्ग्रह इदानीमुपदर्शितः सोऽशुद्धसङ्ग्रहविषयो ज्ञेयः, यतोऽत्र यस्य सामान्यस्य यो विशेषस्तस्य विशेषस्य तत्सामान्यात्मना स्वीकार इति तदा घटते यदि सामान्य-विशेषभावाश्रयणं स्यादित्येवमशुद्धत्वमत्र, एतदभिप्रायेणैवाह-एवमिति । अत एव 'सवैकदेशसङ्ग्रहणम्' इत्यत्र 'सर्वम्' इत्यस्य सामान्यमित्येव व्याख्यातं न तु महासामान्यमिति, तथा चावान्तरसामान्यगोचरोऽपि सङ्ग्रहो लक्ष्यतयाऽत्राभिमत इत्यवान्तरसामान्यस्य विशेषरूपत्वमपीत्यशद्धत्वम्, तेन तद्विषयकस्यापि सङ्ग्रहस्याशुद्धत्वं बोध्यम् । तदवान्तरभेदास्तु अशुद्धसङ्ग्रहावान्तरभेदाः पुनः, अस्य 'प्रवर्तयन्ति' इत्यनेन 'द्रष्टव्याः' इत्यनेन चान्वयः । यद्यसामान्येति-मृत्सामान्यान्तर्भावेण घट-शरावोदश्चनादीनां विधिव्यवहारं 'घट-शरावोदश्चनादयो मृदेव' इत्येवं व्यवहारं पृथिवीसामान्यान्तविण घटपटादीनां विधिव्यवहारं 'घट-पटादयः पृथिव्येव' इत्येवं व्यवहारं प्रवर्तयन्ति, ये सप्रहविशेषास्ते मृत्पृथिव्यादिसामान्यैकदेशस्त्रीकारिणो द्रष्टव्या इत्यर्थः । उक्तनयविचारस्य श्रुतनिश्रितमतिज्ञानेऽप्युपयोगं दर्शयति- तादृशेति । 'तत्तदवान्तरधर्माकारश्रुतिनिश्रितम्' इत्यस्य स्थाने 'तत्तदवान्तरधर्माकारं श्रुतनिश्रितम्' इति पाठो युक्तः । उक्तार्थदायाय कार्यविशेषात् कारणविशेषसिद्धिं दृष्टान्तावष्टम्भेन दर्शयति-रूपविशेषवानिति । चाक्षुषोपयोगे रूपविशेषवन्मणिना सह चक्षुषः साम्मुख्यादिलक्षणचाक्षुषोपयोगे सति ॥ २२ ॥ २० Page #187 -------------------------------------------------------------------------- ________________ १५४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । नैगम-व्यवहारयोरपेक्षया यथाऽस्य शुद्धत्वं तथाह उपचारा विशेषाश्च, नैगम-व्यवहारयोः । इष्टा ह्यनेन नेष्यन्ते, शुद्धार्थपक्षपातिना ॥ २४ ॥ नयामृत०-उपचारा इति । उपचारा- गौणव्यवहाराः, विशेषाश्व- तत्तद्व्यावृत्तिरूपाः, नैगमव्यवहारयोः, इष्टाः, शुद्धार्थपक्षपातिना- एतदुभयापेक्षया स्वविषयोत्कर्षाभिमानिना, हि- निश्चितम् , अनेन- सङ्ग्रहनयेन, नेष्यन्ते, तथा च नैगम-व्यवहारसम्मतोपचार-विशेषानवलम्बित्वादस्य शुद्धत्वं स्वसमवायोचितोपचारविशेषयोः कचिदवलम्बनेनापि नापोद्यत इति भावः ॥ २४ ॥ व्यवहारं लक्षयति उपचारेण बहुलो विस्तृतार्थश्च लौकिकः । यो बोधो व्यवहाराख्यो नयोऽयं लक्षितो बुधैः॥ २५ ॥ नयामृत०-उपचारेणेति । उपचारेण-गोण्या वृत्त्या, बहुलो- बाहुल्येन व्यवहारकारी, विस्तृतार्थः- नानाव्यक्तिकशब्दसङ्केत ग्रहणप्रवणः, लौकिकः - शब्द-तदुपजीविप्रमाणातिरिक्तप्रमाणपक्षपाती, यो बोधः सोऽयं व्यवहाराख्यो नयः, बुधैर्लक्षितः, उपचारबहुलाद्यध्यवसायवृतिनयत्वव्याप्यजातिमत्त्वं लक्षणं तेन नाननुगम इत्यर्थः । " लौकिकसम उपचारप्रायो विस्तृताऽर्थो व्यवहारः ” [ तत्त्वार्थसूत्र० अ० १, सूत्र-३५ ] इति तत्त्वार्थभाष्यमनुरुध्य इत्थं लक्षितम् , " वच्चइ विणिच्छिअत्थं व्यवहारो त्रयोविंशतितमं पद्यमवतारयति-सङ्ग्राह्यार्थेति-संग्रहगृहीतार्थत्यर्थः । विवृणोति- एकेतीति । मूलोक्तान् जीव. गोचरानेकादिभेदान् स्पष्टयति- चेतनत्येनेति । जीवगोचराः के ? इत्यपेक्षायामाह-सङ्ग्रहप्रकारा इति । कुत्रोदीरिता इत्याकाङ्क्षानिवृत्तये त्वाह-सिद्धान्त इति । अन्यत् स्पष्टम् ॥ २३ ॥ चतुर्विंशतितमं पद्यमवतारयति-नैगमेति। अस्य सङ्ग्रहनयस्य । विवृणोति-उपचारा इतीति । एतदुभयापेक्षया नैगम व्यवहारोभयापेक्षया । भावार्थमुपदर्शयति-तथा चेति-नैगन-व्यवहारोभयापेक्षया स्वविषयोत्कर्षाभिमानिनः सङ्ग्रहस्य नैगमव्यवहाराभीष्टोपचारविशेषानभ्युपगन्तृत्वे च सति। अस्य सङ्ग्रहनयस्य । “शुद्धत्वम्' इत्यस्य 'नापोद्यते' इत्यनेनान्वयः, 'स्वसमवायोचित०' इति स्थाने 'स्वसमयोचित०' इति पाठः, स्वस्य- सङ्ग्रहनयस्य, यः समयः-तद्विषयावबोधको राधान्तः, तदुचितौ- तदनुगुगौ यावुपचारविशेषौ तयोः । क्वचित् स्वविषये कस्मिंश्चित् । अवलम्बनेनापि स्वीकरणेनापि । नापोद्यते न निषिद्धयते, यदि सामान्यत उपचार-विशेषयोरनभ्युपगन्तृत्वमेव सड्ग्रहस्य शुद्धत्वमभिमतं स्यात् तदा स्वसमयोचितोपचारविशेषाभ्युपगमेनापि उक्तलक्षणं शुद्धत्वमस्यापोदितमेव स्यात् , न चैवम्, किन्तु नैगम व्यवहाराभ्युपगतोपचारविशेवानभ्युपगन्तृत्वमेवास्य शुद्धत्वम् , तच्च स्वसमयोचितोपचारविशेषाभ्युपगन्तृत्वेऽपि निराकुलमवतिष्ठत एवेत्यर्थः ॥ २४ ॥ _व्यवहारलक्षकं पञ्चविंशतितमं पद्यमवतारयति- व्यवहारमिति । विवृणोति-उपचारेणेतीति । नानेति- नानाव्यक्तिषु यः शब्दस्य सङ्केतस्तस्य ग्रहणे समर्थ इत्यर्थः । शब्देति-शब्दात्मकं यत् प्रमाणं शब्दोपजीवि च यदनुमानादिकं प्रमाणं ताभ्यामतिरिक्तं यत् प्रत्यक्षादि प्रमाणं तत्पक्षे पतितुं शीलं यस्य तादृशः, प्रत्यक्षाद्यापामरसाधारणमान्यप्रमाणगृहीतार्थाभ्युपगमप्रवण इति यावत् । एवं च सति व्यवहारस्य किं लक्षणं सिद्धं भवतीत्यपेक्षायामाह-उपचारेति- उपचारबहुलाद्यध्यवसायवृत्तित्वस्य जातिविशेषणतयोपन्यासान्नैगमत्यादिजातिव्युदासः, नयत्वव्याप्यत्वविशेषणोपादानान्नयत्व-ज्ञानत्वादिजातिव्युदासः । तेन जातिघटितलक्षणकरणेन । एतच लक्षणं तत्त्वार्थभाष्यानुसारीत्यावेदयति-लौकिकसमेति । नियुक्तिग्रन्थानुसारिव्यवहारलक्षणमावेदयितुमाह-बच्चइ० इति- “व्रजति विनिश्चिताप व्यवहारः सर्वद्रव्येषु" इति. संस्कृत Page #188 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। सबदवेसु” [विशेषावश्यकनियुक्तिगाथा-२१८३ ] त्ति, नियुक्तिप्रतीकपर्यालोचनायां तु विनिश्चितार्थप्रापकत्वमस्य लक्षणं लभ्यते, विनिश्चितार्थप्राप्तिश्चास्य सामान्यानभ्युपगमे सति विशेषाभ्युपगमात् , अत एव विशेषेणाव हीयते निराक्रियते सामान्यमनेनेति निरुत्युपपत्तिः, जलाहरणाद्युपयोगिनो घटादिविशेषानेवायमङ्गीकरोति, न तु सामान्यं तस्यार्थक्रियाऽहेतुत्वात् , नहि 'गां बधान' इत्युक्ते कश्विद् गोत्वं बद्धुमध्यवस्यति, अनुगतव्यवहारश्चान्यापोहादिनाऽप्युपपत्स्यते, अखण्डाभावनिवेशाच्च नान्योन्याश्रयः, अस्तु वा सर्वत्र शब्दानुगमादेवानुगतत्वव्यवहारः, कारणत्व-व्याप्यादावित्थमेवाभ्युपमगादित्यादिकं प्रपश्चितमन्यत्र ॥ २५ ॥ तम् , विशेषेण विशेषरूपेण निश्चितस्यार्थस्य प्रापकत्वं विनिश्चितार्थप्रापकत्वं तदस्य व्यवहारस्य लक्षणं निरुक्तनियुक्तिप्रतीकपर्यालोचनायां कृतायां लभ्यत इत्यर्थः। विनिश्चितार्थप्रापकत्वं कथं व्यवहारस्येत्यपेक्षायामाह-विनिश्चितार्थप्राप्तिश्चेति । अस्य व्यवहारस्य । अत एव सामान्यानभ्युपगमे सति विशेषाभ्युपगमतो व्यवहारस्य विनिश्चितार्थप्रापकत्वादेव । विशेषेण स्वाभ्युपगमविशेषेण, अनेन विशेषाभ्युपगमो व्यवहारस्यायाति । अनेन व्यवहाराख्यनयेन । निरुत्युपपत्तिः व्यवहारपदनिर्वचनमुपपद्यते, यदि व्यवहारः सामान्यमभ्युपेयाद् विशेष वा नाभ्युपगच्छेत् तदा निरुक्तव्यवहारपदनिरुक्तिनॊपपन्ना स्यादित्यर्थः । अस्य सहेतुकं विशेषाभ्युपगमनं सामान्यानभ्युपगमनं च दर्शयति-जलेति- व्यवहारो हि लोकयात्रानिर्वाहक इति लोकव्यवहारो यादृर्शनार्थेन सम्पद्यते तमर्थमुररीकरोति यश्चार्थो न व्यवहारसम्पादकस्तं च तिरस्करोति घटादिव्यक्तिलक्षणविशेषेभ्य एव जलाहरणादिलक्षणलोकव्यवहार उपजायत इति जलाहरणाद्युपयोगिनो घटादिविशेषानेवायं व्यवहारनयोऽङ्गीकरोति । एवकारलभ्यमेवार्थमाह- न तु सामान्यमिति- सामान्यं पुनर्व्यवहारो नाङ्गीकरोति, यत एव सामान्यं न लोकव्यवहारोपयोगि तत एव न तत्स्वीकरोतीत्यावेदनायाह-तस्येति- सामान्यस्येत्यर्थः। अर्थक्रियाकारित्वाभावात् जलाहरणादिलक्षणार्थक्रियाकारित्वाभावात् । अर्थक्रियाकारित्वाभावमेव सामान्यस्य व्यवस्थापयतिनहीति- अस्य 'अध्यवस्यति' इत्यनेनान्वयः। ननु यदि सामान्यमर्थक्रियाकारि न भवेदनुगतव्यवहारस्तदेकनिबन्धनो न स्यादित्यत आह- अनुगतव्यवहारश्चेति । ननु अन्यापोहो गोभिन्न भिन्नत्वम्, तत्र यत्किञ्चिद्गोभिन्नं गोव्यक्त्यन्तरं तद्भिन्नत्वं न तस्यां गवीत्यतोऽस्य नानुगतत्वम्, यदि च तत्र गोत्वावच्छिन्न प्रतियोगिताको भेदो निविशते तदा गोत्वावच्छिन्नप्रतियोगिताकभेदवती या यत्किञ्चिदश्वव्यक्तिस्तद्भिन्नत्वं गवादिभिने तदश्वव्यक्तिभिन्ने पदार्थान्तरेऽपीति तत्रापि गौॉरित्यनुगतव्यवहारः स्यात् तद्वारणाय गोत्वावच्छिन्नप्रतियोगिताकभेदावच्छिन्नप्रतियोगिताकभेदो यद्यगोऽपोहः, तत्र प्रविष्ट गोत्वं पुनरप्यगोव्यावृत्तिरूपम्, तत्राप्युक्तदिशा प्रविष्टं गोत्वमगोव्यावृत्तिरूपमित्येवं दिशाऽनवस्थाप्रसङ्गः, स एवागोऽपोहो यदि स्वशरीरसन्निविष्टगोत्वमपि तदा स्वस्यैव स्वापेक्षणादात्माश्रयः, यदि च तत्र प्रविष्टा गोव्यक्तयो गौगोरित्यनु. गतव्यवहारविषया एवेति गोत्वमपोहशरीरसन्निविष्ट गौगौरित्यनुगतव्यवहारविषयत्वं तदोक्तापोहस्य निरुक्तानुगतव्यवहारापेक्षणान्निरुक्तानुगतव्यवहारस्य च निरुक्तान्यापोहापेक्षणादन्योऽन्याश्रय इत्यत आह- अखण्डाभावनिवेशाच्चेति- यावत्यो नगति गोव्यक्तयस्तद्भेदकूटावच्छिन्नप्रतियोगिताकभेद एवागोपोहः, स च तादृशभेदकूटावच्छिन्नप्रतियोगिताकभेदत्वेन रूपेण नान्यापोहस्वरूपतयाऽभ्युपगम्यते येन निरुक्तभेदकूटस्यासर्वज्ञदुर्जेयत्वेन तदवच्छिन्न प्रतियोगिताकभेदस्याप्यसर्वज्ञदुयित्वं स्यात् , किन्त्वेकस्य तस्य तद्य तेः स्वरूपतो भानस्याभ्युपगमेन तद्व्यक्तिरूपतयैवानुगतव्यवहारे भानम्, प्रतियोगिविशेषितरूपेणैव सन्निविष्टस्याभावस्य स्वरूपतो भानं निषिद्धं न तु तव्यक्त्यात्मनाऽखण्डस्य, तथा चाखण्डस्य निरुकभेदरूपाभावस्यान्यापोहस्वरूप निवेशात् पुनरन्योन्याश्रयो न भवतीत्यर्थः। अथवा सर्वासु गोव्यक्तिषु प्रत्येक गोपदस्य सङ्केतलक्षणशक्तिरूपसम्बन्ध इति तेन सम्बन्धेन गोशब्द एव सर्वत्रानुगत इति सङ्केतलक्षणसम्बन्धबलाच्छब्दानुगमादेवानुगतत्वव्यवहार इत्याह- अस्तु वेति । जातिमन्तराऽप्यनुगतत्वव्यवहारः सामान्यवादिनामप्यभिमत एव, कथमन्यथा 'दण्डः कारणम् , वह्निः कारणम् ,' इति कारणत्वस्य जातिस्वरूपस्याभावेऽप्यनुगतकारणत्वव्यवहारः, व्याप्यत्वस्य जातिरूपस्याभावेऽपि 'धूमो व्याप्यः, आलोको व्याप्यः' इत्येवमनुगतव्याप्यत्वव्यवहार इत्याह- कारणत्वेति । इत्थमेवाभ्युपगमात् शब्दानुगमादेवानुगतत्वव्यवहारोपगमादित्यर्थः ॥ २५ ॥ Page #189 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । . उपचारबाहुल्यं विघृणोति दह्यते गिरिरध्वासौ, याति स्रवति कुण्डिका । इत्यादिरुपचारोऽस्मिन्, बाहुल्येनोपलभ्यते ॥ २६ ॥ नयामृत०-दह्यत इति । 'असौ गिरिदह्यते' अत्र गिरिपदस्य गिरिस्थतृणादौ लक्षणा, भूयोदग्धत्वप्रतीतिः प्रयोजनम् । 'असावधवा याति' अत्राध्वपदस्याध्वनि गच्छति पुरुषसमुदाये लक्षणा, नैरन्तर्यप्रतीतिः प्रयोजनम् । 'कुण्डिका स्रवति' इत्यत्र कुण्डिकापदस्य कुण्डिकास्थजले लक्षणा, निबिड. त्वप्रतीतिः प्रयोजनम् । सर्वत्रोद्देश्यप्रतीतिर्लक्ष्यार्थे मुख्यार्थाभेदाध्यवसायात्मकव्यञ्जनामहिम्ना व्युत्पत्तिमहिना वेति विवेचितमन्यत्रेत्यादिरुपचार:- गौणः, अस्मिन्- व्यवहारनये, बाहुल्येन- इतरनया. प्रेक्षया भूनोपलभ्यते ॥ २६ ॥ विस्तृतार्थ विवृणोति विस्तृतार्थों विशेषस्थ, प्राधान्यादेष लौकिकः । पञ्चवर्णादिभृङ्गादौ, श्यामत्वादिविनिश्चयात् ॥ २७ ॥ नयामृत-विस्तृतार्थ इति । विशेषस्य प्राधान्यादेष विस्तृतार्थः, तत्प्राधान्यं च व्यक्तिष्वेवोपयुक्ततया सङ्केताश्रयणादिना बोध्यम् , तथा वस्तुतः पञ्चवर्णावयवारब्धशरीरत्वेन पञ्चवर्णादिमति भृङ्गादौ श्यामत्वादेरेव विनिश्चयादेष लौकिकः, यथा हि लोको निश्चयतः पञ्चवर्णेऽपि भ्रमरे कृष्णवर्णत्वमेवाङ्गीकरोति तथाऽयमपीत्यस्य लौकिकसमत्वमिति नयविदः । न च ' कृष्णो भ्रमरः' इत्यत्र षड्विंशतितम पद्यमवतारयति-उपचारेति । विवृणोति- दह्यत इतीति । अत्र असौ गिरिदह्यत इति वाक्ये, घटकत्वं सप्तम्यर्थः, एवमग्रेऽपि । गिरिपदस्य गिरिस्थतृणादौ लक्षणा अनादितात्पर्यमूलकलक्षणालक्षणनिरूढलक्षणा न, किन्तु प्रयोजनवल्लक्षणास्वरूपाऽऽधुनिक्येवातः प्रयोजनमत्र वक्तव्यमित्यपेक्षायामाह-भूय इति । अत्र असावध्वा यातीति वाक्ये. 'निबिडत्वप्रतीतिः अस्य स्थाने 'अनिबिडत्वप्रतीतिः' इति पाठः, यत इयमनिबिडा प्रशिथिलावयवा कुण्डिका अत एतन्निहितं जलं बहिनिर्गच्छतीति । ननु लक्षणया वृत्त्या गिरिस्थतृणादीनामेव प्रतीतिरुपजायते, भूयोदग्धत्वादौ च गिरिपदादेन शक्तिर्नारि लक्षणेति तत्प्रतीतिलक्षणं प्रयोजनं केन भवतीत्यपेक्षायामाह-सर्वत्रेति- दह्यते गिरिरित्याग्रुपचरितवाक्यमात्रे इत्यर्थः । उद्देश्यति- उद्देश्य। यदर्थं लाक्षणिकपदघटितवाक्योच्चारणं सा, सा चासौ प्रतीतिश्चोद्देश्यप्रतीतिः, प्रयोजनीभूता दग्धत्वादिप्रतीतिः । लक्ष्याथै गिरिस्थतृणादिरूपे, मुख्यार्थस्य- गिर्यादेः, अभेदाध्यवसायः- अभेदारोपः, सदात्मिका या व्यञ्जनावृत्तिस्तन्महिम्ना- तत्सामर्थेन । वा अथवा, व्युत्पत्तिः- शब्दविशेषसमभिव्याहारलक्षणाकाङ्क्षाज्ञानस्य शाब्दबोधविशेष प्रति कारणत्वज्ञानलक्षणा, तन्महिम्ना- तदलात्, नाक्तेभ्यो वाक्येभ्यः सर्वस्व प्रतिपत्तुरविशेषेण भूयोदग्धत्वप्रतीत्यादिरूपजायते, किन्तु शेमुषीविशेषशालिन एव प्रमातुरुक्तवाक्येभ्यो निरुक्तव्युत्पत्तिबलात् तथाप्रतीतिरुपजायते, तथा च व्यञ्जनावृत्त्युपगमे व्यञ्जनाख्यवृत्त्यवोद्देश्यप्रतीतिः, तदनभ्युपगमे चोक्तव्युत्पत्तिबलात् । एतद्विशेषप्रतिपत्तये विशेषजिज्ञासुभिरेतद्रहस्यावेदकं प्रन्थान्तरमवलोकनीयमित्युपदेशाभिप्रायेणाह- इति विवेचितमन्यत्रेति-'विवेचितमन्यत्रेव्यादिरूपचारः' इत्यस्य स्थाने 'विवेचितमन्यत्र, इत्यादिरुपचारः' इति पाठो बोध्यः, अन्यत् स्पष्टम् ॥ २६ ॥ . विवृणोति-विस्तृतार्थ इतीति । एषः व्यवहार नयः, एवमग्रेऽपि, तत्प्राधान्यं च विशेषप्राधान्यं च, अस्य 'बोध्यम्' इत्यनेनान्वयः। लौकिक: लौकिकसमः । व्यवहारनयस्य लौकिकसमत्वमेव भावयति- यथा हीति । लोकः निश्चयनयानभिज्ञोऽपरीक्षको जनः, अस्य 'अङ्गीकरोति' इत्यनेनान्वयः । निश्चयतः निश्चयनयेन, यद्यपि निश्चयनयेन भ्रमरः पञ्चवर्णस्तथापि व्यवहारो लौकिको व्यवहारनयमाश्रित्यैव प्रवर्तत इति व्यवहारकनिबद्धचेता लोको भ्रमरे कृष्णवर्णस्वमेव यथा स्वीकरोतीत्यर्थः । तथाऽयमपीति- व्यवहारोऽपि भ्रमरे कृष्णवर्णत्वमेव स्वीकरोतीत्यर्थः । इति एतस्मात् wwwmaanana Page #190 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । विद्यमानेतरवर्णप्रतिषेधाद् भ्रान्तत्वम्, अनुद्भूतत्वेनेतराविवक्षणात् तद्व्युदासेऽतात्पर्यात्, उद्भूतवर्णविवक्षाया एवाभिलापादिव्यवहारहेतुत्वात्, कृष्णादिपदस्योद्भूतकृष्णादिपरत्वाद् वा, अतात्पर्यज्ञं प्रत्येतस्याबोधत्वेनाप्रामाण्येऽपि तात्पर्यज्ञं प्रति प्रामाण्यात्, लोकव्यवहारानुकूलविवक्षाप्रयुक्तत्वेन च भावसत्यत्वाविरोधात्, अत एव 'पीतो भ्रमरः ' इति न व्यवहारतो भाव सत्यम्, लोकव्यवहाराननुकूलत्वात्, नापि निश्चयतः, पञ्चवर्ण पर्याप्तिमति पञ्चवर्णप्रकारत्वाभावेनावधारणाश्च मत्वादित्य सत्यमेवेति दिक् ॥ २७ ॥ ननु ' कृष्णो भ्रमरः ' इति वाक्यवत् 'पञ्चवर्णो भ्रमरः' इति वाक्यमपि कथं न व्यवहारनयानुरोधि ? तस्यापि लोकव्यवहारानुकूलत्वात्, आगमबोधितार्थेऽपि व्युत्पन्नलोकस्य व्यवहारदर्शनात्, लोकबाधितार्थबोधकवाक्यस्याव्यवहारकत्वे च ' आत्मा न रूपवान्' इत्यादिवाक्यस्याप्यव्यवहारकत्वाकारणात् । अस्य व्यवहारनयस्य । ननु 'कृष्णो भ्रमरः' इति यज्ज्ञानं तद् भ्रमरे कृष्णत्वमवभासयत् तत्र विद्यमानमपि कृष्णेतरवर्णं प्रतिक्षिपतीति भ्रान्तं तत् स्यादित्याशङ्क्य प्रतिक्षिपति - न चेति । कृष्णेतरवर्णस्य भ्रमरे सतोऽप्यनुद्भूतत्वेन विवक्षाभावादेव कृष्णवर्णप्रकार कभ्रमरविशेष्यकं तज्ज्ञानम्, न तु कृष्णेतरवर्णाभावस्तत्र प्रतिभासते इति नास्य भ्रमत्वं तज्ज्ञानकारणीभूत' कृष्णो भ्रमर 'इतिवाक्यप्रयो तुभ्रमरे कृष्णैतरवर्णप्रतिषेधे तात्पर्याभावेन तत्र तत्प्रतिभासस्य वक्तुमशक्यत्वादिति निषेधहेतुमुपदर्शयति- अनुद्भूतत्वेनेति । इतराविवक्षणात् कृष्णेतरवर्णाविवक्षणात् । तद्वयुद्दासे कृष्णैतरवर्णप्रतिषेधे । अतात्पर्यात् 'कृष्णो भ्रमरः ' इति वक्तुस्तात्पर्याभावात् । ननु यदि भ्रमरे कृष्णेतरवर्णो विद्यते तनुद्भूतोऽपि स यदि विवक्ष्येत तर्हि 'शुक्लो भ्रमरः, रक्तो भ्रमरः ' इत्याद्यभिलापः स्यादेवेत्यत आह- उद्भूतेति- तथा चानुद्भूतवर्णविवक्षाऽपि यदि कस्यचित् स्यात् तदाप्यभिलापादिव्यवहारस्वरूपायोग्यया तयाऽनुद्भूतवर्णाभिल: पादिव्यवहारो न स्यादेवेत्यर्थः । अथवा 'कृष्णो भ्रमरः' इत्यत्र कृष्णपदमुद्भूतकृष्णपरम्, तथा चोद्भूतकृष्णेतरोद्भूतरूपस्य व्युदासेऽपि न भ्रमत्वं भ्रमरे कृष्णेतरोद्भूतरूपाभावादित्याह - कृष्णादिपदस्येति । य प्रतिपत्ता ' कृष्णो भ्रमरः ' इत्यत्र ' कृष्णपदमुद्भूतकृष्णबोधनेच्छयोच्चरितम् ' इत्येवं तात्सर्यं नावधारयति तस्योद्भूत कृष्णत्वप्रकारक भ्रमर विशेष्यकबोधस्योक्तवाक्यादजायमानत्वेन जायमानस्य च कृष्णेतररूपप्रतिक्षेप संवलित कृष्णत्वबोधस्याप्रमात्वेनाप्रनात्म को क्तबोधजनकत्वात् तमतात्पर्यज्ञं प्रतिपत्तारं प्रत्युक्तवाक्यस्या प्रामाण्येऽपि यः प्रतिपत्ताsत्र 'कृष्णपदमुद्भूतकृष्णवोधनेच्छयोच्चरितम्' इत्येवं तात्पर्यमवधारथितुं शक्नोति तस्योक्तवाक्यत उद्भूतकृष्णत्वप्रकारका नरविशेष्यकबोधस्य प्रमात्मकस्य जायमानत्वेन तादृशप्रमात्मकबोधजनकस्योक्तवाक्यस्य तं तात्पर्यज्ञं प्रतिपत्तारं प्रति प्रामाण्यं निराकुलमेवेत्य ह- अतात्पर्यज्ञमिति । एतस्य 'कृष्णो भ्रमरः' इति वाक्यस्य । 'अबोधत्वेन' इति स्थाने 'अबोधकत्वेन' इति पाठो युक्तः, तस्य 'प्रमात्मक बोधजनकत्वाभावेन' इत्यर्थः । लोकेति - लोकस्य यो भ्रमरस्य कृष्णत्वेन व्यवहारस्तस्यानुकूला या विवक्षा उद्भूत कृष्णवर्णविवक्षा तत्प्रयुक्तत्वेन तज्जन्यत्वेन 'कृष्णो भ्रमरः' इति वाक्यस्य भावसत्यत्वाविरोधात् भ्रमरस्य पञ्चवर्णत्वेऽपि कृष्णरूपमेव तत्रोद्भूतं न तु पीतादिकमित्युक्तविवक्षा वस्त्ववलम्बिनीति तज्जन्यस्योक्तवाक्यस्य भावसत्यत्वविरोधाभावादित्यर्थः । अत एव लोकव्यवहारानुकूलविवक्षाप्रयुक्तत्वस्य भावसत्यत्वनियामकत्वादेव | नाऽपि निश्चयत इति निश्चयनयतोऽपि ' पीतो भ्रमरः ' इति वाक्यं न भावसत्यमित्यर्थः । तत्र हेतुमाह- पञ्चवर्णपर्याप्तिमतीति- अपर इति शेषः । अवधारणाक्षमत्वादिति कृष्णो भ्रमरः ' इत्यत्र कृष्णपदस्यो कृष्णपरत्वेन कृष्ण एवं नरः' इत्यवधारणं सम्भवति, भ्रमरस्य पञ्चवर्णत्वेऽपि कृष्णस्यैवोद्भूतत्वादिति भवति तस्य निश्चयतोऽपि प्रामाण्यम्, तथा 'पञ्चवर्णो भ्रमरः' इत्यत्रापि 'भ्रमरः पञ्चवर्ण एव' इत्यवधारणं सम्भवति, पञ्चवर्णपर्याप्तिमति भ्रमरे पश्चवर्णलक्षणप्रकारस्यावधारणोपपत्तेः, 'पीतो भ्रमरः' इत्यत्र 'पीत एव भ्ररः' इत्यवधारणं न सम्भवति, पञ्चवर्णपर्याप्तिमत्येकवर्णमात्रपर्याप्तेरसम्भवात्, अतो व्यवहारतो निश्चयतश्चासत्यमेत्र 'पीतो भ्रमरः ' इति वाक्यमित्यर्थः ॥ २७ ॥ १५७ अष्टाविंशतितमं पद्यमवतारयति - नन्वित्यादिना । तस्यापि 'पञ्चवर्णो भ्रमरः ' इति वाक्यस्यापि । ननु रथ्यापुरुषादिस्वरूप लोकव्यवहारानुकूलत्वं 'पञ्चवर्णो भ्रमरः' इति वाक्यस्य नास्तीत्यत आह- आगमेति भ्रमरगत पञ्चवर्णात्मकोऽर्थ आगमबोधितस्तस्मिन्नपि । व्युत्पन्नलोकस्य आगमार्थावबोधलक्षणव्युत्पत्तिमतः परीक्षकादिलोकस्य । ननु यद्यपि भ्रमरतपश्चवर्णलक्षणोऽर्थ आगमबोधितस्तथाऽपि स लोकबाधितः लोके 'पञ्चवर्णो भ्रमरो न' इत्येवं बाधदर्शनात् तथा च Page #191 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः | पातात् तस्याप्यात्मगौरवत्वादिबोधक लोकप्रमाणवाधितार्थबोधकत्वात्, अभ्रान्तलोका बाधितार्थबोधकत्वं चोभयत्र तुल्यम् । प्रत्यक्ष नियतैव व्यवहारिविषयता न त्वागमादिनियतेति तु व्यवहार दुर्नयस्य चाकमतप्रवर्तकस्य मतम्, न तु व्यवहारनयस्य जैनदर्शनस्पर्शिन इति शङ्कायामाह - पञ्चवर्णाभिलापेऽपि श्रुतव्युत्पत्तिशालिनाम् । १५८ न तद्बोधे विषयता परांशे व्यावहारिकी ॥ २८ ॥ नयामृत० - पञ्चेति । 'पञ्चवर्णो भ्रमरः' इति शब्दाभिलापेऽपि श्रुतव्युत्पत्तिशालिनां तत्तनयाभिप्रायप्रयुक्तः शब्दस्तत्र नयीयविषयतयैव शाब्दबोधजनक इति सिद्धान्तसिद्ध कार्यकारणभावग्रहवताम्, तद्बोधे- उक्ताभिलापजन्यशाब्दबोधे, परांशे - कृष्णेतरतरवणशे, व्यावहारिकी विषयता नास्ति, तथा च ' पञ्चवर्णो भ्रमरः ' इति शाब्दबोधे कृष्णांशे व्यावहारिक्या सम्बलिता, इतरांशे च शुद्धा नैश्चयिक विषयता, अदृष्टार्थे सर्वत्र सम्बलनसम्भवेऽपि लोकप्रसिद्धार्थानुवादस्थले कचिदेव सम्बलनालोकबाधितार्थबोधकस्य ' पञ्चवर्णो भ्रमरः ' इति वाक्यस्य न लोकव्यवहारानुकूलत्वमित्यत आह- लोकबाधितेति । तस्यापि आत्मा न रूपवान्' इत्यादिवाक्यस्यापि । नन्वभ्रान्तलोकप्रमाणबाधितार्थबोधकवाक्यस्यैवाव्यवहारकत्वम्, आत्मगौरवादिबोधक लोकप्रमाणं च भ्रान्तमेवेत्य भ्रान्तलोकप्रमाणवाधितार्थकत्वाभावाद् 'आत्मा न रूपवान्' इत्यादिवाक्यस्य नाव्यवहारकत्वप्रसङ्ग इत्यत आह- अभ्रान्तेति । उभयत्र आत्मा न रूपवान्' इति वाक्ये 'पञ्चवर्णो भ्रमरः ' इति वाक्ये च । तुल्यं समानम्, यथा आत्मगौरवादिबोधक लोकप्रमाणस्य भ्रान्तत्वेनाभ्रान्तलोकावाधितार्थबोधकत्वम् 'आत्मा न रूपवान्' इत्यादिवाक्यस्य तथा भ्रमरे कृष्णत्वबोधकलोकप्रमाणस्य भ्रान्तत्वेनाभ्रान्तलोकाबाधितार्थबोधकत्वं पञ्चवर्णो भ्रमरः ' इति वाक्यस्यापीत्यर्थः । ननु यत्रैव प्रत्यक्षविषयत्वं तत्रैव व्यवहारविषयत्वमिति व्यवहारविषयता प्रत्यक्षविषयताव्याप्यैव, तथा च व्यापकस्य प्रत्यक्षविषयत्वस्य भ्रमरगतपञ्चवर्णेऽभावाद् व्याप्यस्य व्यवहारविषयत्वस्यापि तत्राभाव इति ' पञ्चवर्णो भ्रमरः ' इति वाक्यं न व्यवहारनयानुरोधीत्यत आह- प्रत्यक्षनियतैवेति- अत्र प्रत्यक्षस्य विषयतासम्बन्धेन व्यापकत्वं बोध्यम् । व्यवहारिविषयता व्यवहारिणो लोकप्रमाणस्य विषयता, अथवा 'व्यवहारीयविषयता' इत्येव पाठः । व्यवहारदुर्नयस्तेति - चार्वाकमतप्रवर्तको व्यवहारदुर्नयो हि प्रत्यक्षमेवैकं प्रमाणमिति स्वीकरोति, तन्मते यन्न प्रत्यक्षविषयस्तन्नास्त्येवेति भवति प्रत्यक्षाविषयस्य व्यवहाराविषयत्वं तन्मते, जैनदर्शन स्थितव्यवहारनयस्त्वागमादिपरोक्षप्रमाणमप्युररीकरोति, तन्मते प्रत्यक्षाविषयोऽपि व्यवहर्तुं शक्यत एवेति पञ्चवर्णस्य भ्रमरगतस्य प्रत्यक्षाविषयस्याप्यागमप्रमाणविषयत्वेन व्यवहारविषयत्वं स्यादेवेत्यवतरणिकार्थः । < विवृणोति - पञ्चेतीति । 'पञ्चवर्णाभिलापेऽपि ' इति मूलमधुत्वैव यत् 'पञ्चवर्णो भ्रमरः ' इति ' शब्दाभिलापेऽपि ' इति विवरणं तद् विवरणे मूलाक्षरसन्निवेशोऽस्त्येवेति तत एव मूलज्ञानं सुकरमित्यभिप्रायेण, अग्रे च न पृथङ्मूलधारणमन्तरेण तद्विवरणे तद्विवरणत्वावगतिरित्यभिप्रायेण मूलमुपन्यस्य तद्विवरणमिति बोध्यम् । 'श्रुतव्युत्पत्तिशालिनाम् ' इति मूलस्य विवरणम् - ' तत्तन्नय० ' इत्यारभ्य ' ग्रहवताम्' इत्यन्तम् ' स्तत्र नयीयविषयतैव ' इत्यस्य स्थाने ' स्वतन्नयीयविषयतैव' इति पाठो युक्तः, यः शब्दो यन्नयाभिप्रायेण प्रयुक्तः स शब्द स्तन्नया - भिप्रेतखवाच्यतासम्बन्धेन तन्नयीयविषयतासम्बन्धेन शाब्दबोधं प्रति जनक इत्याकारको यः सिद्धान्तसिद्ध कार्यकारणभावग्रहस्तङ्कतां प्रतिपत्तॄणामित्यर्थः । उक्ताभिलापेति- 'पञ्चवर्णो भ्रमरः ' इत्यभिलापेत्यर्थः । तथा च निरुक्तश्रुतव्युत्पत्तिशालिनां पञ्चवर्णो भ्रमरः ' इति वाक्यजन्यशाब्दबोधे कृष्णेतरवर्णांशे व्यावहारिक्या विषयताया अभावे च । व्यावहारिया संवलिता व्यावहारिक्या विषयतया सहिता, 'नैश्चयिकी विषयता' इत्यनेनास्य सम्बन्धः । इतरांशे च कृष्णेतरवर्णाशे पुन: । ' आत्मा न रूपवान्' इति वाक्यजन्यबोधे आत्मगतरूपा भावलक्षणा प्रत्यक्षविषयार्थे नैश्चयिकी विषयता व्यावहारिकविषयतासंवलिताऽपि । ' पञ्चवर्णो भ्रमरः ' इति वाक्यस्य कृष्णवर्णरूपलोकप्रसिद्धार्थेऽनुवादरूपत्वेन तदंश एव तज्जन्यबोधीया निश्चयीयविषयता व्यावहारिकविषयतासंवलिता न तु कृष्णेतरवर्णाशे इत्यभ्युपगमे न कोऽपि दोष इत्याहअष्टार्थ इति- अदृष्टार्थे व्यवहारो न प्रत्यक्षप्रमाणतः किन्तु परोक्षप्रमाणत इति सर्वत्रादृष्टेऽर्थे परोक्षप्रमाणप्रवृत्तिसम्भवेन Page #192 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी- ङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । भ्युपगमादिति न कश्चिद् दोष इति भावनीयम् ॥ २८ ॥ ऋजुसूत्रं लक्षयति भाववे वर्तमानत्वव्याप्तिधीरविशेषिता । ऋजुसूत्रः श्रुतः सूत्रे शब्दार्थस्तु विशेषितः ॥ २९॥ १५९ नयामृत-भावत्व इति । भावत्वे वर्तमानत्वव्याप्तिधीः- अतीतानागत सम्बन्धाभावव्याप्यत्वोपगन्तृता, अविशेषिता - शब्दाद्यभिमतविशेषापक्षपातिनी, सूत्रे ऋजुसूत्रनयः श्रुतः, सूत्रं च - " पञ्चुप गाही उज्जुओ विही मुणेयबो" [विशेषावश्यक निर्युक्तिगाथा - २१८४ ]त्ति, अत्र प्रत्युत्पन्नमेव गृह्णातीत्येवंशील इत्यत्रार्थे तात्पर्यादुक्तार्थलाभः, अविशेषितपदकृत्यमाह - शब्दार्थस्तु विशेषित इति, तथा च विशेषितार्थग्राहिणि शब्दादिनये नातिव्याप्तिरिति भावः, " सतां साम्प्रतानामर्थानामभिधानपरिज्ञानमृजुसूत्र : " [ तत्त्वार्थसूत्रे, अ० १ सू० ३५ ] इति तत्त्वार्थभाष्यं व्यवहारातिशायित्वलक्षणमभिप्रेत्य तदतिशयप्रतिपादनार्थमेतदुक्तम्, व्यवहारो हि सामान्यं व्यवहारानङ्गत्वान्न सहते, कथं तर्ह्य - तत्प्रयुक्तस्य व्यवहारस्याप्यविशेषेण सर्वत्र सम्भवेन तन्निरूपितविषयताऽपि सर्वत्रावश्यकीति तत्संवलितत्वं सर्वत्र दृष्टेऽर्थे निश्चयीयविषयताया इत्यभिसंन्धिः ॥ २८ ॥ एकोनत्रिंशत्तमं पद्यमवतारयति - ऋजुसूत्रमिति । विवृणोति-भावत्व इतीति यत्र यत्र भावत्वं तत्र वर्तमानत्वमित्येवं व्याप्तिज्ञानमृजुसूत्र इत्यर्थः । ' वर्तमानत्वव्याप्तिधीः' इति मूलस्य विवरणम् - अतीतानागतसम्बन्धाभावव्याप्यवोपगन्तृतेति, अतीता ऽनागतकालसम्बन्ध्यपि भावो वर्तमानकालसम्बन्धितामपि वर्तमानतादशायामनुभवत्येवेति यत्र यत्र भावत्वं तत्र वर्तमानत्वमित्येवं व्याप्युपगमः स्थिर भावाभ्युपगन्तु देव्यार्थिकन यस्यापीत्यतोऽतीतेत्यादि विवरणमादृतम्, तथा च यत्र यत्र भावत्वं तत्रातीतानागतसम्बन्धाभाव इत्येवं व्याप्तैरभ्युपगन्तृत्वं न द्रव्यार्थिकनयस्य तदभिमते स्थिरे भावे अतीताना. गतसम्बन्धस्यैव भावेना तीता ऽनागतसम्बन्धाभावस्याभावात्, अतीतानागतसम्बन्धाभावाभाववति स्थिरे भावे भावत्वस्य सत्त्वेन व्यभिचारिणो भावत्वस्यातीतानागत सम्बन्धाभावव्याप्यत्वाभावेन तादृशव्याप्यत्वाभ्युपगन्तृत्वस्य तत्रासम्भवादिति । भावत्वे अतीतानागतसम्बन्धाभावव्याप्यत्योपगन्तृता शब्दादिनयानामपीति तेष्वतिव्याप्तेर्वारणार्थमुपात्तस्य ' अविशेषिता ' इत्यस्य विवरणम् - शब्दाद्यभिमत विशेषापक्षपातिनीति तथा च शब्दाद्यभिमतविशेषानभ्युपगन्तृत्वे सति भावत्वगतातीतानागतसम्बन्धाभावव्याप्यत्वापगन्तृत्वमृजुसूत्रत्वमित्येवमृजुसूत्रस्य लक्षणे पर्यवसिते न शब्दादिनयेऽतिव्याप्तिरित्याशयः । ' सूत्रे ऋजुसूत्रः श्रुतः' इत्युक्तिरुतलक्षणस्य सिद्धान्तसिद्धत्व प्रतिपादनाय । कस्मिन् सूत्रे इति जिज्ञासायामाह - सूत्रं चेति । पच्चुप्पण्ण० इति - " प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिर्ज्ञातव्यः इति संस्कृतम् । नन्वत्रा विशेषितत्वं विशेषणं नोपात्तमिति नैतत्सूत्रसम्मतत्वं निरुक्ताविशेषितत्वघटितलक्षणस्येत्यत आह- अत्रेति एतत्सूत्रे इत्यर्थः । ' प्रत्युत्पन्नमेव ' इत्येवकारेणातीता ऽनागतयोः शब्दाद्यभिमतविशेषस्य च व्यवच्छेदः । तात्पर्यात् प्रत्युत्पन्नग्राहीत्यस्य तात्पर्यात् तेन चोक्तसूत्र तो निरुक्तलक्षणलाभ इत्याह- उक्तार्थलाभ इति । तथा च ' शब्दार्थस्तु विशेषितः ' इत्युपादानेन शब्दाद्यभिमतविशेषाग्राहित्वस्य लक्षणघटकत्वे च । ऋजुसूत्रस्य व्यवहारातिशायित्वफलाभिप्रायकं तत्त्वार्थभाष्योक्तं तल्लक्षणं दर्शयति- सतामिति । तदतिशयप्रतिपादनार्थ व्यवहारत ऋजुसूत्रस्यातिशयप्रतिपादनार्थम् । एतदुक्तं G सतामू० " इत्यादि लक्षणमुक्तम् । अतिशयमेव प्रतिपादयति- व्यवहारो हीति । हि यतः, व्यवहारः व्यवहारनयः, व्यवहारानङ्गत्वात् विषयविधया लोकव्यवहृतिजनकत्वाभावात्, सामान्यं सत्त्वादिकम् न सहते नाभ्युपगच्छति यदि, तर्हि तदा, परकीयं परसम्बन्धि, अर्थमपि धनादिकमपि कथं सहेत कथं स्वीकुर्यादित्यन्वयः, सर्वत्र अविचार्य विचारमकृत्वैवेत्यस्य सम्बन्धः परकीयार्थेनापि दानादिव्यवहारो न भवत्येवेति तदपि व्यवहारानङ्गत्वान्नाभ्युपगन्तुमर्हति व्यवहारः, अभ्युपगच्छति च परकीयधनं व्यवहार इति तदज्ञानविलसितमेतस्येति परकीयधनाद्यनभ्युपगन्तु सूत्रस्य हृदयम्, एवमग्रेऽपि, अतीतमनागतं च कथमविचार्य सहेतेत्यन्वयः । तथाविधार्थवाचकम् अतीतानागतार्थवाचकम "" www. Page #193 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। र्थमपि परकीयमतीतमनागतं च, अभिधानमपि तथाविधार्थवाचकम् , ज्ञानमपि च तथाविधार्थविषयम्, अविचार्य सहेत ? इत्यस्याभिमानः, न चायं वृथाभिमानः, स्वदेश कालयोरेव सत्ताविश्रामात्, यथाकथश्चित्सम्बन्धस्य सत्ताव्यवहाराङ्गत्वेऽतिप्रसङ्गात्, न च देश-कालयोः सत्त्वं विहायान्यदतिरिक्तं सत्त्वमस्ति, ततो योग्यता प्रकृते स्यादसत्ताबोधोऽपि चात्र, तत्र खरशृङ्गादाविव सत्ताप्रतिक्षेऽपि विकल्पसिद्धेऽपि धर्मिणि निषेधप्रवृत्तेस्तत्र तत्र व्यवस्थापितत्वादिति दिक् ।। २९ ॥ अन्यमत्र विशेषमाह इष्यतेऽनेन नैकत्रावस्थान्तरसमागमः । क्रियानिष्ठाभिदाधारद्रव्याभावाद्यथोच्यते ॥ ३० ॥ नयामृत-इष्यत इति । अनेन- ऋजुसूत्रनयेन, एकत्र- धर्मिणि, अवस्थान्तरसमागमःभिन्नावस्थावाचकपदार्थान्वयः, नेष्यते- न स्वीक्रियते, कुतः ? क्रिया- साध्यावस्था, निष्ठा च सिद्धावस्था, तयोर्या भिदा- भिन्नकालसम्बन्धः, तदाधारस्यैकद्रव्यस्याभावात् , अत्रार्थेऽभियुक्तसम्मतिमाह-यथोच्यते, अभियुक्तैः ॥३०॥ पलालं न दहत्यग्निर्भिद्यते न घटः क्वचित् । नासंयतः प्रव्रजति भव्योऽसिद्धो न सिध्यति ॥ ३१ ॥ भिधानमपि कथमविचार्य सहेतेत्यन्वयः । तथाविधार्थविषयं परकीयातीतानागतार्थविषयकम् । इत्यस्याभिमानः एवंरूपोऽभिमान ऋजुसूत्रस्य । न चेति- अनन्तरदर्शितर्जुसूत्राभिमानो न च निरर्थक इत्यर्थः,। अत्र हेतुः- स्वदेशेतिपरकीयं धनं नान्यपुंसो देशे वर्तते, अतीता-ऽनागते च न व्यवहर्तृवर्तमानकाले वर्तेते, अतस्तेषां सत्त्वाभावाद् व्यवहारानङ्गत्वेन न तदभिधानज्ञानादिसम्भव इत्यभिसन्धिः। परकीयधना-जीता-ऽनागतादिभिः सममप्यभिधान-ज्ञानादीनां कश्चित् सम्बन्धो भविष्यति, तं सम्बन्धं समाश्रित्य तेषामपि व्ययहाराङ्गत्वं भविष्यतीति नासत्त्वं तेषामिति यद्युच्येत तर्हि सर्वस्यापि वस्तुनः परस्परं कश्चित् सम्बन्धः कल्पनोपरचितः स्यादेवेति शशादीनां शृङ्गादिभिः सममपि सम्बन्धस्य काल्पनिकस्य सम्भव दसतोऽपि सामान्यस्यार्थक्रियया समं सम्बन्धस्य कल्पयितुं शक्यत्वात् तेषामपि व्यवहाराङ्गत्वतः सत्त्वमनुषज्यतेत्याह- यथाकथश्चित्सम्बन्धस्येति । यदा च परकीयादीनां न खदेश-कालयोः सत्त्वं तदा तदतिरिक्तसत्त्वाभावादसत्त्वमेव तेषामित्याह-न चेति- अस्य 'अस्ति' इत्यनेनान्वयः, अन्यत् सत्त्वमस्तीत्येतावताऽपि वक्तव्यार्थपरिनिष्पत्तौ यदतिरिक्तमित्यधिकमुपन्यस्तं तेनेदं ज्ञापितं भवति- यदुत, देश-कालनिरूपितवृत्तित्वलक्षणसत्त्वतो भिन्नं खरूपसत्त्वं माऽस्तु, महासामान्यसत्त्वलक्षणं सत्त्वं तु भविष्यतीति कैश्चिदुच्येत तदपि नास्तीति, योग्यता' इत्यस्य स्थाने 'योग्यतया' इति पाठो युक्तः, ततः परकीयादीनामसत्त्वात् , योग्यतया असावस्य सम्भवेन । प्रकृते परकीयादौ । अत्र ऋजुसूत्रनये । ननु परकीयादीनामेतन्नयेऽभावाद् धर्मिभूतानां तेषामसिद्धौ कथं तत्र सत्त्वप्रतिषेध इत्यत आह-तत्रेति-परकीया ऽतीता-ऽनागतेष्पित्यर्थः। 'सत्ताप्रतिक्षेऽपि' इत्यस्य स्थाने 'सत्ताप्रतिक्षेपोऽपि' इति पाठो युक्तः, 'शशशृङ्गे सत्त्वं नास्ति' इत्येवं यथा शशशृङ्गे सत्त्वप्रतिक्षेपस्तथा 'परकीयादी सत्त्वं नास्ति' इत्येवं परकीयादावपि सत्त्वप्रतिक्षेपः सम्भवतीत्यर्थः। घामणः प्रमाणाद् विकल्पात् प्रमाण-विकल्पाभ्यां च सिद्धिरभिमता, तत्र शशशृझे विकल्पसिद्ध धर्मिणि यथा सत्त्वनिषेधप्रवृत्तिस्तथा परकीयादावपि विकल्पसिद्ध धर्मिणि सत्त्वनिषेधप्रवृत्तेस्तत्र सत्ताप्रतिक्षपो युक्ताभ्युपगम इत्याह-विकल्पसिदेऽपीति । 'तत्र तत्र' इति वीप्पया नैकस्मिन् ग्रन्थे एकेनैव ग्रन्थका विकल्पसिद्धे धर्मिणि निषेधप्रवृत्तिरुपवर्णिता येन क्वाचिकत्वान्न सर्वैरादरणीयत्वं किन्तु केनचिदेव तत्पक्षपातिना तस्य तत्त्वं स्यात् , अपि तु बहुभिः सूरिप्रवरैः श्रीदेवसरिप्रमुखै रत्नाकरादिग्रन्येऽस्यार्थस्य व्यवस्थापितत्वात् सबैरेवादरणीयत्वमित्यर्थः ॥ २९॥ त्रिंशत्तमपद्यमवतारयति- अन्यमिति । अत्र ऋजुसूत्रे । विवृणोति- इष्यते इतीति । तयोः साध्वावस्था-सिद्धावस्था. Page #194 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिग्यां समलङ्कतो नयोपदेशः। १६१ • नयामृत-पलालमिति । अत्र दहनादिक्रियाकाल एव तन्निष्ठाकाल इति दह्यमानादेर्दग्धत्वाद्य. व्यभिचारात् तदवस्थाविलक्षणपलालाद्यवस्थावच्छिन्नेन समं दहनादिक्रियान्वयस्यायोग्यत्वात् 'पलालं न दहत्यग्निः' इत्यादयो व्यवहारा निषेधमुखा उपपद्यन्ते, विधिमुखस्तु व्यवहारोऽत्र · अपलालं दह्यते, अघटो भिद्यते, संयतः प्रव्रजति, सिद्धः सिध्यति' इत्येवमाकार एव द्रष्टव्यः, अत एव-" सो समणो पवइओ" [ ] इति (सूत्रमपि सङ्गच्छते । नन्वेत )न्नये कृतकरणापरिसमाप्तिः, सिद्धस्यापि साधने करणव्यापारानुपरमादिति चेत् ? न-कार्यमुत्पाद्य क्रियोपरमेण तत्समाप्तेः; न च यादृशव्यापारवतां दण्डादीनां पूर्व सत्त्वं तादृशानामेव तेषां कचित् घटोत्पत्त्यनन्तरमपि सम्भवे तदा तदुत्पत्तिप्रसङ्ग इति वाच्यम् , तत्सत्त्वेऽपि सूक्ष्म क्रियाविगमकल्पनात् ; न च तरिक्रयाया घटोत्पत्तेः प्राक् सत्त्वे रूपयोः क्रिया-निष्ठयोः । अत्रार्थे ऋजुसूत्राभिमतान्तराभिहितविषये। अन्यत् स्पष्टम् ॥ ३०॥ उक्तार्थसंवादकपरवचनं विवृणोति-पलालमितीति । अत्र ऋजुसूत्रनथे । दहनादिक्रियाकाल एव दहनादिसाध्यावस्थाकाल एव । तन्निष्ठाकालः दहनादिसिद्धावस्थाकालः। ननु दहनादेरुत्पद्यमानावस्थारूपदहनादिसाध्यावस्थाकाले 'दह्यते' इति प्रत्ययात् तदानीं वस्तुनो दह्यमानत्वम् , दहनादेर्निष्पन्नतावस्थारूपदहनादिसिद्धावस्थाकाले ‘दग्धः' इति प्रत्ययात् तदानीं वस्तुनो दग्धत्वमित्येवं तयोभैदे जाग्रति सति कथमैक्यावधारणं न्याय मित्यत आह-दह्यमानादेरिति-तथा चैतन्मते यदा 'दह्यते' इति प्रत्ययस्तदैव 'दग्धः' इत्यपि प्रत्यय इति यदा दह्यमानत्वं तदानीं दग्धत्वमपि समस्त्ये. वेति । यो हि दह्यमानाद्यवस्थस्तेनैव समं दहनादिक्रियाऽन्वेति, स च पलालादिखरूपतोऽन्य एव संवृत्त इति तेनान्वीय. माना दहनादिक्रिया न पलालादिनाऽन्वेतुमुत्सहते, यदाऽविचलपलालादिस्वरूपं तदा विक्रियाविशेषखरूपलक्षणा न दहनादि. क्रिया, यदा च सा न तदानीमविचलितपलालादिवरूपमित्येवं तयोभिन्न कालत्वेनान्वयस्यायोग्यत्वात् 'पलालंन दहत्यमिः' इत्यादयो निषेधमुखा एव व्यवहारा ऋजुसूत्रनये युज्यन्ते, न तु 'पलालं दहत्यग्निः' इत्यादयो विधिमुखा व्यवहारा इत्याह-तदवस्थेति- दह्यमानायवस्थेत्यर्थः। तत् किं विधिमुखा व्यवहारा न भवन्त्येवास्मिम् नये. भवन्ति यदि तर्हि कीदृशास्त इत्यपेक्षायामाह-विधिमुखस्त्विति । अत्र ऋजुसूत्रनये । 'संयत: प्रव्रजति' इत्येवं विधिमुखे व्यवहारे सूत्रखारस्यं दर्शयति- अत एवेति- अस्य 'सङ्गच्छते' इत्यनेनान्वयः। सो० इति- “स श्रमणः प्रव्रजितः" इति संस्कृतम् । क्रियाकाल-निष्ठाकालयोरभेददाथि परकीयाशङ्कां प्रतिक्षेप्तमुत्थापयति- नन्विति । एतन्नये क्रिया-निष्ठा. कालाभेदाभ्युपगन्तृनये । कृतकरणापरिसमाप्तिरिति-क्रियमागस्य कृतत्वाव्यभिचारार्थ यस्मिन् क्षणे यद् वस्तु क्रियते तस्य तदानीं कृतत्वमभ्युपेयम्, एवं च कृतस्य करणं खहस्तितमेव, तथा च करणव्यापारानन्तरं निष्पन्नस्यापि वस्तुनः क्रियमाणत्वस्योपपत्तये पुनरपि करणं तस्योपेयम् , तदानीमपि च कृतं तत् क्रियमाणमिति पुनरपि करणमास्थेयमित्येवं दिशाऽनवस्थानं स्यादित्यर्थः। अत्रैव हेतुमाह-सिद्धस्यापीति । साधने उत्पादने। समाधत्ते-नेति । क्रियोपरमेण करणव्यापारोपरमेण, यदर्थ करणस्य व्यापारस्तस्य निष्पत्तौ सत्यां तस्य स्वयमेवोपरम इत्यभीष्टे कार्ये उत्पन्ने सति करणपापारः खयमुपरत इति तद्रूपकारणाभावान्न कृतस्य करणमित्याशयः । 'न च' इत्यस्य ‘वाच्यम्' इत्यनेनान्वयः। यादृशेति- चक्रभ्रमणादिलक्षणेत्यर्थः । पूर्व घटोत्पत्तितः प्राकाले। तादृशानामेव तादृशव्यापारवतामेव । तेषां दण्डादीनाम् । तदा घटोत्पत्त्यनन्तरक्षणे । तदुत्पत्तिप्रसङ्गः उत्पन्नस्यैव घटस्य पुनरुत्पत्तिप्रसङ्गः। निषेधहेतुमाहतत्सत्वेऽपीति-घटोत्पत्त्यनुकूलव्यापारवतां दण्डादीनां सत्त्वेऽपीत्यर्थः । सूक्ष्मक्रियेति- यादृशक्रियया दण्डादिव्यापारभावमापन्नयाऽवश्य घटाद्युत्पत्तिः सैव सूक्ष्मक्रियाशब्देनात्राभिप्रेता, तास्तदानीं विगमादेव न घटाद्युत्पत्तिप्रसङ्ग इत्यर्थः । ननु घटोत्पत्त्यनुकूला या सूक्ष्मक्रिया कल्प्यते सा यदि घटोत्पत्तेः प्राक्क्षणे वर्तते तदा तस्या घटोत्पत्तिव्याप्यायाः सद्भावतो घटोत्पत्तेरपि तदानीं सद्भावप्रसङ्गः, अथ सा घटोत्पत्तिप्राक्क्षणे न वर्तते तदा घटोत्पत्तिकारणत्वमेव तस्या न स्यादित्याशक्य प्रतिक्षिपति-न चेति- अस्य ' वाच्यम्' इत्यनेनान्वयः । तक्रियायाः घटोत्पत्तिनियतायाः सूक्ष्मक्रियायाः । ताऽपि घटोत्पत्तिप्राक्कालेऽपि । तत्सत्वप्रसङ्गः घटोत्पत्तिसत्त्वप्रसङ्गः। असत्वे च तस्याः सूक्ष्मक्रियाया २१ Page #195 -------------------------------------------------------------------------- ________________ १६२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलहतो मयोपदेशः । सदापि तदुत्पत्तिप्रसङ्गोऽसत्त्वे च कार्याव्यवहितपूर्ववृत्तित्वाभावेनाकारणत्वाऽऽपत्तिरिति वाच्यम् , कार्यव्याप्यतावच्छेदकपरिणामविशेषरूपायाः कारणतायाः कार्यसहवृत्तितानियमात् , अत एव 'कुर्वदूपत्वमप्रामाणिकं बीजत्वादिना साङ्कर्याजातिरूपतदसिद्धेः' इति निरस्तम् । अथैवं चक्रभ्रमणाद्युपलक्षितदीर्घक्रियाकाले कुतो न दृश्यते घटः १ यदि क्रियमाणः कृत एवेति चेत् ? न-घटजननव्यापाररूपायाः क्रियाया दीर्घकालत्वासिद्धेः, चरमसमय एव तदभ्युपगमात् , घटगतामिलाषोत्कर्षवशादेव मृन्मर्दनाद्यान्तरालिककार्यकरणवेलायां घटं करोमीति व्यवहारात् , तदुक्तं महाभाष्यकृता"पइसमयकज्जकोडी-निरवेक्खो घडगयाहिलासो सि । पइसमयकज्जकोडि थूलमइ! घडं मिलाएसि"॥ -[विशेषावश्यकभाष्यगाथा-२३१८ ] इति, कृतस्यैव करणे क्रियावैफल्यमित्यपि न रमणीयम्, क्रिययैव निष्ठां जनयित्वा कार्यस्य कृतत्वोपघटोत्पत्तिप्राक्कालेऽसत्वे पुनः। अकारणत्वापत्तिः तत्कार्याव्यवहितपूर्वकालवृत्तित्वमेव तत्कार्य प्रति कारणत्वमिति तस्याः क्रियाया घटोत्पत्त्यव्यवहितपूर्वकालवृत्तित्वाभावात् घटं प्रति कारणत्वं न स्यादित्यर्थः । प्रतिक्षेपहेतुमुपदर्शयति-कार्यव्याप्यतेति-- कारणस्य यत् कार्यव्याप्यत्वं यदा कारणं तदा कार्यम् ' इत्येवं प्रतीयमानं तच्च दण्डत्वादिना दण्डादेर्न सम्भवति दण्डत्वादिना दण्डादेः सत्त्वेऽपि घटादेरसत्वात् , किन्तु घटादिकुर्वदूपत्वात्मकपरिणामविशेषरूपेण, घटादिकुर्वद्रप. त्वात्मक परिणामविशेषविशिष्टदण्डादेर्यदा सत्त्वं तदानीं घटादेः सत्त्वस्यावश्यम्भावादिति तथाभूतव्याप्यत्वस्यावच्छेदको यः कुर्वद्रूपत्वात्मकः परिणामविशेषस्तद्रूपाया दण्डादिगतकारणताया घटादिकार्यसमकालवृत्तित्वस्यश्यम्भावान्न तथाभूतकारणतालक्षणकारणसूक्ष्मक्रियाया घटाद्युत्पत्तेः प्राक् पश्चाच्च सत्त्वमतो नोत्पत्तेः प्राक् पश्चाच्च घटाद्युत्पत्तिप्रसङ्गो नवा पूर्ववर्तित्वा. भावेऽप्यकारणत्वस्य प्रसङ्गः, तत्कार्यकाले तथाभूतपरिणाम सद्भावत एव कारणत्वस्य सम्भवादित्यर्थः। 'अत एव' इत्यस्य 'निरस्तम्' इत्यनेनान्वयः, अत एव कुर्वद्रूपत्वात्मकपरिणामविशेषरूपकारणतायाः कार्यसहवृत्तित्वनियमादेव । साङ्कर्यादिति- बीजत्वाद्यभाववति मृदादिलक्षणकारणे कुर्वद्रूपत्वं कुर्वपत्वाद्यभाववति बीजादावकुर्वद्रूपत्वमित्येवं परस्परात्यन्ताभावसमानाधिकरणयोस्तयोः कुर्वपात्मके बीजादौ सामानाधिकरण न साङ्कर्यादित्यर्थः । तदसिद्धेः कुर्वदूपत्वासिद्धेः, जातिरूपतया कुर्वद्रूपत्वस्यानभ्युपगमादेव तद्रूपतया तदसिद्धिर्न दोषाय, कारणत्वग्राहकप्रमाणेन विषयीकरणादेव नाप्रामाणिकत्वं तस्येत्याशयः । नन्वाद्यचक्रभ्रमणादिक्रियाया आरभ्य चरमसमयकालीनघटजननानुकूलक्रियापर्यन्तं प्रतिसमयं घटजननं भवति क्रियमाणं कृतम्' इति पक्षे, तथा च चक्रभ्रमणप्रथमसमयादारभ्य चरमसमयपर्यन्तमभिव्याप्य यो घटजननव्यापारलक्षणदीर्घक्रियाकालस्तस्मिन् प्रथमसमयावच्छेदेनापि क्रियमाणो घटः कृत एवेति निष्पन्नखरूपस्य तस्य दर्शनं कुतो न स्यादित्याशङ्कते- अथैवमिति । घटजननव्यापारलक्षणा घटोत्पत्तिक्रिया चरमसमय एव, न प्रथमचक्रभ्रमणादिसमये, तदानीं मृन्मर्दनाद्यान्तरालिककार्यमेव क्रियते, 'घटो मे भवतु' इति योऽयं घटकर्तुरुत्कृष्टघटाभिलाषस्तदशादेव चरमसमयातिरिक्त. समयेऽपि 'घटं करोमि ' इति व्यवहारो भवति, न तु वस्तुगत्या तदानीं घटकरणमिति घटाभावादेव न तदानीं घटो दृश्यत इति समाधत्ते-नेति। तदभ्युपगमात् घटजननव्यापाररूपक्रियाऽभ्युपगमात् । उक्काथें महाभाष्यसंवादमाहतदुक्तमिति । पइसमय० इति - " प्रतिसमयकार्यकोटिनिरपेक्षो घटगताभिलाषोऽसि । प्रतिसमयकार्यकोटिं स्थूलमते । घटं लगयसि" ॥ इति संस्कृतम् । ननु घटादिक्रिया कृतमेव घटं करोति नाकृतम्, तथा च कृतं सिद्धमेव तत्करणेन नापूर्व किञ्चिन्निष्पद्यत इति तत्र न क्रिया साफल्यमञ्चतीत्याशङ्का प्रतिक्षिपति-कृतस्यैवेति । क्रियया यदा घटस्य निष्ठा भवति तदेव घटः कृत इत्युच्यते नान्यथेति कृतत्वसम्पादकतया क्रियायाः साफल्यं भवत्येवेति प्रतिक्षेपहेतुमुपदर्शयतिक्रिययवेति- एवकारेण क्रियातिरिक्तस्य निष्ठाजनकत्वव्यवच्छेदः । ननु यद्यकृतं क्रिया न जनयति किन्तु कृतमेव, यतः अकृतस्यासत्त्वेन करणव्यापारविषयत्वासम्भवात् , तॉन्योऽन्याश्रयोऽत्रोपतिष्ठते-क्रियाजनितत्वात् कृतत्वं समद्यते, कृतत्वाच्च क्रियाजनितत्वमित्याशङ्कते-कृतमेवेति । नाकृतम् अकृतं क्रिया न जनयति, असत्त्वात् अकृतस्य स्वरूपत एवासत्त्वेन क्रियाजनितत्वाभावात् । कृतत्वावच्छिन्नं प्रति क्रियात्वेन कारणत्वं नाभ्युपगम्यते, किन्तु घटत्वाद्यवच्छिन्नं प्रति घटादि. क्रियात्वेन कारणत्वमित्येवोपेयत इति क्रियाजन्यतावच्छेदककोटौ कृतत्वस्याप्रवेशानोक्तदिशाऽन्योऽन्याश्रयः, क्रियातो जाय Page #196 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । पादनात् ; कृतमेव क्रिया जनयति, नाकृतमसत्वात् क्रियाजनितत्वाश्च कृतमित्यन्योऽन्याश्रय इति चेत् ? न-घटत्वादिनैव घटादिक्रियाजन्यत्वात् तत्र कृतत्वाप्रवेशादर्थादेव समाजात् कृतत्वोपपत्तेः, यदि च क्रियमाणं न कृतं तदा क्रियासमये कार्याभावात् ततः पूर्वं ततः पश्चाच कारणाभावात् तत्कार्य न भवेदेव; सामग्र्यास्तदुत्तरसमय एव कार्यव्याप्यत्वोपगमान्न दोष इति चेत् ? न - सामग्री समयस्यैव कार्यव्याप्यत्वापगमौचित्यात्, अन्यथा व्यवहितोत्तरकालेऽपि कार्योत्पत्तिप्रसङ्गात्, अव्यवहितोत्तरस्त्रप्रवेशे गौरवात्, द्वि- त्रिक्षणादिव्यवधानाभावनिवेशे विनिगमकाभावात् कारणाभावस्यैव कार्याभावमानस्य घटस्य निष्पन्नस्वरूपस्याकृतत्वाभावादेव कृतत्वमित्येतावतैव कृतस्य करणम्, यथा च नीलसामग्रीतो नीलस्य घटसामग्रीतो घटस्योत्पत्तौ सत्यां स घटो नीलघटोऽर्थादेव भवति, न तु नीलघटत्वस्य किश्चित्कारणनिरूपित कार्यतावच्छेदकत्वं तथा घटक्रियातो जायमानस्य घटस्य सत्त्वादेव नाकृतत्वमित्यकृतत्वाभावादेव कृतत्वम् कृतत्वं हि निष्पन्नक्रियखरूपत्वम्, तत्र निष्पन्नतांश - क्रियांशयोर्यज्जनकं तत एव तद् भवतीत्यर्थसमाजात् तदुत्पत्तिरिति समाधत्ते - नेति । तत्र क्रियाजन्यतावच्छेदककोटौ यदि च क्रियमाणस्य कृतत्वं नोपेयते तदा यदा क्रियाकाले कार्यमनिष्पन्नमेवमास्थेयमन्यथा.. निष्पन्नस्य तस्य कृतत्वं स्यादिति क्रियमाणस्य तदानीं कार्यस्य कृतत्वमिति स्वस्तितमेवेति विवादपर्यवसानम्, अनिष्पन्नत्वे चानिष्पन्नं च वस्तु न स्वस्वरूपतामचतीति क्रियासमये कार्याभाव:, क्रियासमयात् पूर्वं च क्रियारूपकारणस्यैवा भावः एवं क्रियासमयात् पश्चादपि कारणस्याभाव इति कदापि तत् कार्यं न स्यादतः क्रियमाणस्य कृतत्वं स्वीकर्तव्यमित्याह- यदि चेति । ततः क्रियासमयात् एवमग्रेऽपि । यदा स्त्रोत्तर समयत्वसम्बन्धेन सामग्री तदा कालिकसम्बन्धेन कार्योत्पत्तिरित्येवं सामग्री कार्योत्पत्योर्व्याप्यव्यापकभावस्याङ्गीकारात् सामभ्यव्यवहितोत्तरसमये कार्योत्पत्तौ न कश्चिद् दोषं इति शङ्कते - सामग्र्या इति । तदुत्तरेति - सामप्युत्तरेत्यर्थः । यदा सामग्री तदा कार्यमित्येव तयोर्व्याप्यव्यापकभावो न तु सामयुतर समयत्वस्य कार्यव्याप्यत्वमिति सामग्रीसमय एव कार्य न तु सामप्युत्तरसमय इति समाधतेनेति । अन्यथा सामभ्युत्तरसमयत्वस्य कार्यव्याप्यत्वाभ्युपगमे । व्यवहितोत्तरकालेऽपि सामग्रीव्यवहितोत्तरकालेऽपि अपिना सामप्यव्यवहितोत्तरकालस्योपग्रहः, सामप्युत्तरकालत्वस्य सामग्रीव्यवहितोत्तरसमये सामप्यव्यवहितोत्तरसमये च सत्त्वेन तदुभयत्र कार्योत्पत्तौ सत्यामेव सामम्युत्तरत्वस्य कार्यव्याप्यत्वं सम्भवति, अन्यथा व्यभिचारेण सामप्युत्तरत्वस्य कार्यव्याप्यत्वमेव न भवेदिति सामप्युत्तरसमयमात्र एवं कार्यजनिः स्यादित्यर्थः । ननु यदा स्वाव्यवहितोत्तरत्वसम्बन्धेन सामग्री सामग्र्यव्यवहितोत्तरसमयत्वं वा तदा कार्यमित्येवं व्याप्तेरुपगमात् सामप्यव्यवहितोत्तरसमय एवं कार्यं न सामग्रीव्यवहितो - तरसमय इत्यत आह- अव्यवहितोत्तरत्वप्रवेशे गौरवादिति- प्रकारविधया व्याप्यकोटौ व्याप्यतावच्छेदकसंसर्ग को टौ वाऽव्यवहितोत्तरत्वप्रवेशे गौरवप्रसङ्गादित्यर्थः । कि, सामम्यनन्तरं द्विक्षणव्यवधाने यदि कार्य जायते तदा तत्र द्विक्षण • व्यवधाने ऽप्यव्यवहितत्वसम्पत्तये त्रिक्षणादिव्यवधानाभावो निवेश्यः यद्येकक्षणव्यवधान एव कार्यमुत्पद्यते तदा द्विक्षणादिव्यवधानाभावो निवेश्यः, एवं त्रिक्षणव्यवधानेऽपि यदि कार्य जायते तदा चतुःक्षणादिव्यवधानाभावो निवेश्यः, न च सामग्रीक्षणभिन्नक्षणे कार्योत्पादे सामप्युत्तरद्वितीयक्षण एवं सामप्युत्तरतृतीयक्षण एव कार्य जायत इत्यायुपगमे विनिगमकं किञ्चिदिति विनिगमकाभावात् सर्वस्यापि द्वि- त्रिक्षणा दिव्यवधानादेरभावस्य निवेशेऽपि गौरवं सामध्य व्यवहितोत्तर समयस्वस्य कार्यव्याप्यत्वपक्षे इत्याह- द्वि-त्रिक्षणादीति । पर्यायनये एकं कुर्वदूपात्मकं तत्कार्यकारणं यदा तदा कुद्वपात्मकं तत्कार्यकारणान्तरमप्यवश्यमेव समस्तीति कारणे सत्यवश्यमेव कार्यमिति सामय्याः कार्यव्याप्यत्वकल्पनापेक्षया कारणस्यैव कार्यव्याप्यत्वं लाघवात्, तत्रापि यदा कारणं तदा कार्यमित्येव व्याप्तिर्न तु कारणोत्तरसमये कार्यनिति तथा च कारण समय एव कार्यम्, यथा च कारणे सत्यवश्यं कार्यमिति नियमः तथा कारणाभावे सत्यवश्यं कार्याभाव इत्यपि नियम एव, कारणस्य कार्य समव्याप्यत्वेन कारणाभावस्यापि कार्याभावसमव्याप्यत्वम् तेन कारणस्य कार्यव्याप्यत्वे कारणाभावस्य ब्याप्याभावरूपत्वेन कार्यरूपव्यापकाभावस्य व्यापकत्वमेव, तथा च व्यापकस्य तस्य सत्त्वेऽपि नावश्यं व्याप्यस्य कार्याभावस्य सत्वमित्युकेर्ना विकाशः, इत्थं च कारणाभावस्य कारणोत्तरकाले सवेन तदानी कार्याभावस्यैव सत्त्वं न कार्यस्येति कार्य-कारणयोरेककालत्वमेवेति क्रियारूपकारणकाले नियमेन कार्यस्य सत्त्वान्निष्पन्नत्वमपि तस्येत्यतः कृतत्वमपीति क्रियमाणं १६३ Page #197 -------------------------------------------------------------------------- ________________ १६४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। व्याप्यत्वेन कारणोत्तरकालेऽपि कार्यासिद्धेश्च । ननु पर्यायनयविचारे कार्यक्षणेषु कारणक्षणानामव्यव. हितपूर्ववर्तितयैव हेतुत्वमुक्तं तत् कथमिह पर्यायप्रकृतिकशुद्धर्जुसूत्रनयविचारे क्रियमाणं कृतमेवेत्यस्योपपादनाय तेषां कार्यसहवर्तितयैव हेतुत्वं वदतां न पूर्वापरविरोध इति चेत् ? सत्यम्-तत्र पूर्वक्षणानामु. त्तरोत्तरक्षणहेतुत्वस्य विवक्षितस्य पौर्वापर्यनियमेनैवोपपत्तेः, अत्र तु व्यवहारोपगृहीतं घटादिकिश्चित्काल. स्थायिकार्यमादाय तत्र क्रियाजन्यत्वं शुद्धर्जुसूत्रनयेन विचार्यत इति कार्यसहवर्तितयैव तद्धेतुत्वकल्पनाद् विरोधगन्धस्याप्यभावात्, अत एव यत्र शुद्धपर्यायाणां कार्य-कारणभावश्चिन्त्यते, यथा-केवलदर्शना'वधिकक्षणेषु केवलज्ञानावधिकक्षणानाम् , तत्र पौर्वापर्यगर्भ एव हेतुहेतुमद्भावो न तु कार्यसहवर्तितयैव, .सर्वक्षणानामेकक्षणैकशेषताप्रसङ्गादिति सुदृढमवधारणीयम् ।। • अथ · क्रियमाणम्' इत्यत्र वर्तमानत्वमानशोऽर्थः, 'कृतम्' इत्यत्र चातीतत्वं निष्ठार्थः, तत्र वर्तमानत्वं विद्यमानकालवर्तित्वम् , अतीतत्वं च विद्यमानध्वंसप्रतियोगिकालवृत्तित्वम् , विद्यमानत्वं च तत्तकृतमिति युक्तमित्याशयेनाह-कारणाभावस्यैवेति- एक्कारेण कारणाव्यवहितोत्तरसमयत्वाभावसामग्युत्तरसमयत्वाभावसामध्यभावादेः कार्याभावव्याप्यत्वस्य व्यवच्छेदः । शङ्कते- नन्विति । तत् तर्हि । तेषां कारणानाम् , पर्यायनयसामान्यविवारे अव्यवहितपूर्ववर्तित्वेन कारणत्वमुक्तं पर्यायनयविशेषर्जुसूत्रनयविचारे तु कार्यसहवृत्तितया कारणवमित्युच्यते इति कथं न पूर्वापरग्रन्थविरोधोऽर्थात् पूर्वापरग्रन्थविरोधः स्यादेवेति मुकुलितोऽर्थः । समाधत्ते- सत्यमिति- यथा भवतो. द्भावितं तथैवोक्तमस्तोत्यर्थः। एवमपि न पूर्वापरग्रन्थविरोध इत्याह-तत्रेति-पर्यायनयविचार इत्यर्थः, अविरलक्रमण क्षणिकसन्ततिसिद्धये पूर्वपूर्वक्षणानामुत्तरोत्तरक्षणं प्रति हेतुत्वं यद् विवक्षित तत् कार्य-कारणयोः पौर्वापर्यनियमेनैवोपपत्तिपद्धतिमेतीत्यतोऽव्यवहितपूर्ववर्तितया कारणत्वं पर्यायनयवि वारे पूर्वमुक्तमित्यर्थः । अत्र तु शुद्धर्जुसूत्रनयविचारे पुनः । व्यवहारोपगृहीतं व्यवहारनयस्वीकृतम्। आदाय आश्रित्य । तत्र घटादिकार्ये । तद्धेतुत्वकल्पनात् घटादिकार्य प्रति क्रियाया हेतुत्वकल्पनात् , घटादिकार्ये घटादिकरणक्रिया घटादिकार्यसहवृत्तितया हेतुरिति यदा घटकरणक्रिया तदा घटोत्पत्तिः, येवोत्पत्तिः सेव स्थितिः, तत्कालयोरभेदात्, क्रियाऽन्यदा नास्तीति कार्यमप्यन्यदा न विद्यत इत्यतः क्षणिकत्वं सिध्यतीत्याशयेन कार्यसहवृत्तितया ऋजुसूत्रनये हेतुत्वमुच्यत इति भिन्नाभिप्रायप्रवृत्तयोः पूर्वोत्तरग्रन्थयोर्न विरोध इत्याशयः । अत एवेति- यत एव क्षणिकसन्ततिसिद्धये पूर्वक्षणानामुत्तरक्षणं प्रति कारणत्वमुपेयते तत एवेत्यर्थः । यथेति- केवलज्ञान-केबलदर्शनोपयोगयोः क्रमिकत्वेन पूर्व केवलज्ञानं ततः केवलदर्शनं ततः केवलज्ञानमित्येवं केवलदर्शनान्तरितक्रमिककेवलज्ञानसन्तति-केवल ज्ञानान्तरितक्रमिककेवलदर्शनसन्ततिसिद्धये केवलदर्शनावधिकक्षणेषु- केवलदर्शनात्मकक्षणेषु क्षणमात्रस्थायित्वात् केवलदर्शनस्य क्षणत्वं तथा केवलज्ञानस्यापि, क्षणानां तदात्मकत्वादेव तदवधिकत्वम् , यद्यपि केवलदर्शनमवधिरुत्तरतया यस्य क्षणस्य स केवलदर्शनावधिकः केवलदर्शनाव्यवहितपूर्वक्षणः, एवं केवलज्ञानमवधिरुत्तरतया यस्य क्षणस्य स केवलज्ञानावधिक इत्येवमप्यत्र व्युत्पत्तिः सम्भवति तथापि तथा विवक्षायां न किञ्चित् प्रयोजनम् । केवलज्ञानावधिकक्षणानां केवलज्ञानात्मकक्षणानाम् , क्षणत्वेनोत्कीर्तनं च शुद्धपर्यायत्वप्रतिपत्तये, तया च शुद्धपर्यापात्मककेवलदर्शन केवलज्ञान कार्यकारणभावचिन्तनस्थले इत्यर्थः । तत्र केवलज्ञान केवलदर्शनयोः । केवलज्ञान केवलदर्शनयोः कार्यसहवर्तितया कार्यकारणभावाभ्युपगमे यदेव केवलदर्शनं तदेव केवलज्ञानं यदेव केवलज्ञानं तदैव केवलदर्शनमित्येक क्षणमात्ररूपतापत्तौ क्रमिककेवलज्ञान-केवलदर्शनसन्तत्युच्छेदः प्रसज्यत इत्याह-सर्वक्षणानामिति । . ननु तत्तदर्थोपस्थित्यनुकूलव्यापारपर्यवसितप्रयोगाधारकाललक्षणवर्तमानकालवर्तिकृतिविषयत्वलक्षणक्रियमाणत्वाश्रये तत्त. दर्थोपस्थित्यनुकूलव्यापारात्मकप्रयोगाधारकालवर्तिध्वंसप्रतियोगिकाललक्षणातीतकालवृत्तिकृतिविषयत्वस्यासम्भवेन क्रियमाणं कृत. मित्यत्रान्वयस्यैवानुपपत्तिरिति शङ्कते- अथेति । तत्र वर्तमानत्वाऽतीतत्वयोर्मध्ये । लिप्यच्चारणादिसाधारणमितिइयं लिपिरतदक्षरे सङ्केतितति लिपिग्रहणे तत्तदक्षरस्मरणे तत्तदक्षरसमूहात्मकपदस्मृतितस्तत्तदर्थोपस्थितिर्भवतीत्येवं परम्परया तत्तदर्थोपस्थितिप्रयोजकत्वेन लिप्यां तत्तदर्थोपस्थित्यनुकूलव्यापारत्वम् , उच्चार्यमाणश्च शब्दो ज्ञायते, तज्ज्ञानाच्च तत्संकेतितस्यार्थस्य स्मरणमित्येवं परम्परया तत्तदर्थोपस्थितिप्रयोजकत्वेनैवोच्चारणे तत्तदर्थोपस्थित्यनुकूलव्यापारत्वमित्यस्योभयसाधा Page #198 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । १६५ Sone . . .. प्रयोगाधारत्वम् , प्रयोगत्वं च तत्तदर्थोपस्थित्यनुकूलव्यापारत्वं लिप्युञ्चारणादिसाधारणं तदादेर्बुद्धिस्थत्ववल्लडादेः शक्यतावच्छेदक(क) तत्तत्कालानुगमकम् , तच्च वर्तमानत्वमतीतत्वं वा धात्वर्थेऽन्वेति, धातूत्तरप्रत्ययजन्यकालप्रकारकबोधे समानविशेष्यत्वप्रत्यासत्त्या धातुजन्योपस्थितेर्हेतुत्वात् , अत एव नातीतघटज्ञानाश्रये 'घटं जानामि' इति प्रयोगप्रसङ्गः, न चैवमारम्भसमये पचतीति प्रयोगो न स्यात् तदा कार्या( पाका )भावादिति वाच्यम् , स्थूलकालमादाय तत्समाधानात्, तस्मात् क्रियमाणं कृतरण्यम् । तदादेरिति- यथा च 'घटोऽस्ति तमानय, पटोऽस्ति तं पश्य' इत्यादौ तच्छब्देन घटत्व पटत्वादिना घटपटादीनां बोधोपपत्तये तच्छब्दस्य घटत्व-पटत्वादिकं प्रवृत्तिनिमित्तम् , तदनुगमकं च बुद्धिस्थत्वम् , बुद्धिस्थत्वोपलक्षिततत्तद्धर्मावच्छिन्ने शक्तत्वेऽपि न नानार्थत्वं प्रवृत्तिनिमित्तोपलक्षकस्य बुद्धिस्थत्वस्यकत्वात् , तथा प्रकृतेऽपि लडादेः शक्यतावच्छेदकवर्तमानकालाद्यनुगमकं तत्तदर्थोपस्थित्यनुकूलव्यापाराधाराकालत्वप्रविष्टनिरुकव्यापारत्वमिति लिपिकालोञ्चारणकालत्वादिना भेदेऽपि न नानार्थत्वमित्याशयः । आनश्प्रत्ययार्थस्य वर्तमानत्वस्य निष्ठार्थस्य चातीतत्वस्य धात्वर्थ एवान्वय इत्यत्र हेतुमुपदर्शयति-धातूत्तरेति-विशेष्यतासम्बन्धेन धातूत्तरप्रत्ययजन्यकालप्रकारकबोधं प्रति विशेष्यतासम्बन्धेन धातुजन्योपस्थितिः कारणम् , तथा च प्रकृते क्रियमाणमित्यत्र धातूत्तरानश्प्रत्ययजन्यवर्तमानकालप्रकारकबोधो वृत्तित्वसम्बन्धेन वर्तमानकालप्रकारककृतिविशेष्यको विशेष्यतासम्बन्धेन कृतौ भवति तत्र कृञ्धातुजन्या कृतित्वनिष्ठनिरवच्छिन्नप्रकारतानिरूपितनिरवच्छिन्नकृति निष्ठविशेष्यतानिरूपिकोपस्थितिर्विशेष्यतासम्बन्धेन वर्तत इति भवत्युक्तकार्यकारणभावात् तत्र कृतित्वावच्छिन्न विशेष्य काधैयत्वसम्बन्धेन वर्तमानकालप्रकारकशाब्दबोधः, एवं कृतमित्यत्र धातूत्तरकप्रत्ययजन्यातीनकालप्रकारकबोधो वृत्तित्वसम्बन्धेनातीतकालप्रकारककृतिविशेष्यको विशेष्यतासम्बन्धेन कृतावुत्पद्यते, तत्र कृञ्धातुजन्या कृतित्वनिष्ठनिरवच्छिन्नप्रकारतानिरूपितनिरवच्छिन्नकृतिनिष्ठविशेष्यतानिरूपिकोपस्थितिवर्तत इत्यतस्तत्र कृतित्वावच्छिन्नविशेष्यकाधेयत्वसम्बन्धेनातीतकालप्रकारकशाब्दबोध इति । अत एवेति- विशेष्यतासम्बन्धेन धातूत्तरप्रत्ययजन्यकालप्रकारकबोधे विशेष्यतासम्बन्धेन धातुजन्योपस्थितेः कारणत्वमित्येवं कार्यकारणभावबलाद् धात्वर्थ एवं प्रत्ययार्थस्य कालस्यान्वयादेवातीतघटज्ञानाश्रयः पुमान् 'घटं जानामि' इति न प्रयुड़े, घटविषयकवर्नमानज्ञानाश्रयो. ऽहमित्येव ततो बोध उपजायेत, अतीतघटज्ञानाश्रये च घटविषयकवर्तमानज्ञानाश्रयत्वस्याभावान्न तथा प्रयोगप्रसन्न इत्यर्थः । ननु यदि प्रत्ययार्थकालस्य धात्वर्थ एवान्वयस्तदा पाको यदाऽऽरभ्यते तदानीं पाकस्याभावान्न तदानीं पाकस्य वर्तमानकालवृत्तित्वमिति तदानीं पचतीति प्रयोगो न स्यात् , धात्वर्थे पाके वर्तमानकालवृत्तित्वस्य बाधा दित्याशक्ष्य प्रतिक्षिपति-न चैवमिति । आरम्भसमये पाकारम्भसमये, पाकं कर्तुमुद्यतस्येन्धनाग्निसंयोजन-चूलिहको. परिपाकपात्रस्थापन तद्गतजलप्रक्षेपादिकाल इति यावत् । निषेधे हेतुमाह- स्थूलकालमिति- चूल्हिकोपरिपाकपात्राद्यारोपणसमयादारभ्य तण्डुलाद्योदनादिभावनिष्पत्तिसमयमभिव्याप्य स्थितं स्थूलकालमुपादाय तदात्मकवर्तमानकालवृत्तिपाकक्रियानुकूलकृतिमत्त्वस्य पाककर्तरि सद्भावात् तदर्थकः पचतीति प्रयोग: पाकारम्भसमयेऽप्युपपद्यत इत्यर्थः । यदा च क्रियमाणमित्यत्र वर्तमानकालवृत्तित्वस्यानशोऽर्थस्य कृतमित्यत्र निष्ठार्थस्यातीतत्वस्य च कृतावेव धात्वर्थेऽन्वयस्तदा क्रियमाणं कृतमिति वाक्यात तत्तदर्थोपस्थित्यनुकूलव्यापारात्मकप्रयोगाधारकाललक्षणवर्तमानकालवृत्तिकृतिविषयस्तत्तदर्थोपस्थित्यनुकूलव्यापारात्मकप्रयोगाधारकालवृत्तिध्वंसप्रतियोगिकालवृत्तिकृत्तिविषय इत्येवं बोधः क्रियमाणे कृतत्वान्वयायोग्यत्वान्न सम्भवतीत्युपसंहरतितस्मादिति । धात्वर्थे प्रत्ययार्थकालान्वयमुपपाद्य क्रियमाणं कृतमित्यत्रान्वयानुपपत्तिर्या भवता दर्शिता सा तदा सङ्गता स्याद् यदि धात्वर्थे प्रत्ययार्थकालान्वय इत्येव व्यवतिष्ठत, परं तथोपगमे आरम्भसमये पचतीति प्रयोगानुपपत्ति तत्र स्थूलव्यवहारव्युत्पत्तिसमाश्रयणेन स्थूलकालमुपादाय स्थूलकाललक्षणवर्तमानकालवृत्तिपाकानुकूलकृतिमानित्यर्थकत्वेन पवतीति प्रयोगोपपादनं तदा शोभेत यदि स्थूलव्यवहारव्युत्पत्तिर्भवेत् , न चैवम् , अन्यापोहशब्दार्थवादिना निश्चयेन शुद्धर्जुसूत्रेण स्थूलव्यवहारव्युत्पत्तेरनादृतत्वेन तदधीनाभ्युपगमविषयस्य स्थूलकालस्यैवाभावात् , व्यवहारमात्रं तु न वस्तुसिद्धिनिबन्धनम् , व्यवहारस्य वस्तुसिद्धिनिबन्धनत्वे पुरुषो व्याघ्र इति व्यवह्रियमाणप्रयोगात् पुरुषस्यापि व्याघ्रत्वं प्रसज्येतेत्यतः कालवृत्तिताविशेषरूपस्य मिष्ठार्थस्य वर्तमानत्वेन सहाविरोधमभ्युपेत्य क्रियमाणं कृतमित्यत्रान्वयः स्वीकरणीय इति समाधत्ते-नेति । स्थूलेतिस्थिरपदार्थाभ्युपगन्तृत्वेग स्थूलो यो व्यवहारनयस्तस्य स्थूलव्यवहारोपपादनाय या व्युत्पत्तिस्तस्या निश्चयेन ऋजुसूत्रा Page #199 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । 1 मित्यन्त्रान्वयस्यैवानुपपत्तिरिति चेत् ? न-स्थूलव्यवहारव्युत्पत्तेरन्यापोहशब्दार्थवादिना निश्चयेनानादरणात्, अन्यथारम्भकाल इव तत्पूर्वकालेऽप्येकस्थूलकालसम्भवेन पचतीति प्रयोगप्रसङ्गात् न च व्यवहारमात्राद् वस्तुसिद्धिरपि, अन्यथा ' पुरुषो व्याघ्रः ' इति प्रयोगात् पुरुषस्यापि व्याघ्रत्वप्रसङ्गात् । किन, एवं 'नष्टो घटः, नश्यन् घटः' इत्यादिप्रयोगव्यवस्थायां तव का गतिः ? नाशस्योक्तातीतत्वायोगात्, नष्टेऽपि घटे विद्यमाननाश प्रतियोगित्वाच्च; अथ तत्रातीतत्वं वर्तमानत्वं च कृत्प्रत्ययार्थोत्पावान्वेतीति न दोष इति चेत् ? न - उक्त नियमभङ्गप्रसङ्गात् धातुत्व-प्रत्ययत्वादेर्नानात्वात् तन्नियमस्य निश्चयनयेनानादरणादनभ्युपगमात् कथं निश्चयनयः स्थूलव्यवहारव्युत्पत्तिं नाभ्युपैतीत्यपेक्षायामन्यापोह शब्दार्थवादिनेति तद्विशेषणमुपात्तम्, सामान्यस्यानुगतस्य वस्तुभूतस्य वृत्तिविकल्पतोऽभावात् स्वलक्षणस्य सङ्केतव्यवहार कालाननुगामिनः सङ्केतकरणानास्पदत्वात् कल्पितोऽन्यापोहो विकल्पात्मा शब्दार्थः, न च तत्र शब्दस्य सङ्केत करणाच्छन्दार्थत्वं किन्तु शब्दाद् विकल्पलक्षणोऽन्यापोहो जायत इति शब्दजन्यत्वाच्छन्दार्थत्वम् उक्तं च- " विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः । कार्यकारणता तेषां नार्थ शब्दाः स्पृशन्त्यपि " [ ] ॥ १ ॥ एवं च यस्माच्छब्दाद् यथाविधो विकल्प उत्पद्यते तथाविधविकल्पं प्रति तस्य शब्दस्य कारणत्वम् तथा विकल्पात्माऽन्यापोहस्तस्य शब्दस्यार्थं इत्येवंवादिना निश्चयेन स्थूलव्यवहारोपादनप्रत्यलव्युत्पत्तेरनादरणादित्यर्थः । यदि च स्थूलकालमेकमुपादायारम्भसमये पचतीति प्रयोगस्तथाभूतकालवृत्तिपाककृतिमानित्यर्थपरतयोपपाद्यते तर्हि पाकारम्भसमयपूर्वका लादारभ्य पाकनिष्पत्तिसमयपर्यन्तस्थायिस्थूलकालमुपादाय तदात्मक वर्तमानकालवृत्तिपाककृतिमानित्यर्थपरतया पाकारम्भसमयात् पूर्वकालेऽपि पचतीति प्रयोगः प्रसज्येतेत्याह- अभ्यथेति- स्थूलव्यवहारव्युत्पश्याश्रयणस्य निश्चयनयेऽभ्युपगमे स्त्वित्यर्थः । तत्पूर्वकालेऽपि आरम्भकालपूर्वकालेsपि । अन्यथा व्यवहारमात्राद् वस्तुसिद्धयुपगमे । प्रत्ययार्थस्य वर्तमानकालवृत्तित्वस्यातीतकालवृत्तित्वस्य वा निरुतस्य धात्वर्थेऽन्वयाभ्युपगमे परस्यानिष्टमावेदयति- किञ्चैवमिति । उक्तातीतत्वेति- विद्यमानध्वंसप्रतियोगि कालवृत्तित्वलक्षणावीतत्वेत्यर्थः । ननु नाशः पूर्वकालोत्पन्न इदानीमप्यनुवर्तत इति यदा विनष्टो घट इति प्रयुज्यते तत्काल एव तथा प्रयोगा• धारत्वाद् विद्यमानकालस्तदानीं विद्यमानस्तत्पूर्वकालध्वंसो विद्यमानध्वंसस्तत्प्रतियोगिकाल: पूर्वकालस्तद्वृत्तित्वं घटनाशे समस्तीति नोकातीतत्वायोग इति चेत्, मैवम् यतो यथाश्रुतातीतत्वग्रहणे स्थिरपदार्थवादिमते भावमात्रस्य प्रयोगकाले सतस्तत्कालवृत्तिध्वंसप्रतियोगिपूर्वकालवृत्तित्वेनातीतत्वं प्रसज्येत, अतस्तत्र वर्तमानकालावृत्तित्वे सतीत्यपि विशेषणं देयम्, तथा च पूर्वजातोऽपि घटनाश उत्तरकाले सर्वदैव वर्तत इति तस्य वर्तमानकालावृत्तित्वस्याभावेन न तत्सहित विद्यमानध्वंसप्रतियोगिकालवृत्तित्वलक्षणातीतत्वसम्भव इति, एवं च ' नष्टो घट:' इति प्रयोगः पूर्ववृत्तनाशप्रतियोगिनि घटे जायमानो नोपपद्येतेत्यर्थः । पूर्ववृत्तनाश प्रतियोगिघटमुपादाय ' नश्यन् घटः' इति प्रयोगो न भवति सोऽपि स्यात्, विद्यमाननाशप्रतियोगित्वस्य घटे सद्भावादित्याह - नष्टेऽपीति । ननु ' नष्ट:' इत्यत्र कृतः कप्रत्ययस्यातीतत्वमुत्पत्तिश्चार्थ इति तत्रो - त्पत्तावतीतत्वस्योत्पत्तेश्च नाशे धात्वर्थेऽन्वय इत्यतीतोत्पत्तिमन्नाशप्रतियोगीति 'नष्टः' इत्यस्यार्थः, ' नश्यन् ' इत्यत्र च वर्तमानत्वमुत्पत्तिश्च शतृप्रत्ययार्थः, उत्पत्तौ वर्तमानत्वस्योत्पत्तेश्च धात्वर्थे नाशेऽन्वय इति वर्तमानोत्पत्तिमन्नाशप्रतियोगीति ' नश्यन् ' इत्यस्यार्थः तथा च ' नष्टो घटः, नश्यन् घट:' इति प्रयोगद्वयव्यवस्था सुसङ्गतेत्याशङ्कते - अथेति । तत्र नष्टो नश्यन्नित्यादौ समाधत्ते नेति । उक्तेति - ' तच्च वर्तमानत्वमतीतत्वं वा धात्वर्थेऽन्वेति ' इति प्रन्येनार्थादुक्तो यो नियम:- प्रत्ययार्थस्यातीतत्वस्य वर्तमानत्वस्य वा धात्वर्थ एवान्वय इति, तस्य भङ्गप्रसङ्गात् इदानीं प्रत्ययार्थस्यातीतत्वस्य वर्तमानत्वस्य च प्रत्ययार्थेनैवान्वयस्योपगमादित्यर्थः । ननु सकलधातुगतं धातुत्वं सकलप्रत्ययगतं च प्रत्ययत्वमनुगतं नास्तीति न सामान्यत उपदर्शितनियमः किन्तु कृञ्चात्वर्थे कृञ्धातूत्तरानश्कप्रत्ययार्थं वर्तमानत्वातीतस्वातीतत्वादेरन्वय इति विशेषत एवोक नियम इति नशू - धातुस्थलेऽन्यथाऽन्वयोपगमेऽपि नोक्तनियमभङ्गप्रसङ्ग इत्याशङ्कते - धातुत्व-प्रत्ययत्वादेरिति । समाधत्ते-नेति । 'धातुपदत्वादिनापि' इत्यस्य स्थाने 'धातुपदवत्त्वादिनाऽपि इति पाठः सम्यग्, आदिपदात् प्रत्ययपदत्वादेरुपग्रहः, तथा च पाणिनिप्रभृतयो व्याकरणप्रणेतारो स्त्रादिषु सङ्केतितवन्तो धातुपदम्, आख्यातकृदादिषु च प्रत्ययः पदमिति पाणिन्यादिकृतसङ्केतविशेषसम्बन्धेन धातुपदवत्त्वं धातुत्वम् निरुक्कसङ्केत विशेष सम्बन्धेन प्रत्यय पदवस्वं प्रत्ययस्वमित्येवं धातुत्व-प्रत्ययत्वादेरनुगतस्य सम्भवेन तद्रूपेण धातु- प्रत्ययादेरनुगमनस्य सम्भवेन धात्वर्थे प्रत्ययार्थवर्तमानत्वादेरन्वय १६६ Page #200 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो नयोपदेशः। १६७ विशिष्य विश्रान्तिरिति चेत् ? न-अन्ततो धातुपदत्वादिनापि तदनुगमस्य कर्तुं शक्यत्वात् , अथान्यत्राऽप्येकपदोपात्तत्वप्रत्यासत्त्या कृत्यादिस्वार्थ एव प्रत्ययार्थकालान्वयो व्युत्पत्तिवैचित्र्यात्, न च पचत्यपि भाविकृतिप्रागभावमाद्यकृतिध्वंसं चादाय • पक्ष्यति, अपाक्षीत्' इति प्रयोगप्रसङ्ग इति वाच्यम् , आद्यकृतिप्रागभाव-चरमकृतिध्वंसयोर्भविष्यदतीतप्रत्ययार्थत्वादिति नोक्तदोष इति चेत् ? न-'जानाति'इत्यादौ धात्वर्थ एव प्रत्ययार्थकालान्वयदर्शनात् । अस्तु वा, तथापि कृत्प्रत्ययार्थोत्पत्तेः प्रातिपदिकार्थे घटे कथमन्वयोऽयोग्यत्वात् , परपम्परासम्बधेन तत्र तदन्वयोपपत्तिरिति चेत् ? न-विद्यमानघटे इति नियमस्य सामान्यतः सम्भवेन तद्भङ्गप्रसङ्गः कृत्प्रत्ययार्थवर्तमानत्वा-ऽतीतत्वयोः कृत्प्रत्ययार्थोत्पत्तावन्वयस्योपगमे स्यादेवेत्यर्थः। ननु क्रियमाणं कृतमित्यत्र कृतिर्धात्वर्थ एवेति तत्रानश-निष्ठाप्रत्ययार्थवर्तमानत्वा-ऽतीतत्वयोरन्वयः, अन्यत्र तु कृतिः प्रत्ययार्थ इति प्रत्ययार्थ एव तत्र प्रत्ययार्थवर्तमानत्वाऽतीतत्वयोरन्वयः, एकप्रत्ययोपस्थाप्ययोरपि कृतिकालयोरन्वयोऽनुभवानुरोधादुपगम्यते, तथा च यत्र धात्वर्थः कृतिस्तत्र धात्वर्थ एव प्रत्ययार्थकालान्वयः, यत्र तु प्रत्ययार्थः कृतिस्तत्र प्रत्ययार्थे प्रत्ययार्थकालान्वय इति व्युत्पत्तिवैचित्र्याभ्युपगमे न कश्चिद् दोष इति शङ्कते- अथेति । अन्यत्रापि कृत्यर्थकधानुव्यतिरिक्तधातुस्थलेऽपि । ननु कृत्यर्थकधातुस्थले धात्वर्थे प्रत्ययार्थकालान्वये निर्णीते तदन्यधातुस्थलेऽपि धात्वर्थ एव प्रत्ययार्थ कालान्वयः समुचितः, एकत्र निर्णीतः शास्त्रार्थोऽन्यत्रापीति न्यायादिति न प्रत्ययार्थे प्रत्ययार्थंकालान्वय इत्यत आह- एकपदोपात्तत्वप्रत्यासत्येति- सन्निकृष्टेऽन्तरङ्गेऽन्वये सम्भवति विप्रकृष्ट बहिरङ्गे नान्वय इत्यपि नियम इति प्रत्ययार्थः कृतिः कालश्च यत्र तत्र धात्वर्थे एकपदोपात्तत्वलक्षणप्रत्यासत्तिविकलत्वाद् बहिरङ्गः, प्रत्ययार्थे चोक्तप्रत्यासत्तिसमन्वितत्वादन्तरङ्ग इति तत्रैव प्रत्ययार्थकालादेरन्वयः, यत्र तूकप्रत्यासत्तिशालिनि नान्वयः सम्भवति तत्र विप्रकृष्टेऽपि पदान्तरोपस्थापितार्थे पदान्तरोपस्थापितार्थस्यान्वयः स्वीक्रियत एवेत्येवं व्युत्पत्तिवैचित्र्याश्रयणे न कश्चिद् दोषः, दृश्यते चैवकारात्मकैकपदोपस्थापितयोरप्यन्ययो-र्व्यवच्छेद योरन्वय इति तथा कल्पना नादृष्टचरीत्याशयः । ननु यद्यन्यत्रैकपदोपात्तत्वप्रत्यासत्तिबलात् प्रत्ययार्थ एव कृतौ प्रत्ययार्थवर्तमानत्वादेरन्वयस्तदा पाकानुकूलवर्तमानकृतिमत्यपि देवदत्तादावुत्तरकाले पाककृतिर्भविष्यतीति ‘पक्ष्यति देवदत्तः' इति प्रयोगः स्यात् , पाकानुकूलायाः प्रयोगाधारकालवृत्तिप्रागभावप्रतियोगित्वलक्षणभविष्यत्त्ववत्याः कृतेवदत्ते भावात् , एवं तत्र पूर्वकाले पाकानुकूला कृतिरासीदपीति 'अपाक्षीद् देवदत्तः' इत्यपि प्रयोगः स्यात्, पाकानुकूलायाः प्रयोगाधारकालवृत्तिध्वंसप्रतियोगित्वलक्षणातीतत्ववत्याः कृतेरपि भावादिति प्रत्ययाथै कृतौ प्रत्ययार्थकालान्वयो न युक्त इत्याशङ्कामुद्भाव्य प्रश्नयिता प्रतिक्षिपति-न चेति- अस्य ‘वाच्यम्' इत्यनेनान्वयः । निषेधे हेतुमाह-आद्यकृतीति- तत्पाकानुकूलकृतिध्वंसाधिकरणक्षणावृत्तित्वं तत्पाकानुकूलकृतावाद्यत्वम् , तत्साक नुकूलकृतिप्रागभावानधिकरणक्षणवृत्तित्वं तत्र चरमत्वं बोध्यम्, तथा च पचति देवदत्ते तदानीं 'पक्ष्यति देवदत्तः' इति न प्रयोगः, तादृशप्रयोगकालवृत्तित्वस्याद्यकृतिप्रागभावेऽभावात् , एवं तदानीम् 'अपाक्षीद् देवदत्तः' इत्यपि न प्रयोगः, तादृशप्रयोगकाले चरमकृतिध्वंसस्याभावादिति । समाधत्ते-नेति- यदभिमतं प्रश्नकर्तुः कृत्यर्थकधातुव्यतिरिक्तधातुस्थले प्रत्ययार्थकृती प्रत्ययार्थकालान्वय इति तन्न समीचीनम् , जानातीत्यत्र ज्ञाधातुः कृत्यर्थको न, किन्तु ज्ञानार्थक एव, तथा च कृत्यर्थकधातुव्यतिरिक्तधातुः स भवति न च तत्र धातूत्तरप्रत्ययस्याख्यातस्य कृतिरों येन तत्र प्रत्ययार्थकालस्यान्वयः सम्भाव्येतापि, आख्यातस्य तत्र कृत्यर्थत्वमभ्युपेत्याख्यातार्थे कृतौ वर्तमानत्वस्याख्यातार्थस्यान्वय इति न च कल्पयितुं शक्यम् , तथा सति तदानीं घटज्ञानविरहिण्यपि देवदत्ते घटज्ञानार्थ यतमाने देवदत्तो घटं जानातीति प्रयोगः स्याद् घटविषयकज्ञानानुकूलवर्तमानकालीनयत्नवत्त्वस्य देवदत्ते सद्भावादित्यगत्या धात्वर्थ एव ज्ञाने प्रत्ययार्थकालान्वय इति कृत्यादिस्वार्थ एव प्रत्ययार्थकालान्वय इति नियमो भग्न एवेत्यर्थः । यदि च कथमपि व्युत्पत्तिवैचित्र्याद् 'नष्टो घटः, नश्यन् घटः' इत्यादौ प्रत्ययार्थोत्पत्तावेव प्रत्ययार्थकालस्यान्वय उपेयते, एवमप्यतीताया वर्तमानाया वा नाशोत्पत्तघटेऽन्वयोऽयोग्यत्वान सम्भवतीति तादृशप्रयोगानुपपत्तिः स्यादित्याह- अस्तु वेति । कथमित्याक्षेपे, न कथञ्चिदित्यर्थः । ननु नाशोत्पत्तिः स्वाश्रयनाशप्रतियोगित्वलक्षणपरम्परासम्बन्धेन घटेऽन्वेतुमर्हत्येवेत्याशङ्कते-परम्परासम्बन्धेनेति-स्वाश्रयप्रतियोगित्वसम्बन्धेनेत्यर्थः। तत्र घटे । तदन्वयोवपत्तिः नाशोत्पत्त्यन्वयसम्भवः । प्रतियोग्यभावान्वययोस्तुल्ययोगक्षेमस्वमिति नजसमभि-. Page #201 -------------------------------------------------------------------------- ________________ १६८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । 'न नष्टो घटः' इति प्रयोगानापत्तेः, वृत्त्यनियामकस्य सम्बन्धस्याभावप्रतियोगितानवच्छेदकत्वात् ; उत्पत्तेर्धात्वर्थे तस्य च प्रातिपदिकार्थेऽन्वयान्न दोष इति चेत् ? न-नामार्थ-धात्वर्थयोः साक्षाद्भेदसम्बन्धेनान्वयायोगात्, अन्यथा 'तण्डुलं पचति' इत्यत्रापि कर्मत्व संसर्गेण प्रातिपदिकार्थस्य धात्वर्थेऽन्वयप्रसङ्गात् ; अभेदेन निपातान्यनामार्थप्रकारकबोधे समान( विशेष्यत्वप्रत्यासत्या निपातप्रत्ययान्यतरजन्योपस्थितेहेतुत्वात् , नामार्थप्रकारकधात्वर्थ )विशेष्यकबोधासम्भवेऽपि धात्वर्थप्रकारकनामार्थविशेष्यकबोधः प्रकृतेऽनपाय एवेति चेत् ? न- 'चैत्रः पाकः' इत्यादौ कर्तृत्वादिसंसर्गेण पाकादेश्चैत्रादावन्वयाबोधाय धात्वर्थप्रकारकबोधेऽपि निपात-प्रत्ययान्यतरजन्योपस्थितेहेतुत्वान्तरकल्पनावश्यकत्वात् । व्याहृतयादृशवाक्याद् येन सम्बन्धेन यद्वत्त्वं यत्र प्रतीयते नसमभिव्याहृततादृशव क्यात् तत्सम्बन्धावच्छिन्नतनिष्ठप्रतियोगिताकाभाववत्त्वं तत्र प्रतीयत इति नियमेन ‘नष्टो घटः' इत्यत्र स्वाश्रयप्रतियोगित्वसम्बन्धेनातीतनाशोत्सत्तेघटेऽन्वयाभ्युपगमे 'न नष्टोः घट' इत्यत्र स्वाश्रय प्रतियोगित्वसम्बन्धावच्छिन्नातीतनाशोत्पत्तिनिष्ठप्रतियोगिताकाभाववान् घट इत्येवमेवान्वयबोधस्योपगन्तव्यत्वेन वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकत्वपक्षे स्वाश्रयप्रतियोगित्वस्य वृत्त्यनियामकतया तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावाप्रसिद्धया तद्वत्त्वबोधनासम्भवेन विद्यमानघटे 'न नष्टो घटः' इति प्रयोगो नोपपद्यतेति समाधत्ते-नेति । ननु 'नष्टो घटः' इत्यत्रातीतोत्पत्तिमन्नाशप्रतियोगी घट इत्येवमन्वयबोधो भवति, स च प्रत्ययार्थातीतकालान्वितप्रत्ययार्थोत्पत्तेर्नशधात्वर्थे नाशे तस्य च प्रतियोगितया प्रातिपदिकार्थे घटेऽन्वयस्योपगमादुपपादयितुं शक्य इत्याशङ्कतेउत्पत्तेरिति । तस्य च धात्वर्थस्य पुनः । नामार्थ-धात्वर्थयोः साक्षादभेदातिरिक्तसम्बन्धेन नान्वय इति नियमाद् धात्वर्थस्य नाशस्य प्रतियोगित्वलक्षणाभेदातिरिक्तसम्बन्धेन नामार्थे घटेऽन्वयासम्भवादिति समाधत्ते-नेति । 'तण्डुलं पचति देवदत्तः' इत्यत्र धात्वर्थस्य पाकस्य प्रत्ययार्थकृतिद्वारा स्वानुकूलकृतिमत्त्वरूपपरम्परासम्बन्धेन नामार्थे देवदत्तेऽन्वयात् साक्षादिति । स्तोकं पचतीत्यत्र स्तोकरूपनामार्थस्य साक्षादेवाभेदसम्बन्धेन धात्वर्थे पाकेऽन्वयाद् भेदसम्बन्धेनेति- अस्याभेदातिरिक्त सम्बन्धेनेत्यर्थः । अन्यथा नामार्थ-धात्वर्थयोः साक्षाद्भेदसम्बन्धस्योपगमे । प्रातिपदिकार्थस्य द्वितीयाविभक्तिप्रकृतितण्डुलरूपनामार्थस्य । धात्वर्थ पच्धात्वर्थे पाके । ननु नामार्थस्य तण्डुलस्य कर्मत्वसंसर्गेण धात्वर्थे पाकेऽन्वयो न भवतीत्येतदर्थ विशेष्यतासम्बन्धेन भेदसम्बन्धावच्छिन्ननिपातान्यनामार्थनिष्टप्रकारताकशाब्दबोधं प्रति विशेष्यतासम्बन्धेन निपातप्रत्ययान्यतरजन्योपस्थितिः कारणमित्येव कल्प्यते, ‘नष्टो घटः' इत्यत्र तु न नामार्थप्रकारकधात्वर्थविशेष्यकशाब्दबोधः, किन्तु धात्वर्थनाशप्रकारकनामार्थघटविशेष्यकशाब्दबोध एव, तस्य च निरुक्तकार्यतावच्छेदकधर्मानाक्रान्तत्वान्निरुक्तकारणाभावेऽपि नानुपपत्तिरिति शङ्कते- अथेति । 'अभेदेन' इति स्थाने 'अथ अभेदेन' इति पाठो युक्तः । 'घटः पटो न' इत्यत्र नपनामाथभेदस्य स्वरूपसम्बन्धेन घटेऽन्वयात् स्वरूपसम्बन्धावच्छिन्ननपनामार्थभेदनिष्ठप्रकारताकबोधस्य विशेष्यतासम्बन्धेन घटरूपनामार्थे उत्पादात् तत्र निपातप्रत्ययान्यतरजन्योपस्थितेर्विशेष्यतासम्बन्धेनाभावाद् व्यभिचार इति तद्वारणाय निपातान्येति-नाम्नो विशेषणम् , तथा चोक्तभेदप्रकारकबोधस्य कार्यतावच्छेदकानाक्रान्तत्वान्न व्यभिचारः, 'घटो न' इत्यादौ निपातजन्योपस्थितेः 'घटम् ' इत्यादौ प्रत्ययजन्योपस्थितेः सत्त्वान्न व्यभिचार इत्येतदर्थ कारणकोटौ निपातप्रत्ययान्यतरत्वेन निपातप्रत्यययोरुपादानम् । प्रकृते 'नष्टो घट:' इत्यादौ । चैत्रः पचतीत्यादौ चैत्ररूपनामार्थस्य स्वकर्तृकत्वसम्बन्धन पाकरूपधात्वर्थेऽन्वयस्य विशेष्यतासम्बन्धेन भेदसम्बन्धेन नामार्थप्रकारकबोधे विशेष्यतासम्बन्धेन निपातप्रत्ययजन्योपस्थितेः कारणत्वकल्पनेन वारणेऽपि कर्तृत्वसम्बन्धेन पाकप्रकारकबोधस्य निरुक्त कार्यतावच्छेदकधर्मानाकान्तस्य विशेष्यतासम्बन्धेन चैत्ररूपनामार्थे उत्पत्तेर्वारणाय भेदसम्बन्धेन धात्वर्थप्रकारकबोधं प्रत्यपि समानविशेष्यत्वप्रत्यासत्त्या निपात-प्रत्ययान्यतरजन्योपस्थितेहेतुत्वं स्वीकरणीयमेव, तथा च 'नष्टो घटः' इत्यादौ नश्धात्वर्थस्य नाशस्य प्रतियोगितासम्बन्धेन घटरूपनामार्थेऽन्वयो न सम्भवतीति समाधत्ते-नेति । 'चैत्रः पाक इत्यादी' इत्यस्य स्थाने "चैत्रः पचतीत्यादौ" इति पाठो युक्तः । धात्वर्थप्रकारकबोधेऽपि विशेष्यतासम्बन्धेन धात्वर्थप्रकारकबोधेऽपि । ननु 'नष्टो घटः' इत्यादौ नशधातो शप्रतियोगिनि लक्षणा, लक्ष्यार्थस्य च नाशप्रतियोगिनोऽभेदसम्बन्धेन घटरूपनामार्थेऽन्वयः, यद्यपि ‘पदार्थः पदार्थेनान्वेति, न तु पदाथैकदेशेन ' इति व्युत्पत्ते शप्रतियोगिरूपपदार्थकदेशे नाशे कृत्प्रत्ययार्थस्योत्पत्तेनान्वयः सम्भवति, तथाऽपि क्वचित् पदार्थकदेशेऽपि पदार्थान्वयः स्वी Page #202 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । १६९ स्यादेतत्- अत्र नश्धातोः प्रतियोगिनि लक्षणयाऽभेदेनेवास्तु प्रातिपदिकार्थेन सममन्वयः, एकदेशे नाशे कृत्प्रत्ययार्थोत्पत्तेरन्वयश्च व्युत्पत्तिवैचित्र्यात्। न च धात्वर्थस्याख्याताधर्थ एवान्वयनियमात् कथ: मेवमिति वाच्यम् , शक्त्यैव धात्वर्थप्रकारकबोधे आख्यातादिजन्योपस्थितेहेतुत्वात् , अत एव 'जानाति' इत्यादौ ' ज्ञाधातोर्ज्ञानवति लक्षणया प्रातिपदिकार्थेनान्वयसम्भवे आख्यातार्थोऽयोग्यत्वान्न भासते' इति चिन्तामणिकृदुक्तं युक्तम , अनया भगया धातोः परम्परया मुख्यार्थबाधप्रदर्शनेन तल्लक्षणासूचनस्यैवाभिप्रेतत्वात् , एवं हि निरूपितत्वसम्बन्धेन ज्ञानप्रकारकाश्रयत्वविशेष्यकावान्तरशाब्दबोधे तद्धेतुत्वादिगौरवं निरस्तं भवति, न च सामान्यतो हेतुत्वं क्लप्तमेवेति क गौरवमिति वाच्यम् , तथापि तत्तदाकाङ्क्षाज्ञानादिहेतुताकल्पने गौरवादिति; मैवम्-तथा सति 'जानाति' इत्यत्राख्यातार्थसङ्ख्यानन्वयप्रसङ्गात्, क्रियते, यथा- 'सम्पन्नो व्रीहिः' इत्यत्र पदार्थतावच्छे के व्रीहित्वे एकत्वस्यान्वयः, इति ‘पदार्थः' इत्यादिनियमसङ्कोचनेन पदार्थैकदेशेऽपि नाशे कृत्पदार्थान्वयो व्युत्पत्तिचिच्यादुपयत इत्याशङ्क- स्यादेतदिति । अत्र 'नष्टो घटः' इत्यादौ । प्रतियोगिनि नाशप्रतियोगिनि । 'लक्षणया' इत्यनन्तरं 'लक्ष्यार्थस्य तस्य' इति शेषः । अभेदे. नैव अभेदसम्बन्धेनैव । एकदेशे नाशप्रतियोगिरूपपदार्थकदेशे। ननु धात्वर्थस्य नाशप्रतियोगिनि नामार्थे घटे नान्वयः सम्भवति, धात्वर्थस्य प्रत्ययायन सममेवान्वयस्य नियमादित्याशङ्का प्रतिक्षिपति- न चेति- अस्व ‘वाच्यम्' इत्यनेनान्वयः । कथमेवम् धात्वर्थस्य नाशप्रतियोगिनोर्मेदेन कथं नामार्थेनान्वयः । निषेधे हेतुमाह-शक्त्यैवेति-विशेष्यता. सम्बन्धेन धातुशक्त्युपस्थाप्यार्थप्रकारकशाब्दबोधे विशेष्यतासम्बन्धेनाख्यातादिजन्योपस्थितेर्हेतुत्वम् , अतो धातोः शक्यार्थस्य न नामार्थेऽभेदेनान्वयः, प्रकृते तु नश्वातोर्लक्ष्यार्थस्य नाशप्रतियोगिनोऽभेदेन नामार्थे घटेऽन्वय इति तत्र नोक्तकार्यकारणभावविरोध इत्यर्थः । नामार्थेन समं धातुलक्ष्यार्थस्यान्वये गङ्गेशोपाध्यायवचनसंवादमुपदर्शयति- अत एवेति-धातुशक्यार्थप्रकारकबोध एवाख्यातादिजन्योपस्थितेहेतुत्वादेवेत्यर्थः । 'लक्षणया' इत्यनन्तरं तदुपस्थाप्यार्थस्येति शेषः । अन्वयसम्भवे अभेदेनान्वयसम्भवे । आख्यातार्थः यत्नः । अयोग्यत्वात् वर्तमानज्ञानाश्रये देवदत्ते 'देवदत्तो घटं जानाति, इति प्रयुज्यते, यदा तु देवदत्तो घटस्य ज्ञानार्थ यतते न तु वर्तमानघटविषयक ज्ञानाश्रयस्तदानीं 'देवदत्तो घटं जानाति' इति न प्रयुज्यते, यदि तु तत्राख्यातार्थान्वयबोध उपेयते तदा घटज्ञानानुकूलवर्तमानकालीनयत्नाश्रयत्वस्य देवदत्ते सत्त्वाद् 'देवदत्तो घटं जानाति' इति प्रयोगः स्यात् , न च भवति तदानीमेवं प्रयोगोऽतोऽयोग्यत्वादाख्यातार्थो न तत्र भासत इत्यर्थः । अनया भल्या 'ज्ञाधातोर्शानवति लक्षणया०' इत्यादिवचनसन्दर्भण, लक्षणा तत्रैव भवति यत्र मुख्यार्थबाध इति ज्ञाधातोर्ज्ञानवति लक्षणोपदर्शनेन मुख्यार्थबाधो यतोऽत्र ततो लक्षणा समाश्रितेत्येवं परम्परया मुख्यार्थबाधप्रदर्शनेन, वस्तुतं 'आख्यातार्थोऽयोग्यत्वान्न भासते' इत्युक्त्यैव परम्परया मुख्यार्थबाध उपदर्शितः, यद्यत्र धातोर्लक्षणयोपपत्तिर्न भवेत्, तदाऽऽख्यातस्यैव लक्ष्यार्थमाश्रयत्वमाश्रित्यान्वय उपेयेतापि, तेन चाख्यातार्थोऽपि योग्यत्वाद् भासेत, न चैवम् , ज्ञाधातोनिवति लक्षणया प्रातिपदिकार्थेनान्वयः सम्भवत्येव, एवं चाख्यातार्थोऽयोग्यत्वान्न भासत इत्यर्थस्योपोद्दलनाय 'ज्ञाधातोः' इत्याधुक्तिः, तत्र चाख्यातार्थस्याभासनं प्रधानतया तद्धे तुतया चायोग्यत्वं मुख्यार्थबाधपर्यवसितं प्रदर्शितमित्येतावता परम्परया मुख्यार्थबाधप्रदर्शनम् , यत्र च मुख्यार्थबाधस्तत्र शाब्दबोधोपपत्तये लक्षणा समाश्रियत एवेत्यतस्तेन लक्षणासूचनं तदुक्त्यभिप्रेतमिति बोध्यम् । ज्ञाधातुलक्ष्यार्थस्य ज्ञानवतोऽभेदेन नामार्थेऽन्वयोपगमे ज्ञाननिरूपिताश्रयत्वप्रकारकनामार्थविशेष्यकान्वयबोधलक्षणमहावाक्यार्थबोधस्यानभ्युपगमेन तत्कारणत्वमपि निरूपितत्वसम्बन्धेन ज्ञानप्रकारकाश्रयत्वविशेष्यकान्वयबोधलक्षणावान्तरबोधे में स्वीक्रियते नवाऽऽख्यातजन्याश्रयत्वोपस्थितेस्तं प्रति कारणत्वमपीति साघवमपीत्याह एवं हीति-धातुलक्ष्यार्थस्याभेदेन नामार्थेऽन्वयोपगमे यत इत्यर्थः । तद्धेतुत्वादीति- जानातीत्याद्यानुपूर्वीलक्षणसमभिव्याह रज्ञानादिनिष्ठकारणत्वादीत्यर्थः । ननु शाब्दबुद्धित्वावच्छिन्नं प्रत्याकालाज्ञानत्वेन कारणत्वं क्लुप्तमेवेति न गौरवमित्याशङ्कां प्रतिक्षिपतिन चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः। निषेधे हेतुमाह- तथापीति- आकाङ्क्षाज्ञान शाब्दबोधयोः सामान्यतो हेतु. हेतुमद्भावस्य क्लुप्तत्वेऽपीत्यर्थः। तत्तदाकाङ्केति- निरूपितत्वसम्बन्धेन ज्ञानप्रकारकाश्रयत्वविशेष्यकशाब्दबोधे जानातीत्यानु Page #203 -------------------------------------------------------------------------- ________________ १७० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः । भावनान्वयिन्येवाख्यातार्थसङ्ख्यान्वयात् , अथाख्यातार्थसल्यान्वये भावनाविशेष्यत्वं न तन्त्रम् , किन्तु प्रथमान्तपदोपस्थाप्यत्वमेवेति न दोष इति चेत् ? न-धात्वर्थप्रकारकबोधसामान्य एवाख्यातादिजन्यो. पस्थितेहेतुत्वात्, शक्त्येति प्रवेशे गौरवात् , ' प्रजयति' इत्यादावनन्वयप्रसङ्गाच्च, 'पाकोऽयम्' इत्यादौ घ 'स्तोकं पचति, स्तोकः ( पाकः)' इति प्रयोगयोर्विशेषाय घनादीनां धात्वर्थतावच्छेदकविशिष्टे शक्तिस्वीकारान्न दोष इति दिक् । तदेवं नैयायिकोक्तव्युत्पत्तौ तन्नीत्यैवातिप्रसङ्गस्य दर्शितत्वात् , ज्ञानोत्पत्तिकाले नाशोत्पत्तिकालेऽपि पूर्वीलक्षणाकालाज्ञानस्य स्वरूपसम्बन्धेन ज्ञानाश्रयत्वप्रकारकचैत्रादिनामार्थविशेष्यकशाब्दबोधे 'जानाति चैत्रः' इत्यादिसमभिव्याहारलक्षणाकाङ्क्षाज्ञानस्य च हेतुताकल्पने गौरवादित्यर्थः । स्यादेतदित्यादिनोद्भावितामाशङ्का प्रतिक्षिपति-मैवमित्यादिना । तथा सति जानातीत्यादौ ज्ञाधातोनिवति लक्षणया लक्ष्यार्थस्य ज्ञानवतो नामार्थेऽन्वयमभ्युपेत्याख्यातार्थभावनायास्तत्रान्वयबोधानभ्युपगमे सति । आख्यातार्थसड्याऽनन्वयप्रसङ्गात् जानातीत्याख्यातैकवचनार्थकत्वसङ्ख्य या नामार्थचत्रादौ योऽन्वयबोधो भवति स न स्यात् । तत्र हेतुमाह-भावनेति-आख्यातार्थभावनाया यत्रान्वयस्तत्रैवा. ख्यातसङ्खयाया अन्वय इति नियमेन आख्यातार्थभावनायाः प्रकृतेऽन्वयानभ्युपगमे आख्यातार्थसङ्ख्याया अपि तत्रान्वयो न स्यादिर्थः । ननु विशेष्यतासम्बन्धेन यत्राख्यातार्थभावनाप्रकारकबोधस्तत्र तार्थविशेष्यतार्थसम्बन्धेनाख्यातसङ्ख्याप्रकारकबोध इत्येव नेष्यते येन भावनाविशेष्यत्वमाख्यातार्थ सङ्खयान्वये प्रयोजकं स्यात् , किन्तु प्रथमान्तपदोपस्थितार्थ एवाख्यातार्थसङ्खयान्वय इति आख्यातार्थसङ्खयान्वये प्रथमान्तपदोपस्थाप्यत्वमेव प्रयोजकमिति चैत्रादौ प्रथमान्तपदोपस्थाप्ये आख्यातार्थसङ्घयान्वय उपपद्यतेतरामिति शङ्कते- अथेति । तन्त्रम प्रयोजकम्, विशेष्यतासम्बन्धेन धात्वर्थप्रकारकबोधत्वावच्छिन्नं प्रत्येव विशेष्यतासम्बन्धेनाख्यातादिप्रत्ययजन्योपस्थितेः कारणत्वम् , न तु विशेष्यतासम्बन्धेन शक्त्या धात्वर्थप्रकारकबोधं प्रति विशेष्यतासम्बन्धेनाख्यातादिप्रत्ययजन्यो स्थितेः कारणत्वम्, कार्यतावच्छेदककोटौ शक्त्येति प्रवेशे गौरवात् ; 'प्रजयति' इत्यादौ प्रपूर्वकजिधातोर्लक्षणयैवोपस्थितस्याख्यातार्थेन सममन्वयस्वीकारेण तादृशान्वयबोधस्य शक्त्या धात्वर्थप्रकारकान्वयबोधत्वलक्षणकार्यतावच्छेदकानाक्रान्तत्वेन 'प्रजयति' इति समभिव्याहारादनुत्पादप्रसङ्गात् , एवं च 'जानाति' इत्यादौ न धातोर्ज्ञानाश्रये लक्षणा किन्तु आख्यातस्यैवाश्रयत्वे लक्षणा आख्यातलक्ष्यार्थ एवाश्रयत्वे धात्वर्थस्य ज्ञानस्य निरूपितत्वसम्बन्धेनान्वयः, इत्थं च 'नष्टो घटः' इत्यादौ नश्धातो शप्रतियोगिनि लक्षणायामपि लक्ष्यार्थस्य नाशप्रतियोगिनोऽभेदसम्बन्धेन न नामार्थे घटेऽन्वयः सम्भवति, तादृशबोधस्यापि निरुक्तकार्यतावच्छेदकाकान्तत्वेन विशेष्यतासम्बन्धेन तं प्रति कारणस्य विशेष्यतासम्बन्धन प्रत्ययजन्योरस्थिते मार्थे घटेऽभावादित्यर्थः । ननु 'पाकोऽयम्' इत्यादौ पच्धातोरेव पाके शक्तिर्न तु घन इति पचधातूपस्थाप्यस्य पाकस्याभेदेन नामार्थे इदमर्थेऽन्वय इति तद्बोधस्य पच्धात्वर्थपाकप्रकारकस्य विशेष्यतासम्बन्धेन नामार्थे उत्पत्तस्तत्र प्रत्ययजन्योपस्थितेर्विशेष्यतासम्बन्धेनाभावाद् व्यभिचार इति नोककार्यकारणभावसम्भव इत्यत आह-'पाकोऽयम' इत्यादी चेति-स्तोकं पचति' इत्यत्र 'क्रियाविशेषणानां कर्मत्वम्' इत्यनुशासनात् पच्धात्वर्थपाकेऽभेदेन विशेषणस्य स्तोकार्थस्य वाचकात् स्तोकपदाद् द्वितीया, 'स्तोकः पाकः' इत्यत्र स्तोकपदार्थस्य न पधात्वर्थेऽभेदेन विशेषणत्वं तथा सत्युक्तानुशासनबलादत्रापि द्वितीयाप्रसको 'स्तोकं पाकः' इति स्यान्न तु ' स्तोकः पाकः' इति, भवति च 'स्तोकं पाकः' इतिवत् 'स्तोकः पाकः' इत्यपि, तदनुरोधेन पचधातूत्तरघोऽपि धात्वर्थतावच्छेदकपाकत्वविशिष्टे शक्तिरूपेयते, तथा च घनन्तपाकपदार्थे नामार्थे एवाभेदेन स्तोकरूपनामार्थस्यान्वय इति तत्र विशेष्य-विशेषणवाचकपदयोः समानविभक्तिवचनत्वनियमबलात् 'स्तोकः पाकः' इति प्रयोग इति, एवं च 'पाकोऽयम्' इत्यत्र घबन्तपाकनामार्थस्यैवाभेदेनेदमो नाम्नोऽर्थेऽन्वयो न तु पधात्वर्थस्येति व्यभिचाराभावादुक्ककार्यकारणभावः सम्यगेवेति भावः । क्रियाकाल निष्ठाकालयोरक्यमाश्रित्य 'क्रियमाणं कृतम्' इति यजुसूत्रनयाभिप्रेतं तदुपसंहरति-तदेवमिति । नया. यिकोक्तव्युत्पत्ताविति-धातूत्तरप्रत्ययजन्यकालप्रकारक.बोधे सामानविशेष्यत्वप्रत्यासत्त्या धातुजन्योपस्थितेहेतुत्वमित्यादि Page #204 -------------------------------------------------------------------------- ________________ नयाम्म्रुततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । 'ज्ञातो घटः, नष्टो घट:' इति व्यवहारात्, क्रियाकालेऽपि निष्ठार्थाविरोधात् तत् ' क्रियमाणं कृतम्' इत्यन्वयो नानुपपन्नः, सर्वत्र कालवर्तिताविशेषरूपसिद्धत्वस्य निष्ठार्थत्वात् तस्य चादिसमवायावच्छेदेन साध्यत्वेन सममविरोधात्, चिरनष्टे 'इदानीं नष्टः' इति, चिरोत्पन्ने च ' इदानीमुत्पन्नः ' इति च प्रतीतिः समभिव्याहारविशेषादेतत्कालावच्छिन्न साध्यत्वविशिष्टसिद्धत्वोपस्थित्यैव न भविष्यति, इत्थमेव क्रियमाणं कृतमेव, कृतं च क्रियमाणत्वेन भजनीयमिति सिद्धान्तः सङ्गच्छते । सिद्धत्वविशिष्टसाध्यतायाः सिद्धत्वनियतत्वाच्छुद्ध सिद्धतायाश्च विशिष्टसाध्यताऽनियतत्वात्, तदाह भाष्यकारःतेणेह कज्जमाणं नियमेण कथं कथं तु भयणिज्जं । किंचिदिह कज्जमाणं उवरयकिरियं व होज्जा हि " ॥ 46 - [ विशेषावश्यकभाष्यगाथा- २३२० ] इति, अस्तु वा विपरिणामस्वरूप निष्पत्त्यादिरूपाननुगतैत्र निष्ठा, समभिव्याहारविशेषादेव बोध विशेषोपपत्तेः, परमुक्तयुक्तेः क्रियाकालो (नयरहस्यतः ) निष्ठाकालं न विरुणद्धीति किमतिविस्तरेण १ ॥ ३१ ॥ ननु यद्येवं कारणव्यापारचरमक्षण एव क्रियाकालो निष्ठाकालश्च भाष्यकृता निर्णीतस्तदा शाट्येक १७१ > व्युत्पत्तौ ' क्रियमाणम्' इत्यत्र क्रियायां वर्तमानकालवृत्तित्वान्वयः ' कृतम्' इत्यत्र क्रियायामतीतकालवृत्तित्वान्वय इति वर्तमानकालवृत्तिक्रियाया अतीतकालवृत्तित्वासम्भवान्न क्रियमाणं कृतमित्यस्योपपादिकायामित्यर्थः । तन्नीत्यैव नैयायिको व्युत्पत्त्यैव । अतिप्रसङ्गस्येति - चिरविनष्टेऽपि घटे विद्यमाननाश प्रतियोगित्वस्य सत्त्वेन ' नश्यन् घटः' इति प्रयोगप्रसङ्गस्येत्यर्थः । क्रियाकाले निष्ठार्थाविरोधं व्यवहारबलादुपपाद्य तत: ' क्रियमाणं कृतम्' इत्यत्रान्वयोपपत्तिं भावयति - ज्ञानोत्पत्तिकाल इति । यादृशस्य निष्ठार्थस्योत्पत्तिसमयेऽपि सत्त्वतो न साध्यत्वेन समं विरोधस्तं भावयति - सर्वत्रेति । तस्य च कालवर्तिताविशेषरूपसिद्धत्वस्य पुनः । यदि वर्तमान- निष्ठाकालयोर्न विरोधः किमिति चिरनष्टे 'इदानीं नष्टः इति, चिरोत्पन्ने च ' इदानीमुत्पन्नः' इति च न प्रतीतिरित्यपेक्षायामाह - चिरनष्ट इति । ' प्रतीतिः' इत्यस्य 'न भविष्यति' इत्यनेनान्वयः । समभिव्याहारविशेषात् 'नष्ट:' इति पदे ' उत्पन्नः' इति पदे चाव्यवहितोत्तरत्वसम्बन्धेन इदानीमितिपदवत्स्वलक्षणा काङ्क्षाबलात् । उक्तोपपादन प्रकारस्यर्जुसूत्र सिद्धान्तविशेषोपष्टम्भकत्वं दर्शयति- इत्थमेवेति- उक्तप्रकाराश्रयणादेवेत्यर्थः । ' कृतमेव ' इत्येवकारेणाकृतत्वव्यवच्छेदः, तेन कृतत्वविनिर्मुक्तं क्रियमाणत्वं नास्त्येवेति दर्शितम् । क्रियमाणत्वेन भजनीयम् कृतं क्रियमाणमक्रियमाणं च । सिद्धत्वविशिष्टेति यदा नाश उत्पद्यते तदानीं नाशस्य सिद्धत्वमपि साध्यत्वमपीति तत्कालीना नाशगता साध्यता सिद्धत्वविशिष्टेति तस्याः सिद्धत्वव्याप्यत्वाद् यत्र सिद्धत्वविशिष्टसाध्यता तत्र सिद्धत्वं समस्त्येवेत्यतः क्रियमाणं कृतमेवेत्यर्थः । शुद्धसिद्धतायाश्चेति - चिरनष्टस्य घटादेर्नाशः पूर्वमेवोत्पन्न इदानीं नोत्पद्यत इति एतत्काले तन्नाशगता सिद्धतैव न त्वेतत्कालावच्छिन्ना साध्यतेति सा शुद्धसाध्यता, तस्याः पुनरेतत्कालावच्छिन्नसाध्यतालक्षणा या विशिष्टसाध्यता तद्वयाप्यत्वाभावादतः कृतं क्रियमाणं न भवत्यपीत्यर्थः । उक्तार्थे भाष्यकारवचन संवादमुप दर्शयति तदादेति । तेणेह० इति - " तेनेह क्रियमाणं नियमेन कृतं कृतं तु भजनीयम् । किञ्चिदिह क्रियमाणमुपरतक्रियं च भवेत् " ॥ १ ॥ इति संस्कृतम् । कालवर्तिताविशेषरूपमेव सिद्धत्वं निष्ठाप्रत्ययार्थ इत्येवमेकरूपैव निष्ठेत्येक स्वरूपाया निष्ठाया अभावऽपि न नः किञ्चिदपचीयते, अननुगतस्वरूपत्वेऽपि तस्यास्तत्तत्स्वरूपायाः समभिव्याहारविशेषाद् बोधविशेषः स्यादेव, एवमप्युक्तयुक्तया क्रियाकालस्य निष्ठाकालेन सममविरोध एवेत्युपसंहरति- अस्तु वेति । यस्मिन् काळे यद् वस्तु यथैत्रोत्पन्नं तथैवावतिष्ठते न तु सदृशरूपेण विसदृशरूपेण वा परिणमते तदा तद् वस्तु विरिणामस्वरूपमिति तद्रूपैव तस्य निष्ठा, प्रतिक्षणं किञ्चित्किञ्चिदंशेनोत्पद्यमानं पटादि वस्तु यदा निष्पन्नं सम्पूर्णस्वरूपं भवति तदानीं स्वरूपनिष्पत्तिरूपैव तस्य निष्ठेत्याह - विपरिणामेति । पटं किन्तु । अन्यत् स्पष्टम् ॥ ३१ ॥ द्वात्रिंशत्तमं पद्यमवतारयति - नन्विति । तदानीं शाव्येकदेशदाहकाले । तन्निष्ठाकालस्य शाटीदाह निष्ठाकालस्य, Page #205 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । देशे दह्यमाने 'शाटी दग्धा' इति वचनं कथं भगवदुक्त सूत्रानुवादेन समर्थितम् ? तदानीं शाटीदाहक्रियाकालसंवलितस्य तन्निष्ठाकालस्याभावादिति जिज्ञासायामाह दह्यमानेऽपि शाट्येकदेशे स्कन्धोपचारतः । शाटी दग्धेति वचनं ज्ञेयमेतन्नयाश्रयम् ॥ ३२ ॥ नयामृत-दह्यमानेऽपीति । शाट्येकदेशे दह्यमानेऽपि तत्र, स्कन्धोपचारतः-शाटीस्कन्ध. वाचकशाटीपदोपचारात्, 'शाटी दग्धा' इति वचनम् , एतन्नयाश्रयम्-ऋजुसूत्राभिप्रायकं ज्ञेयम , तदाह भाष्यकार:" उजुसुअणयमयाओ वीरजिणिंदवयणावलंबीणं । जुज्जेज डज्झमाणं डढें वोत्तुं न तुज्झ त्ति " ॥ [विशेषावश्यकभाष्यगाथा-२३२९] जमालिमतव्युद्वाहितां प्रियदर्शनां प्रति भगवद्वचनवासितचेतसो ढंकस्योक्तिरियम् , तथा चात्रोपचारमूलव्यवहारनयोपगृहीतस्यर्जुसूत्रनयस्य प्रवृत्तिरित्युक्तं भवति । इदं तु ध्येयम् , एवं सति दीर्घः क्रियाकाल आंशिककार्यक्षणकोटिविषयोऽभ्युपगन्तव्यः, तत्र च यद्यपि कारणक्षणस्य पूर्ववर्तितयेव शाट्येकदेशे दह्यमाने न शाटी दह्यत इति न स शाटीदाहकाल इति कुतः शाटीदाहक्रियाकालसंवलितस्तनिष्ठाकाल इति तदानीं 'शाटी दग्धा' इति वचनमभिधेयशून्यमेवेति भावः । - विवृणोति-दह्यमानेऽपीतीति । तत्र शाट्येकदेशे । उक्तार्थे भाष्यसम्मतिमुपदर्शयति- तदाहेति । उजुसुअ० इति- ऋजुसूत्रनयमताद् वोरजिनेन्द्रवचनावलम्विनाम् । युज्यते दह्यमाने दग्धे वक्तुं न तवेति" इति संस्कृतम् । दह्यमाने शाठ्ये कदेशे 'शाटी दग्धा' इति वचनं को प्रति कस्यैत्यपेक्षायामाह-जमालीति- जमालि:- क्रियमाणं कृतमिति सिद्धान्तमश्रद्दधानो मुनिविशेषः, य. प्रागवस्थया भगवतो जामाता, प्रियदर्शना- जमालिमतमनुसरन्ती साध्वी, या प्रागवस्थया जमालिजाया, ढङ्क:-प्रियदर्शनासाध्वी प्रतिबोधनोद्यतो ढङ्कनामा कुम्भकारः श्रावकः। इयं या भाध्यकारेणानन्तरगाथारूपेण संगृहीता। उपचारं व्यवहारनय एवाभ्युपैति न तु ऋजुसूत्र इति कथमुपचाराश्रयेण ऋजुसूत्रनयाश्रिता निरुक्कोक्तिरित्यपेक्षायामाह-तथा चेति- उपचाराश्रयेणोक्तवचनव्यवस्थितौ चेत्यर्थः । अत्र शाटी दग्धेति वचने। अत्र शेमुषीविशेषमाधातुं किञ्चिद्विशेषमुपदर्शयति- इदं तु ध्येयमिति- एवं सतीत्यादिनाऽनन्तरमेव वक्ष्यमाणं विचारणीयमित्यर्थः। एवं सति उक्तवचनस्य व्यवहारनयोपगृहीतर्जुसूत्रनय प्रवृत्तिकत्वे सति । दीर्घः एकतन्तुप्रवेशादिसमयमारभ्य चरमतन्त्वादिप्रवेशनिष्पन्नपटस्वरूपसमयपर्यन्तस्थायी। आंशिकेति- सहस्रतन्तुकपटस्य द्वितन्तुकपटादिकमांशिकम्, तत्क्षणकोटिविषयः-स्वरूपसन्निविष्टो यस्य तादृशः स्वरूासम्बन्धविशेषरूपविषयत्वस्य ज्ञानेच्छायत्नेष्वेव भावादन्यादृशस्य विषयत्व स्योपदर्शितरूपस्यैवात्र योग्यत्वात् , क्षणश्चात्र कार्यखरूप एव, ऋजुसूत्रनये क्षणमात्रस्थायिनो वस्तुन एव क्षणत्वात् , तथा च ऋमिकानल्पकार्यप्रवाहविशेषस्वरूपः क्रियाकलो दीर्घोऽभ्युपगन्तव्य इत्यर्थः। तत्र च उक्तदीर्घकालाभ्युपगमे च । कारणक्षणस्य कारणात्मकक्षणस्य । पूर्ववर्तितयैव अव्यवहितपूर्ववर्तितयैव । व्यापारात् क्रियायामुपयोगात् । क्रियाकाल: आद्यतन्तुप्रवेशादिलक्षणक्रियाकालः, तदव्यवहितपूर्ववर्तितयैव कारणक्षणस्योपयोगः, तस्य च चरमतन्तुप्रवेशनिष्पन्नपटस्वरूपात्मकनिष्ठाकालाव्यवहितपूर्ववर्तित्वं नास्ति किन्तु तदन्यस्यैव कारणक्षणस्य तदव्यवहितपूर्ववर्तितया तत्रोपयोग इति कारणभेदात् क्रिशकाल-निष्ठाकालयो द एवेत्यर्थः, अस्य व्यवहारनयसम्मतत्वं च प्रतिक्षणमन्यान्यभावेऽप्येकतयैव व्यवहियमाणत्वम् . तद् यद्यप्यौपचारिकम् , एवमप्युपचारप्रधानस्य व्यवहारनयस्य सम्मतत्वमासादयत्येव, तथा च व्यवहास्नयोपगृहीतस्यर्जुसूत्रस्य मते न सम्भवति क्रियाकाल-निष्ठाकालयोरेक्यमित्येकं सीव्यतोऽपरप्रच्युतिरित्यर्थः । तथापि आद्यतन्त्वादीनां द्वितीयादितन्तुभिः सह संयोजनलक्षणप्रवेशनलक्षणं पटस्य करणं क्रिया, तत्कालः क्रियाकालः, चरमतन्तुप्रवेशनतो निष्पन्नपटखरूपं निष्ठाकालः, तयोरुक्तदिशा भेदस्य व्यवहारनयसम्मतत्वेऽपि । “भूतिर्येषाम्" इति स्थाने Page #206 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । १७३ 'भगवद्ववनसंसर्गितया सम्बन्धित्व व्यापारात् क्रियाकाल निष्ठाकालयोभैद एव व्यवहारनय सम्मत आपलति, तथापि " भूतियेषां क्रिया सैव." [ ] इत्याश्रयणादुत्पत्तिरूपक्रियायास्तनिष्ठा याश्च योगपद्यमविरुद्धमिति । ] इत्या " कल्नमाणे कडे " [ ]त्ति भगवद्वचनं तूत्पादादीनामेकर्मिसंसर्गितया त्रैकाल्यविषयत्वेन प्रमाणार्थकतया व्याख्येयम् , तथाहि-आद्यतन्तुप्रवेशक्रियासमये पटद्रव्यं यदि तेन रूपेण नोत्पन्नं त . त्तरत्रापि नोत्पन्नमित्यन्ता(न्तेऽप्य )नुत्पन्नं स्यात् , उत्पन्नांशेनैव चोत्पत्तौ फलान्तराभावप्रसङ्गः, इत्या"भूतियेषाम्" इति पाठो युक्तः, अत्र “करणं सैव चोच्यते", इति द्वितीयचरणम् , एषां घटपटादिकार्यक्षणानां या भूतिर्भवनमुत्पत्तिरिति यावत् , सैव क्रिया, करणमप्येषां सैव उत्पत्तिरेवेत्यर्थः । इत्याश्रयणात इति वचनाभिप्रेतार्थाभ्युपगन्तृमतस्य क्रियाकाल-निष्ठाकालयोरैक्यसंसिद्धये आश्रयणात् । तनिष्ठायाः उत्पत्तिक्रियासिद्धत्वस्य । सर्वेषां घटादीनां क्षणमात्रस्थायित्वेन पूर्वपूर्वकार्यस्योत्तरोत्तरकादित्यन्तभिन्नत्वेन विनाशस्य तुच्छरूपतयाऽतिरिकस्य कारणजनितस्याभावेन यदैव वस्तुन उत्पत्तिस्तदैव तस्य परिनिष्पत्तिस्वरूपोत्पत्तिरूपा स्थितिर्या निष्ठार्थतया गीयत इत्यैक्यादेव तयोः कालस्याप्यैक्यमृजुसूत्रनये इत्यर्थः । ननु भगवद्भिस्तीर्थकृद्भिः सर्वज्ञैरपि क्रियमाणं कृतमित्युपेयते तत् कथं सुसङ्गतम् ? तेषामृजुसूत्रनयमात्राभ्युपगन्तृत्वाभावैन क्रियाकाल-निष्ठाकालयोर्भेदस्याप्युपगन्तृत्वादित्यत आह-कजमाणे-इति क्रियमाणं कृतमिति संस्कृतम् । 'भगवद्वचनं तु' इत्यस्य 'व्याख्येयम्' इत्यनेनान्वयः। 'उत्पादादीनाम' इत्यत्रादिपदात् स्थिति-विगमयोरुपग्रहः। एकर्मिसंसर्गितयेति- यदैव यस्योत्पादस्तस्य तदेव स्थितिर्विगमश्चेत्येवमेकधर्मिसंसर्गितयेत्यर्थः । त्रकाल्यविषयत्वेनेति- उत्पतेर्विद्यमान काल सम्बन्धित्वं यदशादुत्पत्तिमत उत्पद्यमानत्वम्, उत्पत्तेरतीतकालसम्बन्धित्वं यदशादुत्पत्तिमत उत्पन्नत्वम्, उत्पत्तेर्भविष्यत्कालसम्बन्धित्वं यदशादुत्पत्तिमत उत्पत्स्यमानत्वम्, एवं स्थितेविद्यमानकालपम्बन्धित्वं यतः स्थितिमतः स्थीयमानत्वम् ; स्थितेरतीतकालसम्बन्धित्वं यतः स्थितिमतः स्थितत्वम् , स्थितेभविष्यत्कालसम्बन्धितं येन स्थितिमतः स्थास्यमानत्वम्, एवं विगमस्य वर्तमानकालसम्बन्धित्वं यतो विनाशप्रतियोगिनो विगच्छद्भावः, विगमस्य भूतकालसम्बन्धित्वं यतो भवति विनाशिनो विगतत्वम. विगमस्य भविष्यकालसम्बन्धित्वं येन विनाशिनो विगमिष्यद्भावः, इत्येवं त्रैकाल्यविषयत्वेनेत्यर्थः । प्रमाणार्थकतया प्रमाणविषयीभूनोत्पादादित्रयात्मकवस्तुविषयत्वेन । अत्र उत्पद्यमानस्य उत्पद्यमानोत्पत्स्यमानोत्पन्नस्वरूपेण त्रिकालोत्पत्तिसम्बन्धकृतेन त्रिप्रकारत्वम् , एवमुत्पत्स्यमानस्योत्पत्स्यमानोत्पद्यमानोत्पन्नस्वरूपेण त्रिकालोत्पत्तिसम्बन्धकृतेन त्रिप्रकारत्वम् , एवमुत्पन्नस्योत्पन्नोत्पद्यमानोत्पत्स्यमानस्वरूपेण त्रिकालोत्पत्तिसम्बन्धकृतेन त्रिप्रकारत्वम् इत्येवमुत्पत्तिमतस्त्रिकालोत्पत्तियोगेन नव भेदाः, तथोत्पद्यमानस्य स्थित-स्थीयमान स्थास्यमानस्वरूपेण त्रिप्रकारत्वम् , उत्पद्यमानस्य स्थितस्थीयमान स्थास्यमानस्वरूपेण त्रिप्रकारत्वम् , उत्पन्नस्य स्थित- स्थीयमान-स्थास्यमानस्वरूपेण त्रिप्रकारत्वम्, इत्येवं त्रिकालस्थितियोगेनोत्पत्तिमतो नव भेदाः; तथोत्पद्यमानस्य विगत विगच्छद्-विगमिष्यत्स्वरूपण त्रिप्रकारत्वम् , उत्पत्स्यमानस्य विगत-विगच्छद् विगमिष्यत्स्वरूपेण त्रिप्रकारत्वम् , उत्पन्नस्य विगत-विगच्छद्विगमिष्यत्स्वरूपेण त्रिप्रकारत्वम्, इत्येवं त्रिकालविगमयोगेनोत्पत्तिमतो नव भेदाः,ते चोत्पत्तिकृतप्रकारा मिलिताः सप्तविंशतिभेदाः; एवं स्थीयमानस्य स्थीयमान-स्थास्यमान स्थितस्वरूपेण त्रिकालस्थितिसम्बन्धकृतेन त्रिप्रकारत्वम् । एवं स्थितस्य स्थित-स्थीयमान-स्थास्यमानस्वरूपेण त्रिकालस्थिति सम्बन्धकृतेन त्रिप्रकारत्वम् , स्थास्यमानस्य च स्थास्यमान-स्थीयमान-स्थितस्वरूपेण त्रिप्रकारत्वम् , इत्येवं स्थितिमतस्त्रिकालस्थितियोगेन नव भेदाः; तथा स्थीयमानस्योत्पद्यमानोत्पत्स्यमानोत्पलस्वरूपेण त्रिप्रकारत्वम. स्थास्यमानस्योत्पद्यमानोत्सत्स्यमानोत्पन्नस्वरूपेण त्रिप्रकारत्वम् , स्थितस्योत्पद्यमानोत्पत्स्यमानोत्पन्नस्वरूपेण त्रिप्रकारत्वम्, इत्येवं त्रिकालोत्पत्तियोगेन' स्थितिमतो नव भेदाः; तथा स्थीयमानस्य विगत-विगच्छद् विगमिष्यद्रूपेण त्रिप्रकारत्वम्, स्थास्यमानस्य विगत विगच्छद्-विगमिष्यदूषण त्रिप्रकारत्वम् , स्थितस्य विगत-विगच्छद्-विगमिष्यद्रूपेण त्रिप्रकारत्वम् , इत्येवं त्रिकालविगमयोगेन स्थितिमतो नव भेदाः, ते च स्थितिकृतप्रकारा मिलिताः सप्तविंशतिभेदाः, एवं विगच्छतो विमच्दुविगमिष्यद्-विगतस्वरूपेण त्रिकालविगमसम्बन्धकृतेन त्रिप्रकारत्वम् , विगमिष्यतो विगमिष्यद्-विगच्छद्-विमतरूपेण त्रिप्रकारत्वम् , विगतस्य विगत विगच्छद् विगमिष्यद्रूपेण त्रिप्रकारत्वम् , इत्येवं विगमवतस्त्रिकालविगमयोगेन नव भेदाः: क्गिच्छत उत्पद्यमानोत्पत्स्यमानोत्पनस्वरूपेण त्रिप्रकारत्वम्, विगमिष्यत उत्पद्यमानोत्पत्स्यमानोत्पन्नस्वरूपेण त्रिप्रकारत्वम्, विमत Page #207 -------------------------------------------------------------------------- ________________ १७४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । दित एव प्रबन्धेनोत्पद्यमानं तद्रूपतयोत्पन्नमभिप्रेतरूपतया चोत्पत्स्यते, एवमुत्पन्नमप्युत्पद्यमानमुत्पत्स्यमानं च, तथोत्पत्स्यमानमप्युत्पद्यमानमुत्पन्नं च, इत्येकैकं त्रैकाल्यं प्रतिपद्यते, एवं विगच्छदादिकालत्रयेणाप्युत्पद्यमानादिरेकैककाल्यं प्रतिपद्यते, यदेवोत्पद्यमानं तदैव विगतं विगच्छद् विगमिष्यश्चेत्या. दिरीत्या, (एवं विगमोऽपि त्रिकाल उत्पादादिना दर्शनीयः ( सम्मतिवृत्तितः, ) एवं स्थित्याऽपि त्रिकाल एव सप्रपञ्चकम् , एवं स्थितिरप्युत्पाद विनाशाभ्यां सप्रपञ्चाभ्यां त्रिकालस्पर्शिनी प्रदर्शनीयेति सर्वैरेभिः धर्मः त्रिकालस्पर्शिभिरविनाभूतं द्रव्यं प्रतिपादयद् वाक्यं प्रमाणमेवेति, तदिदमाह सम्मतिकारः स्योत्पद्यमानोत्पत्स्यमानोत्पन्नस्वरूपेण त्रिप्रकारत्वम्, इत्येवं त्रिकालोत्पत्तियोगेन विगमवतो नव भेदाः, विगच्छतः स्थीयमान-स्थास्यमान स्थितस्वरूपेण त्रिप्रकारत्वम्, विगमिष्यतः स्थीयमान-स्थास्यमान-स्थितस्वरूपेण त्रिप्रकारत्वम्, विगतस्य स्थीयमान स्थास्थमान-स्थितस्वरूपेण त्रिप्रकारत्वम् , इत्येवं त्रिकालस्पर्शिस्थितियोगेन विगमवतो नव भेदाः; ते च विगमकृतप्रकारा मिलिनाः सप्तविंशतिभेदाः; उपदर्शिताश्चोत्पत्ति-स्थिति-विगमप्रकारा एकत्र मिलिता एकाशीतिसङ्ख्यका भवन्ति, तद्युक्तं च द्रव्यं प्रमाणविषयः, तदर्थकं च "कजमाणे कडे" इति भगवद्वचनमित्येतद्भावयति-तथाहीति । तेन रूपेण एकतन्त्वाद्यात्मकपटत्वेन रूपेण । उत्तरत्रापि द्वितीयादितन्तुप्रवेशसमयेऽपि । 'नोत्पन्नम' 'अनुत्पन्नम्' इत्युभयत्र 'तेन रूपेण' इत्यस्यानुकर्षेण सम्बन्धः, तत्र 'तेन रूपेण' इत्यस्य द्वितन्त्वाद्यात्मकपटरूपेणेत्यर्थः । अन्तेऽपि चरमतन्तुप्रवेशसमयेऽपि । उत्पन्नांशेनवेति- आद्यतन्तुप्रवेशसमये यद्रपेणोत्पन्नं तद्रूपेणैव द्वितीयादितन्तु प्रवेशसमयमारभ्य चरमतन्तुप्रवेशपर्यन्तमुत्पत्तौ स्वीक्रियमाणायां फलान्तरस्य प्रथमतन्तुप्रवेशसमयोत्पन्नकार्यरूपफलव्यतिरिक्तफलस्याभावप्रसङ्ग इत्यर्थः। मादित एवं प्रथमतन्तुप्रवेश नमयादारभ्यैव । प्रबन्धन क्रमिकपूर्वापरपर्यायस्वरूपप्रवाहात्मना। उत्पद्यमानं घटादि द्रव्यमिति दृश्यम् । तद्रूपतयोत्पन्नं यत्प्रबन्धेनोत्पद्यमानं पटादि द्रव्यं तद् यद्यदेकतन्त्वात्मत्व- द्वितन्त्वात्मत्वादिरूपं निष्पन्नं तत्तद्रूपतयोत्पन्नम् । अभिप्रेतरूपतया चोत्पत्स्यते प्रबन्धेनोत्पद्यमानमेव पटादि द्रव्यमभिप्रेतं यत्सहस्रतन्त्वाद्यात्मकपटादिस्वरूपं तद्रूपेणोत्पत्स्यत इत्यर्थः । एवमिति- यथोत्पद्यमानमुत्पन्नमुत्पत्स्यमानमिति कृत्वा त्रैकाल्यं प्रतिपद्यते तथेत्यर्थः । तथेति- यथोत्पन्नमुत्पद्यमानमुत्पत्स्यमानं चेति कृत्वा त्रैकाल्यं प्रतिपद्यते तथेत्यर्थः । एवमिति- यथा त्रिकालोत्पत्तियोगेन त्रैकाल्यं प्रतिपद्यते तथेत्यर्थः। 'विगच्छदादि इत्यादिपदाद् विगत- विगमिष्यतोरुपग्रहः। विगच्छदादिकालत्रयेणोत्पद्यमानादित्रिकं. यथा त्रैकाल्यं प्रतिपद्यते तथोपदर्शयति-यदेवोत्पद्यमानमिति । 'इत्यादिरीत्या' इत्यत्रादिपदाद् 'यदेवोत्पन्नं तदेव विगतं विगच्छत् विगमिष्यच, यदैवोत्पद्यमानं तदैव विगतं विगच्छद् विगमिष्यच' इत्यनयोरुपग्रहः। 'इत्यादिरीत्या' इत्यनन्तरम् - " एवं स्थीयमानादिकालत्रयेणाप्यत्पद्यमानादिरेकैककाल्यं प्रतिपद्यते, यदेवोत्पद्यमानं तदेव स्थितं स्थीयमानं स्थास्यमानं चेत्यादिरीत्या" इति पाठो यज्यते. अस्य भावना पूर्ववत् । यथा च त्रिकालस्पर्शिन उत्पत्तिमत उक्तदिशा त्रिकालस्पर्शिविगमयोगेन त्रिकालस्पर्शिस्थितियोगेन च सप्तविंशतिविधत्वं तथा विगमवतोऽपीत्याह-एवं विगमोऽपीति । त्रिकालः विगच्छद्-विगमिष्यद्विगतरूपः प्रत्येकं विगतादित्रिकरूपतापन्नः। उत्पादादिना अत्र “ उत्पन्नादिना" इति पाठो युक्तः, तस्योत्पन्नादिकालत्रयेणेत्यर्थः । दर्शनीय इति - यदैव विगच्छत् तदैवोत्पन्नमुत्पद्यमानमुत्पत्स्यमानं चेत्यादिरीत्या दर्शनीय इत्यर्थः । 'सप्रपञ्चकम्' इत्यनन्तरं 'दर्शनीयः' इत्यनुषज्यते । स्थित्यापीत्यस्य त्रिकालस्पर्शिन्या स्थित्यापीत्यर्थः, तथा च विगत- विगच्छद् विगमिष्यपस्य विगमयोगिनः स्थित्या त्रिकालस्पर्शिन्या प्रदर्शनम्, यदैव विगतं तदैव स्थितं स्थीयमानं स्थास्यमानं च, यदैव विगच्छत् तदैव स्थितं स्थीयमानं स्थास्यमानं च, यदैव विगमिष्यत् तदैव स्थितं स्थीयमान स्थास्यमानं चेति रीत्येत्यर्थः । यथा चोक्कदिशा विगमवतः सप्तविंशतिविधत्वं तथा स्थितिमतोऽपीत्याहपवं स्थितिरपीति- त्रिकालस्पर्शिनी स्थितिरपि सप्रपञ्चाभ्यामुत्साद-विनाशाभ्यां प्रदर्शनीयेत्यन्वयः, तथा च स्थित. स्थीयमान स्थास्यमानत्रिकं प्रत्येकं स्थितादित्रिकरूपतापनमुत्पन्नादिकालत्रयेण विगतादिकालत्रयेण च त्रैकाल्यं प्रतिपद्यते. यथा यदेव स्थास्यमानं तदैवोत्पन्नमुत्पद्यमानमुत्पत्स्यमानं चेत्यादिरीत्या, यदैव स्थास्यमानं तदैव विगतं विगच्छद्-विगमिष्यचेत्यादिरीत्या च एकाशीतिभेदभाग्भिरुत्पादादित्रिकै रविनाभूतस्य द्रव्यस्य प्रतिपादकत्वाद् वाक्यस्य प्रामाण्यमित्युपदर्श Page #208 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी- तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । १७५ 11 " उत्पज्ज माणकालं उत्पन्नं ति विगयं विगच्छंतं । दवियं पण्णवयंतो तिकालविसयं विसेसेइ " [ सम्म तितृतीय काण्डे गाथा - ३७ ] ॥ ३२ ॥ शब्दनये लक्षयति विशेषिततरः शब्दः प्रत्युत्पन्नाश्रयो नयः । तरप्रत्ययनिर्देशाद् विशेषिततमेऽगतिः ॥ ३३ ॥ नयामृत० - विशेषिततर इति । विशेषिततरः प्रत्युत्पन्नाश्रय ऋजुसूत्राभिमतग्राही नयः शब्द इत्याख्यायते, यत् सूत्रम् - " इच्छइ विसेसियतरं पच्चुप्पण्णं णओ सहो " [ विशेषावश्यक निर्युक्तिगाथा - २१८४ ]त्ति, तत्र तरप्रत्ययनिर्देशाद् विशेषितत माधोवर्तिविषयत्व लाभाद् विशेषिततमे समभिरू एवंभूते चाऽगतिः - नातिव्याप्तिः ॥ ३३ ॥ ऋजुसूत्राद् विशेषमस्य स्पष्टयति ऋजुसूत्राद् विशेषोऽस्य भावमात्राभिमानतः । सप्तभङ्गधर्पणालिङ्गभेदादेवार्थभेदतः ॥ ३४ ॥ नयामृत० - ऋजुसूत्रादितिते - अस्य - शब्दनयस्य ऋजुसूत्राद्, विशेषः - उत्कर्ष:, भावमात्रस्यायति - सर्वैरेभिरिति । उक्तार्थे सम्मतिसंवादमुपदर्शयति तदिदमाद्देति । उपज्ज० इति - " उत्पद्यमान कालमुत्पन्नमिति विगतं विगच्छत् । द्रव्यं प्रज्ञापयंस्त्रिकालविषयं विशेषयति " ।। इति संस्कृतम् ।। ३२ ।। इति ऋजुसूत्रनय निरूपणम् ।। अथ शब्दनयनिरूपणम् । त्रयस्त्रिंशत्तमपद्यमवतारयति - शब्दनयमिति । विवृणोति- विशेषिततर इतीति । प्रत्युत्पन्नाश्रय इति मूलम् तद्विवरणमर्थगत्या - ऋजुसूत्राभिमतग्राहीति प्रत्युत्पन्नं वर्तमानेकक्षणवृत्ति वस्तु ऋजु सूत्राभिमतं तदाश्रयितुं प्रहीतुं स्वभावो यस्य स तदा त्रयस्तग्राहीति, अमुमर्थमुपादायोक्तव्याख्यानम् । ' इत्याख्यायते ' इंति पूरणम्, एवंविधो नयः शब्द इति नाम्ना गीयत इत्यर्थः । निरुक्तशब्दनयलक्षणे सूत्रसम्मतिमुपदर्शयति-यत् सूत्रमिति । इच्छइ इति- " इच्छति विशेषिततरं प्रत्युत्पन्नं नयः शब्दः " इति संस्कृतम् । ' विशेषिततर ' इत्यत्र तरप्प्रत्ययोपादानप्रयोजनीभूत विशेषिततमसमभिरूढैवम्भूतातिव्याप्तिवारण प्रदर्शनपरमुत्तरार्द्ध सङ्गमयति- तत्रेति- उक्तलक्षणे इत्यर्थः । यः खलु विशेषिततमविषयको न भवति स एव विशेषिततर विषयकः, विशेषित-विशेषिततर-विशेषिततम इत्येवं क्रमेणैव विशेषितादीनां निर्देशो भवति, ततस्तरप्प्रत्ययस्तमप्प्रत्ययादपकृष्टार्थप्रत्यायकत्वादधोवर्ती, तत उत्कृष्ठार्थप्रतिपादकत्वात् तमप्प्रत्यय ऊर्ध्ववर्तीति वस्तुस्थितावुक्तलक्षणे तरप्प्रत्ययनिर्देशतोऽधो वर्तिविषयत्वस्य लाभेन तस्य विशेषिततमविषयकत्वाद् विशेषिततमयोः समभिरूढैवम्भूतयोरभावेन न तयोरुक्तलक्षणस्यातिव्याप्तिरित्याह तरप्रत्ययनिर्देशादिति । अलक्ष्ये लक्षण गतिरतिव्याप्तिः, तदभावे नातिव्याप्तिरित्यनुसन्धाय ' अगति: ' इत्यस्य व्याख्यानम् - 'नातिव्याप्तिः ' इति ॥ ३३ ॥ चतुस्त्रिंशत्तमपद्यमवतारयति - ऋजुसूत्रादिति । अस्य शब्दनयभ्य । विवृणोति - ऋजुसूत्रादितीति । भिमानित्वमेव शब्दनयस्य स्पष्टयति- अयं हृीति हि यतः अयं शब्दनयः, ' इच्छति' इत्यनेनान्वयः । भावघटमात्राभ्युपगन्तृत्वे हेतुमाह- शब्देति शब्दनयस्य शब्दार्थप्राधान्येऽपि कथं भावघटमात्राभ्युपगन्तृत्वमित्यपेक्षायामाद' घट चेष्टायाम् ' इतीति । शब्दार्थस्य घटरूपशब्दार्थस्य चेष्टालक्षणस्य चेष्टा चात्र जलाहरणादिक्रियारूपैव । भावघट एव पृथुबुनाद्याकारकलितमृन्मय पात्रविशेष एव । न त्विति नाम- स्थापना द्रव्यरूपं त्रयं न तु नैव, 'इच्छति' इत्यस्यानुकर्षेण सम्बन्धः । तत्र हेतुमाह- तत्रेति - नाम - स्थापना- द्रव्येत्रित्यर्थः । उक्तार्थेति - जुलाहरणादिक्रियारूपघटशब्दार्थैत्यर्थः । उक्तार्थे भाष्य संवादमाह - तथा चेति- शब्दनयस्य शब्दार्थप्रधानत्वेन नामादिषु त्रिषु शब्दार्थाघटनाच्छन्दनयाविषयत्वव्यवस्थितौ चेत्यर्थः । एतत्संवादि " ऋजुसूत्राद् विशेषोऽस्य " इति पयसंवादि । णामादयो० इति - भावमात्रा Page #209 -------------------------------------------------------------------------- ________________ १७६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। भिमानात् , अयं हि पृथुबुध्नायाकारकलितं मृन्मयं जलाहरणा दिक्रियाक्षमं प्रसिद्धं भावघटमेवेच्छति, शब्दार्थप्रधानस्वात् , ' घट चेष्टायाम् 'इति शब्दार्थस्य भावघट एव योगात, न तु नाम-स्थापना-द्रव्यरूपाः(पं) त्रयः(यं), तत्रोक्तार्थ(A)योगात्, नथा चैतत्संवाद्याह भाष्यकार:"णामादयो ण कुम्भा तक्कजाकरणओ पडाइ छ । पच्चक्खविरोहाओ तल्लिंगाभावओ वा वि" । [विशेषावश्यकभाष्यगाथा-२२२९ ] नाम-स्थापना-द्रव्यघटा घटत्वेन न व्यवहर्तव्याः, घटार्थक्रियाकारित्वाभावात् , अघटत्वेन प्रतीयमानत्वात्, घटव्यवस्थापकधाभावाञ्चेत्येतदर्थः । यद्वा सप्तभङ्गयर्पणाद् अस्य विशेषः, ऋजुसूत्रस्य हि प्रत्युत्पन्नोऽविशेषित एव कुम्भोऽभिप्रेतः, शब्दनयस्य तु ( स एव सद्भावादिभिर्विशेषिततरोऽभिमत इत्येवमनयोर्भेदः, तथाहि-स्वपर्यायैः पर( विशेषावश्यकवृत्तितः )पर्यायैरुभयैर्वाऽर्पितोऽयं कुम्भाकुम्भाऽवक्तव्योभयरूपादिभेदेन सप्तभङ्गी प्रतिपद्यते इति, यद् भाष्यम् - " अहवा पच्चुप्पण्णो उज्जुसुत्तस्साविसेसिओ चेव । कुम्भो विसेसिययरो सम्भावाईहिं सहस्स ॥ सम्भावा-ऽसम्भावोभयप्पिओ सपर-पजओभयओ। कुम्भा-ऽकुम्भा-ऽवत्तबोमयरूवाइभेओ सो"। [विशेषावश्यकभाष्यगाथे-२२३१, २२३२ ] "नामादयो न कुम्भास्तकार्याकरणतः पटादिवत् । प्रत्यक्षविरोधात् तल्लिङ्गाभावतो वाऽपि ॥” इति संस्कृतम् , अत्र तल्लिजाभावत इत्यस्य घटत्वसाधकलिङ्गाभावत इत्यर्थः । उक्तभाष्यव वनाभिप्रेतमर्थमुपदर्शयति-नामेति- 'नाम-स्थापना-द्रव्यघटाः' इति पक्षनिर्देशः, 'घटत्वेन न व्यवहर्तव्याः' इति साध्यनिर्देशः, 'घटार्थक्रियाकारित्वाभावाद्' इत्यको हेतुः, 'अघटत्वेन प्रतीयमानत्वाद्' इति द्वितीयः, 'घटव्यवस्थापकधर्माभावाद्' इति तृतीयः, प्रथमे यद् यदर्थक्रियाकारि न भवति न तत् तद्रूपेण व्यवहर्तव्यमिति, यद् यद् विरुद्धधर्मेण प्रतीयते न तत् तद्रण व्यवहर्तव्यमिति, यद् यद् व्यवस्थापकधर्मरहितं न तत् तद्रूपेण व्यवहर्तव्यमिति च सामान्यतो व्याप्तिरत्र ज्ञेया। प्रकारान्तरेणोत्तरार्दोपदर्शितमृजुसूत्राच्छन्दन यस्य विशेषमुपदर्श. यितुमुत्तरार्द्ध व्याख्यानयति - यद्वेति - 'अस्य विशेषः' इति पूर्वार्दोकोऽत्रानुकृष्टः। शब्दनये ऋजुसूत्रतः सप्तभङ्गयर्पणप्रयुक्तविशेषमेव प्रपञ्चयन्नाह-ऋजुसूत्रस्य हीति । प्रत्युत्पन्नः वर्तमानकक्षणमात्रस्थायी। अविशेषित एव सद्भावा-5 सद्भावा ऽवक्तव्यत्वादिधमैरविशेषित एव । स एव प्रत्युत्पन्नः कुम्भ एव । 'सद्भावादिभिः' इत्यत्रादि दादसद्भावादीनां ग्रहणम् । अनयोः ऋजुसूत्र-शब्दनययोः, शब्दनये यथा सप्तभङ्गी प्रवर्तते तथोपदर्शयति-तथाहीति - स्वपर्यायैरर्पितोऽयं कुम्भः कुम्भो भवति, परपर्यायैरपितोऽयं कुम्भोऽकुम्भो भवति, युगपदर्पितस्व-परसर्यायाभ्यामयमवक्तव्यो भवति, क्रमाप्तिस्व-परपर्यायाभ्यामयं कुम्भोऽकुम्भश्च भवति, अर्पितवपर्याय युगपदर्पितस्वपरपर्यायोभयतोऽयं कुम्भोऽवक्तव्यश्च भवति, अर्पितपरपर्याय-युगपदर्पितस्त्रपरपर्यायोभयतोऽयमकुम्भोऽवक्तव्यश्च भवति, क्रमार्पितखपरपर्याय युगपदर्पितस्वपरपर्यायोभयतोऽयं कुम्भोऽकुम्भोऽवक्तव्यश्च भवति, एवं च सप्तविधधर्माकलनात् तदुपदर्शिका सप्तभती प्रवर्तते, तां च स्वप्रति. पादकत्वसम्बन्धेन कुम्भः प्रतिपद्यत इत्यर्थः । उक्तार्थे भाष्यसंवादमाह-यद भाष्यमिति अहवा० इति- 'अथवा प्रत्युत्पन्नः ऋजुसूत्रस्याविशेषित एव । कुम्भो विशेषिततरः सद्भावादिभिः शब्दस्य ॥ सद्भावा- ऽसद्भावोभयार्पितः खपरपर्यायोभयतः । कुम्भा- ऽकुम्मा- ऽवक्तव्योभयरूपादिभेदः सः"॥ इति संस्कृतम् । द्वितीयगायोत्तरार्दैन यथा सप्तभङ्गी समादिष्टा भवति तथोपदर्शयति- इहेति । द्वितीयगाथोत्तरार्द्ध षण्णां भङ्गानां साक्षादुपात्तत्वं सप्तमभङ्गस्यादिपदलभ्यत्वं च भावयति-तद्यथेति- यद्यपि 'कुम्भः, अकुम्भः' इत्येकैकमेव पदमुपात्तं तथापि नैकपदतोऽन्वयबोध इति 'अयम् ' इति धर्मिवाचकपदं प्रतिभङ्गं ज्ञेयम् , यतो विशेषिततरत्वं कुम्भस्यैव शन्दनयाभिप्रेतम् , तस्य त्विदं शब्देनैव सर्वभङ्गेधूपक्षेपः, " स्रोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात् प्रतीयते । यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः" ॥ ] इति Page #210 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। १७७ इह " कुम्भाकुम्भ० " इत्यादिगाथापश्चार्द्धन षट् भङ्गाः साक्षादुपात्ताः, सप्तमस्तु आदिशब्दात् , तद्यथा-कुम्भः १, अकुम्भः २, अवक्तव्यः ३, उभयत्ति- संश्वाऽसंश्च' इत्युभयम् ४, ' सन्नवक्तव्यः' इत्युभयम् ५, तथा 'असन्नवक्तव्यः' इत्युभयम् ६, आदिशब्दसगृहीतस्तु सप्तमः ‘सन्नसन्नवक्तव्यः' इति ७; अत्रोभयपदस्य समभिव्याहतपदार्थतावच्छेदकद्वयप्रकारकबुद्धिविषये शक्तावपि समभिव्याहारत्रै विध्याद् आवृत्त्या त्रिविधोभयबोध इति न्यायमार्गः, सामान्यशक्तावप्युभयपदादेकदेव समभिव्याहारमहिना त्रिविधविशेष प्रकारको बोध इत्यनभवमार्गः ॥ तदेवं स्याद्वाददृष्टसप्तभेदं घटादिकमर्थं यथा वचनाद् वाक्यस्वाभाव्यादेव स्यात्पदमेवकारश्च भङ्गमात्रे समनुगच्छतः, तथा च स्यादयं कुम्भ एव इति प्रथमो भगः, स्यादयमकुम्भ एवेति द्वितीयो भङ्गः, इत्येवं दिशा सप्त भङ्गा अत्र ज्ञेयाः । चतुर्थ - पञ्चम- षष्ठभङ्गा उभयधर्मसम्मेलन. समुद्भवा इति 'कुम्भा कुम्भा ऽवत्तवोभयरूवाइ' इत्यत्रोभयपदत: प्रकटिता भवन्तीत्याह- उभयतीति - सामान्यतः सप्तभङ्गी 'स्यादस्ति, स्यान्नास्ति' इत्येवं दिशैव प्रवर्तते, तदनुसन्धानेन 'सँचाऽसँश्व' इत्युभयमित्याद्युक्त्या चतुर्थादिभङ्गामेडनम् , प्रकृताभिप्रायेण तु 'कुम्भश्चाकुम्भश्च' इत्युभयम् , 'कुम्भोऽवक्तव्यः' इत्युभयम्, तथा 'अकुम्भोऽवक्तव्यः' इत्युभयमित्येवमुल्लेखो बोध्यः, सप्तमभङ्गोल्लेखस्तु 'सन्नसन्नवक्तव्यः' इत्यस्य स्थाने 'कुम्भोऽकुम्भोऽवक्तव्यः' इत्येवं ज्ञेयः। ननु 'कुम्भा-ऽकुम्भा-ऽप्रत्तवोभयरूवाइ' इत्यत्रैकस्यैवोभयपदस्य श्रूयमाणत्वेन तस्य समभिव्याहृतपदार्थतावच्छेदकद्वयप्रकारकबुद्धिविषये शक्तत्वेन ततः कुम्भत्वा-ऽकुम्भत्वोभयप्रकारकबोधस्य चतुर्थभङ्गजन्यतयाऽभिप्रेतस्य कुम्भत्वा-ऽवक्तव्यत्वोभयप्रकारकबोधस्य पञ्चमभङ्गजन्यतयाऽभिप्रेतस्याकुम्भत्वा-ऽवक्तव्यत्वोभयप्रकारकबोधस्य वा षष्ठभङ्गजन्यतयाऽभिप्रेतस्यैकस्यैवोत्पादः स्यादेकस्य समभिव्याहारस्यकविधबोधजनन एवं सामादित्यत आह- मत्रोभयपदस्येति । समभिव्याहारत्रैविध्यादिति- कुम्भा ऽकुम्भोभयेति कुम्भा-ऽवक्तव्योभयेति अकुम्भाऽवतव्योभयेत्येवं समभिव्याहार• विध्यादित्यर्थः। ननु सकृदुचरितः शब्दः सकृदेवार्थ गमयतोति नियमादुभयपदस्थ सकृदुच्चरितस्य कुम्भाकुम्भोभयादिसमभिव्याहारेज्वेक एव कश्चित् समभिव्याहारो न तु समभिव्याहारत्रैविध्यमिति कथं त्रिविधोभयबोध इत्यत आहआवृत्त्येति- उभयपदस्य त्रिवारमुच्चारणं क्रियत इत्युच्चारणभेदादुभयपदानि त्रीणि संवृत्तानीति समभिव्याहारत्रैविध्यात् त्रिविधोभयबोधो न्यायमार्गपरिनिष्ठित इत्यर्थः । उभयपदस्य सामान्यत उभयत्वावच्छिन्न एव शक्तिः, न तु समभिव्याहृतपदार्थतावच्छेदकद्वय प्रकारकबुद्धिविषये एवमपि समभिव्याहारमहिम्ना सामान्यशकादप्युभयपदात् कुम्भाउकुम्भोभयत्वप्रकारकस्य कुम्भा-ऽवक्तव्यत्वोभयत्वप्रकारकस्याकुम्भा-ऽवक्तव्यत्वोभयत्वप्रकारकस्य चैकदैव बोधस्यानुभवबलादभ्युपगमविषयत्वमित्याह-सामान्यशक्तावपीति । सप्तभङ्गयर्पणाद् विशेषिततरत्वं शब्दनयस्य ऋजुसूत्राद् यत् प्रकान्तं तन्निगमनपरां विशेषावश्यकोक्किं प्रश्नाति--तदेवमिति। तत् तस्मात् । एवं 'स्यात् कुम्भः, स्यादकुम्भः' इत्येवं प्रकारेण । स्याद्वाददृष्टसप्तभेदम् अनन्तधर्मात्मकवस्त्वभ्युपगमपरस्याद्वादप्रमाणराजाकलितकुम्भत्वा-ऽकुम्भत्वादिसप्तविध. धर्मविशिष्टम् । यथाविवक्षितं स्वपर्यायापेक्षया कुम्भत्वेन विवक्षितं परपर्या यापेक्षयाऽकुम्भत्वेन विवक्षितमित्येवं विवक्षामनतिक्रम्य तत्तद्धर्माकलितम्। एकेन केनापि भड़केन यदा सत्त्वधर्मावलम्बनेन ऋजुसूत्रः स्यादस्तीति भङ्गेन घर्ट प्रतिपादयति तदाऽसत्त्वधर्मावलम्बनेन शब्दनयः स्यान्नास्तीति द्वितीयभङ्गेनासत्त्वधर्मवत्तया विशेषिततरं घटं प्रतिपद्यते द्वाददृष्टसप्तवर्मवत्तयैव घर किमिति न प्रतिपद्यते शब्दनयः ? एवमपि ऋजुसूत्रात् स्वपर्यायापित. कुम्भत्वैकधर्मालिङ्गितघटाभ्युपगमप्रवणाद् विशेषिततरत्वं शब्दनयस्य स्यात् , एवं सति सप्तभयर्पण दिति हेतुरपि विशे. षिततरत्वे सम्यगुपपद्यते. एकभनेन विशेषिततरवे तु सप्तभनय कदेशकमार्पणस्यैव सप्तभायर्पणत्वेन विवक्षायामपचारेण तदुपपादनं स्यादिसत आह-नयत्वादिति - यदि स्याद्वाददृष्ट सप्तभेदमेव घटादिकं सम्पूर्णया सप्तमाया प्रतिपादनतो विशेषिततरं घटमसौ शन्दनयः स्त्रीकुर्यात् तदा प्रतिधर्म सप्तधर्मप्रतिपादकमसावशेषधर्माकलितवस्तुविषयकं प्रमाणमेव भवेन तु वस्त्वंशग्राहकनयरूपः स्यादतो नयत्वान्यथानुपपत्त्य केनैव केनापि भङ्गेन विशेषिततरं घटादिकं शब्दनयः प्रतिपद्यत इत्यर्थः । यद्भङ्गविषयीभूतधर्मवतया घटादिकमसावभ्युपगच्छति तद्धर्माविशेषितमेव घटादिकमृजुसूत्रोऽभिमन्यत इत्येतावताऽस्यर्जुसूत्राद् विशेषिततरवस्तुमाहित्वेन ततो विशेषिततरत्वमप्युपपद्यत एव, भङ्गसप्तकप्रवृत्तौ सत्यामेव यद्भग Page #211 -------------------------------------------------------------------------- ________________ ૨૭૮ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । विवक्षितमेकेन केनापि भङ्गकेन विशेषिततरमसौ शब्दनयः प्रतिपद्यते, नयत्वा हजुसूत्राद् विशेषिततरवस्तुग्राहित्वाच; स्याद्वादिनस्तु सम्पूर्ण सप्तभङ्गयात्मकमपि प्रतिपद्यन्ते " इति विशेषावश्यकवृत्चावुक्तम् । तत्रायं विचारावकाशः-किमियं सप्तभङ्गी अर्थनयाश्रिता ? उत शब्दनयाश्रिता ? आये तदेकतरभङ्ग विशेषणे कथमृजुसूत्राच्छब्दस्य विशेषिततरत्वम् , अर्थनयाश्रितभङ्गस्य शब्दनयाविशेषकत्वात् , उभयेषां विषयविभागस्य दूरान्तरत्वात् , द्वितीयविकल्पे ऋजुसूत्राभिमतार्थपर्यायाविषयत्वेनाशुद्धव्यञ्जनपर्यायप्राहिणः कुतः शब्दस्य विशेषिततरार्थत्वम् ? नहि तदविषयविषयकत्वं विशेषितशब्दार्थः, किन्तु तद्विषयताव्याप्यविषयताकत्वमिति, न चर्जुसूत्राभिमतसत्त्वमुपमृद्यासत्त्वाख्यद्वितीयभङ्गोत्थापनाच्छब्दस्य विषयीभूतधर्माकलितं घटादिकमृजुसूत्रोऽभ्युपगच्छति तदन्यधर्माकलितं घटादिकं भङ्गान्तरेण प्रतिपादयितुं प्रभवति शब्दनय इति सप्तमत्यर्पणं समनुगतमेवमपीत्याशयेनाह-ऋजुसूत्रादिति । ननु ऋजुसूत्रनयो यद्भङ्गात्मकवाक्यमुररीकरोति तदन्यभङ्गात्मकवाक्यमेव शब्दनयोऽभ्युपैति, नैकोऽपि नयः सप्तभङ्गात्मकमहावाक्यं स्त्रीकरोतीति परस्परविरुद्धधर्माभ्युपगन्त्रोर्नययोर्मल्ल-प्रतिमल्लभावेन व्यवस्थिततया अभ्युपगमपदवीमप्राप्तायाः सप्तभङ्गया अर्पणमेव न सम्भवतीत्यत आह-स्थाद्वा. दिनस्त्विति-अस्य 'प्रतिपद्यन्ते' इत्यनेनान्धयः, तथा च स्याद्वादिनः सर्वनयाभिप्रेतान् धर्मानभ्युपगच्छन्तस्तत्तद्धर्मप्रतिपादकतत्तन्नयाभिमतभङ्गसमूहात्मिकां सप्तभङ्गोमुत्थापयितुं प्रभविष्णव एव, त एव च 'एतन्नयाभ्युपगतैतद्भनेनायं धर्मः प्रतिपाद्यते, अयं च धर्म एतन्नयाभ्युपगतेन प्रतिपाद्यते' इत्येवं नययोजनां च कुन्तीति सप्तभनथर्पणं युक्तमेवेति । नन्वेवं नयद्वययोजनया नयत्रययोजनया वा सप्तभङ्गी स्थाद्वादिप्रवर्ति । भवति, नयानां चार्थनय-शब्दनयभेदेन द्वैविध्यम् , तथा च सप्तभाया अप्यर्थनयाश्रित-शब्दनयाश्रितभेदेन द्वैविध्यम् , एवं च प्रकृते कस्याः सप्तभङ्या अर्पणम् , न तावदर्थनयाश्रितायाः, तथा सति तद्धटकभङ्गस्य कस्यविजुसूत्रनयाभिमतत्वेऽपि शब्दनयाभिमतत्वाभावेन तदर्पणेन विशेषिततरत्वस्य प्रतिपादनासम्भवात् , नापि शब्दनयाश्रितायाः, तद्धट कभङ्गस्य कस्यविच्छन्दनयाभिमतत्रेऽपि ऋजुसूत्राभिमतत्वाभावेन तदर्पणेन ऋजुसूत्राद् विशेषिततरत्वस्य वक्तुमशक्यत्वात् , तथा च किमत्र तत्त्वमित्याशङ्काशङ्कुसमुन्मूलनाय ग्रन्थकारोऽभिनवविचारपल्लवनद्वारा स्वाभित्रायं प्रकटयितुमाह -तत्रेति- सप्तभकर्षणादृजुसूत्रनयाच्छन्दनयस्य विशेषिततरार्थावगाहित्वे इत्यर्थः । इयमर्पगविषयतयाऽभिमता। आधे अर्थनयाश्रिता सप्तभङ्गी प्रकृते अर्पणविषयतयाऽभिमतेति प्रथमपक्षे । “तदेकतरभङ्गविशेषणे" इति स्थाने " तदेकतरभङ्गविशेषणेन" इति पाठो युक्तः, अर्थनयाश्रितसप्तभङ्गीघटकैकभङ्गविशेषणेनेत्यर्थः, भात्य विशेषगवं स्वार्थद्वारा बोध्यम् । अर्थनयाश्रितवं सप्तभङ्गायाः स्वघटकभङ्गस्यार्थ नयाश्रितत्वादेवेत्यर्थनयाश्रितभङ्गस्यार्थनयविषय एव विषयो न तु शब्दनयविषय इत्यन्यविषयकस्य नान्यविषयविशेषकत्वमित्याह-अर्थनयाश्रितमकस्मेति । य एवार्थनयविषयः स एव यदि शब्दनयविषयोऽपि स्यात् स्यात् तदाऽर्थनयाश्रितभन्नः शब्दनयविषयविशेषकत्वाच्छन्दनयविशेषकः, न चैवमित्याह-उभयेषामिति- शब्दन या ऽर्थनयानामित्यर्थः । दूरान्तरत्वात् अत्यन्तभिन्नत्वात् । द्वितीयविकलो असंगविषयतयाऽभिमता सप्तभङ्गो शब्दनयाश्रितेति द्वितीयपक्षे । शब्दनयाश्रितभङ्ग ऋजुसूत्रविषयार्थपर्यायविषयको न भवति तस्य शब्दनयविषयाशुद्धव्यञ्जनपर्यायविषयकत्वादिति न तेनर्जुसूत्राच्छब्दनयस्यावशेषिततरत्वमित्याह-ऋजुसूत्रेति । यदि तदविषयविषयकत्वं ततो विशेषिततरत्वं स्यात् स्यात् तदा ऋजुसूत्राविषयव्यञ्जनपर्यायविषयकत्वाच्छब्दस्य विशेषितरत्वम् , न चैवमित्याह- नहीति। तर्हि किं विशेषितशब्दार्थ इति पृच्छति-किन्विति । उत्तरयति-तद्विषयतेति- यथा नैगमाद् विशेषिततरत्वं सङ्घहे, यतस्तत्र तत्पदेन नैगमस्य ग्रहणम्, तन्निरूपितविषयता सामान्ये विशेषे च वर्तते, तस्याप्या विषयता सामान्यनिष्ठविषयता तन्निरूपकत्वं सङ्ग्रहे समस्तीति भवति नैगमाद् विशेषिततरत्वं सङ्ग्रहे, एवं नैगमाद् विशषिततरत्वं व्यवहारेऽपि, तत्र नैगमविष यताव्याप्यविशेषनिष्ठविषयताकत्वं समस्तीति, प्रकृते तु ऋजुसूत्रनयनिरूपितविषयताऽर्थपर्यायनिष्ठा, यतः क्रमिकक्षणमात्रस्थायी योऽर्थपर्यायस्तनिष्ठा ऋजुसूत्रनिरूपितविषयता, तद्वयाप्या शब्दनयनिरूपितव्यञ्जनपर्यायनिष्ठविषयता न भवति, अर्थपर्याय-व्यञ्जनपर्याययोरत्यन्तभिन्नत्वेन तन्निष्टविषयत्वयोः सामानाधिकरण्यस्यैवाभावेन व्याप्यव्यापकभावस्य सुतरामभावादिति ऋजुसूत्रविषयताव्याप्यविषयताकत्वाभावाच्छब्दनयस्य नैवर्जुसूत्रादिविशेषिततरत्वमित्यर्थः। प्रकारान्तरेण ऋजुसूत्राच्छन्दनयस्य विशेषिततरत्वसङ्गमन Page #212 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ऋजुसूत्राद्विशेषिततरत्वं वक्तुं युक्तम्, एवं सति ऋजुसूत्राभिमतं सत्त्वमुपमृद्या सत्त्वग्रहणव्यापृतस्य व्यवहारस्यापि ततो विशेषिततरार्थत्वापत्तेः, विशेष्यकभङ्गा निर्धारकवचनापत्तेश्चेति; तत्रायमस्माकं मनीषोन्मेषः - पर्यायाश्रिता सप्तभङ्गी सङ्ग्रह - व्यवहारर्जुसूत्रैर्व्यञ्जन पर्यायाश्रिता शब्द- समभिरूढैवम्भूतैः सम्म सूचिता, तथाप्येतत् प्रकारद्वयाभिधान मर्थ- व्यञ्जनसाधारणं पर्यायसामान्याश्रितसप्तभङ्गषा अनुपलक्षणम्, सा च स्व-परपर्यायाणां क्रम-युगपद्विवक्षावशात् नयद्वयेन, शुद्ध-शुद्धतरपर्यायविवक्षया च नयत्रयेणापि सम्भवतीति ऋजुसूत्र - शब्द प्रयुक्तसप्तभङ्गयां द्वितीयादिना, व्यवहारर्जुसूत्रप्रयुक्तायां च तस्यां तृतीयादिना भङ्गेन ऋजुसूत्राच्छब्दस्य विशेषिततरार्थत्वमुक्तम्, न चैवं ऋजुसूत्रस्वीकृत सस्त्रापेक्षया सत्ताप्राहिणो माशङ्कय प्रतिक्षिपति - न चेति - अस्य ' युक्तम्' इत्यनेनान्वयः, ऋजुसूत्राभिमतं यत् सत्त्वं- लिङ्गवचनादिभेदेऽप्यभिन्नस्य क्षणमात्रस्थायिनोऽर्थक्रियाकारित्वलक्षणं सत्त्वं प्रथमभङ्गप्रतिपाद्यम्, तद् उपमृद्य - लिङ्ग-वचनादिभेदे भेदोऽवश्यमेव भवति ततो न तस्य सत्त्वमित्येवं प्रतिक्षिप्य तथाभूतस्य यदत्वं तत्प्रतिपादकभङ्गोऽपि वाच्य वाचकयोरभेदाभ्युपगमतस्तदाख्यः; एवम्भूतो यो द्वितीयभङ्गस्तदुपस्थापनात्, शब्दस्य - शब्दनयस्य, ऋजुसूत्राद्-ऋजुसूत्रनयाद् विशेषिततरत्वं वक्तुम् - अभिधातुं न च युक्तमित्यर्थः । निषेधे हेतुमाह एवं सतीति- उक्तदिशा ऋजुसूत्राच्छब्दस्य विशेषिततरत्वाभ्युपगमे सतीत्यर्थः । यद्यपि स्वरूपसत्त्वं व्यवहारोऽप्यभ्युपगच्छति तथापि यादृशं सत्त्वमृजुसूत्रोऽभ्युपगच्छति न तादृशं सत्त्वं व्यवहारः स्वीकरोतीति तादृशसत्त्वं प्रतिक्षिप्य तादृशसत्त्वाभावलक्षणमसत्वं गृह्णात्येव व्यवहारस्तदालम्बनेन स्यान्नास्तीति द्वितीयभङ्गः प्रवर्तयितुं शक्नोत्येव स इति । तेन द्वितीयभङ्गेन व्यवहारस्यापि ऋजुसूत्राद् विशेषिततरत्वं स्यादित्याह - ऋजु सूत्राभिमतमिति । ततः ऋजुसूत्रात्। एवं च भङ्गमात्रस्यैव तत्तन्नयविषयप्रतिपादकतया स्त्रमूलीभूत न यभिनन य प्रवर्तितभङ्गार्थप्रतिपक्षार्थावेदकत्वेन स्वमूलीभूतनयार्थविशेषकत्वतोऽयमेव भङ्गो विशेषक इति निर्धारणमपि न भवेदित्याह - विशेष्यकेति - 'विशेष्यकभङ्गानिर्धारकवचनापत्तेश्च' इत्यस्य स्थाने 'विशेषकभङ्गनिर्धारकवचनानुपत्तेश्व ' इति पाठो युक्तः । इत्थं स्थूलविचारतोऽनुपपद्यमानतामर्पणविषयत्वेनाभिमताया: सप्तभङ्गया उपदश्येदानीं स्वाकूतोपदर्शकं सूक्ष्मविचारं तत्र ग्रन्थकृदुद्भावयति - तत्रेति । अयं ' यद्यपि ' इत्यादिनाऽनन्तरमेव वक्ष्यमाणः । यद्यपीति सङ्ग्रह - व्यवहारर्जुसूत्रैरर्थपर्यायाश्रिता सप्तभङ्गी सम्मतौ सूचितेत्यन्वयः । व्यञ्जनेति-शब्द- समभिरूढैवम्भूतैर्व्यञ्जनपर्यायाश्रिता सप्तभङ्गी सम्म तौ सूचितेत्यन्वयः । एतत् प्रकारद्वयाभिधानम् अर्थ पर्यायात्रित सप्तभङ्गीव्यञ्जनपर्यायाश्रित सप्तभङ्गोद्वयाभिधानं सम्मतिगतम् । अथैति-' अर्थ- व्यञ्जनसाधारणं पर्याय सामान्याश्रित सप्तभङ्गया अनुपलक्षणम्' इत्यस्य स्थाने ' अर्थ-व्यञ्जनसाधारणपर्यायसामान्याश्रितसप्तभतया अप्युपलक्षणम्' इति पाठो युक्तः, तथा च सप्तभङ्गया त्रिधा विभाग एवमायाति - अर्थ पर्यायाश्रिता व्यञ्जनपर्यायाश्रिता पर्यायसामान्याश्रिता च सप्तभङ्गीति । तत्र पर्यायसामान्याश्रिता या सप्तभङ्गी तद्धटको भङ्गः कश्चिदर्थनयविषयीभूतार्थप्रतिपादकः कश्चित् तु शब्दनयविषयीभूतार्थप्रतिपादकोऽपि तत्र यः शब्दनयविषयीभूतार्थप्रतिपादको भङ्गो द्वितीयादिस्तृतीयादिर्वा तेन भङ्गेन शब्दनयस्यर्जुसूत्रनयाद् विशेषिततरार्थत्वम्, तावता विशेषकभङ्गावधारणवचनमपि सम्भवतीत्याह- सा चेति- पर्यायसामान्याश्रिता सप्तभङ्गी चेत्यर्थः अस्य ' सम्भवति ' इत्यनेनान्त्रयः, ' नयद्वयेन' इत्यस्यापि सम्भवति' इत्यनेनान्वयः । नयद्वय प्रयुक्त सप्तभङ्गयां द्वितीयादिना भङ्गेन नयत्रय प्रयुक्त सप्तभञ्ज्यां तृतीयादिना भङ्गेन ऋजुसूत्राच्छन्दनयस्य विशेषितत्तरार्थत्वमित्युपदर्शयति- ऋजुसूत्रेति - ऋजुसूत्रोऽर्थनयः शब्दश्च शब्दन यस्तदुभय प्रयुक्त सप्तभङ्गयामित्यर्थः । 'द्वितीयादिना' इत्यस्य 'भङ्गेन' इत्यनेनान्वयः । 'व्यवहारर्जुसूत्रप्रयुक्तायां च' इत्यस्य स्थाने 'व्यवहारर्जुसूत्र - शब्दप्रयुक्तायां च' इति पाठो युक्तः, व्यवहारर्जुसूत्रावर्थनयाँ शब्दश्च शब्दनयः, एतत्रितयप्रयुक्तायां चेत्यर्थः । तस्यां सप्तभङ्गयाम् । 'द्वितीयादिना' इत्यत्रादिपदात् तृतीयादीनामुग्रहः । ' तृतीयादिना' इत्यादिपदात् पञ्चमादीनामुपग्रहः, ऋजुसूत्र - शब्दप्रयुक्त भङ्गयां स्यादस्तीति प्रथमभङ्ग ऋजुसूत्र विषयप्रतिपादकः स्यान्नास्तीति द्वितीयभङ्गः शब्दनयविषयप्रतिपादकः स्यादवक्तव्य इति तृतीयादयो भङ्गा नयद्वयविषयप्रतिपादका इति द्वितीयादिषु सर्वेषु भङ्गेषु शब्दनयविष (सद्भावाद विशेषकत्वं युक्तम्, व्यवहारर्जुसूत्र शब्दप्रयुक्त सप्तभङ्गयां प्रथमभङ्गो व्यवहारनयविषयप्रतिपादकः, द्वितीयो भङ्ग ऋजुसूत्रनयविषयप्रतिपादकः, तृतीयो भङ्गः शब्दनय १७९ Page #213 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । व्यवहारस्यापि ततो विशेषिततरार्थत्वप्रसङ्गदूषणानुद्धारः, सम्प्रदायाविरुद्धभङ्गविषयीभूतेनार्थेन विशेषिततरत्वस्यामिधित्सितत्वात्, सम्प्रदायश्चोत्तरोत्तरभङ्गप्रवृत्तावुत्तरोत्तरनयावलम्बनेनैव दृष्टो नान्यथेति न कश्चिद् दोष इति । वा अथवा लिङ्गभेदादेरर्थभेदाश्रयणादस्य शब्दनयस्य ऋजुसूत्राद् विशेष:, तथाहि( ' तटः, तटं, तटी' इत्यादी ) अन्यलिङ्गवृत्तेः शब्दस्यान्यलिङ्गभेदलक्षणेन, 'गुरुः, गुरवः' इत्यादौ च वचनभेदलक्षणेन वैधर्म्येणार्थभेदस्य स्पष्टमनुभवात् एवमन्यकारकयुक्तं यत् तदेवास्य मते अपरकारकसम्बन्धं नानुभवतीति अधिकरणवद् प्रामोऽधिकरणाभिधानविभक्तिवाच्य एव न कर्माभिधान विभक्त्यभिधेय, इति ' ग्राममधिशेते ' इति प्रयोगोऽनुपपन्नः, तथा पुरुषभेदेऽपि नैकं वस्त्विति ' एहि ! मन्ये रथेन यास्यसि, नहि यास्यसि, यातस्ते पिता ' इति च प्रयोगो न युक्तः, अपि तुहि । मन्यसे विषयप्रतिपादकः, चतुर्थभङ्गस्तु प्रथम- द्वितीयभङ्गसंयोजनत इति न तत्र शब्दनयप्रतिपादकतेति तं परित्यज्य तृतीया - दीनां भङ्गानां विशेषकत्वमिति विशेष कभङ्गनिर्धारक व वनोपपत्तिरिति । ननु ऋजुसूत्राभ्युपगत प्रथम भङ्ग प्रतिपाद्य सत्त्वविरुद्धासत्त्वप्रतिपादकद्वितीयभङ्गाभ्युपगन्तृत्वेन यथा शब्दस्य ऋजुसूत्राद् विशेषिततरत्वं तथोकंदिशा व्यवहारस्यापि ऋजुसूत्राद् विशेषिततरत्वं स्यादिति पूर्वमुपदर्शितं दूषणं तदवस्थमेवेत्याशङ्कय प्रतिक्षिपति न चैवमिति । 'पेक्षयाऽसत्ताग्राहिणः ' इत्यकार प्रश्लेषः । ततः ऋजुसूत्रात्। निषेधे हेतुमाह- सम्प्रदायेति यदा प्रथमभङ्ग ऋजुसूत्रनयावलम्बनेन तदा द्वितीयभङ्गस्तदुत्तरशब्दनयावलम्बनेनैव भवितुमईतीति सम्प्रदायः तेन यस्यां सप्तभक्त्यां प्रथमभङ्गः सङ्ग्रहनयावलम्बनेन तस्यामेव द्वितीयभङ्गो व्यवहारनयावलम्बनेन, न तु यस्यां सप्तभङ्गयां प्रथमभङ्ग ऋजुसूत्रनयावलम्बनेन, तस्यां द्वितीयभङ्गो व्यवहारनयावलम्बनेन, तथा च ऋजुसूत्रनयप्रवृत्त प्रथमभङ्गानन्तरं व्यवहारनयप्रवृत्तो द्वितीयभङ्गः सम्प्रदायविरुद्ध एव न तु सम्प्रदायाविरुद्ध इति न तद्विषयीभूतेनार्थेन विशेषिततरत्वम् सम्प्रदायश्चेदृश एव न त्वन्यादृश इति तु तथादर्शनादेव निर्णीयत इत्याह- सम्प्रदायश्चेति । पद्ये 'लिङ्गभेदादेवार्थभेदतः ' इति स्थाने ' लिङ्गभेदादेवऽर्थभेदतः ' इति पाठो युक्तः, तमवलम्ब्य प्रकारान्तरमृजुसूत्राच्छब्दस्य विशेषिततरत्वे उपदर्शयति- वेति- अस्यार्थः अथवेति । 'लिङ्गभेदादेः ' इत्यत्रादिपदाद् वचनभेद-कारक भेद-पुरुष भेदोपग्रहण मेदानां ग्रहणम् । 'अर्थभेदतः' इत्यस्य विवरणम् - अर्थभेदाश्रयणादिति, यदि वस्तुस्थित्या लिङ्गभेदादितोऽर्थभेदः स्यात् सर्वमतेऽविशेषेण स भवेत् एवं च सर्वाभ्युपगतेन तेन न कस्यचिदेव विशेषिततरत्वमतोऽर्थभेदाश्रयणादिति व्याख्यातम्, तथा च न वस्तुस्थित्य' लिङ्गभेदादितोऽर्थभेदः समस्ति, एवमपि शब्दनयस्ततस्तमाश्रयतीत्यतस्तेन तस्य विशेषिततरत्वमित्याशयः । क्रमेण लिङ्गभेदादितोऽर्थभेदं सोदाहरणं भावयति तथाही - त्यादिना । अन्येति अन्यलिङ्गवृत्तेः शब्दस्यान्यलिङ्गभेदलक्षणेन वैधर्म्येणार्थभेदस्य स्पष्टमनुभवादित्यन्वयः, अन्यलिङ्गवृत्तेः शब्दस्य - ' तट:' इत्यत्र पुंलिङ्गे वर्तमानस्य तटशब्दस्य, अन्यलिङ्गभेदलक्षणेन - खस्माद् भिन्नलिङ्गो यः ' तटम्' इत्यत्र तटशब्दस्तस्माद् यो भेदस्तद्रूपेण वैधर्म्येण, अर्थभेदस्य - ' तटम्' इति नपुंसकलिङ्गतटशब्दार्थात् ' तटः ' इति पुंलिङ्गशब्दार्थस्य यो भेदस्तस्य स्पष्टमनुभवादनुभूयमानत्वादित्यर्थः, 'गुरुः' इत्येकवचनान्त गुरुशब्दस्य गुरवः' इति बहुवचनान्त गुरुशब्दस्य यो वचनभेदस्तदात्मकन वैधम्र्येण ' गुरुः' इत्येकवचनान्तगुरुशब्दार्थाद् 'गुरवः' इति बहुवचनान्तगुरुशब्दार्थस्य यो भेदस्तस्य स्पष्टमनुभूयमानत्वादित्यर्थः इत्थं लिङ्गभेदाद् वचनभेदाचार्थभेदमुपदर्थ कारकभेदादर्थभेदं सोदाहरणमुपदर्शयति- एवमिति । अस्य मते शब्दनयस्य मते । 'अधिकरणवद् ग्राम' इत्यस्य स्थाने 'अधिकरणीभवग्राम' इति पाठो युक्तः । अधिकरणाभिधानविभक्तिवाच्य एव अधिकरणस्याभिधानं कथनं यत एतादृशी या सप्तम्याख्या विभक्तिस्तद्वाच्य एव तदभिधेय एव तथा च ग्रामस्याधिकरणत्वविवक्षायां 'प्रामे अधिशेते इति प्रयोग एव युक्तः । पुरुषभेदादर्थभेदमुपदर्शयति तथा पुरुषभेदेऽपीति । 'पछि मन्ये ' इत्यादेर्विस्तरतोऽर्थोपवर्णनं नयप्रदीपव्याख्याने कृतमस्माभिरिति विशेषजिज्ञासुभिरवलोकनीयं तत् । उपग्रहण भेदादर्थभेदमुपवर्णयति - एवमिति । अत्र ' उपग्रहणभेदोsपि अस्य स्थाने ' उपग्रहणभेदादर्थभेदेऽपि इति पाठो युक्तः, उप धातोः समीपे ग्रहण - मादानं यस्येति व्युत्पत्त्योपग्रहणमुपसर्ग एवेति । ननु 'तटः, तटी, तटम्' इत्यादौ ' गुरुः, गुरव:' इत्य दौ तथा कारकादिभेदेऽप्यर्थाभेद एव लोक-शास्त्रयोः प्रसिद्धः शब्दनये त्वित्थमुपगमे तद्विरोधः स्यादित्याशङ्कां प्रतिक्षिपति न चैवमिति । 1 १८० Page #214 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । १८१ यथाऽहं रथेन यास्यामि' इत्येवं परभावेनैतन्निर्देष्टव्यम् , एवमुपग्रहणभेदोऽपि 'विरमति 'इत्यादिन युक्तः, आत्मार्थतया हि · विरमते ' इत्यस्यैव प्रयोगस्य सङ्गतः, न चैवं लोक-शास्त्रविलोपः, सर्वत्रेय नयमते तल्लोपस्य समानत्वादिति सम्मतिवृत्ती व्यवस्थितम् , यद्यपि 'ग्राममधिशेते' इत्यादी ग्रामो. तरद्वितीयादिपदादधिकरणत्वत्वादिप्रकारकप्रतीत्यर्थमधिकरणत्वत्वादिविशिष्टे लक्षणैव स्वीकार्या, तन्निरूढत्वसमानार्थमेव च विशेषानुशासनमपि वक्तुं शक्यते, तथाप्युक्तविपरीतप्रयोगप्रामाण्याय " उपपदविभक्तेः कारकविभक्तिर्बलीयसी" इत्यादिन्यायसाम्राज्याच्चायं विशेष इति दिक् ॥ ३४ ॥ उक्तयुक्त्या यथानेनर्जुसूत्रीयं युवां यास्यथेति मतं दूष्यते तथाऽऽह सामानाधिकरण्यं चेन्न विकारा-ऽपरार्थयोः। भिन्नलिङ्ग-वचः-सङ्ख्या-रूपशब्देषु तत् कथम् ? ॥३५॥ नयामृत०-सामानाधिकरण्यमिति । चेत्- यदि, विकारा-ऽपरार्थयो:-विकारा-ऽविकारार्थकशब्दयोः, 'पलालं दहति 'इत्यादी सामानाधिकरण्यम्- एकार्थान्वयजननयोग्यत्वं नेष्टं ऋजुसूत्रनयेन लोक-शास्त्रयोः सर्वप्रकारेणाविरोधः प्रमाणराजस्याद्वाद एव, नयमते तु सर्वस्मिँस्तद्विरोधस्तत्तन्नयवादिभिः खहस्तिन एवेति नैकोऽपि नयवादी तद्दोषं स्वविरोधिनयवादिनं प्रत्यभिधातुं शक्नोति स्वपदकुठारप्रहारकल्पत्वादिति निषेधहेतुमुपदर्शयतिसर्वत्रैवेति । तल्लोपस्य लोक-शास्त्रविलोपस्य । उक्तार्थस्यादेयत्वप्रतिपत्तये त्वाह-इति सम्मतिवृत्ती व्यवस्थितम् । अधिकरणत्वेन ग्रामस्य प्रतिपत्तये शब्दनयस्तत्र 'प्रामेऽधिशेते' इति सप्तम्यन्तमेव प्रामपदमुररीकरोति, तत्र द्वितीयान्तत्वेऽपि प्रामपदस्य द्वितीयाया अधिकरणत्वत्वविशिष्टे लक्षणया 'ग्राममधिशेते' इति प्रयोग उपपद्यते, सप्तमीस्थाने द्वितीयाऽनुशासनमपि द्वितीयाया अधिकरणत्वत्वविशिष्टे लक्षणाया निरूढत्वज्ञापनार्थमेवेति यद्यपि वक्तुं शक्यते तथापि 'ग्रामे अधिशेते' इति प्रयोगोऽपि प्रामाणिकानां भवति, तनिहाय 'उपपदविभक्केः कारकविभक्तिर्बलीयसी' इति न्यायाश्रयणमावश्यकमतो द्वितीयामुपपदविभक्ति बाधित्वा कारकविभक्तिः सप्तम्येव तत्र भवतीति शब्दनयस्याभिप्राय इति ग्रन्थकृत् स्वयं विवेकमुपदर्शयति-यद्यपीति । लक्षणेव द्वितीयाविभक्तेर्लक्षणैव । 'तन्निरूढत्वसमानार्थमेव' इत्यस्य स्थाने 'तन्निरूढत्वज्ञापनार्थमेव ' इति पाठो युक्तः । तन्निरूढत्वेति- उक्तलक्षणानिरूढत्वेत्यर्थः। उक्तविपरीतप्रयोगेति- 'प्राममधिशेते ' इति प्रयोगविपरीत 'ग्रामेऽधिशेते' इति प्रयोगेत्यर्थः ॥ ३४ ॥ पञ्चत्रिंशत्तमपद्यमवतारयति-उक्तयुक्त्येति । अनेन शब्दनयेन । 'युवा यास्यथ' इति स्थाने 'युवां यास्यथः ' इति पाठो युक्तः । विवृणोति-सामानाधिकरण्यमितीति । 'चेद्' इत्यस्य विवरणम्- यदीति । 'विकारापरार्थयोः' इत्यस्य विवरणम्-विकाराविकारार्थकशब्दयोरिति । पलालं दहतीति- अत्र 'पलालम् ' इत्यविकारार्थकशब्दः, 'दहति' इति विकारार्थकशब्दः, यो हि दहनक्रियाकाले यद्रूपेण वर्तते तस्य दहनम मिना भवति, पलालस्य याहसंस्थानादिरूपेणावस्थानमविकृतरूपेणाग्निसंयुक्तावस्थातः प्राक् तादूप्येणावस्थानं नाग्निसंयुक्ततावस्थायां किन्तु पूर्वरूपपरावर्तनभस्मीभवनलक्षणविकृतरूपेणेत्यतस्तयोः सामानाधिकरण्यं नेष्टमृजुसूत्रनयेन । सामानाधिकरण्यमेकाधिकरणवृत्तित्वं सुप्रसिद्धम् , तदत्र न युक्तमतस्तस्य विवरणम्- एकार्थान्वयजननयोग्यत्वम् , तस्य निषेधः सर्वथा न सम्भवति व्यवहारनयेन 'पलालं दहति' इत्यत्र तयोरुक्तस्वरूपस्य सामानाधिकरण्यस्याभ्युपगमादतः पूरयति- इष्टमृजुसूत्रनयेनेति"पलालं न दहत्य निर्भिद्यते न घटः क्वचित् । नासंयतः प्रव्रजति भव्योऽसिद्धो न सिध्यति" ॥ [नयोपदेशश्लोक.. ] इत्यभियुक्तवचनेन ऋजुसूत्राभीष्टं प्रतिपादितं प्राक् । यद्यर्थकचेत्पदनित्यसम्बन्धात् तीत्यनुक्कोऽपि मूले समागच्छत्येवेत्याशयेन तींति पूरितम् । तादृशेषु भिन्नलिङ्ग-वचः सङ्ख्या-रूपेषु. 'तटस्तटी तटम्' इत्यस्य 'इत्यादिषु' इत्यत्रान्वयः, तथा च 'तटस्तटो तटम्' इत्यत्र कथं सामानाधिकरण्यमित्यन्वयः, एवमग्रेऽपि, भिन्नलिङ्गशब्दे सामानाधिकरण्यं न सम्भवतीत्यत्र 'तटः, तटी, तटम्' इत्युदाहृतम्, भिन्नवचश्शन्दे सामानाधिकरण्यं न सम्भवतीत्यत्र 'गुरुः, गुरवः' Page #215 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । चेत् ? तर्हि भिन्नानि लिङ्ग-वच:- सङ्ख्या रूपाणि येषां तादृशेषु शब्देषु ' तटस्तटी तटम्, गुरुर्गुरवः, स च त्वं च यास्यथः कुरुते करोति ' इत्यादिषु कथं सामानाधिकरण्यम् ? न कथविदित्यर्थः, यथा हि त्वया ' अग्निष्टोमयाजी पुत्रोऽस्य जनिता ' इत्युक्तं स्वीक्रियते, कालभेदात्, तथा लिङ्गादिभेदादर्थभेदः सुतरां स्वीकर्तव्य इत्युपदेशः ॥ ३५ ॥ समभिरूढं लक्षयति- १८२ नयः समभिरूढोऽसौ यः सत्स्वर्थेष्वसंक्रमः । शब्दभेदेऽर्थभेदस्य व्याप्त्यभ्युपगमश्च सः ॥ ३६ ॥ 6. नयामृत० - ' नय:' इति । यः सत्स्वर्थेषु घटादिष्वसङ्क्रमो घटाद्यन्यशब्दावाच्यत्वमसौ नयः समभिरूढः, यत् सूत्रम्-“ बत्थूओ संकमणं होइ अवत्थू णये समभिरूढे " [ विशेषावश्यक नियुक्तिगाथा - २१८५ ]त्ति सत्स्वर्थेष्वसङ्क्रमः ” [ तत्त्वार्थसू० अ० १, सूत्र० ३५ ] इति तत्त्वार्थभाष्यम्, तत्र च यद्यपि यथाश्रुतार्थोऽमावालम्बनत्वेनासम्भवी, संज्ञाभेदेनार्थ भेदाभ्युपगन्तृत्वं घटपटादिसञ्ज्ञाभेदेनार्थभेदाभ्युपगन्तरि नैगमादावतिव्याप्तम्, तथापि शब्दभेदेऽर्थभेदस्य व्याप्तेरभ्युपगमः सोऽसङ्क्रम इत्युदाहृतम्, भिन्नसङ्ख्याशब्दे सामानाधिकरण्यं न सम्भवतीत्यत्र स च त्वं च यास्यथः ' इत्युदाहृतम्, भिन्नरूपशब्दे सामानाधिकरण्यं न सम्भवतीत्यत्र ' कुरुते करोति' इत्युदाहृतम् । कालभेदेनार्थभेदो यथर्जुसूत्रेण स्वीक्रियते तथा लिङ्गादिभेदादर्थभेदोऽपि तेन स्वीकर्तव्य इति ऋजुसूत्रं प्रति शब्दनयस्योपदेशः शिक्षणस्वरूप एतत्पद्याभिप्रेत इत्याह-यथा हीति । त्वया ऋजुसूत्रनयेन, युष्मच्छ्न्देन र्जु सूत्रस्योपदर्शनत उपदेशस्वरूपतोक्तवाक्यस्य प्रतीयते । ' इत्युक्तं स्वीक्रियते, कालभेदात्' इत्यस्य स्थाने ' इत्युक्तमयुक्तं स्वीक्रियते, कालभेदादर्थभेदात्' इति पाठो 'युक्तः, अत्र वर्तमानकालवर्तिनो देवदत्ताभिख्यस्य षष्ठ्यन्तेदंशब्दप्रतिपाद्यस्य जनितेतिशब्द प्रतिपाद्यो भविष्यत्कालीनजन्मवान् दूरकालविप्रकर्षाज्जन्यत्वाभावेन न पुत्रः, किन्त्वेतत्कालीनदेवदत्तक्षणघटितसन्तान गत भविष्यत्कालीन जन्मवत्पुरुषी य गर्भगताद्यक्षणस्वरूप कुर्वंद्र पात्मकभविष्यत्क्षणविशेष प्रभवविसदृशपन्ततिपतिताद्यक्षणविशेषप्रभवद्वितीयक्षणविशेष प्रभवादिक्रमोपजातान्यवहितस्वकुर्वद्रूपात्मकक्षणविशेषस्यैव जन्यत्वादुक्तजन्मवान् पुत्र इत्यसंलग्नकत्वादस्य 'पुत्रो जनिता ' इति न संभवति, तथा यश्च पुत्रस्तत्सन्तानगत आद्यक्षणस्वरूपः सोऽन्योऽन्यश्च तत्सन्तानपतितोऽग्निष्टोमाभिधयागकरणसमर्थ इति 'पुत्रोऽग्निष्टोमयाजी' इत्यपि न सम्भवतीति 'अग्निष्टोमयाजी पुत्रोऽस्य जनिता' इति वचनमयुकं त्वया ऋजुसूत्रनयेन स्त्रीक्रियते, कालभेदादर्थ भेदादित्यर्थः । 'स्वीकर्तव्यः ' इत्यत्रापि त्वया' इत्यस्य सम्बन्धः ॥ ३५ ॥ षदत्रिंशत्तमपद्यमवतारयति समभिरूदमिति । विवृणोति नय इतीति । असङ्क्रमः' इत्यस्य विवरणम्घटाद्यन्यशब्दावाच्यत्वमिति, यथा घटशब्दवाच्यस्य चेष्टाविशेषवतो घटस्य घटशब्दान्यकुम्भ- कलशादिशब्दानभिधेयत्वमिति, विषय-विषयिणोरभेदोपचाराद् घटस्य घटशब्दान्यशब्दावाच्यत्वाभ्युपगमस्य समभिरूढनयत्वे तद्विषयस्योक्त वाच्यत्वस्यापि समभिरूढनयत्वम् । निरुक्तासङ्क्रमस्य समभिरूढनयत्वे सूत्रं प्रमाणयति- यत् सूत्रमिति । वत्थूओ० इति " वस्तुनः सङ्क्रमणं भवति अवस्तु नये समभिरूढे " इति संस्कृतम् । उक्तार्थे तत्त्वार्थ भाष्य संवादमाह - सत्स्वर्थेष्विति । उपचारतो निरुक्तसमभिरूढलक्षणं सम्भवदप्युक्तासकमे ज्ञानविशेषस्वरूपे समभिरूढे प्रसिद्धलक्ष्यस्वरूपेऽसम्भवं ज्ञानगतस्यान्यादृशस्य तस्यातिव्याप्तिं चोपदर्शयन् निष्कृष्टं दोषलेशा सम्पृक्तं तल्लक्षणमुपदर्शयति - तत्र चेति । यथाश्रुतार्थः असङ्क्रमशब्दाभिधेयार्थः । अभाव!लम्बनत्वेन सङ्कमाभावलक्षणाभावविशेषस्वरूप पर्यवसन्नत्वेन । असम्भवी समभिरूढनये ज्ञानविशेषस्वरूपे कुत्रापि लक्ष्ये न सम्भवतीति । संज्ञेति- इदं लक्षणं ज्ञानगतं समभिरूढे लक्ष्ये सर्वत्र वर्तते, घट-कुटकुम्भादिसञ्ज्ञा मदनार्थभेदाभ्युपगन्तृत्वस्य शक्रेन्द्र- पुरन्दरादिसंज्ञा भेदेनार्थ मेदाम्युपगन्तृत्वस्य च समभिरूढे सत्वात् किन्त्वतिव्याप्तिदोष कलितमिदं घटपटादिसंज्ञाभेदेनार्थ भेदाभ्युपगन्तृत्वस्य नैगमादिनयेऽप्यलक्ष्ये वृत्तेरित्यर्थः । शब्दभेद इति यस्मिन् Page #216 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। १८३ पदार्थः, तथा च संज्ञाभेदनियतार्थभेदाभ्युपगन्तृत्वं समभिरूढत्वमिति लक्षणलाभान कोऽपि दोषः, एवम्भूते चातिव्याप्तिवारणाय तदन्यत्वेन विशेषणीयम् ॥ ३६ ॥ एतन्मते शब्दनयशिक्षाप्रकारमाह तटस्तटं तटीत्यादौ, शब्दभेदोऽर्थभिद् यदि । तद् घटः कुम्भ इत्यादौ, कथं नेत्यस्य मार्गणा ॥ ३७॥ नयामृत-तट इति । हे शब्दनय ! यदि तव मते ' तटस्तटी तटम् ' इत्यादौ शब्दभेदोऽर्थ भिनत्तीत्यर्थभिद्-अर्थभेदकारी, तत्-तर्हि, ‘घटः कुम्भः' इत्यादौ शब्दभेदः कथं नार्थभित् ? इति अस्य-समभिरूढनयस्य, मार्गणा-विचारणा; अयं भाव:-यदि लिङ्ग वचन भिन्नानामर्थानां ध्वनिभेदाद् भेदस्तवानुमतस्तर्हि घट-कुम्भादिशब्दवाच्यानामपि किमिति भेदो नेष्टः ? ध्वनिभेदस्यात्रापि समान. त्वात् । किञ्च, विभिन्नलिङ्ग-वचनादिशब्दवाच्यत्वमर्थभेदे प्रयोजकं त्वयोच्यत इति गौरवम् , मया तु विभिन्नशब्दवाच्यत्वमेव तथा वाच्यमिति लाघवम , न च नानार्थकैकशब्दवाच्यानामप्यर्थानां यथा नाभेदस्तथा भिन्नशब्दवाच्यानामपि न भेदो भविष्यतीत्याशङ्कनीयम् , यतो विभिन्नशब्दवाच्यत्वस्यार्थभेदप्रयोजकत्वं, न तव्यापकत्वं येन नानार्थस्थले व्यापकाभावाद् व्याप्याभाव आपादयितुं शक्येत, किन्तु तद्व्याप्यत्वम् , न च व्याप्याभावाद् व्यापकाभाव आपादयितुं शक्यते, तथा सत्ययोगोलकेऽ. शब्दे यद्यच्छब्दभेदस्तत्र तत्तच्छब्दार्थभिन्नार्थकत्वमित्याकारकव्याप्तेोऽभ्युपगमः सोऽसङ्क्रमपदार्थः, न चोक्तव्याप्तेरभ्युपगमो नैगमादौ समस्ति, घटशब्दे कुट कुम्भादिशब्दभेदस्य सत्त्वेऽपि कुट-कुम्भाद्यर्थभिन्नार्थकत्वस्याभावादित्यर्थः । तथा च निरुक्तव्याप्तेरसक्रमपदार्थत्वे च। संज्ञाभेदनियतार्थभेदाभ्युपगन्तृत्वमेवम्भूतेऽपि समस्तीति तत्रातिव्याप्तिवारणायैवम्भूतभिन्नत्वे सति संज्ञाभेदनियतार्थभेदाभ्युपगन्तृत्वं समभिरूढत्वमित्येवं लक्षणमादरणीयमित्याह-एवम्भूते चेति ॥ ३६ ॥ सप्तत्रिंशत्तमपद्यमवतार ति- एतन्मत इति- समभिरूढनयमत इत्यर्थः। विवृणोति-तट इतीति । ' हे शब्दनय! यदि तव मते' इत्येतत् पूरणं निरुक्तपद्यस्थ शब्दनयशिक्षणप्रवणत्वावगतये। तव शब्दनयस्य । निरुकपद्यभावार्थमाविष्करोति-अयं भाव इत्यादिना । 'लिङ्ग-वचनमिन्न' इति स्थाने 'लिज-वचनादिभिन्न' इति पाठो युक्तः । तव शब्दनयस्य, अस्य ' नेष्टः' इत्यत्राप्यन्वयः। अत्रापि घट-कुम्भादिशब्दवाच्येष्वपि । शब्दनयमतापेक्षया स्वमते लाघवं स्वमतोपादेयत्वोपोद्वलकमुपदर्शयति-किश्चेति । त्वया शब्दनयेन । मया तु समभिरूढनयेन पुनः। तथा वाच्यम अर्थभेदे प्रयोजकं वाच्यम्। ननु विभिन्नशब्दवाच्यत्वं नार्थभेदे प्रयोजक सिंह-सूर्येन्द्र-विष्ण्वादीनामेकहरिशब्दवाच्यानां विभिन्नशब्दवाच्यत्वाभावेऽपि भेदस्य सद्भावादित्याशय प्रतिक्षिपति-न चेति- अस्य 'आशङ्कनीयम् ' इत्यनेनान्वयः । नानार्थकैकशब्दवाच्यानां नानाप्रवृत्तिनिमित्तकर्यायेकशब्दवाच्यानाम् , एकशब्दवाच्यत्वं यथा नाभिदप्रयोजक तथा भिन्नशब्दवाच्यत्वं नार्थभेदप्रयोजकम् , शब्दभेदा-ऽभेदयोरर्थभेदा-ऽभेदानियामकत्वादिति शङ्कामुकुलितोऽर्थः । निषेधे हेतुमाह- यत इति । न तद्वयापकत्वम् अर्थभेदव्यापकत्वं विभिन्नशब्दवाच्यत्वस्य नार्थभेदप्रयोजकत्वम् । व्यापकाभावात् अर्थभेदव्यापकस्य विभिन्नशब्दवाच्यत्वस्य नानार्थशब्दवाच्येष्वभावात् । व्याप्याभाषा विभिन्नशब्दवाच्यत्वव्याप्यस्यार्थभेदस्याभावः । तर्हि किमर्थभेदप्रयोजकत्वमिति पृच्छति-किन्विति । उत्तरयति-तद्वयाप्यत्वमिति - विभिन्नशब्दवाच्यत्वेऽर्थभेदव्याप्यत्वमेवार्थभेदप्रयोजकत्वमित्यर्थः, यत्र यत्र विभिन्नशब्दवाच्यत्वं तत्रार्थभेद इत्येवमत्र व्याप्तिः । न च ' इत्यस्य — शक्यते ' इत्यनेनान्वयः। 'तथा सत्ययोगोलकेऽव्यभिचारात्' इत्यस्य स्थाने 'अयोगोलके धूमाभावेऽपि वह्नयभावाभावेन व्यभिचारात्' इति पाठो युक्तः । तस्मात् विभित्रशब्दवाच्यत्वस्यार्थभेदव्याप्यत्वस्यैवार्थभेदप्रयोजकत्वरूपत्वात् । शब्दाभेदादिति- शब्दभेदस्य तत्राभावादेव ततोऽर्थभेदस्याभाव इति बोध्यम् । लक्षणेति-सिंहादेर्यलक्षणं तत्सूर्यादौ नास्ति, यच्च सिंहादीनां स्वरूपं तन सूर्यादीनामिति शब्दभेदाभावेऽपि Page #217 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । व्यभिचारात , तस्मान्नानार्थस्थले शब्दाभेदाद् भेदाभावेऽपि लक्षण-स्वरूपादिभेदाद् भेदो भविष्यति, नार्थभेद एकमेव प्रतिनियतं प्रयोजकम् , भिन्नशब्दवाच्यतया तु भिन्नकालवृत्तितये(ये)वार्थभेदो ध्रुवः, इति सर्वमनाविलम् ॥ ३७॥ ननु यद्येवं समभिरूढनयमते शब्दभेदादेवार्थभेदस्तदा शब्दानां व्युत्पत्तिनिमित्तं प्रवृत्तिनिमित्तमित्यागतम् , तथाच 'डित्था, डवित्थः' इत्यादिपारिभाषिकी सज़ा नः छिद्येत, तत्रेच्छामात्रस्योपाधित्वेन यथास्थित-व्युत्पत्तिनिमित्ताभावादिति चेत् ? अष्टापत्तिरित्यभिप्रायवानाह संज्ञाऽर्थतत्वं न ब्रूते, त्वन्मते पारिभाषिकी । अनादिसिद्धः शब्दार्थो, नेच्छा तत्र निबन्धनम् ॥ ३८॥ नयामृत०-संज्ञेति। त्वन्मते-समभिरूढनयमते, पारिभाषिकी संज्ञा-डित्थ-डवित्थादिका, अर्थतत्त्वं न ब्रूते-पदार्थानुभवं न जनयति, यतः शब्दार्थोऽनादिसिद्धः-स्वाभाविकधर्मनिबन्धनः, तत्र-शब्दार्थे, इच्छा न निबन्धनमतिप्रसङ्गात् , इतीच्छाविशिष्टशक्त्यभावात्तस्याऽबोधकत्वमिति भावः । तदिदमुकं तत्त्वार्थभाष्ये- तत्र पारिभाषिकी नार्थतत्त्वं ब्रवीति ' [ तत्त्वार्थसूत्रे, अ० सू० ] इति ॥ ३८ ॥ एवम्भूतं लक्षयति एवम्भूतस्तु सर्वत्र, व्यञ्जनार्थविशेषणः । राजचिलैर्यथा राजा, नान्यदा राजशब्दभाक् ॥ ३९ ॥ लक्षण-स्वरूपादिभेदान्नानार्थकहर्यादिशब्दवाच्यानां सिंहादीनां भेदो भविष्यतीत्यर्थः । यदि विभिन्नशब्दवाच्यत्वमेकमैवार्थभेदे प्रयोजक स्यात् तर्हि नानार्थस्थले तदभावादर्थभेदो न स्यान्न चैवमित्याह - नहीति। एवं च शब्दनयशिक्षणार्थ यत् समभिरूढस्याभिमतं तदुपदर्शयति-भिन्नशब्दवाच्यतयेति, यथा ऋजुसूत्रेण विभिन्नकालवृत्तितयाऽर्थभेदोऽभ्युपगतः शब्दनयेनापीष्टः सः, तथा भिन्नशब्दवाच्यतयाऽर्थभेदोऽवश्यमुपेयो नात्र कश्चिद्दोष इत्येवं समभिरूढनयाभिमतं सकलमनाविलं दोषासम्पृक्तमित्यर्थः ॥ ३ ॥ अष्टात्रिंशत्तमपद्यमवतारयति-नन्वित्यादिना । 'शब्दभेदादेव' इत्येवकारेण लिङ्ग-वचनादिभेदानां व्यवच्छेदः, तेन लक्षणस्वरूपादिभेदतोऽर्थभेदेऽपि न क्षतिः । तथा च व्युत्पत्तिनिमित्तस्यैव प्रवृत्तिनिमित्तत्वे च । 'नः छिद्येत' इत्यस्य स्थाने 'उच्छिद्येत' इति पाठो युक्तः । तत्र डित्थ-डवित्थादिसंज्ञायाम् । इच्छामात्रस्येति- “डित्थः काष्ठमयो हस्ती" इत्यादिवचनेन काष्टनिर्मितहस्त्यादिषु कस्यचिदिच्छया सङ्केतितो डित्यादिशब्द इतीच्छामात्रस्यैव तत्प्रवृत्तौ निमितत्वं न तु डित्यादिपदस्य किञ्चिद् व्युत्पत्तिनिमित्तमिति व्युत्पत्तिनिमित्तात्मकस्य प्रवृत्तिनिमित्तस्याभावात् पारिभाषिकी डित्यादिसंज्ञा न कस्यचिदर्थस्य बोधिका, न चार्थशून्या संज्ञा भवतीति समभिरूढमते तदुच्छेदः प्रसज्येतेत्यर्थः। अत्र आशङ्किते पारिभाषिकसंज्ञोच्छेदप्रसङ्गे । इष्टापत्तिः समभिरूढनयस्येष्टापादनम् । विवृणोति-संझतीति । 'त्वन्मते पारिभाषिकी' इति मूले 'तन्मते पारिभाषिकी ' इति पाठ एव युक्तः, टीकाया. मपि त्वन्मते' इति स्थाने 'तन्मते' इत्येव प.ठो युक्तः। उत्तरार्धस्य निषेधहेतुप्रतिपादकत्वं स्पष्टयितुं यतः' इति हेतुवचनपूरणम् । तस्याऽबोधकत्व' इति स्थाने 'तस्या अबोधकत्व' इति पाठो युक्तः, तस्याः-पारिभाषिकसंज्ञायाः। पारिभाषिकसंज्ञायाः समभिरूढमते नार्थतत्त्वबोधकत्वमित्यत्र तत्त्वार्थभाष्यसम्मतिमुपदर्शयति-तदिदमुक्तमिति । तत्र समभिरूढमते ॥ ३८॥ एकोनचत्वारिंशत्तमपद्यमवतारयति- एवम्भूतं लक्षयतीति। विवृणोति- एवंभूतस्त्वितीति । व्यञ्जनमर्थविशेषणं Page #218 -------------------------------------------------------------------------- ________________ Aslestestableslestestostestastestestostestoster श्रीविजयनेमिसूरिग्रन्थमालारत्नम्-४४ न्यायविशारद-न्यायाचार्य-महामहोपाध्याय-श्रीयशोविजयजीगणिविरचितः स्वोपज्ञनयामृततरङ्गिणीव्याख्यासमलङ्कतो नयोपदेशः। [तस्य चायं द्वितीयो विभागः] तदुपरिश्रीमत्तपोगच्छाधिपति-शासनसम्राट-सर्वतन्त्रस्वतन्त्र-श्रीविजयनेमिसूरीश्वर-पट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारदकविरत्नेन श्रीविजयलावण्यसूरिणा विरचिता तरङ्गिणीतरणिः॥ AAAAAADMoolooIOOKGDIO Medabasebabababababababababababababababababak प्रकाशक fasleshastasiastak कार्यवाहक : शा. ईश्वरदास मूलचंद विजयलावण्यसूरीश्वरज्ञानमन्दिर बोटाद ( सौराष्ट्र.) वीरसंवत्-२४८२] नेमिसंवत्-७ - [विक्रमसं०-२०१२ मुद्रकः-शाह-गुलाबचंद लल्लुभाई, श्री महोदय प्रिन्टींग प्रेस, दाणापीठ-भावनगर. प्राप्तिस्थान-सरस्वती पुस्तक भंडार रतनपोळ, हाथीखाना-अमदावाद. । विजयलावण्यसूरीश्वर ज्ञानमन्दिर बोटाद ( सौराष्ट्र) 198989898989886 PSXS XS $9622496 Page #219 -------------------------------------------------------------------------- ________________ ६-०-० ६-०-० नूतन-मुद्रित ग्रंथो(१) 'श्रीसिद्धहेमशब्दानुशासनम् ' [ बृहवृत्ति- बृहन्न्यास लघुन्यासादिसहित प्रथम विभाग ] (२) 'तिलकमञ्जरी' [टिप्पणक-परागवृत्तिसहित प्रथम विभाग ) (३) 'तिलकमञ्जरी'[ द्वितीय विमागा (४) 'नयोपदेश' [तरङ्गिणीतरणिवृत्तिसहित प्रथम विभाग] (५) 'नयोपदेश' द्वितीय विभाग] (६) ' अनेकान्तव्यवस्था' ( तत्त्वबोधिनीवृत्तिसहित प्रथम विभाग ] (७) 'सिद्धहेमलघुवृत्ति' (त्रयोदशपरिशिष्टसहित ] शासवार्तासमवय, स्याद्वादवाटिकाटीकायक्त प्रथम विभाग 1 (९) 'धातुरत्नाकर' [१३ परिशिष्टसहित प्रथम विभाग, द्वितीयावृत्ति ] (१०) 'धातुरत्नाकर' [ अष्टम विभाग] (११) 'द्वात्रिंशद् द्वात्रिंशिका' [ किरणाबलीवृत्तिसहित, प्रथमा ] (१२) 'द्वात्रिंशद् द्वात्रिंशिका' [ , द्वितीया ] (१३) 'द्वात्रिंशद् द्वात्रिंशिका' [ तृतीया] (१४) 'रत्नाकर-पञ्चविशिका' [वृत्ति सहित ) (१५) 'गौतमस्वाम्यष्टकम् [वृत्ति सहित ] (१६) 'जैनधर्म अने तेनी प्राचीनता' (१७) 'ए तारा ज प्रतापे' (१८) 'ए धर्मना ज प्रतापे' (१९) 'आत्मनिन्दाद्वात्रिंशिका [प्रकाश वृत्तिसहित ] (२०) 'श्रीवर्धमान-पंचाशिका ४-०-० १२-०-० १-०.० १-०-० १-०-० ०-१२-० २-०-० १-४-० मुद्यमाण ग्रंथो(१) 'सिद्धहेमशम्दानुशासनम् ' [ बृहन्न्यासादिसहित द्वितीय विभाग ] (२) 'तिलकमञ्जरी' [टिप्पणकादिसहित तृतीय विभाग ] (३) 'शास्त्रवासिमुच्चय' [स्याद्वादवाटिकासहित द्वितीय विभाग) (४) 'काव्यानुशासनम् ' [ टीकास्यसहित प्रथम विभाग] (५) 'द्वात्रिंशिका' [ सटीक चतुर्थी ] (६) 'न्यायसमुच्चय' [ टीकाद्वयसहित ] (७) 'अनेकान्तव्यवस्था' [ तत्त्वबोधिनीसहित द्वितीय विभाग] (८)' स्याद्यन्तरत्नाकर' [द्वितीय विभाग) (९) 'स्याद्यन्तसरिता' [लघुसंस्कृतशब्दारूपावलि ] Page #220 -------------------------------------------------------------------------- ________________ शासनसम्राट्-चरिचक्रचक्रवर्ति-तपोगच्छाधिपति-कदम्बगिरिप्रमुखतीर्थोद्धारकपूज्यपाद-आचार्य-महाराजाधिराजश्रीमद् विजयनेमिसूरीश्वरजी महाराज । Mangal Mudranalaya Ratanpole, Ahmedabad Page #221 --------------------------------------------------------------------------  Page #222 -------------------------------------------------------------------------- ________________ પ્રકાશકીય-નિવેદન - ---- સતનય, સપ્તભંગી અને નિક્ષેપા વગેરેને વિરતારથી બંધ આપતે “નપદેશ” નામને આ ગ્રન્થ છે. આ ગ્રન્થ દાર્શનિક વિષયને લગતા છેલી કેટિના વિચારોથી અને અનેક પ્રકારના વાદથી ભરપૂર છે જેવા કે-ચિત્રવાર, અપેક્ષાબુદ્ધિવાદ, પ્રતિબધ્ય–પ્રતિબંધકભાવ વાદ વગેરે. તથા તે તે વાદેને ખૂબ જ ઊંડાણપૂર્વક ચર્ચેલ છે. આ ગ્રન્થના પ્રણેતા પૂજ્યપાદ જૈનન્યાયના પ્રાણદાતા ન્યાયવિશારદ ન્યાયાચાર્ય શ્રીમદ્દ યશોવિજયજી મહારાજ છે. તેમના જીવન અને કવન વિશે કેટલાયે વિદ્વાનોએ ખૂબ પ્રકાશ પાડ્યો છે તેથી એ સંબંધે પિષ્ટપેષણ કરવાની જરૂરત નથી, પરંતુ ન્યાયના પ્રખર પાંડિત્ય વિષે એટલું કહેવું જરૂરી છે કે કાશીના સમર્થ બ્રાહ્મણ પંડિત સાથેના શાસ્ત્રાર્થમાં એમણે જીત મેળવવાથી એ જ પંડિતમંડળીએ “ ન્યાયવિશારદ'ની પદવીથી વિભૂષિત કર્યા હતા, તથા ન્યાયના એક સે આઠ ગ્રન્થ રચ્યા બાદ “ ન્યાયાચાર્ય”ની પદવીથી નવાજ્યા હતા. આ જ શ્રી ઉપર તેઓશ્રીએ “નયામૃતતરંગિણું” નામની ટીકા રચી છે. તેમની કસાયેલ વિદ્વગ્ય કલમથી લખાયેલ આ “નયામૃતતરંગિણું” યુક્ત “નોપદેશ” નામને ગ્રન્થ આધુનિક પ્રજાને ટીકા વિના સાંગે પાંગ સમજ મુશ્કેલ હતું તથા ઘણે સ્થળે મૂળ ગ્રન્થ અશુદ્ધ હતું, તેથી પૂજ્ય પાઠ શાસનસમ્રાટ સર્વતન્નરવત– આચાર્ય મહારાજાધિરાજ શ્રીમદ વિજયનેમિસૂરીશ્વરજી મહારાજશ્રીના પટ્ટાલંકાર વ્યાકરણવાચસ્પતિ શાસ્ત્રવિશારદ કવિરત્ન પૂજ્ય આચાર્યવર્ય શ્રીમદ્ વિજયલાવણ્યસૂરીશ્વરજી મહારાજશ્રીએ પિતાની કુશાગ્રબુદ્ધિથી બને તે રીતે શુદ્ધ કરવા સાથે વિદ્વત્સમાજ તેમજ તવરસિક છે સહેલાઈથી પ્રવેશ કરી શકે તે અર્થે આ “નયામૃતતરંગિણું” ટીકા યુક્ત “નોપદેશ' ગ્રન્થ પર નયપી અમૃતથી ભરેલ વિશાળ નદીનું અવગાહન કરવા માટે નૌકા સમાન “તરંગિણુતરણી' નામની સુંદર ટીકા રચી છે, તે અમે સહર્ષ પ્રકાશિત કરીએ છીએ. મૂળ ઘન્ય અપ્રતિમ પ્રતિભાયુક્ત રહસ્યમય છે એ વાત તે નિશંક છે, પરંતુ ટીકાકાર મહર્ષિએ પણ તેના ઉપર તલસ્પર્શી વિશદ “તરંગિણતરણ” વિવૃતિ રચી પોતાની પ્રકાંડ પ્રતિભાને વ્યક્ત કરી છે, તે સાઘન્ત સૂફમેક્ષિકાથી નિરીક્ષણ કરનારને સહેજે ખ્યાલમાં આવે તેમ છે, એટલું જ નહિ પરંતુ “તરંગિણતરણી વિવૃતિની સાર્થકતાને સાક્ષાત્કાર થયા વિના રહેતું નથી. જેનન્યાયની સાહિત્યસૃષ્ટિમાં આ ગ્રંથ અનેરો પ્રકાશ ફેકે છે, જિજ્ઞાસાવાળા મહાનુભાને વિશાળકાય વિષયાનુક્રમણિકાનું નિરીક્ષણ કરવા ભલામણ કરીએ છીએ, જેથી ગ્રન્થ ને ટીકાની મહત્તાનો ખરા ખ્યાલ આવી શકશે. પૂજ્ય પ્રખરવક્તા વિદ્વદર્ય પંન્યાસજી મ૦ શ્રીસુશીલ વિજયજી ગણિવર્યો પ્રેસકોપી મેળવવા વગેરેમાં જે પરિશ્રમ ઉઠાવ્યો છે તે, અને પ્રસ્તુત ગ્રન્થનું સાઘન્ત પ્રફ વિગેરેનું સંશોધનકાર્ય, વ્યાકરણતીર્થ પંડિત અંબાલાલ પ્રેમચંદ શાહે, જે કુશલતાથી કરેલ છે તે ધન્યવાદને પાત્ર છે. આને પ્રથમ વિભાગ રાવબહાદુર-જે. પી. શ્રેષ્ટિવર્ય જીવતલાલ પ્રતાપસિંહ સંઘવીની દ્રવ્ય સહાયતાથી પૂર્વે પ્રગટ થયું હતું, અને આ દ્વિતીય વિભાગ શ્રેણિવર્ય પુરુષોત્તમભાઈ સુરચંદની દ્રવ્યસહાયતાથી બહાર પડે છે. એ બંને દાનવીરને તેમની જ્ઞાનભક્તિનિમિત્તક ધન્યવાદ ઘટે છે. Page #223 -------------------------------------------------------------------------- ________________ ધ્રાંગધ્રાનિવાસી શ્રી પુરુષોત્તમદાસ સુરચંદ વેરાની જીવનરેખા શ્રી. પુરુષેત્તમદાસભાઈ સૌરાષ્ટ્ર દેશમાં આવેલા પ્રાંગધ્રા શહેરના વતની દશાશ્રીમાળીજ્ઞાતીય જૈન શ્વેતાંબર મૂર્તિપૂજક શ્રી. સુરચંદભાઈના તથા માતુશ્રી ઉજમબાઈના સુપુત્ર છે. તેમને જન્મ વિ. સં. ૧૯૭૬ માં ફાગણ સુદ પૂર્ણિમાના પૂર્ણ ઉજજવળ દિવસે થયે હતે. તેઓશ્રીએ ધંધાને પ્રારભ પંજાબમાં કરેલ અને વબળે આગળ વધી અને મુંબઈમાં વસી જનરલ મરચન્ટ અને કમીશન એજન્ટ તરીકે વેપારી આલમમાં સારી ખ્યાતિ સંપાદિત કરી છે. એટલું જ નહિ પરંતુ પાર્જિત લક્ષમીને સત્કાર્યોમાં જ લક્ષમીની સાર્થકતાને સાધતા આવ્યા છે. માનવજીવનની મહત્તાના મુખ્ય પાયારૂપ ઉદારતાના મહાન ગુણદ્વારા તેઓએ પ્રારંભિક “ઉદયકાળથી સ્વજીવનને ધન્ય બનાવ્યું છે એટલું જ નહિ પરંતુ વિશ્વના શ્રીમંતને આદર્શજીવન” બનાવવા માટે તેમજ મળેલી લક્ષમીની સાર્થકતા માટે પ્રેરણા સમાપી રહ્યું છે. તેઓ હાલ મુંબઈ શહેરના પરા તરીકે ગણાતા “ કાંદીવલી ”માં રહે છે. કાંદીવલી (મુંબઈ)માં આવેલા પિતાના બંગલામાં સમ્યગદર્શનની શુદ્ધિને કરનાર, આધિ, વ્યાધિ ને ઉપાધિપ ત્રિવિધ તાપને હરનાર, પ્રભુપ્રેમ જગવનાર, સંસારસમુદ્ર તરવાના તરાપારૂપ, આદર્શ જેન ગૃહમંદિર-ઘરદેરાસરની સ્થાપના કરી, સ્વકીય પ્રભુ ભકિત તેમજ ધર્મપ્રેમને પ્રદર્શિત કરેલ છે. કેળવણી ખાતામાં પણ અનેક સંસ્થાઓને સારી રકમો એનાયત કરી, આત્માના જ્ઞાન ગુણને વિકસાવવાને જગતમાં દાખલો બેસાડ્યો છે. ધાર્મિક, સામાજિક તેમજ લોકોપયોગી અનેક સંસ્થાઓ માં સમયે સમયે સારો સહકાર આપી તે તે સંસ્થાઓને સજીવન બનાવી ઉત્તેજિત કરી છે. - “ગરની ભભૂમિ રવા રીવરી” આ ઉક્તિને શેઠશ્રીએ પિતાની જન્મભૂમિ ધ્રાંગધ્રા શહેરમાં “પુરુષોત્તમદાસ સુરચંદ વેરા જેન બેડીંગ”ની સ્થાપના કરી સફળ કરી છે. જેમાં હરકેઈ જેને બાળક તેને લાભ લઈ શકે તેવી વ્યવસ્થા કરી હદયની વિશાળતા તેમજ ઉદારતાને પ્રકટ કરી છે. ઉક્ત બેડીંગના મકાનનું ઉદ્દઘાટન સૌરાષ્ટ્ર એકમના ઉપરાજપ્રમુખ મંગલાકુળશિરોમણિ પ્રાંગધ્રાનરેશ શ્રીમાન મયૂરધ્વજસિંહજીના વરદ હસ્તે થયેલ છે. સંવત ૨૦૦૯ ના માહ વદ ૭ ના રોજ શાસનસમ્રાટ તપાગચ્છાધિપતિ ભારતીય ભવ્યવિભૂતિ સર્વતંત્રસ્વતંત્ર બાળબ્રહ્મચારી મહાપ્રતાપી પરમ પૂજ્યપાદ જગદ્દગુરુ આચાર્યદેવ શ્રીમદ્ વિજયનેમિસૂરીશ્વરજી મહારાજ સાહેબના પટ્ટાલંકાર વ્યાકરણવાચસ્પતિ, કવિરત્ન, શાસ્ત્ર વિશારદ શાંતમૂર્તિ શાસનપ્રભાવક પરમપૂજ્ય આચાર્ય મ. શ્રીમદ્ વિજયલાવણ્યસૂરીશ્વરજી મ. શ્રીતી પિતાને ત્યાં પધરામણી કરાવી અને તે જ દિવસે પૂજ્ય સૂરીશ્વરજીના સદુપદેશથી બોટાદના જ્ઞાનમંદિરમાં તથા ન્યાયાચાર્ય ન્યાયવિશારદ જૈન ન્યાના પ્રાણદાતા જેન જગતના મહાન તિર્ધર પૂજ્યપાદ શ્રી યશોવિજયજી વાચકવર વિરચિત “નપદેશ” નામને જૈન ન્યાયને” અજોડ મહાગ્રંથ કે જેના ઉપર “નયામૃતતરંગિણી' નામની પજ્ઞ ટીકા છે તથા તે મૂળગ્રંથ અને સ્વપજ્ઞ ટીકાનુસારી પૂજય સૂરીશ્વરજીકૃત “તરગિણતરણી' નામની ટીકા ( ઉક્ત બંને ટીકા સહિત, ઉકત “ નપદેશ' ગ્રંથના બીજા ભાગના પ્રકાશન માટે રૂ. ૪૦૦૦) આપવાના કહ્યા છે. આ રીતે ખરેખર શેઠશ્રીએ સર્વમુખી દાનગંગાને વહેતી મૂકી, દાનધર્મને અપનાવી સ્વજીવન ધન્ય બનાવી રહ્યા છે, પરભવની અભંગ બેંકમાં નાણુને જમા કરાવી રહ્યા છે. શેઠશ્રીનું આદર્શ શ્રીમંત તરીકેનું જીવન જીવી વનામની સાર્થકતાને પણ સાધી રહ્યા છે. શાસનદેવ તેમની આ સર્વતે મુખી દાનવીરતાને જીવનના ચરમ સમય સુધી સુરક્ષિત રાખે અને તેમનાં સંતાને પણ પિતાના વડીલના વારસાને અપનાવે ને આબાદ રાખે એ જ ભાવના. “શુભ ભવતુ " Page #224 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतस्य नयोपदेशस्य विषयानुक्रमणिका। अकः विषयः पत्र-पतिः १व्युत्पत्तिप्रदर्शन पुरस्सरमेवम्भूतनयस्य निष्कृष्टलक्षणम् , तदभिमानप्रदर्शनं च १८५ १ १ केनचिद्रूपेणानतिप्रसकस्यैव व्युत्पत्तिनिमित्तस्याभ्युपगन्तव्यस्य भावतश्छ. त्रादिविरहकालेऽपि राजशब्दवाच्यत्व. प्रसङ्ग इति प्रश्नस्य प्रतिविधानम् । १८५१० ३ तत्रातिप्रसङ्गभङ्गप्रकार उपदर्शितः। १८६ १ ४ एवम्भूतनयाश्रयणेनैव पङ्कजादिपदे योगमात्रकथनं केषाश्चिद्वादिनाम् । १८७ . --- ५ पनत्वप्रतीतेरन्यथोपपादनेन तदर्थ समुदायशक्तिकल्पनाशका व्युदस्ता, संस्कारोपस्थितस्य शाब्देऽप्रवेश इत्या. शहाप्रतिक्षेपश्च । ६ शकिं विना पद्मत्वस्योपस्थितस्य नियमेड नुभवनियमप्रसङ्गाशङ्काया निराकरणम् । १८८ ४ ७ कुमदाद्यप्रतीत्यर्थ समुदायशक्तिकल्पन मित्याद्याशङ्कानिराकरणम् । १८९ २ ८ पद्मत्वप्रकारकपद्मविषयकानुभवजनक- .. त्वात् तादृशस्मरणजनकत्वाद् वा नान्यत्पदस्य शक्तत्वमित्याशङ्कानिराकरणम् । १९. ३ १ समुदायशक्यभावेऽनुभावकत्वानुपप त्याशङ्कायाः परिहारः । १. लाक्षणिकस्याननुभावकत्वमेवेति प्रश्न प्रतिविधानम् । १ पङजमानयेसत्र- संस्कारमात्रोपस्थि तस्य पनत्वस्यान्वयबोधो द्रव्यत्वादीना मन्वयबोधः स्यादित्याशङ्कानिरासः । १९३ ४ । १२ सरलाना पङ्कजपदस्य पञ शक्त्यभावे ऽपि तदन्वयबोधोपपादनप्रकार उपदर्शितः । अङ्कः विषयः पत्र-पतिः १३ पङ्कजपदस्य पने समुदायशक्तिरप्या वश्यकीति योगरूढमेव तदित्यस्योपपा. दकं नैगमनयानुसारिणां नैयायिकानां मतमुपदर्शितम् । १४ पङ्कजपदं रूढमेवेत्युपदर्शकं व्यवहार नयानुसारिणां मतमुपदर्शितम् । २०२ ३ १५ पदानों यौगिकादिविभाग: पारिभाषिक एव, परमार्थतस्तु योगरूढिनययोः स्वस्वजन्यशाब्दबोधे मिथः प्रतिबन्धकत्वेन स्याद्यौगिकशन्दः स्याद् रूढ एवेत्यादिरीत्या सप्तभङ्गीप्रवृत्तिरेव युके. त्यादिस्वमतोद्वारः। १६ मीमांसकमतनिरासः। २०३ ७ १७ एवम्भूतनयमते सिद्धो न जीव इत्यत्र विशेषावश्यकतत्त्वार्थभाष्यप्रमाणं चत्वारिंशत्तमपद्ये दर्शितम् । २०४ ३ १८ पञ्चस्वपि गतिषु पञ्चभिर्भावयुक्तो जीव शब्दाभिधेय इति एकचत्वारिंशत्तमपये दर्शितम् । २०४ ११ १९ पुदलप्रभृति द्रव्यमजीवशब्दाभिधेय. मिति द्विचत्वारिंशत्तमपद्ये भावितम् । २०५६ २. जीवस्य देश-प्रदेशौ नोजीवशन्दवाच्यौ, ___ इति त्रिचत्वारिंशत्तमण्ये प्रतिपादितम् । २०६४ २१ जीव-जीवदेश-प्रदेशानामन्यतमो नोऽजीव पदप्रतिपाद्य इति चतुश्चत्वारिंशत्तमपद्ये कथितम् । २२ अनन्तरोपदर्शितपद्यचतुष्टयाऽभिहितं मतं नैगमापरसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढानामित्युपदर्शकं पञ्चचत्वारिंशत्तमपद्यम् । Page #225 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । विषयः पत्र-पतिः २३ एवम्भूतस्तु भावस्थितं जीवं कथयति, सिद्ध पुदलादिक वाऽजीवं कथयतीति षदचत्वारिंशत्तमपद्ये । २०७ १० २४ एवम्भूतनयस्य मते नोअजीवो जीव एव, नोजीवश्चाजीव एव, देश-प्रदेशी च न स्तः, अनुयोगद्वारे चेतद्विस्तृतं सप्तचत्वारिंशत्तमपद्ये । २०८ । २५ द्रव्यसंग्रहे दिगम्बरोक निश्चयतो जीवः सिद्ध इति तदुक्कदिशैवम्भूतनयेऽन्यथा प्रथातो निरस्तमित्यष्टचत्वारिंशत्तमपद्ये। २०८ ७ २६ सर्वसंग्रहात्मकनिश्चयनये आत्मत्वमेव जीवत्वमित्यपि दिगम्बराकृतोपवर्णनं सिद्धसाधारण्यं निरस्य न युक्तमित्ये कोनपञ्चाशत्तमपद्ये। २०८ १६ २७ संसारिसिद्धसाधारणजीवपदार्थाभिधानं नैगमाकृतान तु निश्चयत इति पञ्चाशत्तमपद्ये । २१. ३ २८ “जीव प्राणधारणे" इति जीवधात्वर्थे भावनिक्षेपात् सिद्धस्यैव जीवत्वं निश्चीयत इति दिगम्बरोक्तं न युक्तं, प्रसिद्धोपरोधेन नयान्तरविचारणा यतो भवतीत्येकपञ्चाशत्तमपद्ये। २१० ३ २९ यथा शैल्येश्यन्तक्षणे धर्मस्तथा जीवो ऽपि सिद्ध एवेत्यपि न वाच्यं, यतः 'सो उभयक्खयहेऊ' इति गाथायां फले चिन्ता, इह तु धातुगा चिन्तेति विभावितं द्विपञ्चाशत्तमपये टीकायां च। २१२ ६ ३. नयामृततरङ्गिणीग्रन्थमध्यमङ्गलस्वरूपा श्रीशक्लेश्वरप्रभुस्तुतिः। २१३ १० ३१ प्रदेश-प्रस्थक-वसतिनिदर्शनेभ्यो नयानां शुद्धयशुद्धी विभावनीये इत्यर्थक त्रिपञ्चाशत्तमपद्यम्। २१४ । ३२ धर्मा-ऽधर्माऽऽकाश-जीव स्कन्ध-तद्दे. शानां षण्णां प्रदेशमभ्युपगच्छति नैगमो नय इति चतुःपञ्चाशत्तमपद्ये। २१४ ६ अबः विषयः पत्र-पतिः ३३ 'दासेन मे खरः क्रीत' इति । न्यायात् स्वदेशे स्वाभेदतो धर्मा-ऽधर्माऽऽकाश-जीव-स्कन्धानां पञ्चानां प्रदेश इति सङ्ग्रहो ब्रूत इति पञ्चपञ्चाशत्तमपद्ये। २१४ १० ३४ प्रदेशस्यैकस्य पञ्चवृत्तित्वाभावात् पश्चानां प्रदेश इति न किन्तु पञ्चविधः प्रदेश इत्याह व्यवहार इति षट्पञ्चाशत्तमपद्ये। २१५ २ ३५ सप्तपञ्चाशत्तमाष्टपञ्चाशत्तमपद्ययो र्व्यवहारनयमतं दूषयित्वा प्रदेशभजनी-२१६ २ यतामृजुसूत्रो ब्रवीति । २१७३ ३६ शब्दनयः [ साम्प्रतनयः ] ऋजुसूत्र मतं दूषयित्वा धर्मास्तिकाये प्रदेशो इति सप्तमीतत्पुरुषेण धर्मास्तिकायश्वासौ प्रदेशो धर्मास्तिकायप्रदेश इति कर्मधारयेण वा निर्णयं करोतीत्येकोनषष्ठितमपद्ये। २१८ ७ ३७ जीवे स्कन्धे चानन्ते जीवे जीव इति वा, प्रदेशो नो जीव इति स्कन्धे स्कन्ध इति वा, प्रदेशो नोस्कन्ध इति शब्दनयः प्राह इति षष्ठितमपद्ये । १२० ३ १८ समभिरूढनयस्तु धर्मास्तिकाये प्रदेशो धर्मास्तिकायप्रदेश इत्येवमेवाभ्युपगच्छति, न तु धर्मास्तिकाये प्रदेश इति, एवम्भूतस्तु देश-प्रदेशौ नाभ्यु पगच्छतीत्येकषष्ठितमपद्ये। २२१ ४ ३९ लाघवादेवात्र कर्मधारयमिच्छति सम भिरूढ इत्येके आचार्या आहुः। २२, ८ ४० एतन्मूलकमेव निषादस्थापत्यधिकरणं मीमांसकानामित्युपपाच दर्शितम् । २२२ । ४१ अत्रारुचिप्रदर्शनपरं शब्दनयानुसारिणां नव्यानां मतमुपदार्शतम् । २२३ ४ ४२ एवम्भूतमते देश-प्रदेशकल्पनारहित मखण्डमेव वस्तु सदित्युपपादितम् । १२४ । । Page #226 -------------------------------------------------------------------------- ________________ नवापततरङ्गिनी-तरङ्गिणीतरणिभ्यां समाहतो गयोपरयः । विषयः पत्र-पतिः ४३ प्रस्थकदृष्टान्तेन नयानां शुद्धयशुद्धि विवेचने द्विषठि-त्रिषष्ठि-चतुःषष्ठितम. पथैनँगम व्यवहारयोरुत्तरोत्तरमुपचाराः शुद्धताभतो दर्शिताः। २२५ २ ४४ अतिशुद्धौ नैगम-व्यवहारौ प्रस्थकपर्यायवन्तं प्रस्थकमाहतुः, सङ्गहनयस्तु- आसादितप्रस्थकपर्यायमाकुट्टित. नामानं धान्यविशेषमारूढं च प्रस्थ कमाहेति पञ्चषष्ठितमपद्ये । २२६ १० ४५ सङ्ग्रहमन्तव्यमुपपादितम् । ४६ मानं मेयं चर्जुसूत्रस्य प्रस्थकः, शब्द समभिरूढैवम्भूतानां त्रयाणां शब्दनयानां मते ज्ञकर्तृगताद् भावानतिरिक्तः प्रस्थक इत्युपपादित षट्षष्ठितमे पद्ये। २३१ ४७ वसतिदृष्टान्तेन नयायां शुद्धयशुद्धि. विवेचने सप्तषष्ठितमाष्टषष्ठितमपद्याभ्यां नैगम-व्यवहारो यथोत्तरप्रश्नेषु यथोत्तरशुद्धाशुद्धिः, अतिशुद्धौ तु तौ निवसन् वसतीत्याहतुः स्मेति दर्शितम् । २३३ २ ४८ अत्र प्रश्नप्रतिविधानाभ्यां समालोचना कृता । २३४ १ निराकाहुतया वसन् वसतीति न प्रमाणमित्याशवानिवृत्तये तदर्थो दर्शित एकोनसप्ततितमपद्येन । २३६ १ ५. पाटलिपुत्रादन्यत्र गतस्यापि पाटलि पुत्रवासित्वकथनमौपचारिकमिति सप्त. तितमपद्ये दर्शितम् । . - -२३६ १० ५१ सङ्ग्रहः संस्तारकारूढ एव वसतिमभ्यु- . पैति, ऋजुसूत्रः स्वावमाहकृत्स्वाकाशप्रदेशेषु वसतिमभ्युपगच्छतीत्येकसप्तति तमपये प्ररूपितम् । ५२ तेष्वपि विवक्षितवर्तमानकाल एव न कालान्तरे इति द्विसप्ततितमपद्ये व्यवस्थापितम् । २३८ ८ अङ्कः विषयः पत्र-पतिः ५३ शब्द-समभिरूढेवम्भूतात्रयः शब्दनयाः स्वस्मिन् स्ववसतिमभ्युपयन्ति, विचारितेयं दृष्टान्तनययोजनाऽनुयोगद्वारेष्विति . त्रिसप्ततितमपद्ये। २३९ २ ५४ एतेषु नयेषु सूक्ष्मार्थाः शुद्धाः, स्थूलगोचरा अशुद्धाः, व्यवहारे फलतः शुद्धता, न निश्चये इति चतुस्सप्ततितमपद्ये दर्शितम्। २३९ १० ५५ नयानां शुद्धत्वाशुद्धत्वे वह्वल्पविषय भावेन न सम्भवत इति व्यवस्थापितम्। २३९ १४ ५६ यत्र क्रियाऽक्रियाफलौचित्यं गुरुशिष्यादि. संगतिश्च सा व्यवहारस्य देशना सम्यक्त्वहेतुर्भवतीति पश्चसप्ततितमपद्ये भावितम् । २४० " ५७ यत्र ऋजुसूत्रादौ कुरुतेऽन्यः क्षणो भुङ्क्ते चान्यः क्षण इत्यादिकानिश्चयस्य देशना, सा पुंसां मिथ्यात्वकारणमिति षट्सप्ततितमपये दर्शितम् । २४१ २ ५८ ऐदम्पार्थश्रद्धालक्षणपरिणामे सूक्ष्मा नयाहिताः, उत्सगैकरुचिलक्षणापरिणामिक, अपवादेकरुचिलक्षणातिपारिणामिके च न हिताः, चक्रिणो भोजनवदल्पोपकारकत्ववहपकारकत्वतः फलतोऽनर्थनिबन्धनमिति सप्तसप्ततितमपद्ये दर्शितम् । २४३ ३ ५९ अपक्वघटन्यस्तजलवदपरिणतशिष्ये नय. गोचरं रहस्यमित्यष्ट सप्ततितमपद्ये दर्शितम् २४४ ३ ६. बहूपकारोद्देशेनैव देशनायाः प्रवृत्तः सूक्ष्मनयानां च बढ्नुपकारकत्वात् कालिकश्रुते पृथक्त्वे सर्वेषां नयानां योजनायां नाधिकारः, नये व्युत्पत्तिमिच्छता शिष्याणां नैगम-सङ्ग्रह व्यव. हारैः प्रायोऽधिकारः, अत्र प्रमाणं पार. मर्षमिति भावितमकोनाशीतितमपद्ये । २४४६ ६१ सूत्रोक्तरीत्युल्लघनस्य कृतान्तकोपा वहत्वेन प्रथमतो निश्चयनयोपन्यासो Page #227 -------------------------------------------------------------------------- ________________ नयाम्म्रुततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । पत्र-पङ्क्तिः विषयः तेषां द्रव्यार्थिकत्वव्याहृतिः स्यादित्या शङ्काया उपवादानपुरस्सरमपाकरणम् । २५१ १ ७० द्रव्यार्थिके नाम स्थापना- द्रव्यनिक्षेपाः, पर्यायार्थिके भावनिक्षेप इत्येतन्मतावष्टम्भकं द्रव्यार्थे गुणवान् जीवः सामायिकम्, पर्यायार्थे तद्गुणः सामायिकमित्यावश्यकादिषु प्रोक्तमिति चतुरशीतितमपद्ये । ७१ अत्र द्रव्यपर्यायनययोः शुद्धद्रव्यपर्यायावैव विषयावित्युपदश्य भाष्यकृदभिप्रायमतान्तराभिप्रायावुप वर्णितौ । ७२ मतान्तरे पर्यायार्थिक एव द्रव्यस्य कल्पितस्य विशेषणत्वं द्रव्यार्थिके तु पर्यायस्याकल्पितस्यापि विशेषणत्वं युक्तं, तत्समर्थनं नैगमनयानतिरेकदृष्ट्या मलयगिर्यादिभिरुकं, तत एव देवसूरिभिरूकं नैगमस्य प्रकारत्रयमिति । ७३ प्राचीनमतेऽपि नये विशेषणं कल्पितमेवेति नियमो नास्तीत्युपपादितम् । २५६ ४ अङ्कः विषयः रसायनीकृतविषप्रायः कस्यचिद्धितकारित्वेऽपि जगद्धितावद्दत्वाभावाद् दिगम्बरस्य निराकृत इत्यशीतितमपद्ये दर्शितम् । ६२ परस्थाने नियोजिता निश्चयनयदेशनोन्मार्गकारणत्वेन न शोभावद्दा, अन्ययोग्यं वचो भेषजवद् बालादेर्न हितमत आदौ नमानां निश्चयोद्माहोऽनर्थावह एव, अत्र षोडशकप्रकरणगाथासं प्रवादः, दिगम्बरप्रश्नप्रतिक्षेपश्चेत्य काशीतितम पद्ये । ६३ ये ज्ञानमेवास्माकं सर्वां सामग्री संपादयिष्यतीत्यभिमानिनः क्रियाभ्यासे सीदन्ति ते निश्चयतो निश्वयं न जानन्ति, अत्र - ओघ निर्युक्तत्याख्य श्रुतपाठः, उत्तराध्ययनवचनं चेति द्वाशीति. तमपद्ये भावितम् । ६५ निक्षेपसामान्यलक्षणम् । ६६ तस्य घटशब्दस्य नामघटे शक्तिरिति नामनिक्षेपे तथा स्थापनानिक्षेपादावगतत्वादसम्भव इति प्रश्नस्य प्रतिविधानम् । २४५ ८ ६४ निक्षेपनययोजना विचारे भावनिक्षेपः शब्दनयैरिष्टः, अर्थनयैर्नाम स्थापनाद्रव्य भावाश्चत्वारोऽपिनिक्षेपा इष्टाः, वि० मङ्गलवादे द्रव्यार्थिके नाम स्थापना द्रव्यनिक्षेपाः, पर्यायार्थिके भावनिक्षेपः, इत्यन्यन्मतं पुरस्कृतमिति त्र्यशीतितमपद्ये । ६७ अनेकार्थनामानुशासनस्य निक्षेपत्वप्रसङ्गाशङ्केष्टापत्या परिहृता । ६८ व्यवहारतो निक्षेपस्य लक्षणान्तरमुपदर्श्य तस्यानेकार्थनामानुशासनेन प्रसङ्ग इति दर्शितम् । ६९ नैगमादीनां निक्षेपचतुष्टयाभ्युपगन्तृत्वे २४६ २ २४८ २४९ ११ २४९ १३ २४९ ३४ २५० १ २५० १ अङ्गः ७४ नयान्तरेण द्रव्यार्थिके नामादित्रयमिति निगमय्य भाष्यकारमतेनैव पत्र-पनि: " णामाइतियं" इत्यस्य " भावं चिय" इत्यनेन सहा विरोधं समर्थयितुमुक्के पञ्चाशीतितमपद्ये घटोपयोग रूपो भावो द्रव्यार्थिके न सम्मत इति त्रयं प्रोक्तमिति स्वोत्प्रेक्षणम् । ७५ नामनिक्षेपादीनां चतुर्णा विविक ७६ नामनिक्षेपलक्षणोपदर्शकं “ 'यद्वस्तुनो Sभिधानम् " इति पद्य मुल्लिख्य तदर्थ उपवर्णितः । २५४ ८ ७७ गङ्गायां घोष इत्यत्र गङ्गातीरार्थके गङ्गापदे नामनिक्षेपप्रवृत्तिमपाकृत्याति २५४ ११ २५५ ३ निदर्शनोपदर्शकं षडशीतितमपद्यम् । २५८ ८ २५७ ५ २५८ १२ Page #228 -------------------------------------------------------------------------- ________________ नयाहततरकिणी-तरशिणीतरविम्यां समाहतो नयोपदेशः । अहः विषयः पत्र-पतिः अब विषयः पत्र-पतिः रिकनिक्षेपकल्पनायां निक्षेपे यत्ता ८७ भावनिक्षेपलक्षणपरं भावो विवक्षितहानिरित्याशङ्का “जत्य य जं क्रियेति पद्यं तव्याख्यानं च। २६६ १० जाणिज्जा" इत्यनुयोगद्वारवचनेन ८८ घटोपयोगमात्रात् कथं भावघट इति निक्षेपान्तरकल्पनाया दोषानावहत्वे. प्रश्नप्रतिविधानम् । नापाकृता। २५९ ६ ८९ एकस्मिन्नपि द्रव्ये आत्मनामाकृति. ७८ तत्राभिप्रायकी स्थापनैव वैज्ञानिको कारण-कार्यतापुरस्कारेण, नामादिभावनिक्षेपो वेति कल्पान्तरम् , निक्षेपाश्चत्वारो महाभाष्ये पक्षान्तरण प्रन्थकृता विपश्चितमेतदलकारचूड़ा- - प्रतिपादिताः। मणिवृत्तौ। २६. १ ९० एतत्प्रतिपादिका “ अहवा वत्थु७९ प्रश्न-प्रतिविधानाभ्यां निष्कृष्टनाम भिहाणं" इति महाभाष्यगाथा लक्षणव्यवस्थापनम् । दर्शिता। २६७ १३ ८. स्थापनालक्षणप्रतिपादकं “यत् तु तदर्थ ९१ अस्मिन् पक्षे “व्यक्त्याकृतिजातयः वियुक्तं" इति पद्यमुल्लिख्य तदर्थः पदार्थः" इति गौतमसूत्रव्याख्यानप्रतिपादितः। २६१ ५ वत् "नाम-स्थापना-द्रव्य-भावतस्तद्रव्यनिक्षेपलक्षणप्रतिपादकं 'भूतस्य न्यासः" इति तत्त्वार्थसूत्र इति सूत्रभाविनो वा' इति पद्यमुल्लिख्य व्याख्यानमिति दर्शितम्। २६८ १ तदर्थो दर्शितः। २६२ २ । ९२ अप्रज्ञाभिधाद्ययोगतो नामादिचतुष्टयस्य ८२ द्रव्य-निक्षेपे सम्प्रदायः- द्रव्यघटस्ता वस्तुत्वाव्याप्यत्वाशा यत्राप्रमादिवद् द्विधाऽऽगमतो नोआगमत इत्यादि भिन्नवस्तुवं तत्र नामादिचतुष्टय. भावितम् । मिति व्याप्तरुपगमेन वारणीयेत्यष्टा८३ अनुपयोगो द्रव्यमित्यस्य निष्कर्षः, शीतितमपद्ये एकोननवतितमपद्ये। चोक्त. नोआगमतो द्रव्यघटो झशरीर-भव्य व्याप्तिरनुयोगद्वारनिश्चितेति । २६८ ८ शरीर-तव्यतिरिक्तभेदेन त्रिविधो ९३ उक्तव्याप्तिप्रतिपादकमनुयोगद्वारसूत्रविविच्य दर्शितः। २६२ ७ । मुपनिबद्धम् । २६९ १० ८४ द्रव्यपदार्थस्याप्राधान्येन योग्यतया च . ९४ उक्तप्रायिकव्याप्स्यभिधानं तत्त्वार्थद्विधा प्रयोगो दृष्टान्तोपेतो दर्शितः, कृन्मतेनेति तत्त्वार्थवचनमुक्तिम्। २७० २ अनुयोगद्वारसत्रे योग्यता त्रिविधेति भावितम् । २६३ २ ९५ प्रायिकव्याप्यनभ्युपगन्तुमतद्वयमुप८५ अस्मिन् विषये कायोत्सर्गनियुक्ती न्यस्य दूषितं नवत्येकनवति-त्रिनद्रव्यकायनिरूपणप्रस्तावे प्रश्न-प्रति वतितमपद्यैः । २७. ५ विधानमुखेन "जंतु पुरकखडभावं". ९६ तत्रादिष्टजीव-द्रव्याभ्यां द्रव्यन्यासस्य इत्याद्यावश्यकभाष्यगाथामिविस्तृता अप्रज्ञाप्ये जिनप्रज्ञानाम्नश्च सम्भव विचारणोपनिबद्धा। प्रतिपादकस्य प्रथमपद्यस्य तद्दषण६ योग्यता प्रतिकार्य यथासम्प्रदायं द्रव्य परयोर्द्वितीयतृतीयपद्ययोश्च क्रमेण व्यवहारहेतुर्विशिष्याश्रयणीयेति व्याख्यानम् । २७. ११ निगमनम् । २६६ ४ | ९७ धीसंन्यस्तगुण-पर्यायो द्रव्यजीव इत्ये Page #229 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । अङ्कः विषयः पत्र-पतिः तन्मतमुपन्यस्य तत्खण्डनप्रतिपादकं त्रिनवतितमपद्यं तयाख्यानं च। २७२ ३ ९८ नाम्ना संग्रहेण स्थापनां नेच्छति सङ्ग्रह नय इत्यभ्युपगन्तृमतप्रदर्शकं चतु. नवतितमपद्यं तयाख्यानं च। २७३ । ९९ इन्द्रपदलक्षणाविषयत्वं नामेन्द्रत्वं नाम स्थापना साधारणमित्युपपादकं पश्च नवतितमपद्यं तद्विवरणं च । २०४ ४ १०० उकमतं भाष्ये दूषितं नम्नोकदिशा द्रव्यनिक्षेपस्यापि सङ्ग्रह-प्रसङ्गादित्युप दर्शकं षण्णवतितमपद्यम् । २७५ ३ १०१ द्रव्यस्य भाववृत्तिताप्रयोजकसम्बन्धः परिणामित्वं, नाम्नस्तु वाच्यवाचकभाव इति भेदो नामेन्द्रे भावावाचकेऽसम्भवदुक्तिक इत्युपदर्श सप्त नवतितमपद्यम् । १०२ नामनिक्षेपपदार्थताघटकलक्षणाविशे. षणीभूतः सम्बन्धः परिणामित्वभिन्नो यदि द्रव्यनिक्षेपव्यावृत्तये इष्टस्तदा साम्यादिभिन्नोऽपि सः स्थापनाव्यावृत्तये स्वीक्रियतामित्यभिप्रायकमष्ट नवतितमपद्यं तद्विवरणं च । २७६ १०३ श्रुतोक्तमनुल्लङ्घयामिप्रायसम्बन्धस्य स्थापनानियामकत्वे नाम्नि नातिप्रसङ्ग इत्यभिप्रायकं नवनवतितमद्यं विवरणे स्थापनाया निष्कृष्टलक्षणं च । २७७ ५ १.४ बलवदनिष्टाननुवन्धीष्टसाधनताकतन्त गुणस्मृतिजनकसंस्कारोबोधनलक्षणप्रयोजनविशेषस्य स्थापनालक्षणे निवे. शत एवाहत्प्रतिमायामहतो धीरिव द्रव्यलिजिनि स्थापनया न भावसाधो. धीः सिद्धान्ते कीर्तितेत्यभिप्रायकं शततमपद्यम् । २७८ ६ १०५ व्यलिङ्गिनि स्थापनया भावसाधोधि योऽभावे हेतूपदर्शकममेकोत्तरशततम. पद्यं तद्विवरणं च । २७८ ११ अङ्कः विषयः पत्रं--पतिः १०६ उत्कटतरदोषे स्थाप्यस्थापकभावना न भवतीति द्रव्यलिङ्गिनि स्थापना न निष्कृष्टस्थापनालक्षणा कलिता तत्र पूर्व......... पक्ष-समाधानाभ्यामुपोद्वलिका वन्दन नियुक्तिगाथाः व्याख्योपेता उपदर्शिताः। २७९ ३ १०७ शङ्काशेषनिराकरणार्या आवश्यके वन्द नकनियुक्तौ "जह सावज्जा किरिया" इत्याद्याः पञ्चगाथा उपदर्शिताः । २८२ ४ १०८ उक्तदिशा स्थापनास्थले सावध कर्माभाव वद्विशेष्यगुणसङ्करूपत्वेन भावस्य निर्जराहेतुत्वं, तच्चायुक्तमित्याद्याशङ्काया निराकरणम् । २८२ १० १.९ “सयं कारियाइ" इत्यादिपूजाविधि. विंशिकावचनपर्यालोचनेन प्रतिमाया मभीष्टप्रदत्वमाशयापाकृतम् । २८४ ४ ११. प्रतिष्ठाविधिना स्वात्मन्येव परात्मन स्तास्थ्यतदानस्वरूपा समापत्तिरेव स्थापना, बिम्बे सोपचारादिति पक्षान्तरप्रतिपादकं द्वयुत्तरशततमपद्यं तद्विवरणं च। २८५ ४ १११ उक्कार्थे भवति च खलु प्रतिष्ठेति प्राचीनपद्यद्वयसंवादो दर्शितः। २८६ । ११२ व्युत्तरशततमपद्यावतरणं, तत्र यज मानागतादृष्टस्य प्रतिष्ठाफलत्वेऽभ्युपगते दोषोपदर्शनम् । २८६ . ११३ प्रतिष्ठाविधेर्देवतासन्निधानस्य स्वाभेद स्वीयत्वादिज्ञानतदाहितसंस्काररूपस्यो. त्पादात् फलोत्पत्तिरिति कस्यचिन्मतं दूषितं, तत्र 'मुक्त्यादौ तत्त्वेनेत्यादि प्राचीनपद्यद्वयसंवादः'। २८७ ४ ११४ अत्र गङ्गेशोपाध्यायमतमुपन्यस्य दूषितम् । २८७ १० ११५ प्रतिष्ठितप्रत्यभिज्ञया समापन्नस्य भगवत आहार्यारोपतो द्रष्टवन्दक पूजकादीनां धर्मकारणं स्थापनेति | । Page #230 -------------------------------------------------------------------------- ________________ मयासततरङ्गिणी-तरङ्गिणीतरणिभ्या समतो नयोपरयः । -- अङ्कः विषयः पत्र-पतिः प्रतिपादकं व्युत्तरशततमपद्यं तयाख्यानं च । . २८८ ५ ११६ उक्ताहार्यारोपकारणेच्छाजनकविधि जन्यज्ञानविषयप्रतिष्ठाबोधकविधिवाक्यानां फलवत्त्वत आध्यात्मिकाभासानां मतं वक्ष्यमाणं तिरस्कृतं भवतीत्युपदर्शकं चतुरुत्तरशततमपद्यम् । २९० ४ ११७ शाश्वतप्रतिमार्चने प्रतिष्ठाद्यनपेक्षायां तत्रैव तस्याः फले व्यभिचारेणाशाश्वाता पूजायां प्रतिष्ठितं पूजये. दिति, अप्रतिष्ठितं न पूजयेदिति विधिनिषेधौ न सम्भवत इत्याध्यात्मिकाभासमतस्योपदर्शकं पञ्चोत्तरशततम. पद्यम् । २९० १२ ११८ ज्ञानविधिप्राधान्यमाश्रित्य शाश्वता शाश्वतार्चासु पूजादिविधयोऽपि विभे. देन व्यवस्थिता इत्येवमुक्तमतनिरासहेतोरुपदर्शक षडुत्तरशततमपद्य तद्विवरणं च। ११९ स्थापनायाः समहनयेऽप्यतिरिक्त निक्षेपतयाऽवश्यस्वीकर्तव्यत्वमुप संहृतम्। १२. नाम्ना व्यवहारवत् स्थापनयाऽपि व्यवहारो भवतीति स्थापना व्यवहारो नाभ्युपगच्छतीत्यर्द्धजरतीयं केषाश्चिदाचार्याणां मतं न युक्तं संप्रहे स्थापनासाधकयुक्तिनिकरस्यात्रापि भावा दित्युपदर्शकं सप्तोत्तरशततमपद्यम् । -२९३ १ १२१ ऋजुसूत्रो द्रव्यनिक्षेपं नाभ्युपगच्छती... त्यभ्युपगन्तृभिनव्यतार्किकैव्यावश्यक. सूत्रवचनव्याख्यानं कथं कर्तुं शक्य मित्युपदर्शकमष्टोत्तरशततमपद्यम् । २९३ ९ १२२ उकाया निक्षेप-नययोजनाया निग मनपरं नवोत्तरशततमपद्यम् । २९४ २ १२३ दर्शन-नययोजनाप्ररूपणे ब्रह्मवादिदर्शनं अरः विषयः पत्र-पतिः शुद्धद्रव्यार्थिकप्रभवं, तत्रैके ब्रह्मवादिनः शब्दसन्मात्रमिच्छन्ति, अन्ये चित्सन्मात्रमित्युपदर्शकं दशोत्तरशततमपद्यम् । २९४ ६ १२४ तत्र प्रथममते संवादकतयोपदर्शितस्य " अनादिनिधनं ब्रह्मेति भर्तृहरिकृत वाक्यपदीयगतस्यार्थ उपदर्शितः। २९४ ११ १२५ तन्मते शब्द एव जगतस्तत्त्वमित्यत्रा नुमानं दर्शितम् । । १२६ प्रमाणं चिदात्मकमेवानुभूयते. इति न । तत्र शब्दरूपत्वं सिदयतीत्याशापाकृता, तत्र व्यवहारे आश्रयणीयस्य साकारस्य ज्ञानस्य वागूरूपता विना. ऽसम्भवे " वापता चेत्" इति भर्तहरिपक्षतया प्रमाणमुपदर्शितम् । २९६ , १२७ एतन्मतावलम्बनेन वैयाकरणैः प्रति पादितस्य शब्दार्थयोरमेदसम्बन्धस्य युक्तत्वं व्यवस्थापितम् । २९६ ६ १२८ संग्रहनयप्रसूतशब्दब्रह्मावतविचारेऽर्थस्य शब्दात्मकत्वे शब्दानुभवस्य साक्षित्व मुपपादितं निगमितं च। २९७ ७ १२९ चाक्षुषज्ञानमभिलापासंस्पृष्टमर्थ विषयी करोतीति शब्दभिन्नोऽर्थ इति परवादिशङ्कापाकरणम् , तत्र यथा विशुद्ध माकाशमिति हरिपद्यद्वयसंवादः। २९८ २ १३. व्यवहारसत्यस्य प्रामारामादिप्रपश्च स्याविद्यासहायशब्दब्रह्मोपादानकत्वाविद्या-तन्मूलकप्रपञ्चविगमेऽवशिष्टं शुद्धं शब्दब्रह्मैव मोक्ष इत्युपसंहृतम् । २९८ ९ १३१ चित्सन्मात्रं ब्रह्मैव तत्त्वं, तदेवा निर्वचनीयस्य जगत उपादानमित्यर्थ ब्रह्मवादिवेदान्तिमतस्योपवर्णनम् । २९९ ४ १३२ तस्यैकस्यैव ब्रह्मणोऽज्ञातरूपोपाधितो जीवेश्वरविभागो विश्वप्रतिबिम्बभावावलम्बनेनोपपादितः । २९९ ५ १३३ अज्ञानं त्वनाद्यनिर्वचनीयमायाऽविद्यादि २९२ . . Page #231 -------------------------------------------------------------------------- ________________ ર अङ्कः विषयः शब्दाभिधेयं तस्य मतभेदेनैक्यं नानात्वमुपदर्शितम् । १३४ तत्रैवावरण-विक्षेपशक्तिद्वयं विवरणाचार्यमतम्, अमूर्तस्यापि प्रतिबिम्बनं चोपपादितम् । १३५ अज्ञानावच्छिन्नं चैतन्यं जीव इति वाचस्पतिमिश्रमतं व्यावर्णितम् । १३६ दर्पणादौ मुखान्तरोत्पत्तिमभ्युपगच्छतां नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृतो नयोपदेशः । पत्र-पक्तिः अङ्कः विषयः १४७ आत्मनः परप्रेमास्पदत्वं तत्र द्वयमात्मा परानन्द इति पञ्चदशीपद्यसंवादः । १४८ अन्योऽन्याध्यासतश्चिदचिद्मथिरूपोऽध्यासः, तस्यावश्यमभ्युपगन्तव्यत्वम्, अयमेव संसारः, तस्योत्पादो मायाशवलाश्चिदात्मनः, तत्रापञ्चीकृत पञ्चीकृतभूतोत्पादः, तत्र मतभेद उपदर्शितः । ३०० २ तत्र ३०० ४ ३०३ ६ वार्त्तिकाचार्याणामाभासवादः, युक्तय उपवर्णिताः । १३७ मुखान्तरोत्पत्तिमनङ्गीकुर्वतां मुखेऽधिष्ठानगतभेदस्य द्वित्वपर्ययस्यादर्शस्थत्वस्यानिर्वचनीयस्योत्पत्तिं स्वीकुर्वतां विवरणाचार्याणां मतमुपपाद्य दर्शितम् । ३०७ १३८ जीवेश्वर विभागोपदर्शनपुरस्सर मे कजीववादाख्यो दृष्टिसृष्टिवादो मुख्यवेदान्तसिद्धान्तो दर्शितः । ३०५ ५ २ ३१० ८ १३९ दृष्टिसृष्टिवादोपपादकं मधुसूदनसरस्वतीवचनमद्वैतसिद्धिगतमुल्लिखितम् । १४० दृष्टिसृष्टिवादान्तरतो विशेष उपदर्शितः । ३११ १४१ वस्तुनि विकल्पासंभवात् कथं परस्परमतप्रामाण्यं कस्य हेयत्वं कस्योपादेयत्वमिति प्रश्नप्रतिविधानम् । १४२ अत्र विरोधपरिहारे वार्तिकसंवादः । १४३ अज्ञानैक्येऽज्ञानभेदे च जीवस्य नानात्वमुपदर्शितम्, बन्धमुक्त व्यवस्था च दर्शिता । १४४ तत्र जीवेऽहंकाराध्यास उपपादितः, स एवान्तःकरणाध्यासः १४५ अन्तःकरणं स्मृत्यादिपरिणतिभेदेन चित्त बुद्धि मनोsहंकार शब्दव्यपदेश्यं, तदेव चात्मनि सुखाद्याभ्यासे उपाधिः, एवं प्राणादीनां तत्राध्यास उपपादितः । ३१६ १४६ अध्यासव्यवस्थातारतम्यात् प्रेम्णस्तारतम्यम्, तत्र वित्तात् पुत्रः प्रिय इत्यादिवार्त्तिकामृत पद्य संवादः । ३११ १८ २ ३१३ १ ३१५ ३ ३१५ ५ ३१६ ३ ७ ३१७ ५ पत्र-पहिः ३१७ ३० ३१८ १ १४९ अस्य संसारस्य कथं निवृत्तिरिति प्रश्नस्य प्रतिविधानम् । १५० तत्र कश्चित् पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः साङ्गाध्ययनबलाद् वेदान्तवाक्यानामापाततोऽर्थमधिगच्छ तीत्येवं प्रतिज्ञायाध्ययनविधेः प्रश्नप्रतिविधानतो नित्यत्वमुपपाद्यार्थज्ञानस्यापातता निष्टता । १५१ तस्यापातज्ञानवतः पुरुषधौरेयस्य शुद्धान्तःकरणस्य नित्यानित्यविवेकादिलाभः, कर्मणामन्तःकरणशोधकत्वं च व्यवस्थापितम् अत्र प्रसंगात् पूर्वमीमांसाविचारोsपि दर्शितः । १५२ नित्यानित्यविवेकस्य स्वरूपमुपददर्शितं ततो जातस्य विरागस्य प्रकटनम् । ३३३ १५३ ततः शम-दम - उपरति तितिक्षा-समाधान श्रद्धास्वरूप - शमादिषट्कस्य प्रत्येकं विविक्तलक्षणमुपदर्शितम् । १५४ ततो मुमुक्षा, उक्तसाधनचतुष्टयस्य श्रवणाधिकारिविशेषणत्वम्, मुमुक्षाया एव तत्त्वमन्याभिमतमपाकृतम् । ३३३ ६ १५५ उपरतिशब्दवाच्यस्य संन्यासस्य श्रवणा ३२० १ ३२० १ ३२२ ६ १ ३३३ ३ धिकारत्वानुपपत्याशङ्काया अपाकरणम् । ३३४ ८ १५६ उकसाधनचतुष्टय सम्पन्नस्य श्रवणाधि कारित्वं निगमितम् । १५७ तस्य पुरुषधौरेयस्य विशिष्टगुरुवरानुसरणतः श्रवणादिसम्पादकत्वं श्रवणं ३३५ ७ Page #232 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समाइतो मयोपदेशः। विषयः पत्र-पतिः मननं-निदिध्यासनं चैतत्रिकं श्रवणा दिकम् । १५८ श्रवणादीनां त्रयाणां क्रमेण लक्षणा. न्युपदर्शितानि । ३३६ १ १५९ उक्तत्रयाणां मध्ये श्रवणं प्रधानं तत्त्व शाने श्रवणस्य प्राधान्ये हेतुरावेदितो विधिश्चात्र नियमाख्य उपपादितः । ३३६ ३ १६. श्रवणस्य कर्तव्यत्वावेदकं तत्स्वरूप. लक्षणावेदकं पञ्चदशीपद्यकदम्बक. मुल्लिखितम्। ३३६ १४ १६१ विधि-नियम-परिसङ्ख्यानां लक्षणोप दर्शकं विधिरत्यन्तमप्राप्ताविति पद्यमुक्तितम् । ३३७ १४ १६२ अभ्यस्तं श्रवणादि तत्त्वज्ञानहेतुः, तद्वान् पुरुषधौरेयस्तत्त्वमसीत्यादिवाक्यार्थविशुद्ध प्रत्यगभिन्नं परमा त्मानं साक्षात्करोतीति दर्शितम्। ३३८ २ १६३ तत्त्वं पदयोः सामानाधिकरण्यं न गौणं, नोपासनार्थ, न बाधीयं, किन्तु विशेषण-विशेष्यभावप्रतीत्यनन्तरं लक्षण याऽखण्डब्रह्मप्रतीतिस्तत्रेति । ३३८ ५ १६४ पदद्वयेऽपि लक्षणेय जहदजहतीति। ३३९ ४ १६५ चैतन्याद्वैतान्यथानुपपत्त्या प्रपञ्चस्य पारमार्थिकत्वाभाव इति शङ्का-समा. धानाभ्यां व्यवस्थापितम् । १६६ उत्पन्नमात्रस्येवोकात्मज्ञानस्यानन्त जन्मार्जितकर्मराशिविनाशकत्वम् , तदानी प्रारब्धकर्माविनाशान देह. नाशः, प्रारब्धकर्मप्रतिबन्धानाज्ञान-- नाशः, तस्यामवस्थायामात्मा जीव. न्मुक्त इति मीयते। १६७ जीवन्मुक्तस्य सतः प्रारब्धकर्मक्षये सशक्तिकनिरवशेषाज्ञाननिवृत्ती परम मुक्तिरिति । १६८ अज्ञाननिवृत्तिः सत्त्वासत्व-सदसत्त्व जन्यत्वानिर्वचनीयत्वपञ्चमप्रकारस्व अकः विपयः पत्र-पतिः चैतन्यात्मकत्वैरुपपादयितुं न शक्या, सर्वत्र दोषसम्भवादिति प्रश्नः । ३४१ २ १६९ अत्र तत्त्वज्ञानोपलक्षितं चैतन्यमेवा. ज्ञाननिवृत्तिरिति केषाञ्चित् समाधानस्य निराकरणम् । ३४२ २ १७. अज्ञानस्य ध्वंसो न निवृत्तिः, किन्त्व त्यन्ताभाव एवेति प्रतिविधानम् । ३४२ ६ १७१ तत्राज्ञानात्यन्ताभावबोधात्मकत्व बाधव्यतिरेकेण नास्त्येव तत्त्वज्ञानस्य साध्यम् , अत्र तत्त्वमस्यादिवाक्योस्थमिति पद्यसंवादः । ३४३ २ १७२ बाधस्त्वधिष्ठानात्मक एव तत्रेच्छा प्रयत्नयोः पुरुषार्थत्वस्य चोपपादनम्। ३४३ ५ १७३ वेदान्तिनो मुख्यसिद्धान्ते दृष्टिसृष्टि वादे श्रवणादिपरिपाकजन्मना, ज्ञानेनाज्ञानादिबाधः कथमिति प्रश्नं युक्ति. निराकरणोपेतमुपन्यस्य तत्प्रतिविधान मपि युक्त्या दर्शितम् । ३४३ ८ १७४ शब्दब्रह्माद्वैतवादिमतं वेदान्तिमतं च शुद्धद्रव्यास्तिकप्रकृतिक पर्यायार्थिकनययुक्तिभिः खण्डनीयं स्याद्वादेऽव तारणीयं चेति । १७५ अशुद्धद्रव्याथिकव्यवहाराख्यनयप्रकृ. तिक चेतनाचेतनद्रव्यानन्तरपर्यायावेदकं साडयदर्शनमित्यर्थिकैकादशो. त्तरशततमपद्यम् । १७६ तन्मतप्रदर्शनं तत्र चिद्रूपः पुरुषः कारणत्व-कार्यत्वजन्यधर्माश्रयत्वशून्यः कूटस्थनित्यः, बुद्धिगत. धर्माणां तत्रारोपः। ३४७ ९ १७७ प्रकृतिरचेतना परिणामिन्यादिकारणं, तस्याः प्रथमः परिणामो बुद्धिः, तस्या एव धर्माधर्मादयो धर्माः, ततोऽहकारः, तस्मात् पञ्चतन्मात्राण्यकादशेन्द्रियाणि, पञ्चतन्मात्रेभ्यः पञ्च Page #233 -------------------------------------------------------------------------- ________________ १४ नयामृततरङ्गिणी-तरणिभ्यां समलङ्कृतो नयोपदेशः । अङ्क: विषयः १८६ क्रमेणोपययोव्यख्यानं पद्यो स्पष्टी करणरूपम् । १८७ शुद्धाशुद्धनैगमनयप्रकृतिकं न किविन्मतं, तस्य हि सङ्ग्रह-व्यवहारयोरेवान्तर्भाव इत्युपदर्शकं सप्तदशोत्तरशततमपद्यम् । १८८ संग्रह व्यवहारनयाभ्यां पृथग्व्यवस्थापितमपि वैशेषिकदर्शनमन्योऽन्यनिरपेक्षतया स्वमताप्रहतो मिथ्यात्वमित्यावेदकमष्टादशोत्तरशततमपद्यम् । १८९ अत्र प्रमाणतया ये वयणिज्जविअप्पेति सम्मतिगाथा दर्शिता । अङ्कः विषयः महाभूतानि तत्र मूलप्रकृति र विकृति रितीश्वर कृष्णकारिका प्रमाणम् । १७८ एतेषां स्पष्टीकरणं, प्रकृतेः क्रियमाणानीति गीतावचनसंवादश्च । १७९ एतन्मतखण्डनपरं नैयायिकानां मतपदर्शितम् । १८० साङ्ख्य-वेदान्तदर्शनयोर्मन्तव्य साम्येन भेदाभावाद् विभिन्ननयप्रकृतिकत्वं न युक्तमित्यभिप्रायकाशापरं द्वादशोत्तरशततमपद्यम् । १८१ आत्मनो निर्लेपत्व-निर्गुणत्व-विभुत्वानि, अध्यासाद् व्यवहारश्च मतपपादितः । १८२ वेदान्तदर्शनेऽशुद्धत्वं साङ्ख्यदर्शने शुद्धत्वमित्याशङ्कितुरभिप्रायान्तरस्या वेदकं त्रयोदशोत्तरशततमपद्यं, तत्र साङ्ख्यमते आत्मनः कर्त्तृत्वं प्रातिभासिकं, वेदान्तिमते तव्यावहारिकनिर्वाच्यमिति भावितम् । १८३ चतुर्दशोत्तरशततमपद्यावतरणे सत्कावादित्वेन साङ्ख्यस्य न व्यवहारानुरोधित्वमिति दर्शितम् । १८४ नैगमनयेऽनुत्पत्तिपक्षो निर्युक्तौ दर्शितोऽनुत्पत्तिस्वीकर्तृसाङ्ख्यमतं नैगमप्रकृतिकं, ततो वेदान्ति- साङ्ख्यदर्शनयोः सङ्ग्रह - व्यवहारता सम्मति - दर्शिता न युक्तेति शङ्कितुरभिप्रायावेदकं चतुर्दशोत्तरशततमपद्यम् । १८५ उक्तशङ्कासमाधानपरे पञ्चदशोत्तरशततमषोडशोत्तरशततमपद्ये, तत्र वेदान्तमुख्य सिद्धान्ते दृष्टिसृष्टिवादे स्वप्नोपमं विश्वमिति व्यवहारलेशोऽपि नास्ति, साङ्ख्यशास्त्रे च नानात्मव्यवस्था व्यव हारत इत्यभिप्रायेण सम्मतायुक्त - विवेकः । पत्र-पङ्किः ३४८ २ ३४९ ३ ३५० ७ ३५१ ७ ३५१ ९ ३५२ २ ३५२ ९ ३५३ ३ ३५३ ११ पत्र-पङ्किः ३५३ १५ ३५५ ५ ३५५ १२ ३५६ ३ १९० वस्तुमात्रस्य स्वत एव सामान्यविशेषणात्मकत्वमित्यत्र स्वतोऽनुवृत्तिव्यतिवृत्तिभाज इत्यन्ययोगव्यवच्छेदद्वात्रिंशिकापद्यं संवादकमुपदर्शितम् । १९१ स्वतन्त्रद्रव्यपर्यायोभय विषयकत्वेन नैगमनयो भिन्नस्ततश्च वैशेषिकनयप्रादुर्भाव इत्युपदर्शक मे कोनविंशत्युत्तरशततमपद्यम् । १९२ सौत्रान्तिक- वैभाषिक योगाचार माध्यमिका बौद्धा ऋजुसूत्र - शब्दसमभिरूढैवम्भूतनयेभ्यः संजाता इत्युपदर्शकं विंशत्युत्तरशततमपद्यम् । १९३ सौत्रान्तिकादीनां चतुर्णां विषयभेदोपदर्शनेन स्वरूपभेदोपदर्शकं ' अर्थो ज्ञानसमन्वित' इति पथमुपदर्शितम् । ३५८ ६ १९४ वैभाषिकस्य शब्दनयपक्षपातित्वं योगाचार - माध्यमिकयोः समभिरूढैवभूतपक्षवर्त्तित्वं निष्टङ्कितम् । १९५ व्याकरण- साहित्यादिशास्त्रस्य विस्तरो नयसंयोगज:, आदित एव तत्प्रवृत्तौ नानानयविवक्षाया उपजीवनातू, मीमांसक मतस्यापि तथात्वं निर्णीतमेकविंशत्युत्तरशततमपद्येन । ३५७ १ ३५७ ९ ३५८ १ ३५८ ९ ३५९ ३ Page #234 -------------------------------------------------------------------------- ________________ • गयामृततरङ्गिणी-तरङ्गिणीतरणिया समलङ्कृतो नयोपदेशः। अडः विषयः पत्र-पतिः १९६ सम्मतिवृत्तौ मीमांसकमतस्याशुद्ध द्रव्यार्थिकव्यवहारनयप्रकृतिकत्वकथन. : स्योपपादनं, वस्तुतो नयसंयोगजत्व मेव तस्येति भावितम् । ३५९ १ १९७ शब्दादीनां नयसंयोगजत्वे कथं न स्वसमयतुल्यत्वमिति प्रश्नप्रतिविधानं वचस्तुल्यसंख्यकत्वं नयानाम् । ३६० ५ १९८ स्याद्वादनिरपेक्षैर्नयैस्तावत्सङ्ख्यका परा गमा भवन्तीत्येतस्योपदर्शकं द्वाविंशत्युत्तरशततमपद्यं, तत्र दर्शने नय योजनोपयुज्य ज्ञेयेति दर्शितम् । ३६१ ३ १९९ उक्कार्थे " जावइया वयणपहा" इति सम्मतिगाथासंवादः। ३६१ , ८ २०. आपातज्ञानस्य स्वसमय-परसमय विपर्यासफलत्वतो वस्तुस्थितिविचारे जे पज्जवेसु णिदितुति दैगम्बरवचन स्याज्ञानविजृम्भितत्वमुपपादितम् । ३६१ ११ २०१ जिनभद्र-सिद्धसेनप्रभृतीनां स्वस्व तात्पर्यविरुद्धविषये सूत्रे परतीर्थिकवस्तुवकव्यताप्रतिबन्धप्रतिपादनमपि प्रावनिकत्वक्षतिभयादन्यथोपवर्ण्य परस्परविरोधपरिहाराय प्रतिविधानं स्वकृतज्ञानबिन्दुगतं ज्ञेयमित्युपदिष्टम् । ज्ञानबिन्दुगतं प्राचां वाचामित्यादि पद्यषट्कमुल्लिखितम् । . ३६२ ३ २०२ नयोत्पादितेषु दर्शनेषु नास्त्यात्मे त्यादीनां षण्णां चार्वाकादिदर्शनानां मिथ्यात्वस्थानकत्वप्रतिपादकं त्रयो- -- विंशत्युत्तरशततमपद्यम् । ३ २०३ अस्त्यात्मेत्यादीनां पण्णां वैशेषिकादि-" दर्शनानां सम्यक्त्वस्थानकत्वं मार्गत्यागतो मिथ्यात्वस्थानकत्वं मार्गप्रेवशतः सम्यक्त्वस्थानकत्वमित्युपदर्शकं चतु विंशत्युत्तरशततमपद्यम् । ३६३ ९ २०४ अस्त्यात्मेत्यादीनां षण्णां सम्यक्त्व. अबः विषयः पत्र-पतिः स्थानकत्वे " अस्थि जिओ" इत्यादिगाथासंवादः । ३६३ १४ २०५ लतादितश्चार्वाकादिपक्षनिरासोऽवसेय इत्युपदेशः । ३६४ १ २०६ अकस्माद् भवतीत्यनुपायवादमधिकृत्य . विचारः। २०७ अकस्माद् भवतीत्यत्र पराभिमततया विकल्पितानां हेत्वभावे भवन-भवनाभाव-स्वहेतुकभवना-अलीकहेतुकभवनस्वभावहेतुकभवनानां पञ्चानां प्रकाराणां निरासे नियतावधिकत्वस्य हेतुतयो पदर्शनम् । २०८ तत्र-उदयनाचार्यस्य हेतुभूतिनिषेधो नेत्यादिवचनसंवादः । ३६४ ८ ९ आकाशत्वादीनां काचिकत्ववत् कादाचित्कत्वमपि न सहेतुकत्वस्य साधकमिति प्रश्नस्य प्रतिविधानम् ३६५ १ २१० कादाचित्कत्वस्य हेतुं विनैव घटादि स्वभावत्वमस्त्विति प्रश्नस्य समाधानम् । ३६५ ३ २११ एतद्विषये कुसुमाजलावुदयनाचार्योक्ति रुल्लिखिता। २१२ सन्त्ववधयो न त्वक्षन्त इति प्रश्न प्रतिविधानम् । २१३ कार्यकारणभावस्य प्राहकप्रमाणाभावादसिद्धिरिति परमतप्रश्नः। ३६६ २१४ परोपदर्शितव्यभिचारशङ्काविधूननेन कार्यकारणभावग्राहकप्रमाणव्यवस्थाप नेन परप्रश्नप्रतिविधानम् । ३६७ २ २१५ अनन्यथासिद्धनियतपूर्ववर्तित्वलक्षण कारणत्वस्य वहन्यादौ व्यवस्थापनम् । ३६७ ५ २१६ कुसुमाजल्यादावनुमानागमप्रामाण्यस्य व्यवस्थापितत्वम् । ३६७ ८ २१७ कुसुमाजलावनुमानप्रामाण्यव्यवस्था पकः " शङ्का चेदनुमानस्यास्त्येव" इत्यादिप्रन्थोऽत्रोदृङ्कितः । ३६७ ३४ Page #235 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलवृतो नयोपदेशः । अङ्कः विषयः पत्र-पतिः २१८ अनुमानस्य प्रामाण्ये तत एव शब्दस्य प्रामाण्यसिद्धावप्यनुमान एव तस्यान्तर्भाव इति वैशेषिकमतं सम्यग् निरुच्य शब्दस्य प्रमाणान्तरत्वव्यवस्थापनेन तत्प्रतिक्षेपप्रतिपादकः कुसुमाजला वुदयनग्रन्थ उल्लिखितः। ३६८ १० २१९ तत्रान्याभिताकालानिर्वचनमनेकप्रकार मपाकृत्य स्वाभिमतमाकासास्वरूपं निष्ट. कितम् । ___३६८ १२ २२. प्रत्यक्षमेवैकं प्रमाणमित्यभ्युपगच्छतश्चार्वा कस्य मतमुपपाद्य तत्प्रतिक्षेप्रपरः कुसु. माजलावुदयनग्रन्थ उदृङ्कितः । ३६९ २४ २२१ अवच्छेदकरूपानुपस्थितौ कथमवच्छेद्य. कारणताग्रह इति प्रश्नस्य प्रतिविधानम् । ३७० । २२२ अन्वय-व्यतिरेकग्रहाप्रकारतृणादिजन्य वह्निगतवैजात्यत्रयेण गौरवकरण कार्यत्वकल्पनं नोचितं किन्तु लघुभूतया तृणारणिमण्येतस्त्रितयानुगतशक्त्यैकयैव तृणादीनां कारणत्वकल्पनं युक्तमिति प्रश्नप्रतिविधानम् । २२३ तृणादेः फूत्कारादिसहकारिनियमोप पत्तये तृणफूत्कारादिसंयोगेष्वेव शक्ति रिति शङ्काया निराकरणम् । ३७१ २ २२४ वह्नौ जातिभेदस्यानुभविकत्वेन तत्तद वच्छिन्ने तृणत्वादिना कारणत्वमित्युदयनमतं वह्नित्वावच्छिन्ने विलक्षणोष्णस्पर्शवत्तेजः कारणमिति नव्यमतं च दर्शितम् । २२५ उदयनाचार्यमतस्य सम्यगवगतये कुसु. माजलौ तद्न्थ उल्लिखितः ३७१ २४ २२६ वह्नित्वावच्छिन्ने विलक्षणोष्णस्पर्शवत्तेजः कारणमिति प्राचीननैयायिकमतमेवं भवितुमर्हतीत्यर्थोपोद्वलनायोदयनप्रन्थ उदृङ्कितः, मूल ग्रन्थे उपस्थितविरोधपरिहाराय छेदपाठभेदाद्याश्रयणं च। ३७१ ३४ अङ्कः विषयः पत्र-पतिः २२७ नव्यनैयायिकमते वहौ तेजस्त्वेन कारणत्वं ड्यणुकात्मकवह्नौ तृणत्वादिना कारणत्वमित्युपदर्शितम् । ३७५ । २२८ क्वचिदेकान्तेन क्वचिच्च विकल्पेन कारणत्वमित्यायुपसंहृतम् । ३७२ २२९ अनुपायवादो न श्रेयानित्येवं नैया यिकमतमुपसंहृतम् । २३० प्रक्रान्तविषये जैनमतस्योपदर्शनं, तत्र तन्तोरेव पटो न कपालादेरिति कुत इति प्रश्ने स्वभावादेवेति यदुत्तरं तत्र प्रश्नोत्तरे किं हेतुविषये इत्यादि विकल्प चतुष्टयस्य दूषितत्वम् । ३७२ ५ २३१ तत्तत्प्रकारकेश्वरेच्छाज्ञानरूपायानियते नियामकत्वं निराकृतम् । ३७३ २ २३२ स्वभावः स्वहेतुस्तस्मात् प्रतिनियतधर्मा वच्छिन्नोत्पाद इत्येव स्वभावादेवेत्यस्यार्थो जैनानां समुचित इति स्पष्टीकरणम् । ३७३ ३ २३३ अयमेव च जैनानां तथाभव्यत्वहेतुता. वादः, तदनभ्युपगमे तीर्थकरसिद्धादि कार्यभेदोपपादनमशक्यमिति । ३७३ ५ २३४ तथाभव्यत्वस्य कार्यतावच्छेदकत्वे चैत्रा वलोकितमैत्रनिर्मितनीलेतरघटत्वादिनाअर्थसमाजसिद्धेनापि कार्यता स्यादि त्याशङ्काया इष्टापत्त्या परिहारः। ३७३ ७ २३५ घटत्वाद्यवच्छेदेन दण्डादिकार्यत्वस्या भ्युपगमेन प्रवृत्यादिव्यवहारस्योपपत्तिः, परेणाप्यर्थसमाजसिद्धन स्वाव्यवहितो. त्तरानुमितित्वादिना परामर्शादिकार्य ताऽभ्युपगम्यत इति । ३७४ १ २३६ धारावाहिकस्थले कार्यककालत्वनिरा साय कालस्य तत्तत्क्षणत्वेन कार्यकदेश्यनिरासाय देशस्य तत्तद्देशत्वेन च कारणताऽपि स्वीकार्येति । ३७५ १ कालधर्मानुप्रवेशेन ऋजुसूत्रनयेन स्वभावनियत्योापारस्यावश्यास्वीकरणीयत्वं, । Page #236 -------------------------------------------------------------------------- ________________ नयाम्रुततरि अ विषयः सामान्यतः काल हेतुतायाः प्रागभावसमवायिकारणविघया स्वभाव नियतिहेतुतायाश्च प्रवादस्य संग्रहनयाभिप्रायेणैव समर्थनं शक्यमिति । २३८ देशतया कालतया चैकस्यैव हेतुत्वं लाघवादिति संग्रहमतमयुक्तमित्येवम्भूतनयाभिप्रायेण तादृगवस्थं तथाभव्यत्वमेव तादृशतत्तत्कार्यजनकम् । २३९ उक्तातिविशेषकार्यकारणभावेऽसिद्धसाध्यविशेषार्थं साधनविशेषे प्रवृत्त्यनुपपत्त्याशङ्काया निराकरणम्, तत्र कार्यकारणभावो व्याप्तिविशेषः, स च सामान्यतो विशेषतश्च तत्र क्वचिद्दुत्वेन विशेषव्यातेरनुमित्यप्रयोजकतया सामान्यावच्छिन्नव्याप्यन्तरप्रहो यथा कारणं, तथा सामान्यावच्छेदेन कारणताप्रहः प्रवृत्यर्थमिति । २४० प्रतिव्यक्ति विशेषकारणत्वे गङ्गशोपाध्यायसम्मतिः । २४२ सकलनयदृष्ट्या सिद्धान्तसिद्धा पञ्चकारणी सर्वत्र संगता, तत्र " कालो सहावणियई ” प्रमाणीकृता । इति सम्मतिगाथा २४३ तथाभव्यत्वकारणेनैकेनैवोपपत्तौ तदि ङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । अङ्कः विषयः "6 २४४ उक्तार्थे 'तह भव्वत्तं " इत्यादि हरिभद्र सूर्युक्तपद्यद्वय संवादः । पत्र-पक्तिः ३७५ ५ ३७६ १ २४१ तत्तद्व्यक्तिविशेषावच्छिन्नकार्यकारणभावे ऋजुसूत्रनयस्य प्रवृत्तिः सामान्यावच्छिन्नकार्यकारणभावे व्यवहारस्य च प्रवृत्तिः, " जो तुलसाहाणमित्याद्यागमोपपत्तितो व्यवहारे पुरुषकार- दण्डादीनामपि हेतुत्वमिष्टमिति । ३७६ ३ ३७७ ४ ३७७ ५ ३७७ . तरकारणानामन्यथासिद्धिरित्याशङ्काया निराकरणम्, तत्र " जं जहा भग "" वया इति भगवद्वचनसमन्वयः, तथापदेन सर्वकारणोपसंप्रहश्च । ३७८ ३ पत्र-पङ्क्तिः २४५ सर्वत्र कार्ये देव- पुरुषकारोभयव्यापारे किश्चिद् दैवजन्यं किञ्चित् पुरुषकारजन्यमिति विभागस्य कथमुपपत्तिरिति प्रश्नप्रतिविधानं तद्व्यवस्था द्वात्रिंशिकाप्रकरणादौ मयैव कृतेति दर्शितम् । २४६ उक्तविभागे यथा जन्यतावच्छेदकजातिसाङ्कर्यादिदोषो न भवति तथा प्रश्नोत्तराभ्यां भावितम्, तत्र जो दिव्वेण " इत्यादि हरिभद्रसूरिपद्यद्वयपदर्शितम् । २४७ यत्र भोजका दृष्टेन भोजनं भोक्तृव्यापारं विनैवोपनामितं तत्र भोक्तृयत्नस्यानुत्कटोsपि क इव व्यापार इति प्रश्नस्य प्रतिविधानं, पुष्वकयं कम्मं चिय" इत्यादि हरिभद्रसूरिपद्यद्वयं प्रमाणतयोपनिबद्धं, स्वस्य तद्याख्यानं च स्वकृताध्यात्ममतपरीक्षायामिति । तत्र " १७. ३७८ . ३७८ ११ ३७९ २ ३८० * २४८ पञ्चकारणीनये हेतुद्वयनये वा देववत् पुरुषकारस्य कार्यमाश्रहेतुत्वान्मोक्षेऽपि हेतुत्वमिति निगमितम् । २४९ पुरुषकार प्रन्थिभेदानन्तरं दैवं बाधित्वा स्वातन्त्र्येण प्रवर्त्तमानो मुमुक्षोर्मोक्षं जनयति, तेन चारित्रक्रियाया व्यभिचारोपदर्शनेन युक्तयन्तरेण च न मोक्षोपायवादो ज्यायानिति परमतस्य निरसनं पुरुषकारविशेषस्य नियतहेतुत्वव्यवस्थापपनेन । २५० पूर्वं निर्गुणस्य सतः सम्यक्त्वादिप्राप्तौ किं तदनन्तरं नानाविधगुणोपायान्वेषणेनेति मतस्य निराकरणम् । २५१ सकलशिष्टेकवाक्यतया यम-नियमादौ ३८१ * ३८१ ५ ३८२ २ Page #237 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समहतो नयोपदेशः । ५ . अङ्कः विषयः पत्र-पतिः मुमुक्षोः प्रवृत्तिरेव मोक्षोपायत्वे मान मित्यत्र “विफला विश्ववृत्तिों " इत्युदयनवचनसंवादः। ३८२ २५२ उक्तपद्यार्थस्पष्टाधिगतये उदयनाचार्यप्रन्थ उल्लिखितः। ३८२ २५ २५३ अनुपायवादः षष्ठं मिथ्यात्वस्थान मोक्षोपायवादं च सम्यक्त्वस्थानमिति निगमितम् । ३८३ १ २५४ नास्तित्वादिवादानां षण्णां मार्ग त्यागान्मिथ्यात्वस्थानत्वं अस्तित्वादिवादानां षण्णां मार्गप्रवेशात् सम्यक्त्वस्थानत्वमिति । २५५ स्याद्वादमुद्रया परम्पराकाङ्क्षारहिताः सर्वेऽपि नया मिथ्यात्वमित्येतदर्थक पञ्चविंशत्युत्तरशततमपद्यम् । ३८३ ७ २५६ धयंशे चार्वाको नास्तिकः, धर्माशे . सर्वेऽपि परतीथिका नास्तिका इत्यु पदर्शकं षइविंशत्युत्तरशततमपद्यम् । ३८३ १२ २५७ मार्गप्रवेशतः क्रियावादे सम्यक्त्वोक्तिः, मार्गत्यागतोऽज्ञानाक्रियाविनयवादिषु मिथ्यात्वोक्तिरित्युपदर्शकं सप्तविंशत्यु त्तरशततमपद्यम् । २५८ क्रियायां मोक्षेच्छयाऽऽवेशो मार्गानु सारितास्थैर्याधायक इत्युपदर्शकमष्टा विंशत्युत्तरशततमपद्यम् । ३८४ १५ २५९ अक्रियावादतः क्रियावादस्य मुख्यता प्रतिपादकं दशाचूर्णिगतं "जो अकि. रियावाई " इत्यादिवचनं दर्शितम् । ३८५ ३ २६० क्रियावाद्यादीनां त्रिषष्टयधिकशतत्रय भेदप्रतिपादिकां "असियसयं किरियाणं " इति नियुक्तिगाथामुद्भाव्य तद् व्याख्यानं दर्शितम् । ३८५६ २६१ तत्र क्रियावादिनोऽशीत्युत्तरशतभेदा जीवादिनवपदार्थान् पट्टिकादौ लिखित्वा परिपाट्याऽधोऽघोव्यवस्थापनेन विभाविताः। अहः विषयः पत्र-पतिः २६२ अक्रियावादिनां चतुरशीतिम॑दाः, तत्र केषाश्चित् "क्षणिकाः सर्वसंस्काराः" इति पद्यमुद्भावितम् । . ३८६ ८ २६३ तेषां चतुरशीतिप्रकाराणामधिगमोपाय. प्रपश्चनम् ।- ---- ३८७१ २६४ निषेधगर्मभेदादभिलापासम्भवप्रश्न उद्भाव्य समाहितः । ३८८ ४ २६५ अज्ञानिकानां सप्तषष्टिर्भेदा विभाविताः । ३८९ १६६ उक्तसप्तषष्टिभेदप्रकाराधिगमोपायो दर्शितः। २६७ वैनयिकानां द्वात्रिंशद्भेदा उपदर्शिताः, तेषामवगमोपायप्रकारो व्यावर्णितः । ३९१ ७ २६८ पाखण्डिकानामेतेषां सर्वसङ्ख्यया त्रिष यधिकानि त्रीणि शतानि निगमितानि, एतत्संवादकतया "आस्तिकमत आ त्माद्या' इत्यादिपद्यचतुष्टयमुपदर्शितम् । ३९२ २ २६९ स्वरूपेणात्माऽस्त्यवेत्यादिनयवादिना जैनानां पाखण्डित्वप्रसङ्गाशङ्कायाः परिहारः, तत्रकान्तेन षदकायश्रद्धाने सम्यक्त्वाभावावेदिका “णियमेण सद्द हन्तो" इति सम्मतिगाथोद्भाविता । ३९२ ११ २७० उक्तसम्मतिगाथाया व्याख्यानं, तत्र सम्मतिटीकाकृतामुक्त्युकिनपुरस्सरमाशयोपवर्णनम् । ३९३ १ २७१ क्रियानयः क्रियायामुक्तिकारणत्वं .. ब्रवीति, ज्ञाननयो ज्ञानस्येत्युपदर्शक. मेकोनत्रिंशदुत्तरशततमपद्यम् । ३९५ ५ २७१ क्रियेव फलदा न ज्ञानं फलदमिति क्रियाप्रशंसापरं त्रिशदुत्तरशततमपद्यम्। ३९५ ७ २७२ ज्ञानस्तुतिपरमेकत्रिंशदुत्तरशततमपद्यम्। ३९५ २७३ ज्ञान-क्रिययोस्तुल्यकक्षत्वावेदकं १३२ १३३.१३४-१३५ इत्यचतुष्टयसम्मित पद्यचतुष्टयम् । ३९५ ११ २४ तुर्यगुणस्थानभाविक्षायोपशमिकज्ञानं फलार्थ षष्ठगुणस्थानजसंयममपेक्षत इत्यावेदकं षत्रिंशदधिकशततमपद्यम् । ३९५ १९ चिर. Page #238 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समतो नयोपदेशः । भर विषयः पत्र-पतिः अबः विषयः पत्र-पशिः २७५ सर्वगतिषु ज्ञान-दर्शने सम्भवतः, तत. याणामाशयस्योपदर्शनं, तत्र कर्मश्वारित्रवर्जिते झाने प्रमोदो न विधेय तत्त्वज्ञानयोः स्वतन्त्रयोर्मोक्षं प्रति इत्यावेदकं सप्तत्रिंशदधिकशततमपद्यम् । ३९६ १ कारणत्वं न तु तत्त्वज्ञानं कर्मणो २७६ केवलज्ञानं पूर्ववृत्तमपि शैलेश्यवस्थाs व्यापार इति विस्तरतः समुच्चयवादो वाप्तशुद्धसंयमसहकारेणैव मुक्तिप्रदमि निष्टखितः। ३९६ २१ त्यावेदकमष्टत्रिंशदुत्तरशततमपद्यम्। ३९६३ २८४ अत्र प्रश्नप्रतिविधानोपोद्वलकतया २७७ व्यवहारनये त्रयाणां तपो-ज्ञान संय 'नित्यनैमित्तिकैरेव' इति, 'अभ्यासात् मानां मुक्तिहेतुत्वं, शन्दर्जुसूत्रषु नयेषु पकविज्ञान' इति, 'अन्धं तमः केवलस्यैव संयमस्य मुक्तिहेतुत्व प्रविशन्ति' इति, 'मोक्षाश्रममित्युपदर्शकमेकोनचत्वारिंशदुत्तर चतुर्थो वै ' इति, 'संन्यस्य सर्वशततमपद्यम् । कर्माणि' इति, 'काम्यानां कर्मणां २७८ जीवः सर्वदेवमुक्तः, किन्त्वनवाप्ति न्यास ' इति, 'विद्या चाविद्यां च' भ्रमान्मुक्त्यर्थ क्रिया क्रियते, ज्ञानार्जनेन इति, ‘तमेव विदित्वा' इति, 'स्वे विभ्रमत्यागेन चात्मनो नोपचयापचयौ स्वे कर्मण्यभिरतः' इति, ' तस्मात् भवत.इति संग्रहनयमतावेदके १४० तत्प्राप्तये' इति, 'उभाभ्यामपि १४॥ इत्यङ्कमिते पद्ये। ३७६ ७ पक्षाभ्यां' इति, 'सत्येन लभ्य' २७९ परस्परविभिन्नमार्गगानामपि नयानां इति, परिज्ञानाद् भवेन्मुक्तिः ' इति, द्रव्य-क्षेत्र-काल-भावेषु मध्ये भावे 'ज्ञानं प्रधानं ' इति, 'न्यायागवत्वैकमयं सर्वनयमयस्याद्वादप्रमाण धनः' इत्यादिश्रुति-स्मृति-पुराण-गीतापरिनिष्ठितश्चारित्रगुणलीनो भवेदित्यु वचनान्युपदर्शितानि । ३९८ २ पदेशश्च द्विचत्वारिंशदुत्तरशततम २८५ तत्त्वज्ञानमेव मुक्तौ कारणं, कर्म तु पद्येन दर्शितः। ३९६ ११ दुरितनिवृत्तिद्वारा तदङ्गमित्यभ्युपगन्त्र्यु२८. प्रवचनं सर्वत्र नयौघसम्बलितमिति दयनाचार्यानुसारिणां मतमुपदर्शितम् । ४०४ १ नयान् स्थाने योजयन् शिष्यानपि . २८६ स्वतन्त्राणां मतमावेदितम् । ४०५ ६ तत्परिनिष्ठितां कुर्वन् बुधो यकः २८७ दुःखसाधनध्वंस एव मोक्षः, तत्र ज्ञानश्रियाऽऽलिहितो भवत्येवेत्युपदेशपरं कर्मगोवैजात्येन मुमुक्षुविहितत्वादिना ... त्रिचत्वारिंशदुत्तरशततमपद्यम् । ३९६ १३ वा तुल्यमेव हेतुत्वमिति स्याद्वादिनां । २८१नयोपदेशविधातुरुपाध्यायस्य स्वपरि मतमुपदर्शितम्, तत्र नैयायिकादिचयाववोधकं चतुश्चत्वारिंशदुत्तरशत मतमपाकृतम् । तमं प्रशस्तिपद्यम् । ३९६ १५ २८८ ध्वंसे सामान्यधर्मावच्छिन्नप्रतियोगिता२८२ ज्ञान-कर्मसमुच्चयवादे स्व-परसमय कत्वाभ्युपगन्तुरभिप्रायो दर्शितः । ४०८ ३५ विचारप्रकटनं, तत्र विप्रति २८९ तत्त्वज्ञानस्य कर्मनाशहेतुत्वे समुद्घातापत्युपदर्शनं च । धिकारे “णाऊण वेयणिज" इति . २८३ तत्त्वज्ञानरूपण्यापारमन्तरेणैव तीर्थ- : नियुक्तिवचनं प्रमाणतयोपदर्शितम्। ४१२ ३ विशेषस्नानादिकर्मणां मोक्षं प्रति २९. दोषपक्किमतिज्ञानादित्यादिवचनेन यत् . कारणत्वमित्यभ्युपगन्तृणां भास्करी. केवलज्ञानस्याकिश्चित्करत्वमुकं तदोष Page #239 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। अङ्कः विषयः पत्र-पक्तिः पक्तिरूपकार्यापेक्षया, न तु पक्कानां भवोपप्राहिणां क्षपणरूपकार्यमाश्रित्येति प्रपञ्चितम् । ४१२ ७ २९१ विभिन्न विषयाभ्युपगमप्रकारोपष्टम्भक तया स्वरूपशुद्धिग्राहकनय-फलशुद्धि. प्राहकनया-ऽनन्तरकारणग्राहकनयाऽऽक्षेपकारणग्राहकनय-मुख्यैकशेषनयपुमर्थप्राहकनय-परमभावप्राहकनय-कारकसम्यक्शरीरनिर्वाहकत्वनय-सम्यक्रिया. शरीरनिर्वाहकत्वनय-ज्ञाननाशव्याप्यनाशप्रतियोगित्वग्राहकशुद्धनय-व्यापारप्राधान्यप्राहकक्रियानय र्दशनप्राधान्यप्राहकज्ञान. नयानां क्रमेणोपदर्शनम् । २९२ कुर्वद्रूपत्वनये शैलेश्यन्तक्षणभाविचारित्र मेव मुक्तिकारणमित्याशङ्काया निराकरणम् । ४४ २ २९३ चारित्रक्षणस्य मुक्तावुपादानत्वेन हेतु. त्वमित्यस्यायुक्तत्वव्यवस्थापनम् । ४१४ ४ ९९४ शन्दर्जुसूत्रनयानां मुक्ति प्रति चारि. त्रस्यैव कारणत्वमित्यर्थकस्य "सहुग्जु. सुआणां" इति नियुक्तिवचनस्य कथ मुपपत्तिरित्याशङ्काया निराकरणम्। ४१४६ १९५ क्रियाया अपि मुक्ति प्रतिहेतुत्वव्यव स्थापनेन तत्त्वज्ञानमेव मुक्तिहेतुरिति मिथ्यादृष्टिमतस्य निराकरणम् , तत्र मिथ्याज्ञानोन्मूलने तत्त्वज्ञानवत् क्रियाया अपि हेतुत्वं व्यवस्थापितम्। ४१५ २ २९६ उक्काथै वासिष्ठगतस्यासुरवचनस्य "तण्डुलस्य यथा चर्मेत्यादिवचनस्य संवादफलतयोपदर्शनम् । ४१५ ८ २९७ ज्ञान-कर्मणोर्मुक्तौ तुल्यतया युगपदेव हेतुत्वतः समुच्चयपक्षस्य निगमनम् । १५ १. अङ्कः विषयः पत्र-पतिः ॥ अथ प्रशस्तिः ॥ २९८ तत्र नयोपदेशटीकेयमित्यादिभिः श्लोकैः ... पञ्चभिः समूलाया नयामृततरङ्गिण्याः स्तुतिः। २९९ लौकिकबोध-नयबोध-प्रमाणबोधानां क्रमेणैतग्रन्थप्रभवाणां प्रथमत इत्यादिषष्ठ-सप्तमश्लोकाभ्यां वैचित्र्योपवर्णनम् । ३०० त्रिभिरुक्तबोधैर्लोकोत्तरमार्गद्वयपरि ज्ञानत इहलोकपरलोकभयनिवृत्तिः, शब्दस्य विरम्य बोधकत्वं चोपपत्ति. मदित्यष्टमपद्येन दर्शितम्। ४१८ १ ३०१ शब्दजन्यबोधविषयनियमनं शब्दस्य तत्परत्वतो भवति, तेन तात्पर्यशतदज्ञपुरुषयोः शाब्दबोधभेद इत्यु. पदर्शकं नवमं पद्यम् । ४१८३ ३०२ शुकोच्चरितवाक्ये उच्चारयितुः शुकस्य तात्पर्याभावेऽपि ततः शब्दबोधोत्पादेन व्यभिचारेण तत्परत्वज्ञानं न तत्र कारणमित्याशङ्कानिराकरणपरं दशमं पद्यम् । ३०३ यत्र वक्तुः शुकादेस्तात्पर्य नास्ति तत्रापि तदध्यापकस्य सर्वज्ञस्य वा तात्पर्य ज्ञात्वा शाब्दबोधः, तत एव चाप्रमाणेऽपि वाक्ये प्रामाण्यं सम्यग दृशां मतमित्युपदर्शकमेकादशपद्यम् । ४१९ । ३०४ तात्पर्यज्ञानस्य कारणत्वादेव सम्बक् श्रुतस्य मिथ्यार्थे मिथ्यादृष्टस्तात्पर्यप्रहतोऽप्रमाजनकत्वादप्रामाण्य , मिथ्याश्रुतस्यापि सम्यग्दृष्टेः सम्यगर्थे तात्पर्यग्रहतः प्रमाजनकत्वात् प्रामाण्य मित्यावेदकं द्वादशपद्यम् । १९१ ३०५ भ्रतार्थविषयकज्ञानजनकत्वेन लौकिक वाक्यानामपि प्रामाण्य, सप्तभनात्मक । Page #240 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलईतो नयोपदेशः। २१ अहः विषयः पत्र-पतिः वचनं पुनस्तात्पर्यार्थे प्रमाणमेवेति प्रतिपादकं त्रयोदशपद्यम् । ३.६ श्रुतं स्वतो नाप्रमाणं नवा प्रमाणं, किन्त्वर्थापेक्षया प्रमाणमप्रमाणं वेति कल्पभाष्योकमपीत्थमेवोपपत्रमित्यवबोध चतुर्दशपद्यम् । ४१९ ४ ३०७ शास्त्रशरीरसनिविष्टतयैव तात्पर्यापेक्षा नया एकस्वभावा व्यवस्थापिताः, विचित्र तत्स्वरूपतराप्रभवः खलु समयात्मकसमुद्रे विचित्रज्ञानप्रभेदलक्षणो विवर्तः, निस्तरमत्व-परमसुखमयत्व-सर्वाति. शायित्वस्यापि ज्ञानस्वभावत्वैकरसं ब्रह्म तयुष्माकमनल्पसङ्कल्पजालं दह स्वित्यभीष्टचिन्तनपरं पञ्चदशपद्यम् । ४१९ ५ ३०८ पराभीष्टचिन्तनमेतद्वन्थाभ्यासत उपदर्य ब्रह्मलक्षणात्मनः सकाशात् तद्विशिष्टो. स्कृष्टस्वरूपदर्शनात्मकस्वाभीष्टावाप्तिपरं षोडशपद्यम् । " गच्छे श्रीविजयादिदेवसुगुरोः " इत्यादिपस्त्रिभिः स्वगुरुपरम्पराप्रकृष्टगुणप्रामस्मरणलक्षणान्तिममङ्गलपुरस्सरं प्रन्थस्यास्य पण्डितसमष्ट्यामोदप्रदत्वा. भिकालणम् । अहः विषयः पत्र-पतिः ॥ अथतरङ्गिणीतरणिप्रशस्तिः ॥ ३१. स्वप्रन्योत्तरकालावस्थानप्रतिबन्धकदुरित निवृत्तये गुरुप्रवर श्रीनेमिसूरीश्वरस्तुतिलक्षणमन्तिममङ्गलम् । ४२१ २ ३११ स्वीयकीर्युत्तरकालावस्थाननिदानस्व नामोल्लेखगर्भासंशितबुधानन्दफलस्वर. चितव्याख्याकीर्तनम् ४२१ ४ ३१२ एतस्कृतिदोषमार्जनं करिष्यन्ति बुध प्रवरा इति दर्शितम् । ३१३ दोषैकदृष्ट्युपक्षिप्तदोषोऽप्यत्रानेकान्तेऽ. - दोष एवेति भावितम् । ४२१ ८ ३१४ सापेक्षभावे आहार्यदोषदानमपि गुणायैवेति दर्शितम् । ४२११० ३१५ इयं कृतिविशिष्टोपाध्यायकृतियथा. वद्याख्यानासमऽपि स्वकर्तुर्मम नयपरिशीलनपरेति न निष्फलेति दर्शितम् । ४२१ १२ ३१६ अतः परमादित आरभ्यान्तपर्यन्तं मन्थागतानामशेषाणां विषयाणामनुक्रमणिका पद्यकदम्बेन दर्शिता। कृते रस्याः कल्पान्तस्थितिश्चाभ्यर्थिता ॥ ४२१ १४ ॥ इति विषयानुक्रमणिका समाप्ता ॥ - Set<-- Page #241 -------------------------------------------------------------------------- ________________ हाराये | कत्व नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतस्य नयोपदेशस्य शुद्धयशुद्धिपत्रम्। अशुद्धम् शुद्धम् पत्र-पतिः अशुद्धम् शुद्धम् पत्र-पतिः अशुद्धम् शुद्धम् पत्र-पतिः व्युत्पात्त व्युत्पत्ति १८६-६ ) येनं येन २१४-१८ | धिकारणा धिकरणा. २२५-११ उक्तति उक्ताति १८६-१४ | जन्य जन्य- २१४-२८ | रवानीति रवामीति २२६-२० व्युत्पत्त व्युत्पत्ति १८७-१५ यत्र यत्र २१४-३० | मप्रेऽपि मग्रेऽपि, २२६-२६ कत्रि कत्रि १८७-१७ | श प शःप २१६-७ तयेत्यर्थः २२६-३२ हारये १८८-२ विशेषत्वस्यापि विशेष रूढोऽयं रूढो यं २२७-२० कलये कलाये १८८-१७ विषयत्वस्यापि २१६-२२ | मृत्वा मृत्त्वा २२९-१५ शकिपद शक्तिमत्पद १९२-२८ । बुद्धिविषयत्वस्य बुद्धिविशेष समा सामा २२९-10 एतर्थ एतदर्थ १९३-७ विषयत्वस्य २१६-२७ कत्व- २३०-१० संकारा संस्कारा १९३-१४ पञ्चाख्यागुणितां पञ्चसङ्ख्या वृत्त्येव वृत्त्येव २३०-१३ त्वं चेत् गच्छसि त्वं गच्छसि १९४-२० गुणितां २१६-२४ | कारकत्वादिना कारत्वादिना २३०-३६ बाधत् बाधात् १९४-३५ | इत्यने इत्यने- काले २१६-२८ काले- २३१-१ विशेषतया विशेषणतया १९७-२८ तस्या तस्याः २१७-१५ द्वयं । द्वयम् । २३१-३ कान्व बोधो कान्वयबोधो १९८-२५ ऋजुसूत्रे ऋजुसूत्रो २१७-२४ प्रतीति २३१-११ पङ्कजस्या पङ्कस्या २०१-१० ज्ञातत्व शतत्व २१७-२७ त्यर्थः । २३२-३१ प्रत्ययभावे प्रत्ययाभावे २०१-३ काडावाक्यात् काडवाक्यात् २१८-२७ गतिमवृति गतिर्भवति २३३-१९ योगारूढ योगरूढ २०२-१८ निषेध हे निषेधहे २१९-२६ संसर्गबोधे- संसर्गबोधे त्ववयवार्थ २०२-२४ त्वययार्थ स्यात्- २१९-२९ न्वयबोधे - २३५-९ स्याने स्थाने २०४-२० प्रदशे प्रदेशे २२०-२९ इत्यादशङ्कते इत्याशते २३५-२६ पुरल २०५-७ | योग स विधेयताया, विधेयता, पुद्गल २२१-१७ योगः स २३६-२१ स्तस्य स्तस्या अन्याय्यास्वात् अन्याय्यत्वात् २०५-१८ २२१-२१ संयोग संयोग- २३७-२० सम्बन्धि सम्बन्धि पद २०५-२२ र्भावाभावयो २३७-३३ पद- २२१-३४ जात्यन्त्यन्त- जात्यन्त. देशवृत्ति देशिवत्ति स्वावाच्छिन्न त्वावच्छिन्न २०५-३१ २३८-१३ तत्र जीव तत्राजीव २०६-१६ र्गतस्य गैतस्य २२२-१२ | वसति सं वसति न सं २३८-२० नोअजीव नो जीव २०६-२५ लाघववा लाघवा २२२-२३ । शब्दानया शब्दनयाः २३९-४ दिनात् दिना,त २०८-१२ शूद्र पदत्वं स्वप्रदेशवेव स्वप्रदेशेष्वेव २३९-५ शुद्ध परत्वं २२२-२३ समुद्र समुदे २१०-३४ बाह्यत्वा निपादीयेति निषादीयेति २२२-२४ बाह्यतत्त्वा २४०-१३ लक्षम् लक्षणम् २११-११ | कर्तृकत्वस्या कर्तृकत्वस्य २२२-२७ भेदाभ्युप मेदानभ्युप २४०-१८ मेक मेक- २११-१४ | स्यप्य स्याप्य २२३-२६ / शि। इति शिष्य इति २४१-११ न्त्यलक्षण न्त्यक्षण २१२-८ | स्य यत्र कारणत्वंस्य कारणत्वं २२३-३२ | गुरु शिष्यश्च गुरुः शिभ्यश्च २४१-३० पादाविव पादावेव २१३-३२ । नत्वस्मि नत्वन्यस्मि २२४-३१ व्यापरत व्यापारत २४२-७ न प्रतेति त्यर्थ । स्यात् वियो Page #242 -------------------------------------------------------------------------- ________________ योग करणे नो। नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समाहतो गयोपदेशः । २६ अशुद्धम् शुद्धम् पत्र-पतिः अशुद्धम् शुद्धम् पत्र-पतिः अशुद्धम् शुद्धम् पत्र-पतिः वायं वायर्थ २४२-९ | सविषये स्वविषये २५७-२९ | स्मृतितिरिति स्मृतिरिति २७९-९ योग- योग- २४३-१४ विशेषविविके विशेषविवेके २५८-२४ वाधित्वात् वाधितत्वात् २७९-२६ योग २४३-१८ नामनिक्षेप भावनिक्षेप २६०-१५ समानसंविद्य- समानसंविऐदम्पर्यायार्थ ऐदम्पर्यार्थ २४३-३१ कारणे २६१-१३ तय संवेद्यतया १८०-१९ ऐंदम्पर्यायार्थ ऐदम्पर्यार्थ २४४-२४ रवधूता रवधूता २६१-१८ | दनिष्ठा दनिष्टा २८०-२८ णान्युगीनानां णान्य लादान्तर लादवान्तर २६१-२३ । परात्मैवं परात्मेत्येवं २४१-१० युगीनानां २४५-१८ रन्तर रनन्तर २६३-२५ पीत्यपि ना ती पीत्यपिना ती २८१-३१ प्रेतार्थमेव प्रेतार्थमव २४५-३१ कर्तृम कर्तुम २६४-१ पद्यते त्यत पद्यतेत्यत २८४-८ मिज्ञानाभिज्ञ भिक्षानभिज्ञ २४६-१३ शक्येमेत्याह शक्येत्याह २६४-२ मायाच्छदित मायाच्छादित २८३-१९ अत्य अत्य- २४६-२० तयैषषा भवसम्बन्धी भवसम्बन्धी २६४-७ तयैषा तदावरणे २८४-२५ तदाबरणे २४८-३३ तदन्तर तदनन्तर २६४-२७ शक्यक्रिया- शक्यक्रियविषय-ऽस्व विषय-स्व १४९-२१ त्वात् व्यावहारेण स्वात् २८७-२७ प्रणिधि- २४९-२५ प्रणिधि व्याहारेण २६६-२१ कस्मिन्नैव कस्मिन्नेव २६७-६ दवेस्य देवस्य २८७-२९ नः। २४९-२८ वस्तुत्वे स्त्येवत्यत स्त्येवेत्यत २८८-१४ यश्चान्य वस्तुत्वं यश्चान्या- २६९-३० बोधवादि बोधनादि मतोऽपि २९०-२८ यस्मिन् । यस्मिन् ।.. गतोऽपि २५०-१६ सोऽपि कोऽपि प्रज्ञाप्ये । अप्रज्ञाप्ये २७०-२४ | २९५-९ स्यति स्याति २५०-२७ अप्राप्य अप्रज्ञाप्य २७१-१५ | दखण्डक दखण्डक २९५-१३' विषकत्वस्य विषयकत्वस्य २५२-२३ यदवयवादि यदवयव्यादि २७१-२८ निवर्तत इति विवर्तत इति २९५-१९ पर्यायायावि पर्यायावि २५२-३२ तदर्थाव- तदर्थताव. . दशरथादि दशरथत्वादि २९७-१६ नयान्तरं नयानन्तरं २५२-३४ च्छेदकं च्छेदकं २७१-३० स्मरणल स्मरणत्वल २९७-१७ व्यापकमिति व्यापकत्व कालस्य वि कालस्या वि २७२-१२ | लक्षोप लक्षणोप २९७-२१ मिति २५३-२५ धर्मा धर्मा- २७२-१५ स्यैवानु स्यैवान क्रमाक्षरा क्रमादरा २५४-२१ २९८-४ नैगमः । कथ नैगमः । एवं विषयस्व ... विषयत्वस्य २७३-३३ | नु मावात् नु भवात् २९८-९ धर्मधर्मिणोः मुरवार्थ मुख्यार्थ २७४-५ स्यैवाभ्यु स्यैवानभ्यु २९८-२१ प्रधानोपस. र्भावो सा र्भावो मा २७४-१२ यश यश २९९-१ जनभावन तद्विषयकत्वं तद्विषयत्वं २७४-१६ समं च समं २९९-३० विवक्षणं त्येतस्या- त्येतस्मा सदा उ तदा, उ २९९-३४ नेगमः। - द्वैतो- देतो- २७४-२३ चैतन्यजी चैतन्य जी ३०१-१७ कथ २५५-३० । न्तरर्भाव न्तर्भाव २७६-२४ रूप रूप- ३०१-२८ मेकसुखी. मेकं सुखी २५६-१० न्तरर्भाव न्तर्भाव २७६-२४ भवः स भवः सः ३०४-२९ शुद्धमतां शुद्धिमता २५६-२६ । नाम नाम- २७२-३० णाह मां णाहं मां ३०४-३१ ययि विशिष्ट ययिविशिष्ट २५६-३३ | विशेषमवत्व विशेषवत्व २७७ २१ स्वाधारण स्वासाधार ३०४-३२ पर्यायस्य तात्पर्यस्य २५६-३५ | सम्बन्धस्य सम्बद्धस्य २७७-३३ स्वाधारणा स्वासाधारणा ३०४-३३ तन्निष्टावि तनिष्ठवि २५७-१४ स्थोपनात्या- स्थापनात्वा अस्य ३०६-२३ मंशक्यादि मशक्यत्वादि२५७-२५ पत्त पत्ते २७८-१५त्पत्ति, ने त्पत्ति ने ३०७.३ अस्या Page #243 -------------------------------------------------------------------------- ________________ नैक प्रसङ्ग इति २४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समहतो नयोपदेशः । अशुद्धम् शुद्धम् पत्र-पतिः अशुद्धम् शुद्धम् पत्र-पतिः अशुद्धम् शुद्धम् पत्र-पति त्पत्तिं ता त्पत्ति, ता ३०७-४ | नियुक्त निरुक्त ३२२-२१ क्षया क्षाया ३३६-३४ तापत्ति तोत्पत्ति ३०७.५ | दोषस्थि दोपस्थि ३२३-३३ | तीति कि तीति । कि ३३७-१. नैक- ३०७-३१ दृष्टव्य द्रष्टव्य ३२५-२ | व्रीहितुष. ब्रीहितुष- ३३७-१९ तावमा तीतावव ३०८-३२ यागादेकैम यागादेकैकम ३२६-३६ | फल: फल ३३७-२३. कत्वोको वोको ३०९-२ | मुजायते मुपजायते ३२६-३६- स्यनि स्य नि ३३७-२५ प्रसन्न ३०९-३० ३२७-७ दिकं दिकं, ३३७-२६ स्वप्न स्वाप्न ३१२-८ | कर्म- कर्म ३२७-१८ नं न च ३३७-३२ चैतन्य चेतन्य- ३१२-१३ ते तत्रा ते स तत्रा ३२७-२० इति- ३३४-५ भावेन __ भावे न ३१२-१७ | लिङ्गादि लिादि ३२७-२४ जनतत जननत ३३८-१७ वाचकत्वा वाधका ३१२-२० | केशाप्रत्व केशत्व ३२८-२२ सी ति. सीती- ३३८-३० सदेक सहक ३१२-२४ | तस्य तस्य विधानं ३२८-२४ मिति प मितिप ३३८-३१ श्रुतिः सु श्रुतिःसु ३१२-३८ केशाग्रत्वमिति- केशत्वमित्य परोक्षत्वादि परोक्ष्यत्वादि ३३९-७ प्रमाणम् प्रमाणम् । ३१२-३० ___ विशेषस्य वस्थाविशेषस्य ३२८-२६ समानाधि सामानाधि ३३९-८ सनाप सनप ३१३-२७ धीतत्येवं धीतेत्येव ३२८-२७ कं त्वं पार- कं तदा रूपत्वा रूपत्वा- ३१४-८ विधावीत्यर्थः । विधा मार्थिक तदा ३३९-३५ पचना वचना- ३१४-" वित्यर्थः। ३२९-१५ दि पादि यदि पा ३३९-३६ शास्त्रीयाः शास्त्रीया ३१४-१५ | स्यादेवेत्यर्थः वाक्यभेदः मेकपरं मेकमपरं ३३९-३६ समिधाया समिद्या ३१४-२१ परोक्षात्वा परोक्षस्वा स्यादेवेत्यर्थः ३२९-२४ ३४०-१ व्यानामे व्यानां युगानामे ३१६-२१ स्पयष्टति स्पष्टयति ३२९-३४ | सीति वा सीतिवा कः कः, ३१६-६१ कपदानां कपदोपात्तानां ३३०-२ तदुक्क तयुक्त ३४०-३५ स्याङ्कार स्याहङ्कार ३१६-३२ नं यत्र द नंद ३३०-३० | मुच्यते- मुच्यते ३४१-१२ प्रेमेय- प्रमेय- ३१७-२३ करणा कारणा तिष्ठित तिष्ठत ३३२-२९ ३४१-१८ परमप्रे परप्रे ३१७-३० यदीम यदीदम ३३३-३४ | निवर्तनीय निर्वचनीय ३४१-२१ परत्वेमाना परमत्वे स्वराज्य स्वाराज्य ३३४-1| त्वम्- त्वम् ३४१-२५ मानाभावा ३१८-१. वाध्यते बाध्यते ३३४-१ | निवृत्ति निवृत्तिनिवृत्ति ३४१-२८ रश्चि ३१८-२३ न्यायत्वा न्याय्यत्वा ३३४-९ | सत्येवा सत्यैवा ३४१-२९ चिदात्मनो चिदात्मन ३१८-२५ कारकाल कारकाका ३३५-६ सङ्को चोऽप सोचोऽपि प ३४२-८ भोगाय- भोगाय ३१८-३० श्रवणाज श्रवणाङ्क ३३५-१४ | ति वा तिवा ३४२-९ पञ्चाक पञ्चात्मक ३१९-३० | न्येवं न्येव ३३५-२४ विशेषणा विशेषा ३४२-२९ तिस्तं तितिषादस्थ प्रकारेण प्रकरणेना ३३५-२६ | इत्येनना इत्यनेना ३४२-३७ पतिस्तं सतत ३१-१४ वेदक वेदकत्वम् ३३५-२७ | स्या प स्याप ३४२-३८ * निर्धर्मि निर्धर्म ३२१-२४ | ति क तिक ३३५-३० | ध्या त्यान्ता ध्यात्यन्ता ३४४-६ बहित्व वहितत्व ३२१-३० रेण- रेण ३३६ २० | नख केशा नख- केशा ३४४-२८ निश्चयेना निश्चये ना निश्चय ना ३२२-१० तस्या- तस्याङ्के ३२२-१० तस्याङ्गे- तस्याओं ३३६-२४ नात्स्येवे नास्त्येवे ३४४-३२ शस्यव शस्याव ३२२-११ | माणदेव माणादेव ३३६-३१ ' त्व भा त्वा भा ३४४-३४ ३४०-३ Page #244 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समतो नयोपदेशः । २५ % 3D - कायें यत्, अशुद्धम् शुद्धम् पत्र-पतिः अशुद्धम् शुद्धम् पत्र-पतिः अशुद्धम् शुद्धम् पत्र-पतिः न प्र नाप्र ३४५-७ | चने प्र च न प्र ३६२-१२ | स्यन्त्यः त्यन्त्य- ३७६-३१ तत्प्रभावा तत्प्रभवा ३४५-११ | पेक्षया पेक्षाया ३६३-२५ मत्वेन मयत्वेन ३७७-९ धनतया धनता ३४६-३ माहृतम् मध्याहृतम् ३६३-३० नाप्रमा नाप्रामा ३७९-९ सहजकृत सहकृत ३४६.७ नुपाख्या नुपाख्य दिका- दिका ३७९-१३ मेवमेव ३४६-२५ एवत्या एवेत्या ३६४-२७ कारे ३७९-२२ यत्- ३४७-३५ त्वत्व भावा त्वस्वभावा ३६४-३१ । पारजन्य पाराजन्य ३७९-३१ कत्वमाव कस्वभाव ३४७-३५ सति सा सति, सा ३६५-१३ कक्षात्व कक्षत्व ३८०-८ विकृतिः विकृतिः, ३४९-१३ स्यापि ना स्यापिना मपर्यति मर्पयति ३६५-२७ ३८१-७ अहङ्कारः, अहङ्कारः ३४९-१४ कृतमेव कृतं भवतु भवितु ३८१-२७ ३६६-२९ रीत्येवं विकृतिरित्येवं ३४९-१५ न्वयाविद्या न्वयानुविधा ३६६-३० व्यायया व्यङ्याया ३८२-११ जनक जनक नित्य ए नित्यत्व ए ३४९-३० ३८२-१६ अन्यथा अनन्यथा सम्बन्धो भाववत् भावात् ३८२-१७ सम्बद्धो ३५०-३ | यैव इष्ट यैव, इष्ट ३६७-१३ सत्त्वस्य तत्त्वस्य स्थान कमिति स्थानमिति ३८३-३ ३५०-१४ तेनावि तेनापि ३६७-२१ दर्शनयोः दर्शनयोः, पस्त्विति पतस्त्विति ३८३.९ ३५१-१३ अन्यथेति अनन्यथेति । ३६७-२७ नमु - न परमु ३५१-३४ इति उ इति, उ ३८३-१८ विशेषादि विशेषत्वादि ३६७-२९ प्रत्युत इति प्रत्युतेति ३५२-४ रजनक रजकं ३८५-१५ दयो दयो दोषा ३६८-५ सम्भवात् सम्भवाभावात् ३५२-३१ नियमभविको नियमाद्भविको ३८५-२० तदा गमम् तदानागमम् ३६८-१० कारणा कारण ३५२-३१ पञ्च विकल्पाः पञ्चमविकल्पः ३८६-४ कानि काणि ३६८-१९ मेति मेऽपीति ३५२-३५ इति । इति ३८६-१६ ३६८-२१ व्यव व्याव ३५३-७ मशक्यात् मशक्यत्वात् ३६८-२६ । अनित्यत्वेना अनित्यत्वेयाहयामाह ३५५-४ संसाई संसर्गा नात्मना ३८७-२४ ३६९-८ दोक धोक- ३५५-२३ भवति, स भवति स ३८७-२६ लिङ्ग- लिजामान्य-ऽन्त्य मान्यान्य मेवेति मेवेति । णा व णा भावाव ३६९-३१ यदृच्छा यदृच्छा ३८७-३५ तामिति तानामिति ३५६-१८ नितरां न तरां ३७१-२६ षपयत्वे षयत्वे सासाज्यम् , साम्राज्यम् , ३८८-१ ३५६-१९ वदद्र वह ३७१-३२ दर्शने नि दर्शनेन नि ३८८-१२ रूपमि रूपत्वमि ३५६-२९ जात्यव जात्याव नित्यात्म नित्यत्व ३८९-४ पटादययो पटादयो ३५७-१८ त्या द्यापि त्याद्यनि ३७२-११ न्यायभेदे न्यायमते ज्ञानाभिरु ज्ञानाभिन्नरू ३८९-१० ३५७-२६ हारेच्छा.. हारोच्छेदा ३७४-८. बौद्ध चतु बौदचतु लक्षणं नित्यत्वं लक्षणं नित्यत्वं,३८९-१५ ३५८-१३ प्रकारता प्रकारता- ३७४-१५ लक्षणं, वा लक्षणं वा ३८९-१६ क्षणमा क्षणमसा तच्चानु तत्रानु ३७४-१९ स्तदा भावा तदभावी ३५९-१७ शकृत- शहवे ३८९-२० कत्वम् कम् ३७४-२४ वचनाष्ट वचनात् ३६०-२३ क्रमि येषु ननु येषु । न तु कामि ३८९-३४ ३७४-३१ नुपप्रति नुपपत्ति ३६०-२४ नादि सानादि । पर्यान्ते पर्यन्ते ३९०-५ शास्त्रणाम् शास्त्राणाम् ३६०-३१ | यि का यिका । ३७५-८ भण्यन्ते । को भण्यन्ते को ३९०-२८ रेव स्तु रे वस्तु ३६१-३० | एक काल एककाल ३७५-१२ सतः उ सत उ ३९१-४ इत्यस्य इत्यस्य स्थाने ३६१-३३ | लान्तर लानन्तर ३७५-३१ | कारणा कारण ३९१-१९ Page #245 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । अशुद्धम् शुद्धम् पत्र-पतिः अशुद्धम् शुद्धम् पत्र-पतिः अशुद्धम् शुद्धम् पत्र-पतिः नेति तेषां नेति । तेषां ३९१-३१ | वासनाया न [वासनाया भावाधिकरण भावानधिकरण ४१२-१६ मित्येव किन्तु मित्येव, किन्तु ३९३-११ नाशस्य न ४०२-२९ जन जैन--- वाह्यत्वम् । वाह्यत्वं पुनः । ३९३-३२ निमेंतव्याः निर्भत्तव्याः ४०३-३ | सिद्धान्तेऽपि सिद्धान्तऽपि ४१२-१९ बुद्धिना बुद्धीना ३९४-१ घातस्य दृष्ट घातस्यादृष्ट ४०३-१७ | वन्तरत्वस्य बनन्तरत्वस्य ४१३-१ प्रशंसया प्रतिज्ञा ३९४-६ प्रतिज्ञातुं, ४०३-१९ | स्यापेक्ष स्याक्षेप ४१३-६ फलबुद्धि फलशुद्धि दुःखमाव- दु:खाभाव- ४०४-३ ४१३-१५ तद्रूपा- तद्रूपा ३९४-२३ वन्धक बन्धक माणा ४०४-१३ माणा, यद्यव्यक्तौ यद्ययको ४१३-१६ ३९४-३३ | रेवापकारः रेवोपकारः ४०४-१३ सम्भव सम्भवि ४१३-२१ स्त्रीभक्ष स्त्रीभक्ष्य ३९५-८ निवृत्तिजन निवृत्तिं जन ४०४-१५ प्रधान प्राधान्य ४१४-१ स्वकीयंत्वने स्वकीयत्वेन ३९५-२२ यागारारम्भ यागारम्भ ४०४-१८ | कुर्वद्रूपलक्ष कुर्वद्रूपक्ष ४१४-३ गुण गणै- ३९६-१५ पेक्षया माह पेक्षायामाह ४०४-२८ | प्रान्तुं किन्तु प्राप्तुं, किन्तु ४१४-१० विशेष विशेष- ३९७-११ रा गमन रानागमन ४०५-२४ | त्वने त्वेन ४१४-१३ ज्ञानान्तर ज्ञानानन्तर ३९७-३७ तत्त्वज्ञानकं तत्त्वज्ञानजनकं ४०५-२४ । दीनां वादीनां ४१४-१९ भ्यासाकारण भ्यासाकरण ३९८-२१ बन्धदुरित बन्धकदुरित ४०६-४ तद्रूपेण तद्रूपेण, ४१४-२८ गस्या गस्या गस्या प्रमान्तराधृत प्रमान्तरावधृत ४०६-७ क्षणत्वत्वेन क्षणत्वेन ४१४-३५ त्यर्थः। त्यर्थः ३९९-२२ | कर्मता कर्मजन्यता ४०६-२० जन्यत्वात् विनाश्यत्वात् ४१५-२३ पन्थाः पन्था ३९९-२५ तदात्म- तादात्म्य पराभिलाषः पराभवानित्ये नित्यन- ४००-२२ सम्बन्धेन । सम्बन्धेन ४०७-३५ भिलाषः ४१६-३० स्याप्य । स्याभावेऽपि न ज्ञानो-न मिथ्या दधिकृत्य दमधिकृत्य ४१८-१ भावेऽपि ४००-२४ न्मूलने । ज्ञानोन्मूलने ४९८-२० नियत न नियतं न ४१८-२४ एकैकैकशो एकैकशो ४००-२६ तद्रूपा- । तद्रूपा त इह तत इह ४१९-६ विहित्वा विहितत्वा ४०१-६ वच्छिन्नेति विच्छिन्नेऽपि ४०८-३३ तत् पुनः यत्पुनः ४१९-२७ रूपनाशस्य रूपनाशं प्रत्या प्रतियोगिक प्रतियोगिताक ४०९-११ तन्निरूपश्चि- तन्निरूपधिश्रयनाशस्य ४०१-२४ घटत्वेतर- घटत्वत्वेतर दुवुद्ध चिपुवुद्ध ४२०-२३ दिकं अत्र। दिकं विहित धर्माव- धर्मानव- ४०९-१३ | नैवा नैव ४२१-८ - मदृष्टद्वारा यद्ये यद्य ४.९-२१ नयतेरिह नयततेरिह ४२१-१३ स्वर्गात्मककार्य- कत्वभाव कत्वाभाव ४०९-२९ पेक्षया पेक्षया, ४२१-१७ जनकं तत्त्व सिद्धिः कर्मणां सिद्धिः, कर्मणां ४१०-२ त्वनुगामिना त्वनुगामि ना ४२२-१९ ज्ञानं च, इत्युत्तरप्रतिबन्धकनि प्रतिबन्धकमति४१०-६ तत्त्वजुत्दृजु ४२२-२१ पङ्किगतं पूर्व मात्रपदे ना मात्र पदेना ४१०-१० साम्मत सात ४२२-३३ पतिगतं शेयम् ४०१-२७ | भिन्नत्वत्वा भिन्नत्वा ४१०-१७ सेवादर्श संवादार्थ ४२२-३६ नास्य दृष्ट नास्तीत्यदृष्ट ४०२-10 कर्मणोऽसिद्धि कर्मणोऽन्यथा सिद्धकता सिद्धकगा ४२२-३८ निवृत्तिवा निवृत्तश्चा ४०२-१७ सिद्धि ४१०-२३ शुद्धस्तथा शुद्धिस्तथा ४२३-२ भावात्र भावान्न मेतच्चा मुक्कं मेतच्चामुकं ४१०-२. व्यापि तेषां व्यापितषां ४२३-१० स्वविरोधि । स्वविरोधि प्रबन्धक प्रतिबन्धक ४१०-३४ | गोऽप्यगं गोऽप्यनुमतः ४२३-१५ गुणत्वाभावान स्वविरोधि ४०२-२३ पयोगः पयोगः, ४११-४ | शुद्धा तु शुद्धात्तु ४२३-१७ तस्यान्यन्था तस्याप्यन्यथा ४०२-२६ | शङ्का प्रति शङ्कां प्रति ४११-३२ ॥ इति शुद्धघशुद्धी समाते ॥ Page #246 -------------------------------------------------------------------------- ________________ ( - - पन्याससुशीलविजयगणिसंकलिता नयोपदेशग्रन्थस्य मूले टीकायां चोपन्यस्ताना गाथादीनामकारादिका सूचिःअवाः, गाथादिकम् । स्थलम्, पृष्ठम्, पतिः १ अमिज्योतिर्योतेरग्निः स्वाहा [ तैत्तरीयारण्यक ४, ..] ३२८, ३ : २ अग्निहोत्रं जुहोति [तैत्तरीयसंहिता १, ५, ९,] ३२५, . ३ अज्ञस्याई प्रबुद्धस्य सर्व [महोपनिषद् ५, १० ५ ] २४८, ४ . ४ अज्ञानिकवादिमतं. ३९२, ७ ..५ अणुरपि विशेषो० [ ३२३, ३७ ६ अस्थि जिओ. ३६३, १४ ... अनादिनिधनं ब्रह्म. [भर्तृहरिः २९४, १२ • ८ अनुपयोगो द्रव्यम् २६२, ९ अन्धं तमः प्रविशन्ति. ३९८, ४ १. अपाम सोमममृता. [ अ. शिर ३. २] . ३३३, १० ११ अब्भन्तर-बज्झाणं. [अध्यात्ममतपरीक्षायां ] . ३८१, २ ०१२ अरुणया क्रीणाति वा. ] ३३१, २ -१३ अरुणयैकहायन्या० 1 ३२७, .. १ • १४ अर्थाऽमिधान. २३२, ७ .१५ अर्थो ज्ञानसमन्वितो. ३५८, १६ अविद्यायोनयो भावाः ३१३, १६ १७ असत्ये वर्त्मनि स्थित्वा० ३१४, १८ १८ असदकरणा. [साङख्यका. ३५२, ३. १९ असियसय किरियाणं. [ सू० प्र० सम• अध्य० निर्यु० ] ३८५, ६ २० अहवा वत्थुमिहाणं नामं० [विशेषा. भाष्यगा. ६.] २६७, १३ २१ अहवा सव्वणयमयं [विशेषा० भाष्यगा० ] २४०, . ८ -२२ अहं ब्रह्मेति. [पञ्चदश्यां ३३६, १४ .२३ आत्मा वारे श्रोतव्यो. ३३६, २६ २४ आभूतसंप्लवं० ३३३, १ २५ भारुरुक्षोर्मुनेर्योगं० [गीता-अ० ६, श्लो० ३] २४३, २६ माश्रयत्वविषयत्व [संक्षेपशारीरके ] ३०४, ११ २७ आस्तिकमत आत्माद्या. ३९२, ३ .२८ इज्यादेनं च तस्या० २८७, ८ २९ इतिहास-पुराणा० ३३८, १ ३० इमं मानवमावतं. [छान्दोग्योपनिषद् ४. १५.६] ३१६, १७ ३१ इयमात्मा परमानन्दः० [ पञ्चदश्यां ] ३१५, ३० :३२ इयरो पुण. - - -- - Page #247 -------------------------------------------------------------------------- ________________ २८ गयामृततरङ्गिणी-तरङ्गिणीतरणिम्या समहतो गयोपदेशः । - स्थलम्, [बीजादिविंशतिकायाम् ] पृष्ठम्, पतिः ३८०, १० . [ हारीत. ..-- ३३५, २२ ३५३, ६ ४००, ५ २८४, ३५१, [ बीजादिविंशतिकायाम् ] [आवश्यके गा. ७६.] . . [स्मृति ३०१, २४६, ४ " [ षोडशप्रकरणे [६० २, १, २०] [विशेषा० भाष्यगा० २२५६] [ जैमिनिसूत्र [पुराण २०४, ३६०, ४०५, . . . . . [१ सं० सो० २८] ४०६, ३३२, [ अड्डाः, गाथादिकम् .३३ इय समणी योगा ३४.. उजुसूयस्स एगे. ३५ उपक्रमोपसंहारा० ३६ उप्पन्नाणुप्पनो इत्थ. ३७ उभाभ्यामपि पक्षायां. ३८ उवयारंगा इह. ३९ ऊर्ध्व गच्छन्ति. ४० एएण मीसपरिणामिए ४१ एएहि दिट्ठीवाए. ४२ एकधा बहुधा चैव. ४३ एतद् विज्ञायैवं. ४४ एवमेवास्मादात्मन:. ४५ एवं जीवं जीवो. ४६ औत्पत्तिकस्तु. ४७ कथयति भगवानिहा० ४८ कर्मणा न प्रजया० ४९ कर्मणा बध्यते जन्तु ५० कर्मभिः शुद्धान्तः .५१ क्षणिकाः सर्वसंस्कारा० ५२ श्रीयन्ते चास्य. ५३ काम ! जानामि ते मूलं. ५४ काम उभयाभावो. ५५ काम्यानां कर्मणां० ५६ काशीमरणान्मुक्तिः ५७ काल-यदृच्छा० ५८ कालो सहावणि. ५९ गमेडों ६० प्रहसंमार्टि ६१ चित्रया यजेत ६२ चित्सामान्य ६३ जइवि य पडिमा उ ६४ जइ वेडंबगलिंग ६५ जइ सावज्जा किरिया० ६६ जत्थ य जं जाणिजा. ६७ अन्यत्वमेव जन्यस्य ६८ अपनेव तु० ६९ जे अन्नाणी कम्म खवई ७. जं जहा भगवया दिटुं० : . . ३८६, [ श्रुति [ स्मृति [आवश्यके गा० ११४५) २८२, ४ . . ३९२.. ३७८. [सम्मति० का. ३, गा० ५३ ] [पा० उणा० २२५] ३२८, ३३०, ७ ४ २८२, [आवश्यके गा० ११४७ ] [ आवश्यके गा० ११४९] [ आवश्यके गा० ११४५] [अनुयोगद्वारे गा० १] .: . . . . . . ४१३, १० ३७८, ४ Page #248 -------------------------------------------------------------------------- ________________ गयाइततरहिणी सरमिनीतरणिभ्यां समलहतो बयोपरयः । स्थलम्, [ आवश्यकभाष्ये गा० २३३ ] पृष्ठम्, पतिः २६३, . [सम्मति० तु. का. गा. ४] [ शक्रस्तवे ४१३, ९ ३२८, २ ३६१, ८ ३११, २९ २६५, ३६१, ३५६, ३८५, ३७७, ३८०, १ २८४, ४ [सम्मति० का. गा० ५३ ] [ दशाचूर्णी ] [बीजादिविंशतिकायाम् ] [पूजाविधिविंशिका-१३] [विशेषावश्यके गा० २२२७]. [बीजादिविंशिकायाम्-७] १mmms.»"Mur [विशेषा. भाष्यगा. ७५ ] [ओपनियुकि० महाः, पाषादिकम् । ७. #तु पुरक्खडभावं. ७२ अम्हा सण-नाणा. ७३ जं सम्मति पासहा.. ७४ जातपुत्रः कृष्ण. ७५ जावइया वयणपहा ७६ जीव ईशो विशुद्धा चित् । जे अहा सिद्धा. जे पज्जवेसु णिदिट्ठा जे वयणिजवि० ८. जो अकिरियावाई. जो तुलसाहणाणं , जो दिव्वेण. ८३ उंडिल्ले विय एसा. ८४ पत्थि नएहिं. ८५ सय एथम्मि 4६ पाऊण. ८७ णामाइतियं० पिच्छ्यमव. णिच्छियणयस्स ९. णियमा जिणेसु० ९१ तत्वमसि ९२ तत्त्वमस्यादि. ९३ तत्प्रेमात्मार्थ ९४ सयेदममलं ब्रह्म ९५ तर्न बाध्यते दैवं. ९६ तद् भोगाय पुन ९७ तन्दुलस्य यथा चर्म ९८ तपसा कल्मषं हन्ति ९९ समः प्रधानप्रकृते. १०. तमेतं वेदानुवचनेन. १.१ तमेव विदित्वा १०२ तमोपगम१.३ तरति शोकमात्मवित् १०४ तस्मात् तत्प्राप्तये. १०५ तहमव्वत्तं जं काल १०६ तावदेवास्य चिरं. १.७ तिकाले चदुपाणा. १.८ तित्थयरगुणा. [आवश्यके गा० ११४८] ا لالا لا لا २६६, २ ४१२, ३ २५४, , २ ૨, ૨ ४१३, १२ २८२, . २४२, १ ३४३, ३ ३१८, . . २९८, .. ३८१, ५ ३१९, २४ ४१५, ८ ا ن ३१८, [ पञ्चदश्यां [बृहदारण्यकोपनिषद् ४, ४, २२] ३२४, ३२४, ." ३६३, १६ ४०७, २ - - [ज्ञानबिन्दौ [छां० ५.१.३] [विष्णुपुराणे बीजादिविंशतिकायाम्] ] ३७८, ८ [ द्रव्यसंग्रहे गाथा-३] [आवश्यके गा. ११४२] - २०८, १० Page #249 -------------------------------------------------------------------------- ________________ ३० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समतो गयोपदेशः । % 3D .: स्थलम्, .., पृष्ठम्, पहिः ३१९, १२ [तत्त्वविवेकगतपयं . [सम्मति. काण्ड गा. [सम्मति. का. गाथा ] ३१९, ३ .३२७, . ४ २५३, ३ २९४, ८ ३२९, ५ ३१९, २९ २६४, . ४ २६३, ११ ४०८, १५ [आवश्यके गा० १५३५]. [आवश्यके गा० १५३६ ] [गौतमसूत्र [प्रमाण. परि० सू०.] [ऋ० सं० ८. ८. ३.] [बृहदारण्यकोपनिषद् ४. ४.६] [ बृहदारण्यकोपनिषद् ४. ३. २३ ] [गीता, अ० ३, श्लो० २२] २५५. ३१२, ३४ ३१५, :-८ .. .. ४०४ २४ अङ्काः, गाथादिकमा १०९ तैः सर्वैः ११० तेरण्डस्तत्र भुवन १११ तेरन्तःकरणं सर्वैः ११२ दना जुहोति ११३ दवढिओत्ति. ११४ दवट्ठियणपयडी. ११५ दर्श-पौर्णमासाभ्यां ११. द्विधा विधायक ११७ दुहओऽणन्तरभवियं० ११८ दुहमोऽणन्तररहिया. ११९ दुःखजन्मप्रवृत्ति १२. दोषपतिर्मतिज्ञाना. १२१ धर्मयोर्धामणो० १२२ ध्रुवा द्यौर्धवा० १२३ न तस्य प्राणाः १२४ न तु तद् द्वितीय १२५ न मे पास्ति कर्तव्यं० १२६ नवा पत्युः कामाय. १२७ नान्यः पन्था विद्यते. १२८ नाभुक्तं क्षीयते कर्म० १२९ नाम-स्थापना १३. नास्त्यकृतः कृतेन १३१ निषादस्थपति १३२ नेह नाना. १३३ नैगमोऽशुद्ध. १३४ न्यायागतधन १३५ पतिजायादिकं सर्व १३६ परिज्ञानाद् भवेन्मुक्ति. १३७ पुरोहितं वृणीत १३८ पूर्वः पूर्वो नयः १३९ प्रकृतेः क्रियमाणानि० १४. प्रतियोगिपदादन्यद् १४१ प्रमाण-नयसजता० १४२ प्रसह्य सदसत्त्वयो १४३ प्राचां वाचां० १४४ प्राप्ते कर्मणि नानेको. १४५ फलवत्सभिधा० १४६ बहु निगद्य किमत्र. [श्वेता० ३, ८६, १५] ३४०, १९ २५४, २० [तत्त्वार्थ० अ० १ सू. ५] [मुण्ड० १. २. १२.] ] २२२, १. [सम्मतिवृत्ति [ तृप्तिदीपप्रकरणगतं पद्यं] ३२१, १४ ३१२, २१ ३५५, १२ ४००, १३ ३१८, १५ ४००, ८ ३२१, . २३९, १४ ३५०, ५ [गीता, अ० श्लो० ३२३, १२ [शानबिन्दु [शानबिन्दु [ज्ञानबिन्दु ३६३, २० ३६३, १८ ३६२, २९ ३२८, ३१४, ५ ३०४, १२ [संक्षेपशारीरके Page #250 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समाइतो गयोपदेशः । अशः, गाथादिकम् । १४७ बाढं सन्ति १४८ बालादिभाव० १४९ बीजमीदं परमं यत् १५. बीजस्स वि संपत्ती १५१ . बीजाइआ य एए. १५२ बुद्धाद्वैतस्वतत्त्वस्य. १५३ बुद्धिकर्मेन्द्रिय १५४ बुद्धिरूपलब्धि. १५५ ब्रह्मविदाप्नोति परं १५६ भर्णिता अकरिता य. १५७ भवति च खलु प्रतिष्ठा. १५८ भावं चिय सद्दहणया १५९ भावो विवक्षित. १६. भूतस्य भाविनो वा. १६१ मेदग्राहिव्यवहृति. १६२ मग्गण-गुणठाणेहि य. १६३ मध्नामि कौरवशतं. १६४ मनोबुद्धिरहवार० १६५ मन्वन्तरं तु० १६६ मासमग्निहोत्रं १६७ मुक्तयादौ० १६८ मूलप्रकृति १६९ मूढनइ सुअं. मोक्षाश्रम. १७१ यजेत. १७२ यज्ञेन दानेन १७३ यस्करोषि. १७४ यत् तु तदर्थ १७५ यथा विशुद्धा. १७६ यदप्रमेव १७७ यदाहवनीये. १७८- यदाहिनेन्द्रिया० १७९ यद् भाषितं. १८० यद्यद्धि कुरुते. १८१ यद्यकस्मिन्न सम्भवति. १८२ यद् वस्तुनोऽभिधानं० १८३ यन्न दुःखेन. १८४ यया यया भवेत्० स्थलम्, पृष्ठम् , पङ्किः [पञ्चदश्यां ३३६, १५ [षोडशकप्रकरणे २४६, ८ २८६, २ [बीजादिविंशिकायाम्-६] [बीजादिविशिकायाम्-८] २६५, १५ [पञ्चदश्यां २४३, ३ ३१९, .१६ ३४८, २९ [ तैत्ति० २. १. १. भस्मजा २.७] [ उत्तराध्ययन २४९, ४ २८६, १ [विशेषा० भाष्य गा०] २५१, ३, २५७, ७ २६६, १. २६२, १ [ज्ञानबिन्दौं ३६२, ३१ [ द्रव्यसंग्रहे गा• १३ ] २०९, ७ [ वेणीसंहारे २७३, २९ ३१६, ३७ ३१६, ३२५, २८७, [ [ आवश्यके गा० ७६२ ] १ २४५, ३९८, ३.३७, [ ३३०, [ भगवद्गीता, अ० ९, श्लो० २७] ३३२, २६१, २९८, L ३२८, २४२, [गीता [षोडशकप्रकरणे [स्मृति [तत्त्वार्थ. अ. सू.] २४३, २७०, . با با २५८, १२ ३३७, ३२ ३१५, ३ Page #251 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलढतो नयोपदेशः । स्थलम्, पृष्ठम्, पति [ भगवद्गीता ५, ११] - . [बृहदारण्यकोपनिषद् ३, ७, २२] २४२, २४ १२३, . ३०२, ४ ३१३, १७ [ श्रुति ३३४, २ ३०१, ३ ३६३, २८ १८५, १ २९६, ४ [विशेषा० नियुक्ति गा० २१८५ ] [वार्तिकामृते ३१७, ३९९, [कुसुमाजली श्लो. अङ्काः, गाथादिकम् । १८५ यवसायं जुहोति. १८६ ये मध्यमा० १८७ योगारूढस्य १८८ योगिनः कर्म कुर्वन्ति। १८९ यो विज्ञाने. १९. रज्जु-सादिवद् १९१ रजोशः पञ्च० १९२ राजसूयेन १९३ रूपं रूपं प्रति० १९४ वहिष्णो जलं. १९५ वंजण-अत्थ- तदुभयं. १९६ वागरूपता चेद् १९७ वित्तात् पुत्रः १९८ विद्यां चाविद्या च. १९९ विधिरत्यन्तम २०० विफलाविश्व० २०१ विविदिषन्ति २०२ विवेकवता. २०३ विश्वजिता यजेत २०४ वेदान्तानाम. २०५ वैनयिकमतं २०६ व्यञ्जनार्थयो. २०७ व्यक्त्या. २०८ शक्तिग्रह २०९ शङ्का चेद. २१० शाखामेदात्. २११ श्रुति-लिङ्ग २१२ श्रोतव्यो मन्तव्यो. २१३ श्रोतव्यः श्रुति २१४ संकल्पमूलः कामो. २१५ संज्झासु दोसु सूरो. २१६ संध्यामुपासते. २१७ संन्यस्य सर्वकर्माणिक २१८ संवरनिर्जरारूपो० २१९ सत्त्वं लघु प्रकाशक० २२. सत्वांशैः पञ्चभिस्तेषां० २२१ सन्ता तित्थयरगुणा० २२२ सत्येन कभ्यस्तपसा. acc. ४०६, ३२८, २८ ३३६, १७ [पञ्चदश्यां [ तत्त्वार्थ० अ० १, सू० ३५] [ न्यायदर्शने अ० १, सू०] [ कुसुमाञ्जली श्लो. ] [पञ्चदश्यां ] [जैमिनिसू० ३, ३, १४ ] [ बृहदारण्यके २, ४, ६] १८५, २ २६६, १ २६८, १५ ३६७, ३४ ३३६, १६ ३३३, ३३ ३३०, ३० ३३०, १२ २४२, ३२ २६४, ११ ३२४, ५ ३९०, १० [ आवश्यके गा० १५३० ] [स्मृति ३०१, ३४०, १७ ३१०, ३४ २८०, [आवश्यके गा० ११४४ ] [श्रुति Page #252 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । अङ्काः, गाथादिकम् ; २२३ सदुज्जुसुआनं० २२४ सप्तभ्यां जनेर्ड : २२५ सर्व कर्माखिलं० २२६ सव्वणिक्खैवे २२७ सायं प्रातर्जुहोति २२८ सावज्ज- जोगविरओ २२९ सिद्धिः स्याद्वादात् २३० सुदपरिचिदा० २३१ सुषुप्तौ हिता नाम० २३२ सेखा इच्छंति ० २३३ सो उभयक्० २३४ स्त्री - शूद्रौ० स्वतोऽनुवृत्ति • २३६ स्वाध्यायो० हितमपि• २३७ २३८ हिता नाम नाड्यो ० स्थलम्, [ [ पा० सू० ३. २. [ भ० गी०४. २३ 1 -6504. ९७ ] ] [ [ [ सिद्धहेम० सू० १, १, २ [ समयप्राभृते [ [ धर्मसङ्ग्रहण्यां २६ ] [ अन्ययोगव्यवच्छेदद्वात्रिंशिकायां श्लो० ] [ तैत्तरीयारण्यके, २, २५ ] ३२०, २४. [ षोडशकप्रकरणे ] [ कौ त ४१९.] J ] ३३ पृष्ठम्, पङ्किः ४१४, ७ २००, ६ ४०६, २५०, ३२५, २५६, ३६०, ७ २४७, २ ३१३, ३ २५२, ९ २१२, १० २२२, ५ ३५७, १ ३२१, ર २४६, ३१३, ५ ४ ४ ५ १० ४ Page #253 --------------------------------------------------------------------------  Page #254 -------------------------------------------------------------------------- ________________ व्याकरणवाचस्पति-कविरत्न-शास्त्रविशारद-निरुपमव्याख्यानसुधावर्षि-शासनप्रभावक पूज्य आचार्यश्रीमविजयलावण्यसूरीश्वरजी महाराज । Mangal Mudranalaya Ratanp Ole, Ahmedabad Page #255 --------------------------------------------------------------------------  Page #256 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । "वंजणनयामृत० - एवम्भूतस्त्विति । सर्वत्र व्यञ्जनं- शब्दस्तेनार्थं विशेषयति यः स एवम्भूतः, अत्थ तदुभयं एवंभूओ विसेसेइ" [ विशेषावश्यक निर्युक्तिगाथा - २१८५ ] इति नियुक्तिकारः, व्यञ्जनार्थयोरेवम्भूतः” [ तत्त्वार्थसूत्रे, अ० १ सू० ३५ ] इति तत्त्वार्थभाष्यम्, पदानां व्युत्पत्त्यर्थान्वयनियतार्थबोधकत्वाभ्युपगन्तृत्वमेवम्भूतत्वमिति निष्कर्षः, नियमश्च कालतो देशतश्चेति न समभिरूढातिव्याप्तिः । अयं चास्याभिमानः- यदि घटपदव्युत्पत्त्यर्थाभावात् कुटपदार्थोऽपि न घटपदार्थस्तदा जलाहरणादिक्रियाविरहकालेऽपि घटो न घटपदार्थो धात्वर्थविरहाविशेषादिति । व्यञ्जनार्थविशेषकत्वमस्य यदुक्तं तदुदाहरति- राजचिह्नः - छत्रचामरादिभिः, यथा राजन् - शोभमानः, सभायामुपविष्टो राजोच्यते, अन्यदा - छत्रचामरादिशोभा विरहकाले, राजशब्दभाग्- राजशब्दवाच्यो न भवति, राजपदव्युत्पत्तिनिमित्ताभावादित्यर्थः । १८५ नन्वेतन्मते व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिनित्तमिति केनचिद्रूपेण तदतिप्रसक्तं वाच्यम्, अन्यथा तु गच्छतीति 'गौः' इति व्युत्पत्त्या गच्छन्नश्वादिरपि गौः स्यात्, तथा च छत्र-चामरादिविरहकाले तत्प्रयुक्तराजनाभावेऽपीतरातिशायिपुण्यादिप्रयुक्त राजनस्यानतिप्रसक्तस्याव्याहतत्वात् कथं न राजशब्दवाच्यत्वमिति यस्य स व्यञ्जनार्थविशेषण इति बहुव्रीहिरत्र समासः तमवलम्भ्य फलितमर्थमुपदर्शयितुमाह- सर्वत्रेति - शब्दमात्रे इत्यर्थः । तेन शब्देन । एवम्भूतनयो व्यञ्जनेनार्थं विशेषयतीति नियुक्ति तत्त्वार्थ भाष्यसम्मतमित्युपदर्शयितुं निर्युक्तित्र चनं तत्वार्थभाष्यवचनं चोल्लिखति- वंजणत्ति, व्यञ्जनेति च - " व्यञ्जनमर्थं तदुभयमेवम्भूतो विशेषयति" इति संस्कृतम् । ततश्चैवम्भूतस्य निष्कृष्टलक्षणं दर्शयति- पदानामिति बहुवचनेन पदत्वव्यापकत्वं व्युत्पत्स्यर्थान्वयनियतार्थबोधकत्वे लभ्यते, तथा च. पदत्वव्यापकं यद् व्युत्पत्त्यर्थान्वयनियतार्थबोधकत्वं तदभ्युपगन्तृत्वमेवम्भूतत्वमित्यर्थः यदा यस्मिन् देशे गमनक्रियावत्यां गवि गोपदं प्रयुज्यते तत्र पदत्वं गोपदे वर्तते, तत्र गच्छतीति गौरिति व्युत्पत्त्यर्थो गमनक्रिया, तदन्वयेन कालतो देशतश्च नियसोऽर्थो गमनंक्रियावान् गोरूपार्थः, तद्बोधकत्वं समस्तीति तदभ्युपगन्तृत्वमेवम्भूतनये समस्तीति लक्षणसमन्वयः । यदा यदा यत्र यत्र देशे विद्यमानायां गवि गोशब्दः प्रयुज्यते तदा तदा तस्मिँस्तस्मिन् देशे गमनक्रिया भवतु मा वा कदाचित् कस्मिन् देशे गवि गमनक्रियासत्त्वमात्रेणापि गोशब्दः प्रवर्तत इत्यभ्युपगच्छतः समभिरूडस्यैतल्ल गातिप्रसङ्गवारणाय कालतो देशतश्व व्युपस्वर्थान्वयनियमोऽत्र प्रविष्ट इत्याह- नियमश्चेति । समभिरूढनयशिक्षणार्थमेतन्नयाभिप्रायमुपदर्शयति- अयं चेतिअनन्तरमेव निरूप्यमाण इत्यर्थः । अस्य एवम्भूतनयस्य । यदीत्यादिना तदेंभिमानोङ्कनम्, “कुट कौटिल्ये " इत्यनुसारात कुटपदार्थः कौटिल्यक्रियालिङ्गितोऽर्थो यदि " घर चेष्टायाम्" इत्यनुसाराद् घटपदव्युत्पत्त्यर्थ जला हरणादिक्रियालक्षणचेष्टाभावान्न घटपदार्थ इत्येवं समभिरूढनयेन स्वीक्रियते तदा घटो यदा जलाहरणादिक्रियां न करोति तदानीं किमिति समभिरूढेन घटो घटपदार्थोऽनुमतः ? प्रत्युत धात्वर्थजलाहरणादिक्रियालक्षणचेष्टाभावात् तदानी घटो न घटपदार्थ इत्येव स्त्रीकर्तुमुचितमित्यर्थः । उत्तरार्धमुदाहरणोपदर्शनपरतयाऽवतारयति - व्यञ्जनार्थेति । अस्य एवम्भूतनयस्य । राजन् राजा इत्येव राजपदव्युत्पत्तिः परं गुणान्तरैरन्योऽपि शोभमानो दृश्यत इति तत्र राजपदप्रवृत्तिर्मा प्रसाङ्गीदिति राजचिद्वैरिति । असाधारणस्यैव लक्षणत्वं सम्भवतीत्यभिसन्धानेन तस्य विवरणम् - छत्र - वामरादिभिरिति । एकैकस्य च्छत्रादेरन्यत्रापि सम्भवान्नासाधारणत्वमतो यादृशस्य च्छादनन्यित्र सद्भावश्चामराद्युपेतस्य च्छत्रादेश्छत्राद्युपेतस्य चामरादेस्तादृशस्य प्रहणार्थं छत्रादिभिरित्यनुक्त्वा छत्र- चामरादिभिरित्युक्तम्, छत्रचामरादिभिरसौ न सर्वदाऽऽलिङ्गितो भवतीत्यत उक्तम्- सभाया.. मुपविष्ट इति तथा च सभोपविष्टत्वे सति च्छत्रचामरादिप्रयुक्त राजनवत्त्वमेव राजशब्दव्युत्पत्तिनिमित्तम्, तद्वानेव राजेति व्यपदिश्यते एवम्भूतनये इत्यर्थः । अत्र शङ्कते - नन्विति । एतन्मते एवम्भूतनये । ' तदतिप्रसक्तम् इत्यस्य स्थाने ' तदनतिप्रसक्तम्' इति पाठो युक्तः, तत् व्युत्पत्तिनिमित्तम् अनतिप्रसकं तत्तच्छब्दशक्येतरावृत्ति । ૨૪ Page #257 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः । चेत् ? सत्यम्- प्रसिद्धार्थपुरस्कारेण प्रवृत्तस्यैवम्भूतनयस्य स्वार्थातिपसङ्गो न दूषणम् , किन्तु तन्निवारकनयान्तरोपायकत्वेन भूषणमेव; एतदुपजीवी व्यवहारस्तु यथावृत्ति, हरिपदे तु पशुत्वं प्रयोगोपाधिर्यथा वा धेन्वादिपदे गोत्वं शक्युपाधिस्तथा गवादिपदे घटादिपदे च गोव-घटत्वादेस्तथात्वेनातिप्रसङ्गभङ्गमाह; न चैवं घटादिपदात् निर्विकल्पकापत्तिः, क्रियाशब्दमात्रवादिन एतस्य मते क्रियोपरागेणैव पदार्थोपस्थिति. अन्यथा तु अतिप्रसक्तस्यापि व्युत्पत्तिनिमित्तस्य प्रवृत्तिनिमित्तत्वाभ्युपगमे पुनः । तथा च केनचिद् रूपेणानतिप्रसक्तस्य व्युत्गत्तनिमित्तस्य प्रवृत्तिनिमित्तत्वव्यवस्थितौ च । तत्प्रयुकेति- छत्र-चामरादिप्रयुक्तत्यर्थः । इतरातिशायीति- राज. व्यतिरिक्तजनवृत्तिपुण्याद्यवधिकातिशयवदित्यर्थः। अनतिप्रसकस्य राजेतरावृत्तेः । अव्याहतत्वात् छत्र-चामरादिविरहकालेऽपि राजनि पुरुषविशेषेऽस्खलदूपतया सत्त्वात् । समाधते-सत्यमिति । तत् किं छत्र-चामरादिविरहकालेऽपि राजशब्दवाच्यत्वं पुरुषविशेरे एवम्भूतनयस्येष्टमेवेत्यत आह- प्रसिद्धार्थपुरस्कारेणेति - गच्छतीति गौरिति व्युत्पत्तेर्गम्धातोः प्रसिद्धो यो गमनरूपोऽस्तित्पुरस्कारेण- तदाश्रयेण, गमनवति गोशब्दवाच्यत्वे प्रवृत्तस्य स्वीकृतिपरायणस्यैवम्भूतनयस्य, स्वार्थातिप्रसङ्गः स्वविषयातिप्रसङ्गो गमनति गोभिनेऽश्वादावपि गोशब्दवाच्यत्वप्रसङ्गः, न दूषणं न दोषावहं तत्प्रसङ्गस्ये टारतिरूपत्वात् । तर्हि गनन प्रत्यश्वेऽयं गौरिति व्यवहारस्तन्मते कथं न भातीति पृच्छति-किन्विति । उत्तरयतितन्निवारकेति - उकातिप्रपङ्गनिवारकं यनयान्तरं व्यवहाराख्यं तदुपायको गौरिति व्यवहारस्तत्त्वेन अतिप्रसजनलक्षणं दूषणं भूषणमेव, व्यवहारो हि व्यवहर्तृजनावितव्यवहारपरतन्त्रो न वस्तुपरतन्त्रः, यथा यथा लोके यद् यद् व्यवह्रियते तथैव व्यवहारनयस्तदुदायभूनमतिप्रसङ्गनिवारकमुत्प्रेक्ष्य तत्र सङ्घटयति, ततो वस्तुस्थित्याऽतिप्रसङ्गो नास्त्येव, नहि लक्ष्ये समन्त्रयोऽतिप्रसङ्गः, किन्तु तथाऽव्यवह्रियमाणत्वाद् व्यवहारदृश्यैवातिप्रपजायाऽऽभातीति यावन्न व्यवहारनयः सम्मुखीनो भवति तावन्नातिप्रसङ्गः, सम्मुखीनश्च स स्ववश एव व्यवहृति स्थापयतीति अतिप्रसङ्गनिवारकवर्मसमर्पणेनातिप्रसङ्गं वारयतीत्येवमतिप्रपङ्गस्य भूषणत्वम् , 'तनिधारकनयान्तरोपायकत्वेन' इत्यस्य स्थाने 'तन्निवारकनयान्तरोपस्थापकत्वेन' इंति पाठो युक्तः, परेणोकातिप्रसङझे दते सति ततो व्यवहारनयः समुपतिष्ठत एव, स चोपस्थितो व्युत्पत्तिनिमित्ते उपाधिविशेषवशिष्ट्या धानेनातिप्रसङ्ग वारयतीति भावः । व्यवहारो यथोक्तातिप्रसङ्गं वारयति तथोपदर्शयति- एतदुपजीवोति- 'एवम्भूननयोपजीवी यर्थः। 'व्यवहारस्तु' इत्यस्य 'आह' इत्यनेन सम्बन्धः । 'यथावृत्ति, हरिपदे तु' इत्यस्य स्थाने 'यथाऽने कार्यवृत्तहरिपदे' इति पाठो युकः, अयमर्थः-यथा सिंह-सूर्येन्द्रोपेन्द्रादिनानार्थशकहरिपदे हरतीति हरिरिति व्युसत्यर्थस्य सर्वत्राविशेषेऽपि पशुत्वमुपाधि समाश्रित्य सिंहे हरिशब्दप्रयोग इति पशुत्वं सिंहे हरिशब्दप्रयोगस्य हरणाक्रमानिमित्त त्यो राषिः, यथा वा धेनुपदव्युत्पत्तिनिमित्तस्य धानकर्मत्वस्य महिध्यादौ सत्त्वेऽपि धेनुपदं न महिध्यादौ शक मति गोवं धेन्वादिादे शक्त्युमाधिः, तथा गवादिपदे गच्छ नीति गौरिति व्युत्पत्ति नमित्तस्य गमनक्रियावत्तस्याश्वदौ सत्त्वेऽपि गोत्वस्य शक्तयुगवित्वेन तस्याश्वादावभविन नाश्वादौ गोशब्दवाच्यत्वप्रसङ्गः, एवं घटते चेष्टते इति घट इति व्युत्पत्ति. निमित्तस्य क्रियाविशेषलक्षगचेष्टावत्त्वस्य घटभिन्ने सत्त्वेऽपि घटपदे घटत्वस्य शक्युपाधित्वेन तस्य घटभिन्नेऽभावान्न घटपदवाच्यत्वप्रसङ्ग इयेवमतिप्रसाभगमाह व्यवहार इत्यर्थः। ननु घटपदाद् घटत्वलक्षणशक्त्युपाधिपुरस्कारेण घटस्य निकलको स्थितिरपि सादिया राय प्रतिक्षिपति - न चेति। एवं घटादिपदे घटत्वादेः शक्त्युपाधित्वाभ्युपगमे । निवेचे हेतुमाह-क्रियेति । एतस्य एवम्भूतस्य तदुरजीवितो व्यवहारस्य च, सर्वे शब्दाः क्रियाप्रवृत्तिनिमित्तकत्वात् क्रियाशब्दा एवेतिवादिन एवम्भूतस्य तदुरजीविनो व्यवहारस्थ मते सर्वैरपि शब्दैः क्रियोपरागेणैव क्रियाविशिष्ट. तयैव पदार्थानामुपस्थितिरिति क्रियाप्रकारकपदार्थविशेष्यकोपस्थितेः सविकल्पिचया एव भावाद् घटादिसदानिर्विकल्पकबोधापत्त्यसम्भवादित्यर्थः । अत्रैव प्रसङ्गाच्छिष्यमतिविस्तारणार्थमेवम्भूतनयावलम्बनमन्यनयानुसारिणोऽपि कृतवन्त इत्युपदर्शयति-सर्वे शब्दा इति- अत्र “एतस्मादेव सर्वे शब्दा व्युत्पन्ना एवेति वैयाकरणकदेशिनों पक्ष उद्गतः" इति पाठः समुचितः। 'पतन्मतेनेव' इत्यस्य 'पङ्कजादिपदे योगमात्रमेवाहुः' इत्यनेनान्वयः, 'पतन्मतेनैव' स्थैवम्भूतनयमतसमाश्रयणेनैवेत्यर्थः, जाति-गुण-क्रिया-यदृच्छाशब्दवादिनः शब्दनयानुसारिण एतन्मतेनैव पङ्कजादिपदे योगमात्रमेवाहुरित्यन्वयः, एवं यदृच्छावर्जशब्दत्रयवादिनः समभिरूढनयानुसारिण एतन्मतेनैव पङ्कजादिपदे योगमात्रमेवाहुरित्यत्वयः, जातिशब्दो जातिप्रवृत्तिनिमित्तको घट-पटादिशब्दः, गुणशब्दो गुणप्रवृत्तिनिमित्तकः शुक्ल-नीलादिशब्दः, क्रियाशब्दः Page #258 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । नियमे तद्दोषाभावात्; सर्वे शब्दा व्युत्पन्ना एवेति वैयाकरणैकदेशिनां पक्षतः, एतन्मतेनैव जातिगुणः क्रिया यच्छाशब्दवादिनः शब्दनयानुसारिणः, यदृच्छावर्जशब्दत्रयवादिनः समभिरूढनयानुसारिणश्च गो-घटादिपदे गोव-घटत्वादिविशिष्टशक्तेरन्वयव्यतिरेकाभ्यामवधारणेऽपि पङ्कजादिपदे योगमात्रमेवाहुः । न च पद्मत्वप्रतीत्यर्थं तत्र समुदायशक्तिकल्पनमिति युक्तम्, व्युत्पत्तिमहापेक्षित पद्मत्वं (त्व) नियतशक्तिग्रहा हित संस्कारात् फलबल कल्प्योद्बोधिताच्छत्तिस्मृतिवत् पद्मत्वोपस्थितेरप्युपपत्तेः न च संस्कारोंपस्थितस्य शाब्दबोधेऽप्रवेशो, अन्यथा 'किं पचति ? ' इत्युक्ते प्रत्यक्षोपस्थितं कलापमादाय तत्र कर्मत्वं (इ) स्मृतकलाप कर्म कपाक बोधप्रसङ्गादिति वाच्यम्, अन्यान्वयतात्पर्यके पुरुषान्तरेण कलापमित्य- " क्रियाप्रवृत्तिनिमित्तको गत्यादिशब्दः, यदृच्छाशब्दः स्वेच्छाकल्पितोपाधिप्रवृत्तिनिमित्तको डित्थ-डवित्थादिशब्द इत्येवं शब्द • चतुष्टयवादिनः शब्दनयानुसारिणः । यदृच्छावर्जेति यदृच्छाशब्दं मुक्तत्वा जातिशब्द-गुणशब्द क्रियाशब्देति शब्दत्रयवादिनः समभिरूडनयानुसारिणः । योगमात्रम् अवयवशक्तिमात्रम्, मात्रपदेन पङ्कजादिपदे पद्मत्वाद्यवच्छिन्ने समुदायश केर्व्यवच्छेदः ॥ ननु यदि पङ्कजादिपदस्य न पद्मत्वाद्यवच्छिन्ने समुदायशक्तिस्तर्हि पद्मत्वेन रूपेण पद्मोपस्थितेस्ततोऽभावादवयव शक्तया पङ्कजनिकर्तुरेवोपस्थितेः पङ्कजनिकर्तृमात्रस्यैव शाब्दबोधः स्यान्न पद्म: वेन पद्मस्य, भवति च पङ्कजपदात् पद्मत्वे नापि बोध इति तदर्थं समुदायशक्तिरवश्यकल्प्यैव पङ्कजादिपदस्येत्याशङ्क्य प्रतिक्षिपति-न चेति - अस्य युक्तम् ? इत्यनेनान्वयः । तत्र पद्मत्वविशिष्टे । समुदाय शक्तीति सम्पूर्गपङ्कजपदशक्तीति, प्रकृति-प्रत्यय विभागानपेक्षा खण्डपदशक्तीति यावत् । निषेधहेतु मुपदर्शयति व्युत्पत्तिग्रहेति पङ्काज्जायते इति पङ्कजमित्येवं या पङ्कजपदस्य व्युत्पत स्तदुग्रहः पङ्कजनिकर्तरि जायते, कः पङ्कजनिकर्तेत्याकाङ्क्षानिवृत्तये तेनापेक्षितो यः पद्मवनियनशक्तिप्रहः पद्मं पङ्कजनिकत्रित्येवंप्रहादेवोक्त्ताकाङ्क्षानिवृत्तिः, तद्ब्रहश्च पद्मत्वावच्छिन्ने पद्मपदशक्तिप्रहे सत्येवेति पद्मत्वनियतशक्तिग्रहोऽप्युकव्युत्पत्तिग्रहापेक्षित इति तादृशशक्तिग्रहा हितस्तादृशश कि प्रहजनितो यः संस्कारः स पद्मत्वनियतशक्तिविषयकत्व तु पद्मत्वविषयकोऽपि, तस्माच्च संस्काराद् योगशक्तिस्मरणद्वार कपङ्कजपदजन्यपङ्कजनिकर्तृरूपार्थस्मरणकाले यत् पद्मस्यापि स्मरणं तद्रूपफलं तदैव भवितुमर्हति यदि तत्संस्कारस्तदोद्बोक्तिः स्यादित्येवं फलबलकल्प्योद्बोधितादुक्तसंस्कारात् पद्मशक्तिस्मृतिवत् पद्मत्त्रस्यापि स्मृतिलक्षणोपस्थितेः सम्भवेनोतदिशोपस्थितस्य पद्मत्वस्य पङ्कजपदादनुरस्थितस्यापि शाब्दबोधे भानस्योपपतर्न तदर्थं पङ्कजपदस्य पद्मत्वावच्छिन्ने शक्ति कल्पनाssवश्य कीत्यर्थः । ननु समानविपयत्वप्रत्यासत्या पदजन्योपस्थितेरेव शाब्दबोधं प्रति कारणत्वमिति पदादुपस्थितस्यैवार्थस्य शाब्दबोधे भानमिति पङ्कजपदात् पद्मत्वेनानुपस्थितस्य पद्मस्य प्रकारान्तरेणोपस्थितस्यापि न पङ्कजपदजन्य शाब्दबोचे भानसम्भव इत्याशङ्कय प्रतिक्षिपति न चति- अस्य ' वाच्यम्' इत्यनेनान्वयः । संस्कारोपस्थितस्येति प्रकृतवाक्यघटकपदानुपस्थितस्य संस्कारोपस्थितस्येत्यर्थः तेन पदजन्योपस्थिति विषयस्य संस्कारोपस्थितत्वेऽपि न क्षतिः । अन्यथा पदादनुरस्थितस्यापि प्रकारान्तरेणोपस्थितस्य शाब्दबोधविषयत्वाभ्युपगमे । यद्यपि ' पचति' इत्येतावन्मात्रोकेऽपि प्रत्यक्षोपस्थितं कल्प्रयं कर्मत्वं चादाय कलाय. कर्मकत्रोधप्रसञ्जनं सम्भवति तथापि जिज्ञासाविषयतया यदा कर्मत्वं पदादुपस्थितं तदा ततो जायमाने शाब्दबोधे जिज्ञासितकर्मता पाकस्यैव भानमनुभूयते न तु नियतपदार्थनिष्ठ कर्मताकपाकस्य भानम्, तदपीदानीं पदादनुपस्थितस्यापि प्रमाणा न्तरोपस्थितस्य शाब्दे प्रतिभासनोपगमे स्यादिति सर्वथाऽनिष्टोऽयं प्रसङ्ग इत्यावेदनाय 'किम्' इत्युक्तम्, यद्यपि किमर्थावभांखनेऽपि कलायकर्मपाकावभासनं भवत्येव किं कलायं पचति ?' इत्यत्र, तथापि तत्र किं कलायं पचति अन्यद् वा ? " इत्येवं कर्मान्तरमुपादाय तत्प्रतिभासनम्, विशिष्य त्वेकस्यैव कलाय कर्म कपाकस्यावभासनं न भवतोति किम्पदसमभिव्याहृतवाक्यात् केवलकलायकर्म कपाकावभासनमदृष्टचरमेवेति तदापादनस्य भवत्यनिष्टापादनत्वम्, 'कलापमादाय ' इत्यादौ सर्वत्र 'कलान' इति स्थाने 'कलाय ' इति पाठो युक्तः, कलापपदं शस्यविशेषवाचकम् । तत्र किं पचतीत्यत्र । 'कर्मत्वं [इ] स्मृतकलापकर्मक' इति स्थाने' कर्मत्वमिव स्मृतं कलायकर्मक' इति पाठो युक्तः स्मृतं कर्मत्वमिवेत्यन्वयः, स्मृतं कर्मत्वमादाय यथा जिज्ञासितकर्मता कप कबोधस्तथा प्रत्यक्षोपस्थितं कलायमादाय कलायकर्मक राकबोधः स्यादित्यर्थः, वस्तुतः किं पचति' इति पृष्टे तदनन्तरमुत्तरवाक्ये पचति' इत्यनुषज्यत एव न तत्रोत्तरयितुर्व्यापारः, किन्तु तण्डुल १८७ - Page #259 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। भिधाने स्वयं वा स्मर्यमाणे तात्पर्याप्रहादेवान्वयानवबोधात् , तद्बहे च वधूपदर्शितकलापेनाप्यन्वयावबोधात् तद्ब्रहस्यैव नियामकत्वात् , अत एव तात्पर्यविषयान्वयप्रतियोगिवाचकपदाच्याहारपेक्षयाऽर्था. ध्याहार एव लाघवमामनन्ति, अत एव पदजन्यपदार्थोपस्थितेरेव शाब्दबोधहेतुत्वात् संस्कारोपस्थितस्य न शाब्दबोध इति निरस्तम् , तात्पर्यस्यैव नियामकत्वे पदजन्यत्वप्रवेशे गौरवात्, न च शक्ति विना पनत्वस्योपस्थित्यनियमेऽनुभवानियमप्रसङ्गः, शक्ति विना शक्तेरिव तस्य नियतस्मृतिसम्भवे अनुभवनियमस्य युक्तत्वात् , लक्षादेरनुभवानियमस्योपस्थित्यनियमप्रयोज्यत्वात् , अन्यथा नानार्थेऽता. कलायादिकर्मविशेषबोधकपदोचारण एव सोऽपि व्यापार इदानीं नापेक्षितः स्यात् , अनुषग्यमानपचतीत्येतावन्मात्रत एवोत्तरवाक्यतः प्रत्यक्षोपस्थितं कलायमादाय कलायकर्मकपाकबोधः स्यादित्यर्थः। निषेधे हेतुमाह-अन्यान्वयतात्पर्यक इति'किं पचति' इति केनचित् पृष्टेन तदुत्तराभिसन्धानेन पुरुषान्तरेण कलायमिति पदमभिहितम् , किन्तु 'कलायं पश्यति. कलाय सङ्ग्रह्णाति' इत्यादिदर्शनाद्यन्वय तात्पर्येणैव तत्रान्वयतात्पर्यककलायादिपदत उपस्थितस्य कलायस्य कर्मतया पाकेs न्वयतात्पर्यग्रहाभावादेवान्वयावबोधाभावात् , एवं न केनापि तदानीं कलायमित्यभिहितं परं पूर्वसंस्कारमहिम्नव कलायस्मरणं जातमेवमपि तात्पर्यग्रहाभावादेव कलायकर्मकपाकावबोधाभावादिदं वाक्यं कलायकर्मकपाकबोधेच्छयोच्चरितमित्या. कारकतासर्यप्रहस्यैव कलायकर्मकपाकान्वयबोधहेतुत्वमिति प्रत्यक्षोपस्थितेऽपि कलाये उक्ततात्पर्यग्रहाभावादेव कलायकर्मकपाकान्वयबोधापत्त्यसम्भवात् , प्रमाणान्तरोपस्थितस्यापि च कलायस्योक्ततात्पर्यग्रहसत्त्वेऽन्वयबोधो भवत्येव, यथा स्ववधूः पुत्रवधू किं पचति भवति ।' इत्येवं पृष्टा 'नान्यसन्निधाने स्वामिना सह वक्तव्यम् , श्वशुरेण समं च न वक्तव्यमेव' इति लोकमर्यादा परिपालयन्ती न किञ्चिद् वक्ति, किन्वङगुल्यादिनोपदर्शयति कलायम्, तत्र कलायकर्मकपाकबोध. स्तात्पर्यज्ञानाच्छन्दनानुपस्थितेऽपि कलाये भवतीति तात्पर्य ग्रहस्यैवोक्तबोधनियामकत्वादित्यर्थः । तहहेच तात्पर्यग्रहे च । तहहस्यैव तात्पर्यग्रहस्यव, एवकारेण पदमात्रजन्योपस्थितेरन्वयबोधनियामकत्वव्यवच्छेदः । अत एव तात्पर्यग्रहे सति पदादनुपस्थितस्यापि प्रमाणान्तरोपस्थितस्य शाब्दबोधविषयत्वाभ्युपगमादेव । तात्पर्येति- तात्पर्यस्य विषयो यः कलायकर्मकत्वस्य पाकेऽन्वयः, तत्प्रतियोगि- तन्निका यत् कलायकर्मत्वम् , तवाचक तदवबोधकं यत् पदं-द्वितीयाविभक्त्यन्तं कलायमिति पदम् , तदध्याहारापेक्षया- उक्त पाक्यघटकतया तत्स्मृतिकल्पनापेक्षया । अर्थाध्याहारे प्रमाणान्तरेण कलायरूपार्थोपस्थितौ। एवकारेणं पदाध्याहारे लाघवस्य व्यवच्छेदः, पदाध्याहारपक्षे पूर्व पदं कल्पनीयं ततोऽर्थोपस्थितिस्ततोऽन्वयवोध इति गौरवम् , अर्थाध्याहारपक्षे प्रमाणान्तरादर्थोपस्थितावनन्तरमेवान्वयबोध इति लाघवमित्येवमर्थाध्याहारपादिन मामनन्ति । 'द्वारम्' इत्युक्ते 'पिवेहि' इत्यादिक्रियाबोधकवाक्योपस्थितिकल्पनामन्तरेणैव पिधानादिक्रियालक्षणार्थोरस्थितित एव द्वारकर्मकपिधानबोध इति न पदार्थोपस्थितौ पदजन्यत्वप्रवेशस्यावश्यकता, पदमन्तरेण संस्कारोपस्थितस्य शाब्दबोधाभावस्तु तात्पर्यग्रहाभावादेवेयाशयनाह-अत एवेति- अस्य 'निरस्तम्' इत्यनेनान्वयः, अत एवतात्पर्यग्रहस्य शाब्दबोधनियामकत्वादेव, संस्कारोस्थितस्य पदग्रहमन्तरेणैवान्यत उद्बुद्धसंस्कारादुपस्थितस्य, तेन पदोपस्थितस्यापि संस्कारोपस्थितत्वस्यावश्यंभावेन तथाभूतस्य शान्दबोधसम्भवेऽपि न क्षतिः । तात्पर्यस्यैव तात्पर्य : प्रहस्यैव । ननु समभिरूढमते पङ्कजपदस्य पद्मवे समुदायशक्त्यनभ्युपगमेऽवयवशक्त्या पङ्कजनिकर्तृत्वस्यैवोपस्थितिरिति 'पङ्कजमस्ति' इत्यत्र पद्मत्वस्योपस्थापकस्य नियतस्याभावान भवेदपि पद्मत्वस्योपस्थितिरिति तदुपस्थित्यनियमे तदनुभवनियमोऽपि ततो न भवेदित्याशय प्रतिक्षिपति-न चेति । यथा जातिशक्तिवादिमते आनन्याद् व्यक्ती शक्त्यभावेऽपि जातिर्व्यक्तिमन्तरेण न भासत इत्यतो नियतव्यक्तिस्मृतितो नियतव्यक्त्यनुभवो भवति तथा तात्पर्यग्रहबलादेवाशक्यस्यापि पद्मत्वस्य स्मृतितोऽनुभवनियमः स्यादेवेति निषेधहेतुमुपदर्शयति-शक्ति विनेति, 'शक्तरिव' इति स्थाने 'व्यक्तेरिव' इति पाठो युक्तः। तस्य पद्मत्वस्य । लक्ष्यार्थे शक्त्यभावे क्वचित् कस्यचित् कदाचिदनुभव इत्येवं योऽनुभवानियमस्तस्योपस्थित्यनियमप्रयोज्यत्वमेव, नहि लक्ष्यार्थस्योपस्थितिनियमोऽस्ति, पद्मत्वस्य तु शक्यत्वाभावेऽप्युपस्थितिनियमस्तात्पर्यबलात् समस्त्येवाऽतोऽनुभवनियमोऽपि युज्यत इत्याह-लक्षादेरिति-अत्र 'लक्ष्यादेः' इति पाठो युक्तः, अत्रादिपदालक्ष्यतावच्छेदकस्योपप्रहः, व्यञ्जनावृत्तिपक्षे व्यङ्यार्थोपग्रहोऽपि ततो बोध्यः । Page #260 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलईतो नयोपदेशः। पर्यविषयस्यापि शक्यतयाऽनियतानुभवविषयताप्रसङ्गात् , शक्यानेकोपस्थितौ तात्पर्य नियामकमिति चेत् ? न- अशक्योपस्थितावपि तस्यैव तथात्वात् , न च कुमुदाद्यप्रतीत्यर्थ समुदायशक्तिकरूपनमित्यपि युक्तम् , तत्राशक्तेरेव तदप्रतिपत्तेः, नहि घट-पटादावपि पटाद्यप्रतिपत्त्यर्थ शक्तिकल्पनम् , न च योगस्य कुमुदादिसाधारणत्वात् तत्रापि प्रयोगप्रसङ्गः, योगपुरस्कारेणेष्टत्वात् , नहि 'पङ्कजशैवालमान' 'पङ्कजकुमुदमानय 'इति प्रयोगं कश्चिद् बाध्यतया व्यवहरति, अस्तु वा परस्य समुदायशक्तिरिव मम पद्मत्वस्मरणस्य कुमुदादौ प्रयोगप्रतिबन्धकत्वम् , यद्वा पङ्कज(पक)पदोत्तर'ज'पदस्यैव कुमुदादिस्मरण अन्यथा तात्पर्यविषयत्वस्यानुभवविषयत्वनियामकत्वमनभ्युपगम्य शक्यत्वस्यैवानुभवविषयत्वनियामकत्वाभ्युपगमे। 'शक्य तयाऽनियत' इति स्थाने 'शक्यतया नियत' इति पाठो युक्तः, यदि शक्यत्वमेव शाब्दबोधात्मकानुभवविषयत्व. नियामकं तर्हि अश्वानयनबोधेच्छयोचरिते 'सैन्धवमानय' इति वाक्येऽपि सैन्धवपदस्याश्व इव लवणेऽपि शक्यत्वस्य भावेनाश्वानयनबोधवल्लवणानयनबोधोऽपि प्रसज्येतेयर्थः । ननु नानार्थस्थले शक्यत्वाविशेषात् सर्वेषां शक्यार्थानामुपस्थिता. वपि यस्य शक्यार्थस्यान्वयबोधे तात्पर्यस्य ग्रहस्तस्यैव शक्यार्थस्यान्वयबोधो नान्यस्य शक्यार्थस्योपस्थितस्यापीत्याशङ्कतेशक्यानकोपस्थिताविति । तात्पर्य तात्पर्यग्रहः । नियामक शाब्दबोधविषयत्वनियामकम् । नानार्थस्थले तात्पर्यग्रहविषयत्वस्य शाब्दबोधविषयत्वनियामकत्वव्यवस्थितौ लाघवात् सर्वत्रैव तस्य तन्नियामकत्वमित्यशक्यानेकोपस्थितावपि यस्यैवा. शक्यस्यान्वयबोधेच्छयोच्चरितत्वग्रहस्तस्यैवान्वयबोधो नान्यस्येति नियमोपपत्तरिति समाधत्ते-नेति । तस्यैव तात्पर्यग्रह. स्यैव । तथात्वात शाब्दबोधविषयत्वनियामकत्वात् । ननु पङ्कजपदस्य यथा न पद्मत्वे शक्तिस्तथा कुमुदत्वेऽपि एवं सत्यपि यथाऽशक्यस्यापि पद्मत्वस्यान्वयबोधस्तथा कुमुदत्वस्यापि स्यात्, तदापत्तिपरिहारार्थ पङ्कजपदस्य पद्मत्वे समुदायशक्तिकल्पनमावश्यकम् , एवं सति समुदायशक्त्योपस्थितस्य पद्मत्वस्यान्वयबोधो न तु कुमुदत्वस्य, तत्र समुदायशक्त्यभावादि. त्याशङ्कय प्रतिक्षिपति-न चेति- अस्य ‘युक्तम्' इत्यनेनान्वयः । शक्ती सत्यामपि कस्यचिदेव शक्यस्य भानमित्यत्र तात्पर्य नियामकम्, शक्यभिन्नस्यापि कस्यविदर्थस्य भाने तात्पर्यमेव नियामकम् , कुमुदत्वे तु न शकिर्नवी तात्पर्यम्, पद्मत्वे तु शक्त्यभावेऽपि तात्पर्य समस्तीति पद्मवप्रतीतिः सम्भवति, न तु कुमुदत्वप्रतीतिरिति निषेधहेतुमुपदर्शयति-तत्रेति- कुमुदत्वे इत्यर्थः। तदप्रतीनेः कुमुदत्वेन पङ्कजनिकर्तुरप्रतीतेः । समभिरूढनये घटादिपदेनापि जलाहरणादिलक्षणक्रियात्मकचेष्टावत्वरूपयोगार्थमुपादायैव घटाद्यर्थप्रतीतिः, तत्र घटत्वस्याशक्यस्य भानं तात्पर्यबलादेव, तात्पर्याभावादेव न घटादिपदतः पटाद्यर्थप्रतीतिरित्येतावतैवोपपत्तौ न घटादिपदस्य घटलादौ शक्तिकल्पनमित्याहनहीति-अस्य 'शक्तिकल्पनम्' इत्यनेनान्वयः । 'घट-पटादापि' इति स्थाने 'घटपदादावपि' इति पाठो युक्तः । ननु पङ्कजपदस्यावयवशक्तिलक्षणयोगतो लभ्यस्य पङ्कजनिकर्तृत्वरूपार्थस्य कुमुदादावपि पङ्कजाते सत्त्वात् कुमुदादिकमुपा. दायापि पङ्कजमस्तीति प्रयोगः स्थादित्याशङ्कामिष्टापत्त्या परिहरति-न चेति । तत्रापि कुमुदादावपि । प्रयोगप्रसका पडुजपदप्रयोगप्रसङ्गः। निषेधे हेतुमाह-योगपुरस्कारेणेति-पङ्कजनिकर्तृरूपार्थे या पङ्कजपदस्यावयवशक्तिस्तदालम्बनेने. त्यर्थः । इष्टत्वात् कुमुदादौ पङ्कजपदप्रयोगस्येष्टत्वात् । इष्टापत्तिमेव द्रढयति-नहीति- अस्य 'व्यवहरति' इत्यनेना. न्वयः, 'पङ्कजशैवालमानय' इत्यत्र पङ्कजपदस्य पङ्कजनिकर्तृरूपार्थादरणे सत्येव तस्याभेदेन शैवालपदार्थेऽन्वयो घटते, एवं 'पङ्कजकुमुदमानय' इत्यत्रापि, पद्मरूपसमुदायशक्त्यार्थाश्रयणे तु तदभेदस्य शैवालादौ बाधात् 'पङ्कजशैवालमानय ' इत्यादिप्रयोगस्य बाधितार्थकचेन-बाध्योऽयं प्रयोग इत्येवं व्यवहारः स्यात्, न च कश्विदेवं व्यवहरतीत्यतो ज्ञायते योगपुरस्कारेणायं प्रयोग इतीष्ट एवायमित्यर्थः । पङ्कजसदस्य पद्मे शक्तिरित्यभ्युपगन्तृमते यया समुदायशक्तिग्रहस्य कुमुदादौ पङ्कजपदप्रयोगप्रतिबन्धकत्वं तथा समभिरूढमते पद्मत्वस्मरणस्य तथातमित्याह - अस्तु वेति । परस्य समुदायशक्त्यभ्युपगन्तुः, 'मते' इति शेषः। 'समुदायशक्तिरित' इति स्थाने 'समुदायशक्तरिव' इति पाठो युकः, पङ्कजपदस्थ पद्मे शक्तिमजानानः कुमुदादौ पङ्कजपदं प्रयुत एवेति समुदायशकेरियस्य समुदायशकिग्रहस्येत्यर्थः । लाघवादाह- यद्वेति- यद्यपि पङ्कपदोत्तरजपदस्य यथा कमलशकत्वेन कमलस्यैव स्मास्कत्वेन कुमुशादिस्मरणप्रतिबन्धकत्वं तथा नीरपदोत्तरजपदस्य, एवं जलादिपदोत्तरजपदस्यापि, तथापि कर्दमपदा Page #261 -------------------------------------------------------------------------- ________________ १९० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । प्रतिबन्धकत्वं कल्पनीयं ' गो-बलीवौ ' इत्यत्र बलीवईसमभिव्याहृतगोपदस्य बलीवर्दस्मरण इव, तेन न कुमुदप्रियस्य कुमुदस्मरणेन पद्म एव प्रयोगप्रतिबन्धः। न चैवं लक्षणयापि पङ्कजपदात् कुमुदानुपस्थितिप्रसङ्गः, शक्या तदुपस्थितावेव तत्प्रतिबन्धकत्वात् , अत एवावयवशक्तावेव केचित् कोन्ज्यं कल्पयन्ति; न च, पद्मत्वप्रकारकपद्मविषयानुभवजनकत्वात् तादृशस्मरणजनकत्वाद् वान्यत् पदस्य शक्तत्वम् , तदशा( तज्ज्ञा)नस्य नैयायिक-मीमांसकयोः पदार्थप्रत्यये व्यभिचारेणाकरणत्वात् , तदनुपयुक्तायाश्च शक्तित्वस्य परिभाषामात्रत्वादिति समुदायशक्तेरावश्यकत्वम् , न च तदभावेऽनुभावकत्वस्यैवानुपपत्तिः, असम्बद्धानु. धुत्तरजपदस्य कुमुदादिस्मारकत्वमपि संभवति. ततो न तस्य कुमुदादिस्मरणप्रतिबन्धकत्वमित्येवकारेण तस्यापि व्यवच्छेदः, एवं पद्मस्वस्मरणस्य कुमुदादौ पङ्कजादप्रयोगप्रतिबन्धकत्वस्य व्यवच्छेद इति लाघवम् । उक्तप्रतिबन्धकत्वकल्पनस्य सम्यक्त्वावगतये दृष्टान्तमाह-गो-बलीव वित्योति- यत्र 'गौरस्ति' इति वाक्ये केवलं गोपदमस्ति तत्र गोपदादू गोत्वेन रूपेण बलोवर्दस्यापि स्मरणं भवत्येवेति बलोवर्दपदासमभिव्याहृतस्य गोपदस्य न बलीवर्दस्मरणप्रतिबन्धकत्वं किन्तु बलीवर्दसमभिव्याहृतगोपदस्थेति बोध्यम् । पद्मत्वस्मरणस्य कुमुद पङ्कजपदप्रयोगप्रतिबन्धकत्वे यस्य प्रमातुः कुमुदमेव कमलापेक्षयाऽतिप्रियं तस्य पङ्कजपदात् कुमुदस्मरणमपि पने पङ्कजपदप्रयोगप्रतिबन्धक किमिति न भवेदिति दोषोऽपि पङ्कपदो. ताजपदत्य कुमुदस्मरणप्रतिबन्धकत्वपक्षे न सम्भवति, ज्ञाते पकपदोत्तरजपदे कुमुदस्मरणस्यैवाभावादित्याह-तेनेति- पहपदोत्तरजपदस्य कुमुदस्मरणप्रतिबन्धकत्वेनेत्यर्थः । नञः 'प्रयोगप्रतिबन्धः' इत्यनेनान्वयः । प्रयोगप्रतिबन्धः पङ्कजपदप्रयोगप्रतिबन्धः । ननु यदि पवादोत्तरजपदस्य कुमुदस्मरणप्रतिबन्धकत्वं तदा यत्र लक्षणया पङ्कजपदं कुमुदे प्रयुज्यते तत्र लक्षणारूपवृत्तिग्रहसहकारेण पङ्कजपदाद् यत् कुमुदस्मरणं भवति तदपि न स्यात् तत्रापि पङ्कपदोत्तरजपदस्य कुमुदस्मरणप्रतिबन्धकस्य सद्भावादित्याशङ्का प्रतिक्षिपति-न चैवमिति। एवं पङ्कपदोत्तरजपदस्य कुमुदस्मरणप्रतिबन्धकत्वकल्पने । शक्त्यात्मकवृत्तिग्रह जन्मकुमुदस्मरणं प्रयेव पङ्कपदोत्तर जपदस्य प्रतिबन्धकत्वं कल्प्यते, एवं च लक्षणात्मकवृत्तिप्रहजन्यकुमुरस्मरणस्य निरुक्तप्रतिबध्यतावच्छेदकधर्मानाकान्तत्वादेव पङ्कजपदादुत्पत्तावपि न क्षतिरिति निषेधहेतुमुपदर्शयति-शक्त्येति । तदुपस्थितावत्र स्मरणात्मककुमुदोपस्थि-नवेव, एवकारेण लक्षणया कुमुदोपस्थितेव्यवच्छेदः । तत्प्रतिबन्धकत्वात् पङ्कपदोत्तरजपदस्थ प्रतिबन्धकत्वात् । अत एव शक्तिग्रह जन्यकुमुदस्मरणे पङ्कपदोत्तरजपदस्य प्रतिबन्धकत्वकल्पनादेव । यदि पङ्कजपदस्य पझे समुदायशक्ति भ्युपेयते तदाऽवयवशक्तेः कुमुदे सत्त्वात् किमिति न कुमुदप्रतीतिरिति न वाच्यम् , शक्तिमहजन्यकुमुदस्मरणे पङ्कपदोत्तरजपदस्य प्रतिबन्धकत्वेन तत्र सत्या अप्यवयवशक्तेः कुण्ठितत्वादि. त्येवं केचित् कल्पयन्तीत्यर्थः । ननु पकजपदस्य पद्मे समुदायशक्तिर्नास्तीत्येवमुक्तदिशा व्यवस्थापनमयुक्तम्, यतः पकजपदस्य पद्मत्वप्रकारकपद्मविशेष्यकानुभवं प्रति यत् कारणत्वम् , यद्वा पद्मत्वप्रकारकपद्मविशेष्यकस्मरणं प्रति यत् कारणत्वम्, तस्यैव शक्तित्वं न तूक्तकारणत्वादतिरिक्ता शक्तिः समस्ति, तज्ज्ञानाभावेऽपि पदार्थानुभवस्य पदार्थस्मरणस्य वा भावेन व्यभिचारेण तज्ज्ञानस्य कारणत्वासम्भवात्, तथा च निरुक्तानुभवजनकत्वरूपाया निरुक्तस्मरणजनकत्वरूपाया वा समुदायशक्तेः पङ्कजपदे सद्भावात् समुदायशक्तिर्नास्तीति कथनमयुक्तमित्याशय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इति व्यवहितेन सम्बन्धः । 'तादृशस्मरणजनकत्वाद वाऽन्यत पदस्य शक्तत्वम्' इत्यस्य स्थाने "तादृशस्मरण जनकत्वाद् वा नान्यत् पदस्य शक्तत्वम्" इति पाठो युक्तः । निरुक्तजनकत्वलक्षणशक्तिश्च स्वरूपसत्येवोपयुक्ता न तु ज्ञाता, तज्ज्ञानाभावेऽपि पदार्थप्रत्ययोदयेन व्यभिचारादित्याह- तज्ज्ञानस्येति-निरुक्तशक्तिज्ञानस्येत्यर्थः । निरुतानुभवजनकत्व-निरुक्तस्मरणजनकत्वव्यतिरिक्ता च शक्तिर्न पदार्थप्रत्यये उपयुज्यते इति तां परिकल्प्य तस्याः शक्तित्वस्य परिभाषामात्रत्वेन न परीक्षकैरुपादेयत्वमित्याह- तइनुपयुकायाश्चेति-पदार्थप्रत्ययानुपयुक्तायाश्चेत्यर्थः । ननु पद्मत्वप्रकारकपद्मविशेष्यकानुभवजनकत्व पद्मत्वप्रकारकपद्मविशेष्यकस्मरणजनकत्वाभ्यां व्यतिरिका या समुदायशक्तिस्तस्या एवानावश्यकत्वं समभिरूढनयवादिनोऽभिमतम् , यश्च भवद्भिनिरुक्तानुभवजनकत्व-निरुक्तस्मरणजनकत्वस्यैव समुदायशक्ति-मभिप्रेत्य समुदायशकेरावश्यकत्वं प्रतिपाद्यते तन्न युक्तं समुदायशकेरभावे निरुक्तानुभवजनकत्व-निरुक्तस्मरणजनकत्वयोरेवानुपपत्तेः, नहि बच्छन्दो येनार्थनासम्बद्धः स शब्दस्तमर्थमनुभावयितुं स्मारयितुं वा समर्थोऽतिप्रसङ्गादिति तटस्थान प्रतिक्षिपति-न. Page #262 -------------------------------------------------------------------------- ________________ नय।म्रुततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । १९१ , भवेऽतिप्रसङ्गादिति वाच्यम्, पूर्वपूर्वतरज्ञानविषयत्वस्यैव सम्बन्धत्वात्, तस्य चानादित्वादिति वाच्यम् ; उक्तानुभव - स्मरणजनकत्वमेव शक्तत्वमित्यभ्युपगमे गङ्गापदादेश्तीरत्वप्रकारकती राद्यनुभवजनकत्वेन तत्र शक्तिप्रसक्तौ लक्षणामात्रोच्छेदप्रसङ्गात्; अथ लाक्षणिकमननुभावकमेव ' गङ्गायां घोष: ' इत्यत्र घोषादिपदस्यैव लक्षणास्मारिततीररान्वयानुभवजनकत्वात् तस्य च शक्तत्वादेव नोक्तदोष इति चेत् ? - तथापि तत्प्रकारकतद्विषयक ज्ञानजनकत्वा प्रतिसन्धानेऽपि देवदत्तादिपदादसौ बोद्धव्यः' इत्यभि प्रायप्रतिसन्धानादर्थोपस्थितेर्दर्शनात् सर्वत्र तत्तदर्थविशेषेऽभिप्रायविशेषविषयत्वस्यैव पदानां वाचकत्वस्य व्यवस्थितेः न च देवदत्वादिपदे सङ्केतज्ञानस्य कारणतावधारणात् पूर्वं गवादिपदेषु सङ्केतकल्पकप्रमाणा " 9 चेति - अस्य ' वाच्यम्' इत्यनेनान्वयः । तदभावे अतिरिक्त शक्त्यभावे । असम्बद्धस्यानुभावकत्वं स्मारकत्वं वा नाङ्गीक्रियते येनातिप्रसङ्गः स्यात्, किन्तु पूर्वपूर्वतरज्ञानविषयत्वमेवार्थेन सह पदस्य सम्बन्धः, ज्ञानं च समूहालम्बनं पदार्थयोप्रह्यमिति नातिप्रसङ्ग इति निषेधहेतुमुपदर्शयति- पूर्वेति । तस्य च पूर्वपूर्वतरज्ञानविषयत्वलक्षणसम्बन्धस्य पुनः । अनादित्वात् ज्ञानस्य सादिले तत्समानकालीनस्य तद्विषयत्वस्थापि यद्यपि सादित्वमेव तथापि पूर्वपूर्वतर ज्ञानपरम्पराया अनादित्वेन तदाश्रयणेन तद्विषयत्वस्य प्रवाहृतोऽनादित्वमिति बोध्यम् । पद्मत्वप्रकारकपद्म विशेष्यकानुभवजनकत्व - तथाविधस्मरणजनकत्वयोः शक्तित्वप्रतिषेधे हेतुमुपदर्शयति- उक्तानुभवेति- पद्मत्वप्रकारकपद्म विशेष्य कानुभवेत्यर्थः । गङ्गापदादेरिति 'गङ्गायां घोष:' इत्यत्र ' गङ्गातीरे घोष:' इति शाब्दबोधानुरोधेन गङ्गापदस्य गङ्गातीरत्वप्रकारकतीर विशेष्यकानुभव जनकत्वमवश्यमेषितव्यमिति गङ्गापदस्यो क्तानुभवजनकत्व लक्षणं गङ्गातीरशक्तत्वमेव भवेत् एवं यस्य पदस्य यस्मिन्नर्थे लक्षणा शाब्दानुभवानुरोधेनोपेयते तस्य पदस्य तदर्थविषयकानुभव जनकत्वलक्षणतच्छकत्वमेव स्यादिति लक्षणात्मकशब्द ते रुच्छेदप्रसङ्गादित्यर्थः । ननु पदानां शक्ति लक्षणान्यतरसम्बन्धेनेतरपदार्थान्वितस्वराक्यार्थबोधं प्रति जनकत्वमेवानुभावकत्वम् ' गङ्गायां घोष:' इत्यत्र गङ्गापदस्य घोषपदार्थान्वितस्वशक्यार्थशाब्दबोध जनकत्वाभावेन नानुभावकत्वं किन्तु घोषपदस्यैव गङ्गापदार्थगङ्गातीरान्वितस्वशक्यार्थ घोषविषय कशाब्दबोधजनकत्वेनानुभावकत्वमिति तत्र घोषपदस्यैव शकत्वं न तु गङ्गापदस्य, किन्तु तस्य गङ्गातीररूपार्थे लाक्षणिकत्वमेवेति न लक्षणोच्छेद इति शङ्कते - अथेति । लाक्षणिकस्याननुभावकत्वे कथं लाक्षणिकार्थस्य शाब्दबोधे भानमित्यपेक्षायामाह - गङ्गायां घोष इत्यत्रेति तथा च यस्मिन् वाक्ये सर्वाण्येव पदानि शक्तानि तत्र सर्वेषामेव पदानां तद्धटकानामनुभावकत्वम्, यत्र तु किञ्चिदेव पदं शकं तत्र तस्यैव शक्तस्य पदस्यानुभावकत्वम् तथा च गङ्गायां घोष:' इत्यत्र घोषपदस्य लक्षणया गङ्गापदस्मारितगङ्गातीररूपार्थान्वयानुभवजनकत्वाल्लाक्षणिकार्थस्य शाब्दबोधे भानं संभवतीत्यर्थः । तस्य च घोषपदस्य च । नोकदोषः न लक्षणामात्रोच्छेदप्रसङ्गः । समाधत्ते नेति । तथापि उक्तदिशा लक्षणोच्छेदप्रसङ्गपरिहारेऽपि, पदस्य शक्तिलक्षणवृत्तिज्ञान सहकारणार्थोपस्थितिद्वारा शाब्दबोधजनकत्वं भवति, तथा च यज्ज्ञानमर्थोपस्थितौ पदस्य सहकारि भवति तस्यैव शक्तित्वं कल्पयितुमुचितम् तथा च देवदत्तपदादसौ बोद्धव्य इत्याकारकस्याभिप्रायस्य ज्ञानाद् देवदत्तपदाद् देवदत्तरूपार्थोपस्थित्या देवदत्तरूपार्थान्वियबोधो भवतीति तादृशाभिप्रायस्य शक्तित्वम् एवमन्यत्रापीति सङ्केत एव शक्तिः, देवदत्तत्वप्रकारक - देवदत्तविषय कानुभव जनकत्वस्य ज्ञानाभावेऽपि निरुक्ताभिप्रायज्ञानाद् देवदत्तान्वयानुभवोत्पादेन व्यभिचारेण नोकानुभवजनकत्वज्ञानस्यार्थोपस्थितौ पदस्य सहकारित्वमिति नोकानुभवजनकत्वं निरुक्तस्मृतिजनकत्वं वा शक्तिरिति पङ्कजपदस्य पद्मत्वप्रकारकपद्मविषयकानुभव जनकत्वेऽपि तथाविधस्मृतिजनकत्वेऽपि वा न समुदायशक्तेरावश्यकत्वं शक्तेर्निरुतानुभव - जनकत्वादितो भिन्नत्वादित्याशयेनाह - तत्प्रकारकेति देवदत्तत्त्रप्रकार केत्यर्थः । तद्विषयकेति - देवदत्तविषय केत्यर्थः । सर्वत्र घट-पट | दिपदेऽपि । ननु देवदत्तादिपदे उक्ताभिप्रायविशेषलक्षणसङ्केतज्ञानस्य देवदत्तपदाद् देवदत्तोपस्थितौ कारण-त्वेऽवधृते एव तद्दृष्टान्ताद् गवादिपदाद् गवाद्यर्थोपस्थितावपि निरुक्तसङ्केतज्ञानस्य कारणत्वावधारणतो गवादिपदस्य गवाद्यर्थे सङ्केतलक्षणा शक्तिः सिद्धयेत् यदा तु देवदत्तादिपदस्यानुपस्थित्या न ततोऽर्थोपस्थितौ निरुक्तशक्तिज्ञानस्य कारणत्वमवधृतं खदानीं प्रमाणाभावान्न निरुताभिप्रायविशेषलक्षणसङ्केतस्य गवादिपदेषु सिद्धिः, अथापि गवादिपदादर्थविशेषप्रतिपत्तिरनुभूयत इति व्यभिचारेण नोक्ताभिप्राय विशेषज्ञानस्यार्थोपस्थिती हेतुत्वमिति नोकाभिप्रायस्य शक्तित्वमित्याशङ्कां प्रतिक्षि- Page #263 -------------------------------------------------------------------------- ________________ १९२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । भावादर्थप्रतीतेश्चानुभवसिद्धत्वाद् व्यभिचारेण नेदं हेतुः, किन्तु तद्विषयानुभवजनकत्वज्ञानमेव, न च देवदत्तादिपदे व्यभिचारान्न तस्यापि हेतुत्वम् 'एतदर्थज्ञानमेतत्पदजन्यत्वेनेच्छाविषयः' इति ज्ञानेऽर्थशाने पदजन्यत्ववैशिष्ट्यभाने ध्रुवे पदेऽपि तजनकत्वज्ञानसम्भवादिति वाच्यम् , सङ्केतत्वेन रूपेण तदज्ञा. (तज्झा) नस्य हेतुत्वानभ्युपगमेन तेन रूपेण व्यभिचारज्ञानेऽप्यदोषात्, तद्धी जनकतावच्छेदकतावच्छेद पति-न चेति-अस्य 'वाच्यम्' इत्युत्तरेण योगः । अर्थप्रतीतेश्च गवादिपदाद् गवादिरूपार्थप्रतीतेश्च । व्यभिचारणेति'गोपदाद् गोरूपार्थो बोद्धव्यः' इत्या कारकाभिप्रायरूपस्य सङ्केतस्य ज्ञानाभावेऽपि गोरूपार्थप्रतीतेर्भाव इत्येवं व्यतिरेकव्यभिचारेणेत्यर्थः। नेदं हेतुः निरुक्ताभिप्रायल्पसङ्केतज्ञानं नार्थप्रतीतिनिबन्धनम्, तथा च नाभिप्रायविशेषलक्षणसङ्केतः शक्तिरित्याशयः। यदि नोक्तसङ्केतज्ञानमर्थप्रतीति निबन्धनं तर्हि किमर्थप्रतीतिनिबन्धनमिति पृच्छति-किन्विति । उत्तरयति-तद्विषयेति- गोवप्रकारकगोविषयकानुभवजनकत्वज्ञानमेव गोरूपार्थप्रतीतिजनकमिति तद्विषयकानुभवजनकत्वमेव तत्र शक्तत्वमित्याशयः । ननु देवदत्तोऽस्तीत्यादिवाक्यस्थले 'देवदत्तपदादसौ बोद्धव्यः' इत्यभिप्रायविशेषस्य ज्ञानादेव देवदत्तरूपार्थप्रतीतिर्न तु 'देवदत्तत्वप्रकारक-देवदत्तविषयकानुभवजनकं देवदत्तपदम् ' इत्याकारकाद् देवदत्तविषयकानुभवजनकत्वज्ञानादिति व्यभिचारेण तद्विषयकानुभवजनकत्वज्ञानमपि नार्थप्रतीतिनिबन्धनमिति तद्विषयकानुभवजनकत्वमपि न पदस्य तत्र शक्तत्वमित्याशय प्रतिक्षिपति-न चेति । न तस्यापि हेतुत्वं तद्विषय कानुभवजनकत्वज्ञानस्यापि न तदर्थप्रतीतिजनकत्वम् , एवं च न तद्विषयकानुभवजनकत्वस्य शक्तिरूपत्वमित्याशयः । निषेधे हेतुमाह - एतदर्थेति- 'देवदत्तपदादसौ बोद्धव्यः' इत्यभिप्रायविशेषज्ञानस्य तत्रार्थप्रतीतिनिबन्धनतं यदुपेयते ततोऽपि 'तद्विषयकानुभवजनकमेतत् पदम्' इति ज्ञानस्यार्थप्रतीतिनिबन्धत्वमायात्येव, यतो 'देवदत्तरूपार्थज्ञानं देवदत्तपदजन्यत्वेनेच्छाविषयः' इत्येवं स्वरूपपर्यवसिते 'देवदत्तपदादसौ बौद्धव्यः' इत्यभिप्रायस्य ज्ञाने देवदत्तरूपार्थविषयक ज्ञाने देवदत्तपदजन्यत्ववैशिष्ट्यस्य भाने सति देवदत्तपदेऽपि देवदतरूपार्थविषयकज्ञानजनकत्वस्य ज्ञानसम्भवादित्यर्थः । निरुक्ताशङ्काप्रतिक्षेपहेतुमुपदर्शयति-सङ्केत. त्वेन रूपेणेति । तज्ज्ञानस्य सङ्केतज्ञानस्य । हेतुत्वानभ्युपगमेन अर्थप्रतीतौ कारणत्वानभ्युपगमेन । तेन रूपेण सङ्केतत्वेन रूपेण। व्यभिचारज्ञानेऽपि सङ्केनत्वेन रूपेण सङ्केतज्ञानाभावेऽपि गवादिपदाद् गत्राद्यर्थप्रतीतिभावेन व्यतिरेकव्यभिचारज्ञानेऽपि । अदोषात् देवदत्तादिपदे सङ्केतज्ञानस्येत्यादिनोपदर्शितस्य दोषस्याभावात् । तदर्थासङ्केतितपदज्ञानतोऽतिप्रसाभयतस्तदर्थविषयकानुभवस्यानभ्युपगन्तव्यत्वेन तदर्थसङ्केतितपदज्ञानमेव तदर्थप्रतीतिकारणमिति तदर्थप्रतीतिजनकता तदर्थसकेतितपदज्ञाननिष्ठा, विषयतासम्बन्धेन तन्निरूपिताऽवच्छेदकता पदनिघ्रा, तन्निरूपितावच्छेदकता सकेतनिष्ठेति तद्रूपेण सङ्केतज्ञानस्यार्थोपस्थितितः प्राग् गवादिपदतो गवाद्यर्थानुभवस्थले सम्भवेन तद्रूपेण सङ्केतज्ञानस्यार्थप्रतीतौ कारणत्वे व्यभिचाराभावादित्याह-तद्धीजनकतेति- अर्थप्रतीतिजनकतेत्यर्थः। तज्ज्ञानस्थ सङ्केतज्ञानस्य । पूर्वमपि देवदत्तादिपदे सकेतज्ञानस्य कारणत्वावधारणात् पूर्वमपि, यद्यपि सङ्केतितपदज्ञानत्वेनार्थोपस्थितौ पदज्ञानस्य कारणत्वे सड्केतत्वेन सङ्केतज्ञानस्य पूर्व सत्त्वमावश्यकमेवेति तेन रूपेण व्यभिचारज्ञानात् तद्रूपेण तज्ज्ञानस्य न कारणत्वमिति दोषः स्यादेव, तथापि शक्तिपदज्ञानत्वेनैव कारणत्वम् , शक्तिश्च तदर्थविषयकानुभवजनकत्वरूपा परेण स्वीक्रियते, तदतिरिक्तशक्तिवादिना च निरुक्ताभिप्रायविशेषलक्षणसङ्केतरूपा सा स्वीक्रियते, तज्ज्ञानं च सङ्केतत्वज्ञानं विनापि शक्तित्वेन रूपेण सम्भवतीति बोध्यम् । ननु यथोक्तदिशा सकेतज्ञानस्यार्थानुभवे व्यभिचारपरिहारो भवता क्रियते तथा 'एतदर्थज्ञान मेतत्पदजन्यत्वेन' इत्यादिग्रन्थेनेतदर्थविषयकानुभवजनकत्वज्ञानस्यापि व्यभिचारः परिहियते एवेति विनिगमनाविरहात् किमित्यर्थविषयकानुभवजनकत्वज्ञानस्यार्थविषयकप्रतीतौ न कारणत्वमित्यशाक्य परिहरति-न चेति । 'पूर्वोक्तरीत्याs. नुभवजनकत्वस्य' इति स्थाने 'पूर्वोकरीत्याऽनुभवजनकत्वज्ञानस्य' इति पाठो युक्तः । निषेधहेतुमाह- इदमिति । 'स्वातन्त्र्येण' इत्यनेन 'एतदर्थज्ञानमेतत्पदजन्यत्वेनेच्छाविषयः' इति, ज्ञाने साक्षादर्थज्ञाने पदजन्यत्ववैशिष्ट्यभाने सति तदनन्तरं पदे यदर्थविषयकानुभवजनकत्वज्ञानं तस्य यत् पारतन्त्र्येण कारणत्वं तस्य व्यवच्छेदः । 'पदेऽनुभवजनकत्वे वैशिष्ट्यज्ञानस्यैव' इति स्थाने 'पदेऽनुभवजनकत्ववैशिष्ट्यज्ञानस्यैव' इति पाठो युक्तः। परेण तदर्थविषयकानुभवजनकत्वमेव पदे तत्र शक्तत्वमिति वादिना। तस्य च 'इदं पदमेतदर्थविषयकानुभवजनकम्' इत्याकारकस्य स्वात. त्र्येण पदे तदर्थविषयकानुभवजनकत्ववैशिष्ट्य ज्ञानस्य च । आधुनिक सङ्केतस्थले 'देवदत्तपदादसौ बोद्धव्यः' Page #264 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । १९३ कत्वादिना तदक्षा(तज्ज्ञा)नस्य पूर्वमपि गवादिपदे सम्भवेन व्यभिचाराभावात्, न च पूर्वोक्तरीत्यानुभ. वजनकत्वस्याप्यव्यभिचारः, 'इदं पदमेतदर्थानुभवजनकम्' इति स्वातन्त्र्येण पदेऽनुभवजनकत्वे वैशिष्ट्यज्ञानस्यैव हेतुतायाः परेणाभ्युपेतत्वात् तस्य चाधुनिकसङ्केतस्थले व्यभिचारदर्शनादिति दिक् । . . न च शब्दसम्बन्धमनपेक्ष्य संस्कारमात्रोपस्थितस्य " पङ्कजमानय " इत्यत्रान्वये पनत्वव्याप. कानां द्रव्यत्वादीनामन्वयः स्यादिति वाच्यम्, शब्दसम्बन्धोपगमेऽपि संस्कारप्राकट्यस्यावश्योपजीव्यः त्वात् , 'घटमानय' इत्यत्र छिद्रेतरघटत्वस्येव प्रकारस्यापि भाने न लक्षणोच्छेद इति तूतप्रायम्, न च ............ anrn... इत्यभिप्रायस्थले । व्यभिचारदर्शनात् तत्र प्रथमत ' एतर्थज्ञानमेतत्पदजन्यत्वेनेच्छाविषयः' इति ज्ञानं यद्यप्यस्ति तथापि तद् 'एतदर्थज्ञानमैतत्पदजन्यम्' इत्याकारालिङ्गितमेव, न तु 'एतत्पदमेतदर्थविषयकानुभवजनकम्' इति स्वरूपाकलितमिति देवदत्तरूपार्थविषयकानुभवजनकत्वज्ञानाभावेऽपि देवदत्तपदादु देवदत्तरूपार्थविषयकानुभवभावेन व्यतिरेकव्यभिचारदर्शनात्, एवं च पद्मत्वप्रकारकपद्मविषयकानुभवजनक पद्मत्वप्रकारकपद्मविषयस्मरणजनकत्वं वा न पड्कजपदस्य पद्मरूपाय शक्तियन समुदायशक्तिस्तस्य पद्मत्वप्रकारकपद्मविषयकानुभवजनकस्य स्यात् , किन्तु ततो व्यतिरिकैव सङ्केतलक्षणा शक्तिः, सा पङ्कजपदस्य पद्मरूपाय नेष्यते. किन्तु व्युत्पत्तिग्रहापेक्षितपद्मत्वनियतशक्तिमहाहितसंस्कारादेव फलबलकल्प्योरोधितात पनत्वोरस्थितिरिति । ननु यदि पङ्कजपदस्य न पद्मत्वेन रूपेण पद्मरूपार्थे शक्तिः किन्तु पद्मवनियतशक्तिग्रहाहितसंस्कारमात्रादेव पद्म. स्वोपस्थितिस्तर्हि पङ्कजनिकर्तृरूपार्थे या तस्यावयवशक्तिः सा यथा पद्मत्वनियता तथा पद्मत्वव्यापकद्रव्यत्वादिनियताऽपीति तादृशक्तिमहाहितसंस्कारात् पद्मत्वस्येव द्रव्यत्वादीनामप्युपस्थितिसम्भवात् पङ्कजमानयेत्यत्र पकजपदासम्बदस्य संस्कार. मात्रोपस्थितस्य , पद्मत्वस्येव पङ्कजपदासम्बद्धानां पद्मत्वव्यापकानां द्रव्यत्वादीनामपि संस्कारमात्रोपस्थितानामन्वयबोधः स्यादित्याशकय प्रतिक्षिपति-न चेति- अस्य — वाच्यम्' इत्यत्रान्वयः । पङ्कजपदावयवशक्तेर्यथा पद्मत्वनियतत्वं पङ्कजनिकर्तरि पद्मे पद्मत्वस्य सत्त्वात् तथा पद्मत्वव्यापकद्रव्यत्वादिनियतत्वमपि द्रव्यत्वादीनामपि तत्र सत्त्वादित्यावेदयितुं 'पद्मत्वव्यापकानाम्' इति 'द्रव्यत्वादीनाम्' इत्यस्य विशेषणम् । शब्दस्य शक्तिलक्षणसम्बन्धस्यार्थे सत्त्वेऽपि पूर्वानुभवाहितशक्तिविषयकसंस्कारः प्राकट्यलक्षणोद्बोधशाली यावन्न भवति तावच्छक्तिस्मरणं न भवतीति शक्तिस्मरणे तत्संस्कारोद्धोधोऽवश्यमपेक्षितव्यः शक्तिस्मरणाचार्थस्मरणं तदैव भवति यदि तदर्थविषयकसंस्कारः प्रकटो भवति नान्य. थेति संस्कारप्राकव्यस्य संस्कारोबोधस्वभावस्थावश्यमर्थोपस्थितावुपजीव्यत्वेन पङ्कजपदस्य पद्मत्वे समुदायशक्तिलक्षणसम्ब. न्धाभावेऽपि पद्मत्वनियतावयवशक्तिमहाहितपद्मत्वविषयकात् संकारादुरोधलक्षणप्राकट्यालिङ्गितात् पद्मत्वोपस्थितिः सम्भवति, द्रव्यत्वादीनां चोकशक्तिव्यापकत्वेऽपि न तद्विषयकः संस्कारस्तादृशशक्तिपहाहितो नवा ततः प्रकटितः स इति 'पङ्कज. मानय' इत्यत्र सस्कारमांत्रोपस्थितस्य पनत्वस्यैवान्वयबोधो न द्रव्यत्वादीनामिति प्रतिक्षेपहेतुमुपर्शयति-शब्दसम्ब. न्धोपगमेऽपीति-शब्दस्यार्थेन सह शक्तिलक्षणसम्बन्धोपगमेऽपीत्यर्थः । ननु पङ्कजपदस्य न पद्मत्वे शतिर्नवा लक्षणाऽ. थापि पद्मत्वस्य प्रकारविधयाऽन्वयबोधे भानं यदि तदा 'गङ्गायां घोषः' इत्यत्रापि गङ्गापदस्य गङ्गातीरे लक्षणात्मक. सम्बन्धाभावेऽपि तस्यान्वयबोधे भानसम्भवाल्लक्षणोच्छेद इत्यत आह - “घटमानय' इत्यत्रेति- जलधारणादिकार्यार्थ घटस्यानयनमभिप्रेतम्, न च च्छिद्रघटेन जलधारणादिकं सम्भवति ततश्छिद्रे,तरघटत्वेन घटे घटपदस्य शत्यभावेऽपि 'घटमानय' इति वाक्यजन्यशाब्दबोधे छिद्रेतरघटत्वं प्रकारतया भासते तथा पद्मत्वरूपप्रकारस्य पदासम्बद्धस्य शाब्दबोधे भानऽपि प्रकारिणो धर्मिणो न पदासम्बद्धस्य शाब्दबोधे भ.नमिति गङ्गातीरत्वस्य लक्ष्यतावच्छेदकाय प्रकारीभूतस्य पदासम्बद्धस्य शाब्दबोधे भानसम्भवात् तत्र लक्षणाभावेऽपि धार्मणो गङ्गातीरस्य पदासम्बद्धत्वे तद्भानासम्भवात् तद्भानाथ गहातीरे गहापदस्य लक्षणाऽऽवश्यकीति न लक्षणोच्छेद इत्यर्थः। उक्तप्रायमिति-'अथ लाक्षणिकमननुभावकमेव' इत्यादिग्रन्थेन प्रकारान्तरेण लक्षणाया आवश्यकत्वमुक्कमित्यत उक्तप्रायमित्युकम्, 'भाने न' इत्यत्र 'प्रकारस्यापि' इत्यपेः 'भाने' इत्यनन्तरं सम्बन्धः तेन प्रकारस्य भानेऽपि न लक्षणोच्छेद इत्यन्वये उत्कोऽर्थः स्पष्टमेवावभासत इति । ननु Page #265 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । संस्कारप्राकट्यात् प्रकारिणोऽप्युपस्थितेर्लक्षणोच्छेद एव, अत्रोक्त गङ्गापदान्यथानुपपच्या शक्य तात्पर्यस्यैव लक्षणाकल्पकत्वात्, यद्यपि गच्छ गच्छसि चेत् कान्त !' इत्यादावशक्य मरणतात्पर्य कत्वेऽपि न लक्षणा, अनुमानेनैव निर्वाहात्, तथाप्यसति गत्यन्तरे तात्पर्यस्य लक्षणाकल्पकत्वमित्यदोषः । १९४ ऋजुवस्तु - " घटादिपदानां विशेषतात्पर्य साहाय्येन नीलघटादिबोधकत्ववत् पङ्कजपदस्यापि पङ्कजनिकर्तृ विशेष पद्मतात्पर्य ग्रह साहाय्येन पद्मान्वयबोधकत्वसम्भवादपि न वत्र शक्तिः, न चैवं पङ्कजनिकर्तु - स्वेनैव तदुपस्थितिः स्यान्न पद्मत्वेनेति वाच्यम्, इष्टापत्तेः कथमन्यथा कदाचित् कुमुदेऽपि प्रयोगस्तव लक्षणया, मम तु तत्क्लृप्तयाऽवयवशक्त्यैवाकाङ्क्षादिसमवहितया शक्यार्थविषयी कुमुदबोधसम्भव इति महान् विशेषः " इत्याहुः । यथा प्रकारे लक्षणाभावेऽपि संस्कारप्राकट्यात् तदुपस्थित्या शाब्दबोधे तस्य भानं तथैव धर्मिणोऽपि संस्कारप्राकट्यादुपस्थितितः शाब्दबोधे भानसम्भवात् प्रकारिण्यप्यशक्ये लक्षणा नाश्रयणीयेति लक्षणोच्छद इत्याशङ्कय प्रतिक्षिपति न चेति । प्रकारिणोऽपि धर्मिणोऽपि । यदि ' गङ्गायां घोष:' इत्यत्र गङ्गापदस्य गङ्गातीरे शक्त्यभाववलक्षणाभावोऽपि तर्हि गङ्गापदं तत्रानर्थक्यान्नोच्चारणीयं स्यात् उच्चार्यते च वृद्धपरम्परया तंत्र गङ्गापदमिति तदन्यथानुपपत्त्या तत्प्रयोक्तुर्यदशक्ये गङ्गातीरे तात्पर्य ' गङ्गापदं गङ्गातीररूपार्थं बोधयतु' इत्याकारकं तदेव गङ्गापदस्य गङ्गातीररूपार्थे लक्षणां कल्पयतीति न लक्षणोच्छेद इति प्रतिषेधहेतुमुपदर्शयति- अत्रेति गङ्गायां घोष:' इत्यादिवाक्य इत्यर्थः । अशक्यतात्पर्यस्यैवेति-' पङ्कजमानय' इत्यादौ तु पद्मत्वाबोधनेऽपि पङ्कजनिकर्तृरूपार्थबोधकतया सार्थकं पङ्कजपदमिति न तस्यान्यथानुपपत्तिरित्यशक्ये पद्मलेन तस्य तात्पर्य किन्तु दर्शितयुक्तयैव संस्कारप्राकट्यादुपस्थितस्य पद्मत्वस्यान्वयबोधे भानमिति पद्मत्वविषयक तात्पर्याभावान्न तत्र लक्षणा करूप्यत इत्याशयः । गत्यन्तराभावे सत्यशक्यतात्पर्यस्य लक्षणाकल्पकत्वं न तु अशक्यतात्पर्यमात्रस्येत्याह- यद्यपीति । गच्छ गच्छसि चेत् कान्त !" इत्यादाविति - अत्रादिपदात् " पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् " ॥ इति चरणत्रयस्य परिग्रहः, [ साहित्यप्रन्थे ] इयं च स्वामिनं प्रति तत्परदेशगमन प्रतिषेधार्थं भार्याया उक्तिः, त्वं चेत् गच्छसि चेत् तदानीमेवाहं म्रिये तस्मान्मम जीवनं बाञ्छसि चेद् मा गच्छेति वक्त्रया भार्यायास्तात्पर्यम्, इत्थं चोक्तवाक्यघटकस्य कस्यापि पदस्य मरणं न शक्यमित्यशक्ये मरणे उक्त वाक्यस्य तात्पर्यसत्वेऽपि न तत्र लक्षणा, तामन्तरेणैव मरणरूपार्थप्रतीतिसम्भवात् उक्तवाक्यप्रयोगकाले जीवन्त्यास्तस्या भर्तुर्यत्र गमनं तत्र जन्म तदैव सम्भवति यदि तद्गमनसमनन्तरमेव तस्या मरणं भवेदिति भर्तृगन्तव्य देशीयतज्जन्मना तदीयमरणमनुमीयत इत्यनुमानादेव मरणावगतिसम्भवान्न तत्र लक्षणया प्रयोजनमिति न मरणतार्पयस्य लक्षणाकल्पकत्वमित्यर्थः । तथापि तत्रानुमानेन तात्पर्यविषयीभूताशक्यमरणरूपार्थावगति सम्भवेऽपि । असतीतियस्य तात्पर्यविषयीभूताशक्यार्थस्य नानुमानादितोऽवगति सम्भवस्तस्मिन्नर्थे ऽशक्ये तात्पर्यस्य गत्यन्तरविरहेण तदवगतये लक्षणाया आवश्यकत्वमिति तादृशतार्त्ययस्य लक्षणाकल्पकत्वेन न लक्षणोच्छेदलक्षणो दोष इत्यर्थः । 46 पङ्कजपदस्य पद्मत्वेन पद्मवोधने समुदायशक्ति प्रकारान्तरेण निराकुर्वतामृजूनां मतमुपदर्शयति - ऋजवस्त्विति - अस्य 'आहु:' इत्यनेन सम्बन्धः । विशेषतात्पर्य साहाय्येनेति-' घटपदं नीलघटं बोधयतु, पीतघटं बोधयतु' इत्यादिविशेषतात्पर्य सद् कारेणेत्यर्थः । न तत्र शक्तिः न पङ्कजपदस्य पद्मरूपार्थे समुदायशक्तिः । ननु पङ्कजपदस्य यदि पद्मत्वेन पद्मरूपार्थे न समुदायशक्तिः, किन्तु पङ्कजनिकर्तृत्वेन रूपेणावयवशक्तिरेव तर्हि पङ्कजनिकर्तृत्वेनैव रूपेण पद्मोपस्थिति: स्यान्न तु पद्मत्वेन रूपेण पद्मोपस्थितिरित्याशङ्कानिष्टावच्या प्रतिक्षिपति न चेति- अस्य वाच्यम्' इत्यनेनान्वयः । एवं पङ्कजपदस्य पद्मत्वेन रूपेण पद्मे समुदायशक्त्यनभ्युपगमे । तदुपस्थितिः पद्मोपस्थितिः । इष्टापत्तेरितिपङ्कजपदात् पङ्कजनिकर्तृत्वेनैव पद्मस्य बोधो न तु पद्मत्वेने त्यापादनस्येष्टापत्तिरूपत्वेना दोषत्वादित्यर्थः । यदि भवन्मते पङ्कजपदात् पद्मत्वेन रूपेण बोधस्तदा पद्मत्वस्य कुमुदे बाध. त् कुमुदे पङ्कजपदप्रयोगः कदाचिज्जायमानो विरुध्येत, अतः कुमुदे लक्षणया तत्प्रयोगः कल्पनीयः अस्मन्मते तु पङ्कजनिकर्तृत्वस्य कुमुदेऽपि सत्त्वाच्छत्तयैव तत्र तत्प्रयोगस्य सम्भवालक्षणा - श्रयणं न कर्तव्यमिति भवन्मतापेक्षयाऽस्मन्ते विशेषोऽपीत्याह- कथमिति । अन्यथा पङ्कजपदात् समुदायशक्त्या पद्मत्वेन Page #266 -------------------------------------------------------------------------- ________________ नयामृततरहिणी-तरङ्गिणीतरणियां समलतो नयोपदेशः । १९५ नैगमनयानुसारिणो नैयायिकास्तु-" संस्कारमात्रवशात् पद्मत्वभाने नियमतः कल्प्यमानेऽगृहीत. समुदाया(य)शक्तेरप्यनुभूतपद्मत्वस्य तदानापत्तिः, पडोत्तरजपदस्यैव संस्कारोबोधकस्य स्वया वाच्यत्वात् , न च प्रत्येकव्युत्पन्नस्य समुदायव्युत्पत्ति विना पनत्वप्रकारकपद्मानुभवो जायते, न च पद्मत्वा. न्वयतात्पर्यप्रहे स जायत एव, तदअहे तु तत एव स न स्यादिति वाच्यम् , तथापि प्रत्येकाव्युत्पन्नस्य पहजपदात् पद्मवप्रकारकप्रतीतेः, कोशेषु पङ्कज पद्मपदयोः पर्यायताकीर्तनस्य च समुदायशक्तिसाधकस्वात्, शब्दानुपस्थितस्य शाब्दविषतयाऽभ्युपगमे च घटादावव्युत्पन्नस्य घटविषय(क)प्रबलसंस्कारात् रूपेण पनवोधाभ्युपगमे । 'कमदेऽधि प्रयोगसय लक्षणया' इत्यस्य स्थाने 'कुमुदेऽपि प्रयोगः स्यादतः कुमुदे. प्रयोगस्तव लक्षणया' इति पाठः समोचीनः पङ्कजपदस्य पद्म समुदायशक्तिरपीत्यभ्युपगन्तुस्तव मते पद्मानधिकरणे सरोविशेषे कुमुदवति पङ्कजनिकर्तृकुमुदरूपार्थमुपादाय परजमस्तीति प्रयोगः शत्या कथं स्यादपि तु न स्यात्, किन्तु परजपदस्य लक्षणया कुमुदरूपार्थमाश्रित्य तथा प्रयोगो भवेत्. तस्यावयवशक्तिमात्रमभ्युपगच्छतः समभिरूढनया. वलम्बिनो मम पुनः पङ्कजनिक विस्म कुमुदेऽपि सत्त्वात् पत्रनिकतत्वेन कुमदरूपार्थमुपादाय शक्त्यैव तत्र पङ्कजमस्तीति प्रयोग उपपद्यत इति न तत्र लक्षणाश्रयणमिति भवन्मतापेक्षयाऽस्मन्मते महान् विशेा इति सरला वदन्तीत्यर्थः । . पाजपदस्य पने समुदायशक्तिमभ्युपगच्छतो नैगमनयानुसारिणां नैयायिकानां मतमुपदर्शयति-नैगमनयानुसारिणो नैयायिकास्त्विति-अस्य व्यवहितेन 'येन योगत्यागेऽसिद्धान्तः स्यात् ' इत्यनन्तरम् 'आहुः' इति कहिलतेनान्वयः । पनत्वभाने पानपदजन्यान्वयबोधे पद्मत्वभाने । अगृहीतसमुदायशकेरपि यैन प्रमात्रा पहजपदस्य पद्धे समु. दायशक्तिः पूर्व न गृहीता तस्यापि । अनुभूतपनत्वस्य प्रत्यक्षादितः पूर्व गृहीतं पद्मत्वं येन तस्य, एतावता पद्मत्व. विषयकसंस्कारस्तस्य प्रमातुः पद्मत्वविषयकम्मरणप्रयोजकः समस्तीत्यविदितम् । तद्भानापत्तिः पङ्कजमस्तीत्यादिवाक्यजन्यशाब्दबोधे पनत्वभानापत्तिः । ननु संस्कारमात्राम स्मरणं किन्तूबुद्धसंस्कारादेवेत्युद्बोधकाभावात् सतोऽपि पद्मत्व. विषयकसंस्कारस्य प्राकट्याभावान्न पनत्वस्मरणमतो न तस्य प्रमातुः पङ्कजमस्तीति वाक्यजन्यशाब्दबोधे पद्मवस्य भानमित्यत अह-पङ्कपदोत्तरजपदस्यैवेति । त्वया समुदायशक्त्यनभ्युपगन्त्रा, तथा च पङ्कपदोत्तरजसदस्य पनत्वसंस्कारोबोधकस्य तत्र सत्त्वात् संस्कारप्राकव्यं स्य देवेति ततः स्मृतस्य पनत्वस्य शाब्दबोधे भानं प्रसज्यत इत्यर्थः । उक्तप्रसङ्गस्येष्टापत्तिरूपताश्रयणेनादोषत्वं नाभ्युपगन्तुं शक्यमित्याह-न चेति- अस्य जायते' इत्यनेनान्वयः । प्रत्येक. व्युत्पन्नस्य पङ्कपदस्य कर्दमे शक्तिः, जपदस्थ जनिरि शकिरित्येवं जानानस्य । समुदायव्युत्पत्ति विना पाजपदं पद्मत्वावच्छिन्ने शक्तमित्याकारकसमुदायशक्तिमहणमन्तरेण । ननु पङ्कजमस्तीत्यत्र 'पङ्कजप पद्मत्वावच्छिन्न. विषयकबोधेच्छयोच्चरितम्' इत्याकारकतात्पर्यज्ञाने सति समुदायशक्तिग्रहाभावेऽपि पद्मवप्रकारकपनविषयकानुभवो भवत्येव, निरुततात्पर्यग्रहामावे तु निरुततात्पर्यहरूपकारणामावादेवं निरुक्तानुभवाभावो न तु समुदायशक्तिमहाभावादित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम् ' इत्यनेनान्वयः। सः पद्मत्वप्रकारकपद्मविषयकानुभवः, एवमप्रेऽपि । तदग्रहे तु पङ्कजपदं पद्मवप्रकारकपद्मविषयकानुभवेच्छयोच्चरितमिति तात्पर्यग्रहाभावे पुनः। तत एव निरुक्त तात्पर्यग्रहाभावादेव । प्रतिक्षेपहेतुमुपदर्शयति-तथापीति- उक्तदिशा समुदायशक्तिप्रहमन्तरेणापि निरुततात्पर्यग्रहभावाऽभावाभ्यां पद्मत्वप्रकारकपद्मविषयकानुभवभावाऽमावेयोरुपपादनेऽपीत्यर्थः । प्रत्येकेति - यस्य प्रमातुः पापदं कर्दमे शक्तं जपदं जनिकर्तरि शकमित्येवमवयवशक्तिग्रहो नास्ति तस्यापि प्रत्येकाव्युत्पन्नस्य प्रमातुः पङ्कजपदात् पद्मत्वप्रकारकपद्मविषयकानुभवस्य भावात् पहजपदस्य पने शक्तिरवश्यमभ्युपेया, अन्यथा तस्य प्रमातुः पङ्कजपदे शक्तिसामान्यस्यैव प्रहाभावाच्छक्किप्रहरूपसहकारिपोऽभावात् पङ्कजपदात् पद्मप्रतीतिरेव न भवेत् , नहि शक्ति-लक्षणान्यतरवृत्तिग्रहमन्तरेण शब्दादर्थानुभव उपेयते, न च कस्मिन्त्रप्यर्थे शक्तिमहमन्तरेग शक्यसम्बन्धरूपलक्षगाग्रहस्यापि सम्भव इति । कोशेधिति- कोशेष्वेकार्थबाबकतया प-पद्मपदयोः कीर्तनमस्ति तत्र पद्मादं न पडूनिकर्तरि शक्तं किन्तु पद्मत्वावच्छिन्नशकमेवेति पहजपदमपि यदि पद्मत्वावच्छिन्नशकं भवेत् स्यात् तदैकधर्मावच्छिन्नवाचकत्वलक्षणपर्यायतेति तद्बलात् पङ्कजपदस्य पये शकिरिति समुदायशकिसिद्धिरित्यर्थः। पलपदेनानुस्थितस्य पद्यस्य संस्कारमात्रोपस्थितस्य शाब्दबोधविषयत्वाभ्युप Page #267 -------------------------------------------------------------------------- ________________ १९६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलङ्कतों नयोपदेशः । - तद्भानप्रसङ्गः, पशु(त्व-)गोत्वयोः प्रयोगोपाधित्वं शत्युपाधित्वं चेति तु परिभाषामात्रम् , घटादिपदे घट. त्वादेरपि तत्त्वापत्तेः, उपाधिभूतेन घटत्वादिना संस्कारोपस्थितेरप्रकारेण निर्विकल्पकापत्तिनिरासस्यापि शक्यभाषणत्वात् , ' पद्मत्वस्मरणस्य पङ्कपदोचरजपदस्य वा कुमुदादिप्रयोगप्रतिबन्धकत्वं शक्तिकोव्यं. (ज्यं) वा कल्प्यते ' इत्यपि यदुक्तं तदयुक्तम् , अगृहीतपद्मशक्तेः पङ्कजपदात पङ्कजनिकर्तृत्वेन रूपेण कुमुदादिबोधदर्शनात् , अत एवाव्युत्पन्नः पङ्कजमानय' इति वाक्यश्रवणानन्तरं कुमुदानयने दोलायते, सामान्यशब्दत्वादमीषाम् ; · विशेषतात्पर्यवशाद् विशेषबोधकत्वम्' इति यदुक्तं तत्रापि वस्तुगत्या यो विशेषस्तद्बोधकत्वं वा विशेषाकारेण वा ? आये पद्मत्वाननुभवापत्तिः, द्वितीये लक्षणाप्रसङ्गः, न चेष्टागमेऽतिप्रसन्नदोषं सङ्गमयति-शब्दानुपस्थितस्येति । घटादावव्युत्पन्नस्येति- घटादौ घटादिपदशक्तिमजानानस्येत्यर्थः । तदानप्रसङ्गः शाब्दबोधे घटादिभानप्रसङ्गः । पशुपदस्य न लोमवल्लाङ्गलवत्त्व लक्षणपशुत्वावच्छिन्ने शक्तिः, गोपदस्य च न गोत्वावच्छिन्ने शक्तिः, किन्तु पश्वादिपदव्युत्पत्तिनिमित्तावच्छिन्न एव, एवमपि लोमवलालवति यत् पशुपद प्रयुज्यते, गोत्ववति गोपदं च प्रयुज्यते, तत् पशुत्व-गोत्वयोः प्रयोगोपाधित्व-शक्त्युपाधित्वयोरुपगमादित्यपि युक्तिरिक्तं स्वेच्छामात्रनिर्मितमेव, एवं सति घटत्वादेरपि घटादिपदप्रयोगोपाधित्व-शक्त्युपाधित्वयोरेव प्रसक्त्या घटादिपदानामपि घटत्वाद्यवच्छिन्ने शक्तेरुच्छेदापत्तरित्याह-पशुत्व-गोत्वयोरिति । परिभाषामात्र स्वेच्छामात्रकल्पितम्। तत्वापत्ते: प्रयोगोपाधित्व-शक्त्युपाधित्वयोरापत्तेः। ननु घटादिपदस्य यदि घटत्वाद्यवच्छिन्न न शक्तिः किन्तु यस्यां व्यक्ती घटत्वादिकं वर्तते तस्यामेव व्यक्ती घटादिपदं प्रयुज्यते, घटादिपदस्य च शक्तिरित्येवं घटत्वादेः प्रयोगोपाधित्व-शक्त्युपाधित्वयोरुपगमे घटादिपदानिर्विकल्पकघटादिव्यक्तिप्रतीतिः स्यादित्यत आह- उपाधिभूते नेति- 'संस्कारोपस्थितेरप्रकारेण' इति स्थाने 'संस्कारोपस्थितौ प्रकारेण ' इति पाठो युक्तः, यद्यपि घटत्वेन रूपेण घटे घटपदस्थ न शक्तिः, किन्तु यस्यां भ्यक्तौ घटत्वं तस्थामेव घटपदस्य शक्तिरिति शक्त्युपाधिभूते घटवे घटपदशक्त्यभावान शक्त्या घटत्वस्योपस्थितिः, तथापि संस्कारमात्रेण घटोपस्थितेः सम्भवेन संस्कारप्रभवोपस्थितौ प्रकारेण घटत्वेन घटस्य प्रतीतितो न घटस्य निर्विकल्पकापत्ति. रित्येवं गदितुं शक्यत्वादित्यर्थः। शक्यभाषणत्वाद इत्यस्य शक्यं गदितुं योग्यं भाषणं वचनं यस्य तत्त्वादित्यर्थः । यच्च समुदायशक्त्यनभ्युपगत्रा परेण “अस्तु वा परस्य समुदायशक्तेरिव मम पद्मत्वस्मरणस्य कुमुदादौ प्रयोगप्रतिबन्धकत्वम् , यद्वा पङ्कपदोत्तरजपदस्यैव कुमुदादिस्मरणप्रतिबन्धकत्वम्” इत्युक्तं तदपि न समीचीनमित्युपदर्शयतिपनत्वस्मरणस्येति । शक्तिकोज्यं चेति - एतच्च "अत एवावयवशकावेव केचित् कोज्यं कल्पयन्ति" इति ग्रन्थे. नोक्तम् , तदयुक्तते हेतुमुपदर्शयति- अगृहीतपद्मशकेरिति- एतावता पङ्कजपदेन पद्मत्वस्मरणं न भवति, संस्कारमात्रण भवतोऽपि पद्मत्वस्मरणस्य पङ्कजनिकर्तृत्वेन रूपेण कुमुदादिबोधदर्शनेन न तत्र तस्य प्रतिबन्धकत्वम् , पङ्कपदोत्तरजपदस्य तत्र भावेऽपि पङ्कजनिकतृत्वेन रूपेण कुमुदादिबोधस्य भावेन न तस्यापि तत्र प्रतिबन्धकत्वम् , अत एवावयवशक्तिकौज्यमपि न सम्भवदुक्तिकमित्यर्थः । अत एव पङ्कजपदात् पङ्कजनिकर्तृत्वेन रूपेण कुमुदादिबोधभावादेव । अव्युत्पन्नः पजपदस्य पञ समुदायशक्तिमजानानः प्रमाता, पङ्कजपदस्य पद्मे शक्ति जानानस्तु प्रमाता 'पङ्कजमानय ' इति वाक्यश्रवणानन्तरं पङ्कजनिकर्तृपद्मानयनस्य कार्यत्वं निश्चिमोत्येवेति न स कुमुदानयने दोलायत इत्यत उक्तम् - अव्युत्पन्न इति । ऋजूनां यदपि मतम्-घटादिपदानां विशेषतात्पर्यसाहाय्येन नीलघटादिबोधकत्ववत् पङ्कजपदस्यापि पङ्कजनिकर्त. विशेषपद्मतात्पर्य ग्रहसाहाय्येन पद्मान्वयबोधकत्वसम्भवादपि न तत्र शक्तिः, इति तदपि न समीचीनमित्यावेदयतिसामान्यशब्दत्वादिति- पद्मकुमुदादिसाधारणधर्मावच्छिन्नवाचकवादित्यर्थः । अमीषां पङ्कजादिशब्दानाम् । विशेष तात्पर्यवशात् पङ्कजनिकर्तृविशेषपद्म पङ्कजादं बोधयतु' इति तात्पर्यवशात् , 'पङ्कजपदं पङ्कजनि कर्तृविशेषपद्मविषयकबोधेच्छयोच्चरितम्' इति तात्पर्यग्रहसहकारेणेति यावत् । विशेषबोधकत्वं पङ्कजनिक विशेषपद्मबोधकस्वम् । उकस्यायुक्तत्वं भावयितुं विकलायति-तत्रापीति । आद्य वस्तुगत्या पङ्कजनिकर्तृरूपसामान्यस्य यः पद्मव्यक्तिलक्षणविशेषस्तद्बोधकत्वमिति पर्छ । पनत्वाननुभवापत्तिः पद्मत्वेन रूपेण पद्मस्यानुभवो न स्यात्, किन्तु पङ्कजनिक त्वेनैव विशेषस्य पद्मध्यकिलक्षणस्य प्रतीतिर्भवेत् । द्वितीये पङ्कजनिक विशेषपदमस्य पदमत्वरूपविशेषाकारेण बोधकत्वमिति पक्षे। Page #268 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृतो नयोपदेशः । पत्तिः, मुख्यार्थ विशेषितस्यैव पद्मत्वस्य भानात् तथा च वृत्तिद्वयविरोधस्य जागरूकत्वात् कुमुदमानय ' इत्यत्र च पङ्कजपदे न लक्षणा, किन्तु पद्मत्वमुपस्थितमप्यन्वयायोग्यत्वान्नालमित्यवयवार्थ एव परमंन्वेतीति न किञ्चिदनुपपन्नम् न च रूढ्या शीघ्रोपस्थितेन पद्मेनावरुद्धतयोपस्थितस्य पङ्कजनिकर्तृत्वस्य कुमुदान्वये निराकाङ्क्षत्वात् स्वतन्त्रोपस्थितये लक्षणावश्यम्भावः, योगार्थस्य रूढ्यर्थ . विशेषणतायां तथाभावेऽपि विशेष्यतायां स्वातन्त्र्यानपायात्, अन्यथा ' श्येनेन यजेत' इत्यत्र बलवदलक्षणाप्रसङ्ग इति - पङ्कजपदस्य पद्मत्वेन पद्मे समुदायशक्त्यभावेऽवयवशक्तिः पङ्कजनिकर्तृरूपसामान्य एव न तु पद्मत्वेन रूपेण पद्म इति पङ्कजपदस्य पद्मत्वेन पद्म लक्षणाश्रयणादेव तथा बोध इति लक्षणाप्रसङ्ग इत्यर्थः । भवतु पङ्कजपदात् पद्मत्वेन रूपेण पद्मबोधो लक्षणया का नो हानिरिति लक्षणाप्रसङ्ग इष्टापादनत्वान्न दोषावह इत्याशङ्कां प्रतिक्षिपति — न चेष्टापत्तिरिति । निषेधे हेतुमाह - मुख्यार्थविशेषितस्यैवेति- पङ्कजपदस्यावयवशक्त्या प्रतिपाद्यत्वान्मुख्यो यः पङ्कजनिकर्तृत्वरूपोऽर्थस्तद्विशेषितस्य तत्सहितस्यैव पद्मत्वस्य पङ्कजपदजन्यबोधे भानादि • त्यर्थः । भवत्वेवं का क्षतिरित्यत आह- तथा नेति - पङ्कजपदजन्यबोधे पङ्कजनिकर्तृरूपमुख्यार्थविशेषितपद्मत्वरूपलक्ष्यार्थभाने चेत्यर्थः । वृत्तिद्वयेति - एकं पदमेकदैकस्य प्रमातुः स्वशक्यार्थमात्रबोधं स्वलक्ष्यार्थ मात्र बोधं वा जनयति, न तु स्वशक्यलक्ष्योभयार्थबोधमिति नियमेन वृत्तिद्वयविरोधस्य शक्तिलक्षणो भय वृत्तिग्रहसहकारेण शाब्दबोधाजनकत्वस्य । जागरूकत्वात् वादिदम्बकाविप्रतिपत्त्या सद्भावात् । ननु पङ्कजं कुमुदमानय' इत्यादौ पङ्कजपदशक्यार्थस्य पङ्कजनिकर्तृपद्मस्यभेदन कुमुदरूपार्थे नान्वयसम्भव इति तत्र पङ्कजपदलक्ष्यार्थस्यैत्र कुमुदेऽन्वय इति लक्षणाऽप्यावश्यकीति वृत्तिद्वयविरोधस्तवापि स्य दित्यत आह- ' पङ्कजं कुमुदमानय ' इत्यत्र चेति- तत्र समुदायशक्त्योपस्थितस्यापि पद्मत्वस्य वाधात् कुमुदपदार्थे नान्वयः किन्त्वयवशक्त्योपस्थितस्य पङ्कजनिकर्तुरेव तत्रान्वय इति पङ्कजपदं तत्रैकयैव शक्तिलक्षण. वृत्याऽर्थं बोधयतीति लक्षणाश्रयणाभावान्न वृत्तिद्वयविरोधस्यावकाश इत्यर्थः । ननु पङ्कजपदाद् यदैवावयवशक्त्या पङ्कजनिकर्तुरुपस्थितिस्तदैव समुदायशक्त्या पद्मस्याप्युपस्थितिरिति समानकालीनोपस्थितिकत्वेन पद्म एवान्वेति पङ्कजनिकर्तृरूपोऽर्थ इति पद्मरूपार्थे विशेषणतयाऽन्वितस्य पङ्कजनिकर्तुर्निराकाङ्क्षतया न कुमुदपदार्थेन सममन्वयः सम्भवतीति पद्माविशेषणतया स्वातन्त्र्येण पङ्कजनिकर्तुरुपस्थितये तत्र लक्षणाऽऽवश्यकीति वृत्तिद्वयविरोधः स्यादेवेत्याशङ्कय प्रतिक्षिपति - न चेति । रूढ्या समुदायशक्त्या, अवरुद्धतया एकत्र विशेषणत्वेनोपस्थितस्य नान्यत्र विशेषणतयाऽन्वय इति नियमात् पद्मे विशेषणतयोपस्थितस्य पङ्कजनिकर्तुर्न कुमुदेऽन्वय इति विशेष्यीभूतेन पद्मेन स्वातिरिक्ते विशेषणतया पङ्कजनिकर्तुः स्वविशेषण'स्यान्वयप्रतिबन्धकेनात्र रुद्धतयाऽन्यत्रान्वेतुमयोग्यतयोपस्थितस्यावयवशक्त्योपस्थितस्येत्यर्थः । स्वतन्त्रोपस्थितये पद्माविशेषणतया पङ्कजनिकर्तुरुपस्थितये । प्रतिक्षेपहेतुमुपदर्शयति-योगार्थस्येति- अवयशक्तिजन्योपस्थितिविषयस्य पङ्कजनिकर्तु - रित्यर्थः । रूढ्यर्थविशेषणतायां समुदायशक्तिजन्योपस्थितिविषयपद्मरूपार्थविशेषणतायां सत्याम् । तथाभावेऽपि कुमुदपदार्थे विशेषणतयाऽन्वये निराकाङ्क्षत्वेऽपि । विशेष्यतायां पङ्कजनिकर्तृरूपयोगार्थस्य समुदाय शक्त्यर्थपद्मनिरूपितविशेष्यतायाम् । स्वातन्त्र्यानपायात् अन्यत्र विशेषतयाऽनुपस्थितत्वलक्षणस्य स्वातन्त्र्यस्यानपायात् सत्त्वात् तथा च स्वातन्त्र्येणोपस्थितस्य पङ्कजनिकर्तृरूपयोगार्थस्य कुमुदपदार्थेऽभेदेन विशेषणतयाऽन्वये साकाङ्क्षत्वमनाकुलमेव एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतया नान्वय इति नियमस्य विरोधाभावादित्यर्थः । ननु यथाऽवयवशक्त्या पङ्कजनिकर्तुः पृथगेवोपस्थितत्वात् स्वातन्त्र्यं तथा समुदायशक्त्या पद्मस्यापि पृथगेवो स्थितत्वात् स्वातन्त्र्यमेव तस्य च बाधादभेदेन न कुमुदरूपार्थेऽन्वयसम्भवः, न च रूढ्यर्थं पद्मं परित्यज्य योगार्थस्य केवलस्यैव कुमुदपदार्थे योग्यत्वादन्वय इति वक्तुं युक्तं तथा कुत्राप्यदृष्टत्वादित्यत आह- अन्यथेति - अन्वयायोग्यमेकमर्थं परित्यज्य योग्यस्यापरार्थस्य पदार्थान्तरेऽन्वयबोधस्यानभ्युपगमे इत्यर्थः । श्येनेन यजेतेति - ' दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेत ' इत्यादौ सर्वत्र बलवदनिष्टाननुबन्धित्वमिष्टसाधनत्वं कृतिसाध्यत्वं चेत्येतत्रयं विध्यर्थः नहि प्रयोजनमनुद्दिश्य मन्दोऽपि प्रवर्तत इति प्रवृत्तिं प्रतीष्टसाधनताज्ञानमवश्यं कारणमभ्युपगन्तव्यम्, तथेष्टसाधनेऽपि चन्द्रमण्डलानयने कृत्यसाध्ये न प्रवर्तत इति कृति - साध्यताज्ञानमपि प्रवृत्तिं प्रति कारणं स्वीकर्तव्यम् तथा मधुविषसम्पृक्तान्नमक्षणे इष्टसाधने कृतिसाध्येऽपि च मरणरूपबलवदनिष्टानुबन्धिनि न प्रवृत्तिरतो बलवदनिष्टाननुबन्धित्वज्ञानमपि प्रवृत्तिकारणम्, एवं च प्रवर्तकत्वानुरोधाद् विधे १९७ • पङ्कजं Page #269 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । निष्टानुबन्धित्वमयोग्यत्वान्नान्वेतीति सिद्धान्तभङ्गप्रसङ्गात्, यत् तूक्तम्-' प्रत्यक्षोपस्थितेनापि कलापेन तात्पर्यप्रहं सहकारिणमासाद्य ' पचति ' इत्यत्रान्वयबोध इध्यत' इति, तत् तदा शोभते यदि तात्पर्य. प्रहस्य वाक्यार्थप्रतिपत्तावङ्गत्वमीक्षामहे, तदेव तु नास्ति प्रमाणाभावात्, प्रत्युत तात्पर्यमस्य न ज्ञायते अस्माद् वाक्यादयमर्थस्तावदवगम्यत एवेति विचिन्त्य परावृत्त्य कुत्रास्य तात्पर्यमिति पृच्छति (प्र)योज्यवृद्ध इति; न लाक्षणिकपदार्थोपस्थितान्वय-व्यतिरेकाभ्यां तात्पर्यग्रहस्य हेतुत्वावधारणादन्यत्रापि तत्कल्पनं युक्तम् , सत्यां पदार्थोपस्थितौ तात्पर्यग्रहविलम्बेन वाक्यार्थानुभवविलम्बानुपलब्धेः; न पुरुषान्तरोदीरि. तकलायपदार्थोपस्थितावपि तात्पर्यग्रहसत्वा-ऽसत्त्वाभ्यामन्वयबो( धा ऽबो)धदर्शनाद् वाक्यार्थानुभवेऽपि तद्धतत्वम , आसत्तिसत्त्वाऽसत्वाभ्यामेव तो. न तात्पर्यप्रहसत्त्वासत्वाभ्यामिति. पुरुषान्तरोदीरितकला. रक्तत्रितयार्थकत्वं व्यवस्थितम्, एवमपि 'श्येनेनाभिचरन् यजेत' इत्यादौ शत्रवधकामनया क्रियमाणस्य श्येनयागस्य मरणोद्देश्यकमर गानुकूलव्यापारात्मकहिंसारूपतया बलवइनिष्टनरकसाधनत्वेन बलदनिष्टाननुबन्धित्वाभावेन विधिशक्त्योपस्थितस्यापि बलवदनिष्टाननुबन्धित्वस्य परित्यागेनैव विध्यर्थयोरिष्टसाधनत्वकृतिसाध्यत्वयोः श्येनयागऽन्वय इत्येवं बलवदनिष्टाननुबन्धित्वमयोग्यत्वाच्छथेनयागें बाधितत्वान्नान्वेतीति सिद्धान्तस्य भाप्रसङ्गात् , अतो यथा तत्र बलबदनिष्टाननुबन्धित्वरूपविध्यर्थपरित्यागेनेष्टसाधनत्व-कृतिसाध्यत्वरूपविध्यर्थस्य श्येनयागेऽन्वयस्तथा 'पङ्कजं कुमुदमानय' इत्यत्र कुमुदेऽन्वयानहत्वात् समुदायशक्त्योपस्थितस्यापि पद्मरूपार्थस्य परित्यागेनावयवशक्त्योपस्थितस्य पङ्कजनिकर्तृरूपार्थस्य कुमुदपदार्थेऽन्वय उपपद्यते इत्यर्थः । यदपि समुदायशक्त्यनभ्युपगन्तुः पद्मत्वस्य पदानुपस्थितस्य संस्कारमात्रोपस्थितस्य शाब्दबोधे भानमित्यस्योपपत्तये 'न च संस्क रोपस्थित शाब्दबोधेऽप्रवेशोऽन्यथा किं पचतीत्युके प्रत्यक्षोपस्थित कलायमादाय ' इत्यादिग्रन्थेन प्रमाणान्तरोपस्थितस्यापि शाब्दबोधे भानमिति मतमुपपादितं शङ्का-समाधानाभ्यां तदपि न युक्तभित्युपदर्शयति- यत् तूक्तमिति । तत् तात्पर्यग्रहसहकारेण पचतीत्यत्र प्रत्यक्षोपस्थितस्य कलायस्य कर्मतया पाकेऽन्वयबोधाभ्युपगमनम् । तदेव तु नास्ति तात्पर्यग्रहस्य वाक्यार्थप्रतिपत्तावङ्गत्वमेव नास्ति । न केवलं तात्पर्यग्रहम्य वाक्यार्थप्रतिपत्त्यत्वे प्रमाणाभावः, अपि तु तात्पर्यग्रहं विनापि वाक्यार्थप्रतिपत्तिर्जायमानाऽनुभूयते, यतः कस्यचिद् वाक्यस्यार्थ तात्पर्यग्रहमन्तराऽप्यवगत्यानन्तरं प्रयोग्यवृद्धः प्रयोजकवृद्धं पृच्छतीत्थं भवदुतवाक्यादयमों मया ज्ञायते, भवतस्तु कुत्र तात्पर्यमित्याह-प्रत्युतेति । अस्य प्रयोजकवृद्धोच्चरितस्य भूयमाणविशेषस्य। अस्माद वाक्यात प्रयोजकवृद्धोच्चरिताच्छ्यमाणाद् वाक्यविशेषात् । अयमर्थः स्वीयतद्वाक्यजन्यशाब्दबोधेऽवभासमानोऽर्थः । परावृत्य प्रयोजकवृद्धासम्मुखीन: प्रयोजकवृद्धसम्मुखो भूत्वा । कुत्र कस्मिन्नथें । अस्य निरुक्तवाक्यस्य । ननु लाक्षणिकपदघटितवाक्यस्थले यत्रार्थे वक्तृतात्पर्यग्रहस्तत्रार्थे लक्षणावृत्तिज्ञानालक्ष्यार्थोपस्थित्या लक्ष्यार्थविषयकान्यबोधो भवतीति लक्षणात्मकवृत्तिजन्योपस्थितिजन्यशाब्दबोधे तात्पर्य ग्रहस्य कारणत्वमवश्यमेषितव्यम् , तत्र लक्षणात्मकवृत्तिमहप्रयोज्यशाब्दत्वावच्छिन्नं प्रति तात्पर्यज्ञानं कारणमित्येवं कार्यकारणभावकल्पनापक्षया लाघवात् सामान्यतः शाब्दत्वावच्छिन्नं प्रति तात्पर्यज्ञान कारणमित्येव कार्यकारणभावः कल्प्यत इत्यस्त्येव तात्पर्यग्रहस्य वाक्यार्थप्रतिपत्त्यङ्गत्वे प्रमाणमित्याशङ्कय प्रतिक्षिपति-न चेति । 'न लाक्षणिकपदार्थोपस्थितान्वय-व्यतिरेकाभ्याम्' इत्यस्य स्थाने 'न च लाक्षणिकपदार्थोपस्थितावन्वय-व्यतिरेकाभ्याम्' इति पाठो युक्तः, 'न च' इत्यस्य युक्तमित्यनेनान्वयः, तात्पर्यप्रहसत्त्वे लाक्षणिकार्थस्योपस्थितिर्भवति तात्पर्यग्रहाभावे लाक्षणिकार्थस्योपस्थितिनं भवतीत्येवमन्वय-व्यतिरेकाभ्यामित्यर्थः । अन्यत्रापि शतपदमात्रघटितवाक्यस्थले शक्यपदार्थोपस्थितिजन्यशाब्दबोधे संस्कारमात्रप्रयोज्योपस्थितिजन्यशाब्दबोधेऽपि च। तत्कल्पनं तात्पर्यग्रहस्य कारणत्वकल्पनम् , यद्विलम्बाद् यस्य विलम्बस्तस्यैव तं प्रति कारणत्वम् , तात्पर्यग्रहविलम्बेऽपि पदार्थोंपस्थितौ सत्यां शाब्दबोधो भवत्येव न तु शाब्दबोधविलम्ब उपलभ्यत इत्यर्थः । ननु एकेन पचतीत्युक्तौ परेण किं पचतीति प्रश्न तदन्येन कलायमित्युक्तो कलायपदात् कलायरूपार्थोपस्थितावपि 'कलायमिति पदं कलायकर्मकपाकान्वयबोधपरम्' इति तात्पर्यग्रहसत्त्वे कलायकर्मकपाकान्वयविषयकशाब्दबोधो भवति, निरुकतात्पर्यग्रहाभावे निरुक्तशाब्दबोधोन भवतीत्यन्वय-व्यतिरेकाभ्यां तात्पर्यग्रहस्य वाक्यार्थबोधं प्रति कारणत्वं सिद्धयत्येवेत्याशय प्रतिक्षिपति-न चेति । 'म Page #270 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलड़तो नयोपदेशः । ग्रपदेनापि ' पचति' इत्यस्य समभिव्याहारप्रतिसन्धानेन पुरुषैः खण्डने क्रियमाणे श्लोक इवान्वय. बोधदर्शनाद् वाक्यार्थानुभवे समभिव्याहारप्रतिसन्धानस्यैव हेतुत्वात् ; अर्थाध्याहारपक्षोऽप्ययुक्त एव, 'विमतो द्वारान्वयबोधो द्वारोपस्थापकपदजन्यः शब्दद्वारान्वयबोधत्वात् सम्प्रतिपन्नवत्' इत्यनुमानात् 'पिधेहि ' इत्यत्र ' द्वारम् ' इति शब्दाध्याहारस्यैव सिद्धेः, किञ्च, विभकिविशेषसमभिव्याहारमासाथैव पदानामर्थानुभावकत्वम् , तथैवाकाङ्कादर्शनादिति एव पदार्थो न शाब्दः, तदंश एवाकालाऽसम्भवेनान्वयबोधानुपपत्तेः, गौरवस्य प्रामाणिकत्वे यावदन्वयप्रतियोग्युपस्थितेः शाब्दत्वस्य शाब्दबोधे तन्त्रत्वाविति दिक् । स्यादेतत्, ' पङ्कजमानय' इत्यत्र पङ्कजशब्देन वाक्यार्थज्ञानानुकूलं कीहक् पदार्थज्ञानं जन्यते १ 'पनं पङ्कजनिकर्तृ ' इत्याकारमिति चेत् ? तत् किम् अनुभवरूपं स्मरणरूपं वा ? नाद्य:सामग्रीविरोधात्, पङ्कजनिकर्तृत्वांशे झनुभवसामग्री, पद्मांशे स्मरणसामग्री, ते च मिलित्वा कथमेकं पुरुषान्तरोदीरित' इति स्थाने 'न च पुरुषान्तरोदीरित' इति पाठो युक्तः। तद्धेतुत्वं तात्पर्यग्रहस्य कारणत्वम् । निषेधे हेतुमुपदर्शयति-आसत्तिसत्त्वाऽसत्वाभ्यामेवेति । ती अन्वयबोधाऽन्वयाबोधौ, पुरुषान्तरेण 'कलायम् इत्युको 'कलायं पति' इत्येवं 'कलायम्' इत्यस्य ‘पचति' इत्यनेन सहाव्यवहितपूर्वापरीभावलक्षणासत्तिसत्वे कलायकर्मकपाकान्वयबोधो भवति, निरुता सत्यभावे च निरुतवाक्यार्थबोधो न भवतीत्यन्वय-व्यतिरेकाभ्यामासत्तेरेव वाक्यार्थबोधं प्रति कारणत्वं न तु तात्पर्यग्रहस्य । 'पुरुषैः खण्डने क्रियमाणे' इत्यस्य स्थाने 'पुरुषैरन्वये क्रियमाणे ' इति पाठ युकः । श्लोक इवेति-यत्पदद्वयार्थयोरन्वयबोधोऽपेक्षितस्तयोः पदयोः श्लोके समभिव्याहृतयोरभावे यथाश्रतश्लोकवाक्यात् तत्पदद्वयार्थान्वयबोधाभावेऽपि तत्पदयोरासत्तिकल्पनया यद् वाक्यान्तरं तत एव पदव्यासत्तिसहकारादन्वयबोधो यथा. दृश्यते तथाऽन्यत्राप्यासत्तित एवान्वयबोधभावेन वाक्यार्यानुभवे समभिव्याहारलक्षणासत्तिप्रतिसन्धानस्यैव हेतुत्वादि. त्यर्थः । यदपि 'अत एव तात्पर्यविषयान्वयप्रतियोगिवाचकपदाध्याहारापेक्षयाऽर्थाध्याहार एव लाघवमामनन्ति' इति प्रन्थेन समभिरूढनयमतेऽर्थाध्याहारस्यैव युक्तत्वमावेदितं तदपि न युक्तमित्याह- अर्थाध्याहारपक्षोऽप्ययुक्त एवेति । कथमयुक्त इत्यपेक्षायां तत्र हेतुमुपदर्शयति-विमत-इति- 'द्वारकर्मकपिधानक्रियाकर्तृविषयकशाब्दबोधः पदजन्यद्वारकर्मत्वोपस्थितिजन्य एव, पदाजन्यद्वारकर्मत्वोपस्थितिजन्योऽपि' इत्येवं विप्रतिपत्तिविषयः, द्वारकर्मकपिधानक्रियाकर्तृविषयकः शान्दबोध इत्यर्थः । सम्प्रतिपन्नवदिति- यथा वादि-प्रतिवाद्युभयसम्मतो 'द्वारं पिधेहि ' इति वाक्यजन्यो द्वारकर्मकपिधानक्रियाकर्तृगोषस्तथेत्यर्थः । पिधेहीत्यत्रेति- यत्र 'पिधेहि ' इत्येतावन्मात्रमुकं न तु द्वारं तत्रेत्यर्थः । पदाध्याहारस्यावश्यकत्वे युच्यन्तरमाह-किश्चेति । तथैव विभक्तिविशेषसमभिव्याहारत एव । 'एव' इत्यस्य स्थाने 'पद एवाकाङ्क्षा, ' इति पाठः सम्यग्, 'पदार्थो न शादः' इत्यस्य स्थाने 'पदार्थो न शब्दः' इति पाठो युक्तः । तदंश एव पदार्थांश एव, एवं च पदाध्याहारपक्षे प्रथमं पदज्ञानं ततः पदार्थोपस्थितिस्ततः शाब्दबोधः, अर्थाध्याहारपक्षे तु प्रथमत एवपदार्थोपस्थितिस्ततः शान्दबोध इत्यर्थाध्याहारापेक्षया पदाध्याहारे गौरवनिति यत् पराभिप्रेतं तत्राह- गौरवस्येति-अप्रामाणिकमेव गौरवं दोषाय न तु प्रामाणिकम् , प्रकृते तु पदाध्याहाराभाव अर्थे आकाक्षाऽभावादेव न ततः शाब्दबोध इति शाब्दबोधानुरोधेन पदाध्याहार आवश्यक इति पदाध्याहारे गौरवस्य प्रामाणिकत्वे सुव्यवस्थिते यावदन्वयप्रतियोगिनामुपस्थितेः शब्दजन्यत्वस्य शाब्दबोधे प्रयोजकत्वादित्यर्थः । पङ्कजपदस्थ समुदायशक्तिमसहमानः परः शङ्कते-स्यादेतदिति । पङ्कजशब्दन पदार्थज्ञानं कीदृशं जायते इति पृच्छायामुत्तरमाशङ्कते- पद्ममिति । आशङ्कितमुत्तरं विकल्प्यापहस्तयतितदिति-'पमं पङ्कजनिक' इत्याकारकं ज्ञानमित्यर्थः । नाद्य इति- 'पङ्कजनिकर्तृ पद्मम्' इत्याकारकमनुभवरूपं ज्ञानं पङ्कजपदेन जायत इति प्रथमकल्पो न समीचीन इत्यर्थः । निषेधहेतुं सामप्रीविरोधादित्युपपादयति-पङ्कजनीति-पङ्कजनिकर्तृत्वं पक्कजशब्देनावयवशक्त्या प्रतिपाद्यते, तत्र पङ्कपदेन पकरूपार्थस्योपस्थितिः, जपदेन जनिकर्तुरुपस्थितिरित्युपस्थितिद्वयेन पङ्कजनिकर्तुरवगतिरिति पकजशब्दो वाक्यावधयेव पङ्कजनिकर्तुरवबोधक इति पकजनिकर्तृज्ञानं शाब्दबोधात्मकानुभव एव, न तु स्मरणमिति पङ्कजनिकर्तृत्वांशेऽनुभवसामग्रीत्यर्थः । पद्मांश इति- पद्म पङ्कजपदं रूढत्वात् Page #271 -------------------------------------------------------------------------- ________________ २०० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । कार्य जनयेताम् १ न द्वितीयः-उपपद-धातु-प्रत्ययप्रत्येक सङ्केतप्रतिसन्धानजस्मरणानि(नां) समुदायार्थस्मृतिकालेऽसत्त्वादुत्तरोत्तरेण पूर्वपूर्वनाशात्, न च प्रत्येकस्मरणजन्यसंस्कारसमुदायात् पङ्क-जनिकर्तृत्वपद्मत्वानामेकमेव समूहालम्बनं स्मरणं कार्यदर्शनात् कल्प्यत इत्यपि युक्तम् , एवमपि हि पङ्कज-निकर्तृपद्मानयनान्वयः प्रत्येकं स्यात् , न तु विशिष्टवैशिष्ट्येन; किश्च, द्वयेनान्वये वाक्यभेदप्रसङ्गः कथकारं वारणीयः ? कथं वा न गवादिपदेऽपि योगरूढिः ? को हि " गमे?" [पा० उणा० २२५ ] " सप्तम्यां जनेर्ड:" [पा० ३. २. ९७. ] इत्यनयोर्विशेषः ? अनुशासनावधृतविभागप्रकृति-प्रत्ययशक्ति. भिरुभयत्र योगरूढेरेव सम्भवादिति, उ(अत्रो)च्यते-' पङ्कजमानय ' इति वाक्यात् पङ्कजनिकर्तारं पञ समानयेति प्रतीतेः पङ्कजपदेन प्रत्येक समुदायशक्तिप्रतिसन्धानसहकारिवशाद् मिलितगोचरमेकमेव पदरूपमेव, न तु वाक्यरूपमतः पङ्कजपदात् पद्मरूपयस्य स्मरणमेव, न त्वनुभव इति पद्माशे स्मरणसामग्रो, न त्वनुभवसामग्रीत्यर्थः । ते च निमतानुभवसामग्रीनिरुक्तस्मरणमामध्यौ च, अनुभवसामग्रो अनुभवं जनयति, स्मरणसामग्रो स्मरण जनयति; अनुभवत्वस्मरणत्वयोश्च विरोधानकं ज्ञानमनुभवस्मरणात्मकं संभवतीति निरुक्तसामाग्यौ मिलिते अपि नैकं कार्य कर्तुमर्हत इति कथमेकं ज्ञानं निरुक्तसामग्यौ जनयेतामित्यर्थः । पकजादेन 'पकजनिकर्तृ पद्मम्' इत्याकारकं ज्ञान स्मरणरूपमुपजायत इति द्वितीयपक्षोऽपि न समीचीन इत्याह-न, द्वितीय इति। निषेधे हेतुमाहउपपदेति-पकजशब्दे पङ्कपदमुपदं तस्य कर्दमरूपार्थे सङ्केतः, जन् वातुस्तस्योत्पत्तौ सङ्केतः, डप्रत्ययस्ता कर्तरि सङ्केत इति निरुक्तपदत्रयसङ्केतप्रतिसन्धानानि ऋमिकाणि, तभ्यो जायमानानि कर्दमादिरूपार्थस्मरणान्यपि क्रमिकाणि, तेषां चैकदा पकजनिकर्तृपद्मात्मकसमुदायार्थस्मृतिकालेऽसत्त्वाजन्धात्वर्थोत्पत्तिस्मरणसमये जन्धातुमकेतस्मरणेनोपपदपकार्थकर्दमस्मरणस्य डप्रत्ययार्थकर्तृस्मरणसमये डप्रत्ययसङ्केतप्रतिसन्धानेन धात्वर्थोत्पत्तिस्मरणस्य च विनाशान्न पङ्कजनिक पद्मरूपसमुदायार्थस्मरणं संभवतीत्यर्थः । ननु उपपदादिप्रत्येकादसकेतप्रतिसन्धानप्रभवक्रमिकस्मृतिभ्यः पङ्कजेत्यखण्डपद. समुदायसङ्केत प्रतिसन्धानप्रभवपद्मरूपार्थस्मृत्या च प्रत्येक क्रमिकाः स्वसमानविषयकाः संस्काराः समुत्पन्नास्तेषां च युगपत् सद्भावात् तत्समुदायनककालवतिना पङकजनिकर्तृपद्मरूपार्थस्मरणं समूहालम्बन भविष्यतीत्याशय प्रतिक्षिपति-न चेतिअस्य ‘युक्तम् ' इत्यनेनान्वयः । कार्यदर्शनादिति-यदि तत्तदर्थस्मरणप्रभवसंस्कारसमुदायो न भवेन्न पङ्कजनिकर्तृपद्मानां समूहालम्बनात्मकस्मरणमुपलभ्येतेति तादृशसमूहालम्बनस्मरणरूपकार्यदर्शनादेवं कल्प्यत इत्यर्थः । भवतूकदिशा पक-जनिकर्तृ-पद्मत्वानां सम्हालम्बनस्मरणं तथाप्यानयनरूपपदार्थान्तरेण समं स्मृतानां तेषां प्रत्येकमेवान्वयः, यपेणैकपदार्थस्मरणं तद्रपेणैव तस्यापरपदार्थेन सममन्वय इति नियमात्, पङ्कपदार्थस्य कर्दमस्य धात्वर्थ जनने तस्य च प्रत्ययार्थकर्तरि तस्य च समुदायार्थपोऽन्वयतो नियमतो निष्पन्नस्य पकजनिकर्तपद्मरूपार्थस्य विशिष्टस्यानयनरूपपदार्थान्तरेण सममन्वयः स्यात् , पङ्कजनिकर्तृपद्मत्वेन रूपेण निरुक्तविशिष्टरूपार्थस्य पदादनुपस्थितेरिति निषेधहेतुमुपदर्शयति-एवमपीति-निरुक्तसंस्कारसमुदायान्निरुक्तार्थानां समूहालम्बनैकस्मरणसम्भवेऽपोत्यर्थः । पङ्कजपदस्यावयवशक्ति समुदायशक्त्योरुपगमे दोषान्तरमुपदर्शयतिकिश्चेति । द्वयेनेति-पङ्कजमानय' इत्यत्रानयनरूपपदान्तरार्थस्य पङ्कजानि यवार्थेन पद्मरूपसमुदायार्थेन च सममन्वये द्वितीयाविभक्त्यर्थकर्मत्वं मध्ये सन्निवेश्य तद्वारा स्वीक्रियमाणे पङ्कजनिकर्तृकर्मकानयनबोधः पद्मकर्मकानयनबोधश्च ततो भवेदिति साक्षात् परम्परया परस्परानन्वितविभिन्नार्थबोधकत्वलक्षणवाक्यभेदात्मकदोषोऽत्र भवन् कवकार वारणीयः? न कथञ्चित् स वारयितुं शक्य इत्यर्थः । यथा च पङकजपरेऽवयवशक्ति-समुदायशक्त्योः सद्भावाद् योगरूढिस्तथा गवादिपदेऽपि तयोः सद्भावाद् योगरूढिः किं न भवद्भिरुपेयते ? इत्याह -कथं वेति-गममार्थकगमिधातो?प्रत्यये सति गौरिति पदं निष्पद्यते, तत्र गमिधातोर्गमनमर्थः, डोप्रत्ययस्य च कर्ताऽर्थः, तथा च गमनकर्ताऽवयवशक्त्याऽर्थः समुदायशक्त्या गोत्ववानर्थः, एवं च गमनकर्ता गौरिति गोशब्दार्थः पङ्कजपदेऽपि पङ्कपदार्थः कर्दमः जनिधातोर्जननमर्थः, डप्रत्ययस्य कर्ताऽर्थः, समुदायशक्त्या च पद्ममर्थ इति पकजनिकर्तृ पद्ममित्यर्थः पङ्कजपदस्य, इत्थं चानयोर्न कश्चिद् विशेष इति गवादिपदं रूढमेव पङकजादिदं योगरूढमिति विभागकल्पना नैयायिकानां दुष्कल्पनैवेत्याह-को हीति । अनयोः डोविधायक-डविधायकयोः । अत्र उक्ताशङकायाम्। उच्य ने प्रतिविधानं कथ्यते । मिलितगोवरं पकजनिकर्तृ Page #272 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। २०१ स्मरणं जन्यते, तत्रासत्तिवशेन ' विशेष्ये विशेषणम्' इति रीत्या पङ्कजनिकर्तृत्व-पद्मत्वविशिष्टानयनस्यैकदैवान्वयबोधः, यद्वा पङ्क-जनि-कर्तृत्वादीनां प्रत्येकपदोपस्थितानां प्रथमस्तावदन्वयबोधस्तदनन्तरं तेन समं पद्मवस्यानन्तरमानयनान्वय इत्यागृह्यम् ; न चैकस्य पङ्कजपदस्य पद-वाक्यभावविरोधः, समु. दायापेक्षया पदत्वम् , अवयवापेक्षया च वाक्यत्वमित्येवमविरोधात् ; न च गवादिपदेऽपि योगरूढे (ढिः), 'डो' प्रत्यये शक्यवधारकाभावानियतैकप्रकृतिकत्वेनावापोद्वापकल्पनासम्भवात् , अनुशासनं तु रेखा. गवयेन सत्यगवयज्ञानवत् साधुत्वाद् व्याख्यानमात्रपरम् ; न च धेन्वादिपदेऽप्येवं स्यात् , जानु-दानु पदुमद्वयविषयकम् । भवतु मिलितविषयकमेकं स्मरणं योगरूढिप्रतिसन्धानलक्षगसहकारिसहकृतात् पङ्कजपदादेवमपि कथमेक. देव पकजनिकर्तत्वविशिष्टपमान्वयबोध इत्यपेक्षायामाह-तत्रेति-मिलितगोचरैकस्मरणे सतीत्यर्थः । आसत्तिवशेन पङ्कजेत्येकपदोपस्थाप्यत्वलक्षणासत्तिबलेन । विशेष्य इति-विशेष्ये आनयने कर्मताद्वारा पद्मस्य तत्र कर्तुस्तत्र जनेस्तत्र पकजस्यान्वय इत्येवं ' विशेष्ये विशेषणं तत्रापि विशेषणान्तरम्' इति रीया पङ्कजनिकर्तत्वविशिष्टपद्मत्वविशिष्ट नयनस्यैकदैवान्वयबोधः सम्भवति, यतो विशिष्टवैशिष्ट्यबोध एवं विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वम्, प्रकृतान्वय. बोधोऽपि यदि विशिष्टवैशिष्ट्यावगाहिबोधः स्यात् तदा विशेषणतावच्छेदकप्रकारकनिश्चयस्य तत्र कारणत्वं भवेदिति पङ्कजनिकर्तत्वविशिष्टपद्मत्वलक्षणविशेषणतावच्छेदकप्रकारकनिश्चयो निरुक्तपद्मत्वप्रकारकस्मरणरूप इति निरुक्तपद्मत्वविशिष्टे पङ्कजपदसल्केतप्रतिसन्धानाभावान्निरुक्तपद्मत्वप्रकारकस्मरणाभावे निरुक्तशाब्दबोधो न भवेदपि, 'विशेष्ये विशेषणम्' इति रीत्या निरुतबोधाभ्युपगमे तु स बोध उपलक्षितवैशिष्ट्यावगाह्येव, तत्र च न विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वं किन्तु विशिष्टबुद्धिरूपं तं प्रति विशेषणज्ञानमेव कारणम् , मिलितगोचरमेक स्मरणं च विशेषणज्ञानं भवत्येवेति तत उक्तरीत्याऽन्वयबोधः स्यादेवेत्यर्थः। अथवा पङ्कजपदसन्निविष्टानामुपपद -धातु-प्रत्ययपदानां प्रत्येकशक्त्योपस्थितानां पङ्क-जनिकर्तृत्वानां प्रथमं पकजनिकर्तेत्येवमन्वयबोधस्तदनन्तरं समुदाय शक्त्योपस्थितेन पद्मत्वविशिष्टेन समं पक्कजनिकर्तुरभेदेनान्वयबोधस्तदनन्तरं पङ्कजनिकर्तत्वविशिष्टपद्मस्य कर्मत्वरूपद्वितीयार्थद्वाराऽऽनयनान्वयबोध इत्येवमभ्युपगमेऽपि न किञ्चिदनुपपन्न मित्याह-यद्वेति । तेन समं पङ्कजनिकर्तत्वविशिष्टेन समम्। 'पद्मत्वस्य' इयनन्तरम् 'अन्वयबोध' इत्यस्यानुकर्षण सम्बन्धः। 'आनयनान्वयः' इत्यस्य पद्मत्वविशिष्टस्य कर्मत्वद्वाराऽऽनयनेन सममन्वयबोध इत्यर्थः । नन्वेकस्यैव पकजपदस्योपपद-धातु-प्रत्ययैः प्रत्येकं स्वस्वशक्त्युपस्थितार्थानामन्वयबोधजनकत्वेन वाक्यत्वं समुदायशक्त्या च पद्मरूपैकार्थोपस्थितिमात्रजनकत्वेन पदत्वमित्येवं पदत्व-वाक्यत्वयोरेकस्मिन् समावेशो विरोधान्न संभवतीत्याशय प्रतिक्षिपतिन चेति । पदत्व-वाक्यत्वयोरेकापेक्षयैकत्रावृत्तित्वमेव विरोधो न त्वपेक्षाविनिर्मोकण कत्रावृत्तित्वम् , पक्कजादे च समुदायापेक्षया पदत्वमवयवापेक्षया च वाक्यत्वमित्येकापेक्षयकत्रावृत्तित्वलक्षणस्य विरोधस्यापेक्षाभेदेनैकत्र सत्त्वेऽपि न हानिरिति निषेधहेतुमुपदर्शयति-समुदायापेक्षयेति । ननु गोपदेऽपि गमिधातु-डोप्रत्ययाभ्यां गमनकर्तृत्वान्वयबोधकत्वस्य समुदाय शक्त्या गोरूपार्थोपस्थितिजनकत्वस्य च सम्भवेन योगरूढिः स्यादित्याशय प्रतिक्षिपति-न चेति । निषेधे हेतुमाहडोप्रत्यय इति डोप्रत्ययस्य कर्तरि शक्तिरित्येवं निश्चयकारणं नास्ति, 'गमेड?' [पा० उगा० २२५] इत्यनेन गमिधातुत एव डोप्रत्ययस्य विधानमिति नियतकप्रकृतिकत्वेन गोपदसाधुत्वार्थमेव डोप्रत्ययविधानम्, न तु डोप्रत्ययसद्भावे गमनकर्तरूपार्थप्रत्ययभावः, डोप्रत्ययमावे गमनकर्तरूपार्थप्रत्ययाभाव इत्येवमन्वय-व्यतिरेकलक्षणावापोद्वापकल्पनायाः शक्तिपाहिकाया अभावात् , यतः पदे गमिधातु स्ति, अथ च डोग्रत्यय इत्येवं गमिधातोरभावे डोप्रत्ययसद्भावे गमनातिरिक्कार्यकर्तत्वाव.. बोधस्यादर्शनेन डोप्रत्यये कर्तृत्वे शक्त्यवधारणासम्भवादित्यर्थः । यदि डोप्रत्ययस्य न कर्तृत्वरूपार्थे शक्ति, तर्हि किमर्थ, गमिधातुतो डोप्रत्ययविधानमित्यपेक्षायामाह-अनुशासनं विति-गवयानभिज्ञस्य सत्यगवयस्वरूपावगतये यथा गवयाकृति रेखया दर्शयते ततो रेखागवयेन सत्यगवयस्वरूपमवगच्छति पुरुषस्तथा गमिधातुतो डोप्रत्ययविधानतो गोपदसाधुत्वमात्रा.. वगतिर्भवति, तदर्थमेव तु "गमे?" इति गौरिति व्याख्यानमात्रम्, अर्थाद् धातुप्रत्ययार्थसमाश्रयणेन गौरित्यस्य गच्छतीति गौरिति व्याख्यानमात्रपरं प्रकृतिप्रत्ययविभागसमाश्रयणम् , न तु वस्तुगत्या गमनकर्तेति गोपदात् प्रतीयते, २६ Page #273 -------------------------------------------------------------------------- ________________ ૨૦૨ नयामृततरङ्गिणी-तरबिणीतरणिभ्यां समलतो नयोपदेशः । भानु-शब्दादावावापोद्वापक्रमेण तत्र शक्तिः कल्या, तद्वरं रूढिरेव, नहि धेन्वादिपदे योगरूढिरिति गौतमवचनमस्ति, येन योगत्यागेऽपसिद्धान्तः स्याद् " इति । ___ व्यवहारनमानुसारिणस्तु-" पङ्कजादिपदेऽपि रूढिरेव, व्युत्पत्तेः सर्वत्र साधुस्वार्थस्वात्, अत एष योगत्यागेन स्थलपझे पङ्कजपदस्य(प्रयोगः)” इत्याहुः।। षयं तु ब्रूमः-व्युत्पसिरहितस्वं रूढित्वम् , व्युत्पत्तिसहिष्णुत्वं यौगिकत्वम् , तदसहिष्णुत्वं च मिश्र. स्वम्, इति पदानां यौगिकादिविभागः पारिभाषिक एव, परमार्थतस्तु योग-रूढिनययोः स्वस्वजन्य. शाब्दबोधे मिथः प्रतिबन्धकत्वेन ' स्याद् यौगिक एव शब्दः, स्याद्रुढ एव' इत्यादिरीत्या सप्तभङ्गी. प्रवृत्तिरेव युक्ता, नयद्वयजन्याकाङ्क्षयोः सप्तभङ्गयुत्थापकत्वस्य सर्वसिद्धत्वात् , अत एवावयव समुदाय. शक्तिभ्यां बोधकत्वम् ; पङ्कजादिपदे योगरूढित्वमिति न्यायनयकान्तो न युक्तः, तन्नये नाम-धात्वोः सम्भूयाबोधकत्वेन तयोस्तात्पर्यप्राहकतायाः, 'ड'प्रत्ययस्यैव च पङ्कजनिकर्तरि लक्षणायाः स्वीकारात्, न लौकिक-परीक्षकाभ्यां गौरित्यनेन गोत्वविशिष्ट एवार्थः प्रतीतिगोचरीक्रियत इति । नन्वेवं धेन्वादिपदस्यापि गोत्वविशिष्ट एव रूढिः सान्न तु धानकर्मत्वविशिष्टे योगोऽपीत्याशङ्कामिष्टापत्या परिहरति-न चेति । एवं स्यात् गवादिपदवढिरेव स्यान्न तु योगोऽपि । अत्रेष्टापत्तिरेव निषेधहेतुरित्याह-जान्विति-जान्वादिषदे नुशब्दसत्त्वेऽपि धेशब्दासत्त्वे धानकर्मत्वं न प्रतीयते, तत्रैव जादिस्थाने धेशब्दोपादाने धानकर्मत्वं प्रतीयते इत्यन्वय-व्यतिरेकलक्षणावापोद्वापाभ्यां धानकर्मत्वविशिष्टे धेनुपदस्यावयवशक्तिः प्रकल्पनीया, तदपेक्षया गोत्वविशिष्टे समुदायशक्तिमात्रमेव तस्य वरमित्यर्थः, यथा च पक जादिपर्द योगरूढमिति नैयायिकवृद्धानामनुशासनं नैवं धेन्वादिपदं योगरूढमित्यनुशासनं तेषां समस्ति यद्बलाद्योगरूढिरपि तस्याभ्युषेया स्यादित्याह-नहीति । कस्यचिन्नव्यनैयायिकस्य धेन्वादिपदे योगरूढाक्तिर्न न्यायदर्शनसिद्धान्तो येन तस्य योगत्यागेऽ. पसिद्धान्तो भवत्, न्यायदर्शनप्रणेतुमहर्षेौतमस्यैव वचनं न्यायसिद्धान्तः, न च धेन्वादिपदं योगारूढमिति गौतमवचनं समस्तीति योगपरित्यागेऽप्यपसिद्धान्तो नात्र पई धते इत्यावेदनाय 'गौतमवचनम्' इत्युक्तिः । पकजपदं योगरूढमित्यभ्युपगच्छतां नैगमन यानुसारिणां नैयायिकानां मामुपदर्थ पकजादिपदं रूढमेवेत्यभ्युपगन्तृणां व्यवहारनयानुसारिणां मतमुपदर्शयति-व्यवहारनयानुसारिणस्त्विति-अस्प 'आहुः' इत्यनेन सम्बन्धः । ननु पकजपदे रूढेरेव भावे पक्का जायत इति पङ्कजमिति व्युत्पत्तिरनार्थका स्यादित्यत आह-व्युत्पत्तरिति-यथा गच्छतीति गौरित्येवं गवादिपदव्युत्पत्तिौरित्यादिपदस्य साधुत्वार्थिका न तु ततो गमनकर्ताद्यर्थः परिकल्प्यत एवं पङ्कजादिपदेऽपीत्यर्थः । मत एक 'पका जायते इति व्युत्पत्तिः साधुत्वार्थिकैव, न त्ववयार्थबोधिकेत्यभ्युपगमादेव, अन्यत् सुगमम् । ___अत्र जैनानां सिद्धान्तं ग्रन्थकृदावेदयति-वयं तु ब्रूम इति । 'तदसहिष्णुत्वं च 'इति स्थाने 'तत्सहिष्णुत्वे सति तदसहिष्णुतं च' इति पाठो युक्तः । 'रूढित्वम्' इत्यत्र रूढत्वमिति पाठः सम्यग्। मिश्रत्वं योगरूढत्वम् , तथा च व्युत्पत्तिसहितत्वे सति व्युत्पत्तिरहितत्वं योगरूढत्वमित्यर्थः । इति एवंप्रकारेण। पारिभाषिक एव स्वेच्छाकल्पित एव । तर्हि कोऽत्र वास्तविक इत्यपेक्षायामाह-परमार्थस्थिति। योग-रूढिनययोः अवयवशक्त्यभ्युपगन्त-समुदायशक्त्यभ्युपगन्तनययोः । स्वस्वेति-अवयवशक्त्यभ्युपगन्तनयस्य समुदायशक्तिमात्रजन्यशाब्दबोधे प्रतिबन्धकत्वेन समुदायशक्त्यभ्युपगन्तृनयस्यावयवशक्तिमात्रजन्यशाब्दबोधे प्रतिबन्धकत्वेन च यौगिक एव शब्दो रूढ एव च शब्द इत्येवमे. कान्तवचनप्रवृत्तिर्न सम्भवति, किन्तु स्याद् यौगिक एव शब्दः १ स्याद्रूढ एव शब्दः २ स्याद् यौगिक एव स्याढ एव च शब्दः ३ स्यादवकव्य एव शब्दः ४ स्याद् योगिक एव स्यादवक्तव्य एव च शब्द: ५ स्यादूढ एव स्यादवक्तव्य एव च शब्दः ६ स्याद् यौगिक एव स्याद्रूढ एव स्यादवक्तव्य एव च शब्दः . इत्येवं सप्तभनीववनप्रवृत्तिरेव युक्तेत्यर्थः । कथमित्थमत्र सप्तभङ्गोप्रवृत्तिरित्यपेक्षा यामाह -नयद्वयेति-योगाभ्युपगन्तृनयरून्यभ्युपगन्तृनयद्वयेत्यर्थः । बस एव नयद्वयजन्याकालयोः सप्तमप्रयत्थापकत्वादेव । 'योगरूढित्वमिति' इति स्थाने 'योगरूढत्वमिति' इति पाठो Page #274 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतर्राणभ्यां समलहतो मयोपदेशः । २०३ = चावयवद्योत्य समुदायशक्यार्थबोधकत्वेन तथात्वं युक्तम् , एवं सति 'प्रजयति' इत्यत्र प्रोत्तरजित्वेन प्रकृष्टजय इव पङ्कजपदोत्तर'ड'प्रत्ययत्वेन पङ्कजनिकर्तृपद्म एव निरूढलक्षणासम्भवे समुदायशको माना. भावाद् , अनन्यलभ्यस्यैव शब्दार्थत्वाद्, अन्यथा समासे न शक्तिरिति मतभङ्गप्रसङ्गात्, न चेदेवं राजवाचके भूधनादिशब्दे भूधनवति लक्षण या यौगिके राजत्वेन पृथग् बोधकतया योगरूढत्वप्रसङ्गः कथकारं वारणीयः, विशिष्टरूढयेकान्तनयो विशिष्टयोगैकान्तनयो वा तत्र समानप्रसर इति तयोर्महायोधयोरिव युद्धं वारयितुं स्याद्वादमहाराजं विना कोऽन्यः समर्थ इति विभावनीयम् । __ एतेन योगार्थस्य नियमतोऽभानप्रसङ्गेन मीमांसकनयैकान्तोऽपि निरस्त; इति नययोजनयैव सर्वा शाब्दी प्रक्रियाऽनाविला ॥ ३९ ॥ युक्तः। न्यायनयकान्ताभ्युपगमस्यायुक्तत्वे हेतुमाह - तन्नर इति- न्यायनये इत्यर्थः । नाम-धात्वोः पङ्कनाम जनिधात्वोः। सम्भूयाबोधकत्वेन मिलित्वाऽर्थबोधकत्वाभावेन, पति नाम कर्दमरूपार्थ बोधयति, जनिधातुश्चोत्पत्तिरूपार्थ बोधयति, न तु मिलितयोस्तयोः पङ्कविशिष्टोत्पत्तिरूपार्थबोधकत्वं नामार्थ-धात्वर्थयोरभेदातिरिकसम्बन्धेनान्वयस्याव्युत्पन्नत्वात्. प्रकृते च पङ्कपदार्थस्य नाभेदसम्बन्धो जनिधात्वर्थोत्पत्ती घटतेऽतो जन्यजनकभाव एव सम्बन्धः स च व्युत्पत्तिविरोधान शाब्दे भासितुमर्हतीति । तयोः नाम-धात्वोः। तात्पर्यग्राहकतायाः पङ्कोपपदकजनिधातूतरडप्रत्ययस्य पजनिकर्तृरूपायें यत् तात्पर्य तदाहकतायाः, अस्य 'स्वीकाराद' इत्यनेनान्वयः, कर्नरूपार्थे डप्रत्ययविधानं न तु पङ्कजनिकर्तृरूपार्थे इति डप्रत्ययस्य न पङ्कजनिकर्तरि शक्तिः किन्तु तस्य तत्र लक्षणैवेति डप्रत्ययस्य पङ्कजनिकर्तरि लक्षणायाः स्वीकारादित्यर्थः । न च' इत्यस्य ‘युक्तम् ' इत्यनेनान्वयः। अश्यत्रयोत्येति- नाम-धातु-प्रत्ययलक्षणाक्यवद्योत्येत्यर्थः । समुदायशक्तया उपपद-धातु-प्रत्ययनिष्पनपङ्कजपदशक्त्या, शक्येति पाठे अवयवद्योत्यो यः समुदायशक्यार्थस्तोषकत्वे. नेत्यर्थोऽत्र प्रायः । तथात्वं पङ्कजपदस्य योगरूढत्वम् । युक्तत्वनिषेधे हेतुमाह-एवं सतीति- अवयवानां द्योतकत्वं समु. दायस्यार्थबोधकत्वमित्यभ्युपगमे सतीत्यर्थः । प्रकृष्टजय इवेति - प्रकृष्टजयरूपार्थे प्ररूपोपसर्गोतरजित्वेन जयार्थकजिधातोर्यथा लक्षणा तथेत्यर्थः । ननु पङ्कजनिकर्तृपद्मरूपार्थप्रतीतिरेव समुदायशको मानमित्यत आह- अनन्यलभ्यस्यैवेति, शब्दार्थस्वात शब्दशक्यार्थत्वात् , तेन लक्षणया लक्ष्यस्य शब्दजन्योपस्थितिविष पत्वलक्षणशब्दार्थत्वेऽपि न क्षतिः, यथा 'गङ्गायां घोषः' इत्यत्र गङ्गापदाद् गङ्गातीररूपार्थप्रतीतावपि न गङ्गापदस्य गङ्गातीररूपा) शक्तिः, गङ्गातीररूपार्थस्य तत्र लक्षण. यैवावगतिसम्भवेन तस्य शक्तिभिन्नलक्षणालभ्यत्वेनानन्यलभ्यत्वाभावात् , तथा प्रकृतेऽपि पङ्कजनिक पद्मरूपार्थस्य शक्ति. मिनलक्षणया प्रतीतिसम्भवेनान्यलभ्यस्य तस्यानन्यलभपस्वाभावेन पङ्कजपदशक्यार्थत्वाभावेन न पङ्कजपदस्य समुदायशकि. रित्यर्थः । अन्यथा अन्यलभ्येऽपि समुदायशकेरभ्युपगमे । समाल इति- समासघटकप्रत्येकपदक्लप्तशक्त्यैव समासप्रतिपाद्यार्थस्यावगतिसम्भवात् समासे न शकिरिति नैयायिकमतस्य भाप्रसङ्गात् , तथा च समासशक्त्यभ्युपगन्तारो वैयाकरणा एवं विजयेरनित्याशयः। लक्षणया निर्वाहे सत्यपि पङ्कजपदस्य योगरूढस्वाभ्युपगमे भूर्धनं यस्य स भूधन इत्येवं व्युत्पन्नस्य भूषनशब्दस्य भूस्वाभिराजरूपार्थकत्वतो योगरूढत्वं प्रसज्यत इत्याह-नरेवमिति- उक्तदिशोपपादितमर्थ नाभ्युपैति यदा तदेत्यर्थः। राजत्वेन पृथयोधकतया गजत्वेन राजनि भूधनपदस्य समुदायशक्तिरित्युपगमतो राजत्वेन राजरूपार्थस्य भूधनवद्रपार्थतः पृथग्बोधकतयेत्यर्थः । कथङ्कारं वारणीयः? न कश्चिद्वारयितुं शक्यः। विशिष्ट रूढयेकान्तनयः पाजपदस्य पङ्कजनिकर्तृत्वविशिष्ठपने रूढिरेवेत्येकान्ताभ्युपगन्तृनयः। विशिष्ठयोगकान्तनयः पङ्कजनिकर्तत्वविशिष्टपग्रेडवयवशक्तिरेवेत्येकान्ताभ्युपगन्तृनयः । तत्र परमपदे । समानप्रसरः तुल्ययुक्त्योपपादयितुं शक्यः । इति एतस्मात् कारणात् । तयोः विशिष्टरूत्येकान्तनय-विशिष्टयोगैकान्तनययोः, अत्य 'युदम्' इत्यनेनान्वयः । अत्र स्टान्तमाहमहायोधयोरिवेति- यषा महायोधयोर्मल-प्रतिमल्ल भावेन युद्धं कुर्वनो: सामन्त-महीग्त्योयुदं वारयितुं तदधिकशक्तिमान् महाराज एव प्रभुतं विनाऽन्यो न तयोयुद्ध वारयितुं समर्थस्तथा प्रकृतेऽपि निरुकनययोरन्योऽन्यमतखण्डनलक्षणयुद्ध बारयितं 'स्पाद यौगिक एव शब्दः, स्यान्ट एवं शब्दः' इत्यादिसप्तभत्रीलक्षणत्याद्वादमहाराज एव समर्थो न त तदन्यः कश्चित् समर्थ इत्यर्थः । Page #275 -------------------------------------------------------------------------- ________________ २०४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः। तदेवं नयमतस्य विचित्रत्वात् प्रसिद्धधात्वर्थपुरस्कारेणैवम्भूतनयप्रवृत्तिरिति व्यवस्थापितम् , एवं च सति यत् सिद्धं तदाह सिद्धो न तन्मते जीवः, प्रोक्तः सत्त्वादिसंइयपि । महाभाष्ये च तत्वार्थभाष्ये धात्वर्थबाधतः ॥ ४० ॥ नयामृत-सिद्ध इति । तन्मते- एवम्भूतनयमते, सत्त्वादिसंज्यपि- 'सत्तायोगात् सत्स्वः, अतति स्वान् पर्यायानित्यात्मा' इत्यादिसंज्ञाधार्यपि, सिद्धो महाभाष्ये- विशेषावश्यके, तत्त्वार्थभाध्ये च, धात्वर्थबाधतो- ‘जीव प्राणधारणे' इति धात्वर्थानन्वयाज्जीवो न प्रोक्तः, तथा च विशेषावश्यकवचनम्- “ एवं जीवं जीवो संसारी पाणधारणानुभवो । सिद्धो पुणो अजीवो जीवणपरिणामरहिउ ति" [विशेषावश्यकभाष्यगाथा-२२५६ ] ॥ ४०॥ एतदेव तत्त्वार्थवचनमनूध व्यवस्थापयति जीवोऽजीवश्च नोजीवो, नोअजीव इतीहिते। जीवः पञ्चस्वपि गतिष्विष्टो भावैर्हि पञ्चभिः ॥४१॥ नयामृत-जीव इति । जीवोऽजीवो नोजीवो नोअजीवश्चेति चतुर्भिः समः पदैः कोऽर्थः प्रतिपाद्य इति ईहिते- प्रश्नयोग्यविचारविषयीकृते, सिद्धान्तिना गतिमार्गणायां पञ्चस्वपि गतिषु-नारक रूढिज्ञानस्य योगार्थभानप्रतिबन्धकत्वमिति मीमांसकमतमपि न युक्तम् , तथा सति पङ्कजपदजन्यशाब्दबोधे नियमतः पङ्कजनिकर्तृरूपयोगार्थस्य भानं न स्य त् , 'स्याद् यौगिक एव शब्दः, स्याद्रूढ एव शब्दः' इत्यादिसप्तमजीलक्षण. स्याद्वादजन्यशाब्दबोधे तु कथञ्चिद्योगार्थ कथञ्चिद्र्व्यर्थयोरुभयोरपि भानस्यानुभवसिद्धत्वादित्य ह- एतेनेति-स्याद्वादमहाराजस्य नयद्वययुद्धवारणसमर्थत्वेनेत्यर्थः, अस्य 'निरस्तः' इत्यनेनान्वयः । उपसंहरति- इनीति- एवंप्रकारेणेत्यर्थः, नययोजनयैव स्यात्पदलाञ्छितनयवाक्यघटितसप्तभङ्गीप्रवृत्तिलक्षणनययोजनयैव ॥३९॥ चत्वारिंशत्तमपद्यमवतारयति- तदेवमिति । 'प्रसिद्धधात्वर्थपुरस्कारेणैवम्भूत' इति स्याने 'प्रसिद्धधात्वर्थपुरस्कारेणैवैवम्भूत' इति पाठो युक्तः, व्यवस्थापितमित्यन्तोक्तिः पूर्वपद्येन सहोत्तरपद्यस्य सङ्गतिप्रदर्शनार्था । एवं च सति प्रसिद्धधात्वर्थपुरस्कारेणैवैवम्भूतनयप्रवृत्तिरित्यस्य व्यवस्थापने च सति। "सिद्धो न तन्मते जीवः" इति चत्वारिंशत्तमपद्यं विवृणोति-सिद्ध इतीति- सत्त्वादिसंश्यपि सिद्धो धात्वर्थबाधतस्तन्मते न जोव इति महाभाष्ये तत्त्वार्थभाष्ये चोक इत्यन्वयः । 'तन्मते' इत्यस्य 'एवम्भूतनयमते' इति विवरणम् , एवमप्रेऽपि मूलमुल्लिख्य विवृतम् । सत्त्वसंज्ञाधारी कथं सिद्ध इत्या कामानिवृत्तये उक्तम्- सत्तायोगादिति । 'सरवादि इत्यादिपदग्राह्यात्मसंज्ञाधारित्वप्रतिपत्तये अततीत्यादि तद्युत्पत्त्युपदर्शनम्, 'अतति स्वान् पर्यायान्' इत्यस्य स्थाने 'अतति ताँस्तान् पर्यायान्' इति पाठः सम्यग् . ताँस्तान् पर्यायानित्यस्य प्रसिद्धान् ज्ञान-दर्शन-सुखादिपर्यायानित्यर्थः, अततीत्यस्य गच्छतीत्यर्थः । सिद्धो जीवो न प्रोक्तः कुत्रेत्यपेक्षायामाह-महाभाष्य इति। तस्य विवरणम् - विशेषावश्यक इति । 'धात्वर्थवाघतः' इत्यस्य विवरणम् - " जीव प्राणधारणे” इति धात्वर्थानन्वदिति । विशेषावश्यकवचनमुल्लिखति- एवमिति- "एवं जीवन् जीवः संसारी प्राणधारणानुभवः। सिद्धः पुनर्न जीवो जीवनपरिणामरहित इति" इति संस्कृतम् ॥ ४०॥ - एकचत्वारिंशत्तमपद्यमवतारयति- एतदेवेति-जीवनपरिणामरहितत्वात् सिद्धस्याजीवत्वमेवेत्यर्थः, अस्य 'व्यवस्थापयति' इत्यनेनान्वयः । 'जीवोऽजीवश्चेति' इति पद्यं विवृणोति-जीव इतीति । 'ईहिते' इत्यस्य विवरणम्-'प्रश्नयोग्य Page #276 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । २०५ तिर्यगू-नराऽ मर-सिद्धिगतिलक्षणासु, हि-निश्चितम् , पञ्चभिर्भावैः- औदायिक क्षायिक-क्षायोपशमिकोपशमिक-पारिणामिकलक्षणैः, जीव इष्टः, व्युत्पत्तिनिमित्तजीवनलक्षणोदयिकभावोपलक्षितात्मत्वरूपपारि. णामिकभावविशिष्टस्य जीवस्य भावपञ्चकात्मनो जीवपदार्थत्वात् , न चात्मत्वप्रवृत्तिनिमित्तोपादानेनैवानतिप्रसङ्गे किं व्युत्पत्तिनिमित्तोपलक्षणग्रहणेन ? इति वाच्यम् , संभवति तदुपलक्षकभावे तत्त्यागस्यान्याय्य. त्वात् , अन्यथा मण्डपा-ऽश्वकर्णादिपदतुल्यताप्रसङ्गादिति दिक् ॥ ४१ ।। नजि सर्वनिषेधार्थे पर्युदासे च संश्रिते । पुद्गलप्रभृति द्रव्यमजीव इति संज्ञितम् ॥ ४२ ॥ नयामृत-ननीति । सर्वनिषेधार्थे- जीवत्वावच्छिन्नान्योन्याभाववदर्थे, नबि- विवक्षिते, विचारविषयीकृते इति । 'सिद्धान्तिना' इत्यस्य 'इष्टः' इत्यनेनान्वयः। गतिमार्गणायां कस्यां गतौ केन भावेनालिङ्गितो जीव इष्ट इत्यन्वेषणायाम्। व्युत्पत्तीति-जीवपदव्युत्पत्तिनिमित्तो यो जीवनलक्षण:-प्राणधारणस्वरूप औदयिकभावस्तेनोपलक्षितः-प्रतियोगिव्यधिकरणतदभावासमानाधिकरणो यदा कदाचित्तेन सममेकाधिकरणवृत्तिर्य आत्मत्वरूपपारिणा मिकभावस्तद्विशिष्टस्येत्यर्थः । भावपश्चकात्मनः अनन्तरोपदर्शितौदयिकादिभावपञ्चकस्वरूपस्य, जैनराद्धान्ते धर्मधर्मिणोः कथञ्चित्तादात्म्यमिति भावपञ्चकात्मकत्वं जीवस्य युज्यते, 'नच' इत्यस्य 'वाच्यम्' इत्यननान्वयः । आत्मत्वेति- आत्मत्वं यजोवपदस्य प्रवृत्तिनिमित्तं तदुपादानेनैव-तद्रहणेनैव, अर्थादात्मत्वविशिष्टो जीवपदार्थ इत्युक्त्यैव । अनतिप्रसले आत्मभिने घट-पटादिपदार्थ जीवपदार्थत्वप्रसङ्ग भावे । 'किम्' इति काकूक्तेर्न किश्चिद् व्युत्पत्तिनिमित्तोपलक्षगग्रहणेनेत्यर्थो लभ्यते, व्यत्पत्तिनिमितं यजीवपदस्य जीवनं तदात्मकोपलक्षणग्रहणेन न किश्चित् प्रयोजनमित्यर्थः। निषेधे हेतुमाह-संभवतीतिजीवनलक्षणं यदात्मत्वस्योपलक्षकं-ज्ञापकं तद्भावे संभवति सति, जीवनस्यात्मत्वोपलक्षकत्वे सम्भवतीति यावत् , जीवपदार्थ. स्वरूपव्यावर्णने तत्त्यागस्य जीवनलक्षणव्युत्पत्तिनिमित्तत्यागस्य। अन्याय यात्वात् न्यायापेतत्वात् , यत्रार्थे व्युत्पत्तिनिमित्तधर्मो न घटते तत्र बाधात् तत्परित्यागस्य न्यायादनपेतत्वेऽपि जीवपदार्थे आत्मनि प्राणधारणस्वरूपजीवनस्य घटमानत्वात् तत्त्यागोऽनुचित इत्याशयः। अन्यथा व्युत्पत्तिनिमित्तस्य प्रवृत्तिनिमित्तोपलक्षकभावे सम्भवत्यपि तत्परित्यागेन प्रवृ. त्तिनिमित्तविशिष्टस्यैव पदार्थत्वाभ्युपगमे। मण्डपति-मण्डपे-गृहविशेषे मण्डपानकर्तृत्वस्य बाधात् तत्परित्यागेन गेहत्व. व्याप्यमण्डपत्वविशिष्टस्य वाचकं यन्मण्डपपदम् , यच्चाश्वस्य पशुविशेषस्य कर्णोऽश्वकर्ण इति व्युत्पत्तिनिमित्तमश्वसम्बन्धि कर्णत्वं तस्यौषधिविशेषे बाधात् तत्परित्यागेनौषधित्वव्याप्याऽभकर्णत्वविशिष्टस्य वाचकं यदश्वकर्णपदम् , तदादितुल्यत्वस्य जीवपदे प्रसङ्गादित्यर्थः । एतेनात्मा पञ्चस्वपि गतिषु वर्तमानो जीवपदार्थ इति भावितम् ॥ ११॥ ___अजीवपदार्थः क इत्यत्रोत्तरप्रतिपादक "नञि सर्वनिषेधार्थ" इति द्विचत्वारिंशत्तमपद्यं विवृणोति-नाजीतीति । 'सर्वनिषेधार्थ' इति मूलस्य विवरणम्-'जीवत्वावच्छिन्नान्योन्याभाववदर्थे' इति । नजि जोवो नेत्यजीव इति समस्तेऽजीवशब्दे अकारस्य नअस्थानीयत्वेन तेन नम्पदमुपस्थाप्यते, तस्मिन् नभदे, यदि नत्र एव जीवत्वावच्छिन्नप्रतियोगिताकमेदवानर्थस्तदा जीवपदमनर्थकं प्रसज्यत इति न शङ्कनीयम् . यतो नमोऽन्योऽन्याभाव एवार्थः अन्योऽन्याभाववति तु तस्य लक्षणव, तदैकदेशेऽन्योऽन्याभावे जीवत्वविशिष्टस्य जीवपदार्थस्य प्रतियोगितासम्बन्धनान्वये जीवत्वस्यापि स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धनान्वय इति तद्वलादेव जीवत्वावच्छिन्नप्रतियोगिताकभेदवानित्यर्थः, अथवा नमो लक्ष. णाया आवश्यकत्वे जीवत्वावाच्छिन्नप्रतियोगिताकभदवत्येव तस्य लक्षणा, उक्तार्थे नअपदस्य तात्पर्यग्राहकत्वाच्च जीवपदं सार्थकमिति । 'नमि' इत्यस्य 'संश्रिते' इत्यनेनान्वयं प्रतिसन्धाय 'विवक्षिते' इत्युक्तम् । 'पर्युदासे' इति मूलस्य विवरणम्-'सादृश्ये' इति, 'पर्युदासः सदृग्ग्राही इति वचनात् । तत्र जीवत्वावच्छिन्नप्रतियोगिताकान्योन्याभाववति । 'संश्रिते' इति मूलस्य विवरणम् -'तात्पयेविषयीकृते' इति, 'पुदलप्रभृति' इत्यस्य विवरणम्-पुद्लादिकार पूरणम् । सादृश्यार्थकस्य पर्युदासनत्रः कथमाश्रयणमित्यपेक्षायामाह-पर्युदासानाश्रयणे विति-भेदाहिनयेन द्रव्येण सह गुण-पर्याययोर्भेद इष्यते, अभेदग्राहिनयेन द्रव्येण सह गुण-पर्याययोरभेद इष्यते, इति नयदययोजनया स्या Page #277 -------------------------------------------------------------------------- ________________ २०६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । पर्युदासे- सादृश्ये च, तत्र संश्रिते- तात्पर्यविषयीकृते, पुद्गलप्रभृति- पुद्गलादिकं द्रव्यम् , 'अजीव' इति पदेन संज्ञितम्, पर्युदासानाश्रयणे तु जीवस्य गुण-पर्याययोरपि भेदनयाश्रयणेनाजीवपदप्रयोगप्रसा इति भावः ॥ ४२ ॥ नोजीव इति नोशब्देऽजीवः सर्वनिषेधके । देश-प्रदेशौ जीवस्य तस्मिन् देशनिषेधके ॥ ४३ ॥ नयामृत-नो इति । 'नोजीव' इति शब्दवाच्ये नोशब्दे सर्वनिषेधके विवक्षिते अजीव एव, देशनिषेधके तु नोशब्दे आश्रीयमाणे देशनिषेधस्य देशाभ्यनुज्ञानान्तरीयकत्वाज्जीवस्य देश-प्रदेशावेव नोजीवशब्दव्यपदेश्यावभ्युपगन्तव्यौ ।। ४३ ॥ जीवो वाऽजीवदेशो वा, प्रदेशो वाप्यजीवगः । अनयैव दिशा ज्ञेयो, नोअजीवपदादपि ॥ ४४ ॥ नयामृत-जीवो वेति । अनयैव -उक्तयैव दिशा, नोअजीवपदादपि नोशब्दस्य सर्वनिषेधकत्वे जीवो-जीवपदार्थो वा बोध्यः, तस्य देशनिषेधकत्वे चाजीवदेशो वा, अजीवगः- अजीवाश्रितः प्रदेशो वा, द्वादे द्रव्येण सह गुण-पर्याययोर्भेदाभेदलक्षणाविष्वग्भावोऽनुमतः, तत्र पर्युदासानाश्रयणे भेदनयाश्रयणेन जीवस्वावच्छिन्नप्रतियोगिताकभेदवान् जीवस्य गुणः पर्यायश्चेति तयोरप्य जीवपदप्रयोगप्रसङ्गः, सादृश्यार्थकायुदासाश्रयणे तु जीवद्रव्येण समं पुद्गलादिद्रव्यस्यैव द्रव्यत्वेन सादृश्यमिति जीवसदृशो जीवत्वावच्छिन्न प्रतियोगिताकमेदवान् अजीवपदार्थो न जीवस्य गुणः पर्यायो वेति न तत्र जीवपदप्रयोगप्रसङ्ग इत्यर्थः ॥ ४२ ॥ नोजीवपदार्थः क इत्यत्रोत्तरप्रतिपादक "नोजीव इति नोशो" इति त्रिचत्वारिंशतमपद्यं विवयोति-नो इतीति । 'नोजीव इति शब्दवाच्ये' इत्यस्य स्थाने 'नो जीव इति शब्दवाच्यो' इति पाठो युक्तः, तस्य 'अजीव एव' इत्यनेनान्वयः। 'सर्वनिषेधके' इत्यस्य 'जीवत्वावच्छिन्नप्रतियोगिताकभेदवदर्थ के' इत्यर्थः, अत्र पर्युदासाश्रयणं न कृतम्, अजीव एवेति सामान्येनोक्तम्, तेन जीवस्य गुण-पर्याययोरपि नोजीवपदप्रयोगो भेदनयाश्रयणेनेष्ट इति ज्ञायते, यदि च जीवस्य गुण पर्याययोनों जीवशब्दप्रयोगो नेष्टस्तदा पूर्ववत् सादृश्याश्रयणं कर्तव्यमिति । 'विवक्षिते' इति 'आश्रीयमाणे' इति च पूरितम् । तस्मिन्' इत्यत्र तच्छन्देन नोशब्दग्रहणमवलम्ब्य 'तस्मिन् ' इत्यस्यार्थकमनम्-नोशब्द इति । देशनिषेधके नोशब्दे आश्रीयमाणे नोजीव इत्यनेन जीवदेशनिषेध एव प्रतीयेत जीवदेश-प्रदेशी कथं नोजीवशन्दव्यपदेश्यावित्यपेक्षायामाह-देशनिषेधस्येति । 'नान्तरीयकत्वाद' इत्यस्य व्याप्यत्वादित्यर्थः ।।४३ ॥ नोजीवपदार्थः क इत्यत्रोत्तरप्रतिपादकं चतुश्चत्वारिंशत्तमं "जीवो वा” इति पद्यं विवृणोति-जीवो वेतीति । नोअजीवपदादुक्तदिशा जीवपदार्थो यथा ज्ञायते तथोपदर्शयति-नोशब्दस्येति - नोअजीवशब्दघटकस्य नोशन्दस्य, सर्वनिषेधकत्वे-अजीवत्वावच्छिन्न प्रतियोगिताकान्योन्याभाववदर्थकत्वे, जीवपदार्थो नो अजीवशब्दव्यपदेश्यः, यतोऽजीवशब्दप्रतिपायो जीवत्वावच्छिन्नप्रतियोगिताकभेदवान् , तत्सर्वनिषेधो निरुक्तान्योन्याभाववत्त्वावच्छिन्नप्रतियोगिताकभेदवान् ; स च जीव एव, यावन्तोऽजीवास्तवेदस्य जीवादन्यत्राभावादित्यर्थः । अजीवदेशो यथा नोअजीवशब्दव्यपदेश्यस्तथोपदर्शयति--तस्य देशनिषेधकत्वे चेति- नो जीवशब्दघटकस्य नोशब्दस्य, देशनिषेधकत्वे- देशनिषेधार्थकत्वे एकदेशनिषेधस्यापरदेशाभ्यनुज्ञाना न्तरीयकत्वादजीवदेशो नो अजीवपदाज्ज्ञेयः, वा- अथवा अजीवदेशो निषिध्यते तेनाजीवदेशनिषेधैनाजीवप्रदेशोऽनुमन्यत इति अजीवप्रदेशो नोअजीवपदाज्ज्ञेयः । 'अजीवगः' इत्यस्य विवरणम् - 'अजीवाश्रितः' इति । उक्कमर्थमभिप्रायस्फो. रणेन स्पष्टयति- "अ मा नो ना प्रतिषेधे” इत्यनुशासनतौल्येऽपीति- प्रतिषेधे इत्यत्र सप्तम्यर्थो वाचकत्वम्, तथा च अशब्दो माशब्दो नोशब्दो नाशब्दश्च प्रतिषेधवाचक इति निरुकानुशासनार्थः, तथा च निरूकानुशासनं Page #278 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो नयोपदेशः । २०७ ' मा नो ना प्रतिषेधे' इत्यनुशासनतोश्येऽपि संसर्गाभावोऽन्योन्याभाव नमोऽर्थः, नोशब्दस्य त्वभाव एकदेशो वा, तत्र चान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वं तदेकदेशत्वादि व्युत्पत्तिबललभ्यमिति सिद्धान्तपरिभाषेति निगर्वः ॥ ४४ ॥ उकं मतं कियतां नयनामित्याह नैगमो देशसङ्ग्राही, व्यवहारर्जुसूत्रको।। शब्दः समभिरूढ-श्चेत्येवमेते प्रचक्षते ॥ ४५ ॥ नयामृत-नैगम इति । नैगमो- नैगमनयः, देशसङ्ग्राही- अवान्तरसङ्ग्रहः, सर्वसङ्ग्रहस्य सन्मात्रार्थत्वात् तत्त्यागः, व्यवहारर्जुसूत्रको- व्यवहारनय ऋजुसूत्रनयश्च, शब्दः समभिरूढश्चेत्येते नया एवं पचक्षते ॥ ४५॥ भावमौदयिकं गृह्णन् , एवम्भूतो भवस्थितम् । जीवं प्रवक्त्यजीवं तु, सिद्धं वा पुद्गलादिकम् ॥ ४६॥ नयामृत-भावमिति। एवम्भूतनयस्तु औदयिक भावं व्युत्पत्तिनिमित्तमेष प्रवृत्तिनिमित्ततया गृहन् , भवस्थितं-संसारिणं जीवम् , प्रवक्ति- जीवशब्देन व्यपदिशति, अजीवम्- अजीवपदार्थ तु सिद्धं वा पुद्गलादि द्रव्यं वेच्छत्यसौ ॥ ४६ ।। चतुर्णामपि अमानोनाशब्दानामविशेषेण सामान्यतः प्रतिषेधार्थकत्वमनुशास्तीत्येवं निरुक्तानुशासनस्याविशिष्टत्वेऽपीत्यर्थः । नञोऽर्थः अजीवशन्दसन्निविष्टन कारस्थानीयाकारस्यार्थः । 'नोशब्दस्य' अजीवशब्दाव्यवहितपूर्ववर्तिनो नोशब्दस्य । तत्र च नोशब्दार्षे अभावे एकदेशे च। अन्वयितेति- यदा अभावो नोशब्दार्थस्तदा अन्वयितावच्छेदकं यजीवत्वावच्छिन्नप्रतियोगिताकभेदरूपमजीवत्वं तदवच्छिन्न प्रतियोगिताकत्वमभावे व्युत्पत्तिविशेषबललभ्यम् , यदा तु नोशब्दस्यकदेशोऽर्थस्तदाऽन्वयितावच्छेदकं यनिरुतमजीवत्वं तदवच्छिन्नैकदेशत्वं तदवच्छिन्न प्रदेशत्वं वा व्युत्पत्तिविशेषबललभ्यमिति जैनसिद्धान्तसंकेत इति तदमिज्ञस्य नोअजीवपदव्यपदेश्य उक्तदिशा जीवो वा अजीवदेशो वा अजीवप्रदेशो वा सम्भवतीति भावार्थ इत्यर्थः ॥ १४ ॥ पञ्चचत्वारिंशत्तमपद्यमवतारयति -उक्त मतमिति- 'जीवः' इत्याकारिते पञ्चस्वपि गतिषु औदयिकादिभावपञ्चकलक्षितो जीवो जीवपदव्यपदेश्यः प्रतीयते, अजीवपदाच्च पुद्गलप्रभृत्यजीवद्रव्यं प्रतीयते, नोजीवपदादजीवो जीवदेशो जीवप्रदेशो वा प्रतीयते, नोअजीवपदाच जीवो अजीवदेशोऽजीवप्रदेशो वा प्रतीयत इत्येवमुपदर्शितमतं कियतां नयानामित्याकालानिवृत्तये वकीत्यर्थः । “ मैगमो देशममाही" इति पश्चचत्वारिंशत्तमपद्यं विवृणोति- नेगम इतीति । अवान्तरसङ्गहः महासामान्यसत्ताध्याप्यद्रव्यत्वादिरूपेण सकलद्रव्यादीनामैक्याभ्युपगन्ताऽपरसङ्ग्रहः । सदेवैकमिति महासामान्यसत्तारूपेण सर्ववस्तूनामैक्ययमेवैत्यभ्युपगन्तृपरसङ्घहस्तु सन्मात्रग्राहित्वात् प्रत्येक जीवाजीवादि वस्तु तदर्थकजीवाऽजीवादिशब्दं च नाङ्गीकरोती त्यतस्तत्परित्याग इत्याह-सर्वसङ्ग्रहस्येति । तत्यागः सर्वसमहत्यागः । अन्यत् स्पष्टम् ॥ ४५ ॥ ___एवम्भूतनयवक्तव्यप्रतिपादकं षट्चत्वारिंशत्तमं "भावमौदयिकं गृहन्" इति पद्यं विवृणोति-भावमितीति । असी एवम्भूतनयः । अन्यत् सुगमम् ॥ ४६ ॥ Page #279 -------------------------------------------------------------------------- ________________ २०८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । नोअजीवश्च नोजीवो, न जीवा-ऽजीवयोः पृथक् । देश-प्रदेशौ नास्येष्टा-विति विस्तृतमाकरे ॥४७॥ नयामृत-नो इति। नोअजीवो नोजीवश्चैतन्नये जीवा-ऽजीवयोर्वक्तव्ययोः सतोः, पृथक् नपार्थक्यं नापद्यते, यतोऽस्य नयस्य देश-प्रदेशौ नेष्टाविति, नोशब्दः सर्वनिषेधार्थ एव घटते, इत्येतदाकरेअनुयोगद्वारादौ विस्तृतम् ॥ ४ ॥ इत्थं स्वसमयसिद्धामेवम्भूतनयार्थप्रक्रियामुपपाद्य तया दिगम्बरोक्तप्रक्रियां दूषयति - सिद्धो निश्चयतो जीव इत्युक्तं यद् दिगम्बरैः । निराकृतं तदेतेन यन्नयेऽन्त्येऽन्यथा प्रथा॥ ४८ ॥ नयामृत-सिद्ध इति । एतेन-पूर्वोक्तेन, सिद्धो निश्चयतो जीव इति यद् दिगम्बरैरुक्तम्"तिकाले चदु पाणा इंदियचलमाउ आणपागो य । ववहारा सो जीवो णिच्छयदो दु चेदणा जस्स ॥" [ द्रव्यसंग्रहे गाथा-३] इत्यादिना तन्निराकृतम्, यत्-यस्मात्, अन्त्ये-एवम्भूतनये, अन्यथा प्रथा - सिद्धोऽजीव इत्येव प्रसिद्धिः, शुद्धनिश्चयश्च स एव, इति कथं निश्चयतः सिद्धो जीव इति वक्तुं शक्यमिति ॥ १८ ॥ ___ नन्वेवम्भूतः पर्यायार्थिकेष्वेव शुद्धनिश्चयस्तेनास्मदुक्तानुपपत्तावपि दव्यार्थिकप्रभेदेन सर्वसङ्ग्रह नयेन शुद्धनिश्चयेन तुदुपपादयिष्याम इत्याकाङ्क्षायामाह आत्मत्वमेव जीवत्वमित्ययं सर्वसङ्ग्रहः। जीवत्वे प्रतिभूः सिद्धसाधारण्यं निरस्य न ॥ ४९ ॥ जीवशब्दव्यपदेश्य एव नोअजीवशब्दव्यपदेश्यः अजीवशब्दव्यपदेश्य एवं नोजीवशब्दव्यपदेश्य इति 'नोअजीवः' 'नोजीवः' इति द्वौ प्रकारौ नैवम्भूतनयसम्मतावित्युपदर्शकं सप्तचत्वारिंशत्तमं "नोअजीवश्व" इति पद्यं विवृणोतिनो इतीति। एतन्नये एवम्भूतनये । अस्य नयस्य एवम्भूतनयस्य । नोशब्दः 'नोअजीवः' इत्यत्र 'नोजीवः' इत्यत्र च नोशब्दः । अन्यत् स्पष्टम् ॥ ४७ ॥ ___ अष्टचत्वारिंशत्तमपद्यमवतारयति-इत्थमिति । स्ससमयसिद्धां जैन श्वेताम्बरराद्धान्तप्रसिद्धाम् । “सिद्धो निश्चः यतः" इत्यष्टचत्वारिंशत्तमपद्यं विवृणोति-सिद इतीति । एतेन' इत्यस्य विवरणम् - पूर्वोकेनेति- अस्य 'निरा. कृतम्' इत्यनेनान्वयः। 'निश्चयनयतः सिद्धो जीवः' इत्यस्य प्रतिपादकं दिगम्बरवचनमुल्लिखति-तिक्काले चेति"त्रिकाले चत्वारः प्राणा इन्द्रियबलमायुरानप्राणश्च । व्यवहारतः स जीवो निश्चयतो द्वे चेतने यस्य" ॥ इति संस्कृतम् । इत्यादिना इत्यादिग्रन्थेन, यद् दिगम्बरैरुकं तदेतेन निराकृतमिति सम्बन्धः । तत् दिगम्बरोक्कमनन्तरमुपदर्शितम् । निराकरणे हेतु:- यदिति- यस्मादिति तदर्थः। 'अन्त्ये' इति स्थाने 'अन्त्ये नये' इति पाठो युक्तः, तस्य विव रणम् - एवम्भूननये इति । 'अन्यथा प्रथा' इति मूलस्य विवरणम् - सिद्धोऽजीव इत्येव प्रसिद्धिरिति । ननु निश्चयतः सिद्धो जीव इति दिगम्बरमतम् , तस्यैवम्भूननये अन्यथाप्रथायामपि कथं निरसनमित्यत आह-शुद्धनिश्चयश्च स एवेति- एवम्भूतनय एव शुद्धनिश्चयनयोऽतस्तत्रान्यथाप्रथाऽपहस्तयत्येवोक्कदिगम्बरोक्तमित्यर्थः । इति एतस्मात् कारगात् । कथमिति-न कथमपि निश्चयत: सिद्धो जीव इति धक्तुं शक्यमित्यर्थः । ४८॥ Page #280 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । नयामृत ० - आत्मत्वमिति । आत्मत्वमेव जीवपदप्रवृत्तिनिमित्तम्, पारिणामिकभावस्य कालत्रयानुगत्वेन सत्यत्वात्, औदयिकभावस्य चौपाधिकत्वेन कालत्रयाननुगतत्वेन च तुच्छत्वात्, इति अयं सर्वसङ्ग्रहनयः सिद्धसाधारण्यं भवस्थतौल्यं निरस्य जीवत्वसाघमे न प्रतिभूः, सर्वत्र तुल्यजीवत्वात् एवम् 'एको व्यवहारतो जीवोऽन्यश्च निश्चय [तः] ' इति विभागकरणमसमीक्षिताभिधानमेवापद्येत, सर्वसङ्ग्रह एव हि कर्मोपाधिनिरपेक्षशुद्धद्रव्यार्थिकः, तेन च संसारिचैतन्यमपि निरुपरागं शुद्धमिति परेणेष्यत एव तदुक्तं द्रव्यसङ्ग्रहे " मग्गण-गुणठाणे हि य चउदस य हवंति तह असुद्धगया । विष्णेया संसारी सब्वे सुद्धा उ सुद्धणया ॥ १३ ॥” इति न च संसारिचैतन्यस्य सङ्ग्रहनयेन शक्त्या शुद्धचैतन्यनिश्चयेऽपि व्यक्त्या शुद्धचैतन्यस्य सिद्ध. एव निश्चयान्न साधारण्यमिति शङ्कनीयम्, सङ्ग्रहस्य शक्तिग्राहकत्वेन व्यक्तिमाहकताया व्यवहार एव विश्रान्तेः, निश्चयतो द्विचेतनाशाली सिद्ध एव जीव इत्यस्य व्याघातात् ॥ ४९ ॥ २०९ एकोनपञ्चाशत्तमपद्यमवतारयति नन्विति । तेन पर्यायार्थिकनयेषु शुद्धनिश्चयात्मकेनैवम्भूतनयेन । अस्मदुक्तानुपपतावपि सिद्धो निश्चयतो जीवः' इति दिगम्बरोक्तस्यानुपपत्तावपि । तदुपपादयिष्यामः ' सिद्धो निश्चयतो जीवः' इति दिगम्बरोक्तमुपपादयिष्यामः, द्रव्यार्थिकेषु शुद्ध निश्चयात्मकेन सङ्ग्रहेण सिद्धो जीव इत्युपपद्यत एवेत्यर्थः । " आत्मत्वमेव " इत्ये कोनपञ्चाशत्तमपद्यं विवृणोति - आत्मत्वमितीति । 'जीवत्वम्' इति मूलस्य 'जीवपदप्रवृत्तिनिमित्तम्' इति विवरणम् । कथमात्मत्वमेव जीवपदप्रवृत्तिनिमित्तं न तु प्राणधारणलक्षणं जीवनं यज्जीवपदव्युत्पत्तिनिमित्तमित्यपेक्षायामाह - पारिणामिकभावस्येति - आत्मश्वं जीवस्य पारिणामिको भावस्तस्य कालत्रयेऽप्यात्मनि सत्वेन सत्यत्वात् प्रागधारणलक्षणं जीवनं च जीवस्यौदयिको भावस्तस्यायुष्कर्म लक्षणोपाधिप्रभवस्योपाधिकत्वेन यदेवायुकर्मात्मनि सम्बद्धं तदैव तस्यात्मनि सत्त्वमिति कालत्रयाननुगतत्वेन तुच्छत्वादित्यस्मात् कारणादात्मत्वमेव सत्यतया जीवपदप्रवृत्तिनिमित्तं तुच्छत्वाच्च न जीवनं जीवपद प्रवृत्तिनिमित्तमित्यभ्युपगन्ता सर्वसङ्ग्रहनयः सिद्धसाधारण्यं निरस्य जीवत्वे न प्रतिभूः । 'सिद्धसाधारण्यम्' इत्यस्य विवरणम् - भवस्थतौल्यमिति । 'जीवत्वे' इत्यस्य विवरणम्- 'जीवत्वसाधने' इति । प्रतिभूरित्यस्य साक्षीत्यर्थः । कथं न प्रतिभूरित्यपेक्षायामाह - सर्वत्रेति जीवपदप्रवृत्तिनिमित्तमात्मत्वं यथा सिद्धे वर्तते तथा भावस्थेऽपि तेन सिद्धे जीवत्वसाधने भवस्थेऽपि जीवत्वं सिद्धयत्येव, तथा च सिद्ध एव निश्चयतो जीव इति न स्यात्, आत्मत्वं यदि सिद्धं एव वर्तेत न तु भवस्थे तदा स्यात् तेन सिद्धमात्रवर्तिना सिद्धस्यैव जोवत्वसाधनं सर्वसम्प्रहतः, न चैवमित्यर्थः । आत्मस्वस्य जीवपदप्रवृत्तिनिमित्ततया सर्वसङ्ग्रहनयाभिमतस्य सिद्धे संसारिणि च सत्त्वेन ततो जीवपदव्यपदेश्यत्वमात्ममात्र एवेति निश्चयत एव सर्वे आत्मानो जीवा इति व्यवहारनिश्चयाभ्यां जीवविभागकरणनपि दिगम्बरस्यासमीक्षिताभिधानमेव स्यादित्याह - एवमिति । निश्चयनये यदि संसारिणां जीवपदव्यपदेश्यत्वं नोपपद्येत तदा व्यवहारतस्तेषां जीवपदव्यपदेश्यत्वोपपत्तये विभागकरणमुपपद्येत, न चैवम् दिगम्बराभिमतेन सर्वसङ्ग्रहलक्षणनिश्चयनयेनैव सर्वेषां जीवपदव्यपदेश्य त्वोपपत्तेरित्याह- सर्वसङ्ग्रह एव हीति । तेन च सर्वसङ्ग्रहेण च । निरुपरागं कर्मोपाधिरूपोपरागमुक्तम्, यद्यपि संसारी कर्म - मलदिग्व एव व्यवहारतः, तथापि शुद्धद्रव्यग्राहिसर्वसप्रहृतः सोऽपि वस्तुगत्या कर्मनलविमुक्त एवेत्याशयः । उक्तार्थे द्रव्यसङ्ग्रहवचनसंवादमाद्-तदुकमिति । मग्गण० इति - " मार्गणा-गुणस्थानैश्च चतुर्दशभिश्च भवन्ति तथा अशुद्धन यात् । विज्ञेयाः संसारिणः सर्वे शुद्धास्तु शुद्धनयात्" ।। इति संस्कृतम् । 'न च' इत्यस्य 'शङ्कनीयम्' इत्यनेनान्वयः, संसारिचैतन्यमपि संसारदशायां कर्मावृततयोपलभ्यत इति व्यक्तयाऽशुद्धं कर्ममलापगमे शुद्धं तद्भविष्यतीति शक्त्या सङ्ग्रहस्वरूपनिश्चयनयेन शुद्धचैतन्यत्वं निश्चीयते, सिद्धे तु व्यक्तया शुद्धचैतन्यस्य निश्चयाद् व्यक्तया शुद्धचैतन्यरूपत्वस्यात्मत्वस्य जीवपद प्रवृत्तिनिमित्तस्य न सिद्धसंसारिसाधारण्यमिति शङ्कितुर्दिगम्बरानुयायिनोऽभिसन्धिः । निषेध हेतुमुपदर्शयति-संग्रहस्येतिशक्तिरूपेण शुद्धं चैतन्यं सर्वदाऽवतिष्ठत इति शक्तिर्दव्यम्, व्यक्तिस्तु न त्रिकालानुगामिनीति पर्यायरूपाऽशुद्धद्रव्यरूपा वा २७ Page #281 -------------------------------------------------------------------------- ________________ २१० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । नन्वेवं निश्चयतः सिद्धस्याजीवत्वे भवद्भिरिष्यमाणे भवतामेव प्रन्थे संसारिसिद्धसाधारणजीयपदार्थाभिधानं कथम् ? इत्याशङ्कायामाह । यजीवत्वं क्वचिद् द्रव्य-भावप्राणान्वयात् स्मृतम् । विचित्रनगमाकूतात् तज्ज्ञेयं न तु निश्चयात् ॥ ५० ॥ नयामृत-यदिति । यज्जीवत्वं क्वचिद् प्रन्थे, द्रव्यभावप्राणानाम् अन्वयात्-एकीकरणात् स्मृतं संसारि-सिद्धसाधारण्यमिति शेषः, तद् विचित्र:-विविधावस्थो यो नैगमः, तस्याकूतात्-अभिप्रायात् ज्ञेयम्, न तु निश्चयादेवम्भूतनयात्, तथा चैवम्भूतनयेनैव सिद्धमजीवं वयं प्रतिजानीमहे, न तु नयान्तराभिमते न जीवत्वेऽपि विप्रतिपद्यामहे, इति शुद्धा-ऽशुद्धेन नैगमनयेन साधारण जीवत्वाभ्युपगमेऽपि न क्षतिः, इयाँस्तु विशेष:- प्रसिद्धनैगम औदायिकभावोपलक्षितमात्मत्वाख्यं पारिणामिकभावमेव जीवपदप्रवृत्तिनिमित्तमभ्युपैति, तत्तद्विशेषश्च कश्चिदुपचारोपजीवी द्रव्य-भावप्राणान्यतरवत्त्वेनानुगतमौदयिकक्षायिकभावद्वयमिति, नेदं सिद्धान्तार्णवे नयविकल्पकल्लोलवैचिश्यं तत्संप्लवव्यसनिनां विक्षोभावहम् ॥५०॥ सेति सङ्ग्रहस्य शक्तिग्राहकत्वमेव न व्यक्तिमाहकत्वम्, व्यक्तिप्राहकत्वं तु व्यवहारस्यैव, तथा च व्यक्तथा शुद्धचैतन्य यदि सिद्धे जीवपदप्रवृत्तिनिमित्तं तदा व्यवहारत ए सिद्धो जीवो न निश्चयत इत्यनभिमतमेव दिगम्बरस्यासज्यत इत्युत्तराभिसन्धिः। एवं ज्ञानदर्शनयोर्योगपद्याभावन सिद्धेऽपि यदा ज्ञानमभिव्यज्यते तदा न दर्शनमभिव्यज्यते, यदा दर्शनमभिव्यज्यते तदा न ज्ञानमभिव्यज्यत इति व्यक्तया द्विचेतनाशालित्वं न सिद्धेऽपीति सिद्धोऽपि न निश्चयतो जीवः स्यादिति सिद्धस्य द्विवेतनाशालिवेन जीवत्वं निश्चयनयत इत्यपि दिगम्बरस्य व्याहतमेवेत्याह-निश्चयत इति ॥ ४९ ।। पञ्चाशत्तमपद्यमवतारयति-नन्वेवमिति । एवम् अनन्तरोपदर्शितदिशा । भवद्भिः श्वेताम्बरैः। भवतामेव श्वेताम्बराणामेव । “यजीवत्वं" इति पञ्चाशत्तमपद्यं विवृणोति-यदितीति । एकीकरणात् प्राणधारित्वं जोवत्वमिति लक्षणे द्रव्यप्राण-भावाणसाधारणप्राणत्वेन रूपेणानुगमय्य द्रव्यप्राणभावप्राणयोरुपादानात् । 'संसारि-सिद्धसाधारण्यम्' इत्यस्य स्थाने 'संसारि-सिद्धसाधारणम्' इति पाटो युक्तः, तथा सत्येव तस्य 'जीवत्वम् ' इत्यनेनाभेदेनान्वयो घटते। तथा च सिद्ध-संसारिसाधारणजीवत्वाभिधानस्य विचित्रनगमाकूतप्रयुक्तत्वव्यवस्थितौ च । वयं श्वेताम्बराः । 'नयान्तराभिमतेन' इत्यस्य स्थाने 'नयान्तराभिमते' इति पाठः सम्यग्, तथा च नयान्तराभिमते नैगमनयाभिमते, जीवत्वेऽपि सिद्ध-संसारिसाधारणजीवत्वेऽपि, न तु नैव, विप्रतिपद्यामहे विवादमातिष्ठामहे इत्यर्थः । इति एतस्मात् कारणात् । शुद्धाशुद्धेन नैगमनयः परसङ्ग्रहसमानाभिप्रायः शुद्धद्रव्यं विषयीकरोतीति शुद्धः, अशुद्धव्यग्राहिव्यवहारसमानाभिप्रायस्त्वशुद्धमपि द्रव्यं विषयीकरोतीत्यशुद्ध इति कृत्वा शुद्धाशुद्धेन । साधारणेति- सिद्ध जीवसाधारणेत्यर्थः । न क्षतिः न क्वचिदस्मदभियुक्तनिर्मितग्रन्थे सिद्ध-संसारिसाधारणजीवत्वप्रतिपादके सत्यपि श्वेताम्बराणामस्माकमेवम्भूत. नयसिद्धस्याजीवत्वं स्वीकुर्वतां हानिः। नैगमनयवैचित्र्यं तदवान्तराभिप्रायवैचित्र्योपदर्शनेन समर्थयति-इयाँस्त्विति । औदयिकभावोपलक्षितं जीवपदव्युत्तत्तिनिमित्तजीवनलक्षणोदयिकभावोपलक्षितम् । 'तत्तद्विशेषश्च' इति स्थाने 'तद्विशेषश्च' इति पाठः सम्यग् , नैगमविशेषश्चेति तदर्थः । 'भावद्वयम्' इत्यस्यानन्तरं 'जीवपदप्रवृत्तिनिमित्तमभ्युपैति' इत्यनुषज्यते । 'नेदम्' इत्यत्र नो 'विक्षोभावहम् ' इत्यनेनान्वयः । इदम् अनन्तरमेवोपवर्णितं नयामिप्राय. बैचित्र्यम् । अस्यैव शिष्यबुद्धिवेशद्यायोपवर्णनम्-सिद्धान्तार्णवे नयविकल्पकल्लोलवैविध्यमिति-सिद्धान्त एव-जैनागम एव. अर्णवः- समुद्रः, तत्र नयस्य- वस्त्वंशग्राह्यभिप्रायस्य, यो विकल्प:- नैगमादिप्रकारः, स एव कल्लोल:- तरङ्गः, तस्य वैचित्र्यं - नानाप्रभेदस्तदेतत् , तत्संप्लवव्यसनिनां तस्मिन्- निरुक्तसिद्धान्तसमुदे, संप्लवः-मुहुर्मुहुस्तदन्तर्निविष्टतत्त्वज्ञान Page #282 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः । २११ ननु “जीव प्राणधारणे" इत्यत्र भावप्राणधारणमेव धात्वर्थ विवक्षितत्वा( विवक्षित्वा ) निश्चयतः सिद्धस्य जीवत्वं समर्थयिध्याम इत्याकाङ्खायामाह धात्वर्थे भावनिक्षेपात्, परोक्तं न च युक्तिमत् । प्रसिद्धार्थोपरोधेन, यनयान्तरमार्गणा ॥ ५१ ॥ नयामृत०-धात्वर्थे इति । धात्वर्थे- जीवत्यर्थे, भावनिक्षेपात्- भावसङ्केतग्रहात्, परोक्तं' निश्चयतः सिद्ध एव जीवः' इति दिगम्बरोक्तम्, न च-नैव युक्तिमत्, यत्- यस्मात्, प्रसिद्धःअनादिधातुपाठादिप्रतीयमानो योऽर्थः, तदनुरोधेन नयान्तरस्य मार्गणा-विचारणा भवति, तथा च यादृशधात्वर्थमुपलक्षणीकृत्येतरनयार्थप्रतिसन्धानं तादृशधात्वर्थप्रकारकजिज्ञासयैवम्भूताभिधानस्य साम्प्र. दायिकत्वात् , न तत्र भावनिक्षेपाश्रयणमित्यर्थः, अन्यथा तत्रापि निक्षेपान्तराश्रयणेऽनवस्थानात् , प्रकृतमात्रापर्यवसानादन्ततो ज्ञानाद्वैते शून्यतायां वा पर्यवसानात्, किश्व, ताडगुपरितनैवम्भूतस्य प्राक्त. रत्नावाप्तये तत्तात्पर्यावधारणलक्षमवगाहनम् , तदेव व्यसनं तच्छालिनां प्रमातृणाम् , नयविकल्पकल्लोलवैचित्र्यं प्रमोदावहमेव, न विक्षोभावहं न चित्तवैकल्यावहमित्यर्थः॥५०॥ एकपञ्चाशत्तमपद्यमवतारयति-नन्विति। “जीव प्राणधारणे" इत्यत्र निश्चयनयेन प्राणशब्दो भावप्राणपर एव, भावप्राणाश्च ज्ञान दर्शनलक्षणचैतन्यद्वयमेव, तद्वत्त्वात् सिद्धस्यैव जीवत्वं वयं दिगम्बरा समर्थयिष्याम इत्याकाङ्क्षायामेक पञ्चाशत्तमपथं तदुत्तरप्रदर्शकमाहेत्यर्थः। विवृणोति-धात्वर्थे इतीति । यादृशेति - प्रकृते जीवधात्वर्थ जीवनलक्षणद्रव्यप्राणधारणमुपलक्षणीकृत्य नैगमनयामिमतात्मत्वविशिष्टरूपजीवशब्दार्थप्रतिसन्धानं-जीवनलक्षणद्रव्यप्राणधारणरूपव्युत्पत्तिनिमितोपलक्षितात्मत्वरूपपारिणामिकभावविशिष्टे जीवशब्दसङ्केतग्रहणात्मकं समस्तीति निरुक्कजीवनरूपजीवधात्वर्थप्रकारकजिज्ञासयैवम्भूतनयाभिधानस्य-' एवम्भूतनयेन निरुक्कजीवनरूपधात्वर्थविशिष्टो जीवपदव्यपदेश्यः' इत्यभिधानस्य साम्प्रदायिकत्वात् जैनागमरहस्यवेत्तप्राचीनसम्मतत्वान्न तत्र जीवत्यर्थे प्राणधारणे भावनिक्षेपस्य-प्राणशब्दो भावप्राणसङ्केतितः' इत्यस्याश्रयणमिति 'प्रसिद्धार्थोपरोधेन यनयान्तरमार्गणा' इत्यस्याभिप्रेत्योऽर्थ इत्यर्थः । अन्यथा प्रसिद्धार्थानुपरोधेन नयान्तरविचारणया धात्वर्थे भावनिक्षेपाश्रयणे। तत्रापि भावनिक्षेपाश्रयणतो लब्धे चैतन्यदयरूपभावप्राणधारणरूपजीवधात्वर्थेऽपि । निक्षेपान्तराश्रयणे साकार-निराकारोपयोगात्मकचैतन्यद्वयमपि न वस्तुतो भावप्राणस्वरूपं साकारत्व. निराकारत्व-द्वित्वादीनां तत्र कल्पितत्वात् , किन्तु चैतन्यमानं भावप्राणसङ्केतितमित्येवं निक्षेपान्तराश्रयणे सति । भनवस्थानात् तत्रापि निक्षेपान्तराश्रयणतो विश्रान्त्यसम्भवात् । एवं च प्रकृतमात्रापर्यवसानात नात् द्विचेतनाशालित्वानिश्चयतः सिदो जीव इति प्रकृतस्यात्र प्रक्रान्तस्यान्यनान्यस्य प्रक्रान्तस्येत्येवं प्रकृतमात्रस्यापर्यवसानाद् धात्वर्यस्वपर्यवसानासम्भवात्, तथा च सति सत्यत्वाऽऽनन्दस्वादिकमपि तत्र न स्यादित्यतो शानाद्वैते ज्ञानाद्वैतमपि विषयान्तराभावे निर्विषयं न सम्भवतीति शून्यतायां वा निश्चयनयतो जीवपदव्यपदेश्यत्वस्य पर्यवसानाद् व्यवस्थिते: शून्यत्वमेव तत्त्वं जीवव्यपदेश्यं स्यादित्यर्थः । अपि चैवम्भूतात्मकनिश्चयनयो द्विविधो व्यवहारानुरोधी निश्चयानुरोधी च, तत्र व्यवहाराद्यभिमतधातुव्युत्पत्ति-समाश्रित्य तादृशव्युत्पत्तिनिमित्तमेव शन्दप्रवृत्तिनिमित्तमुपजीवन् धातुव्युत्पत्तिनिमित्तावच्छिन्नार्थे सतग्राही निश्चयः प्रथमः, व्यवहारनयाभिमतपदार्थाभिधानानन्तरं व्यवहारनयोपजीविनोऽस्यैव निश्चयनयस्याभिमतपदार्थाभिधानमुचितं तदनन्तरं चोक्कनिश्चयाभिमतधातुव्युत्पत्तिनिमित्ते भावकनिम्नं विशेषमादृत्य तादृशविशेषात्मकधातुव्युत्पत्तिनिमित्तावच्छिन्नपदार्थसङ्केतमाही यो निश्चयोपजीवी द्वितीयो निश्चयस्तदभिमतपदार्थाभिधानमुचितमित्ययं पदार्थाभिधानक्रमः, तस्य व्यवहारनयाभिमतजीवपदार्थाभिधानानन्तरं निश्चयोपजीविनिश्चयात्मकद्वितीयनिश्चयाभिमतजीवपदार्थाभिधानं कुर्वता दिगम्बरेणातिक्रमः कृत इति सम्प्रदायाभिमतक्रमोल्लजि दिगम्बरमतं न युक्तमित्याह-किञ्चति । पतागुपरितनैवम्भूतस्य धात्वर्थे भावनिक्षेपाजीवपदार्थ चैतन्यद्वयस्वरूपभावप्राणधारणलक्षणजीवनमुररीकुर्वत एवम्भूत Page #283 -------------------------------------------------------------------------- ________________ २१२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलङ्कृतो नयोपदेशः । नैवम्भूताभिधानपूर्वमेवाभिधानं युक्तम्, अन्यथाऽप्राप्तकालत्वप्रसङ्गात्, तस्मात् व्यवहाराद्यभिमत. व्युत्पत्त्यनुरोधेनौदयिकभावमात्रमाहकत्वमेवास्य सूरिभिरुक्तं युक्तमिति स्मर्त्तव्यम् । न चेन्द्रियरूपप्राणानां क्षायोपशमिकत्वात् कथमेवम्भूतस्यौदयिकभावमात्रप्राहकत्वमित्यप्याशकनीयम् , प्राधान्येनायुःकर्मोदय. लक्षणस्यैव जीवनार्थस्य ग्रहात् , उपहतेन्द्रियेऽप्यायुरुदयेनैव जीवनिश्चयादिति दिक् ॥ ५१ ॥ शङ्काशेषमुपन्यस्य परिहरति शैलेश्यन्त्यक्षणे धम्मों, यथा सिद्धस्तथाऽसुमान् । वाच्यं नेत्यपि यत् तत्र, फले चिन्तेह धातुगा ॥ ५२ ॥ नयामृत-शैलेश्यन्त्यलक्षण इति । शैलेश्या-अयोगिगुणस्थानस्य, अन्त्यक्षणे-चरमक्षणे, यथा निश्चयतो धर्मः, तदर्वातनकालभावी तु व्यवहारत एव, तदुक्तं धर्मसङ्ग्रहण्यां हरिभद्राचार्यैः"सो उभयक्खयहेऊ सेलेसीचरमसमयभावी जो। सेसो पुण णिच्छयओ तस्सेव पसाहगो नेओ ॥२६॥" ___ तथाऽसुमान- जीवोऽपि निश्चयतः सिद्ध एव भविष्यतीत्यपि न वाच्यम् , यतस्तत्र- ' सो उभयक्खयहेऊ' इति गाथायाम् , धारयति सिद्धिगतावात्मानमिति धर्म इति फले-फलरूपे धात्वर्थे चिन्ता, सा च कुर्वपत्वेन कारणत्वं वदत एवम्भूतनयस्य मते शैलेश्यन्त्यक्षण एव धर्मपदार्थसिद्धिसाक्षिणी, सदनन्तरं सिद्धिसाधारणरूपा सा फलाऽव्यवधानात् , इह तु धातुगा- धात्वर्थावच्छिन्नस्वरूपविषयिणी स्वरूपनिश्चयनयस्य। प्राकनेति-आयुरादिदव्यप्राणधारणलक्षणजीवनरूपजीवधातुव्युत्पत्तिनिमित्तावच्छिन्ने जीवपदसङ्केतग्राहिणो व्यवहारनयोपजीव्येवम्भूतस्वरूपनिश्चयस्य यदभिधानं तत् पूर्व यस्येति बहुव्रीहिणा 'निमक्ताभिधानपूर्वम्' इत्यस्य 'निरुक्ताभिधानपूर्वकम्' इत्यर्थः, ततश्च निरुक्ताभिधानानन्तरमेव सिद्ध एव चैतन्यद्वयलक्षणभावप्राणधारित्वाजीवपदव्यपदेश्य इत्यभिधानं युक्तमित्यर्थः । अन्यथा व्यवहारनयाभिधानानन्तरं व्यवहारोपजीविनिश्चयाभिधानमकृत्वैव निश्चयोपजीविनिश्चयाभिधाने । अप्राप्तकालत्वप्रसङ्गात् व्यवहारनयानन्तरव्यवहारोपजीविनिश्चयाभिधानोत्तरकालो निश्चयोपजीविनिश्चयाभिधानकालः, न तु व्यवहाराभिधानाव्यवहितोत्तरकालस्तस्य काल इति अप्राप्तः कालो यस्य सोऽप्राप्तकालस्तस्य भावोऽप्राप्तकालत्वं तस्य प्रसङ्गादित्यर्थः । उपसंहरति- तस्मादिति-अप्राप्तकालत्वप्रसङ्गभयादित्यर्थः । अस्य एवम्भूतनयस्य । 'नच' इत्यस्य । 'आशकुनीयम्' इत्यनेनान्वयः। निषेधे हेतुमाह-प्राधान्येनेति । शङ्का-प्रति विधानयोरौँ सुखावबोधौ ।। ५१॥ द्विपञ्चाशत्तमपद्यमवतारयति-शङ्काशेषमिति-दिगम्बराशङ्काऽवशिष्टभागमित्यर्थः । विवृणोति-शैलेश्यलक्षण इतीति । धर्म इति-धारणाद् धर्म इति व्युत्पत्या धारणलक्षणो धर्मपदार्थो निश्चयनयतो यथा शैलेश्यन्त्यक्षणे इत्यर्थः । तदर्वाक्तनकालभावी तु शैलेश्यन्यक्षणप्राक्तनकालभावी धर्मपदार्थस्तु । व्यवहारत एव व्यवहारनयत एव, एवकारेण तस्य निश्चयनयसम्मतत्वस्य व्यवच्छेदः । उक्का हरिभद्रसूरिवचनं पराभिप्रेतप्रमाणतयोपदर्शयति-तदक्तमिति । सो० इति-“स उभयक्षयहेतुः शैलेशीचरमसमयभावी यः । शेषः पुनर्निश्चयतः तस्यैव प्रसाधको ज्ञेयः" ॥ इति संस्कृतम् । 'तत्र' इति मूलस्य विवरणम्- "सो उभयस्खयहेऊ" इति गाथायाम् इति । 'फले' इति मूलस्य 'फलरूपे धात्वर्थे' इति विवरणम् । सा च निरुक्तचिन्ता पुनः, अस्य 'साक्षिणी' इत्यनेनान्वयः। धर्मपदार्थसिद्धि. साक्षिणी सिद्धिगतावात्मानं धारयतीति व्युत्पत्त्या धर्मपदार्थः सिद्धिस्तस्यां साक्षिणी। तदनन्तरं शैलेश्यन्त्यक्षणानन्तरम् । 'सिद्धिसाधारणरूपा' इति स्थाने 'सिद्धिधारणरूपा' इति पाठः सम्यग्, धारयति धर्म इति, सिद्धिं धारयतीति व्युत्पत्तिस्येवसायिनी चिन्ता । फलाव्यवधानात् सिद्धिरूपफलेन सह व्यवधानाभावात् , शैलेश्यन्त्यक्षणानन्तरं सिद्धिरूपफलं Page #284 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । ," चिन्ता, साच केन सहाव्यवधानं गवेषयेत ? स्वरूपं तु प्रसिद्ध्यनुरोधेन संसारिण्येव पर्यवसाययेत्, न तु सिद्ध इति महान् विशेषः । स्यादेतत्, धर्मपदेऽपि धात्वर्थो धारणसामान्यमेव, तच्च यथा विशेषतात्पर्यवशात् सिद्धिधारणरूपविशेषे पर्यवस्यति, तथा जीवपदार्थोऽपि विशेषे पर्यवस्यन् सिद्ध एव दत्तपदो भविष्यति ? मैवम्- "जीव प्राणधारणे इत्यत्र प्राणपदसम ( भि ) व्याहृतधारणस्य भूरिप्रयोगवशादौदयिक प्राणधारण एव पर्यवसानात्, अत एव गोपदस्य नानार्थत्वेऽपि ततो भूरिप्रयोगवशात् सास्नादिमत एवोपस्थितिः, अश्वादेस्तु पदान्तरसमभिव्याहारादिनेति तु तान्त्रिकाः । तदेवमेवभूतनयाभिप्रायेण सिद्धो न जीव इति व्यवस्थापितम् । यदि पुनः प्रस्थकन्यायाद् विशुद्धतरनैगमभेदमाश्रित्य प्रागुक्तस्वप्रन्धगाथा व्याख्यायते परैः, तदा न किञ्चिदस्माकं दुष्यतीति किमल्पीयसि रक्षोदेन ? ।। ५२ ॥ ऐन्द्री ततिः प्रणयपुण्यमिवाङ्कुरायैर्यत्पादपद्मकिरणैः कलयत्युदी (र्ण ) तम् । स्नात्राम्भसा दलित यादवदुष्टकष्टं शतेश्वरं प्रभुमिमं शरणीकरोमि ॥ १ ॥ एवं सामान्यतः सप्तानामपि नयानामर्थानुक्त्वा ततः शुद्ध्यशुद्धिज्ञानोपायं वक्तुं प्रक्रमते २१३ सर्वदा विद्यत इति तद्धारणमात्मनि धर्मपदार्थ इति । इह तु जीवपदार्थे पुनः ' धातुगा' इति मूलस्य विवरणम् - धात्वर्थावच्छिन्नस्वरूपविषयिणीति- जीवधात्वर्थो यः प्राणधारणलक्षणस्तदवच्छिन्नं यदात्मस्वरूपं तद्विषयिणीत्यर्थः । सा च धात्वर्थावच्छिन्नस्वरूपविषयिणी चिन्ता पुनः । केन सद्देति - फलस्य कारणप्रभवत्वेन कारणस्य फलसाधनत्वेन तयोरव्यवधानस्यावश्यम्भावेन तत्रैकस्यापरेण सहाव्यवधानचिन्तासम्भवेऽपि प्रकृते चिन्ताविषयस्य धात्वर्थ• स्वरूपावच्छिन्नस्य फलसाधनभावेन चिन्ताया अविषयत्वेन केनापि सहाव्यवधानाकाङ्क्षाया अनुदयेन व्यवधानगवेषणाया अप्रसरादित्यर्थः । स्वरूपं त्विति जीवधात्वर्थस्वरूपं पुनः, "जीव प्राणधारणे" इत्यत्र प्राणशब्दस्य सामान्यतः प्राणवचनत्वेऽपि लौकिकपरीक्षकाणामविगानेन द्रव्यप्राणवाचित्वेन प्रसिद्धतया तदनुरोधेन द्रव्य प्राणधारणलक्षणं तत् संसारमात्रगतं न तु सिद्धगतमित्यर्थः । इति एवं स्वरूपो धर्मशब्द- जीवशब्दयोर्महान् विशेषः । अत्र परः शङ्कते - स्था देतदिति । तच धारणसामान्यं च अन्यत् सुगमम् । समाधत्ते - मैवमिति । अत एव सामान्यस्य यस्किश्चिद्विशेषस्वरूपमादाय पर्यवसानसम्भवेऽपि सामान्यवाचिशब्दस्य यस्मिन्नेव विशेषे भूरिप्रयोगस्तं विशेषमुपादायैव सामान्यस्य पर्यवसानमित्यस्य युक्तत्वादेव । नानार्थत्वेऽपि किरण- वाणी प्रभृत्यनेकार्थवाचकत्वेऽपि । ततः गोपदात् । मभ्वादेस्त्विति - गच्छतीति गौरिति व्युत्पत्तिलभ्यगमनकर्तृत्वस्याश्वादौ सत्वेऽपि तद्वाचकाश्वादिपदासमभिव्याहृतगोपदान्नाश्वादेरुपस्थितिः किन्तु सास्नादिमत एवोपस्थितिः, अश्वादिपदसमभिव्याहृतगोपदात् पुनरश्वादेरुपस्थितिरित्येवं तान्त्रिका आमनन्तीत्यर्थः । उपसंहरति तदेवमिति । प्रस्थ कन्यायात् प्रस्थकवसतिप्रदेशादिकं समाश्रित्य नैगमादिनयमननभेदोपपादकयुक्तेः । प्रागुक्तग्रन्थगाथा “तिक्काले च" इति गाथा । परैः दिगम्बरैः । अस्माकं श्वेताम्बराणाम् ॥ ५२ ॥ - - इत्थं नयार्थं मननं मम जिनप्रवरश्रीशङ्खश्वरभक्तिभरादेवेत्य वेदयितुं ग्रन्थमध्यमङ्गलस्वरूपां श्रीशतेश्वरप्रभुस्तुतिं प्रध्नाति ऐन्द्री ततिरिति - अङ्कुरामैरिव यत्पादपद्मकिरणैरुदितं प्रणयपुण्यमैन्द्री ततिः कलयति, तच्छन्दस्य यच्छन्दश्रुतिबलादायातत्वेन तमिमं स्नात्राऽम्भसा दलितयादवदुष्टकष्टं शङ्खेश्वरं शरणीकरोमीत्यन्वयः । ऐन्द्री इन्द्रम्बन्धिनी ततिः - पक्तिः, इन्द्रसमूह इति वक्तव्ये ऐन्द्री ततिरिति यदुक्तं तेन 'ऐ' इति सरस्वतीमन्त्रस्य स्वगत कवित्ववित्वाबन्ध्यकारणस्य मङ्गलतयाऽवस्थानमादृतमिति । यत्वादेति यस्य भगवतः श्रीशङ्खवरस्य पादाविव पद्मं तस्य किरणैस्तन नम्रीभूते शिरसि पतितैः, अङ्कुराग्रैरिव क्षेत्र-भू-रेण्वाच्छादितबीजाङ्कुरस्योपरि किञ्चिद्दृश्य मानाप्रभाग सदृशैः, प्रणयपुण्यं भक्तिभर रचितप्रणतिप्रभवपुण्यम्, उदितम् ( उदीर्णम्) उदयमागतं फलप्रदानाभिमुखमिति यावत् कलयति जानीते, तमिमं Page #285 -------------------------------------------------------------------------- ________________ २१४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः। उक्ता नयार्थास्तेषां ये, शुद्धयशुद्धी वदेत् सुधीः। ते प्रदेश-प्रस्थकयोर्वसतेश्च निदर्शनात् ॥ ५३ ॥ नयामृत-उक्ता इति । स्पष्टोऽयम् , नवरं निदर्शनादिति जात्यपेक्षमेकवचनम् , प्रदेश प्रस्थकवसतिदृष्टान्तैर्नयानां शुद्ध्यशुद्धी विभावनीये इत्यर्थः ।। ५३ ॥ तत्र पूर्व प्रदेशदृष्टान्तं विवेचयति । तथाहि धर्माःऽधर्मा:ऽऽकाश जीव-स्कन्धानां नैगमो नयः। तद्देशस्य प्रदेशश्चेत्याह षण्णां तमुच्चकैः ॥५४॥ नयामृत-धर्मेत्यादि । नैगमो नयः धर्मास्तिकाया-ऽधर्मास्तिकाया.ऽऽकाशास्तिकायजीवास्तिकायस्कन्धानां तद्देशस्य [च] प्रदेश इति षण्णां तम्-प्रदेशमुच्चकैः स्वमतनिर्बन्धेनाह ॥५४ ॥ दासेन मे खरः क्रीतो, दासो मम खरोऽपि मे। इति स्वदेशे स्वाभेदात्, पञ्चानामाह सङ्ग्रहः ॥ ५५ ॥ नयामृत-दासेनेति । सङ्ग्रहनयस्तु · दासेन मे खरः क्रीतो, दासो मम खरोऽपि मे' इति न्यायात् स्वदेशे-धर्मास्तिकायादिदेशे, स्वाभेदात्-धर्मास्तिकायाद्यभेदात् पञ्चानां प्रदेशमाह, षण्णां भेदानां पञ्चसु सङ्ग्रहादत्र सङ्ग्रहस्यान्वर्थत्वम् , क्रयजन्यं दासनिष्ठं खरस्वामित्वं यथा परम्परासंबन्धेन तत्स्वामिनिष्ठतया साहीतुं शक्यं तथा धर्मास्तिकायादिदेशवृत्तिप्रदेशाश्रयत्वं परम्परासम्बन्धेन धर्मास्तिकायादिनिष्ठतयेति परमार्थः । पञ्चानां वृक्षाणां तद्देशस्य च 'छाया' इत्यत्रेव देश्यन्वययोग्ये देशा शक्केश्वरं प्रभुम् , स्नात्राऽम्भसा स्नानजलेन, दलितं बिनाशितं, यादवानां यदुवंशग्रभवाणां क्षत्रियाणां, दुष्टकष्टं येनं तथाभूतम् , शरणीकरोमि तत्प्रसादत एव ममातिगम्भीरनयरहस्याविभूतिरतस्तं प्रणतोऽस्मीति ॥ ५२ ॥ त्रिपञ्चाशत्तमपद्यमवतारयति-पवमिति-अनन्तरदर्शितप्रकारणेत्यर्थः । विवृणोति-उक्का इतीति। श्लोकोऽयं स्फुटार्थत्वान्न व्याख्यानमर्हतीत्याह- स्पष्टोऽयमिति । नवरं केवलम् । प्रदेश प्रस्थक-वसतीनां निदर्शनाना बहुत्वानिदर्शनेभ्य इति बहुवचने प्रयोक्तव्ये निदर्शनादित्येकवचनं यदुक्तं तज्जात्यपेक्षया, व्यक्त्यपेक्षया तु बहुवचनेनैव भवितव्यम् , ततश्च योऽर्थों भवति तमुपदर्शयति-निदर्शनादितीति ॥ १३ ॥ चतुष्पञ्चाशत्तमपद्यमवतारयति-तत्रेति-तेषु प्रदेश-प्रस्थक-वसतिदृष्टान्तेषु मध्य इत्यर्थः। विवृणोति-धर्मत्यादीति । तदेशस्य धर्मास्तिकायादिदेशस्य ॥ ५४ ॥ देशस्य देशिनोऽभिन्नत्वादु धर्मास्तिकायादिपञ्चानां प्रदेश इति सहाभिमतोपदर्शकं "दासेन" इत्यादिपञ्चपञ्चाशत्तमपद्यं विवृणोति-दासेनेतीति। धर्मास्तिकायादिषण्णां प्रदेश इति नैगमोऽभ्युपगच्छति, सङ्ग्रहस्तु देशदेशिनोरभेदा. श्रयणात् षण्णां पञ्चसु सङ्ग्रहात् पञ्चानां प्रदेश इत्यभ्युपैति, षण्णां पञ्चसु यत् सङ्ग्रहणं तत एवैतद्विषयेऽन्वर्थत्वं तत्प्रतिपादकसमवचनस्येत्याह-षण्णां भेदानामिति। अत्र प्रदेशाभ्युपगमे । दासेनेत्यादिन्यायार्थ सङ्गमयति-क्रयजन्य मिति । परम्परासम्बन्धेन स्वाश्रयदासस्वामित्वसम्बन्धेन, परम्परासम्बन्धेन स्वाश्रयदेशसम्बन्धित्वसम्बन्धेन, तद्घटकसम्बन्धश्च तादात्म्यम् । सङ्ग्रहनयमते षण्णां प्रदेश इति यन्न भवति तत्र देशिनोऽन्वययोग्ये निराकानक्षत्वाद्देशाना नान्वय इति नियमादेव, यथा पञ्चानां वृक्षाणामन्वययोग्यायां छायायां निराकक्षत्वान्न वृक्षदेशान्वय इति पञ्चानां वृक्षाणां तदेशस्य च छायेति न भवतीत्येवं मन्यमानानामन्याचार्याणां मतमुपदर्शयति-पश्चानां वृक्षाणामिति । सहनयमतेन Page #286 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । २१५ न्वयस्य निराकासत्वात् सङ्ग्रहनयमतेन षण्णां प्रदेश इत्यन्ये ॥ ५५ ॥ व्यवहारस्तु पश्चानां, साधारण्यं न वित्तवत् । इति पञ्चविधो वाच्यः, प्रदेश इति मन्यते ॥ ५६ ॥ नयामृत-व्यवहारस्त्विति । व्यवहारनयस्त्विति मन्यते-यथा पञ्चानां वित्ते साधारण्यं स्वामित्वं, तथा प्रदेशेन साधारण्यं पञ्चवृत्तित्वमिति, पञ्चानां प्रदेश इति न वाच्यम् , किन्तु पञ्चविधः प्रदेश इति वाच्यमिति । पञ्चानां प्रदेश इति यदि पञ्चत्वपर्याप्तिमद्वृत्तित्वमादाय प्रयुज्यते, तदा न तत्र कुत्रापि प्रदेश इत्ययोग्यत्वम् । यदि च पञ्चत्वाश्रयवृत्तित्वमादाय प्रयुज्यते, तदा पश्चानां धर्मास्ति. कायप्रदेश इत्यपि स्यादित्येवं सङ्ग्रहमतं दूषणीयमित्येतत्तात्पर्यम् । नन्वेवं घट-पटयो रूपमित्यपि न स्यादिति चेत् ? न स्यादेव, समुदितवृत्तित्वबोधायैव व्यवहारसामर्थ्यात् , घटपटोभयसम्बन्धिना इत्यत्र 'सङ्ग्रहनयमते न' इत्येवं छेदः । यदि देश-देशिनोभिदः किन्तु भेद एव, तथा सति वृक्षाणां परस्परविभिन्नानां छायाऽपि विभिनव, अथापि छायात्वेनैकरूपेणकीकृता छाया सर्वेषामन्वययोग्या भवति, न च तत्र निराकाक्षता, तथा देशस्यापि भिन्नस्य भिन्ना छाया स्यादेव तदन्वययोग्या, तत्रापि साकाङ्क्षता न काकभक्षितेति देश-देशिनोरभेदादेव यैव देशिच्छाया सैव देशच्छायेत्यत एव पञ्चानां वृक्षाणां तद्देशस्य च च्छायेति न भवति तथैव प्रकृतेऽपोत्यस्वरसः 'अन्य' इत्युक्त्या सूचितः ॥ ५५ ॥ यथा धनस्यैकस्याने स्वामित्वं तथा नैकस्य प्रदेशस्याने कसम्बन्धित्वमिति धर्मास्तिकायादीनां पञ्चानां परस्पर विभिन्नप्रदेशानां नैकप्रदेशकत्वमिति धर्मास्तिकायस्य प्रदेशोऽधर्मास्तिकायस्य प्रदेश इत्येवं पञ्चविधः प्रदेश इत्येव वक्तव्यम्, न तु धर्मास्तिकायादीनां पञ्चानां प्रदेश इति व्यवहारनयोऽभिमन्यते, तन्मन्तव्योपदर्शकं षट्पञ्चाशत्तमपद्यं विवृणोति-व्यवहारस्त्वितीति-अस्य ' इति मन्यते' इत्यनेनान्वयमुल्लिखति-व्यवहारनयस्त्विति मन्यते इति । 'मन्यते' इत्यस्य कर्म मूलोकं स्पष्टयति- यथा दृष्टान्ते साधारण्यं स्वामित्वं दान्तिके वृत्तित्वं तदित्याह-साधारण्यं स्वामित्वमिति । 'प्रदेशेन 'इत्यत्र 'प्रदेशे न' इति बोध्यम् । प्रदेशे पञ्चानां वृत्तित्वं नेत्यस्य फलितमाह-पश्चानां प्रदेश इति न पाच्यमिति । तर्हि किं वाच्यमिति पृच्छति-किन्त्विति । व्यवहारनयतात्पर्यमाविष्करोति-पश्चानामिति- पश्चानां प्रदेश इति यत् सङ्ग्रहस्य मतं तत्र यदि धर्मास्तिकायादिपञ्चगतपञ्चत्वसङ्ख्यापर्याप्तिमनिरूपितवृत्तित्ववान् प्रदेश इत्यर्थोऽभिप्रेतस्तदा तस्यायोग्यत्वान्न सम्भवः, यतो धर्मास्तिकायस्य प्रदेशो धर्मास्तिकाय एव वर्तते, नाधर्मास्तिकायादौ, तथाऽधर्मास्तिकायस्य प्रदेशोऽधर्मास्तिकाय एव वर्तते, इत्येवं प्रदेशमात्रस्य धर्मास्तिकायादावेककस्मिन्नेव वृत्तित्वं न तु धर्मास्तिकायादि. पञ्चगतपश्चत्वसङ्ख्यावच्छिन्ननिरूपितपर्याप्तिसम्बन्धावच्छिन्नवृत्तित्वं कस्यापि प्रदेशस्येति तादृशार्थविवक्षायां पञ्चानां प्रदेश इति न सम्भवति, यदि च पर्याप्तिसम्बन्धमनादृत्य निरुक्तपञ्चत्वाश्रयनिरूपितवृत्तितावान् प्रदेश इत्यर्थ एव परिगृह्यते तदा पञ्चत्वाश्रयधर्मास्तिकायाद्यकै कनिरूपितवृत्तित्वस्य धर्मास्तिकायप्रदेशादावे किस्मिन् सम्भवेन योग्यत्वात् पञ्चानां प्रदेश इति प्रयोगः सम्भवति, किन्तु निरुक्तपञ्चत्वाश्रयधर्मास्तिकायनिरूपितवृत्तित्वं धर्मास्तिकायप्रदेशे वर्तत इति योग्यत्वाद् धर्मास्ति. कायादिपञ्चानां धर्मास्तिकायप्रदेश इति प्रयोगोऽप्यापद्यत इत्यतः पञ्चानां प्रदेश इति सङ्ग्रहमतं न समीचीनमिति तात्पर्य मित्यर्थः । ननु यथा नैकस्य कस्यापि प्रदेशस्य धर्मास्तिकायादिपञ्चवृत्तित्वमिति पञ्चानां प्रदेश इति न सम्भवति तथा नैकस्यापि रूपस्य घट-पटोभयनिरूपितवृत्तित्वम् , घटरूपं घट एव वर्तते न तु पटे, पटरूपं पट एवं वर्तते न तु घटे, इति घट-पटयो रूपमित्यपि प्रयोगो व्यवहारनयमते न स्यादित्याशङ्कते-नन्वेवमिति । अत्रेष्टापत्तिमेव समाधानमाहन स्यादेवेति-व्यवहारनयमते घट-पटयो रूपमिति न भवत्येवेत्यर्थः । ननु घट-पटगतद्वित्वाश्रयघटनिरूपितवृत्तित्वस्य घटरूपे निरुक्तद्वित्वाश्रयपटनिरूपितवृत्तित्वस्य पटरूपे च सत्त्वात् कथं न तादृशार्थमुपादाय घट-पटयो रूपमिति प्रयोग इत्यत आह-समुदितेति- व्यवहारनये घट-पटयो रूपमिति वाक्यस्य घट-पटगतद्वित्वपर्यायधिकरणनिरूपितवृत्तित्ववद्रूपमित्याकारकबोधमुत्पादयितुमेव सामर्थ्यात् , निरुक्तद्वित्वपर्यायधिकरणनिरूपितवृत्तित्वं च रूपे न कस्मिनपीत्यतो घट-पटयो रूपमिति Page #287 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । उभयप्रकारं रूपमित्याकारस्यैव व्यवहारनयजन्यबोधस्य तत्रोपपत्तेः ।। ५६ ।। पञ्चप्रकारः प्रत्येकं, पञ्चविंशतिधा भवेत्। प्रत्येकवृत्तौ प्राक्पक्षः, स्याद् गेहेष्विव वाजिनाम् ॥ ५७ ॥ नयामृत-पश्चप्रकार इति । पञ्चविधः प्रदेश इति यद् व्यवहारनयेन स्वीक्रियते, तत्र किं पञ्चविधत्वं ? पञ्चप्रकारत्रमिति चेत् ? कः प्रकारः ?, सङ्ख्या वा १, बुद्धिविशेषविषयत्वं वा २, भेदो वा ३ ?। नाद्यः-अनन्तेषु प्रदेशेषु पञ्चसङ्ख्यावधारणाऽसिद्धेः, न द्वितीयः पञ्चत्वप्रकारकबुद्धि. विषयत्वस्य प्रत्येकमभाविनः पञ्चस्वप्यभावात् , प्रत्येकं भावे चैकैकः प्रदेश पञ्चविध इति पञ्चविंशतिधा भवेत् । न च सामान्यतस्तदन्वयान्न बाध इति वाच्यम् , विशेषविनिर्मोकेण तसिद्धेः, यदि च न प्रयुज्यत इत्यर्थः। यदि घट-पटयो रूपमिति न प्रयुज्यते तर्हि कोहरव्यवहारस्तत्र भवतीत्यपेक्षायामाह-घट-पटोभयसम्बन्धिनेति- रूपस्यैकस्य घटात्मकं यत् सम्बन्धि यच्चापरस्य रूपस्य पटात्मकं सम्बन्धि तद्पोभय सम्बन्धिना घटस्य रूपं पटस्य रूपमित्येवमुभयप्रकारं रूपमित्याकारकस्यैव बोधस्य व्यवहारनयजन्यस्य घट-पटयो रूपमिति वाक्यस्थले उपपत्तेरित्यर्थः ॥ ५६ ॥ पञ्चानां प्रदेश इति सङ्ग्रहनयमतं दूषयित्वा पञ्चविधः प्रदेश इत्येव तत्र वाच्य इति स्वमतं यद् व्यवहारनयेन समर्थितं तद् विकल्पकवलितत्वान्न परीक्षकपरीक्षाक्षेत्रमिति ऋजुसूत्रवक्तव्योपदर्शक सप्तपञ्चाशत्तमपद्यं विवृणोति-पञ्चप्रकार इतीति । तत्र प्रदेशे । पञ्चविधः प्रदेश इति वाक्येन पञ्चप्रकारत्वलक्षणं पञ्चविधत्वं प्रतिपादयितुमिष्टमित्याशङ्कतेपञ्चप्रकारत्वमिति चेदिति । तत्र किं पञ्चविधत्वमिति पृच्छायां तदुत्तरमाशङ्कितं तद् विकल्प्य दूषयति-कः प्रकार इति-पञ्चप्रकारत्वमित्यत्र प्रकारशब्दवाच्यः क इत्यर्थः । प्रकारपदवाच्या सङ्ख्याऽभिमता, तथा च पञ्चप्रकारः प्रदेश इत्यनेन पञ्चसङ्ख्यकः प्रदेश इत्युक्तं स्यात् , तदपि न युक्तमित्याह- नाद्य इति। सर्व हि वाक्यं सावधारणमिति नियमेन पञ्चसङ्ख्यक एवं प्रदेश इत्युकवाक्यस्वरूपं भवेत् , ततश्च तेन वाक्येन प्रदेशे यत् पञ्चसंख्याऽवधारणं तन्न युज्यते प्रदेशानामनन्तसङ्ख्यकत्वादिति निषेधहेतुमुपदर्शयति अनन्तेष्विति । पञ्चप्रकारत्वमित्यनेन पञ्चत्वप्रकारकबुद्धिविशेषविषयत्वं प्रतिपादयितुमभिलषितमित्यपि न युक्तमित्याह-न द्वितीय इति । प्रत्येकावृत्तिधर्मस्य समुदायावृत्तित्वमिति नियमेन पञ्चत्वस्य प्रत्येक प्रदेशेऽभावेन प्रदेशपञ्चकेऽप्यभावादिति पञ्चत्वप्रकारकबुद्धिविशेषत्वस्यापि प्रत्येक प्रदेशेऽसतस्तत्पञ्चकेऽप्यसत्त्वादिति न पञ्चत्वप्रकारकबुद्धिविशेषविषयः प्रदेश इति सम्भवति यदि च प्रत्येकमपि प्रदेशे पञ्चत्वप्रकारकबुद्धिविशेषविषयत्वलक्षणं पञ्चविधत्वमिष्टं तदा धर्मास्तिकायस्य प्रदेशः पञ्चविधोऽधर्मास्तिकायस्य प्रदेशः पञ्चविधस्तथाऽऽकाशास्तिकाय-पुद्लास्तिकायजीवास्तिकायानां प्रदेशा अपि प्रत्येकमुक्तपञ्चविधत्वाकान्ता इति पञ्चविंशतिविधः प्रदेश इति प्रसज्यत इति निषेधहेतुमुपदर्शयति-पञ्चत्वप्रकारकेति । प्रत्येकमभाविनः एकैकधर्मास्तिकायादिप्रदेशव्यकावसतः । पञ्चस्वपि धर्मास्तिकायादिप्रदेशपञ्चकेष्वपि । प्रत्येकं भावे च एकैकधर्मास्तिकायादिप्रदेशव्यक्तौ पञ्चत्वप्रकारकबुद्धिविषयत्वस्य सत्त्वे तु । एकैक इति-धर्मास्तिकायप्रदेशः पञ्चविधः, अधर्मास्तिकायप्रदेशः पञ्चविध इत्येवं प्रत्येकं धर्मास्तिकायादिप्रदेशपञ्चकानां पञ्चविधत्वे पञ्चसङ्ख्यावतां प्रत्येकं पञ्चाख्या गुणितानां पञ्चविंशतिविधत्वं स्यादित्यर्थः । ननु प्रत्येकप्रदेशव्यक्तिगणनयाड नन्तसङ्ख्याक्त्सु प्रदेशेषु पञ्चत्वसङ्ख्याया बाधादन्वयासम्भवेऽपि धर्मास्तिकायप्रदेशत्वेन धर्मास्तिकायप्रदेश एकः, अधमास्तिकायप्रदेशत्वेनाधर्मास्तिकायप्रदेशस्तदन्यो द्वितीयः, आकाशास्तिकायप्रदेशत्वेनाकाशास्तिकायप्रदेशस्ताभ्यामन्यस्तृतीयः, पुदलास्तिकायप्रदेशत्वेन पुद्गलास्तिकायप्रदेशस्तेभ्योऽन्यश्चतुर्थः, जीवास्तिकायप्रदेशत्वेन जीवास्तिकायप्रदेशस्तेभ्योऽन्यः पञ्चम इति कृत्वा प्रदेशेषु पञ्चविधत्वस्यान्वयसम्भवान्न वाध इत्याशङ्कय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इत्यने नान्वयः। धर्मास्तिकायस्य यावत्यः प्रदेशव्यक्तयस्ताभ्योऽन्यद् धर्मास्तिकायप्रदेशसामान्य नास्त्येव, एवमधर्मास्तिकायादिप्रदेशसामान्यमप्यधर्मास्तिकायादिप्रदेशव्यक्तिभ्यो भिन्नं नास्त्येवेत्यनन्ता एवं प्रदेशव्यक्तयो न सामान्यतोऽपि पञ्चत्वसङ्ख्यापरिकलिता इति नोक्तदिशा निरुक्तपञ्चविधत्वस्यान्वयसम्भव इति निषेधहेतुमुपदर्शयति-विशेषविनिर्मोकेणेति Page #288 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । २१७ 'गेहेषु शतमश्वाः' इत्यत्रेव प्रत्येकवृत्तित्वान्वयः प्रकृते स्वीक्रियते, तदा प्रापक्षः-पश्चानां प्रदेश इति साहनयपक्ष एव परिष्कृतः स्यात् , तथा च स्वप्रतिज्ञासंन्यासो निग्रहस्थानम् ।। ५७ ॥ प्रत्येकवृत्तिः साकाङ्क्षा, बहुत्वेनेति सोऽप्यसत् । ऋजुसूत्रस्ततो ब्रूते, प्रदेशभजनीयताम् ॥ ५८ ॥ नयामृत-प्रत्येकेति । किश्च — गेहेषु शतमश्वाः' इत्यत्र गेहवृत्तिबहुत्वव्यापकैकत्वावच्छिन्नपर्याप्तवृत्त्यवच्छेदकैकत्व[ वत् ]पञ्चकवान् प्रदेश इति बोधो वाच्यः, स च न सम्भवति, पञ्चपद. विशेषपरित्यागेनेत्यर्थः। तदसिद्धः सामान्यासिद्धेः । नन्वेकस्मिन् गेहे एकोऽश्वो द्वितीयेऽस्मिन् गेहे द्वितीयोऽश्व इत्येवं गृहाणां शतेऽश्वानां शतस्य वृत्तित्वमुपादाय गेहेषु शतमश्वा इति प्रयोगो यथा निर्वहति तथा एकस्मिन् धर्मास्तिकाये एकः प्रदेशोऽधर्मास्तिकाये द्वितीयः प्रदेश इत्येवं प्रत्येक धर्मास्तिकायादिवृत्तित्वं प्रदेशगतमादाय धर्मास्तिकायादीनां पञ्चविधः प्रदेश इति प्रयोग उपपद्यत इत्यत आह- यदि चेति । प्रत्येकवृत्तित्वान्वयः धर्मास्तिकायादिप्रत्येकनिरूपितवृत्तित्वस्य प्रदेशेऽन्वयः । प्रकृते धर्मास्तिकायादीनां पञ्चविधः प्रदेश इत्यत्र । 'प्रापक्षः' इति मूलस्य विवरणम् - पञ्चानां प्रदेश इति सङ्कहनयपक्ष एवं परिष्कृत इति-परिष्कारश्च धर्मास्तिकायादीनां सम्बन्धिनां पञ्चत्वसङ्ख्याकलितत्वात् प्रदेशानामपि पञ्चविधत्वमिति । भवतु सङ्ग्रहनयपक्षपरिष्कार एव, कोऽत्र दोष इत्यत आह-तथा चेतिएवं सतीत्यर्थः । स्वप्रतिज्ञासंन्यासः स्वस्य व्यवहारनयस्य या प्रतिज्ञा ‘पञ्चानां प्रदेशान्वयित्वासम्भवात् पञ्चानां प्रदेश इति न सम्भवति किन्तु पञ्चविधः प्रदेश इत्येव युज्यते' इत्येवरूपा तस्या संन्यासः परित्यागः, यतः प्रत्येकवृत्तित्वान्वयाजीकारे पश्चानां प्रदेश इति सम्भवत्येवेति। निग्रहस्थानं निग्रहस्थानविशेषः, येन दोषेण वादिनो निग्रहो भवति स दोषो निग्रहस्थानमिति गीयते ॥ ५७ ॥ __ अपि च, पञ्चानां प्रदेश इत्यत्र धर्मास्तिकायादिप्रत्येकवृत्तित्वस्थ प्रदेशेऽन्वयो निराकाक्षत्वान्न सम्भवति, बहुवचनात्तपदोपस्थितार्थ एव प्रत्येकवृत्तित्वान्वयो भवतीत्यतो बहुवचनान्तविशेष्यवाचकपदघटितवाक्यस्यैव तथाऽन्वयबोधने साकारक्षत्वात् सामर्थ्यम् , गेहेषु शतमश्वा इत्यत्र प्रत्येकगृहवृत्तित्वस्थ प्रत्येकाश्वान्वयो युज्यतेऽश्वपदस्य बहुवचनात्तत्वेन साकाक्षत्वात् , प्रकृतेऽपि पञ्चानां प्रदेशा इत्येवं यदि वाक्यस्वरूां भवेद्, भवेत् तदा साकाक्षत्वात् तस्योकान्वयबोधनसामर्थ्य, न तु पञ्चानां प्रदेश इत्यत्र विशेष्यवाचकप्रदेशपरस्य बहुववनान्तत्वं समस्तीत्यतः 'स्याद्धर्मास्तिकायस्य प्रदेशः, स्यादधर्मास्तिकायस्य प्रदेशः, स्यादाकाशास्तिकायस्य प्रदेश: स्यात् पुद्गलास्तिकायस्य प्रदेशः, स्याज्जीवास्तिकायस्य प्रदेशः' इत्येवं विकल्पनीय इति ऋजुसूत्रे ब्रवीतीत्येतदुपदर्शकमष्टपञ्चाशत्तमपद्यं विवृणोति- प्रत्येकेतीति । प्रत्येकवृत्तिः साकाक्षेति व्यारव्यातुं तदवतारणोपायोपोद्धातावष्टमाश्रयति-किश्चेति। "गेहवृत्तिबहुत्वव्यापकैकत्वावच्छिन्नपर्याप्तवृत्यवच्छेदकैकत्व(वत्) पश्चकवान् प्रदेश इति बोधो वाच्यः” इत्यस्य स्थाने “गेहवृत्तिबहुतव्यापकैकत्वावच्छिन्नपर्याप्तवृत्त्यवच्छेदकैकत्ववन्तः शातत्वसङ्ख्यावन्तोऽश्वा इति बोधवत् , धर्मास्तिकायादीनां पञ्चानां प्रदेश इत्यत्र धर्मास्तिकायादिवृत्तिपञ्चत्वव्यापकैकत्वावच्छिन्नपर्याप्तवृत्यवच्छेदकैकत्ववन्तः प्रदेशा इति बोधो वाच्यः" इति पाठः समीचीनः, तस्य चायमर्थः- गेहवृत्ति यद् बहुत्वं निरूपकत्वसम्बन्धेन तझ्यापिका या एकत्वावच्छिन्नपर्याप्तिसम्बन्धावच्छिन्ना वृत्तयस्तासामवच्छेदकानि यान्येकत्वानि तद्वन्तः शतत्वसङ्ख्यावन्तोऽश्वा इत्याकारको बोधो यथा गेहेषु शतमश्वा इत्यत्र भवति तथा धर्मास्तिकायादिवृत्ति यत् पञ्चत्वं निरूपकत्वसम्बन्धेन तस्यापिका या एकत्वावच्छिन्नपर्याप्तिसम्बन्धावच्छिन्ना वृत्तयस्तदवच्छेदकानि यान्यैकत्वानि तद्वन्तः प्रदशा इत्याकारकबोधो धर्मास्तिकायादीनां पञ्चानां प्रदेश इत्यत्र व्यवहारनयमतेन वाच्य इति, एतत्समनं चेत्थम्- 'गेहेषु शतमश्वाः' इत्यत्र बहुवचनार्थस्य बहुत्वस्य प्रकृत्यर्थे गेहे पर्याप्तिसम्बन्धेन विशेषणीभूतस्य प्रकृते गेहवृत्तिबहुत्वशब्देन ग्रहणम् , तच्च गेहेषु वर्तते. तत्राश्वगता याः पर्याप्तिसम्बन्धावच्छिन्ना वृत्तितास्ता निरूपकतासम्बन्धेन वर्तन्त इति ताः पर्याप्तिसम्बन्धावच्छिन्नवृत्तितात्वेन रूपेण व्यापिका भवन्ति, वृत्तितावच्छेदकपर्याप्तिसम्बन्धश्च तत्तदेहगतैकत्वावच्छेदेनेति भवन्ति ता गेहवृत्तिबहुत्वव्यापिकाः, तत्तदेहगतैकत्वावच्छिन्न २८ Page #289 -------------------------------------------------------------------------- ________________ २१८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । समभिव्याहृतबहुवचनान्तप्रदेशपदोपादान एव तपाबोधसम्भवात् , यदि च मृहशतेऽश्वा इतिपत्र तात्पर्यविशेषेणोक्तबोधसम्भव इतीष्यते तथापि प्रत्येकवृत्तिबहुत्वेन- बहुवचनेन साहाक्षेति सोऽपि पक्षोऽसन्, नयुक्तबोधार्थ · गृहशतेऽश्वाः' इतिवद् गृहसतेऽश्वः' इति कश्चित् प्रयुङ्क्ते, तद्वत् पञ्चानां प्रदेश इत्युपदर्शितदिशाऽपि न युक्तः प्रयोगः, इति निर्गलितार्थः । तृतीयस्तु पक्षो न युक्त:उक्तातिरिक्तभेदासिद्धेः । तत ऋजुसूत्रनयः प्रदेशभजनीयतां ब्रूते- स्याद्धर्मास्तिकायस्य प्रदेशः स्यादधर्मास्तिकायस्येत्यादि विकल्पयतीत्यर्थः ॥ ५८ ॥ भजनाया विकल्पत्वाद, व्यवस्थैवमपैति तत् । धर्मे धर्मः प्रदेशो वा, धर्म इत्यादिनिर्णयः ॥ ५९ ॥ पर्याप्तिसम्बन्धावच्छिन्नास्ताः पुनस्तत्तदश्वगतैकत्वावच्छेदेनाश्वेषु वर्तन्त इति तदवच्छेदकानि तत्तद्वहगततत्तदश्वगतान्थेकत्वानि, तद्वन्तः शतत्वसङ्ख्यावन्तोऽश्वा भवन्तीति तद्विषयको बोधो निरुकवाक्यादुपपद्यते प्रत्येकं गेहे प्रत्येकमश्वस्य वृत्तित्वमुपादायेति, एवं धर्मास्तिकायादीनां पञ्चानां प्रदेश इत्यत्र धर्मास्तिकायादिगतं यत् पञ्चत्वं पर्याप्तिसम्बन्धन तदधिकरणे धर्मास्तिकायादौ पर्याप्तिसम्बन्धावच्छिन्नाः प्रदेशगता वृत्तिना निरूपकतासम्बन्धेन वर्तन्त इति ता धर्मास्तिकायादिगतपच्चत्वव्यापिका भवन्ति, तदवच्छेदकीभूतपर्याप्तिसम्बन्धस्यावच्छेदकं च धर्मास्तिकायादिगतमेकत्वमिति भवन्ति ता धर्मास्तिकायादिपञ्चत्वव्यापिकाः, एकत्वावच्छिन्नपर्याप्तिसम्बन्धावच्छिनास्ताश्च तत्तत्प्रदेशगतैकत्वावच्छेदेन तत्तत् प्रदेशेषु वर्तन्त इति तादृशवृत्त्यवच्छेदकानि यान्येकत्वानि तद्वन्तः प्रदेशा इति तद्विषयको बोध इति । स च धर्मास्तिकायादीनां पञ्चानां प्रदेश इति वाक्यप्रभवतवाऽनन्तरमुपदर्शितो बोधश्च । न सम्भवति धर्मास्तिकायादीनां पञ्चानां प्रदेश इति वाक्यतो न सम्भवति । निषेधे हेतुमाह-पञ्चेति-निरुक्तवाक्ये यद् बहुवचनान्तं पञ्चपदं तत्समभिव्याहृतं यद् बहुवचनान्तं प्रदेशपदं 'प्रदेशाः' इत्येवंस्वरूपं तदुपादाने-एव धर्मास्तिकायादीनां पश्चानां प्रदेशा इत्येवंरूपेणोच्चारमे सत्येव, एवकारेपैकवचनान्तप्रदेशपदोपादानस्य व्यवच्छेदः । तथाघोघसम्भवात् प्रत्येकं धर्मास्तिकायादिपञ्चसु प्रत्येक प्रदेशानां वृत्तित्वमाश्रित्य दर्शितो यो बोधस्तस्योपपत्तेः। ननु 'गृहशतेऽश्वाः' इत्यत्र गृहपदं न बहुवचनान्तं तथापि प्रत्येकं गृहशत. वृत्तित्वं प्रत्येकमश्वेपूररीकृत्य गेहेषु शतमश्वः' इति वाक्यप्रभवोपपदर्शितबोधसमानाकारो बोधस्तात्पर्यवलाद् यथा भवति तथा तात्पर्यविशेषवलादत्रापि निरुक्तबोधः स्य दित्यत आह-यदि चेति । अब धर्मास्तिकायादीनां पञ्चावां प्रदेश इति वाक्ये । तथापि 'गृहशतेऽश्चाः' इत्यत्र 'गेहेषु शतमश्वाः' इति वाक्यप्रभवबोधसमानाकारबोधस्य तात्पर्यविसेषबलात् सम्भवेऽपि । 'प्रत्येकवृत्तिबहुत्वेन" इत्यस्य स्थाने 'प्रत्येकवृत्तिबहुत्वेन' इति पाठो युक्तः । प्रत्येकवृत्तिः प्रत्येक धर्मास्तिकायादिपञ्चसु प्रत्येकं या प्रदेशस्य वृत्तिः सा । 'बहुत्वेम' इत्यस्य मूलस्य विवरणम् - बहुवचनेनेति, प्रदेशपदोत्तरबहुवचनेनेत्यर्थः । साहक्षेति स्थाने साकाङ्केति पाठो युक्तः, धर्मास्तिकायानां पञ्चानामित्यस्य प्रदेशा इति बहुवचनान्तप्रदेशपदसमभिव्याहाररूपाकासायां सत्यामेव निरुकप्रत्येकवृत्तित्वान्वयबोधः, न हि निराकाङ्क्षावाक्या तात्पर्यविशेषसहकारेणाप्यन्वयबोधः सम्भवतीत्याशयः । इति एतस्मात् कारणात् । सोऽपि पक्षः ‘मृहशतेऽश्वाः' इति वत् तात्पर्यविशेषेण धर्मास्तिकायादीनां पञ्चानां प्रदेश इत्यपि प्रत्येकवृत्तित्वान्वयबोधं जनयतीति पक्षोऽपि । असन् अयुक्तः, सोऽप्यसदिति पद्यघटकस्थाने 'सोऽप्यसन्' इति पाठः सम्यक् । उक्त्रपक्षस्यायुक्तत्वमुपपादपति-नहीति- अस्य 'प्रयुङ्के' इत्यनेनान्वयः । उक्तबोधार्थ प्रत्येकमश्वानां प्रत्येकं गृहेऽन्वयबोधार्थम् । तद्वदिति- यथा 'गृहशतेऽश्वः' इति न प्रयोगस्तयेत्यर्थः । तृतीयस्तु पक्ष इति -पञ्चविधत्वं पञ्चप्रकारत्वमित्यत्र प्रकारो भेद इति तृतीयविकल्पस्त्वित्यर्थः । उकातिरिक्तति - सङ्ख्या-बुद्धिबिशेषविषयत्वाभ्यामतिरिक्तस्य भेदस्यासिद्धरित्यर्थः । ततः धर्मास्तिकायादीनां पञ्चविधः प्रदेश इति व्यवहारनयाभिमतस्यायुक्कत्वात् । 'प्रदेशभजनीयतां ब्रूते' इति मूलस्यार्थमुपदर्शयति-स्याद्धर्मास्तिकायस्येति । 'स्यादधर्मास्तिकायस्य' इत्यनन्तरमपि 'प्रदेशः' इत्यनुवर्तते, इत्यादि' इत्यादिपदात् स्थादाकाशास्तिकायस्य प्रदेशः, स्यात् पुद्गलास्तिकायस्य प्रदेशः, स्याजीवास्तिकायस्य प्रदेश इत्येतत्रितयस्य परिग्रहः ॥ ५८ ॥ Page #290 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो मयोपदेशः । wwwwwwwwwwrrrrr नयामृत०-भजनाया इति । भजनाया विकल्परूपत्वादेवं सस्ये कतरमादाय विनिगन्तुं शक्यत्वात् , व्यवस्था- यो यदीया प्रदेशः स तदीय एवेतिलक्षणा, अपैति- अपगच्छति, धर्मास्तिकायादि. प्रदेशस्याधर्मास्तिकायादिस्वेनापि भजनीयत्वप्रसङ्गात् । न च वस्तुनि सत्त्वा-ऽसत्वादिस्याद्वादभजना. वदनोपपत्तिः, तत्राप्येकान्तासम्बलिताऽनेकान्ताश्रयणे विकल्पमात्रस्य दुर्वारत्वात् ; तद्वदेवात्र स्यात् . पदेनैकान्तसम्बलनमपि भविष्यतीति चेत् ? न- उद्देश्य विधेयविशेषपर्यवसानेन तस्य वक्ष्यमाण एव पर्यवसानात् , तत्-तस्मात् कारणात्, धर्मे-धर्मास्तिकाये, यः प्रदेशः स धर्मो-धर्मास्तिकाय इति सप्तमीतत्पुरुषेण, धर्मास्तिकायश्चासौ प्रदेशो धर्मास्तिकाय इति कर्मधारयेण वा निर्णयः कर्तव्यः । एकोनषष्टितम-षष्टितमपद्याभ्यां साम्प्रतनयाख्यस्य प्रथमस्य शब्दनयस्य वक्तव्यमावेदितम् , तत्र प्रथमपद्यं विवृणोतिभजनाया इतीति-'स्याद्धर्मास्तिकायस्य प्रदेशः, स्यादधर्मास्तिकायस्य प्रदेशः' इत्येवंरूपाया ऋजुसूत्राभिमतभजनाया इत्यर्थः । 'विकल्पस्वाद' इति मूलमधृत्वैव विवृतम्-विकलारूपत्वादिति, 'एवम्' इत्यस्य विवरणम् - एवं सतीतिमनाया विकल्परूपत्वे सतीत्यर्थः । एकतरमादायेति यथा यवैर्यजेत, ब्रीहिभिर्वा यजेत' इति विकल्पस्थले यवकरणकयागाद् यदेवाष्टं तदेव ब्रीहिकरणकयागादपि, न तु यादृशफल जनकं यवकरणकयागप्रभवमदृष्टं तद्विजातीयफल जनक ग्रीहिकरणकनागप्रभवमदृष्टम् , तथा प्रकृतेऽपि य एवं प्रदेशो धर्मास्तिकायस्य स एव प्रदेशोऽधर्मास्तिकायस्यैवमाकाशास्तिकायादेरपि प्रसज्येतेत्यर्थः । एवं च व्यवस्थाविलयः स्यादित्याह-व्यवस्थेति । किंस्वरूपा व्यवस्थेत्यपेक्षायामाह-यो यदीय इति-यः प्रदेशो धर्मास्तिकायसम्बन्धी स धर्मास्तिकायसम्बन्ध्येव नाधर्मास्तिकायादिसम्बन्धी, एवं यः प्रदेशोऽधर्मास्तिकायसम्बन्धी सोऽधर्मास्तिकायसम्बन्ध्येव न धर्मास्तिकायादिसम्बन्धीत्येवस्वरूपा व्यवस्थेत्यर्थः । भषैतीत्यस्य विवरणम्अपगच्छतीति । तत्र हेतुमाह-धर्मास्तिकायादीति-धर्मास्तिकायप्रदेशोऽधर्मास्तिकायीय आकाशास्तिकायीय इत्येवं विकल्पनीयत्वप्रसङ्गादित्यर्थः। ननु यथैकस्मिन्नेव वस्तुनि किञ्चिदपेक्षया सत्त्वं किञ्चिदपेक्षयाऽसत्वमित्येवं सत्त्वाऽसत्त्वादिस्याहादभनना भवति तथैकस्मिन्नपि प्रदेशे धर्मास्तिकायीयत्वादिभजनोपपत्तिः स्यादित्याशङ्कय प्रतिक्षिपति-न चेति-अत्र प्रदेशगतधर्मास्तिकायीयत्वादिविमर्श । उपपत्तिः प्रदेशभजनीयत्वोपपत्तिः। सत्त्वाऽसत्त्वायमेकान्तोऽप्येकत्र वस्तुन्येकान्तः, तस्य चानेकान्तवं नयापेक्षयकान्तत्वं प्रमाणापेक्षयाऽनेकान्तत्वमिति कृत्वा, सर्वथाऽनेकान्तस्यानेकान्तस्यानेकान्तत्वे सत्त्वादेरपि सर्वथैव वस्तुनि सत्त्वासत्त्वापत्या सत्त्वादिसंवलिताऽसत्त्वादिलक्षणानकान्ततैव स्यान त्वमुकापेक्षया सत्त्वमेव मुकापेक्षया चासत्त्वमेवेत्येवमेकान्ततापीति यस्य यदपेक्षया सत्त्वं तस्य तदपेक्षयाऽसत्त्वादिकमपीत्येवं विकल्पनीयत्वमेव स्थात्, न तु यस्य यदपेक्षया सत्त्वं तस्य लदपेक्षया सत्त्वमेव, तस्य यदपेक्षयाऽसत्वं तस्य तदपेक्षयाऽसत्त्वमेवेत्येवमवधारणात्मकैकान्ताप्रवेशेन याऽनेकान्तव्यवस्था सा भज्येत, अतः सत्त्वासत्त्वादिस्याद्वादभजनाऽप्येकान्तसंवलिनाऽनेकान्तरूपतायामेवोपपन्ना नान्यथा, एवं चेकान्तासंवलितानेकान्तस्य सत्त्वादावप्यभावान तदृष्टान्तेन प्रदेशभजनीयत्वोपपत्तिरिति निषेध हेतुमुपदर्शयतिसत्रापीति-सत्त्वासत्त्वादिस्याद्वादभजनायामपीत्यर्थः । ननु यथा सत्त्वासत्त्वादिस्याद्वारे एक न्तसंवलनं तथा प्रकृतेऽपि भविष्यतीति प्रदेशभजनीयत्वोपपत्त्या व्यवस्था स्यादित्याशङ्कते-तद्वदेवेति-सत्त्वासत्त्वादिस्याद्वादभजनायामेकान्तसंवलितानेकान्ताश्रयणवदेवेत्यर्थः । अत्र प्रदेशभजनीयत्वे। स्यात्पदेनति-स्याद्धर्मास्तिकायस्य प्रदेशः' इत्यादिवाक्यघटकस्यात् पदेनेत्यर्थः । य एवं प्रदेश उद्देश्यः स एव धर्मास्तिकायसम्बन्धित्वाद् धर्मास्तिकायात्मकत्वाद् वा धर्मास्तिकाय इत्येवं विधेयः, एवं य एवं प्रदेश उद्देश्यः स एवाधर्मास्तिकायसम्बन्धित्वादधर्मास्तिकायात्मकत्वाद् वा विधेय इत्येवं स्यात्पदमनुशास्तीत्य स्मन्मतपर्यवसानमेवेति शब्दनयवादी समाधत्ते-नेति । उद्देश्यविधेयविशेषपर्यवसानेन 'स्याधर्मास्तिकायस्य प्रदेशः' इत्यत्र य उद्देश्यो यच विधेयस्तस्मादन्य उद्देश्योऽन्यश्च विधेयः स्यादधर्मास्तिकायस्य प्रदेशः' इत्यादावित्येवमुद्देश्यविधेय. विशेषपर्यवसानेनेत्यर्थः । तस्य 'स्याद्धर्मास्तिकायस्थ प्रदेशः, स्यादधर्मास्तिकायस्य प्रदेशः' इत्येवं प्रदेशभजनीयत्वस्य । बश्यमाण एव धर्मास्तिकाये प्रदेशो धर्मास्तिकायो वा प्रदेशो धर्मास्तिकाय इत्येवमनन्तरमभिधीयमान एव । तदिति मूलस्य विवरणम् - तस्मात् कारणादिति- प्रदेशभजनीयत्वे व्यवस्थापगमप्रसङ्गलक्षणकारणादित्यर्थः । ततः कोऽत्र निर्णयः स्यादित्यपेक्षायामाह-धर्म इति, अस्य विवरणम्-धर्मास्तिकाये इति-धर्मास्तिकाये प्रदेशो धर्मास्तिकाय इति सप्तमीतत्पुरुषेण निर्णयः कर्तव्यः, वा अथवा - धर्मास्तिकायश्चासौ प्रदेशो धर्मास्तिकायप्रदेश इति कर्मधारयेण निर्णयः Page #291 -------------------------------------------------------------------------- ________________ २२० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । एवम्-आदिना · अधर्मेऽधर्म इति वा प्रदेशोऽधर्मः, आकाशे आकाश इति वा प्रदेश आकाशः ' इति द्रष्टव्यम् ॥ ५९॥ जीवे स्कन्धेऽप्यनन्ते, नोशब्दाद् देशावधारणम् । इति शब्दनयः प्राह, समासद्वयशुद्धिमान् ॥ ६०॥ नयामृत०-जीव इति । जीवे स्कन्धेऽपि- अपिश्चार्थः, जीवे स्कन्धे चानन्ते नोशब्दाद् देशावधारणं कर्त्तव्यम् , जीवे जीव इति वा प्रदेशो नोजीवः, स्कन्ध इति वा प्रदेशो नोस्कन्ध इत्यभिलापः कर्तव्य इत्यर्थः, धर्मास्तिकायादेरैक्यात् तत्तत्प्रदेशस्य धर्मास्तिकायादिरूपता अनतिप्रसक्तेति तथोक्तिः, जीव-स्कन्धयोस्तु प्रतिस्वमनन्तत्वात् कथमधिकृतप्रदेशस्य सकलसन्तानात्मकत्वसम्भव इति विवक्षितप्रदेशे सकलसन्तानकदेश विवक्षितसन्तानात्मकत्वप्रतिपादनाय नोजीवत्व-नोस्कन्धत्वोक्तिरिति कर्तव्य इत्यन्वयः । धर्म इति मूलस्य विवरणम् - धर्मास्तिकाय इति- अत्र धर्मास्तिकायपदस्य प्रदेशपदेन सप्तमी. तत्पुरुषे कर्मधारये वा समासे धर्मास्तिकायप्रदेश इति भवितुमर्हति, तत्र यद् 'धर्मास्तिकाय' इत्येवाभिधीयते तेनाभिलापेन धर्मास्तिकायस्यैकत्वात् तत्सम्बन्धी तदात्मको वा प्रदेशोऽप्येक एव तद्रप इति ज्ञापयति, तथा च धर्मास्ति. कायप्रदेशस्य धर्मास्तिकायत्वेन रूपेण निर्णयः साम्प्रताख्यशन्दनये इत्याशयः । एवम् उक्तरीत्या । मादिना ‘इत्यादि' इत्यत्रादिपदेन । अधर्म इति- अधर्मास्तिकाये प्रदेशोऽधर्मास्तिकाय इति सप्तमीतत्पुरुषेण, अधर्मास्तिकायश्चासौ प्रदेशोsधर्मास्तिकाय इति कर्मधारयेण वा निर्णयः, आकाशास्तिकाये प्रदेश आकाशास्तिकाय इति सप्तमीतत्पुरुषेण, आकाशास्तिकायश्चासौ प्रदेश आकाशास्तिकाय इति कर्मधारयेण वा निर्णयः कार्य इत्यर्थः ॥ ५९ ॥ धर्मास्तिकायस्याधर्मास्तिकायस्याकाशास्तिकायस्य चैकैकव्यक्तिरूपत्वात् तत्तत्प्रदेशस्याप्येकस्य तदात्मकत्वसम्भवेन धर्मास्तिकायप्रदेशो धर्मास्तिकायः, अधर्मास्तिकायप्रदेशोऽधर्मास्तिकायः, आकाशास्तिकायप्रदेश आकाशास्तिकाय इत्येवं वदितुं शक्यम् , जीव-पुद्गलस्कन्धयोश्वानन्तत्वादेकस्य कस्यचित् तत्प्रदेशस्य विवक्षितस्य सकलजीवात्मकत्वं सकलपुद्गलस्कन्धात्म. कत्वं न सम्भवतीति जीवप्रदेशो जीव इत्येवं वदितुं न शक्यो नवा पुद्गलस्कन्धप्रदेशः पुद्गलस्कन्ध इति वक्तुं शक्यः, किन्तु जीवप्रदेशो नोजोवः स्कन्धप्रदेशो नोस्कन्ध इत्येवं वक्तव्य इत्यस्योपदर्शकं षष्टितमपद्यं विवृणोति-जीव इतीति । अपिश्चार्थ इति- 'स्कन्धेऽपि' इत्यत्र योऽयमपिशब्दः स चशब्दस्य समुच्चयरूपेऽर्थे वर्तते इत्यर्थः । अपिशब्दस्य चार्थकत्वे 'जीवे स्कन्धेऽपि' इति 'जावे स्कन्धे च' इति पर्यवसितमुङ्कितम् । कीदृशमवधारणमित्यपेक्षायामाहजीवे जीव इति वेति-जीवे प्रदेशो नोजीव इति सप्तमीतत्पुरुषेण, जीवश्चासौ प्रदेशो नोजीव इति कर्मधारयेण वाऽभिलाप: कर्तव्यः, स्कन्धप्रदेशस्यापि स्कन्धे प्रदेशो नोस्कन्ध इति सप्तमीतत्पुरुषेण, स्कन्धश्चासौ प्रदेशो नोस्कन्ध इति कर्मधारयेण वाऽभिलापः कर्तव्य इत्येवं पद्यपूर्वार्द्धस्यार्थोऽभिप्रेतार्थो ज्ञेय इत्यर्थः । “स्कन्ध इति वा" इत्यस्य स्थाने " स्कन्धे स्कन्ध इति वा" इति पाठो युक्तः। ननु धर्मास्तिकायप्रदेशादेर्धर्मास्तिकायादिशब्देनाभिलपनं जीवस्कन्ध-प्रदेशयोश्च नोजीव-नोस्कन्धशब्देनाभिलपनमित्येवमभिलापवित्र्यं कथमित्यपेक्षायामाह - धर्मास्तिकायादे. रिति- आदिपदादधर्मास्तिकाया-ऽऽकाशास्तिकाययोः परिग्रहः । अनतिप्रसका विवक्षितप्रदेशव्यतिरिक्तप्रदेश न वर्तते । इति एतस्मात् कारणात् । तथोक्तिः धर्मास्तिकायप्रदेशस्य धर्मास्तिकाय इति, अधर्मास्तिकायप्रदेशस्याधर्मास्तिकाय इति, आकाशास्तिकायप्रदेशस्याकाशास्तिकाय इत्येवमुक्तिः । प्रतिस्त्रमनन्तत्वात् जीवा अप्यनन्तसङ्खयकाः स्कन्धा अप्यनन्ता इत्येवं प्रत्येकमनन्तत्वात् । कथमिति- एकस्य जीवात्मकसन्तानस्य यः प्रदेशस्तस्य तज्जीवात्मकत्वमेव नान्य. जीवात्मकत्वमिति न विवक्षितैकजीवप्रदेशस्य सकल नीवसन्तानात्मकत्वसम्भवः, एवमेकपुद्गलस्कन्धस्य यः प्रदेशः स तत्पु. द्लस्कन्धात्मक एवेति न तस्य सकलपुद्गलस्कन्धात्मकत्वसम्भव इत्येतस्मात् कारणात् 'जीवप्रदेशो जीवः' इत्युक्तिने सम्भवति, एवं 'स्कन्धप्रदेशः स्कन्धः' इत्युक्तिर्न सम्भवति, किन्तु विवक्षितो य एकजीवसन्तानस्य प्रदेशस्तस्मिन् सकलजोवसन्तानस्यैकदेशो यो विवक्षितैकजीव मकसन्तानस्तदालकत्वप्रतिपादनाय नो नीव इत्युक्तिः, एवं विवक्षितो य एकपुद्गलस्कन्धस्य प्रदेशस्तस्मिन् सकलपुद्गलस्कन्धानामेकदेश एकपुद्गलस्कन्धस्तदात्मकत्वस्य प्रतिपादनाय नोस्कन्ध इत्येव. Page #292 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । २२१ ध्येयम्, इति-एवं समासद्वयशुद्धिमान् शब्दनयः प्राह, न चैवं धर्मे धर्मो वा प्रदेशो नोद्रव्यमित्यपि स्यादनिर्धारितसामान्यैकव्यक्तिविधेयतायामेव नोशब्दप्रयोगात्, धर्मास्तिकायाद्यकव्यक्तनिर्धारिताया एव विधेयत्वादिति ध्येयम् ॥ ६ ॥ ब्रूते समभिरूढस्तु, भेदाप्तेर्नात्र सप्तमी। देश-प्रदेशनिर्मुक्तमेवम्भूतस्य वस्तु सत् ॥ ६१ ॥ नयामृत०-ब्रूत इति । समभिरूढनयस्तु 'धर्मे प्रदेशः' इत्यादिसप्तमीसमासं [ न ] ब्रते, तथाप्रयोगे ‘कुण्डे बदरम्' इत्यादेरिव भेदाप्तेः- भेदबुद्धिप्रसङ्गात् , ' घटे घटस्वरूपम् ' इत्यादी कचिदभेदे सप्तमीप्रयोगेऽप्यभेदप्रकारकबोधार्थ कर्मधारयस्यैवावश्याश्रयणीयत्वात् ; तत्पुरुषे पदलक्षणा. सत्त्वात् कर्मधारये चाभेदस्य संसर्गविधयैव लाभात् तदभावेन लाघवादेव कर्मधारयपक्षः समभिरूढ. नयेनाश्रीयत इत्यपरे । मुक्तिरिति निर्गलितोऽर्थः। इतीति मूलस्य विवरणम्-एवमिति - अमुना प्रकारेणेत्यर्थः । समासद्वयशद्धिमान सप्तमीतत्पुरुष-कर्मधारयलक्षणसमासद्वयमाश्रित्य धर्मास्तिकायप्रदेशादिशब्दार्थाभ्युपगन्तृत्वलक्षणा या शुद्धिस्तद्वान् । नन्वेवं सकलद्रव्येकदेशविवक्षितधर्मास्तिका यात्मकद्रव्यात्मकत्वस्य धर्मास्तिकायप्रदेशे प्रतिपादनाय धर्मास्तिकाये प्रदेशे नोद्रव्यमिति सप्तमीतत्पुरुषेण धर्मास्तिकायश्चासौ प्रदेशो नोद्रव्यमिति कर्मधारयेण वाऽभिलापोऽपि कर्तव्यकुक्षिमास्कन्देदित्याशय प्रतिक्षिपति-न 'चैवमिति । धर्म धर्मास्तिकाये। धर्मो वा धर्मास्तिकायो वा। निषेधहेतुमुपदर्शयतिभनिर्धारितेति- 'जीवे प्रदेशो जीवो वा प्रदेशः' इत्यत्र 'स्कन्धे प्रदेशः स्कन्धो वा प्रदेशः' इत्यत्र च जीव मान्यस्य वा यकव्यक्तिः, अनिर्धारिताया एव तस्या विधयताया, न त्वस्मिन् जोवे प्रदेशोऽयं जीवः प्रदेश इत्येवं निर्धारितामा जीवव्यक्तर्विधेयता, नवास्मिन् स्कन्धे प्रदेशोऽयं स्कन्धः प्रदेश इत्येवं निर्धारिताया स्कन्धव्यकेर्विधेयतेति तस्यामेवानिर्धारितसामान्यकव्यक्तिविधेयतायां सत्यां नोजीयो नोस्कन्ध इत्येवं नोशब्दप्रयोगादित्यर्थः । धर्मास्तिकायेति- धर्मास्तिकाये प्रदेशो धर्मास्तिकायो वा प्रदेश इत्यादौ तु द्रव्यसामान्यस्य या धर्मास्तिकायादिलक्षणैकव्यक्तिस्तस्या निर्धारिताया एव विधेयता, न तु द्रव्यसामान्यवाचिद्रव्यशब्देन तस्या उपादानं येनानिर्धारितायास्तस्य विधेयता स्यादिति निर्धारितसामान्यैकव्यक्तिविधेयत्वादेव नोद्रव्यमित्येवं न तत्र नोशब्दप्रयोग इत्यर्थः ॥ ६॥ प्रदेशविषये समभिरूलै सम्भूतयोर्मन्तव्योपदर्शकमेकषष्टितमपद्यं विवृणोति- ब्रत इतीति। 'धर्म प्रदेश इत्यादि। इत्यत्रादिपदाद 'अधर्म प्रदेशः, आकाशे प्रदेशः, जीवे प्रदेशः, स्कन्धे प्रदेशः' इत्यस्य सङ्ग्रहः । कथं सप्तमीतत्पुरूषसमासं प्रकृते समभिरूढनयो नाभ्युपगच्छतीत्यपेक्षायामाह- तथा प्रयोग इति-धर्मे प्रदेश इत्यादिप्रयोग इत्यर्थः । कुण्डे बदरमित्यादेरिवेति- कुण्डे बदरमिति सप्तम्यन्तकुण्डपदसमभिव्याहृतबदरपदाद् यथा बदरे कुण्डभेदबुद्धिस्तथेत्यर्थः। भेदाप्तेरिति मूलस्य विवरणम्- भेदबुद्धिप्रसङ्गादिति- प्रदेशे धर्मास्तिकायादेमेंदबुद्धिप्रसङ्गादित्यर्थः । सप्तमीतत्पुरुषे कर्मधारये वाऽभ्युपगच्छति भवान् प्रदेशे धर्मास्तिकायादेरभेदमेवेति तद्भङ्गः स्यादिति साम्प्रतनयं प्रति समभिरूढनयस्याक्षेपः, यद्यप्यभेदेऽपि सप्तमीप्रयोगो भवति यथा घटे घटवरूपमित्यादौ नहि घटखरूपं घटाद् भिन्नमिति तथापि तत्र संसर्गतयैवाभेदो भासते न प्रकारतयेति प्रकारतयाऽभेदभानार्थ कर्मधारयसमास एवाश्रयणीय इत्याह- 'घटे घटस्वरूपम्' इत्यादाविति। धर्मास्तिकाये प्रदेशो धर्मास्तिकायप्रदेश इति सप्तमीतत्पुरुषस्य धर्मास्तिकायश्चासौ प्रदेशो धर्मास्तिकायप्रदेश इति कर्मधारयस्य च विग्रहवाक्यत्वस्वरूपे भेदेऽपि समस्तस्वरूप भेदाभावात् तयोरर्थभेदप्रतिपत्तये तत्पुरुषे पूर्वपदस्य खशक्यार्थसम्बन्धिनि लक्षणा, कर्मधारये तु पूर्वपदशक्यार्थस्याभेदसम्बन्धेनैवोत्तरपदार्थेऽन्वय इति तत्र लक्षणाऽभावेन लाघवात् कर्मधारय एवं समभिरूढनयेनाभ्युपेयत इति केषाश्चिन्मतमुग्दर्शयति-तत्पुरुषे इति । 'पद लक्षणासत्त्वात्' इत्यस्य स्थाने 'पूर्वपदलक्षणासत्त्वात् ' इति पाठो युक्तः। तदभावेन लक्षणाया अभावेन । 'लाघवादेव' इत्येवकारेणाभेदप्रकारकबोधार्थ कर्मधारयसमासाश्रयणस्य पूर्वमुक्तस्य व्यवच्छेदः, नामार्थयोरभेदसम्बन्धे. Page #293 -------------------------------------------------------------------------- ________________ २२२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः। %3D एतन्मूलकमेव निषादस्थपत्यधिकरणं मीमांसायां प्रवृत्तेः( त्तम् ), तथाहि-" निषादस्वपति याजयेत्” इत्यत्र निषादानां स्थपतिरिति न षष्ठीसमासः, किन्तु निषादश्चासौ स्थपतिरिति कर्मधारयो लाघवात्, न चाध्ययनाभावादनधिकारो निषादस्य, एतद्विधिबलादेवैतदिष्टौ यावदपेक्षितपठनानुझानात्, यथा-' वर्षासु रथकारोऽमीनादधीत ' इत्यत्र चापशूद्राधिकरणविरोधः, तस्यैतदतिरिक्तविषयत्वात् ; न चैवं " स्त्री-शूद्रौ नाधीयेताम्" इत्यत्र निषादीयतत्तदध्ययनविध्यर्थनिषेधवाधादध्ययमपदे निषादीयतत्तद. ध्ययनपरतया सङ्कोचः कल्प्यत इति शूद्रपदे एव निषादेतरशूदपरतया सङ्कोचः किमिति न कल्प्यत नैवान्वय इति नियमात् कर्मधारयेऽपि नाभेदप्रकारको बोधः किन्त्वभेदसंसर्गक एव, सप्तमीतत्पुरुषेऽपि अभेदसंसर्गक एव बोधः, किन्तु कर्मधारये न लक्षणा तत्पुरुषे तु पूर्वपदे लक्षणेति लाघवात् कर्मधारयसमासाश्रयणमित्याशयः। पतन्मूलकमेव तत्पुरुषे पूर्वपदलक्षणासत्त्वात् तदपेक्षया लक्षणाऽभावतो लाघवात् कर्मधारयाश्रयणमिति समभिरूढनयमूलकमेव । पूर्वमीमांसागतं निषादस्थपत्यधिकरणविचारमुपदर्शयति-तथाहीति । षष्ठीसमासः षष्ठीतत्पुरुषसमासः । लाघवात् षष्ठीतत्पुरुषे पूर्वपदे लक्षणा कर्मधारये न सेत्येवं लाघवात् । ननु “न स्त्रीशद्रो वेदमघोयाताम्" इति श्रुत्या सकरजातिविशेषस्य निषादस्य शूदजात्यन्त्यन्तर्गतस्य वेदाध्ययननिषेधाद् यागो ग्युक्तमन्त्रपठनानधिकारित्वेन न यागाधिकार इति निषादाभिन्नस्थपर्याजनान्वयासम्भवान कर्मधारयस्तत्राश्रयणीयः, किन्तु निषादस्वामिनः क्षत्रियस्य याजनान्वयसम्भवेन षष्ठीतत्पुरुष एव समाश्रयणीय इत्याशय प्रतिक्षिपति- न चेति । अध्ययनाभावात् वेदाध्ययना सम्भवात् । अनधिकारः यागकरणेऽयोग्यता । निषादस्य निषादाभिन्नस्थपतेः । निषेधे हेतुमाह-पतद्विधिवला. देवेति-'निषादस्थपति याजयेत्' इति बलादेवेसर्थः । एतदिष्टौ यावदपेक्षितपठनानुज्ञानात् निषादस्थपतिकर्नुकयागे यद् यन्मन्त्रपठनं तद् यागकर्तुनिषादस्यावश्यक तन्मन्त्रपठनस्य निषादकर्तृकस्यानुमतत्वात् । यश्च शुदविशेषकर्तृको यागस्तत्र तदुपयुक्तमन्त्राध्ययनस्य तत्कशूदकर्तृकस्यानुमतत्वे दृष्टान्तमाह- यथेति- तथा च वर्षासमये शूदविशेषस्थकारकर्तृकाग्न्याधानकर्माङ्गमन्त्रपठनं शूदस्यापि रथकारस्य यथाऽनुमतं तथा प्रकृते निषादस्यापि तत्कर्तृकयागोपयुक्तमन्त्राध्ययनमनुमतमित्यर्थः । शूदस्य यागानधिकारप्रति पदकापशूदाधिकरणविरोधमाशय प्रतिक्षिपति-न चेति। निषेधे हेतुमाहतस्येति- अपशूदाधिकरणस्येत्यर्थः । एतदतिरिक्तति- वेदविहितनिषादादिकर्तृकयागव्यतिरिक्तेयर्थः । ननु 'खोशूदौ नाघीयताम्' इत्यत्र निषादकर्तृकयागोपयुक्तमन्त्रातिरिकवेदाध्ययनपरमध्ययनपदमित्येवमध्ययनपदस्य सङ्कचितार्थकत्वं यदाधीयते तदपेक्षया लाघववाच्छूद्रपदस्यैव निषादातिरिक्तशूद्रपदत्वं किमिति नोपयत इति शूदपदस्यैव सङ्कचितार्थत्वमस्त्विति तटस्थाशवं प्रतिक्षिपति-न चैवमिति-अस्य 'शङ्कनीयम्' इत्यनेनान्वयः । एवं सङ्कोचस्यावश्यकर्तव्यत्वे सति । निषादीयेति'निषादीयतत्तदध्ययनपरतया' इत्यस्य स्थाने 'निषादीयतत्ताध्ययनातिरिकाध्ययनपरतया" इति पाठो युक्तः, तथा च 'निषादस्थपति याजयेद्' इत्यतः प्राप्तो यो निषादकर्तृकयागोपयोगिमन्त्रस्य निषादकर्तृकाध्ययनल क्षणविध्यर्थस्तस्य 'स्त्री-शूद्रौ नाधीयताम् ' इत्यनेन यो निषेधस्तस्य बाधात् निषादकर्तृकयागोपयोगिमन्त्राध्ययने निषादरूपशूदकर्तृकत्वस्याभावेन तत्र तदभावस्यासम्भव त् , अध्ययनपदे "स्त्री-शूद्रौ नाधीयेताम्' इत्यत्राध्ययनार्थकं यत् पदं तस्मिम् , निषादीयं- यन्निषादकर्तृकयागोपयोगिमन्त्राध्ययनं तदतिरिक्तवेदाध्ययनपरतयेत्यर्थः । शद्रपदे एव 'स्त्रीशूद्रौ' इत्येतङ्कटकशदपद एव । निषेधे हेतुमाह-निषादस्येति- शूद्रपदेन निषादातिरिक्तशूदस्व ग्रहणे तस्यैव वेदमात्राध्ययनं निषिद्धं न तु निषादजातीयशूद्रस्येति निषादस्य निषादकर्तृकयागोपयोगिमन्त्राध्ययनस्येव तादृशयागानुपयोगिवेदवचनाध्ययनस्यापि प्रसाः 'स्वाध्यायोऽध्येतव्यः' इत्यध्पयनविधेस्तं प्रत्यप्यबाधितप्रसरत्वादित्यर्थः । यदि च प्रकारविधयाऽभेदस्य बोधार्थमेव कर्मधारयाश्रयणं न लाघवात् तर्हि समासघटकस्याभेदवावकपदस्याभावात् कर्मधारयेऽपि पूर्वपदे लक्षणाऽऽवश्यकी, एवं च निषादस्थपति याजयदित्यत्र निषादश्चासौ स्थपतिरिति कर्मधारयाश्रयणे निषादाभिन्नस्थपतिकर्तृकयागान्यथानु पत्त्या तस्याप्राप्तविद्याप्रयुक्तिः कल्पनीया स्यात्, निषादानां स्थपतिरिति तत्पुरुषाश्रयणे तु ब्राह्मणादित्रैवर्णिकोऽपि निषादस्थपतिपदबोध्य इति नाप्राप्तविद्याप्रयुक्ति कल्पनम् , तदनुरोधेन स्नोशूदौ नाधोयेतामित्यत्राध्ययनपदस्य निषादीयाध्ययनातिरिसाध्ययनपरतया सङ्कोचोऽपि न कर्तव्य इति तत्पुरुषसमास एवाश्रयणीयः स्यादिति निषादस्थपत्यधिकरणाप्रवृत्तिप्रसा Page #294 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । २२३ इति नीयम्, निषादस्य वेदान्तराध्ययनप्रसङ्गात् । यदि च तत्पुरुषवत् कर्मधारयेऽपि स्यात् तदा पीसमास एव युज्येत, त्रैवर्णिकस्यैव निषादस्थपतितया बोधनेनाप्राप्त विद्याप्रयुक्तेर कल्पना निषेधविधौ सङ्कोचाभावादिति । अत्र शब्दनयानुसारिणो नव्याः- तत्पुरुषे लक्षणापक्षेऽपि किमिति कर्मधारय एवाद्रियते, न तत्पुरुषः, शक्ति-लक्षणयोरुभयोरपि शाब्दबोधप्रयोजकतायाः क्लृप्तत्वेन गौरवानवकाशात्, अथ शक्यसम्बन्धरूपलक्षणाज्ञाने विशेषणज्ञानविधया हेतोः शक्तिज्ञानादेव शाब्दबोधोपपत्तेर्न लक्षणाज्ञानहेतुः कल्प्यते, गौरवादिति चेत् ? भवेदेवं यदि षष्ठीसमासेनापि कस्यचिद् बोधो न स्यात्, न चैवम्, तादृशबोधसहस्रस्याप्यनुभवसिद्धत्वादिति यदि च साक्षात्परम्परा साधारण सम्बन्धेन शक्तिज्ञानमेव शाब्दबोध सामान्ये हेतुरिति सूक्ष्ममीक्ष्यते, तदा न शक्तिविषयकत्वापेक्षया लक्षणाविषयकत्वे गौरवमुद्भावयितुमपि शक्यम्, सम्बन्धगौरवस्यादोषत्वात् । अथासति विशेषतो बाधके स्वशक्यार्थविधयैव इत्याशयेनाह - यदि चेति । 'कर्मधारयेऽपि स्यात्' इत्यस्य स्थाने 'कर्मधारयेऽपि लक्षणा स्यात्' इति पाठो युक्तः । षष्ठीसमास पत्र निषादानां स्थपतिर्निषादस्थपतिरिति षष्ठीतत्पुरुषसमास एव । तस्य युकत्वे हेतुमाहत्रैवर्णिकस्यैवेति- ब्राह्मण क्षत्रिय-वैश्यजातीयान्यतमस्यैवेत्यर्थः । अप्राप्तविद्याप्रयुक्तेः सङ्करजातीयत्वेन शूद्रे निषादे तस्कर्तृकयागोपयोगि मन्त्राध्ययनं लक्षणविद्याया वेदवचनादिप्रमाणान्तराप्राप्तस्य सम्बन्धस्य 1 अकल्पनात् निषादकर्तृकयागान्यथानुपपत्त्या यत् कल्पनं तस्याभावात् । तथा च निषेधविधौ स्त्रीशूद्रौ नाधीयेतामित्यत्र । सङ्कोचाभावात् अध्ययनपदस्य निषादकर्तृकयागो ग्युक्तमन्त्राध्ययनातिरिक्ताध्ययनपरत्वाभावात् । अस्मिन् विचारे महोपाध्यायो ग्रन्थकारः समभिरूढनयवादिनं प्रति प्रतिमहतयोपस्थितानां नव्यानां साम्प्रतनयानुसारिणामाकूतमुद्घाटयति- भत्रेति । ' तत्पुरुषे लक्षणापक्षेऽपि' इत्यारभ्य पक्षपातमात्रमेवेति दिकू' इत्यन्तं तदाशयप्रकटनम् । विशेषणज्ञानविषयेति - विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणत्वमिति शक्यसम्बन्धरूपलक्षणाज्ञानं शक्तिविषय सम्बन्धज्ञानम्, तत्र विषये शक्तेर्विशेषणत्वेन शक्तिविशिष्टबुद्धिरूपं तत् अतस्तत्र विशेषणोभूतायाः शक्तेर्ज्ञानस्य हेतुत्वमिति लक्षणाज्ञानस्य शाब्दबोधहेतुत्वेऽपि तद्वारा शक्तिज्ञानस्य हेतुत्वमावश्यकमेव, तथा च निषादश्चासौ स्थपतिरिति कर्मधारयाश्रयणे निषादाभिन्नस्थपतिविषय कशाब्दबोधस्य लक्षणाज्ञानमन्तरेणैवोपपत्तिरिति लाघवम्, निषादानां स्थपतिरिति षष्ठीतत्पुरुषाश्रयणे तु निषादपदस्य निषादसम्बन्धिस्थपतिबोधार्थ निषाद सम्बन्धिनि लक्ष गाssवश्यकीति तज्ज्ञानं शक्तिज्ञानं चौकशाब्दबोधहेतुतया कल्पनीयमिति कर्मधारयपक्षो लाघवादाश्रयणीय इति शङ्कार्थः, 'लक्षणाज्ञानहेतुः ' इत्यस्य स्थाने 'लक्षणाज्ञानं शाब्दबोधे हेतुः' इति पाठो युक्तः । यस्य प्रमातुर्निषादानां स्थपतिरिति षष्ठीतत्पुरुषसमासरूपतयैव तच्छन्दा. वधारणं तस्य प्रमातृसहस्रस्य निषाद सम्बन्धि धरतिबोधस्य, प्यनुभवसिद्धस्यापलपितुमशक्यतया तदर्थ लक्षणाज्ञानस्यापि तत्र शाब्दबोधहेतुत्वकल्पन मावश्यकमेवेति समाधत्ते - भवेदेवमिति - लक्षणाज्ञाने विशेषणज्ञानविषया कारणतया क्लृप्तस्य शक्तिज्ञानस्यैव शाब्दबोधहेतुत्वं न तु लक्षणाज्ञानस्येति तदा स्यादित्यर्थः । न चैवमिति षष्ठीसमासेन कस्यचित् प्रमातुर्बोधो न भवत्येवेति न चेत्यर्थः । तादृशत्रोध सहस्त्रस्यापि षष्ठीतत्पुरुष समासतयाऽवधारितवाक्यप्रभवशाब्दबोध सहस्रस्यापि यक्षणिकार्थविषयकस्य । तत्पुरुषे पूर्वग्दस्य शक्यसम्बन्धरूपलचणाज्ञानस्य लक्ष्यार्थोपस्थितिद्वारा शाब्दबोधं प्रति कारणत्वकल्पने यद् गौरवं तदपि वास्तीत्याह यदि बेति- शक्यार्थोपस्थितिद्वारा शक्तिज्ञानस्य यत्र कारणत्वं तत्र साक्षाद्विषयतासम्बन्धेन शक्तिप्रकारकज्ञानस्य कारणत्वम्, यत्र च लक्ष्यार्थोपस्थितिद्वारा शक्तिज्ञानस्य यत्र कारणत्वं तत्र स्वविषयसम्बन्धित्वलक्षणपरम्परासम्बन्धेन शक्तिप्रकारकज्ञावस्य कारणत्वमित्येवं पृथक् कार्यकारणभावो नाङ्गीक्रियते, किन्तु साक्षात्परम्परासाधारण सम्बन्धसामान्येन शक्तिप्रकारकज्ञानत्वेन शक्तिज्ञानस्योपस्थितिसामान्यद्वारैकविधमेव शाब्दबोधं प्रति कारणत्वं स्वीक्रियते, एवं च प्रकारविधया शक्तिविषयकत्वमेव कारणतावच्छेदकं न तु लक्षगाविषयत्वमपि शक्तिलक्षणो भयसाधारणान्यतरत्वादिना सम्बन्धविषयकत्वस्य तत्र कारणतावच्छेदकत्वेऽपि तत्कृतगौरवस्य न दोषावहत्वमिति तत्पुरुषसमासोऽप्याश्रयितुं शक्य इत्यर्थः । Page #295 -------------------------------------------------------------------------- ________________ २३४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । वेदानां प्रामाण्यम्, न तु प्रामाणान्तराविषयेऽपि, लक्षणार्थविधयैवानादिमीमांसासंप्रतिपत्तेरित्युच्यते तीसति विशेषतो बाधके कर्मधारयविधयैव वेदानां प्रामाण्यम् , न तु प्रमाणान्तराविषयेऽपि तत्पुरुपादिविधया, तथैवानादिमीमांसासंप्रतिपत्तरित्येव कल्पयित्वा किमिति न स्वचेतः सन्तोषयसि ? बहुव्रीहितस्तत्पुरुषस्य बलत्वे त्वयाप्यस्या एव रीतेरनुसतव्यत्वात् , न च बहुव्रीहेः सर्वपदार्थानां लाक्षणिकत्वादेव दौर्बल्यम् , एकपदलक्षणयापि बहुव्रीहेस्तत्र तत्रापादितत्वादिति पक्षपातमात्रमेवेति दिक् । एवम्भूतस्य नयस्य मते देश-प्रदेशनिर्मुक्तं- देश-प्रदेशकल्पनारहितमखण्डमेव वस्तु सत्, देशप्रदेशकल्पना तु भ्रममात्रमिति तन्मते नास्त्येव प्रदेश इत्यर्थः। न च विन्ध्यहिमवदादिभावाभावावच्छेदकतया आकाशादिदेशसिद्धिः, परेण समं सम्बन्धस्यैव तेनानभ्युपगमात् । व्यवहारस्तु कल्पितेनापि वस्तुना निर्वहतीति न ततः परमार्थसिद्धिरिति भावः ॥ ६१ ॥ अत्र समभिरूढनयाकूतमुत्प्रेक्ष्य शब्दनयानुसारिणो दूषयन्ति-अथेति । न तु प्रमाणान्तराविषयेऽपीति- प्रमाणान्तरविषये शब्दानामनुवादकत्वादेव न प्रामाण्यमित्यतः प्रमाणान्तराविषयेऽपीत्युक्तम् , एवमग्रेऽपि । 'लक्षणार्थविध इत्यस्य स्थाने 'लक्ष्यार्थविधया, तथैवा' इति पाठो युक्तः, तथा च प्रमाणान्तराविषयेऽथें स्वशक्यार्थप्रतिपादकत्वेनैव वेदानां प्रामाण्यम् , प्रमाणान्तराविषयेऽप्यर्थे लक्ष्यार्थप्रतिपादकत्वेन वेदानां न तु प्रामाण्यमित्यर्थः। कथं न तथा प्रामाण्यमित्यपेक्षायामाह-तथैवेति- उत्तप्रकारेणेवैत्यर्थः । अनादिमीमालासंप्रतिपत्तेः अनादिवृद्धाप्तपरम्परोपनीतप्रमाणपरिशोधितयुक्तिसिद्धाभ्युपगमात् । कर्मधारयविषयैव कर्मधारयसमासरूपत्वेनैव । वेदानां समासस्वरूपवेदवाक्या. नाम् , तेन समासानात्मकवेदवाक्यानां कर्मधारयानात्मकत्वेनान्यथैव प्रामाण्येऽपि न क्षतिः । न तु प्रमाणान्तराविषयेऽपि तत्पुरुषादिविधया' इत्येकं वाक्यम् , तथा च समासात्मकवेदवाक्यानां प्रमाणान्तराविषयेऽप्यथें कर्मधारयातिरिक्ततत्पुरुषादिसमासात्मकत्वेन न तु प्रामाण्यमित्यर्थः । इयं रीतिस्त्वयाऽप्याश्रयणीयैत्र, कथमन्यथा तत्पुरुष-बहुव्रीहिसमासयोक्षिणिकपदघटितत्वाविशेषेऽप्यसति बाधके तयोरुभयोरपि सम्भवे तत्पुरुषसमासात्मकत्वेन वाक्यस्य प्रापाण्यं न तु बहुव्रीहिसमासात्मकत्वेनेत्यभ्युपगमस्तवापि स्यादित्याह- बहुव्रीहित इति । 'बलत्वे' इति स्थाने 'बलवत्त्वे' इति पाठो युक्तः । ननु बहुव्रीहौ सर्वपदानां लक्षणा, तत्पुरुषे त्वेकस्यैव पूर्वपदस्य लक्षणेति तत्पुरुषापेक्षया बहुव्रीहेदौर्बल्यमित्याश प्रतिक्षिपति-न चेति । निषेधे हेतुमाह- एकपदलक्षणयाऽपीति । - प्रस्तुतविषये एवम्भूतनयाभिमतप्रतिपादकमुत्तरार्द्ध विवृणोति- एवम्भूतस्येति । 'नयस्य मते' इति पूरणम् । देश-प्रदेशनिर्मुक्तमिति मूलस्य विवरणम्-देश-प्रदेशकल्पनारहितमिति, अस्य फलितकथनम्- अखण्डमेवेति । यद्यखण्डमेव वस्तु सत् तर्हि तत्र देश-प्रदेशप्रतीतेरनुभूयमानाया अपलाप: स्यादित्यत आह-देश-प्रदेशकल्पना विति-तथा च तत्र देश-प्रदेशप्रतीतिरनुभूयमाना न नाम नास्ति, किन्तु सा भ्रमरूपत्वान्न देश-प्रदेशसाधिकेति । तन्मते एवम्भूतनयमते । ननु यद्या माशादेवस्तुनो देश-प्रदेशौ न ससस्तहि कथमेकस्मिन्नेवाकाशे विरुद्धयोहिमवत्-तदभावयोर्विन्ध्य तदभावयोः सत्त्वम् , देशसद्भावे त्वेकदेशावच्छेदेन विन्ध्यसद्भावो हिमाचलाभावश्च तदन्यदेशावच्छेदेन हिमाचलसद्भावो विन्ध्याचलाभावश्चेत्येकत्राप्याकाशे देशरूपावच्छेदकभेदेन विन्ध्य-तदभावयोहिम-तदभावयोः सत्त्वोपपत्ति रित्यवच्छेदकनयाऽऽकाशादिदेश कल्पनमावश्यकमित्याशङ्कां प्रतिक्षिपति-न चेति । निषेधे हेतुमाह-परेणेति- सर्व वस्तु खस्मिन्नेव प्रतिष्ठितं न त्वस्मिन्नन्यस्य सत्त्वम् , आधाराधेयभावश्च सम्बन्धे सति भवति, अन्यस्य त्वन्येन समं सम्बन्ध एव नास्ति, तथा च गगनेन समं विन्ध्यादेः सम्बन्धाभावाद् गगनादौ विन्ध्य-तदभावौ वर्तेते इत्येव नेष्यते, कुतस्तदवच्छेदकतया देशसिद्धिरिति भावः । तेन एवम्भूतनयेन। ननु यद्याकाशादावन्यस्मिन्न विन्ध्यादिः समस्ति तर्हि 'दक्षिणस्यां दिश्याकाशे विन्ध्याद्रिवर्तते, उत्तरस्यां दिशि गगने हिमाचलो वर्तते' इत्येवं विभिन्नदेशावच्छेदेन विन्ध्यादिमत्त्वव्यवहारो न निर्वहेदित्यत आह-व्यवहारस्त्विति । वस्तुना देश-प्रदेशादिमदाकाशादिवस्तुना। ततः व्यवहारतः ॥१॥ Page #296 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । विवेचितः प्रदेशदृष्टान्तः प्रस्थकदृष्टान्तं विवेचयति प्रस्थकार्थमित्यादिना - प्रस्थकार्थं व्रजामीति, वने गच्छन् ब्रवीति यत् । आदिमो ह्युपचारोऽसौ नैगम-व्यवहारयोः ॥ ६२ ॥ नयामृत०-! - प्रस्थ कार्थमित्यादि । प्रस्थक :- मगधदेशप्रसिद्धो धान्यमान हेतुर्द्रव्यविशेषः, तदर्थ व्रजामीति वने गच्छन् यद् ब्रवीति कश्चित् असौ नैगम-व्यवहारयोः, हि-निश्चितम् आदिम उपचारः ॥ ६२ ॥ नन्वत्र प्रस्थकार्थं वने गच्छतः प्रस्थकेच्छाया मुख्यार्थस्याबाधितत्वात् कथं प्रस्थकपदस्योपचार इत्यत आह- २२५ अत्र प्रस्थकशब्देन, क्रियाविष्टवनैकधीः । प्रस्थकेऽहं व्रजामीति, ह्युपचारोऽपि च स्फुटः ॥ ६३ ॥ नयामृत० - अत्रेति । अत्र - अधिकृतप्रयोगे, केत्यधिकारणाकाङ्क्षायाः प्रस्थकार्थमिति चतुर्थी - प्रकृत्यर्थेनैव निवृत्तेः, प्रस्थ[क] दलयोग्य वृक्षप्राप्तिरूपक्रियाविष्टवनस्य, एका अद्वितीया धीरिति तत्रोपचार आवश्यक इत्यर्थः । ननु तथापि सप्तम्यन्तप्रश्ने सप्तम्यन्तमेवोत्तरमुचितमित्यत आह 'क्व भवान् गच्छति' इति प्रश्ने प्रस्थकेऽहं व्रजामीति, सप्तम्यन्तप्रस्थकपदस्योपचारोऽपि वने स्फुट एव दृश्यत इत्यर्थः, तथा च वनगमने प्रस्थकशब्देन वनाभिधानं नैगम-व्यवहारयोः प्रथम उपचार इति सिद्धम् ॥ ६३ ॥ छिन प्रस्थकं तक्ष्णोम्युत्किराम्युल्लिखामि च । करोमि चेति तदनुपचाराः शुद्धताभृतः ॥ ६४ ॥ द्वाषष्टितमपद्यमवतारयति - विवेचित इति । प्रस्थकदृष्टान्ते नैगमव्यवहाराभ्युपगमविशेषप्रतिपादकं द्वाषष्टितमपर्यं विद्रुणोति- प्रस्थकार्थमित्यादीति । तदर्थे धान्यमानहेतुद्रव्यविशेषार्थम् । असौ प्रस्थकार्थ व्रजामीति वचनम् । अन्यत् स्पष्टम् ॥ ६२ ॥ त्रिषष्टितमपद्यमवतारयति - नन्विति । अत्र प्रस्थकार्थं व्रजामीत्युक्तौ । मुख्यार्थस्य प्रस्थकार्थमित्यनेन शक्तया प्रतिपाद्यस्यार्थस्य । विवृणोति - अत्रेतीति । अत्रेति मूलस्य विवरणम् - अधिकृतप्रयोग इति - प्रस्थकार्थं व्रजामीति प्रयोगे इति तदर्थः, अत्र घटकत्वं सप्तम्यर्थः, तस्य ' प्रस्थकार्थम् ' इत्यत्रान्वयः । क्केत्यधिकरणाकाङ्गायाः क्व व्रजति भवानिति पृच्छता परेण स्वगताधिकरणाका लाऽऽविष्कृता तस्याः अस्य ' निवृत्तेः' इत्यनेनान्वयः, किं व्रजति भवानित्येवं व्रजनविषयका काङ्क्षाया अभावेन तनिवर्तनस्यानुद्देश्यत्वाद् व्रजामीत्यनेन नाधिकरणाकाङ्क्षाया निवृत्तिरिति प्रस्थकार्थमिति चतुर्थीप्रकृत्यर्थेनैवोक्ताकाङ्क्षाया निवृत्तेः, आकाङ्क्षाया निवृत्तिश्च स्वविषयनिर्णयात्मकस्वविषयसिद्धयैव सम्भवति नान्यथेति गमनाधिकरणविशेषप्रतिपत्तिरेव प्रस्थकार्थमित्यनेन जन्याऽभिमता सा च प्रतिपत्तिर्धान्यमान हेतु द्रव्यविशेषात्मक. प्रस्थकदल योग्य वृक्षप्राप्तिरूप क्रियाविष्टवनगोचरेति तादृशवनरूपार्थाधिकरणे प्रस्थकपदस्योपचार आवश्यक इत्याह- प्रस्थ क दलेति । उत्तरार्द्ध व्याख्यातुमवतारयति - नन्विति । तथाऽपि उपचारस्यावश्यकत्वेऽपि । सप्तम्यन्तप्रने व भवान् व्रजतीति प्रश्न । सप्तम्यन्तमेवोत्तरं प्रस्थकार्थमित्यस्य स्थाने ' प्रस्थके' इति सप्तम्यन्तप्रस्थकपदघटितमेवोत्तरवाक्यम् । आह- प्रस्थ केऽहमित्याद्युत्तरार्द्धमाह । उत्तरार्द्धार्थ स्पष्टयति- क्व भवानित्यादि । फलितमाह तथा चेति ॥६३॥ २९ Page #297 -------------------------------------------------------------------------- ________________ २२६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । नयामृत-छिननीति । किं भवान् छिनत्तीति प्रश्ने प्रस्थकं छिनमीत्युत्तरे प्रस्थकपदस्य छेदयोग्ये काष्ठे उपचारः, स पूर्वस्मात् शुद्धः; एवं क्रमेण किं भवान् सक्ष्योति १ उत्किरति २ उल्लिखति ३ करोतीति ४ प्रश्भेषु प्रस्थकं तक्ष्णोमि १ उत्किरामि २ उल्लिखामि ३ करोमीत्युत्तरेषु ४ प्रस्थकपदस्य तक्षणादिक्रियायोग्यकाष्ठेषूपचारा यथोत्तरं भवन्तः क्रमेण शुद्धताभृतो भवन्ति । ननु सर्वत्र प्रस्थकपदस्य प्रस्थकयोग्यकाष्ठ एक एवोपचारस्तत्तक्रियाविशेषितार्थधीश्च तत्चक्रियावाचकपदसमभिव्याहारादेव भविव्यतीति कथमेतावन्त उपचारा यथाक्रमं शुद्धा उच्यन्ते इति चेत् ? सत्यम्-'दुग्धमायुर्दध्यायुघृतमायुः, इत्यादौ दुग्धादिकारणे आयुःकार्योपचारस्यातिशयविशेषेण तारतम्यवत् प्रकृतेऽपि छेदनादिक्रियाव्यापारावेशेन तज्जन्या अवयवसंयोगादिविशेषजन्यतया वा विलक्षणेषु काष्ठद्रव्येषु काष्ठ-प्रस्थकपर्यायो. स्पत्तिव्यवधानाभ्यां प्रस्थकपदोपचारतारतम्यस्यानुभवसिद्धत्वात् ॥ ६४ ॥ तमेतावतिशुद्धौ तत्कीर्णनामानमाहतुः । चितं मितं तथा मेयारूढमेवाह सङ्ग्रहः ॥६५॥ ___ आदिम उपचार इत्युक्त्या तदनन्तरमन्येऽप्युपचाराः प्रस्थकदृष्टान्ते नैगम-व्यवहारयोः सम्भवन्तीत्यवगम्यते, ते के ? इत्यकालानिवर्तकं चतुःषष्टितमं पद्यं विवृणोति-छिनमोतीति । सः प्रस्थकं छिनमीत्यत्र प्रस्थकपदस्य छेद योग्ये काष्ठे उपचारः । पूर्वस्मात् प्रस्थकार्थ व्रजामीत्यत्र प्रस्थकपदस्य प्रस्थकदलयोग्यवृक्षप्राप्तिक्रियाविष्टवने य उपचारस्तस्मादुप चारात् । एवं क्रमेण अव्यवहितपूर्वपूर्वोपचारादव्यवहितोत्तरोत्तरोपवारः शुद्ध इति रीत्या । 'तक्षणादि' इत्यादिपदादुत्किरणोल्लेखन-करणक्रियापरिग्रहः, तथा च प्रस्थकं तक्ष्णोमीत्यत्र प्रस्थकपदस्य तक्षणयोग्यकाष्ठे य उपचारः स प्रस्थक छिनमीति वाक्यघटकप्रस्थकपदस्य च्छेदनयोग्य काष्ठे उपचाराच्छुद्धः तथा प्रस्थकं तक्ष्णोमीति वाक्यघटकप्रस्थकपदस्य तक्षणयोग्यकाष्ठे उपचारतः प्रस्थकमुत्किरामीति वाक्यघटकप्रस्थकपदस्योत्कीर्णयोग्यकाष्ठे उपचारः शुद्धः, एवं प्रस्थ कमुत्किरामीति वाक्यघटकप्रस्थकपदम्योकिरणयोग्य काष्ठे उपचारात् प्रस्थ कमुल्लिखामीति वाक्य घटकप्रस्थकपदस्योल्लेखनयोग्यकाष्ठे उपचारः शुद्ध, तथा प्रस्थकमुल्लिखानीति वाक्यघटकपदस्थोल्लेखनयोग्यकाष्ठे उपचारात् प्रस्थकं करोमीति वाक्यघटकप्रस्थकपदस्य प्रस्थककरणयोग्यकाष्ठे उपचारः शुद्ध इत्यर्थः । ननु प्रस्थकं छिनमीत्यत्र छेदनक्रियानिरूपककर्मत्वस्य प्रस्थक तशोमीत्यत्र तक्षणक्रियानिरूपककर्मत्वस्य प्रस्थ समुत्किरामीत्यत्रोकिरणक्रियानिरूपककर्मत्वस्य प्रस्थकमुल्लिखामीत्यत्रोल्लेखनक्रियानिरूपककर्मत्वस्थ प्रस्थकं करोमीत्यत्र करणक्रियानिरूपककर्मत्वस्य च छिन्नमीत्यादितत्तरिक्रयाबोधकवाक्यसाकाङ्क्षकर्मत्वबोधकद्वितीयाविभक्ति एव बोधसम्भवात् सर्वेक्तवाक्येषु प्रस्थकपदस्य प्रस्थकयोग्यकाष्ठे एक एवोपचार इति दर्शितदिशोपदर्शिता अनेके उपचारा न सन्त्येवेति तेषां क्रमेण शुद्धत्वाभिधानमसङ्गतमेवेति शङ्कते-नन्वित्यादिना । तत्सक्रियेति- छेदनादिक्रियेत्यर्थः, एवमग्रेऽपि यद्यपि छेदनादितत्तक्रियायोग्यकाष्ठपर्यायेषु प्रस्थकयोग्यकाष्ठत्वं समानमेव तथापि अवान्तरतारतम्यस्य तत्तत्कियाकर्मीभूतेषु तत्तत्काष्ठपर्यायेषु सद्भावात् तथाविधविभिन्नतत्तत्पर्यायावगतये उपवर्णिता उपचारा आवश्यका एवेति समाधत्ते-सत्यमिति । 'दुग्धादि' इत्यादिपदाद् दधि-घृतयोः परिप्रहः, समासश्च कर्मधारयः, आयुःकार्येत्यत्रापि कर्मधारयः । प्रकृतेऽपि प्रस्थक छिनमोत्यादावपि । 'छेदनादि' इत्यादिपदात् तक्षणोकिरणोल्लेखन-करणक्रियाणामुपग्रहः । 'व्यापारावेशेन' इत्यस्य विलक्षणेष्वित्यत्रान्वयः। 'तजन्या अवयव' इत्यस्य स्थाने 'तजन्यावयव' इति पाठो युक्तः, तज्जन्यछेदनादिक्रियाव्यापारजन्यो यः काष्ठद्रव्यस्यावयवसंयोगादिविशेषस्तजन्यतयेत्यर्थः । काष्ठप्रस्थकति-काष्ठच्छेदनानन्तरमेव न भवति काष्ठप्रस्थकपर्यायोत्पत्तिः, किन्त्वधिकव्यवधानेन काष्ठप्रस्थकपर्यायोत्पत्तिः, काष्ठच्छेदनापेक्षया किञ्चिन्यूनव्यवधानेन तक्षणक्रियाव्यापारानन्तरं काष्ठप्रस्थकपर्यायोत्पत्तिः, तदपेक्षयाऽपि किञ्चिन्न्यूनव्यवधानेनोकिरणक्रियाव्यापारानन्तरं काष्टप्रस्थकपर्यायोत्पत्तिरित्येवं व्यवधानतारतम्येन तथा करणक्रियानन्तरमध्यवधानेनैव काष्ठप्रस्थकपर्यायोत्पत्तिः, तत्पूर्व क्रियापेक्षया न्यूनाव्यवधानेन काष्ठप्रस्थकपर्यायोत्पत्तिरित्येवमव्यवधानतारतम्येन च प्रस्थकपदोपचारतारतम्यस्य विलक्षणेषु काष्ठद्रव्येष्वनुभवसिद्धत्वादित्यर्थः ॥ ६४ ॥ Page #298 -------------------------------------------------------------------------- ________________ २२७ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । नयामृत-तमिति । अतिशुद्धौ त्वेती-नेगम-व्यवहारनयौ, तं-प्रस्थकम् , उत्कीर्णनामानंप्रस्थकपर्यायवन्तम् , प्रस्थकमाहतुः, उत्कीर्णनाम्नो द्रव्यादविशेषादिति भावः । सङ्ग्रहनयस्तु चितम्शासादितप्रस्थकपर्यायम्, मितम्-आकुट्टितनामानम् , मेयं-धान्यविशेषमारूढं च प्रस्थकमाह, मेयारूढपदेन तदनारूढस्यान्यद्रव्याविशिष्टस्यासनहान्नैगमोपदर्शितार्थसङ्कोचकत्वेन स्वनाम्नोऽन्वर्थसिद्धेः, अयं हि विशुद्धत्वात् कारणे कार्योपचार कार्याकरणकाले प्रस्थकं च नाङ्गीकुरुते, न च तदा तस्य घटाद्यात्म अतिशुद्धौ तु नैगम-व्यवहारनयौ निष्पन्नप्रस्थकपर्यायवन्तमेव प्रस्थकं कथयतः सङ्ग्रहस्तु मापनक्रियाविष्टमेव निष्पन्नप्रस्थकपर्यायवन्तं प्रस्थकं कथयतीत्यावेदकं पञ्चषष्टितमपद्यं विवृणोति-तमितीति । एताविति मूलस्य विवरणम्-नैगमग्यवहारनयाविति-एतच्छब्दस्य प्रकान्तपरामर्शकत्वात् । तच्छब्दस्यापि प्रकृतार्थपरामर्शकत्वात् तमिति मूलत्य विवरणम्-प्रस्थकमिति-तस्यैव प्रकृतत्वात् । उत्कीर्णनामानमिति- उत्- उपरि, कीर्णम्- अयश्शलाकादिनोल्लिखितम् , नाम - प्रस्थकेति संज्ञा यस्य स उत्कीर्णनामा, तमुत्कीर्णनामानमिति, प्रस्थकपर्यायवत्तयोत्पन्नेऽपि काष्ठ दिद्रव्यविशेषे यावन्न प्रस्थकोऽयमित्यापामरसाधारणप्रत्ययोत्पत्तिस्तावन्न ततो लौकिकपरीक्षकाणां प्रस्थकमितधान्यादिक्रयविक्रयादिव्यवहारोऽसन्दिग्धतया समुल्लसतीत्युत्कीर्णनामत्वमावश्यकम्, यश्च काष्ठद्रव्यादिपर्यायविशेषः कूटव्यवहारिणा प्रस्थकपर्यायानात्मकोऽ. प्युत्कीर्णपर्यायसंज्ञो नैतावता वस्तुतः स प्रस्थक इत्यतः 'उत्कीर्णनामानम्' इत्यस्य फलितविवरणम्-प्रस्थकपर्यायवन्तमिति- एवम्भूतं द्रव्यविशेष प्रस्थकम् , आहतुः कथयत इत्यर्थः । नाममात्रस्य शब्दस्वरूपस्य प्रस्थकपर्यायापनकाष्ठद्रव्याद् भिन्नत्वेऽपि उत्कीर्णनानः प्रस्थकपर्यायस्य द्रव्यादभिन्नत्वादित्थमभिधानमित्याह-उत्कीर्णनाम्न इति । सहमन्तव्योपदर्शकमुत्तरार्द्ध विवृणोति-सड़हनयस्त्विति । चितमिति मूलस्य विवरणम् - आसादितप्रस्थक पर्यायमिति । मितमिति मूलस्य विवरणम् - आकुट्टितनामानमिति- उत्कीर्णनामानमित्यस्य य एवार्थः स एवास्यापि, प्रयोजनमपि पूर्वप्रदर्शितमेव । 'मेयं धान्यविशेषमारूढंच' इत्यस्य स्थाने तथा मेयारूढं धान्यविशेष. समारूढंच' इति पाठो युक्तः, अत्र मेयारूढमिति मूलस्य घान्यविशेष समारूढमिति विवरणम् । समुच्चयार्थकस्य तथाशब्दस्य समुच्चयार्थकश्चशब्दो विवरणम् । मेयारूढमित्यत्र मेय आरूढोऽयं स मेयारूढ इति बहुव्रीहिः मेयश्च मातुं योग्यो धान्यविशेषः, तथा च तद्विवरणस्य 'धान्यविशेषसमारूढम्' इत्यस्य धान्यविशेषकर्तृकारोहणकर्मेत्यर्थः। आसादितप्रस्थकपर्याय आकुट्टितनामा च प्रस्थको नैगमेऽपीति तन्मात्राभ्युपगमे सङ्घहस्य नैगमादू विशेषो न स्यादिति नैगमाभ्युपगमतः सङ्ग्रहाभ्युपगमे विशेषख्यापनायोकम् 'मेयारूढम्' इत्याह- मेयारूढपदेनेति । तदनारूढस्य मेयकर्तृकारोहणाकर्मीभूतस्य, आरोहणं च प्रकृते मध्यदेशमभिव्याप्य संयोगलक्षणावस्थानमेव, तत्कर्तृत्वं च तत्प्रतियोगित्वम् , तत्कर्मत्वं च तदनुयोगित्वम् , अन्यद्रव्याधिशिष्टस्य प्रस्थकपर्यायानापन्नद्रव्येण सह समानस्वभावस्य, यथा प्रस्थकपर्यायानात्मकं न धान्यमानविशेषावधारणलक्षणकार्यकुर्वद्रपात्मकं तथा धान्यविशेषासमारूढं प्रस्थकपर्यायापन्नद्रव्यमपीति । असहात समहणाभावात् । तथा च नैगमोपदर्शितार्थसोचकत्वेन नैगमनयेनोपदर्शितो यः प्रस्थकवाच्य आसादितप्रस्थकपर्यायोत्कीर्णनामकद्रव्यविशेषरूपोऽर्थः स मेयारूढो मेयानारूढश्च, तन्मध्यान्मेयारूढ एव प्रस्थको न मेयानारूढ इत्येवं सोचकारित्वेन समहनयस्य सङ्ग्रह इति यन्नाम तस्यान्वर्थत्वस्य सङ्गृह्णाति सङ्कोचयतीति साह इति निरुक्तिलभ्यार्थत्वस्य सिद्धः, 'अयम्' इत्यस्य 'नाङ्गीकुरुते' इत्यनेनान्वयः। अयं समहनयः । हि यतः। कारणे प्रस्थकमितधान्यादिमापनकार्यस्य परम्परया स्वरूपयोम्ये मापनकार्यकुर्वद्रूपानात्मके छेदन-तक्षणोरिकरणोल्लेखनादिक्रियायोग्यकाष्ठे । कार्योपचारं प्रस्थकपर्यायात्मक कार्योपचारम् । आसादितप्रस्थकपर्यायऽपि कार्याकरणकाले प्रस्थ मापन कार्याकरणकाले । प्रस्थकंच प्रस्थकेति नामव्यपदेश्यं च । नाङ्गीकुरुते न स्वीकरोति । ननु मापनकार्याकरणकाले आसादितप्रस्थकपर्यायेऽपि प्रस्थकात्मकत्वानजीकारे घटाद्यात्मकत्वं स्यादित्याशय प्रतिक्षिपति-न चेति । तदा प्रस्थक. कार्याकरणकाले। तस्य आसादितप्रस्थकपर्यायस्य । यो यन्नामव्युत्पत्तिनिमित्तार्थक्रियां करोति स तदर्थक्रियाकरणकाल एव तदात्मक इत्यभ्युपगन्त्रेवम्भूतनयमते जलाद्याहरणलक्षणचेष्टाकरणकाल एव घटादेरपि घटाद्यात्मकत्वस्य स्त पर्यायापन्नस्य मापनक्रियाऽकरणकाले यथा न प्रस्थकात्मकत्वं तथा तदानीं जलायाहरणलक्षणचेष्टात्मकार्थक्रियाकारित्वा Page #299 -------------------------------------------------------------------------- ________________ २२८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। कत्वप्रसनः, तदर्थक्रियां विना तत्त्वायोगात् ; घटादिशब्दार्थक्रिया यथाकथञ्चित् तत्रास्त्येवेति चेत् ? नअसाधारणतदर्थक्रियाकारित्वस्यैव तदात्मकत्वप्रयोजकत्वात् ; तथापि प्रस्थकक्रियाविरहे नायं प्रस्थको घटाधनात्मकत्वाच्च नाप्रस्थक इत्यनुभयरूप: स्यात् ? न स्यात्- प्रतियोगिकोटौ स्वस्यापि प्रवेशेन यावद् घटाद्यनात्मकत्वासिद्धेः; अर्थक्रियाभावा-ऽभावाभ्यां द्रव्यभेदाभ्युपगमे ऋजुसूत्रमतानुप्रवेश इति चेत् ? ननैगमनयोपगतार्थसङ्कोचनाय काचित्कतथोपगमेऽपि सर्वत्र तथाभ्युपगमाभावेन तदननुप्रवेशात् ; इत्थं भावाद् घटाद्यात्मकत्वमपि न सम्भवतीति निषेधहेतुमुपदर्शयति- तदर्थक्रियां विनेति-घटादिकार्यजलाहरणादिलक्षणार्थक्रियां विनेत्यर्थः । तस्वायोगात् घटाद्यात्मकत्वायोगात् । ननु घटादेरर्थस्य जलाद्याहरणादिलक्षणार्थक्रिया यथा कार्य तथा घटाद्यर्थज्ञानतो घटादिशब्दप्रयोगस्तत्र भवतीति स्वज्ञानद्वारा घटादिशब्दोऽपि तस्य कार्यम् , लक्षणया घटादिशब्दप्रयोगः प्रस्थकेऽपि भवतीति घटादिकार्यघटादिशब्दलक्षणार्थक्रियाकारित्वान्मापनकार्याकरणकाले प्रस्थके घटाद्यात्मकत्वप्रसङ्गः स्यादेवेत्याशङ्कते-घटादिशब्दार्थक्रियेति- घटादिशब्दप्रयोगलक्षणघटाद्यर्थकार्यार्थक्रियेत्यर्थः । यथाकथञ्चित तात्पर्यादितः। तत्र प्रस्थके। या चार्थक्रिया यस्मादेव भवति न तु तदन्यतस्तादृशासाधारणार्थक्रियाकारित्वमेव तदात्मकत्व. प्रयोजकमिति जलाद्याहरणादिलक्षणासाधारणार्थक्रियाकारित्वमेव घटाद्यात्मकत्वप्रयोजकम् , जलाहरणाद्यर्थक्रियाकारित्वं च न प्रस्थके इति न तस्य घटाद्यात्मकत्वप्रसङ्ग इति समाधत्ते-नेति । असाधारणेति-घटाद्यन्याप्रभवत्वे सति घटादिप्रभवे. त्यर्थः। तदर्थक्रियेति- जलाहरणादिलक्षणार्थक्रियेत्यर्थः । तदात्मकत्वेति-घटाद्यात्मकत्वेत्यर्थः। ननु मापनलक्षणार्थक्रियाविरहकाले आसादितप्रस्थकपर्यायोऽपि प्रस्थकः प्रस्थको न भवति, जलाहरणादिलक्षणाप्रस्थकघटादिकार्यकारित्वाभावादप्रस्थकोऽपि न भवतीति प्रस्थकाऽप्रस्थकान्यतरानात्मकोऽयं स्यात्, न चैवमभ्युपगन्तुं युक्तम् , विधिनिषेधयोरेकतरनिषेधे परविधिध्रौव्यात् , प्रस्थकतया निषिद्धस्याप्रस्थकरूपत्वस्याप्रस्थकतया निषिद्धस्य प्रस्थकरूपत्वस्य चावश्यम्भावात् 'परस्परविरोधे हि न प्रकारान्तरस्थितिः' इति वचनादित्याशयेन शङ्कते-तथाऽपीति-घटाद्यात्मकत्वप्रसङ्गाभावेऽपीत्यर्थः। अनुभयरूपः स्यात् प्रस्थका-प्रस्थकान्यतरानात्मकः स्यात् । प्रस्थकभिन्नं यद् तत् सर्वमप्रस्थकमिति प्रस्थकोऽपि प्रस्थककार्याकरणकालेऽप्रस्थक एवेति घटादि' इत्यादिपदेन सोऽपि गृह्यत एवेति घटाद्यात्मकत्वमेव तस्येति घटायनात्मकत्वहेतोरसिद्धया न ततोऽप्रस्थकनिषेधः कर्तुं शक्य इत्यप्रस्थकरूपत्वान्नानुभयरूपोऽयमिति समाधत्ते-न स्यादिति-अनुभयरूपः प्रस्थककार्याकरणकाले प्रस्थको नापद्यत इत्यर्थः । तत्र हेतुमाह-प्रतियोगिकोटाविति-घटाद्यात्मा न भवतीत्येवंरूपो यो घटाद्यनात्मको निषेधस्तस्य प्रतियोगी घटाद्यात्मेति तत्रादिपदग्राह्यः प्रस्थककार्यकारिप्रस्थ कपर्यायभिन्नः सर्वोऽपि तन्मध्ये प्रस्थककार्याकरणकाले प्रस्थकोऽपीति घटाद्यात्मकस्य तस्य घटाद्यनात्मकत्वासिद्धरित्यर्थः । ननु ऋजुसूत्रनये यथाऽर्थक्रियाकारित्व तदकारित्वाभ्यां विरुद्धधर्माभ्यां द्रव्यस्य भेदस्तथा सङ्ग्रहनयेऽपि ताभ्यां तस्य भेद इत्यभ्युपगमे सङ्ग्रहनयाभ्युपगम ऋजुसूत्रनयाभ्युपगम एव स्यादित्याशङ्कते- अर्थक्रियाभावाऽभावाभ्यामिति - अर्थक्रियाकारित्व-तदकारित्वाभ्यामित्यर्थः । ऋजुसूत्रस्य सर्वत्रार्थक्रियाभावाऽभावाभ्यां द्रव्यभेदाभ्युपगमः, समहस्य तु न तथा सर्वत्राभ्युपगमः, किन्तु प्रस्थकस्थले नैगमनयेनाभ्युपगतस्योस्कीर्णनामकप्रस्थकार्यायापन्नद्रव्यरूपस्य प्रस्थकपदव्यपदेश्यस्य प्रस्थककार्यकारि-तदकारिप्रस्थकसाधारणस्यार्थस्य यत् सङ्कोचनं 'तथाभूतः प्रस्थककार्यकाव प्रस्थकः' इत्येवंरूपं तदर्थमर्थक्रियाकारित्व-तदकारित्वाभ्यां द्रव्यभेदाभ्युपगम इति न तथाऽभ्युपगन्तुः सङ्ग्रहस्य ऋजुसूत्रमतानुप्रवेश इति समाधत्ते-नेति । क्वाचित्काथोपगमेऽपि प्रस्थकस्थले द्रव्यभेदाभ्युपगमेऽपि । तथाऽभ्युपगमाभावेन द्रव्यभेदाभ्युपगमाभावेन । तदननुप्रवेशात् सङ्ग्रहस्यर्जुसूत्रनयेऽनुप्रवेशाभावात् । यदा च मापन कार्यकारि-तदकारिव्यक्त्योरर्थक्रियाकारित्व-तदकारित्वाभ्यां भेदः सङ्ग्रहनये सुव्यवस्थितस्तदा तन्ये मापनाकारिण्यां व्यक्तौ प्रस्थकोऽयमिति प्रतीतेः प्रमितिवाभावात् तत्र प्रस्थकत्वसामान्यमपि नास्ति किन्त्वस्थ कात्मिकैव सा व्यक्तिरिति चानुभयरूपत्वस्य तत्र प्रसङ्ग इत्याह-इत्थं चेति-सङ्ग्रहनये अर्थक्रियाभावाऽभावभ्यां क्वाचित्कद्रव्यभेदाभ्युपगमव्यवस्थितौ चेत्यर्थः । 'भेदार्थ कियाजनकपस्थकव्यक्तौ ' इत्यस्य स्थाने " भेदेऽर्थकियाऽजनकप्रस्थकव्यक्तौ " इति पाठो युक्तः, यदि यैव व्यक्तिर्मापनरूपार्थक्रियाकारिणी सैव मापनरूपार्थक्रियाऽजानकाऽपि तदा मापनरूयार्थक्रियाकारिण्यां प्रस्थकत्वसामान्यस्य सत्वे तदभिन्नायां मापनरूपार्थक्रियाऽजनिकायामपि तस्य सत्त्वमवश्याभ्युपगन्तव्यं स्यात् , तयो दे तु मापनरूपार्थक्रियाऽ Page #300 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो नयोपदेशः । २२९ चार्थक्रियाकारि-तदकारिप्रस्थकव्यक्तिभेदार्थ क्रियाजनकप्रस्थकव्यक्तौ प्रस्थकत्वसामान्यमपि नास्तीत्यभ्युपगमेऽपि न कश्चिद् दोषः। वस्तुतो व्यावृत्तिविशेषाद्यतिरिक्तेन नैयायिकादिकल्पितसामान्येन ( न ) कचिदपि निर्वाहस्तन्मते घटत्वादिसामान्यस्यापि समर्थयितुमशक्यत्वात्, मृत्-स्वर्ण-रजत-पाषाणादिघटेषु मृत्त्व-स्वर्णत्वादिना सार्येण तदसिद्धेः, अस्तु मृत्त्व-स्वर्णवादिव्याप्यं नानैव घटत्वम् , कुलाल-स्वर्णकारजन्यतावच्छेदकतया तन्नानात्वस्यावश्यकत्वात् , नहि स्वर्णघटादौ चक्रादिकं मृद्घटादौ च लोहवर्तुलादिकं हेतुः, अनुगतधीस्तु कथञ्चिदसौ सादृश्यात्, घटपदं तु नानार्थकमित्य भ्युपगमे कथञ्चिदित्याधनिर्वचनेनैवाशक्तिः जनिकायां प्रस्थकत्वसामान्यस्य नास्तित्वाभ्युपगमे ऽपि न कश्चिद् दोषः, तत्र प्रस्थकत्वप्रतीतिर्दोषादेवेत्यर्थः। यदप्यतया वृत्तिव्यतिरिकं सामान्यं घटत्वादिकं नैयायिकादिभिरभ्युपगम्यते तदपि विचारं न सहत इति प्रस्थकत्वसामान्य तथाभूतमविचाररमणीयमेवेति सङ्ग्रहनयाकूतमुपदर्शयति-वस्तुत इति । व्यावृत्तिविशेषेति- अघटव्यावृत्त्यपटव्यावृत्त्यादिरूपव्यावृत्तिविशेषेत्यर्थः, आदिपदात् तत्तदर्थक्रियाजनकत्वाद्युपग्रहः । न कचिदपि निर्वाहः प्रस्थक एव प्रस्थकत्वसामान्यमतयावत्तिविशेषातिरिकं न सम्भवतीत्येवं न, किन्तु घट-पटादावपि घटत्व-पटत्वादिसामान्यमतय वृत्तिविशेषातिरिक्त न सम्भवतीत्याशयः। कथं न निर्वाह इत्यपेक्षायामाह- तन्मत इति- नैगमनयप्रभवनैयायिकादिमत इत्यर्थः । साङ्कर्यस्य बाधकत्वं नेयायिकादिभिरुपगतम् , घटत्वादावरि साथ समस्तीत्यतो न घटत्वादिसामान्यसिद्धिरित्याह-मृत-स्वर्णेति । 'मत्व-स्वर्णवादिना' इत्यत्रादिपदाद रजतत्व-पाषाणत्वादेरुपग्रहः. मृत्वाभाववति सौवर्णादिघटे घटत्वं वर्तते. घटत्वा भाववति मार्दवशरावादौ मृत्त्वं वर्तत इत्येवं परस्परात्यन्ताभावसामानाधिकरण्यम् , मार्दवघटे च मृत्त्वमपि वर्तते घटत्वमपि वर्तत इति तयोः सामानाधिकरण्यमित्येवं मृत्त्वेन सह घटत्वस्य सार्यम् , तथा स्वर्णत्वाभाववति मार्दवादिघटे घटत्वं वर्तते, घटत्वाभाववति काञ्चनकटक केयूरादौ स्वर्णत्वं वर्तत इत्येवं परसरात्यन्ताभावसमानाधिकरण्यम्, सौवर्णघटे च स्वर्णत्वं च घटत्वं च वर्तत इति तयोः सामानाधिकरण्यमित्येवं स्वर्णत्वेन सह घटत्वस्य सार्यम् , अनयैव दिशा रजतत्वादिनाऽपि घटत्वस्य साङ्कर्यमित्येवं साङ्कर्येण घटत्वादिसामान्यस्यासिद्धरित्यर्थः । साङ्कर्यभयाद् घटत्वादेर्मृत्वादिव्याप्यस्य नानारूपस्य घटादिपदस्य नानार्थकस्य चाभ्युपगमे जात्युच्छेदापत्तिलौकिकव्यवहारबाधश्चेत्युपदर्शयति- अस्त्विति । नानाघटत्वाभ्युपगमो न निष्प्रमाणक इत्यावेदनायाह -कुलालेति- कुलालं विनाऽपि सौवर्णघटस्य स्वर्णकारं विनाऽपि मार्दवघटस्य भावेन व्यतिरेकव्यभिचाराद् घटत्वावच्छिन्नं प्रति न कुलालवेन नवा स्वर्णकारत्वेन कारणत्वं किन्तु मृत्त्वव्याप्यघटत्वावच्छिन्नं प्रति कुलालत्वेन कारणत्वम् , स्वर्णत्वव्याप्यघट वावच्छिन्नं प्रति स्वर्णकारत्वेन कारणत्वमित्ये कुलालत्वावच्छिन्नजनकतानिरूपितजन्यतावच्छेदकतया मृत्त्वव्याप्यघटत्वस्य स्वर्णकारत्वावच्छिन्नजनकतानिरूपितजन्यतावच्छेदकतया स्वर्णत्वव्याप्यघटत्वस्य सिद्धौ घटत्वजातिनानात्वस्यावश्यकत्वादित्यर्थः । नन्वेवं मार्दवघटं प्रत्येव चक्रादिकं जनकं न सौवर्णघटादिकं प्रति. एवं सौवर्णघटं प्रत्येव लोहवर्तुलादिकं जनकं न मार्दवघटादिकं प्रति व्यभिचारादित्यपि स्यादिति चेत् ? अत्र ओमित्येवोत्तरमित्याह-नहीतिस्वर्णघटादौ चकादिकं नहि हेतुः, मृद्घटादौ च लोहवर्तुलादिकं नहि हेतुरित्यन्वयः । ननु यदि मृत्त्वादिव्याप्यं नानव घटत्वं तर्हि घटोऽयं घटोऽयमित्यनुगतप्रतीतिर्दिव-सौवर्णघटादौ न स्यात्तन्नियामकस्यैकस्य घटत्वस्याभावादित्यत आहअनुगतधीस्त्विति । 'कश्चिदसौ सादृश्यात्' इस्यस्य स्थाने 'कथञ्चित्सौसादृश्यात्' इति पाठो युक्तः, सौसादृश्यम्- अतिशयेन सादृश्यम् । एवं सति घटपदस्य नानाप्रवृत्तिनिमित्तकत्वेन नानार्थकत्वमापतदिष्टापत्त्या न दोषावह मित्याह - घटपदं त्विति । इत्यभ्युपगमे एवं नैयायिकादिभिरुररीकारे । अत्र सङ्ग्रहनयवादी अरुचिमुपदर्शयति-कथाश्चिदित्यादीति-यदि मार्दवघटादावे घटलं नास्ति तर्हि नानारू तन तत्र सादृश्यनिबन्धनम् . तन्निबन्धनं तु घटस्वभिन्नं नोपदर्शयितुं शक्यमित्यशक्तिरेव तन्निर्वचनासामर्थ्यलक्ष गा नैयायिकादिभिः स्वस्याविष्क्रियते, तत् किमर्थम् , अतिरिकजातिस्वीकारेऽपि न तत्र जात्यानरमथापि घटत्वं सामान्यं पटत्वं सामान्यमित्येवमनुगतप्रतीतिरेकरूपेणाननुगतीकृतेष्वपि सामान्येषु भवतीत्येवं तैरुपगम्यते कथश्चित्सौसादृश्येनैव जातीनामनुगमनम्, ततश्च तेष्वनुगतमतिरित्य स्यावश्याश्रयणीयत्वे Page #301 -------------------------------------------------------------------------- ________________ २३० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । किमाविष्क्रियते अननुमतानो जातीनामित्र व्यक्तीनामप्यसौ सादृश्येनैवानुगमसंभवेन जात्युच्छेदापतिः, घटपदस्य नानार्थत्वे स्पष्ट एव लौकिकव्यवहारबाधश्च । घटत्वाविकमेकत्वकृत्त्येव मृत्त्वादिकमेव वा तथा, कुम्भकार-स्वर्णकारादेर्विजातीयकृतिमत्वेन चक्रा. दि(लोह)वर्तुलादेश्य कथञ्चिद्विजातीयव्यापारकत्वेन हेतुत्वमित्यादिनवीनकल्पना तु दोषादेकत्वामहेऽपि घटत्वादिग्रहात् ,एकत्वस्यैकत्वात् ,प्रसिद्धरूपेण कार्यकारणभावोच्छेदे व्यवहारविलोपाचानुपपना, इति क्य वरमतिरिक्त मातिमस्वीकृत्यैव सौस दृश्येन व्यक्तीनामनुगमनम् , तत एव चानुगतप्रतीतिरिति सर्वत्र जातेरभ्युपगमने न किश्चित् प्रयोजनमिति मार्दव-सौवर्णघटादिषु सौसादृश्येनानुगतप्रतीतिमभ्युपगच्छद्भिर्नैयायिकादिमिर्जातिमात्राय जलाञ्जलिरेव वितीर्णा स्यात् , यथा च सौवर्ण-मार्दवादिघटेष्वेकस्य घटत्वसामान्यस्याभावे नानाथत्वं तथा गोत्वादिजात्यभावेऽपि गवादिपदानां नानार्थत्वमेवास्त्वित्यतोऽपि जात्युच्छेदापत्तिः स्वहस्तितैव स्यादित्यर्थः । 'व्यक्तीनामपसौ' इत्यस्य स्थाने " व्यकीनामपि सौ" इति पाठो युक्तः । घटपदस्यक प्रवृत्तिनिमित्तकत्वलक्षणमेकार्थत्वमेव लौकिकैर्व्यवह्रियते, तस्य नानाप्रवृत्तिनिमित्तकत्व लक्षणनानार्थत्वाभ्युपगमे तदाधोऽपीत्याह-लौकिकव्यवहारबाधश्चेति । घटत्वे मृत्त्वादिजातिसार्यपरिहाराय स्वर्णघटादौ चक्रादीनां कुम्भकारादीनां चककारणत्वोपपत्तये या नवीनानां कल्पना तामुपन्यस्य दूषयति-घटत्वादिकमेकत्ववृत्त्येवेतिमार्दव-सौवर्णादिघटगतैकत्ववृत्त्यैव घटत्वादिकम् , तस्य च मृत्त्वसुवर्णवादिना सामानाधिकरण्याभावान्न सायम् घटादौ तस्य स्वाश्रयैकत्ववत्त्वसम्बन्धेनेव वृत्तित्वम् , तस्य तेनैव सम्बन्धेन घटोऽयं घटोऽयमित्यनुगतप्रतीतिनिबन्धनत्वमित्यनुगतप्रतीत्युपपत्तिः, उक्तपरम्परासम्बन्धेनवैकत्ववृत्तेरपि घटत्व जातेर्घटपदप्रवृत्तिनिमित्तत्वमित्येकार्थत्वव्यवहारोपपत्तिश्चेत्यर्थः । वा अथवा । मृस्वादिकमेवेति-आदिपदात्, स्वर्णत्वादेः परिग्रहः, एवकारेण घटत्वादेरेकत्ववृत्तित्वस्य व्यवच्छेदः । तथा घटादिगतैकत्ववृत्तिः, एवमपि घटत्वस्य न मृत्वादिना सायम् , घटत्वं हि घटात्मकद्रव्ये वर्तते, मृस्वादिकं च न घटात्मकद्रव्ये किन्तु तद्तैकत्वे, एवं च तयोः सामानाधिकरण्याभावात् कुतः साकर्यम्, एवमभ्युपगमे घटादिव्ये मृत्वादिप्रतीतिः स्वाश्रयैकत्वसम्बन्धेन, घटोऽयं घटोऽयमित्यनुगतप्रतीतिनियामकत्वं च घटत्वस्य समवायसम्बन्धेनैव, तेनैव सम्बधेन घटत्वस्य घटपदप्रवृत्तिनिमित्तत्वमपीति न घटपदस्य नानार्थत्वप्रसङ्गोऽपीति भावः । या मार्दवघटानुकूला कुम्भकारे कृतिः, या च सौवर्णादिघटानुकूला स्वर्णकारादिगता कृतिस्तत्र सर्वत्र वैजात्यविशेष उपेयते, तादृशवैजात्यविशेषाकलितकृतिमत्त्वेन कुम्भकार स्वर्णकारादेरेकघटत्वावच्छिनं प्रत्येकमेव कारणत्वमुपेयत इति न व्यतिरेकव्यभिचारोऽपि, एवं चक्रादेर्यादृशव्यापारण मार्दवघटो जायते, लोहवर्तुलादेश्च यादृशव्यापारेण सौवर्णादिघटो जायते, तत्र सर्वत्र व्यापारे वैजात्यविशेष उपेयते, ताशवैजात्यविशेषाकलितव्यापारवत्वेन चक्रादेोहवर्तुलादेश्चैकघटत्वावच्छिन्नं प्रत्येकमेव कारणत्वमुषेयत इति नात्रापि व्यतिरेकव्यभिचार इति न नानाकारणत्वासा इत्याह- कुम्भकार-स्वर्णकारादरिति- कुम्भकार-स्वर्णकारादेविजातीयकृतिमत्त्वेन हेतुत्वमित्यन्वयः, हेतुत्वमित्यस्य घटत्वावच्छिन्नं प्रति हेतुत्वमित्यर्थः । 'इत्यादिनवीन कल्पना तु' इत्यस्य 'अनुपपन्ना' इत्यनेनान्वयः। अनुपपन्नत्वे हेतुमाह-दोषादेकवाग्रहेऽपीति-घटत्वादेर्मृत्वादेर्वा सार्वपरिहाराय घटादिगतैकत्ववृत्तित्वं यत् परिकल्प्यते तन्न युक्तं धर्मिज्ञाने सत्येव तद्गतधर्मस्य ज्ञानमिति नियमेन घटादिगतकत्वज्ञाने सलोव घटत्वादिज्ञानं यदि भवेत् तदा घटस्वादकत्ववृत्तित्वं सम्भाव्यतापि, न चैवम् , समूहग तत्वादिदोषाद् घटादावे करवस्याग्रहेऽपि घटत्वादेर्ग्रहादित्यर्थः । किश्च व्यकोनामनेकवे सत्येवानुगतप्रतीत्यनुरोधेन तत्र जातिः परिकल्प्यते, अत एव निसले सत्यनेकसमवेतत्वमिति जातिलक्षणं तत्र समनुगतं भवतीति, प्रकृते तु घटोऽयं घटोऽयमित्यनुगतप्रतीतिबलाद् यथा घटत्वादिकमेकं तथाऽयमेकोऽयमेक इत्यनुगतप्रतीतिबलादेकत्वमपि घटपटादिगतमेकमेव भवितुमर्हतीति न तत्रैकव्यक्तिकत्वाजातिकल्पना भद्रेत्याह-एकत्वस्यैकत्वादिति । यदपि कुम्भ कार स्वर्ण कारादिगतघटानुकूलकृतिगतं वैजात्यमुररीकृत्य विजातीयकृतिमत्त्वेन कुम्भकारस्वर्णकारादेरेकघटत्वावच्छिनं प्रति कारणत्वमेकं परिकल्पितम् तथा चक्रादिव्यापार-लोहवर्तुलादिव्यापारगतवैजात्यविशेषपरिकल्पनापुरस्सरं विजातीयव्यापारवत्वेनैकधर्मेण चक्रादेोदवलादेश्चैकघटत्वावच्छिन्न प्रत्येककारणत्वपरिकल्पनम, तदुभयमपि न युक्तम् , कुम्भकारकत्वादिना घटत्वादिना प्रसिद्धरूपेण चकत्वादिना घटत्वादिना प्रसिद्धेन रूपेण कार्यकारणभावस्य व्यवडियमाणस्यैवं सत्युच्छेदे व्यवहारविलोपप्रसङ्गादित्याह-प्रसिद्धरूपेणेति । Page #302 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतौ भयोपदेशः । विशेषेण तत्र तत्र व्यावृत्तिविशेषरूप सामान्याभ्युपगमं बिना न निर्वाह इति । प्रकृते कार्यकरणकालेव्यावृतिविशेषरूपप्रस्थकत्वसामान्याभावाभ्युपगमे न क्षतिरिति किमतिप्रपचितेन ॥ ६५ ॥ प्रस्थकश्चर्जुसूत्रस्य, मानं मेयमिति द्वयं । न ज्ञ-कर्तृगताद् भावाच्छब्दानां सोऽतिरिच्यते ॥ ६६ ॥ नयामृत० - प्रस्थकश्चेति ऋजुसूत्रस्य मानं मेयं चेति द्वयमेव प्रस्थकस्वरूपम्, तन्मे धान्ये च समवहित एव प्रस्थक व्यवहारादू एकतरविनाभावे तत्परिच्छेदासम्भवात् किञ्च, मेयारूढः प्रस्थकत्वेन व्यपदेश्य इति सङ्ग्रहनयमते मेयारूढः प्रस्थकारूढं मेयं वा तथेत्यत्र विनिगमकाभावादुभयत्रैव प्रस्थकं पदशक्तेर्व्यासज्यवृत्तित्वं युक्तम्, कथं तर्हि प्रस्थकेन धान्यं मीयत इति प्रयोगः, एकत्रो भयवाचकपदेनैकस्यानुपस्थानादिति चेत् ? न- एतन्नयेन कथञ्चित् प्रस्थकपदशक्यतावच्छेदकस्य व्यासज्यवृत्तित्वेन विवक्षाभेदात् करणरूपानुप्रवेशस्यापि सम्भवान्न तदनुपपत्तिरिति द्रष्टव्यम् । तस्मान्नैयायिकादिपरिकलितमतिरिकसामान्यं न सम्भवत्येव कित्वनुगतप्रतिकार्यकारणभावं घटादिशब्देकार्थत्वाद्यनुरोधेनातद्व्यावृत्तिविशेषरूपमेव घटत्वादिसामान्यमभ्युपगन्तव्यम् मापनकार्याकरणकाले च प्रस्थकव्यक्तौ तादृशस्यापि प्रस्थकत्व - सामान्यस्याभ्युपगमे न किश्चित्प्रयोजनमिति प्रस्थकत्वसामान्याभावाभ्युपगमोऽपि न दोषावह इत्युपसंहरति- इति नयविशेषेणेति । प्रकृते प्रस्थके । अन्यत् स्पष्टम् ॥ ६५ ॥ प्रस्थ के ऋजुसूत्रनयाभ्युगमविशेषस्य साम्प्रतसमभि रूढैवम्भूतै तत्रयात्मक शब्दन याभ्युपगमविशेषस्य चोपदर्शकं षदषष्टितमपद्यं विवृणोति - प्रस्थकश्चेतीति । केवलं मानं मेयं वा कथं न प्रस्थकस्वरूपमित्याकाङ्गायामाह तन्मेयधान्ये इति - प्रस्थ कमानमेयधान्य इत्यर्थ: । ' समवहित एव' इत्येवकारेण मेयधान्यासमवहिते प्रस्थ के प्रस्थकव्यवहारो न भवतीत्यर्थो ज्ञापितः । कथं मेयधान्यसमवहित एव प्रस्थ के प्रस्थकव्यवहारो भवन्नपि प्रामाणिकैरुपादेय इत्यपेक्षायामाह - एकतरविनाभाव इति - मानमेययोरेकतरस्याभावे इत्यर्थः । तत्परिच्छेदासम्भवादिति इदं प्रस्थकमितं धान्यं, प्रस्थकमितधान्यमापकश्चायं प्रस्थक इत्येवं निश्चयस्यासम्भवादित्यर्थः । मानं मेयं द्वयं प्रस्थकपदवाच्यमिति युक्तयन्तरेण व्यवस्थापयति- किञ्चेति । 'मेयारूढः' इत्यत्र मेयमारूढं यं स मेयारूढ इति बहुव्रीहिः प्रस्थक इति दृश्यम्, एवमग्रेऽपि । प्रस्थकारूढमित्यत्र प्रस्थ के आरूढं प्रस्थकारूढमिति सप्तमीतत्पुरुषः । तथा प्रस्थकत्वेन व्यपदेश्यः । उभयत्रेव मान-मेयोभयस्मिन्नेव एवकारेण मानमात्रे मेयमात्रे च प्रस्थकपदशक्तेर्व्यवच्छेदः । ननु प्रस्थकपदशक्तेर्मानमेयोभयस्मिन्नेव व्यासज्यवृत्तिले प्रस्थकपादात् तदुभयस्यैवोरस्थितिर्न केवलस्य मानविशेषरूपस्य प्रस्थकस्योपस्थितिः, प्रस्थकपदजन्योपस्थितौ च मापनक्रियाकरणत्वेनैव प्रस्थकस्य भानमिति तस्य करणत्वबोधिका तृतीयाऽपि पृथक्कया करणत्वोप स्थापिका न युक्तेति केवलमापके प्रस्थ के ' प्रस्थकेन धान्यं मीयते' इति वाक्ये प्रस्थकपदप्रयोगोऽनुपपन्न इत्याशङ्कते - कथं तति । ' प्रयोगः, एकत्रोभय " इत्यस्य स्थाने प्रयोग एकत्र, उभय' इति पठो युक्तः, एकत्र प्रयोगः कथमित्यन्वयः, एकत्रेत्यस्य मानमात्रे प्रस्थ के इत्यर्थः । कथं न प्रयोग इत्यपेक्षायामाह - उभयेति- मानमेयोभयवाचकप्रस्थकपदेनैकस्य मानमात्रस्यानुपस्थापनादित्यर्थः । समाधत्ते नेति । एतन्नयेन ऋजुसूत्रनयैन, कथञ्चिद्' इत्यस्य ' अव्यासज्यवृत्तित्वेन ' इत्यनेनान्वयः, " प्रस्थक पदशकयतावच्छेदकस्य व्यासज्यवृत्तित्वेन " इत्यस्य स्थाने " 'प्रस्थकपदशक्यतावच्छेदकस्याव्यासज्यवृत्तित्वेन " इति पाठो युक्तः, करणरूपानुप्रवेशस्यापि " इत्यस्य स्थाने 'करणरूपाननुप्रवेशस्यापि ' इति पाठः सम्यक्, तथा च ऋजुसूत्रनयेन प्रस्थकपदशक्यतावच्छेदकस्य प्रस्थकात्मकमापनकरण - धान्याद्यात्मकमेयगतद्वित्वस्य कथञ्चिदव्यासज्यवृत्तित्वेन प्रत्येकावच्छेदेन माने मेये च वृत्तित्वेन प्रस्थ कपदेन मापन करणत्वेनोपलक्षितस्य प्रस्थकस्वरूपस्य विवक्षातः करणत्त्रमनुपादाय प्रस्थकपदजन्योपस्थितौ प्रस्थक स्वरूपमा श्रमानलक्षणस्य करणरूपाननुप्रवेशस्यापि सम्भवात् प्रस्थकपदोत्तर तृतीय। विभक्तयैव करणत्वस्योपस्थितिसम्भवेन प्रस्थकेन धान्यं मीयते' इति वाक्यात् प्रस्थकनिष्ठ करणतानिरूपकमापमक्रियाकर्न धान्यमिति बोधस्य सम्भवेन न ' प्रस्थ केन धान्यं मीयते' इति वाक्ये तृतीयान्तप्रस्थकपदप्रयोगानुपपत्तिरित्येवं ज्ञातव्यमित्यर्थः । 6 66 २३१ "6 Page #303 -------------------------------------------------------------------------- ________________ २३२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । शब्दानां- शब्द-समभिरूढवम्भूताख्यानां त्रयाणां नयानाम, मते सः- प्रस्थकः, ब-कर्तृगतात् भावाद् नातिरिच्यते- न भिद्यते, ज्ञश्च कर्ता च झ-कर्तारौ, ज्ञ-कोंर्गतो ज्ञ कर्तृगतस्तस्मादिति समासः, प्रस्थकाकारजगतात् प्रस्थककर्तृगताद् वा प्रस्थकोपयोगादतिरिक्तं प्रस्थकं ते न सहन्ते, निश्चयमानात्मकप्रस्थकस्य जडवृत्तित्वायोगाद् बाह्यप्रस्थकस्याप्यनुपलम्भकाले असत्त्वेनोपयोगानतिरेकाश्रयणादन्ततो झानाऽद्वैतनयपर्यवसानाद् वा । न च ज्ञाना-ऽज्ञानात्मकत्वोभयनयविषयसमावेशविरोधात् प्रत्येकमन. यत्वमाशङ्कनीयम् , तादात्म्ये नोभयरूपासमावेशेऽपि विषयत्व-तादात्म्याभ्यां तदुमयसमावेशात् ; ' विषय. स्वमपि कथञ्चित्तादात्म्यम्' इति तु नयान्तराकृतम् , यदाश्रयेण " अर्था-ऽभिधान-प्रत्ययास्तुल्यनामघेयाः" इति प्राचीनैर्गीयत दिक् ।। ६६ ॥ शब्दनयत्रयमन्तव्योपदर्शकमुत्तरार्ध विवृणोति-शब्दानामिति- अस्य विवरणम् - शब्द-समभिरूढवम्भूताख्याना प्रयाणां नयानामिति, 'मते' इति पूरणम् , स इत्यस्य विवरणम्-प्रस्थक इति । नातिरिच्यते इत्यस्य विवरणम्-न भिद्यत इति । शकर्तृगतादित्यत्र समासः कीदृश इत्याकालायामाह-शश्च कर्ता च श-कारावितिअयमितरेतरयोगद्वन्द्वः, ज्ञ-कत्रोतो ज्ञकर्तृगत इति तत्पुरुषः, तथा च द्वन्द्वगर्भस्तत्पुरुषसमासोऽत्रेत्याशयः । एवं सति उत्तरार्द्धस्य यः पर्यवसितोऽर्थस्तमुपदर्शयति-प्रस्थकाकारक्षगतादिति। भावादित्यस्यार्थकथनम्-प्रस्थकोपयोगादिति। ते शब्द-समभिरूढेवम्भूतारूपास्त्रयः शब्दनयाः। न सहन्ते नाभ्युपमच्छन्ति । कथं न सहन्ते ? इत्याकासायामाह-निश्चयमानात्मकास्थकस्येति- इदं प्रस्थ कमितं धान्यमित्याकारकनिश्चयस्वरूपं यन्मानं तदात्मकस्य प्रस्थकस्ये. त्यर्थः । जडवृत्तित्वायोगात् पौद्गलिकत्वेन जडात्मको यो बाह्यप्रस्थकावयवीभूतः काष्ठखण्डस्तद्वृत्तित्वासम्भवात् । ननु निश्चयमानात्मकप्रस्थकस्य जडवृत्तित्वासम्भवेऽपि बाह्यप्रस्थकस्य जडवृत्तित्वमस्त्येवेति स एव ज्ञकर्तृगताद् भावादतिरिक्तः प्रस्थकोऽस्त्वित्यत आह-बाह्यपस्थकस्यापीति-यो यदैवोपलभ्यते स तदैवास्ति यदा च नोपलभ्यते तदा नास्त्येवेति नियमेन प्रमाणाभावादनुपलम्भकाले बाह्यप्रस्थकस्यासत्त्वेन यो येन सहैवोपलभ्यते स तदात्मक इति व्याख्या स्वोपयोगेन सहैवोपलभ्यमानस्य बाह्यप्रस्थकस्योपयोगाभेदाभ्युपगमात् प्रस्थकोपयोगादतिरिक्तः प्रस्थको न भवतीत्येवं शब्दनया अभ्युपगच्छन्तीत्यर्थः। ननु यो येन सहवोपलभ्यते स तदात्मक एवेति व्याप्तेफररीकारे घटादयोऽपि पदार्था ज्ञानेन सहैवोपलभ्यमाना ज्ञानात्मका एव प्रसज्येरनिति सर्व ज्ञानात्मकमित्यभ्युपगन्तुर्योगाचारस्य मते प्रवेशः शन्दनयानां स्यादित्यत्रेष्टापादनमेव समाधानमित्याशयेनाह- अन्तत इति-प्रकारान्तरेण प्रस्थकस्योपयोगात्मकत्वसाधनासम्भवत इत्यर्थः । ननु सहादयो नयाः प्रस्थकस्य ज्ञानानात्मकत्वं पूत्कुर्वन्ति, शब्दनयाश्च तस्य ज्ञानात्मकत्वं स्वीकुर्वन्ति, न चैकस्य वस्तुनो ज्ञानाज्ञानात्मकत्वोभयसम्भव इति वस्तुगत्या प्रस्थकस्य ज्ञानात्मकत्वे अज्ञानात्मकत्वग्राहिनयस्यानयत्वमज्ञानात्मकत्वे ज्ञानात्मकत्वग्राहिनयस्यानयत्वं प्रसज्यत इत्याशय प्रतिक्षिपति-न चेति- अस्य 'आशङ्कनीयम्' इत्यनेनान्वयः । यद्यज्ञानरूपत्वं प्रस्थकस्य तदा विषयत्वलक्षणसम्बन्धेन ज्ञानरूपस्य तादात्म्यलक्षणसम्बन्धेनाज्ञानरूपस्य तत्र समावेशः, यदि च ज्ञानरूपत्वमेव तस्य तदाऽपि वस्यैव खविषयत्वमिति तद्वादे स्वीकारेण विषयत्वलक्षणसम्बन्धेन तादात्म्यलक्षण. सम्बन्धेन च ज्ञानरूपस्य तद्वादे अज्ञानरूपं सर्व ज्ञाने समारोपितमिति आरोप्यस्याधिष्ठाने आध्यासिकतादात्म्यमेव सम्बन्ध इति तादात्म्यलक्षणस बन्धेनाज्ञानरूपस्य समावेश इति न प्रत्येकमनयत्वप्रसा इति निषेधहेतुमुपदर्शयति-तादात्म्येनेतिअनाध्यासिकतादात्म्यमात्रेणेत्यर्थः । उभयरूपेति- ज्ञानाज्ञानोभयरूपेत्यर्थ। विषयत्व-तादात्म्याभ्यामिति-प्रस्थकस्य जडात्मकत्वे ज्ञानस्य विपयत्वसम्बन्धेनाज्ञानस्य तादात्म्येनेत्येवमुभयरूपसमावेशस्य, प्रस्थकस्य ज्ञानात्मकत्वे स्वसंवेदनं ज्ञानमिति ज्ञानस्य विषयत्व-तादात्म्याभ्यामज्ञानस्य विषयत्वसम्बन्धाभावेऽप्याध्यासिकतादात्म्यं ज्ञाने समस्तीति तद्रूपतादात्म्यसम्बन्धेनेत्येवमुभयरूपसमावेशस्य च सम्भवादित्यर्थः । ननु सर्वस्य वस्तुनो ज्ञानात्मकत्वमिति योगाचारमताश्रयणेन प्रस्थकस्य ज्ञानात्मकत्वोपपादने तादात्म्यसम्बन्ध एवं केवलोऽवतिष्ठत इति कथं तत्र विषयत्वस्य सम्बन्धता, येन विषयत्व-तादात्म्याभ्यामुभयरूपसमावेशवचनमित्यत आह - विषयत्वमपीति । यदाश्रयेण नयान्तराभिप्रायाश्रयेण । तल्यनामधेया एकसंज्ञाभिधेयाः, प्रतिपाद्यानामा- भिधान-प्रत्ययानां भेदे तत्प्रतिपादकस्य शब्दस्यापि भेदः स्यात् , यदा Page #304 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलईतो नयोपदेशः। २३३ विवेचितः प्रस्थकदृष्टान्तोऽथ वसतिदृष्टान्तं विवेचयति लोके चेत्यादिना लोके च तिर्यग्लोके च, जम्बुद्वीपे च भारते । क्षेत्रे तद्दक्षिणार्धे च, पाटलीपुरपत्तने ॥ ६७ ॥ नयामृत-लोक इति । कुत्र भवान् वसतीति पृष्टेऽशुद्धनैगम-व्यवहारवादी लोके वसामीति ब्रूते, जीवद्रव्यस्थितिपर्यायविशेषरूपाया वसतेरधर्मास्तिकायव्याप्ताकाशत्वरूपलोकत्वस्यैव निरूपकता. वच्छेदकत्वाद्, अत एवाकाशे वसामीति तस्य न प्राथमिकः प्रयोगः, शुद्धाकाशत्वस्यातथात्वात् , ततः शुद्धस्तु नैगमो व्यवहारो [बोधि]स्तिर्यग्लोकभेदभिन्ने सर्वत्रापि किं भवान् वसतीति प्रश्ने तिर्यग्लोके वसामीत्युत्तरयति, एवं यथोत्तरप्रश्नेषु यथोत्तरशुद्धा जम्बूदीपादि(वादिनः) ॥ ६७ ॥ गृहे च वसतेः कोणं, नैगम-व्यवहारयोः । अतिशुद्धौ तु निवसन्, वसतीत्याहतुः स्म तौ ॥ ६८॥ तु एकशब्दप्रतिपाद्यत्वेन तेषामन्योऽन्यं तदात्म्यं तदा तत्प्रतिपादिका संज्ञाऽप्यभिन्नेति तेषां तुल्यनामधेयत्वमुपपद्यते, सर्वथाऽर्थानामर्था-ऽभिधान-प्रत्ययानामभेदे 'अयमर्थ इदमभिधानमयं च प्रत्ययः' इति व्यवहारवैचित्र्यं नोपपद्येतातः कथञ्चित् तेषां भेदे तत्प्रतिपादकत्त्य समानानुपूर्वी कस्यापि कथञ्चिद्भेद इत्याशयेनैकनामधेया इत्यनभिधाय तुल्यनामधेया इत्येवमुक्तिः। ज्ञानाज्ञानात्मकत्वोभयेत्यादिप्रन्थरहस्योपवर्णनं नयरहस्यव्याख्यायामस्माभिः कृतमिति विशेषजिज्ञासुभिरवलोकयीयं तदिति ॥६६॥ सप्तषष्टितमपद्यमवतारयति-विवेचित इति । अथ प्रस्थकदृष्टान्तविवेचनानन्तरम् । विवृणोति-लोक इतीति । लोके वसामीत्यत्र सप्तम्या लोकस्य वसतिनिरूपकाधारत्वं प्रतीयते, तत्र का नाम वसतिः ? तन्निरूपकतावच्छेदकं लोकत्वं किमित्याकालानिवृत्तये त्वाह-जीवद्रव्येति-जीवात्मकद्रव्यस्य यः स्थित्यात्मकः पर्यायविशेषस्तद्रूपाया वसतेरित्यर्थः । गत्युपष्टम्भको धर्मास्तिकाय इति धर्मास्तिकायव्याप्ताकाश एव गतिमतां जीव पुद्गलानां गतिर्भवृति, तथा स्थित्युपष्टम्भकोऽधर्मास्तिकाय इत्यधर्मास्तिकायव्याप्ताकाश एव स्थितिमतां जीव-पुदलानां स्थितिर्भवति, तथा च लोकत्वं धर्मास्तिकायव्याप्ताकाशस्वरूपमधर्मास्तिकायव्याप्ताकाशत्वरूपं चेत्येवं निर्वक्तुं शक्यम् , परं तत्र स्थितिविशेषरूपाया वसतेर्निरूपकता विशिष्टे आकाशस्वरूपेऽधर्मास्तिकायव्याप्ताकाशत्वेनैवावच्छिद्यते, न तु धर्मास्तिकायव्याप्ताकाशत्वेनेत्याशयेन 'अधर्मास्तिकाय. व्याप्ताकाशत्वरूपलोकत्वस्यैव' इत्युक्तम् । अत एव स्थितिविशेषलक्षणवसतेर्निरूपकतावच्छेदकत्वस्याधर्मास्तिकाय. व्याप्ताकाशत्वस्यैव भावादेव । तस्य अशुदनैगम-व्यवहारवादिनः। अशुद्धनगम- व्यवहारवादी कुत्र भवान् वसतीत्येवं परेण पृष्टः प्रथमत आकाशे वसामीत्येवं न प्रयुक्रे इत्यत्र हेतुं दर्शयति-शद्धाकाशत्वस्येति-लोकालोकसाधारणाकाशत्वस्थत्यर्थः । अतथात्वात जीवद्रव्यस्थितिपर्यायविशेषरूपाया वसतेर्निरूपकतानवच्छेदकत्वात् । ततः शुद्धस्तु प्राथमिकाशद्धनैगम-व्यवहारवादिनोऽपेक्षया शुद्धः पुनः । नैगमो नैगमनयवादी, व्यवहारो व्यवहारनयवादी वा, अस्य 'तिर्यग्लोके वसामीत्युत्तरयति' इत्यनेन सम्बन्धः। ऊ ति- लोक ऊर्ध्वलोकोऽधोलोकस्तिर्यग्लोक इत्येवं त्रिप्रकारकः, भवता तु लोके वसामीति सामान्येनोकं ततो न ज्ञायते किमूर्ध्वलोके भवान् वसति ? अधोलोके वा भवान् वसति ? तिर्यग्लोके वा भवान् वसति? किं वा सर्वस्मिन्नपि लोके भवान् वसतीत्येवं प्रश्न परेण कृते सतीत्यर्थः । एवं यथोत्तरप्रश्नेषु उक्तप्रकारेण किं तियग्लोके सर्वत्र भवान् वसति ? किं जम्बूद्वीपे सर्वत्र भवान् वसति ? किं भारते क्षेत्रे सर्वत्र भवान् वसति ! कि भारतक्षेत्रदक्षिणा भवान् वसति ? किं तत्र पाटलीपुरपत्तने भवान् वसतीत्येवमुत्तरोत्तरप्रश्नेषु । यथोत्तरशुद्धा इति-पूर्वपूर्वनैगम-व्यवहारवादिनोऽपेक्षयोत्तरोत्तरशुद्धा इत्यर्थः । जम्बूद्वीपादिवादिनः जम्बूद्वीपे वसामि, भारतक्षेत्रे वसामि, तद्दक्षिणार्द्ध वसामि, पाटलीपुरपत्तने वसामीत्युत्तरवादिनः, नैगम-व्यवहारनययोः शुद्धितारतम्यातू तद्वादिनोरपि शुद्धितारतम्यमिति बोध्यम् ॥६॥ Page #305 -------------------------------------------------------------------------- ________________ २३४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । नयामृत-गृहे इति-गृहपर्यन्तवसतिविषया नेगम-व्यवहारभेदा उदाहरणीयाः। नन्वा. धारता आधारस्वरूपा तत्संयोगस्वरूपा वा ? उभयथापि गृहकोण इव लोकेऽप्येकक्षेत्रतया तदविशेषात् किं विशुद्धितारतम्यम् ?, नात्र प्रस्थकन्यायवद् गौणमुख्यकृतो विषय विशेषोऽस्तीति चेत् ? सत्यम्देवदत्तसंयोगपर्यायपरिणतगृहकोणक्षेत्रस्यास्खण्डक्षेत्राद् धर्मभेदादेशेन पृथकृतस्य यथाक्रमं गुरुगुरुतरविषये अभेदोपचारेण विशुद्ध्यपकर्ष सम्भवात् , अन्यथा लोके वसामीत्यन्वयस्यैवानुपपत्तिः, नहि कृत्स्ने लोके देवदत्तवसतिरस्ति, न च विनोपचारं कृत्स्नलोकरूढाल्लोकपदात् तदेशोपस्थितिरस्ति; हन्तैवं वृक्षे कपिसंयोग इत्यत्राप्युपचारः स्यादिति चेत् ? कः किमाह ?, स्यादेव, कथमन्यथा वृक्षे न किमपिसंयोगः किन्तु तद्देश इत्यनुपचरितः प्रयोगः, शुद्धसम्बन्ध-व्यापकत्वविशिष्टसम्बन्धसंसर्गबोधतात्पर्य ___ एकवाक्यस्वरूपत्वेन युग्मात्मके पद्यद्वये सप्तषष्टितमपद्ये व्याख्यायाष्टषष्टितमपद्यं विवृणोति-गृहे इतीति । पद्ये "कोणं" इत्यस्य स्थाने 'कोणे" इति पाठो युक्तः, 'वसतेः कोणे' इत्यस्य 'गृहस्य कोणे' इत्यर्थः । सर्वेषां सप्तम्यन्तानां वसतीत्यनेन सम्बन्धः। फलितार्थमावेदयति- गृहपर्यन्तेति- अत्र 'गृहकोणपर्यन्त ' इति पाठो युक्तः । शङ्कते- नन्विति । तत्संयोगरूपा आधारेण सहाधेयस्य यः संयोगस्तदात्मिका। उभयथाऽपि आधारस्वरूपत्वे तत्संयोगस्वरूपत्वेऽपि च । तदविशेषात् आधारत्वस्य सर्वत्राविशिष्टत्वात् । 'नहि' इत्यस्य 'अस्ति' इत्यनेनान्वयः । अत्र वपतिदृष्टान्ते। समाधत्ते-- सत्यमिति । देवदत्तेति- देवदत्तेन सह यः संयोगलक्षण: पर्यायस्तदात्मना परिणतं यद् गृहकोणात्मक क्षेत्रं तस्य, अखण्डक्षेत्राद्- अधर्मास्तिकायव्याप्ताकाशात्मकलोकादिलक्षणक्षेत्राद्, धर्मभेदादेशेन-धर्मभेदाश्रयणेन, पृथक्तस्य- धर्मभेदाद् धर्मिभेद इति न्यायतो विभिन्नतामितस्य, यथाक्रम- देवदत्तवसतेर्मुख्यमाधारक्षेत्रं गृहकोणलक्षणं तदपेक्षया गुरु गृहम्, तत्र गृइकोणस्याभेदोपचारेण गृहस्य देवदत्तवसतेराधारक्षेत्रत्वम् , एवं गृहापेक्षया पाटली. पुरपत्तनं गुर्विति तद्गृहकोणापेक्षया गुरुतरम्, तत्र गृहकोणस्याभेदोपचारेणेत्येवं क्रमेण गुरुगुरुतरविषये मुख्याधारगृहकोणाभेदोपचारेण, अर्थाद् गृहादिकं गृहकोणाभेदारोपाद् देवदतवसत्याधारक्षेत्रं न तु तदनुपचाराद्, अनुपचारतस्तु गृहकोण एव तदाधार इत्येवं मुख्य-गौमकृतस्यात्रापि विशुद्धयपकर्षस्य सम्भवादित्यर्थः । अन्यथा मुख्याधारस्य गृहकोणस्य गृहादारभ्य लोकपर्यन्तमभेदारोपस्यानाश्रयणे। अखण्डक्षेत्रलोकादिवाचकलोकादिपदालोकादेरेवोपस्थितिन तु गृहकोणस्य, लोकादेश्च कृत्वस्य न देवदत्तवसत्याधारत्वमिति लोके वसामि तिर्यग्लोके वसामीत्यादिप्रयोगोऽन्वयानुपपत्त्या न स्यादित्याह-लोक इति-लोके वसामीत्युपलक्षणं तिर्यग्लोके वसामीत्यादेरपि। 'नहि' इत्यस्य 'अस्ति' इत्यनेनान्वयः । 'नच' इत्यस्य 'अस्ति' इत्यनेनान्वयः । ननु कृत्स्नस्य वृक्षस्यापि न कपिसंयोगाधारत्वं किन्तु तदवयवस्य शाखाविशेषस्यैव, शाखाविशेषस्य च न कृत्स्नवृक्षवाचिवृक्षपदाद् विनोपचारमुपस्थितिरित्यन्वयानुपपत्त्या वृक्षे कपिसंयोग इत्यत्रापि वृक्षस्य तद्देशेऽभेदारोपतो वृक्षपदस्य तद्देश उपचारः स्यादित्याशङ्कते- हन्तैवमिति । यत एव वृक्षे कपिसंयोग इत्युपचरितः प्रयोगस्तत एव वृक्षे न कपिसंयोगः किन्तु तद्देशे इत्यनुपचरितः प्रयोग उपपद्यते, अन्यथाऽखण्डवृक्षवरूपे कपिसंयोगस्य सद्भावे वृक्षे न कपिसंयोग इत्येव न स्यात् प्रतियोगिना सममत्यन्ताभावस्य विरोधादिति समाधत्ते - कः किमाहेति- कः प्रमाता, किं ब्रवीति, न कोऽपि वृक्षे कपिसंयोग इत्यत्र नोपचार इति ब्रवीतीत्यर्थः । स्यादेव वृक्षे कपिसंयोग इत्यत्राप्युपचारः स्यादेव । 'कथम्' इत्यस्य ' अनुपचरितः प्रयोगः' इत्यत्रान्वयः। अन्यथा वृक्षे कपिसंयोग इत्यत्रोपचाराभावे । "किमपि संयोगः" इत्यस्य स्थाने "कपिसंयोग" इति पाठो युक्तः। ननु उपवारानाश्रयणेऽपि वृक्षे कपिसंयोग इत्यत्र शुद्धसमवायलक्षणसम्बन्धेन वृक्षे कपिसंयोगबोधने निरुक्तवाक्यतात्पर्यमिति शुद्धसमवायो वृक्षे कपिसंयोगस्य वर्त। इति वृक्षे कपिसंयोग इत्यनुपचरित: प्रयोग उपपद्यते, वृक्षे न कपिसंयोग इत्यत्र वृक्षव्यापकत्वविशिष्टसमवायसम्बन्धेन वृक्षे कपिसंयोगस्य निषेधबोधने वृक्षे न कपिसंयोग इति वाक्यस्य तात्पर्यमिति वृक्षव्यापकत्वविशिष्ट समवायसम्बन्धावच्छिन्नकपिसंयोगनिष्ठप्रतियोगिताकाभावस्य वृक्षे अद्भावाद् वृक्षे न कपिसंयोग इत्यप्यनुपचरितः प्रयोगः, वृक्षदेशे कपिसंयोग इत्यस्यापि वृक्षदेशव्यापकत्वविशिष्टसमवायसम्बन्धेन वृक्षदेशे कपिसंयोगबोधने तात्पर्यम् . वृक्षदेशे कपिसंयोगस्य तद्व्यापकत्वविशिष्ट समवायसम्बन्धस्य सद्भावादनुपचरितस्तत्प्रयोग उपपद्यत इति न कुत्राप्युपचाराश्रयणकृत्यमित्याशङ्कते-शुद्धसम्बन्धेति- शुद्धसम्बन्धेन यत्संसर्गबोधे Page #306 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । भेदादेवोभयोपपत्तिरिति चेत् ? तर्हि तादृशतात्पर्यभेद एवोपचारानुपचारप्रयोजक आस्थीयताम् ; कास्र्न्यविनिर्मोकेणान्त्रयोपपत्तौ किं शुद्धद्वारेणेति चेत् ? देशाग्रहे तद्विनिर्मोक एव कथम् ? पदशक्त्यनुपग्रहादिति चेत् ? न - स्कन्धपरस्य वृक्षपदस्यैकत्वपरिणतिरूपस्कन्ध पदार्थेनैवोपग्रहात्; भेदविनिर्लुण्ठित एव वृक्षपदार्थ आश्रीयत इति चेत् ? न-अनुभवबाधेन तथाश्रयणायोगादिति दिक् । प्रयोगे त्याद्याका बाहुल्या बाहुल्यकृतं विशुद्ध्यशुद्धिवैचित्र्यमित्यन्ये । अतिशुद्धौ तु तौ नैगम व्ययहारनयौ वसन् वसतीत्य | हतुः स्म, व्युपरताकाङ्क्षाप्रयोगकर्तृत्वादनयोरतिविशुद्धत्वम् ॥ ६८ ॥ 1 ननुवसन् वसतीति वाक्यं गच्छन् गच्छतीति ( वाक्य ) वन्निराकाङ्क्षन्तयाऽप्रमाणमिति कथं तत्रातिविशुद्धत्वमित्याशङ्कायामाह - २३५ तात्पर्यं यच व्यापकत्वविशिष्टसम्बन्धेन संसर्गबोधेऽन्वयबोधे तात्पर्यं तयोर्भेदादेव, उभयोपपत्तिः- वृक्षे कपिसंयोग इति वृक्षे न कपिसंयोग इति प्रयोगद्वयोपपत्तिरित्यर्थः, यत एव कृत्स्नवृक्षे कपिसंयोगस्य समवायो न विद्यते किन्तु तदेकदेश एव तत एव वृक्षपदेन वृक्षदेश एवोपचारादाश्रित इति तत्र कपिसंयोगस्य समवायो वृक्षे देशाभेदारोपत उपचारादिति तत्र तात्पर्यम्, निषेधे तु व्यापकत्वविशिष्ट समवायस्याभावादेवोपचारमन्तरेण तत्र तात्पर्यमित्येवं तात्पर्यभेद उपचारानुपचारयोरेव प्रयोजकः स्वीक्रियतामिति समाधत्ते तति । ननु वृक्षे कपिसंयोग इत्यत्र वृक्षे कृत्स्नत्वं परित्यज्यैव कपिसंयोगस्यान्त्रयबोध इत्येतावतैवोपपत्तौ निरुक्ततात्पर्यभेदोऽपि नाश्रित इति कुत उपचारप्रवेश इत्याशङ्कते - कार्त्स्यविनिमकेणेति- कारस्र्न्यपरित्यागेनेत्यर्थः । अन्वयोपपत्तौ । वृक्षे कपिसंयोगस्यान्वयोपपत्तौ । किं शुद्धद्धारेण ? शुद्धसम्ब न्धेनान्वयबोधे तात्पर्यतोऽन्वयोपपादनेन । वृक्षे कपिसंयोग इत्यत्र वृक्षपदं न सम्पूर्णवृक्षपरं किन्तु वृक्षैकदेशपरमित्येवं प्रहे सत्येव कात्स्र्न्यविनिर्मोको नान्यथेति देशग्रह आवश्यकः, स च नोपचारमन्तरेणेत्युपचरित एव वृक्षे कपिसंयोग इति समाधत्ते - देशाग्र इति । कथमित्यत्र च्छेदः । देशाग्रहेऽपि वृक्षपदस्य सामान्यतः कात्स्न्यदिविशेषणविनिर्मुक्ते वृक्षे शक्तिरिति शक्त्यैव कान्यविनिर्मुक्तवृक्षोपस्थितिसम्भवान्न देशग्रहस्यावश्यकतेति शङ्कते - पदशक्तयेति- “ पदशक्तयनुपप्रहाद् इत्यस्य स्थाने " पदशक्त्युपग्रहाद्” इति " पदशक्त्यनुप्रहाद्” इति वा पाठोऽत्र समुचितः कात्स्य - विनिर्मुक्तवृक्षे वृक्षपदस्य शक्तिबलादेव कात्र्न्यविनिर्मोक इति न तत्र देशग्रहापेक्षेति तदर्थः । प्रकारान्तराभावेन वृक्षपदेन वृक्षैकदेशाग्रहणे सर्वेषां मूल शाखा प्रशाखानामेकस्कन्धरूपतया या परिणतिः सैव वृक्षपदार्थस्तत्रैव वृक्षपदस्य शक्तिरिति तदुपस्थापिते तत्र कपिसंयोगस्यान्वयासम्भवादनुपचरितो वृक्षे कपिसंयोग इति प्रयोगो न सम्भवत्येवेति देशग्रहार्थमुपचार आवश्यक इति समाधत्ते - नेति । स्कन्धपरस्य स्कन्धराकस्य । एकत्वपरिणतिरूपेति वृक्षावयवानां मूलादीनामेकतया या परिणतिस्तदात्मकेत्यर्थः । ननु वृक्षपदार्थेनोपग्रहो ममापि सम्मतः किन्तु वृक्षपदार्थो न वृक्षैकदेशरूपो नवा कृत्नवृक्षरूपोऽपि तु तद्विनिर्मुक्तो वृक्ष एव केवल इत्यादशङ्कते - भेदविनिर्लुठित एवेति कृत्स्नैकदेश लक्षणभेदरहित एवेत्यर्थः । प्रत्यक्षादिप्रमाणेन कृत्स्नवृक्षोऽनुभूयते तदैकदेशो वाऽनुभूयते, न तु भेदविनिर्लुठितवृक्षमात्रमित्य सतस्तदाश्रयणासम्भवादिति समाधत्ते - नेति । तथाश्रयणेति भेदविनिर्लुठितवृक्षपदार्थाश्रयणेत्यर्थः । लोके वसामीत्युक्ते केत्याकाङ्क्षाबाहुल्यम्, तदपेक्षया किश्चिन्न्यूनमा कालाबाहुल्यं तिर्यग्लोके वसामीत्यत्र तदपेक्षया न्यूनाकाङ्क्षासमुदयो जम्बूद्वीपे वसामीयत्र तदपेक्षयाऽपि न्यून:- केत्याकाङ्क्षा समुदयो भारते वसामीत्यत्र, एवमुत्तरोत्तरं न्यूनः केत्याकाङ्क्षासमुदय इत्येवं केल्याचा काङ्क्षाबाहुल्या बाहुल्यकृतं तथाऽभ्युपगन्तृनैगम व्यवहारभेदानां विशुद्धयशुद्धिवैचित्र्यमित्यभ्युपगच्छतां मतमुप "" दर्शयति- प्रयोग इति । उत्तरार्द्ध विवृणोति अतिशुद्धी त्विति । ताविति मूलस्य व्याख्यानं - नैगम-व्यवहारनयाविति । कथं वसन् वसतीति प्रयोगकर्त्रीगम-व्यवहार नययोरतिशुद्धत्वमित्याकाङ्क्षायामाह - व्युपरतेति व्युपरता निवृत्ताssकाङ्क्षा यत्र स व्यु परताकाङ्क्ष एवम्भूतो यः प्रयोगो निवसन् वसतीत्येवंरूपस्तत्कर्तृत्वात् अनयोः नैगम-व्यवहारनययोः, अतिविशुद्धत्वं लोके वसामीति प्रयोगकर्तृनैगमाद्यपेक्षया शुद्धत्वं तिर्यग्लोके वसामीति प्रयोगकर्त्रीः तदपेक्षया शुद्धत्वं जम्बूद्वीपे वसामीति प्रयोगकर्त्रीः एवमुत्तरोत्तरक्रमेण सर्वापेक्षया विशुद्धत्वं वसन् वसतीति प्रयोगकर्नंगमव्यवहारयोरित्यर्थः ॥ ६८ ॥ 2 Page #307 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । तदर्थस्तत्र तत्कालावच्छिन्ना तस्य वृत्तिता । वसत्यद्य न सोऽत्रेति, व्यवहारौचिती ततः ॥ ६९ ॥ 1 नयामृत० - तदर्थः - वसन् वसतीत्यस्यार्थः, तत्र - पाटलीपुरे, तस्य देवदत्तस्य तत्कालाबच्छिन्ना-वर्त्तमानकालावच्छिन्ना, वृत्तिता - स्वत्वप्रयुक्तयथेष्टविनियोगरूपा, तथा च वसन् वसतीत्यस्य वर्त्तमानकालावच्छिन्नवृत्तितावान् वसतीतिक्रियारूपप्रतिपाद्य इति लक्षणयार्थः कर्त्तव्य इत्यर्थः । ततः - तदर्थकरणादेव, पाटलीपुरादेकस्मिन् दिनेऽन्यत्र गते देवदत्ते ' अथ सोऽत्र न वसति' इति व्यवहारस्यौचित्यम्, अन्यथा पाटलीपुरपदे तद्गृहपदेऽपि (च) तद्वासितां देवदत्तस्य (च) रूप [ लक्षण ] - लक्षणां कालघटितामादाय स व्यवहारो न स्यादित्यर्थः ॥ ६९ ॥ २३६ नन्वेवमन्यत्र गतेऽप्ययं पाटलीपुरवासीति कथं व्यवहार इत्यत्राह - यत् त्वन्यत्र गतस्यापि तद्वासित्वं निगद्यते । तद्वासवृत्तिभागित्वे, ज्ञेयं तत् त्वौपचारिकम् ॥ ७० ॥ नयामृत० - यत्विति । यत्त्वन्यत्र गतस्यापि तद्वासित्वं - पाटलीपुरवासित्वम्, निगद्यते तनगदं तु तद्वासवृत्तिभागित्वे-पाटलीपुरवा सप्रयुक्तवृत्तिभागित्वे, औपचारिकं लाक्षणिकं ज्ञेयम्, अत एकोनसप्ततितमपद्यमवतारयति - नन्वित्यादिना । तत्र वसन् वसतीति वाक्यप्रयोगकर्तरि । विवृणोति तदर्थ इतिअत्र तच्छब्देन वसन् वसतीति वाक्यस्य परामर्श इत्यभिप्रायेण तद्विवरणं- वसन् वसतीत्यस्यार्थ इति । तत्रेति मूलस्य विवरण- पाटलीपुरे इति । तस्येत्यस्य विवरणं- देवदत्तस्येति । तत्कालावच्छिन्नेत्यस्य विवरणं- वर्तमानकालावच्छिन्नेति । वृत्तितेत्यस्य विवरणं- स्वत्वप्रयुक्त यथेष्टविनियोगरूपेति - अतिथिरप्यन्यस्य गृहं गत्वा तत्र कश्चित् कालं तिष्ठति, एवमहमप्यत्र वसामीति न ब्रूते, यत्काले स तत्र तिष्ठति तत्कालात्मक वर्तमानकालावच्छिन्ना आधेयतारूपा तद्गृहनिरूपिता वृत्तिता तु तस्य समस्त्यतो वृत्तिताया उक्तखरूपतया निर्वचनम् । एवं चान्यखामिकगृहप्रामादावन्यस्यातिथ्यादैः स्वत्वाभावात् तत्प्रयुक्तो यथेष्टविनियोगो न सम्भवति यस्य तु देवदत्तादेस्तत्र स्वत्वं तस्य स्वत्वप्रयुक्तो यथेष्टविनियोग सम्भवतीति तद्रूपा तस्य तत्र वृत्तिता घटनामाप्नोतीत्याशयः । तथा च उक्तदिशा प्रत्येक शब्दनिर्वचने च । वर्तमानकालावच्छिन्नवृत्तितावान् वसन्' इत्यस्यार्थः, वसतीत्यस्य वसतीत्येवं यत् क्रियारूपं तत्प्रतिपाद्य इत्यर्थः । उक्तार्थः शब्दशक्ति महिम्ना न सम्भवतीत्युकं - लक्षणयेति । इत्यर्थः एवंस्वरूपः पूर्वार्द्धस्यार्थः । उत्तरार्द्ध वित्रृणोति- तत इति - अस्य तदर्थकरणादेवेति विवरणम् । अद्येत्यादिमूलसङ्गमनाय 'पाटलीपुरादे कस्मिन् दिनेऽन्यत्र गते देवदत्ते' इति पूरणम् निरुक्तव्यवहारस्य पाटलीपुरे तत्कालावच्छिन्नवृत्तित्वस्य देव - दत्तेऽभावादौचित्यं निर्वहतीति । अन्यथा वर्तमानकालावच्छिन्न स्वत्वप्रयुक्त यथेष्टविनियोगरूपवृत्तित्वस्य वसत्यर्थतयाऽनाश्रयणे । पाटलीपुरपदे पाटलीपुरात्मकस्थाने । तद्गृहपदेऽपि च पाटलीपुरान्तर्गतदेवदत्तनिवासगृहात्मकस्थानेऽपि च । तद्वासितां पाटलीपुरवासितां पाटलीपुरान्तर्गतगृहवासितां वा । "देवदत्तस्य [ च रूपलक्षण ] लक्षणां" इत्यस्य स्थाने "देवदत्तस्य स्वत्वलक्षणां" इति पाठो युक्तः । कालघटिताम् एतद्दिवसघटिताम् । व्यवहारः अथ सोऽत्र न वसतीति व्यवहारः । न स्यात् ग्रामान्तरगतस्यापि देवदत्तस्य प्रामान्तरावस्थानदिवसेऽपि स्वपुरस्वगृहादौ स्वत्वमस्त्येवेति तन्निषेधव्यवहारो न भवेत् । इत्यर्थः एवंस्वरूप उत्तरार्द्धार्थः ॥ ६९ ॥ सप्ततितमपद्यमवतारयति- नन्वेवमिति । विवृणोति यस्वितीति । तत् त्वित्यस्य विवरणं तन्निगदं त्विति - पाटलीपुरवासित्ववचनं पुनरित्यर्थः । पाटलीति - पाटलीपुरवासनिबन्धना या वृत्तिः - स्वधनपुत्रादिस्वामित्वलक्षणा, तद्भागित्वे- तदाश्रयत्वे इत्यर्थः । औपचारिकमिति मूलस्य विवरणं - लाक्षणिकम् । अत एव पाटलीपुरवासित्ववचनस्य पाटलीपुरवासप्रयुक्तवृत्तिभागित्वे लाक्षणिकत्वादेव । उभयत्र पाटलीपुरे ग्रामान्तरे च यः पुरुषः पाटलीपुरे ग्रामान्तरे Page #308 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । एवोभयत्र वासप्रयुक्तवृत्तिमत्यर्ध वासित्वमपि व्यवह्नियते, बहुकालप्रतिबद्धतद्गतगृह कुटुम्बादिस्वामित्व एव तत्र वसधातोर्लक्षणा, ततोऽपचत्यपि पाचक इति (वत्) प्रायेण तत्रावसत्यपि तद्वासीति प्रयोगसम्भवेऽपि[ अपचतीतिवदवसति वसतीत्यध्य ] नानुपपत्तिः, नन्वित्व र कालीनवासप्रयुक्तवृत्तिभागित्वेनापि वसतीति प्रयोगप्रसङ्गः, इत्यपि युक्तमाभाति ॥ ७० ॥ सङ्घहो वसतिं ब्रूते, जन्तो: संस्तारकोपरि । 66 ऋजुसूत्रः प्रदेशेषु, स्वावगाहनकृत्सु खे ॥ ७१ ॥ नयामृत० – सङ्ग्रह इति । सङ्ग्रहः - सङ्ग्रहनयो जन्तोः संस्तारकोपरि वसतिं ब्रूते - संस्तारकारूढ एव वसतीत्यभ्युपैति, अन्यत्र हि वासार्थस्यैवाघटमानत्वात्, अत एव मूले वृक्षः कपिसंयोगीत्यश्राप्येतन्मते मूलाभिन्नो वृक्षः कपिसंयोगीत्येवार्थ:, अत एव च - 'मूलं कपिसंयोगि न वृक्ष इति प्रतीतिसाम्मुख्यम्, अत एव चोक्तप्रतीत्या संयोगस्य व्याप्यवृत्तित्वं न तु कर्मणस्तस्य देशवृत्तित्वस्वीकारात्' इति च वसति तस्मिन् पाटलीपुर तदन्यग्रामोभयत्रास प्रयुक्तवृत्तिमति पुरुषे, अर्धवासित्वमपि व्यवह्नियते अयं पुरुषः पाटलीपुरे अर्धवासीत्येवं व्यवह्रियते, अपिशब्दात् पाटलीपुरे वसतीति व्यवहियते इत्यस्य सङ्ग्रहः । अन्यत्र गते पाटलीपुरवासित्वव्यवहारस्योपपादकं प्रकारान्तरमुपदर्शयति- बहुकालेति- बहुकालप्रतिबद्धो बहुकालव्याप्त सम्बन्धो यस्तद्गतःपाटलीपुत्रगतो गृहकुटुम्बादिस्तत्स्वामित्वे एव । तत्र अयं पाटलीपुरवासीति प्रयोगे, वसधातोर्लक्षणेत्यर्थः । ततः बहुकालप्रतिबद्धतद्गतगृहकुटुम्बादिस्वामित्वे वसधातोर्लक्षणातः । अपचत्यपीति- यो बहुकालं पचति तस्मिन् कदाचिदपचत्यपि यथाऽयं पाचक इति प्रयोगस्तथा बहुकालं यो यत्र वसति, गृहकुटुम्बादिरपि यस्य तत्र वर्तते तस्मिन् कदाचित् तत्रावसत्यपि तद्वास्ययमिति प्रयोग सम्भवेऽपि अपचति कदाचिदपचति पचतीतिप्रयोगवत् कदाचिदवसति वसतीति प्रयोगस्य नानुपपत्तिरित्यर्थः, पाचक इति वत् ] प्रायेण " इत्यस्य स्थाने " पाचक इति प्रयोगवत्" इति पाठो युक्तः, [अपचतीतिवदवसति वसतीत्यय ] " इत्यस्य स्थाने अपचति पचतीतिवदवसति वसतीत्यस्य इति पाठो युक्तः । "नन्वित्वरकालीन " इत्यस्य स्थाने " न त्वित्वरकालीन " इति पाठः सम्यग् " न तु इत्यस्य ' प्रयोगप्रसङ्गः' इत्यनेनान्वयः । "भागित्वेनापि इत्यस्य स्थाने भागित्वेनावसत्यपि " इति पाठः समीचीनः । इत्वरकालीनेति - स्वल्पकालीनेत्यर्थः, यः खलु स्वल्पकालमेव पाटलीपुरे निवासमेत्य कस्यचिद् गृहादेस्स्वामित्वमासादितवान् बहुकालं त्वन्यत्रैव निवसति तस्मिन्नन्यत्र गते पाटलीपुरेऽवसति सति स्वल्पकालीन पाटलीपुरवा सप्रयुक्तवृत्तिभागित्वेन पाटलीपुरे वसतीति प्रयोगप्रसङ्गो न त्वित्यर्थः । इत्यपि अनन्तरोपदिष्टं पद्यानुपदिष्टप्रकारान्तरमपि । युक्तमाभाति युक्तमैवास्माकं मनसि भासते ॥ ७० ॥ 66 "" ' "" वसतिनिदर्शने सङ्ग्रहर्जुसूत्रनययोरभिमतभेदोपदर्श क्रमे कसप्ततितमपद्यं विवृणोति-सङ्ग्रह इतीति । फलितार्थमाह- संस्तारकारूढ एवेति । अन्यत्र संस्तारकभिन्ने । हि यतः । अत एव सङ्ग्रहनयमते यस्य यद्देशावच्छेदेन संयोगस्तस्य तद्देश एव वृत्तित्वमित्यभ्युपगमादेव । एतन्मते सङ्ग्रहनयमते । अर्थः मूले वृक्षः कपिसंयोगीत्यस्यार्थः । अत एव यद्देशावच्छेदेन संयोग प्रतीतिः सा तद्देशाभिन्न एव संयोगप्रतीतिस्वरूपैवेत्यभ्युपगमादेव, एवमग्रेऽपि । प्रतीति साम्मुख्यं प्रतीत्या सहाविरोधः । अत एवेत्यस्य निरस्तमित्यनेनान्वयः । उक्तप्रतीत्या मूले वृक्षः कपिसंयोगीति प्रतीत्या । " संयोगस्य व्याप्यवृतित्वं " इत्यस्य स्थाने ‘“संयोगस्याव्याप्यवृत्तित्वं " इति पाठो युक्तः, उक्तप्रतीतिर्मूलावच्छेदेन वृक्षे कपिसंयोगावगाहिनी न तु मूळाभिन्नवृक्षे कपिसंयोगावगाहिनी, अवयवावयविनोर्भेदादिति मूलस्य वृक्षवृत्तिकपिसंयोगावच्छेदकत्वं तदैव भवितुमर्हति, यदि वृक्षे कपिसंयोग-तदभावौ वर्तेते, विरोधिनोर्भावयोरेकत्र वृत्त्यर्थमवच्छेदकभेदाश्रयणादिति भवत्युक्तप्रतीतिबलात् संयोगस्याव्याप्य - वृत्तित्वमित्यर्थः । न तु कर्मण इति - कर्मणोऽव्याप्यवृत्तित्वं नाभ्युपगम्यते इत्यर्थ, यावदवयवेषु कर्मणो भाव एवावयवि सुपयते, तथा च मूलादावेकैकस्मिन्नवयवे कर्मभावेऽपि वृक्षो निष्कम्प एव न हि भवति मूले वृक्षः कम्पते इति हातिः किन्तु वृक्षस्य मूलं कम्पते न तु वृक्ष इत्येव प्रतीतिरुपजायते इत्याशयः । तस्य कर्मणः, देशवृत्तित्व २३७ * Page #309 -------------------------------------------------------------------------- ________________ २३८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । प्राचीननैयायिकानामर्धजरतीयमपि निरस्तम् , उभयत्रापि योगक्षेमतौल्यादिति दिक् । ऋजुस्त्र:-ऋजुसूत्रनयः, खे-आकाशे, स्वस्यावगाहनकृत्सु प्रदेशेषु वसतिं ब्रूते-येष्वाकाशप्रदेशेषु देवदत्तोऽवगाढस्तेष्वेवायं तद्वासमभ्युपैति, संस्तारके तद्वसत्यभ्युपगमे तु गृहकोगादावपि तदुपगमप्रसङ्गः, संस्तारकावच्छिन्नव्योमप्रदेशेषु संस्तारक एवावगाढो न तु देवदत्तोऽपीति न तेष्वपि तद्वसतिभणनमुपपद्यते इति स्वावगाहनपर्यन्तानुधावनम् , संस्तारक-गृहकोणादौ देवदत्तवसतिव्यवहारस्तु प्रत्यासत्तिदोषोद्धान्तिमूलक एवेत्येतदभिप्रायः ॥ ७१ ॥ तत्रापि विशेषमाह तेष्वप्यभीष्टसमये न पुनः समयान्तरे । चलोपकरणत्वेनान्यान्यक्षेत्रावगाहनात् ॥ ७२ ॥ नयामृत० तेष्वपीति । तेष्वपि-स्वावगाढेष्वाकाशप्रदेशेष्वपि, अभीष्टसमये-विवक्षितवर्तमानकाले, वसतिः, न पुनः समयान्तरे-भिन्नकाले, अतीतानागतयोः कालयोरेतन्मतेऽसत्त्वात् , तथा चलोपकरणत्वेन-वीर्यसंयोगसव्यतया करणचापल्येन, प्रतिसमयमन्यान्यक्षेत्रस्य -अपरापराकाशप्रदेशास्वीकारादित्यनेन देशावच्छेदेन देशवृत्तित्वस्य व्यवच्छेदः, तेन यावत्सु देशेषु कर्मणां सद्भावे देशिनि व्याप्यवृत्तिकर्मस्वीकारेऽपि न क्षतिः । अधजरतीयं यथा गोरर्धभागो नवीनोऽर्धभागश्च वृद्ध इत्येतदसम्भवदुक्तिकं तथा वृक्षे संयोगोऽव्याप्यवृत्तिर्न तु कर्मेत्यप्यसम्भवदुक्तिकमित्यभिमानमात्रम्, इत्थमप्यभ्युपगत निरस्तमित्यर्थः । उभयत्रापि संयोमे कर्मणि च । योगक्षेमतौल्यादिति-यादृशप्रतीत्या संयोगस्याव्याप्यवृत्तित्वमुपपाद्यते तादृशप्रतीत्या कर्मणोऽप्यन्याप्यवृत्तित्वमुपपादयितुं शक्यमेव, एकत्र तथा प्रतीतिर्भवति, अन्यत्र न भवतीत्याग्रहविजम्भितमेव, देशदेशिनोरभेद एव, देशदेशिभावस्य कल्पितत्वादिति कर्मण इव संयोगस्यापि व्याप्यवृत्तित्वमेवास्थयमित्येवं युक्तिप्रपञ्चसाम्यादित्यर्थः । उत्तरार्द्ध विवृणोति-ऋजुसूत्र इति। फलितार्थमाह - येष्विति । तेष्वेव देवदत्तावगाढाकाशप्रदेशेष्वेव, अयम् ऋजुसूत्रनयः, तद्वासं देवदत्तावासम् , अभ्युपैति स्वोकरोति, स्वावगाढाकाशप्रदेशेष्वेव देवदत्तो वसति संस्तारकोपरीलेवम् ऋजुसूत्रनयोऽभ्युपगच्छतीत्यर्थः । सङ्ग्रहाभ्युपगमं दूषयति-संस्तारक इति । तद्वसत्यभ्युपगमे देवदत्तवासाभ्युपगमे । तदुपगमप्रसङ्गः देवदत्तवसत्यभ्युपगमप्रसङ्ग । तेष्वपि संस्तारकावच्छिन्नव्योमप्रदेशेष्वपि । तद्वसतिभणनं देवदत्तवसतिवचनं देवदत्तः संस्तारकावच्छिन्नव्योमप्रदेशेषु वसतीत्येवरूाम् । नन्वेवं देवदतः संस्तारकोपरि वसति गृहकोणे वसतीत्यादिव्यवहारोऽगि भवति स कथमुपपद्यत इत्यत अह-संस्तारक-गृहकोणादाविति-आदि पदाद् गृह-पाटलीपुत्रादिपरिप्रहः । “प्रत्यासत्तिदोषोद्धान्ति" इत्यस्य स्थाने " प्रत्यासत्तिदोषाद् भ्रान्ति" इति पाठः सम्यग, देवदत्तावगाढाकाशप्रदेशप्रत्यासत्तिः सन्निकृष्टतालक्षणा संस्तारके, तत्प्रत्यासत्तिहकोणे तत्प्रत्यासत्तिहे, तत्प्रत्यासत्तिः पाटलीपुत्रादावित्येवं प्रत्यासत्तिपरम्परालक्षणो यो दोषस्तस्मात् , संस्तारकादौ या देवदत्तनिवासभ्रान्तिस्तन्मूलक एकतचिबन्धन एव संस्तारक गृह-कोणादौ देवदत्तवसतिव्यवहार इति ऋजुसूत्रनयाभिप्राय इत्यर्थः ॥ ७ ॥ द्विसप्ततितमं पद्यमवतारयति-तत्रापीति-स्वावगाढाकाशप्रदेशेष्वपीत्यर्थः । विवृणोति-तेष्वपीति । तेवपीति मूलस्य विवरणं- स्वावगाडेवाकाशप्रदेशेष्वपीति। अभीष्टसमये इति मूलस्य विवरणं-विवक्षितवर्तमानकाल इति । वसतिरिति प्रकरणप्राप्तम् । समयान्तरे इति मूलस्य विवरणं-भिन्नकाले इति । कथं न समयान्तरे वसतिस्त्यिाकाङ्क्षायामाह- अतीता-नागतयोरिति । एतन्मते ऋजुसूत्रनयमते । समयान्तरे वसत्यभाव एव हेतोरुपदर्शकमुत्तरार्द्ध व्याख्यानयति-तथेति । चलोपकरणत्वेनेति मूलस्य विवरणं-वीर्यसंयोगसदृव्यतया करणचापरखेनेति । "वीर्यसंयोगसद्व्य तया” इत्यस्य स्थाने " वोर्यसयोगस व्यतया" इति पाठो युक्तः, वीर्य-वीर्यान्तरायक्षयादिकृता शक्तिः, योपः-मनःप्रभृतयः, सह योगैर्वतत इति सयोगः सन्ति-विद्यमानानि द्रव्याणि - तथाविधपुद्गला यस्य जीवस्यासौ Page #310 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । नाम्, अवमाहनात्- तावदाकाशप्रदेशमात्रावगाहनायाः समयान्तरेऽभावादित्यर्थः ॥ ७२ ॥ स्वस्मिन् स्ववसतिं प्राहुस्त्रयः शब्दनयाः पुनः । एषाऽनुयोगद्वारेषु दृष्टान्तनययोजना ॥ ७३ ॥ नयामृत० – स्वस्मिन्निति । त्रयः शब्दानया शब्द- समभिरूढैवम्भूताख्या नयाः, पुनः, स्वस्मिन् स्ववसतिं प्राहुः, स्वप्रदेशष्वेव स्वस्य मुख्याया वसतेः सम्भवात्, आकाशप्रदेशानामपि परद्रव्यत्वेन तत्र स्वसम्बन्धस्य विचार्यमाणस्याघटनाद्, अत एव दानं हरणादिकं तत्फलमपि चैते नयाः स्वात्मनिष्ठमेव स्वीकुर्वन्तीति दिक् । एषाऽनुयोगद्वारेषु दृष्टान्तनययोजना शब्दतोऽर्थतश्च दर्शितेत्यागममूलत्वादस्यां विश्वासो विधेय इत्यैदंपर्यम् ॥ ७३ ॥ एतैर्दृष्टान्तैरयमस्मान्नयाच्छुद्ध इति कथं ज्ञेयमित्याह शुद्धा ह्येतेषु सूक्ष्मार्था अशुद्धाः स्थूलगोचराः । फलतः शुद्धतां त्वाद्दुर्व्यवहारे न निश्चये ॥ ७४ ॥ २३९ ये च मयामृत० - शुद्धा हीति । एतेषु नयेषूक्तदृष्टान्तरीत्या ये यतः सूक्ष्मार्थास्ते ततः शुद्धाः, यतः स्थूलगोचरास्ते ततोऽशुद्धः, सूक्ष्मत्वं स्थूलत्वं चार्थानां तादृशतादृशबुद्धिविषयत्वेनानुगमनीयम्, न तु बह्वल्पविषयभावेन, तथा सत्युत्तरोत्तरेभ्यः पूर्वपूर्वेषां सूक्ष्मार्थत्वप्राप्तेः, यत उक्तम्- " पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः १ सन्मात्रगोचरात् सङ्ग्रहान्नैगमो भावाभावभूमिकत्वात् भूमविषयः २ सद्विशेषप्रकाशकाद् व्यवहारतः सङ्ग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषय: ३ सद्द्रव्यः, वीर्यप्रधानः सयोगो वीर्य सयोगः, स चासौ सद्द्रव्यश्चेति विग्रहः, तद्भावस्तत्ता तया । प्रतिसमयमिति पूरणम् । अन्यान्यक्षेत्रस्य इत्यस्य स्पष्टीकरणम् - अपरापराकाश प्रदेशानामिति । फलितमाह - तावदाकाशेति ॥ ७२ ॥ साम्प्रत-समभिरूढैवम्भूताख्यानां त्रयाणां शब्दनयानां वसतिनिदर्शने एकस्यैवाभ्युपगमप्रकारस्योपदर्शकं त्रिसप्ततितमपद्यं विवृणोति - स्वस्मिन्नितीति । कथं स्वस्मिन्नेव स्ववसतिमभ्युपगच्छतीत्याकाङ्गायामाह - स्वप्रदेशेष्वेवेति । तत्र आकाशप्रदेशेषु । अत एव स्वभिन्ने स्वसम्बन्धस्य विचार्यमाणस्याघटनादेव । " दानं हरणादिकं " इत्यस्यं स्थाने 'दान- हरणादिकं " इति पाठः सम्यग् । तत्फलमपि दान- हरणादिजन्यफलमपि । एते नयाः शब्द- समभिरूढैवम्भूताख्याः शब्दनयाः । उत्तरार्द्धमुल्लिख्य योजयति - एषेति । अन्यत् स्पष्टम् ॥ ७३ ॥ " चतुःसप्ततितमं पद्यमवतारयति - एतैरिति - अनन्तरमभिहितैः, प्रदेश प्रस्थक-वसत्यभिरूयैरित्यर्थः । इत्याह इत्याकाङ्क्षायामाह । विवृणोति- शुद्धा होतीति । तादृशतादृशबुद्धिविषयत्वेनानुगमनीयमिति - अयमस्मात् सूक्ष्मोऽर्थ इत्याकारकबुद्धिविषयत्वेन सूक्ष्मत्वम्, अयमस्मात् स्थूलोऽर्थ इत्याकारकबुद्धिविषयत्वेन स्थूलत्वं चानुगमनीयमित्यर्थः । न त्वितिबहुविषयकत्वं सूक्ष्मार्थत्वमल्पविषयकत्वं स्थूलार्थत्वमित्येवं सूक्ष्नार्थत्व-स्थूलार्थत्वयोरनुगमनं न सम्भवतीत्यर्थः । निषेधे हेतुमाहतथा सतीति- बहुविषयकत्वं सूक्ष्मार्थत्वमल्पविषयकत्वं स्थूलार्थत्वमित्येवमनुगमने सतीत्यर्थः । उत्तरोत्तरेभ्य इति - सङ्ग्रहनयान्नैगमस्य व्यवहारनयात् सङ्ग्रहस्य ऋजुसूत्रनयाद् व्यवहारस्य शब्दनयाद् ऋजुसूत्रस्य सूक्ष्मार्थत्वप्रसङ्गादित्यर्थः । उत्तरोत्तरनयापेक्षया पूर्वपूर्वनयस्य बहुविषयत्वं पूर्वपूर्वनयापेक्षयोत्तरोत्तरनयस्यात्पविषयत्वमित्यत्र प्राचीनोक्ति संवादमाह - यत उक्तमिति । सामान्यतः पूर्वपूर्वनयस्य बहुविषयत्वमुत्तरोत्तरनयस्यात्यविषयत्वमुपदर्शितं तदेव विशेषतो नामप्राहं दर्शयति सन्मात्र गोचरादिति - सन्मात्रेत्यत्र मात्रपदेनासतो व्यवच्छेदः । भावाभावभूमिकत्वात् सदसद्विषयकत्वात् । भूमविषय: बहुविषयः । अनल्पार्थः बहुविषयः । कालादीत्यादिपदेन लिङ्गसंख्यादेर्यहणम् । भिचार्थोपदर्शिनः Page #311 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । वर्त्तमानविषयाद् ऋजुसूत्राद् व्यवहार त्रिकालविषयालम्बित्वादनल्पार्थः ४ कालादिभेदेन भिन्नार्थोपदशिंनः शब्दाद् ऋजुसूत्रस्तद्विपरीतवेदकत्वान्महार्थ: ५ प्रतिपर्यायशब्दमर्थभेदमभीप्सितः समभिरूढाच्छदस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः ६ प्रतिक्रियं विभिन्नमर्थे प्रतिजानानादेवम्भूतात् समभिरूढस्तदन्यथार्थस्थापकत्वान्महागोचरः " [ ] इति, एवं सति ऋजुसूत्रादेर्व्यवहारस्य बह्वर्थत्वेन सूक्ष्मार्थत्वं स्यात् ? इति बहुविचार सहत्वं सूक्ष्मार्थत्वम्, अल्पविचार सहत्वं च स्थूलार्थत्वमित्यादिकं वा यथासमयं परिभाषणीयम्, इत्थं च निश्चयनया एवैतेषु शुद्धा व्यवहारनयाश्चाशुद्धा इति फलितम्, निश्चयत्वं च व्यवहार - तदुपजीविनयान्यनयत्वं व्यवहार- तदुपजीविनयान्यतरत्वमिति विवेकः, "अहवा सबणयमयं विणिच्छओ इगमयं च ववहारो" [ विशेषावश्यक भाष्ये - गा० ] इति भाष्योक्तं पक्षान्तरं च निश्चयस्य सप्तभङ्गयादिविशेषिततयोपपादनीयम्, अयं च निश्चय व्यवहारयोः शुद्धाऽशुद्धत्वोपन्यासः स्वरूपतः, फलतः शुद्धतां त्वभियुक्ता व्यवहारनये, न तु निश्चये ॥ ७४ ॥ तथाहिक्रियाऽक्रियाफलौचित्यं गुरु-शिष्यादिसङ्गतिः । २४० यत्र सम्यक्त्वहेतुः सा, व्यवहारस्य देशना ॥ ७५ ॥ नयामृत० – क्रियेति । यत्र - बाह्यत्वानुगतात्मद्रव्यवादिनि नये, क्रियाऽक्रियाफलयोरौचित्यं, धर्मानुशासक तयोद्देश्यधर्मानुशासनफळयोगित्वादिना च गुरु-शिष्यादिसङ्गतिः, सा व्यवहारस्य देशना भिन्नार्थविषयकात् । तद्विपरीतवेदकत्वात् कालादिभेदेऽप्यभिन्नार्थोपदर्शकत्वात् । मद्दार्थ | बहुविषयः । प्रतिपर्यायशब्द पर्यायशब्दमभिव्याप्य, एक प्रवृत्तिनिमित्तकत्वेन पराभिमता यावन्तः शब्दास्तेषां भेदेनेति यावत् । अर्थभेदमभीप्सतः अर्थभेदं स्वीकुर्वतः । " अभीप्सितः इत्यस्य स्थाने “ अभीप्सतः " इति पाठो युक्तः । तद्विपर्ययानुयायित्वात् पर्यायभेदेऽप्यर्थ भेदाभ्युपगन्तृत्वात् । प्रभूतविषयः बहुविषयः । प्रतिक्रियमिति व्युत्पत्तिनिमित्तक्रिया भेदेन विभिन्नमर्थमुररीकुर्वाणादेवम्भूतनयात् समभिरूढनयो व्युत्पत्तिनिमित्तक्रिया शून्य कालेऽपि व्युत्पत्तिनिमित्त क्रियोपलक्षितत्वेन तस्यैवार्थस्य व्यवस्थापकत्वाद् बहुविषय इत्यर्थः । तथा च बह्वर्थत्वमेव यदि सूक्ष्मार्थत्वं तदा व्यवहारनयस्य ऋजुसूत्रादिनयतो बह्वर्थत्वेन सूक्ष्मार्थत्वं प्रसज्यत इत्युपसंहरति एवं सतीति एवं चायमस्मात् सूक्ष्मार्थ इति बुद्धिविशेषविषयत्वं सूक्ष्मार्थत्वम्, अयमस्मात् स्थूलार्थ इति बुद्धिविशेषविषयत्वं स्थूलार्थत्वमित्येवं युक्तम् । प्रकारान्तरमपि तत्रोपदर्शयति- बहुविचार सहत्वमिति । एवं सति यत् फलितं तदाह- इत्थं चेति । एतेषु नैगमादिसप्तनयेषु । एते निश्चययाः, इमे व्यवहारनया इति निश्वयत्व व्यवहारत्वयोर्निर्वचनं विना न ज्ञातुं शक्या इति तयोर्विवेकमुपदर्शयति निश्चयत्वं चेति । तदुपजीवीति व्यवहारोपजीवीत्यर्थः । 'व्यवहार- तदुपजीविनयान्यतरत्वमिति " अस्य स्थाने " व्यवहारत्वं व्यवहार - तदुपजीविनयाऽन्यतरत्वमिति " इति पाठो युक्तः, अर्थस्तु व्यक्त एव । सर्वनयमयो निश्चयनयः, एकनयमयो व्यवहारनय इति भाष्योक्तविवेकस्य का गतिरित्याकाङ्खायामाह - अह्नवेति- " अथवा सर्वनयमतं विनिश्चयः, एकनयमतं च व्यवहारः " इति संस्कृतम् । अयं चेति" शुद्धा ह्येतेषु सूक्ष्मार्थाः " इत्यादिनोपदर्शितश्च । यदि स्वरूपतः शुद्धत्वाऽशुद्धत्वयोरुपन्यासोऽयं तर्हि फलतः शुद्धता व्यवहारनिश्चययोर्मध्ये कस्येत्याकाङ्क्षानिवृत्तये उत्तरार्द्ध खङ्गमयति- फलत इति । " त्वभियुक्ता ” इत्यस्य स्थाने "वाहुरभियुक्ता " इति पाटो युक्तः, अत्र अभियुक्ता इति पूरणम्, स्पष्टत्वान्न व्याख्यानमादृतम् ॥ ७४ ॥ 44 " पञ्चसप्ततितमपद्यमवतारयति तथाहीति व्यवहारस्य फलतः शुद्धतामुपदर्शयतीत्यर्थः । विवृगोति- क्रियेतीति । " बाह्यत्वानुगत इत्यस्य स्थाने " बाह्यतत्वानुगत " इति पाठो युक्तः । यत्रेति मूलस्य विवरणं- बाह्यतस्त्राऽनुगतात्मद्रव्यवादिनि नये इति- बाह्यतस्त्वमनुगतात्मद्रव्यं च वदितुम् अस्तीत्येवं गदितुं शीलं यस्य स बाह्यतत्वानुगतात्मद्रव्यवादी तस्मिन्नये, यो नयो बाह्यशरीरादितत्त्वं पूर्वापरभवानुयाय्यैकात्मद्रव्यं चाभ्युपगच्छति तस्मिन् नये इति 6 " Page #312 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। २४१ विनय वैयावृत्त्यादिशुभवीर्योल्लासाधानेन सम्यक्त्वहेतुर्भवतीति ॥ ७५ ॥ भुङ्क्तेऽन्यः कुरुते चान्यो, गुरुः शिष्यश्च यत्र न । देशना निश्चयस्यास्य, पुंसां मिथ्यात्वकारणम् ॥ ७६ ॥ नयामृत०-भुते इति । यत्र-कक्षीकृतक्षणिकत्वपक्षर्जुसूत्रादिनयवृत्ती, अन्य एव क्षणः कुरुते, अन्य एव च भुके, स्वरसत एव प्रतीत्योत्पद्यमानानां क्षणानामुपकार्योपकारकभावरहित्येन गुरुः शिष्यश्च यत्र नास्ति । अस्य निश्चयनयस्य, देशना पुंसां भवति प्रवृत्तिमूलव्यवहारोच्छेदनाहेतुः, तदुपजीविनां क्षणिकज्ञानवादिनां ब्रह्मवादिनां च मते सुतरामेव प्रवृत्तिमूलव्यवहारोच्छेदकत्वान्मिध्यात्वम् , ये हि यावत् । स्थिरात्मद्रव्ये सति तत्र क्रियाया विहितक्रियायाः फलं स्वर्गादि, अक्रियाया निषिद्धक्रियायाः फलं नरकादि सम्भवति, यो यत् कर्म करोति स तत्कर्मफलं मुझे इत्यस्य घटमानत्वात् क्रियाऽक्रियाफलयोरीचित्यमित्यर्थः । निरुकनये गुरुशिष्यादिसङ्गतिमुपादयति-धर्मेति- धर्म गृणात्युपदिशतीति व्युत्पत्त्या शिष्यं प्रति धर्मानुशासकतया धर्मोपदेशकत्वेनैकस्य गुरुभावोऽन्यस्य तु शिक्ष्यते इति शिष्य इति व्युत्पत्त्या उद्देश्यं यद् धर्मानुशासनलक्षणफलं तद्योगित्वादिना तद्वत्त्वादिना शिष्यभाव इत्येवं गुरुशिष्यादिसङ्गतिः सम्भवति । अतः सा व्यवहास्य देशना सम्यक्त्वहेतु. र्भवति । कथं सम्यक्त्वहेतुत्वं तस्या इत्याकालानिवृत्तये उक्त विनयेत्यादि-विनय-वैयावृत्त्यादि यच्छुभं तदनुकूलत्य वीर्योलासस्याधानेनोत्पादनेनेत्यर्थः ॥ ५ ॥ निश्चयदेशनाया मिथ्यात्वकारणत्वस्योपपादकं षट्सप्ततितमं पद्यं विवृणोति- भुत इतीति। यत्र यस्मिन् निश्चयनये। कथम्भूते इत्याकालायां तद्विवरणं-कक्षीकृतेत्यादि-कक्षीकृतः स्वीकृतः ‘यत् सत् तत् क्षणिकम्' इत्येवं रूपः क्षणिकत्वपक्षो येन स कक्षीकृतक्षणिकत्वपक्षः, एवम्भूनो य ऋजुसूत्रादिनयस्तद्वत्तौ- तन्मार्ग, यदा यत् कर्म यत् करोति तदेव तद् विनश्यति नोत्तरकालं तदनुवर्तत इति । अन्य एव फलभोक्तृतो भिन्न एव, क्षणस्थायित्वात् । क्षणः क्षण. स्वरूपः। कुरुते हितमहितं वा कर्म करोति, अन्य एव च कर्मकर्तुः क्षणिकाद् भिन्न एव च, भुले अन्यकर्तृककर्मफलं भुते, एवं चास्मिन् नये क्रियाऽक्रियाफलौचित्यं न सम्भवति । यश्च बहुवित्तव्ययायाससाध्यं कर्म करोति स उत्तरकालभावि तत्कर्मफलमभिलषति, तदभिलाषेणैव विहितकर्मणि प्रवृत्तिर्भवति, यदि च क्षणिकोऽहं नोत्तरकाले स्थास्यामि, अत एव तत्फलभोगोऽपि मम न स्यादेव तर्हि किमर्थमहमेतत् कर्म कुर्यामिति जानन् न कश्चित् तत्र प्रवर्तेत, एवं यथेष्टमभक्ष्यभक्षणा-ऽगम्यागमनादिकर्मकरणेऽपि तत्कर्तुम क्षणिकस्योत्तरकालमस्थायित्वादेव कृतस्य निषिद्धस्य कर्मणोऽनिष्ट फलं न भविष्यतीति किमिति निषिद्धकर्मकरणतो विरमामि यथेष्टमाचरामीति जानन् न कश्चिन्निषिद्धकर्मणो निवर्ततेत्येवं प्रवृत्तिनिवृत्तिनियमव्याहतिरेव स्यादित्याशयः । गुरुशिष्यादिसङ्गतिरपि नास्मिन्नये इत्याह- स्वरसत एवेति-स्वभावत एवेत्यर्थः । प्रतीत्योत्पद्यमानानाम् उत्तरोत्तरक्षण कुर्वदूपात्मकपूर्वपूर्वक्षणमपेक्ष्य जायमानानां क्षणानां क्षणिकानाम्, उपकार्योपकारकभावरहित्येन धर्मानुशासनफलसम्पादनेनोपकार्यः शिष्यः, धर्मानुशासकत्वेनोपकारको गुरुरित्येवं शिष्य-गुर्वोर्य उपकार्योपकार कभावस्तद्राहित्येन, यो हि क्षणो धर्मस्वरूपाभिज्ञो भवति स धर्मस्वरूपाभिज्ञतत्क्षणकुर्वद्रूपात्मक पूर्वक्षणादेव तत्सन्ततिपतितान्न तु धर्मानुशासकगुरुक्षणाद् भिन्नसन्ततिगतादित्याशयः। एवं च कक्षीकृतक्षणिकत्वपक्षर्जुसूत्रनयवृत्तौ यत्र गुरु शिष्यश्च नास्ति अयमस्य गुरुरयमस्य शिष्य इति न सम्भवति, यमुपदिशति स उपदेशकाल एवं वर्तते न तत्रानुशासनफलम् , यस्य च तत् फलं न तमुपदिशति, एवममुं धर्मानुशासनेनानुगृह्णामीति यस्येच्छा स नोपदेशकाले वर्तत इति स न धर्मानुशासको यश्च धर्मानुशासको न तस्य निरुक्तच्छेत्येवमपि न गुरुशिष्यसङ्गतिरस्मिन्नय इत्याशयः । उत्तरार्द्ध सङ्गमयति- अस्येति- यत्पदेनानन्तरमेवाभिहितस्य । निश्चयस्पेति मूलमधृत्वैव तद्विवरणं-निश्चयनयस्येति । "प्रवृत्तिमूलव्यवहारोच्छेदनाहेतुः" इत्यस्य स्थाने "प्रवृतिमूलव्यवहारोच्छेदनाद् मिथ्यात्वहेतुः" इति पाठो युक्तः । कथमेवमवधारणीयमित्या झाझानिवृत्तये स्वाह- तदुरजीविनामिति- निश्चयनयोपजीविनामित्यर्थः । ३१ Page #313 -------------------------------------------------------------------------- ________________ २४२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलट्टतो नयोपदेशः। कण्ठगतचामीकरन्यायेनातथाप्तत्वभ्रमादेव मुक्त्यर्थ प्रवृत्तिमिच्छन्ति तेषां वेदान्तशास्त्रादिवासनया मुक्केर. वाप्तत्वामिमाने कुतः क्लेशमूलब्रह्मचर्यापनुभवनशीलनवं स्यादिति ॥ ७६ ॥ ननु सर्वत्र नायमतिप्रसङ्गो भविष्यति, तथा "बुद्धाद्वैतस्वतत्वस्य यथेष्टाचरणं यदि । शुनां तत्व. दृशां चैव को भेदोऽशुचिभक्षणे ।। १॥" [पञ्चदशी- ] इत्यादिविचारवता शुद्धनयज्ञाननिष्ठास्थिरैकब्रह्मवादिनां वेदान्तिनां विशिष्य मिथ्यात्वमावेदयति-ये हीत । कण्ठगतवामीकरन्यायनेति- चामीकरसुवर्णम्, कस्यचित् पुंसः कण्ठे सुवर्णभूषणं समस्त्येव, अथापि स दोषवशात् सुवर्णभूषणं मम कुत्रापि पतितमित्यवगच्छन् तदन्वेषणप्रवृत्तः कण्ठकण्डूयनार्थ कण्ठदेशे हस्तव्याप रतस्तद्गतमेव सुवर्णभूषणमासाद्य कृतकृयो भवति, अभिलपति च सुवर्णभूषणमवाप्तं मयेति, तथा तन्मते जोवनात्रस्य सच्चिदानन्दब्रह्मरूपस्य सर्वदैव तद्रूपेग व्यवस्थितस्य ब्रह्मैक्यलक्षणा मुक्तिरस्त्येव, अथापि तदनाप्तत्वभ्रान्त्या तत्स्वरूपावार्थ प्रकृतस्य तदनाप्तत्वभ्रममूलाविद्योच्छेदे तदवाप्तिर्भवतीत्येवमुकन्याय - सङ्घटना, “ नातथाप्तत्वभ्रमादेव" इत्यस्य स्थाने " नानवाप्तत्वभ्रमादेव" इति पाठो युक्तः। तेषां ब्रह्मवादिनाम् , वेदान्तशास्त्रवासनया “तत्त्वमसि, अहं ब्रह्मास्मि" इत्यादिवेदान्तार्थप्ररूपकशास्त्रार्थज्ञानजन्यवासनया, मुक्केरवाप्तस्वाभिमाने यद्यपि सकल कर्मक्षयलक्षणा परमानन्दावाप्तिलक्षगा वा मुक्ति प्ता, तथापि खयमुत्प्रेक्षिता नित्यब्रह्मात्मत्वलक्षणा मुक्तिनित्यत्वादवाप्तव ब्रह्माभिन्नस्य खस्य इत्येवमवाप्तवाभिनाने सति, कुत इति-अप्राप्तेष्टप्राप्तये प्रेक्षावन्तः क्लिष्टानुपानमातिष्ठन्ति, न तु प्राप्तत्वेन ज्ञातस्येष्टस्य प्राप्तये क्लिश्यन्ति, ततः क्लेशमूलमतिप्रयत्नप्रभवं यद् ब्रह्मचर्याद्यनुभवनं तत्परिशीलनत्वं- तदभ्यसनत्वं तदेकतानत्वमिति यावत् , कुतः स्यात् ? न कुतश्चित्, तथा च प्राप्तां मुक्किं जानन्तोऽपि ब्रह्मवादिनो यत् प्रवर्तन्ते तन्मिथ्यात्वमेवेत्याशयः ॥७६॥ ___ सप्तसप्ततितमं पद्यमवतारयति-नन्वित्य दिना । निश्चयनयोपजीविनो वेदान्तिनः सर्वेऽपि न प्रवृत्तिमूलव्यवहारमुत्साद. यन्ति येन तेषां प्रवृत्तिमूलव्यवहारोच्छेदेन मिथ्यात्वं प्रसज्येत, किन्तु शुद्धाद्वैतब्रह्मस्वरू स्वात्मानं जानन्तोऽपि ते नाभक्ष्यभक्ष गादिकं यथेष्टमाचरन्ति, तथा सति शुनां तत्त्वदृशां च भेद एव न स्यादत एतादृशविचारवद्भिस्तैर्व्यवहारावलम्बिनी क्रिया सुरक्षितव भवतीत्यत्र पञ्चदशीवचनमुपोलकं अनाति-बुद्धेति- पद्यमिदं स्पष्टार्थम् । इत्यादिविचारवता इत्यादिवचनोपदर्शितविचारशालिना। शुद्धनयज्ञाननिष्ठावताऽपि शुद्धो यो निश्चयनयस्तद्वपं यज्ज्ञानं तदभिम तत्त्वज्ञानं वा तद्विषयकनिष्ठावता, यदेव निश्चयनयात्मकं निश्चयनयाभिमतं वा तत्त्वज्ञानं तदेव तथ्यमिति श्रद्धावताऽपि । यश्च मुक्त्यवाप्तये प्रवर्तते वेदान्ती सोऽपि व्यवहारं न परित्यजतीत्याह-साधकेन चेति-अस्य व्यवहारापरित्यागाद्' इत्यनेनान्वयः । तत्र गीतावचनोपष्टम्भमाह- मारुरुशोरिति । इत्यादिवचनादित्यत्रादिपदेन "योगारूतस्य तस्यैव शमः कारणमुच्यते ॥" इत्युत्तरार्द्धस्य “यदा हि नेन्द्रियार्थेषु न कर्मखनुषग्यते। सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥" [गीता० ] इत्युत्तरपद्यस्य योगारूढलक्षकस्योपग्रहः। पद्यद्वयं चेदं शहराचायणावतायेत्थं व्याख्यातम् -" ध्यान योगत्य फलनिरपेक्षः कर्मयोगो बहिर साधनमिति तं संन्यासत्वेन स्तुत्वाऽधुना कर्मयोगस्य ध्यानयोगसाधनत्वं दर्शयति- आरुरुक्षोरिति- आरुरुक्षोरारोढुमिच्छतोऽनारूढस्य ध्यानयोगेऽवस्थातुमशक्तस्यैवेत्यर्थः, कस्यारुरुक्षोः ? मुनेः-कर्मफलशंन्यासिन इत्यर्थः, किमारुरुक्षोः ! योग, कर्म कारणं साधनमुच्यते योगारूढस्य पुनस्तस्यैव शम उपशमः सर्वकामेभ्यो निवृत्तिः कारणं योगारूढत्वस्य साधनमुच्यत इत्यर्थः, यावद्यावत् कर्मभ्य उपरमते तावत्तावन्निरायासस्य जितेन्द्रियस्य चितं समाधीयते, तथा सति स झटिति योगारूढो भवति, तया चोक्तं व्यासेन- “नैतादृशं ब्राह्मणस्यास्ति वित्तं यथकता समता सत्यता च। शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः ॥” इति ॥ ३ ॥ अथदानी कदा योगारूढो भवतीत्युच्यते- यदेति- यहा समाधीयमानचित्तो योगी हीन्द्रियार्थेषु- इन्द्रियाणामाः शब्दादयस्तेष्विन्द्रियार्थेषु, कर्मसु च- नित्य नैमित्तिक-काम्य-प्रतिषिद्धेषु प्रयोजनाभावबुद्धधा नानुषज्यते- अनुषङ्ग- कर्तव्यताबुद्धिं न करोतीत्यर्थः, सर्वसंकल्पसंन्यासी- सर्वान् संकल्पानिहामुत्रार्थकामहेतून् संन्यसितुं शीलमस्येति स सर्वसंकल्पसंन्यासी, योगारूढः- प्राप्तयोग इत्येतत् तदा- तस्मिन् काल उच्यते, सर्वसंकल्पसंन्यासीति वचनात् सर्वान् कामान् सर्वाणि च कर्माणि संन्यसेदित्यर्थः, संकल्पमूला हि सर्व कामाः, “संकल्पमूलः कामो वै यहाः संकल्पसम्भवाः" "काम ! जानामि ते मूलं संकल्पात् त्वं हि जायसे । न त्वां संकल्पयिष्यामि तेन मे न भविष्यसि" Page #314 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः । २५३ वतापि व्यवहारापरित्यागात्, साधकेन च " आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते" [गीता-अ० ६, श्लो० ३] इत्यादिवचनादेव समाधिसाधनत्वेन व्यवहारापरित्यागादित्याशङ्कयाह परिणामे नयाः सूक्ष्मा, हिता नापरिणामिके । नवाऽतिपरिणामे च, चक्रिणो भोजनं यथा ॥ ७७॥ नयामृत-परिणाम इति । सूक्ष्मा:-सूक्ष्मार्था नयाः, परिणामे-ऐदंपर्यार्थश्रद्धायाम् , हिताः, न पुनरपरिणामिके-उत्सर्गकरुचौ पुरुष, नवातिपरिणामके-अपवादैकरुयो, स्तोकाच परिणामका बहवश्व [ ] इत्यादिस्मृतेः, सर्वकामपरित्यागे च सर्वकर्मसंन्यासः सिद्धो भवति, “स यथाकामो भवति तत्कतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते " [ ] इत्यादिश्रुतिभ्यः " यद्यद्धि कुरुते कर्म तत्तत् कामस्य चेष्टितम् " [ 1 इत्यादिस्मृतिभ्यश्च, न्यायाच- नहि सर्वसंकल्पसंन्यासे कश्चित् स्पन्दितुमपि शकः, तस्मात् सर्वसंकल्पसंन्यासीति वचनात् सर्वान् कामान् सर्वाणि कर्माणि च त्याजयति भगवान् ।" इति । ___ व्याख्यातं चेदं शाङ्करभाष्यं ससपेण भाष्योत्कर्षदीपिकाकृता तच्चेदं- " किं प्रशस्तत्वाद्यावजीवं कर्मयोग एवानुठेय इत्याशङ्कायां ध्यानयोगाधिकारसंपत्तिपर्यन्तमवधिमभिप्रेत्य कर्मयोगस्य ध्यानयोगसाधनत्वप्रदर्शनेनोत्तरमाह- आरुरुक्षोरितियोगं ध्यानयोगमारुरुक्षोरारोदुमिच्छोनियोगेऽवस्थातुमसमर्थस्य, यत्तु योगं ज्ञानयोगमिति तन्न-ध्यानयोगस्यैव प्रक्रान्तत्वात्, कस्यारुरुक्षोः ? मुनेः कर्मफलसंन्यासिन इत्यर्थः, यत्त मुनेनिदिध्यासनाख्यज्ञानयोगवतः श्रवण मननक्रमेण योगमारुरुक्षोरिति, तन-निदिध्यासनवतः पुनः श्रमण-मननक्रमस्यानपेक्षणात्. तयोनिदिध्यासनार्थत्वात् . कर्मफलाभिसन्धि. रहितं कारणं साधनमुच्यते, तस्यैव पूर्व कर्मिणः पश्चाद योगारूढस्य प्राप्तध्यानयोगस्य उपशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढताया आत्मसाक्षात्कारनिर्विकल्पसमाधिपर्यन्तायाः साधनमुच्यते, एतेन योगमन्तःकरणशुद्धिरूपं वैराग्यम्, आरुरुक्षोर्न त्वारूढस्य मुनेर्भविष्यतः कर्मफलतृष्णाल्यागिनः कर्म कारणं योगारोहणे साधनमनुष्ठेयमुच्यते, योगारूढस्य योग पूर्वोकं प्राप्तवतस्तु तस्यैव शमः सर्वकर्मसंन्यास एवं कारणमनुष्ठेयतया ज्ञानपरिपाकसाधनमुच्यत इति प्रत्युक्तम् , ध्यानयोगस्यैवास्सिन्नध्याये वर्णनीयत्वेन तस्तक्षे श्लोकस्य सम्यगुपपत्त्या वर्णनीयार्थ श्रौतं विहायाश्रीतार्थवर्णनस्यानुचितत्वात् , " योगसूत्रं त्रिभिः श्लोकैः पञ्चमान्ते यदीरितम् । षष्ठ भारभ्यतेऽध्यायस्तस्य ख्यानाय विस्तरात् ॥" तत्र सर्वकर्मत्यागेन योग विधास्यस्त्याज्यत्वेन हीनत्वमाशङ्कय कर्मयोग द्वाभ्यां स्तुतवानिति स्वपूर्वप्रन्थादप्यस्मिन् तृतीयश्लोके ध्यानयोगवर्णनस्यावश्यकत्वात् , कदा योगारूढो भवतीत्युच्यत इत्युत्तरश्लोकमवतार्य "योगं समाधिमारूढो योगारूढ इत्युच्यते"। इति योगारूढशब्दार्थप्रदर्शनपरस्वप्रन्थतन्मूलविरोधश्च ॥३॥ कदा योगारूढो भवतीत्यपेक्षायामाह-यदेति- एतेन कीदृशोऽसौ योगारूढो यस्य शमः कारणमुच्यते इत्यत्राह-कः पुनर्योगारूढः ! इत्यत उच्यते इत्यापातनिकायमपि प्रत्युक्तम् , यदातदापदयोः प्रत्यक्षमुपलब्धर्भाष्योक्तपातनिकाया एव युक्तत्वात्, यदा यस्मिन् काले समाधीयमानचित्तो योगी इन्द्रियार्थेषु विषयेषु शब्दादिषु कर्मसु च नित्यादिषु प्रयोजनाभावबुद्धथा नानुषजते अनुषझं कर्तृत्वादिबुद्धि न करोतीत्यर्थः, यतः सर्वान् संकल्पान् विषयविषयकमनोवृत्तिभेदान् कामान् सर्वाणि कर्माणि चेति सर्वसङ्कल्पान् इहामुत्रार्थकामहेतून संन्यसितुं शीलमस्येति सर्वसंकल्पसंन्यासी तदा योगारूढः प्राप्तसमाधिरुच्यते ॥४॥ इति । विवृणोति-परिणाम इतीति । नयस्य सर्वस्य ज्ञानरूपत्वेन सूक्ष्मत्वं कस्यचित् कस्यचिच्च स्थूलत्वमिति स्वरूपतो न सम्भवतीत्यतः सूक्ष्मा इति मूलस्य विवरणं-सूक्ष्मार्था इति । परिणामे इति मूलस्य विवरणम्-ऐदम्पर्यायार्थभद्धायामिति- तात्पर्यविषयीभूतार्थविषयकश्रद्धायामित्यर्थः। हिता इष्टफलदायिनः। अपरिणामिके इति मूलं यथा. श्रुतार्थतया न सातिमझति, सर्वस्य पुंसः प्रतिक्षणं परिणमनस्वभावत्वेन पारिणामिकत्वस्य परिणामवत्त्वलक्षण सम्भवादतः प्रकृतोपयोगिनं तदर्थमुपदर्शयति- उत्सर्गकरुचौ पुरुष इति- उत्सर्गे सामान्यशाने एकाऽद्वितीया रुचिः श्रद्धा यस्य स उत्सर्गकरुचिस्तस्मिन् पुरुषे, सूक्ष्मार्था नया हितावहा न भवन्तीत्यर्थः। मतिपरिणामे इति मूलमपि श्रूयमाणार्थपरतया न सङ्गच्छते, क्षणमपि वस्तु परिणामं नातिकामतीति परिणामातिकमलक्षणस्यार्थस्य, यो हि यस्य यदा परिणामः स तदा तस्य व्यापनभावलक्षणात्यन्तत्वसमकलित एवेति सर्वोऽपि पुरुषोऽतिपारिणामिक एवेति तस्यवच्छेद्यं न Page #315 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । तदितरा इति स्त्ररूपतो बलवानपि निश्चयनयः स्तोकानामुपकारकत्वाद् बहूनां चापकारकत्वाञ्चक्रवर्तिभोजनमिव फलतोऽनर्थनिबन्धनमिति भावः ॥ ७७ ॥ आमे घटे यथा न्यस्तं जलं खघटनाशकृत् । 9 तथाऽपरिणते शिष्ये, रहस्यं नयगोचरम् ॥ ७८ ॥ २४४ नयामृत० - आमे घट इति - स्पष्टम् ॥ ७८ ॥ पृथक्त्वे नाधिकारस्तन्नयानां कालिकते । अधिकारस्त्रिभिः प्रायो, नये व्युत्पत्तिमिच्छताम् ॥ ७९ ॥ नयामृत०- - पृथक्त्व इति । तत् तस्मात् कारणादू बहूपका रोद्देशेनैव देशनायाः प्रवृत्तेः, सूक्ष्मनयानां च बह्वनुपकारकत्वात् कालिकश्रुते पृथक्त्वे - अनुयोगचतुष्टयपृथक्करणे सति, नयानां सर्वेषां नयानामधिकारो नास्ति योजनायामिति शेषः, किं सर्वथैव नाधिकारो ? नेत्याह- त्रिभिः - नैगम-सङ्ग्रहव्यवहारैर्नयैः प्रायोऽधिकारो व्युत्पत्तिमिच्छतां - शिष्याणां हितमिति शेषः, तथा च पारमर्षम् - " एएहिं दिट्ठीवाए परुवणा सुत्तअत्थकहणाय । इह पुण अन्वगमो अहिगारो तीहि उ भगति ॥ " [ आवश्यके गा० ७६० ]॥ पृथक्त्वे ह्यविभागस्यैनैर्यः सूचनामात्रसन्निविष्टैः मूढनयिकं श्रुतमिति न तत्र सर्वनयविवेचनाधिकारः, अपृथक्त्वे तु बहूनां शिष्याणां परिणामकत्वात् तद्धितो बहुत्वेन विभागस्थैर्नयैरमूढनये सूत्रे सर्वनयव्युत्पादनमासीदेवेति भावः । तदुक्तं विद् विद्यते इति स्वरूपोपरञ्जके तस्मिन् विशेषणे सति यत्रापि पुरुषे हितावहत्वं सूक्ष्मार्थनयानां सोऽपि पुरुषोऽतिपारिणामिक एवेति निषेधार्थस्य चाघटमानत्वात् प्रकृतोपयोगिनं तदर्थमाह- अपवादैकरुचाविति विधायकं शास्त्रं सामा न्यशास्त्रं तथार्थसङ्कोचकरणाय यद्विशेषशास्त्रं तदपवादशास्त्रं तदर्थे एकाऽद्वितीया रुचिः श्रद्धा यस्य सोऽपवादैकरुचिस्तस्मिन् पुरुषेऽपि, सूक्ष्मार्था नया हितावहा न भवन्तीत्यर्थः । परिणामकानां स्वल्पत्वात् तदुपकारकत्वेऽपि स्वरूपतो बलवतो निश्चयनयस्य बहूनामपरिणामकानामतिपारिणामिकानां चापकारकत्वाच्चक्रवर्तिभोजनस्येवानर्थ हेतुत्वमिति फलतो न शुद्धत्वं तस्य किन्तु व्यवहारस्यैव फलतः शुद्धत्वमित्याह- स्तोकाश्चेति । " तदितराः" इत्यस्य स्थाने " तदितरे " इति पाठः । परिणामकभिन्ना अपरिणामका अतिपरिणामकाश्च ॥ ७७ ॥ ऐदम्पर्यायार्थविषयक श्रद्धा शून्ये शिष्ये निश्चयनयविषयगोचर उपदेशोऽनर्थहेतुरित्येतत्प्रतिपादकमष्टसप्ततितमपयं स्पष्टार्थत्वान्न विवरणार्हमित्याह- आमे घट इति स्पष्टमिति ॥ ७८ ॥ कालिकश्रुते व्याख्यायां निश्चयनयस्य नाधिकारो व्यवहारनयस्य त्वधिकार इत्यावेदक मे कोनाशीतितमपद्यं विवृणोतिपृथक्त्व इतीति । तदिति मूलस्य विवरणं तस्मात् कारणादिति । तस्मात् कारणादित्यनेन किमुक्तं भवतीत्यपेक्षायां तस्यैव विशिष्य स्वरूपमुपवर्णयति- बहूपका रोद्देशेनैवेति- बहूपका रोद्देशेनैव देशनायाः प्रवृत्तेः सूक्ष्मनयानां च बह्वनुपकारकत्वादित्येतस्मात् कारणादित्यर्थः । कालिकधुते इति प्रसिद्धत्वान्न व्याख्यातम् । पृथक्त्वे इति मूलस्य विवरणम् - अनुपयोगचतुष्टयपृथक्करणे सतीति । नयानामित्यस्य वित्ररणं सर्वेषां नयानामिति । कुत्राधिकारो नास्तीत्यपेक्षायां योजनायामिति शेषः, योजनालक्षणव्याख्याने सर्वेषां नयानामधिकारो नास्तीत्यर्थः । उत्तरार्द्ध ब्याख्यातुमवतारयति- किमिति । उक्तार्थे परमर्षिवचनं प्रमाणयति तथा चेति । एहि इति - "एहि दृष्टिवादे प्ररूपणा सूत्रार्थकथनाय । इह पुनरनभ्युपगमोऽधिकार स्त्रिभिस्तु भण्यते ॥ " इति संस्कृतम् । भावार्थमावेदयति-- पृथक्त्वे हीत्यादि । मूढनयिकं अविज्ञातनयकम् अनेन नयेनेदं श्रुतं प्रवृत्तमित्येवं न ज्ञायत इति । तत्र अविज्ञातनय के Page #316 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। " मूढनइ सुअं कालियं तु न णया समोअरंति इह । अपुहत्ते समोआरो नत्थि पुहत्ते समोआरो॥" [ आवश्यके गा० ७६२ ] त्ति । यद्यप्याचार्यविनेयानां विशिष्टबुद्धिमपेक्ष्याखिलनयव्युत्पादनमैदंयुगीनानामप्यविरुद्धमेव । तदुक्तं" णत्थि नएहिं विहूणं सुत्तं अत्थो अ जिणमए किंचि । आसज्जउ सोआरं गए णयविसारओ बूया ॥" [विशेषावश्यके गा० २२७७ ] इति । तथापि निखिलपर्षदनुपकारित्वेन बहूनामपरिणामातिपरिणामजनकत्वेन चोक्तरीत्या सूत्रे सूक्ष्मनयोपन्यासो न क्रियत इत्यविरोधः ॥ ७९ ॥ तेनादौ निश्चयोग्राहो नग्नानामपहस्तितः । __ रसायनीकृतविषप्रायो सो न जगद्धितः ॥ ८० ॥ नयामृत-तेनेति । तेन-सूत्रोक्तरीत्युलङ्घनस्य कृतान्तकोपावहत्वेन, आदौ निश्चयोद्बाहोनिश्चयनयोपन्यासो, नग्नानां-दिगम्बराणामपहस्तितो-निराकृतः, न-यतोऽसौ निश्चयनयोपन्यासो निखिलनयैकवाक्यतापादकतात्पर्यार्थोषधेन रसायनीकृतविषप्रायस्तदवबोधवतः कस्यचिदेव हितो न तु जगद्धितो, जगद्धितश्च नयो व्यवहार एवेत्यादौ तदुपन्यासेन निश्चयमुपन्यस्तवतां दिगम्बराणामप्राप्तकालत्वादयो बहवो दोषाः ।। ८० ॥ श्रुते। तद्धितः बहुशिष्यहितः। सर्वनयविवेचनाधिकारः, अस्यैव स्पष्टीकरण- बहुत्वेनेत्यादि । अमूढनये विज्ञातनयके, अनेन नयेन इदं सूत्रं प्रवृत्तमनेन च नयेनेदं सूत्रं प्रवृत्तमित्येवं विज्ञातनयके इति यावत् । उकार्थेऽपि परमर्षिवचनसंवादमाह- तदुक्तमिति । मूढनइअं० इति - " मूढनयिकं श्रुतं कालिकं तु न नयाः समवतरन्ति इह । अपृथक्त्वे समवतारो नास्ति, पृथक्त्वे समवतारः । इति संस्कृतम् । ऐदंयुगीनानामपीत्यपिकारेणान्युगीनानां विनेयानां विशिष्टबुद्धिमपेक्ष्याखिलनयव्युत्पादनं हितमित्यत्र किमु वक्तव्यमित्यर्थस्यानेडनम् । उक्तार्थे परमर्षिवचनसंवादमाह-तदकमिति । णस्थि० इति- " नास्ति नयैर्हि विहीनं सूत्रमर्थश्च जिनमते किञ्चित् ? आसाद्य तु श्रोतारं नयान् नयविशारदो ब्रूयात् ॥” इति संस्कृतम् । तथापि उक्तदिशा सर्वनयव्युत्पादनस्याविरुद्धत्वेऽपि । अन्यत् स्पष्टम् ॥७९॥ दिगम्बराणां प्रथमतो निश्चयनयोपन्यासस्यायुक्तत्वावेदकमशीतितमपद्यं विवृणोति-तेनेतीति । तेनेत्यस्य विवरणंसूत्रोकरीत्युल्लनस्य कृतान्तकोपावहत्वेनेति- कृतान्तः- सिद्धान्तः, सिद्धान्तविरुद्धत्वेनेति तदर्थः, सिद्धान्तस्य यमवाचककृतान्तशब्देनोपन्यासात् यं प्रति यमः कुपितः स नश्यत्येव एवं सिद्धान्तविरुद्धो निश्चयनयस्यादावुपन्यासोऽपि भग्न एव, ना, रक्षितुं प्रमाणं प्रभवतीत्यर्थः । आदी व्यवहारनयोपन्यासात् पूर्वमेव । निश्चयोहाह इति मूलस्य विवरणं-निश्वयनयोपन्यास इति । नग्नानामित्यस्य विवरणं-दिगम्बराणामिति । अपहस्तित इत्यस्य विवरणंनिराकृत इति । अत्र हेतुप्ररूपकमुत्तराद्धमित्यावेदनाय यत इति। "न- यतो" इत्यस्य स्थाने "यतो" इति पाठः समुचितः । असाविति मूलस्य विवरण-निश्वयनयोपन्यास इति । उक्तटीकानुसारात् “प्रायो सो" इत्यस्य स्थाने पद्ये "प्रायोऽसौ" इति पाठः सम्यग् । विषस्य रसायनीकरणं कस्यचिदौषधस्य संयोजनया भवति, किमौषधमित्याकावानिवृत्तये टीकायां पूरित-निखिलनयकवाक्यतापादकतात्पर्यार्थोषधेनेति । तदवबोधवतः निखिलनयकवाक्यतापादकतात्पर्यार्थावबोधवतः। यः खलु निश्चयनयावलम्बनेनावेदितस्योपदेशस्याभिप्रेतार्थमवगच्छति स एव निखिलनयानां परस्परमविरोधमवगन्तुं प्रभुरिति तस्य निश्चयनयोपन्यासो रसायनीकृतविषतुल्यत्वाद्धितो न तु निश्चयनयावलम्ब्युपदेशाभिप्रेतार्थमजानतां नयानामेकवाक्यत्वाभावमेवावगच्छतां जनानां निश्चयनयोपन्यासो हित इत्याहन तु जगद्धित इति, एवं च जगद्धितश्व व्यवहार एव व्यवहारनयावलम्ब्युपदेश एव जगतां सर्वेषां तात्पर्या Page #317 -------------------------------------------------------------------------- ________________ २४६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां स गोपदेशः। प्रेक्षावदुपकारितयैवादौ निश्चयनयोपन्यासोऽस्माकं फलवान् भविष्यतीत्याशङ्कायामाह उन्मार्गकारणं पापा परस्थाने हि देशना । बालादेर्नान्ययोग्यं च वचो भेषजवद्धितम् ॥ ८१ ॥ नयामृत०-उन्मार्गेति । परस्थाने-स्वाधिकारिभिन्नाधिकारिणि निमित्ते, हि-निश्चितम् , देशना उन्मार्गकारणमिति हेतोः पापा, न खल्वपरिणतव्यवहारेषु मलिनवस्त्रेषु कुङ्कुमरागाधानवनिश्चय. नयदेशना शोभामावहति, न च बालादेमध्ये अन्ययोग्यं वचोऽन्यस्य भेषजवद्धितं किन्त्वनर्थकारि, तस्मादादौ निश्चयोबाहो नग्नानामनर्थावह एव, तदिदमुक्तं षोडशकप्रकरणे" बालादिभावमेवं सम्यग् विज्ञाय देहिनां गुरुणा । सद्धर्मदेशनापि हि कर्तव्या तदनुसारेण ॥१॥ यद्भाषितं मुनीन्द्रः पापा खलु देशना परस्थाने । उन्मार्गनयनमेतद् भवगहने दारुणविपाकम् ॥२॥ हितमपि वायोरौषधमहितं तच्छ्लेष्मणो यथात्यन्तम् । सद्धर्मदेशनौषधमेवं बालाद्यपेक्षमिति ॥३॥ एतद्विज्ञायैवं यथा शुद्धभावसम्पन्नः । विधिवदिह यः प्रयुत करोत्यसौ नियमतो बोधिम् ॥४॥"८१॥ नन्वनादिकालीनव्यवहारवासनाजनितमात्मशरीराभेदभ्रममुन्मूलयितुं प्रवृत्तेः, अस्मच्छाने आदी भिज्ञानाभिज्ञप्राणिनां हितावहः। इति एतस्मात् कारणात् । आदी प्रथमतः। “तदुपन्यासेन" इत्यस्य स्थाने " तदनुपन्यासेन" इति पाठो युक्तः, तस्य व्यवहारनयानुपन्यासेनेत्यर्थः । अन्यत् स्पष्टम् ॥ ८॥ एकाशीतितमपद्यमवतारयति-प्रेक्षावदुपकारितयैवेति । अस्माकं दिगम्बराणाम् । विवृणोति- उन्मार्गेतीति । परस्थाने इत्यस्य विवरणं- स्वाधिकारिभिन्नाधिकारिणि निमित्ते इति-स्वपदेनात्र देशनाया ग्रहणम् । देशना कथं पापा ? मुख्यतयाऽधर्मस्य गौणतयाऽधर्मकारणस्य च पापपदबोध्यत्वादत उन्मार्गकारणत्वेनाधर्महेतुत्वात् पापपदबोध्या सेत्याशयेनाह-उन्मार्गकारणमिति । हेतोरिति- यतोऽनधिकारिणि देशना उन्मार्गकारणमैतस्मात् कारणात् पापेत्यर्थः । सदृष्टान्तमनधिकारिणि निश्चयनवदेशनायाः शोभानावहत्वमावेदयति-नेति- अस्य 'आवहति' इत्यनेनान्वयः । खलु निश्चितम् , अपरिणतव्यवहारेविति- अज्ञातनयरहस्येष्वित्यर्थः, अस्य निश्चयनयदेशनायामन्वयः। मलिनेति-अत्य न्तमलिनेषु वस्त्रेषु कुङ्कमरागस्य-गगिद्रव्यकुखमरक्किन्न आधानं यथा शोभा नावहति तथेत्यर्थः । न चेत्यस्य हितमित्यनेन सम्बन्धः । बालादेरित्यत्रादिपदात् कुमार युव-वृद्धादेरुपग्रह । भेषजवदिति- यथा कुमारादियोग्यं भेषजं न बालादेहितं बालादियोग्यं च भेषजं न कुमारादेहित तथेत्यर्थः । किन्त्वनर्थकारि कुमारादियोग्यं भेषजं बालादिभ्यः प्रदत्तं तेषामनर्थकरम् । उपसंहरति-तस्मादिति । एतत्संवादकं षोडशकप्रकरणस्थपद्य चतुष्टयमुपदर्शयति-तदिदमुक्तमिति। बालादीति-गुरुणा देहिनामेवं बालादिभावं सम्यग् विज्ञाय तदनुसारेण सद्धर्मदेशनाऽपि कर्तव्या हीत्यन्वयः । तदनुसारेण बालाद्यनुसारेण, बालादिषु मध्ये यस्य या सद्धर्मदेशना योग्या तस्मिन् सा देशना गुरुणा विधेयेत्यर्थः । अन्यत् स्पष्टम् ।। यद्भाषितमिति- 'इति यद् भाषितम्' इति तृतीयपद्यान्तेतिना सह भाषितमित्यस्यान्वयः, खलु निश्चितम् , परस्थाने देशना पापा, भवगहने दारुणविपाकमेतदुन्मार्गनयनम् , यथा वायोहितमप्यौषधं तच्छ्लेष्मणोऽन्त्यन्तमहितम्, एवं बालाद्यपेक्षं सद्धर्मदेशनौषधमिति भाषितं मुनीन्द्रर्यदित्यन्वयः, भवगहने संसारकानने। दारुणविपाकं पर्यन्तेऽशुभफलकम् , वायोः वातव्याधिपीडितस्य, तत् औषधम् , श्लेष्मणः कफादिव्याधिपीडितस्य, एवं तथा, अन्यदुत्तानार्थम् ॥ पतदिति- यः शुभभावनापन्न एतदेवं विज्ञाय इह विधिवद् यथार्ह प्रयुङ्क्ते असौ नियमतो बोधि करोतीत्यन्वयः, बोधि सम्यक्त्वम् , अन्यत् स्पष्टम् ॥ ८॥ द्वपशीतितमपद्यमवतारयति-नन्वित्यादिना । अनादीति- अनादिकालिकी या व्यवहारवासना तया जनितमात्मशरीरयोरभेदभ्रम - तादात्म्यभ्रममुन्मूलयितुम्- अत्यन्तमुच्छेत्तुम् , “प्रवृत्तेः" इत्यस्य स्थाने "प्रवृत्ते" इति पाठो Page #318 -------------------------------------------------------------------------- ________________ २९७ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । निम्बयोदाहः फलेपहिः " सुदपरिचिदाणुभूदा मच्चस्स वि कामभोगबंधकधा । एगत्थस्सुवलंभो णवरि ण सुलभो विभत्तस्स ॥” [ समयप्राभृतम् ] इत्यादिवचनात् , अत एव बुधादिविकलेनेदं कस्यचिदेवादेयं प्रवचनपरमगुह्यमितीतरशास्त्रेभ्यो विशिष्यत इति चेत् ? तर्हि तादृशं समयप्राभृतादिकं हिङ्गुमरिचविक्रयकारिणां मुग्धवणिजामधीनं कुर्वद्भिर्भवद्भिः समीचीनं प्रवचनगुह्ममाघ्रातम्, कथं च पदार्थपरिज्ञानादिव्यवहारव्युत्पत्तो नैमिके द्रव्यसन्हादावप्यादौ निश्चयोपन्यासेन सूचिमुखे मुशलप्रवेशनं व्यवसाय आयुष्मतो नोपहासकरः ।, कथं वा लौकिकव्यवहारजनितभ्रममुन्मूलयितुं लोकोत्तरव्यवहारमुत्पादनस्यैवावसरप्राप्तत्वेन तमुलक्य युक्तः, तस्य निर्मिते इत्यर्थः, अस्मच्छास्त्रे दिगम्बरशास्त्रे, आदी व्यवहारनयोपन्यासात् पूर्वमेव, निश्चयोद्ाहः निश्चयनयोपन्यासः, फलेग्रहिः परिणामे फलप्रदः । उक्कार्थे समयप्राभृतादिवचनं प्रमाणयति-सुद० इति- 'सुतपरिचितानुभूता मर्त्यस्यापि कामभोगबन्धकथा । एकार्थस्योपलम्भो नवरं न सुलभो विभक्तस्य ॥” इति संस्कृतम् । अत एव दिगम्बरशास्त्रस्यात्मशरीराभेदभ्रमोन्मूलनार्थ प्रवृत्तस्यादौ निश्चयोद्राहस्य फलेप्रहित्वादेव, 'अत एवेदमितरशास्त्रेभ्यो विशिष्यते' इत्यन्वयः । “बुधादिविकलेनेदं” इत्यस्य स्थाने "बुद्धयाद्यविकलस्येदं " इति पाठो भवितुमर्हति, यथाश्रुतं तु न सङ्गतिमङ्गति, इदं दिगम्बरशास्त्रम्, बुद्धयाद्यविकलस्य कस्यचिदेव प्रमातुरादेयमुपादेयम्, प्रवचनपरमगुह्यं जैनराधान्तगूढरहस्यावेदकम्, इति एतस्मात् कारणात्, इतरशास्त्रेभ्यः दिगम्बरशास्त्रभिन्नशास्त्रेभ्यो जेनराधान्तरहस्यानावेदकेभ्यः, विशिष्यते विशिष्टं भवति । उक्तदिगम्बराशङ्का समाधत्ते-तहीति। तादृशं प्रवचनपरम गुह्यम् , हिङगुमरीचविक्रयकारिणामित्यनन मुग्धा वणिजोऽत्यन्तं शास्त्ररहस्यानभिज्ञाः स्वाधीनानां शास्त्रदलानां हिङ्गु-मरीचादि. परिवेष्टनकार्ये एवोपयोगं करिष्यन्ति, हिङगुमरीचादिक्रयकारिणश्च मुग्धा व्यवहारिणो बालविष्ठाद्यशुचिप्रमार्जनादिकर्मण्येव तेषामुपयोगं करिष्यन्ति, न तु तदधीनस्य समयप्राभृतादेः प्रवचनपरमगुह्यावदकत्वेन प्रव वनपामगुह्यत्वं ग्रहीष्यन्तीत्यावदितं भवति । भवद्भिः दिगम्बरैः, दिगम्बरस्य साधोः समयप्राभृतादिशास्त्रदलान्यपि स्वस्य सर्वथा निर्ग्रन्थत्वरक्षणाय परित्याज्यान्येवातस्तेषां मुग्धवणिगधीनत्वमावश्यकमेवेति । आघ्रातमित्यने नान्याधीनस्थ शास्त्रस्य सम्यगवलोकनं साभ्यासं न भवत्यत आपाततो निरीक्षणमेव न ततः प्रवचन गुह्यस्य सम्यगवसितिरित्यावेदितम् । कथं चेत्यत्त्य 'नोपहासकरः' इत्यनेनान्वयः । पदार्थेति- अस्य पदस्यायमर्थ इत्येवं यत् पदार्थपरिज्ञानम् , आदिपदात् तजन्यं यद् विहितक्रियाद्याचरणं निषिद्धक्रियाद्यनाचरणं तत्प्रभृतेः परिग्रहः, तदात्मिका या व्यवहारव्युत्पत्तिः व्यवहारोपयोगिनी व्युत्पत्तिस्तत्र । "नैमिके" इति स्थाने " नैयमिके" इति पाठो युक्तः, नियमकारके इति तदर्थः। द्रव्यसङ्गहादी द्रव्यसङ्ग्रहादिग्रन्थेऽपि । आदी प्रथमतः। निश्चयोपन्यासेन निश्चयनयोपन्यासेन। "सुविमुखे" इत्यस्य स्थाने 'सूचीमुखे' इति पाठो युक्तः, फाटितवस्त्रखण्डादेर्योजनादिकर्मनिपुणाऽयोनिष्पन्ना सूची, तस्या मुखं- सूत्रप्रवेशनार्थ छिद्रम्, तदतिसक्ष्म भवति, तत्रातिसूक्ष्ममेव सूत्रं प्रयत्नेन प्रविशति, तत्रातिस्थूलस्य मुशलस्य प्रवेशनं न सम्भवति, यदि कस्यचिदतिमूढमतेः सूचीमुखे मुशलप्रवेशनव्यवसायो भवेत् स निष्फलत्वात् तस्योपहासकर एव भवति, तथा प्रथमतो निश्चयनयोपन्यासेनायुष्मतः-चिरंजीविनो दिगम्बरस्य, परोपकाराध्यवसाय उपहासकरः कथं नेत्यर्थः । "मुशलप्रवेशनं व्यवसाय" इत्यस्य स्थाने "मुशलप्रवेशनव्यवसाय” इति " मुशलप्रवेशने व्यवसाय” इति वा पाठो युक्तः । 'मायष्मता इत्युपादानेन मूर्खश्चिरं जीवतीति वचनात् तथा व्यवसायकतुर्दिगम्बरस्य मूर्खत्वं ध्वनितम् । कथं वेत्यस्य न क्रमविरुद्धतेत्यनेनान्वयः। 'व्यवहारमुत्पादनस्यैवा" इत्यस्य स्थाने "व्यवहारव्युत्पादनस्यैवा" इति पाठो युक्तः । तमुल्लल्य अवसरप्राप्तं लोकोत्तरव्यवहारव्युत्पादनमतिक्रम्य, प्रथमं लौकिकव्यवहारव्युत्पादनं ततस्तबनितभ्रममुन्मूलयितुं लोकोत्तरव्यवहारव्युत्पादनं तदनन्तरं निश्चयनयव्युत्पादनमित्येवं यः क्रमस्तद्विरुद्धता प्रथमतो निश्चयनयव्युत्पादने दिगम्बरस्य स्यादेवेत्यर्थः । नन्वनेकक्षणस्याप्यभ्युपगन्ता व्यवहारः, तत्रैकक्षणस्थित्यभ्युपगन्तृत्वं समस्त्येव, न कक्षणस्थितिमन्तरेणानेकक्षणस्थितिः सम्भवति, एकक्षणस्थितिस्त्वनेकक्षणस्थितिमन्तरेणापि सम्भवति, तथा चानेक Page #319 -------------------------------------------------------------------------- ________________ २४८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । निश्चयव्युत्पादनस्य न क्रमविरुद्धता ?; न च व्यापकनिश्चयाभिधानोत्तरं व्यवहाराभिधानमेवात्र क्रमः, द्वयोरपि नयत्वेन भूमिक्रमानुरोधेनैवात्र क्रमाश्रयणात् , अन्यथा ह्यव्युत्पादितव्यवहारो दुष्प्राप्यव्युत्पत्तिकनिश्चयश्च शिष्यः फलसन्देहदोलाधिरोपणेन संसार एव भ्रामितः स्यात्, तदुक्तमन्यैरपि " अज्ञस्याई प्रबुद्धस्य सर्व ब्रह्मेति यो वदेत् । महानरकजालेषु स तेन विनिपातितः ॥ १ ॥" [ महोपनिषद् ५, १०५ ] इति । न च निश्चयाधिकारी प्रबुद्ध एव (न किं )त्वर्द्धप्रबुद्ध इति वाच्यम् , आपातनिश्चयश्रद्धाजनिते क्रियाऽऽलस्यवतोऽर्द्धप्रबुद्धत्वेऽपि संशयादित्यभिप्रायवानाह ये सीदन्ति क्रियाभ्यासे ज्ञानमात्राभिमानिनः । निश्चयान्निश्चयं ते न जानन्तीति श्रुते श्रुतम् ॥ ८२॥ नयामृत०-य इति । ये ज्ञानमात्राभिमानिन:- ज्ञानमेवास्माकं सर्वा सामग्री सम्पादयिष्यतीति स्वेच्छाकल्पितसन्तोषवन्तः, क्रियाभ्यासे सीदन्ति ते निश्चयान्निश्वयं न जानन्ति, किन्तु शब्दाभिलाक्षणस्थित्युपगमोप्येकक्षणस्थित्युपगमः, एकक्षणस्थित्युपगमस्तु खत एकक्षणस्थित्युपगम इत्येवं निश्चयनयस्य व्याप. कत्वात् प्रथमतोऽभिधानं ततो व्यवहारनयस्याभिधानमित्येव क्रमः, तद्विरुद्धता च नास्त्येव दिगम्बरस्य प्रथमतो निश्चयाभिधाने इत्याशय प्रतिक्षिाति-न चेति। निषेधे हेतुमाह-द्वयोरपीति-निश्चयनय-व्यवहारनययोरपीत्यर्थः । भूमिक्रमानुरोधेनैव प्रथमतो ह्यनतिप्रयोजनो व्यवहारनयव्युत्पत्तिपात्रं भवितुमर्हति, ततो निश्चयनयव्युत्पादनयोग्यो भवतीति प्रथमतो व्यवहारनयव्युत्पत्याधानयोग्यत्वाद् व्यवहारनयभूमिस्ततो व्युत्पादितव्यवहारोऽसौ निश्वयव्युत्पत्त्याधानयोग्यत्वान्निश्चयनयभूमिरित्येवं भूमिक्रमानुरोधेन । अन्यथा भूमिकमानाश्रयणे। हि यतः। अव्युत्पादितव्यवहारः अविज्ञातव्यवहारनयमार्गः, अस्य 'शिष्यः' इत्यनेन सम्बन्धः। यावन्न व्यवहारनये व्युत्पन्नस्तावन्निश्चयनयव्युत्पत्तिको न भवितुमर्हतीति दुष्प्राप्यव्युत्पत्तिकनिश्चयश्चेति- दुष्प्राप्या प्राप्तुमशक्या व्युत्पत्तिर्यस्य स दुष्प्राप्यव्युत्पत्तिकः, दुष्प्राप्यव्युत्पत्तिको निश्चयो यस्य स दुष्प्राप्यव्युत्पत्तिकनिश्चयः, येन पुंसा निश्चयनयस्य व्युत्पत्तिः प्राप्तुं न शक्यते स इत्यर्थः, तथा च व्यवहारमार्गानभिज्ञो निश्चयनयमार्गानभिज्ञश्च शिष्यो निश्चयनयोपन्यासेन एतदुपन्यस्तफलं मयि भवि. ध्यति नवा निश्चयनयोपदिष्टकर्मण इदं फलं नवेत्येवं फलसन्देहलक्षणा या दोला तस्यामधिरोपणेन संसार एव भ्रामितः स्यात्, पुनर्जननं पुनमरणं पुनर्जन्मेत्येवं पुनः पुनः संसायव स्यान्न मुक्तिमासादयेदित्यर्थः । यो यदुपदेशायोग्यः स तदुपदेशतोऽनर्थमेवासादयति न तदुपदिष्ट फलमित्यत्र परवचनसंवादमाह- तदुकमन्यैरपीति। अक्षस्येति- विशेषतो विज्ञानरहितस्येत्यर्थः, तेन सर्वथा ज्ञानरहितत्वस्थ जीवमात्रेऽसंभवेऽपि न क्षतिः । 'सर्व ब्रह्म' इत्येत् प्रतिपाद्यं यथाश्रुतमपि यो न जानाति तस्योक्तवाक्येन श्रुतमात्रेण नेष्टं नवाऽनिष्टमुपजायते तथाविधरागद्वेषराहित्यादत तमई प्रबद्धस्येति- शक्तयोक्तवाक्यप्रतिपाद्यं ज्ञातुं समर्थः, तदभिप्रेतार्थ नावधारयितुं प्रभुः, एतादृशोऽर्द्धप्रबुद्धो दर्शितवाक्येन सर्वस्य वस्तुनो ब्रह्मैकरूपत्वमवगत्यागम्यागमनाऽभक्ष्यभक्षणादिकं यथेष्टमनुतिष्ठेद्, अतस्तदुपदेशतः स महानरकेष्वेव पतितः स्यात् । स अज्ञोऽर्द्ध प्रबुद्धः, तेन सर्व ब्रह्मेत्युपदेशकी। न चेत्यस्य वाच्यमित्यनेनान्वयः । “जनिते क्रिया" इत्यस्य स्थाने "जनितक्रिया" इति पाठो युक्तः । विवृणोति- ये इतीति । ज्ञानमात्राभिमानिन इति मूलस्य विवरणं-ज्ञानमेवास्माकं सर्वो सामग्री सम्पाद. यिष्यतीति स्वेच्छाकल्पितसन्तोषवन्त इति । क्रियाभ्यासे सीदन्ति ज्ञानमात्रेणैव सम्भृतसामग्रीकेणानायासमेव मुक्तिफलं भविष्यत्यस्माकमतः कष्टैकफलिका संयमाराधनादिका क्रिया नाचरितव्येति तदा वरणे क्लिश्यन्तः क्रियां नाचरन्त्येव, ते ज्ञानमात्राभिमानिनः, निश्चयात् वस्तुतः परमार्थत इति यावत्, निश्चयं निश्चयनयरहस्यम् । तत् किं प्रकारान्तरेण निश्चयं ते जानन्ति येन निश्चयादिति विशेषणमुपात्तमिति पृच्छति-किन्विति । उत्तरयति-शन्दा. Page #320 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । २४९ पादिरूपव्यवहारमात्रादेवेति श्रुते- ओघनियुक्त्याख्ये श्रुतम् , तथा च तत्पाठः"णिच्छयमवलंबता णिच्छयओ णिच्छयं अयाणता। णासंति चरणकरणं बाहिरकरणालसा के इ ।।७६२॥" उत्तराध्ययनेऽप्युक्तम्'भर्णिता अकरिता य बंधमुक्खपइनिणो। वायाविरियमित्तेणं समाससिति अप्पयं ॥ १६९ ॥" किञ्च, विषय-स्वरूपा-ऽनुबन्धैर्धर्मस्येव निश्चयस्यापि त्रैविध्यमन्वेषणीयम् , तत्र विषयनिश्चयो निश्चयबुद्ध्या ब्रह्मैकान्तादिश्रवणम् , अनादिस्वरूपनिश्चयो जैनशास्त्रस्थ निश्चयनयप्रन्थपरिशीलनम् , अनुबन्ध. निश्चयश्च प्रणिधिप्रवृत्तिविघ्नजयसिद्धिविनियोगपवित्रोत्तरतद्भाववृद्धिहेतुर्व्यवहारक्रियाप्रवृत्तिरिति, सामर्थे क्रियालसस्य निश्चयाभिमानो विशिष्टफलानावहत्वेन न ज्यायान् । न वा तदनुकूलकुवासनाधायक दिगम्बरदर्शनमपीति किमतिविस्तरेण ॥ ८२ ॥ उक्त दृष्टान्तप्रदर्शनपूर्व नयानां शुद्ध्यशुद्धी । अथ निक्षेपनययोजनां प्रदर्शयन्नाह इष्टः शब्दनयैर्भावो, निक्षेपा निखिलाः परैः । मतं मङ्गलवादेऽन्यद्, भिदां द्रव्यार्थिके त्रये ॥ ८३ ॥ नयामृत०-इष्ट इत्यादौ । शक्यतावच्छेदकभेदेनैकस्य शब्दस्याने कशक्तिप्रदर्शकं वचनं निक्षेपः, भिलापादीति-मात्रादेवेत्यनन्तरं निश्चयं जानन्तीत्यस्यानुकर्षः। इति एवम् । श्रुते इत्यस्य विवरणम्- ओघनियुक्याख्ये इति- ओघनियुक्तिनामके श्रुते इत्यर्थः । श्रुतं पठितम् । तत्पाठ: ओघनियुक्तिपाठः । णिच्छय० इति"निश्चयमवलम्बमाना निश्चयतो निश्चयमजानन्तः। नाशयन्ति चरणकरणं बाह्य करणालसाः केऽपि ॥” इति संस्कृतम् । उत्तराध्ययनपाठमुपदर्शयति-भणिता० इति - "भणन्तोऽकुर्वन्तश्च बन्धमोक्षप्रतिज्ञावन्तः । वाग्वीर्यमात्रेण समाश्वसन्ति आत्मानम् ॥” इति संस्कृतम् । विषयेति- अयं धर्मस्य विषयः, इदं धर्मस्य स्वरूपम् , अयं धर्मस्यानुबन्धः, धर्मे आचरिते इदं फलं निष्पद्यत इति यावत् , इत्थं विषयस्वरूऽनुवन्धधर्मस्य यथा त्रैविध्यं तथाऽयं निश्चयस्य विषयः. इदं च निश्चयस्य स्वरूपम् , अयं च निश्चयस्यानुबन्ध इत्येवं निश्चयस्थापि, त्रैविध्यं यथा ज्ञायेत तथा प्रयत्नो विधेय इत्यर्थः तत्र निश्चयस्य विषय-ऽस्वरूपा-ऽनुबन्धेषु मध्ये निश्चयबुद्धया निश्चयनयावलम्बिबुद्धया । ब्रह्मकान्तादिश्रवणमित्यत्र छेदोऽशुद्धः, किन्तु 'ब्रह्मैकान्तादिश्रवणमनादि' इत्यत्र छेदः शुद्धः, यदपौरुषेयत्वादनादि ब्रह्मकान्तादिश्रवणमद्वैतवाद्यागमः स विषयनिश्चय इत्यर्थः । जैनेति- जैनशास्त्रे स्थितो यो निश्चयनयग्रन्थस्तस्य परिशीलनमभ्यसनं स्वरूपनिश्चयः, अथवा जैनशास्त्रेऽनेकान्तवादे स्थितास्तत्रैव स्वश्रद्धां प्रगुणीकुर्वन्तो ये सूरयस्तेषां ये निश्चयनयग्रन्था निश्चयनयविषयप्रतिपादकत्वानिश्चयनयात्मकज्ञानजनकत्वाद् वा निश्चयनयस्वरूपा ग्रन्थास्तेषां परिशीलनं स्वरूपनिश्चय इत्यर्थः । प्रणिधीति- प्रणिधि. प्रवृत्तिविघ्नजयसिद्धिविनियोगतः पवित्रस्योत्तरतद्भावस्य वृद्धिहेतुर्या व्यवहारक्रियायां प्रवृत्तिः सा अनुबन्धनिश्चय इत्यर्थः । सामर्थ्य व्यवहारक्रियायां सामर्थे सति । क्रियालसस्य व्यवहारक्रियायामालस्यवतः, यो व्यवहारक्रियां कर्तुं समर्थोs. प्यालस्याद् व्यवहारक्रियां न करोति तस्येति यावत् । निश्चयाभिमानो निश्चयनयाभिमानो। न ज्यायान् श्रेष्ठतमः । तत्र हेतुः-विशिष्टफलानावहत्वेनेति - मुक्तिफलाजनकत्वेनेत्यर्थः। नयेति - निश्चयाभिमानानुकूलवासनाधायकं दिगम्बर. दर्शनमपि नैव ज्याय इत्यर्थः ॥ ८२॥ व्यशीतितमपद्यमवतारयति-उके इति । अथ नयशुद्धयशुद्धद्यपदर्शनानन्तरम् । विवृणोति- इष्ट इत्यादिनेति ।। "इष्ट इत्यादौ” इत्यस्य स्थाने " इष्ट इत्यादिना" इति पाठो युक्तः । किंलक्षणको निक्षेप इत्यपेक्षायामाह- शक्यतेतिघटशब्दस्य नामघटे स्थापनाघटे द्रब्यघटे भावघटे च शक्तिरित्येवं यद् वचनं तत् नामघटत्वादिलक्षणशक्यतावच्छेदकभेदेनैकस्य घटशब्दस्यानेकशक्तिप्रदर्शकमिति भवति निक्षेप. इति लक्षणपङ्गतिः । ननु घटशब्दस्य नामघटे शक्तिरिति ૨૨ Page #321 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । न चैवमनेकार्थनामानुशासनस्यापि निक्षेपत्वप्रसङ्गः, तत्त्वत इष्टत्वाद्, व्यवहारतस्तु सिद्धान्त तदुप जीव्यन्यतरतादृशवचनमेव निक्षेप उच्यते, न तु " लोकाद् " [ सिद्धहेम० अ० १, पा० १, सू० ३ ] इति सूत्रेणोपमानमपीत्यदोषः, तत्र शब्दनयैः, भावो - भावनिक्षेप एवेष्टः परैः - ( अर्थनयैः, निखिलाःअशेषा नामादयश्चत्वारोऽपि, इष्टाः, तथा चोकम् - ) " सव्वणिक्खेवे " [ २५० योऽयं नामनिक्षेपः स निक्षेपलक्षणा कान्तो न स्यात् तस्य नामघटत्वलक्षणैकशक्यतावच्छेदकावच्छिन्न एव घटपदस्यैकशक्तिप्रतिपादकत्वात् एवं घटशब्दस्य स्थापनाघटे शक्तिरित्येवंरूपस्य स्थापनानिक्षेपस्याप्येकधर्माविछिन्न एव शक्तिप्रतिपादकत्वान्निरुक्तलक्षणाक्रान्तत्वाभावानिक्षेपत्वं न स्यात् एवं द्रव्यनिक्षेपभावनिक्षेपयोरपि प्रत्येकं निरुक्तलक्षणाव्याप्तिः, तथा घटशब्दस्य नामघटे स्थापनाघटे द्रव्यघटे भावघटे च शक्तिरित्येवंस्त्ररूपं वचनं न नामनिक्षेपाये कैकरूपमथापि निरुक्तलक्षण|क्रान्तमिति पञ्चमोऽयं भेदो निक्षेपस्यापतेदिति चेत् ? मैवम् घटपदस्य नामघटे शक्तिरिति वचनरूपस्य नामनिक्षेपस्यानेकशक्तिप्रतिपादकत्वस्य सद्भावात् घटरूात्मकस्य यद् घकारोत्तराकारोत्तरट कारोत्तरात्वरूपानुपूर्व्यवच्छिन्नं घटेति नाम तदपि नामघटस्तत्र नामघटत्वं निरुका नुपूर्वी रूपं यस्य कस्यचित् पुंसो घट इति नाम क्रियते सोऽपि नामघटस्तत्र नामघटत्वं तत्पुरुषात्मावच्छेदकबालावस्थाद्या कलितानेकशरीरवृत्तित्सामान्यमेव एवं यस्य कस्यापि वस्तुनो घटेति नाम कृतं स्यात् तद्वस्तुनो नामघटत्वं तत्तदवस्थाभेदभिन्नात्तद्वस्तुगत सामान्यमेवेति तद्रूपशक यतावच्छेदकभेदेनैकस्य घटशब्दस्यानेकशक्तिप्रतिपादकत्वं घटपदस्य नामघटे शक्तिरिति वचनस्य समस्तीति निक्षेपसामान्यलक्षणं तत्र समन्वयमर्हस्यैव एवं घटपदस्य स्थापनाघटे शक्तिरिति वचनको स्थापनानिक्षेपेऽपि निरुक्तनिक्षेप सामान्यलक्षग समन्वयश्चेत्थं स्थापना द्विविधा - सद्भूतस्थापनाऽप्रद्भूतस्थापना च तत्र मार्तिकसौवर्णाद्यात्मकस्य घटस्य यः पृथुवुनाद्याकारः स्वगतो यश्चान्यागतोऽपि तत्सुसदृश आकारः स सद्भूतस्थापना, यश्चान्यादृशोऽपि ' अयं घट:' इत्येवं स्थाप्यते सोऽसद्भूतस्थापना, तदुभयत्र नैकं सामान्यं किन्तु भिन्नमेव स्थापनाघरत्वम् तदवच्छिन्ने स्थापना घटे घटपदस्य शक्तिप्रतिपादकं स्थापनाघटो घटपदशक्य इति वचनमपि स्थापनानिक्षेपो निक्षेप सामान्यलक्षणाकलित एव द्रव्यघटोऽपि यन्मृदादिकमनुभूतघटपर्यायमनुभविष्यद्घटपर्यायं वा तत् सर्वमपि द्रव्यघट इति व्यपदिश्यते, न च तत्सर्वानुगतमेकं द्रव्यघटत्वं किन्तु विभिन्नमेवेति द्रव्यघटो घटपदवाच्य इति वचनखरूरो द्रव्यनिक्षेपोऽपि नानाद्रव्यघटत्ववर्मावच्छिन्ने एकस्य घट शब्दस्यानेकशक्तिप्रतिपादकस्वाद् भवति निक्षेपसामान्यलक्षगालिङ्गितः, भावघडोऽप्यागमतो घटोपयोगलक्षगः, नोआगमतश्च पृथुवुनोदराद्याकारवान् घट इति तदुभयसाधारणमपि भावघटत्वं नैकं किन्तु विभिन्ननिति नानाभावघटत्वधर्मावच्छिन्ने घटपदस्यानेकशक्तिप्रतिपादकं भावघटो घटपदशक्य इति वचनमतस्तदात्मकस्य भावनिक्षेपस्यापि निरुक्तनिक्षे सामान्य लक्षणाक्रान्तत्वम्, यदपि घटपदस्य नामघटे स्थापनाघटे द्रव्यघटे भावघटे च शक्तिरिति ववनं तदपि नैकम्, किन्तु घटपदस्य नामघटे शक्तिरित्याद्यनेकवचनसमुदायरूपमिति न नामनिक्षेपादितो मियते इति न पञ्चमनिक्षेपप्रसङ्ग इति बोध्यम् । अनेकार्थ नामानुशासनेएकपदस्यानेकशक्तिप्रतिपादके निरुक्तनिक्षेप सामान्यलक्षणस्य तिव्याप्ति मारायेष्टापत्त्या परिहरति-न चेति । तस्वतः परमार्थतः । इष्टत्वात् अनेकार्थनामानुशासनस्यापि निक्षेपत्वस्यैष्टत्वात् तदापादनं न दोषायेत्यर्थः । जैन सिद्धान्तातिरिक्तसिद्धान्ते निक्षेपव्यवहारो नास्त्येव किन्तु जैनसिद्धान्ते तदभिज्ञगुम्फितग्रन्थे च निक्षेपव्यवहारः समुपलभ्यते, स च नाम-स्थापना- द्रव्य-भावेष्वेव वचनार्थतया पुरस्कृतेष्विति न नानार्थनामानुशासनस्य लक्ष्यतेत्याशयेनाह - व्यवहारतस्त्विति । सिद्धान्तेति - जैन सिद्धान्त - जैन सिद्धान्तोपजीव्यन्यतरात्मकं यच्छक्यतावच्छेदकभेदेनैकस्य शब्दस्यानेकशक्तिप्रदर्शकं वचनं तदेव निक्षेपः सिद्धान्ताभिज्ञैः कथ्यत इत्यर्थः । न त्विति - " लोकात् " इति सिद्धहेमचन्द्रशब्दानुशासन सूत्रेणोपनीयमानं प्राप्यमाणमनेकार्थानुशासनमपि नैव निक्षेत्रः, तस्य सिद्धान्ततदुपजीव्यन्यतर नात्मकत्वादित्युक्तलक्षणाभावान्न तस्य निक्षेपत्वप्रसङ्ग इत्यर्थः । ' उपनीमान " इत्यस्य स्थाने " उपनीयमान " इति पठो युक्तः । तत्र निक्षेपे । शब्दनयैः साम्प्रत - समभिरूढैवम्भूताख्यैस्त्रिभिः शब्दनयैः । निखिलनिक्षेपाभ्युपगम केऽर्थनयेऽपि भावनिक्षेपोऽभ्युपगत इति शब्दनयैर्भाव इष्ट इति न विशेषप्रतिपत्तिकरमत उक्तम्- भावनिक्षेप एवेति । उक्तार्थे संवादमाह - तथा चोकमिति । " सवनिक्खेवे " अस्य स्थाने "भावं चित्र सद्दनया सेसा इच्छंति सम्वनिक्खेत्रे " इति पाठो युक्तः, " भावमेवं शब्दनयाः शेषा इच्छन्ति सर्वनिक्षेपान् ” इति संस्कृतम् । द्रव्यार्थिकानां नैगम-सङ्ग्रह व्यवहारर्जु " Page #322 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलड़तो नयोपदेशः । २५१ ननु नैगमादीनां नामादिचतुष्टयाभ्युपगन्तृत्वे तेषां द्रव्यार्थिकत्वव्याहतिः स्यात् , द्रव्यार्थिकेन द्रव्यस्यैवाभ्युपगमात् पर्यायस्य प्रतिक्षेपात्, द्रव्यं प्रधानतया पर्यायं च गौणतयाऽभ्युपगच्छन् द्रव्यार्थिकोऽपि भावनिक्षेपसह इति चेत् ? हन्त तर्हि त्वदुक्तरीत्या शब्दनया अपि द्रव्यनिक्षेपसहाः प्राप्ता इति " भावं चिय सद्दणया" [ ] इत्यादिप्रागुक्तभाष्यवचनसंवादव्याघातः, एतेन 'द्रव्यार्थिकपर्यायार्थिकयोईयोस्तुल्यवादेनोभयाभ्युपगमः, परमाद्यस्य सर्वथाऽभेदेनान्त्यस्य तु सर्वथा भेदेन, ततो नैकस्योभयविषयत्वे विषयान्तरग्रहार्थमन्यकल्पनानुपपत्तिः, भेदा-ऽभेदोपरागेणोभयग्रहार्थमुभयकल्पनावश्यकत्वादिति द्रव्यार्थिकस्यापि पर्यायसहत्वम्' इत्यप्यपास्तम् , एवं सति पर्यायार्थिकस्य शब्दादेरपि द्रव्यसहत्वापत्तेः, अत्यन्तभेदाभेदग्राहिणोर्द्वयोः समुदितयोरपि मिथ्यादृष्टित्वात् , अत्यन्ता. भेदे पर्यायद्वयासहोक्तिप्रसङ्गेन गुणे द्रव्यमिति द्रव्यार्थिकनयाभिलापानुपपत्तेः, अत्यन्तभेदेऽपि पर्यायार्थिसूत्राणां भावनिक्षेपाभ्युपगन्तृत्वमसहमानस्य शङ्कामुपत्थापयति-नन्विति । नामादीत्यादिपदात् स्थापना-द्रव्य-भावानामुपग्रहः। तेषां नैगमादीनाम् । नैगमादीनां भावनिक्षेपाभ्युपगन्तृत्वेऽपि द्रव्यार्थिकत्वनियामक द्रव्याभ्युपगन्तृत्वमस्त्येवेति द्रव्यार्थिकत्वं कुतो व्याहतमित्यत आह- द्रव्यार्थिनेति । द्रव्यस्यैवेत्येवकारलभ्यमेव स्पष्टयति-पर्यायस्य प्रति. क्षेपादिति। अत्र प्रतिविधानमाशङ्कते-द्रव्यमिति- न द्रव्यमात्राभ्युपगन्तृत्वं द्रव्यार्थिकत्वनियामकं किन्तु प्राधान्येन द्रव्याभ्युपगन्तृत्वम् , तच्च गौणतया पर्यायाभ्युपगन्तृत्वेऽपि द्रव्यार्थिकस्य सम्भवत्येवेति भावनिक्षेपसहो भवत्येव द्रव्यार्थिक इत्यर्थः। यथा द्रव्यार्थिकस्य गौणतया पर्यायाभ्युपगन्तृत्वं तथा पर्यायार्थिकस्यापि गौणतया द्रव्याभ्युपगन्तृत्वं स्यादेव, तथा च नैगमादीनां द्रव्यार्थिकानामुक्तदिशा निक्षेपचतुष्टयाभ्युपगन्तृत्वे पर्यायार्थिकानां शब्दनयानामपि निक्षेपचतुष्टयाभ्युपगन्तृत्वं स्यात् , एवं 'भावं चिय सद्दनया" [भावमेव शब्दनयाः] इति भाष्यवचनसंवादव्याहतिरित्येवमुक्तविधानप्रतिक्षेपमुपदर्शयति- इन्तेति । त्वदुकरीत्या भवदुपदर्शितप्रधानगौगभावाश्रयणनीत्या । एतेन' इत्यस्य 'अपास्तम्' इत्यनेनान्वयः । तुल्यवादेन समानतया । उभयाभ्युपगमः द्रव्य-पर्यायोभयाभ्युपगमः । यदि द्वयोरपि द्रव्य-पर्यायोभयाभ्युपगन्तृत्वं तर्षे कस्य द्रव्यार्थिकत्वमपरस्य पर्यायार्थि फत्वमिति वैलक्षण्यं कथमित्यत आह-परमिति-किन्वित्यर्थः, आद्यस्य नैगमादिनयस्य । सर्वथाऽभेदेनेति-पर्यायस्य सर्वथा द्रव्याभेद एवेति द्रव्याभ्युपगमे तदभिन्नतया पर्यायस्याप्यभ्युपगम इत्येवं सर्वथाऽभेदेन द्रव्यपर्यायोभयाभ्युपगमो नैगमादिनयस्येत्यर्थः । अन्यस्य तु साम्प्रतादिशब्दनयस्य पुनः। सर्वथाभेदेनेति- पर्यायः सर्वथा द्रव्याद् भिन्न एवेत्येवं सर्वथा भेदेन द्रव्य पर्यायोभयाभ्युपगमः शब्दनयस्येत्यर्थः, तथा चाभिन्नतया द्रव्य-पर्यायोभयावगतये नैगमादिव्यार्थिकस्य भिन्नतया द्रव्यपर्यायोभयावगतये साम्प्रतादिपर्यायार्थिकस्य च कल्पनमुभयविषयत्वेऽपि द्वयोः सम्भवत्येवेत्याह-तत इति । नैकस्येति- 'नः' 'अनुपसत्तिः' इत्यनेनान्वयः । एतेनेत्यतिदिष्टमेव निरासहेतुमाह-एवं सतीति- द्रव्यार्थिकस्य नैगमादेरुक्तदिशा पर्यायसहत्वाभ्युपगमे सतीत्यर्थः । द्रव्यपर्याययोः सर्वथाऽभेदोऽसन्नेवेत्यसतस्तस्याभ्युपगमे नैगमादमिथ्यादृष्टित्वं स्यात् , एवं द्रव्य-पर्याययोः सर्वथा भेदोऽप्यसन्नेवेति तदभ्युपगमे शब्दनयस्यापि पर्यायार्थिकस्य मिथ्यादृष्टित्वं स्यादित्याह - अत्यन्तेति । प्रत्येकत्य मिथ्यादृष्टित्वे समुदितयोरपि मिथ्यादृष्टित्वं नहि प्रत्येकमन्ययोर्द्वयोः समुदितयोर्नान्यत्वमित्याह- समुदितयोरपीति । एवं द्रव्यार्थिकनये द्रव्य-पर्याययोरत्यन्ताभेदे यदेव द्रव्यं तदेव गुण इत्येकार्थकयोर्द्रव्य गुणशब्दयोः पर्यायशब्दत्वाद् द्रव्यशब्दाद् द्रव्यात्मकस्य गुगस्य गुण. शब्दाद् गुणात्मकस्य द्रव्यस्य प्रतीतेर्यथा 'घट: कलशः' इति सहोक्तिर्न सम्भवति तथा गुणो द्रव्यमिति सहोतिर्न स्यादित्याह-अत्यन्ताभेद इति- द्रव्य-पर्याययोरत्यन्ताभेदे इत्यर्थः । पर्यायार्थिकनये द्रव्यपर्याययोरत्यन्तभेदेऽपि पर्यायाथिकन पर्यायभिनं द्रव्यं गृह्यत एवेति द्रव्यग्रहणस्य पर्यायाधिकेनैव सम्भवाद् द्रव्यग्रहार्थ द्रव्यार्थिकनयाश्रयणमकिञ्चित्कर प्रसज्यत इत्याह- अत्यन्त मेदेऽीति- द्रव्य पर्याय पोरत्यन्तभेदेऽपीत्यर्थः । अन्तर्गत्वप्रसकेः निरर्थकत्वप्रसङ्गात् । “एकस्मिन् द्रव्यपक्षे” इत्यस्य स्थाने "एतत्पशे" इति पाठो भवितुमर्हति, द्रव्यार्थिकनयो द्रव्यपर्याययोरत्यन्ता. भेदमभ्युपैति, पर्यायार्थिकनयश्च तयोरत्यन्तभेदमित्येवमभ्युपगन्तृमते इत्यर्थः । यदा च पर्यायार्थिकनयो द्रव्य पर्याययोरत्यन्त. भेदमप्युपैति तदेकं द्रव्यमात्मस्वरूपमभ्युपगच्छत्येव, अन्यथा द्रव्याभावे तेन सह पर्यायस्य भेदाभ्युपगमस्तस्य वा पर्यायेण Page #323 -------------------------------------------------------------------------- ________________ २५२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । केन द्रव्यग्रहे द्रव्यार्थिकस्यान्तर्ग/त्वप्रसक्तः, एकस्मिन् द्रव्यपक्षे पर्यायार्थिकनयमतेऽपि द्रव्यं सामायिकमित्यस्याविरोधप्रसङ्गाच्चैतन्मतस्य भाष्यकृतैव निरस्तत्वाचेति चेत् ? अत्रेदं पर्यालोचयामः-अविशुद्धानां नैगमभेदानां नामाद्यभ्युपगमप्रवणत्वेऽपि विशुद्धनैगमभेदस्य द्रव्यविशेषणतया पर्यायाभ्युपगन्तृत्वान्न तत्र भावनिक्षेपानुपपत्तिः, न चैवमस्य पर्यायार्थिकत्वापत्तिः, इतराविशेषणत्वरूपप्राधान्येन पर्यायानभ्युपगमात् , शब्दादीनां पर्यायाथिकानां तु नैगमवदविशुद्ध्यभावान्न नामाद्यभ्युपगन्तृत्वमिति, नन्वेतदपि पर्यालोचनं न पर्यालोचनान्तरसहम् , स्वविषयविशुद्धिकृतापर्यायविषयताशालित्वस्य स्वविषयविशुद्धिकृतापर्यायाविषयत्वविनिर्मोकस्य वा भावनिक्षेपसहत्वस्य सङ्ग्रहर्जुसूत्रयोरव्यापकत्वात् तज्जातीयेऽविशुद्ध्यभावेनोपसर्जनीकृतपर्यायविषयतया तच्छोधनस्य दुःसाध्य. वात् , ईदृशस्य भावविषयत्वस्य सर्वानुगतत्वेन " सेसा इच्छंति सवणिक्खेवे" [ ] इत्यस्य व्याघातापातादिति चेत् ? न-भावार्थानवबोधात्, ‘अन्त्यनैगमेनेतरविशेषणतया पर्यायो विषयीक्रियते' इत्यस्य ह्ययमर्थः-पाश्चात्यनयात् विशेषोपयोगेन विशेषमनुभवताऽन्त्यनैगमेन सह भेदाभ्युपगमः कथं सङ्गच्छेतेति पर्यायार्थि कमतेऽपि गुणप्रतिपन्नमात्मद्रव्यं सामायिक स्यादेवेति पर्यायार्थिकमते गुणः सामायिकं नात्मद्रव्यमिति न सङ्गतं स्यादित्याह - पर्यायाथिकनयमतेऽपीति। एतन्मतस्य अनन्तराभिहितमतस्य । अत्र उक्तप्रश्ने इदम् अनन्तराभिधीयमानमेव समाधानम् , पर्यालोचयामः सम्यग्विचारयामः, इदं समाधानमपि नवं मयैव परिभावितमतः सम्यगभ्यसनीयं ग्रन्थान्तरेऽनवाप्तेरित्यावेदयितुमुत्तमपुरुषादरः, अविशुद्धानामिति-पर्यायवियुतस्य द्रव्यस्याभावान्न शुद्धो नैगमस्तद्विषयकः, किन्तु अविशुद्धनैगमविशेषा एव केवलं द्रव्यमसदपि ग्रहीतुं प्रभविष्णव इत्यविशुद्धानां नैगमविशेषाणां कञ्चित् कालं स्थिरत्वेन द्रव्यात्मकानां नाम-स्थापना-द्रव्याणां पर्यायवियुतानामभ्युपगमे समर्थत्वेऽपि विशुद्धनैगमविशेषस्य पर्यायाकलितदव्याभ्युपगन्तुर्दव्यविशेषणतया पर्यायाभ्युपगन्तृत्वान्न विशुद्धनैगमभेदे भावनिक्षेपस्यानुपपत्तिरतो द्रव्यार्थिकनयस्य निक्षेपच तुष्टयाभ्युपगन्तृत्वं सुसातमित्याशयः। नन्वेवं विशुद्धनैगमभेदस्य भावनिक्षेपाभ्युपगन्तृत्वे पर्यायाभ्युपगन्तृत्वात् पर्यायार्थि कत्वमपि स्यादित्याशय प्रतिक्षिपति-न चेति । एवं विशुद्धनैगमविशेषस्य भावनिक्षेपसहत्वाभ्युपगमे । अस्य विशुद्धनगमविशेषस्य । निषेधे हेतुमाह- इतरेति-प्राधान्येन पर्यायविषयकत्वमेव पर्यायार्थिकत्वे तन्त्रम् , प्राधान्यं चेतरा विशेषणत्वम् , विशुद्धनगमस्तु द्रव्यविशेषणतया पर्यायं गृह्णाति न तु द्रव्याविशेषणतयेतीतराविशेषणतालक्षणप्राधान्येन पर्यायविषकत्वस्य विशुद्धनैगमेऽभावान्न तस्य पर्यायार्थिकत्वापत्तिरित्यर्थः। शब्दादीनामितिशब्द-समभिरूडैवम्भूतानां पर्यायार्थिकनयानां नैगमवद् विशुद्धयविशुद्धिभेदाभावात् केवलस्य पर्यायस्य द्रव्याविशेषितस्यासतोऽपि समस्त्येव विषयत्वम् , तेषां तदेव विशुद्धत्वमिति नाम-स्थापना-द्रव्यात्मकद्रव्यविषयकत्वस्य तेषु सर्वथैवाभावान्न नामादिनिक्षेपाभ्युपगन्तृत्वं किन्तु केवलभावनिक्षेपभ्युपगन्तृत्वमेवेत्यर्थः । नैगमस्य भावनिक्षेपसहत्वमसहमानः पुनरपि शङ्कते- नन्विति । एतदपि विशुद्धनैगमविशेषस्य द्रव्यविशेषणतया पर्यायविषयकत्वेन भावनिक्षेपसहत्वस्य समर्थकमपि । पर्यालोचनमपि विचारणमपि । पर्यालो वनान्तरमेव दर्शयति- स्वविषयेति- अत्र स्वपदेन यस्मिन् नये भावनिक्षेपसहत्वमुपपादनीयं तस्य प्रहणम् । “विशुद्धिकृतापर्याय" इत्यस्य स्थाने " विशुद्धिकृतपर्याय" इति पाठः सम्यग् । निरुकभावनिक्षेपसहत्वस्य सङ्ग्रहर्जुसूत्रयोरव्यापकत्वमेव व्यवस्थापयति- तज्जातीय इति-सङ्ग्रहजातीये ऋजुसूत्रजातीये चेत्यर्थः । तच्छोधनस्य अविशुद्धिशोधनस्य । ईदृशस्य स्वविषयविशुद्धिकृतपर्यायविषयताशालित्वरूपस्य स्वविषयविशुद्धिप्रयुक्तपर्यायायाविषयत्वविनिमों कलात्वस्य वा । "सर्वानुगतत्वेन" इत्यस्य स्थाने "सर्वाननुगतत्वेन" इति पाठो युक्तः, सङ्घहर्जुसूत्रयोरव्यापकत्वात् सर्वाननुगतत्वम् , सेसा० इति - " शेषा इच्छन्ति सर्वनिक्षेपान्" इति संस्कृतम्। समाधते-नेति । स्वोक्त्यभिप्रेतार्थमेवोपदर्शयति- अन्त्यनेगमेनेति। पाश्चात्यनयादिति- नैगमनयान्तरं सङ्कहनयः प्रवर्तत इति नैगमनयात् पाश्चात्यो नयः सङ्कहनयस्तस्मादित्यर्थः, अस्य विशेषम्' इत्यनेनान्वयः । विशेषो Page #324 -------------------------------------------------------------------------- ________________ २५३ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । शुद्धपर्यायविशिष्टं द्रव्यं विषयीक्रियते' इति, अयं च न्यायः सङ्ग्रहर्जुसूत्रयोरपि विषयविशेषे सम्भवतीति नाव्यापकत्वम् , स्वसजातीयेन वा शुद्धिप्रयुक्तविषय विशेषपर्यवसानसम्भावनाऽपीति न कश्चिद् दोषः, इत्थं चैतदवश्यमभ्युपगन्तव्यम् , उक्तापेक्षां विना " दवढिओ त्ति[ए]को" [ सम्मति० काण्ड० गाथा __] इत्यादिना द्वयोरप्युभयरूपानेकानुप्रवेशपाठसिद्धस्य तत्र भजनाकृतविशेषस्यानुपपत्तेरिति दिक् । पयोगेनेति- सङ्कहनयो विशेषं न गृह्णाति किन्तु सामान्यमेव, नैगमनयपरम्परायां योऽन्त्यो नैगमः यत्पश्चात् सङ्ग्रहप्रवत्तिः सोऽपि यदि विशेषं न गृह्णीयान्न तर्हि तस्य सामान्यग्राहि सङ्ग्रहनयाद् विशेषः स्यात् , एवं च सङ्ग्रह एव तस्य प्रवेशो भवेदिति न नैगमस्यान्यप्रभेदः स स्यादतः स विशेषं गृह्णातीत्यभ्युपेयमिति विशेषोपयोगखरूपेणेत्यर्थः । अत एव तेन पाश्चात्यनयाद्, विशेषमनुभवता वैशिष्ट्यमाकलयतेत्यर्थः । अन्त्यनेगमेन विशेषग्राहित्वाद् विशुद्धेन नैगमस्यान्त्यप्रभेदेन, अस्य 'विषयीक्रियते' इत्यनेनान्वयः । किं विषयीक्रियत इत्यपेक्षायामाह-पर्यायविशिष्टं द्रव्यमिति- इत्थं च पर्यायविशिष्टद्रव्यमाहित्वे द्रव्यविशेषणतया पर्यायग्राहित्वान्नैगमस्य भावनिक्षेपसहत्वमायातमित्याशयः। सङ्ग्रहादीनामप्यक्तदिशा भावनिक्षेपसहत्वमित्याह-अयं च न्याय इति- पाश्चात्यनयाद् विशेषोपयोगेन वैशिष्ट्यशालिना पूर्वनयेन किञ्चिदिशेषविशिष्टद्रव्यविषयीकरणलक्षणो न्याय इत्यर्थः । “सङ्गहर्जुसूत्रयोरपि" अस्य स्थाने “सग्रहव्यवहारयो व्यवहारर्जसत्रयोरपि" इति पाठो युक्तः । उकन्यायसङ्गमनं चेत्थम्- परा-ऽपरभेदेन सङ्ग्रहस्य द्वैविध्यं प्रस्थकवसतिप्रदेशदृष्टान्ते समहस्याभ्युपगमवैचित्र्यमित्यादितः सामान्यतोऽवगम्यत एव, यदुत- सङ्ग्रहनयस्याप्यवान्तरबैलक्षण्यं समस्तीति, तथा च द्रव्यार्थिकस्यापि सङ्ग्रहस्य योऽन्त्यप्रभेदो यदनन्तरं व्यवहारनयस्य प्रवृत्तिः स पाश्चात्यव्यवहारनयेन यथाभूतं द्रव्यं विषयीक्रियते तथाभूतमेव द्रव्यं यदि गृह्णीयान्न तर्हि तस्य व्यवहारनयाद् विशेषो भवेदिति व्यवहारनयाविशिष्टः स व्यवहारनये प्रविशन्न सङ्ग्रहस्य प्रभेदो भवेदतो यद्विशेषविशिष्टं द्रव्यं व्यवहारनयो गृह्णाति तद्व्यतिरिक्तविशेषविशिष्टमेव द्रव्यं गृह्णाति, द्रव्यविशेषणतया विशेषं गृह्णतोऽपि तस्य इतराविशेषणत्वलक्षणप्राधान्येन पर्यायविषयकत्वाभावान्न पर्यायार्थिकत्वम् , द्रव्यविशेषणतया पर्यायविषयकत्वाच भावनिक्षेपसहत्वमपि युज्यते, तथा व्यवहारस्य पाश्चात्येन ऋजुसूत्रनयेन यद्विशेषविशिष्टं द्रव्यं विषयीक्रियते तद्विशेषविशिष्टमेव द्रव्यं यदि व्यवहारान्त्यप्रभेदेन विषयीक्रियेत तर्हि तस्य ऋजुसूत्रादविशिष्टत्वेन तत्रैव प्रवेशे न व्यवहारप्रभेदत्वं स्यादतस्तद्विशेषगातिरिक्तविशेषणविशिष्टमेव द्रव्यं तेन विषयीक्रियते, एवं चोक्तदिशा तस्यापि पर्यायार्थिकत्वाप्रसङ्गो भावनिक्षेपसहत्वं च घटतेतराम् , ऋजुसूत्रस्य तु कश्चिद् द्रव्यार्थिकत्वमभ्युपगच्छति, कश्चित् पुनः पर्यायार्थिकत्वं पूत्कुरुते, द्रव्यार्थिकत्वेऽपि तस्य किञ्चिद्विशेषविशिष्टद्रव्यग्राहित्वेनोपसर्जनतया पर्यायग्राहित्वाद् भावनिक्षेपसहत्वमुपपद्यतेतराम् , इत्थं चतुर्वपि द्रव्यार्थिकेषु भावनिक्षेपाभ्युपगन्तृत्वस्य सम्भवेन न तस्याव्यापकमिति युक्तमुक्तम्- ' निक्षेपा निखिलाः परैः,' इत्युपसंहरति- इति नाव्यापकत्वमिति। ननु नैगमादिप्रभेदानां सर्वेषामेकजातीयानां समानविषयत्वेन विषयभेदाभावात् प्रथमनैगमादितश्चरमनेगमादिप्रभेदेऽपि विषयविशेषसम्भावनैव नास्तीति कुत उक्तदिशा भावनिक्षेपसहत्व नैगमादीनामित्यत आह-स्वसजातीयेन वेति-प्रथमनैगमादिरविशुद्धोऽन्त्यनगमादिस्ततो विशुद्ध इत्यविशुद्धनैगमादिरेव विषयपरिशोधनव्यापृतविचारश्रेणिमारुह्योत्तरोत्तरशुद्धयाधानसमर्थपूर्वपूर्वस्वजातीयेन नेगमादिना शद्धिमासाद्य तन्निबन्धनविषयविशेषावगाहनस्वभावरूपस्य विषयविशेषपर्यवसानस्य सम्भावनाऽस्त्येवान्त्यनगमादिप्रभेदे इत्येकजातीयत्वे समानविषयत्वे च सत्यणि निरुक्तसम्भावनया भावनिक्षेपसहत्वमपि युक्तिमार्गमञ्चतीति न दोषकणिकाऽपीत्यर्थः । इत्थं च उक्तप्रकाराश्रयणतश्च । एतत् भावनिक्षेपसहत्वम्, उकापेक्षां विनेति- द्रव्यार्थिकस्यापि द्रव्यविशेषणतया पर्यायविषयत्वेन भावनिक्षेपसहत्वमिति भावनिक्षेपसहत्वे द्रव्यविशेषणतया पर्यायविषयत्वस्य याऽपेक्षा तां विनेत्यर्थः, अस्य 'भजनाकृतविशेषस्यानुपपत्तेः' इत्यत्रान्वयः । दवटिओत्ति- इयं च सम्मतिगता गाथा, अनया च गाथया इदं प्रतिपाद्यतेयदुत, केवलस्य द्रव्यस्य केवलस्य पर्यायस्य चाभावात् केवलद्रव्यग्राही द्रव्यार्थिकः केवलपर्यायग्राही पर्यायार्थिक इत्येवं शुद्धजातीयो द्रव्यार्थिकः पर्यायार्थिकश्च न विद्यते किन्तु द्रव्यार्थिकोऽपि पर्यायमवगाहते पर्यायार्थिकोऽपि द्रव्यमवगाहत इत्येवं समानविषयत्वे सति भजनाकृतो द्रव्यार्थि कपर्यायार्थिकयोर्विशेषः, भजना च तत्रोकापेक्षैवेति । द्वयोरपि द्रव्यार्थिकपर्यायाथिकनयद्वयस्यापि “उभयरूपानेकानुप्रवेश" इत्यस्य स्थाने " उभयरूपानेकान्तानुप्रवेश" इति पाठो युक्तः, उभयरूपस्य-द्रव्यार्थिकत्वपर्याथाथिकत्वोभयरूपस्यानेकान्तस्य, द्रव्यार्थिकपर्यायार्थिकनययोर्योऽनुप्रवेशस्तस्य, “दव्व. Page #325 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । " ननु यद्येवं पर्यायार्थिके भावनिक्षेप एव, शेषेषु चत्वारोऽपि निक्षेपा अभिमतास्तदा मङ्गलवादे यदुक्तं भाष्यकृता - " णामाइतियं दबट्ठिअस्स भावो अपज्जवणयस्स [ विशेषावश्यकभाष्यगाथा७५ ]त्ति, तत् कथं सङ्गच्छते ? तत्राह - द्रव्यार्थिके भिदां त्रये - नाम-स्थापना - द्रव्य लक्षणे मङ्गलवादेऽभिहिते, अन्यन्मतं पुरस्कृतमिति विशेषः, स्वातन्त्र्येणापि नामादित्रयविषयत्वमेव द्रव्यार्थिकस्येति तदभिप्रायेण मतान्तरेण तत्र तथोक्तिरित्यर्थः, अत एवोक्तं तत्त्वार्थवृत्तावपि - " अत्र चाद्या नामादयस्त्रयो विकल्पा द्रव्यार्थिकस्य, तथा सर्वार्षत्वात्, पाश्चात्यः पर्यायनयस्य तथापरिणति विज्ञानाभ्याम्" इति ॥ ८३ ॥ एतन्मतावष्टम्भकमाह - २५४ द्रव्यार्थे गुणवान् जीवः, पर्यायार्थे च तद्गुणः । सामायिकमिति प्रोक्तं, यद्दिशाऽऽवश्यकादिषु ॥ ८४ ॥ नयामृत० - द्रव्यार्थ इति । यद्दिशाssवश्यकादिषु ग्रन्थेषु द्रव्यार्थिकनये गुणवान् जीव: सामायिकम्, पर्यायार्थिकनये च जीवस्य गुणः सामायिकमिति प्रोक्तं तन्मतमेतदित्यर्थः, अत्र द्रव्य-पर्याय " इत्यादिना यः पाठः - कथनं ततः सिद्धस्य । तत्र द्रव्यार्थिके पर्यायार्थिके च भजनाकृतविशेषस्यो का पेक्षां विनाऽनुपपत्तेरित्यस्मात् कारणादेतदवश्यमभ्युपगन्तव्यमित्यर्थः । 66 "" उत्तरार्द्धं व्याख्यातुमवतारयति - नन्विति । एवम् उक्तप्रकारेण । पर्यायार्थिके साम्प्रतसमभिरूढैवम्भूताख्यशब्दनये । शेषेषु पर्यायार्थिकभिन्नेष्वखिलनयेषु । णामा० इति - “ नामादित्रिकं द्रव्यार्थिकस्य भावः पर्यवनयस्य " इति संस्कृतम् । तत्राह उक्ताशङ्कायां प्रतिविधानं कथयति । भिदां त्रये इति मूलस्य विवरणं- नाम स्थापना द्रव्यलक्षणे इति, 'अभिहिते' इति पूरणम्, 'पुरस्कृतमिति विशेष:' इत्यस्य स्थाने " पुरस्कृतमिति शेषः " इति पाठो युक्तः । " स्वातन्त्र्येणापि " इत्यस्य स्थाने " स्वातन्त्र्येण " इति पाठो युक्तः । तत्र मङ्गलवादे । तथोक्तिः 'णा माइतियं दव्वट्ठिअस्स भावो अ पजवणयस्स " इत्युक्तिः । इति एवम् अर्थः उत्तरार्द्धार्थिः । अत एव उक्तमतान्तराश्रयणादेव । तत्त्वार्थवृत्तिपाठमुल्लिखति - अत्र चेति चतुर्षु निक्षेपेषु मध्ये चेत्यर्थः । आद्या नामादयः नामस्थापना-द्रव्य-भावतस्तन्न्यासः " [ तत्त्वार्थ० अ० १ सू०५ ] इति सूत्रोक्तक्रमाक्षरान्नाम स्थापना द्रव्याख्याः । विकल्पाः निक्षेपभेदाः । द्रव्यार्थिकस्य नैगम-सङ्ग्रह-व्यवहारर्जुसूत्राख्यद्रव्यार्थि क नय चतुष्टयस्याभिमताः । " तथा सर्वार्षत्वात् " इत्यस्य स्थाने “ तथा तथा सर्वार्थत्वात् " इति पाठो युक्तः, तथा तथा तेन तेन रूपेण, नामत्व-स्थापनात्व- द्रव्यत्वभावत्वैरिति यावत्, सर्वार्थत्वात् - सर्वशब्दाभिधेयत्वात् घट इत्युच्चरिते घटनाम घटा कृति द्रव्यघट-भावघटानां सर्वेषामेवावगमादित्यर्थः । पाश्चात्यः उक्तसूत्रे सर्वतः पश्चात् पठितश्चरमो भावनिक्षेपः । पर्यायनयस्य साम्प्रतसमभिरूढैवम्भूताख्यत्रिविधशब्दनयस्याभिमतः । तत्र हेतुः तथापरिणति-विज्ञानाभ्यामिति क्षणिका एवार्थक्रियाकारित्वात् सन्त इति सर्वे पदार्थाः क्षणिका एवं पूर्वपूर्वघटादिक्षणिको भाव उत्तरोत्तरघटादिभावरूपेणैव परिणमते नहि पूर्वापरकालानुगतं किञ्चिदपि नामादिकं समस्ति, अर्थक्रियाकारित्वलक्षणसत्त्वस्य क्षणिकेषु सत्त्वात् प्रतिक्षणं भिन्नभिन्नस्खरूपा एव भावा भवन्ति, त एव चार्थक्रियाविदग्धाः, नहि जलाहरणादिकाऽर्थक्रिया नामघटादितो जायते किन्तु भावघटादेवेति उत्तरोत्तरक्षणकुर्वपात्मकपूर्वपूर्वघटाद् भावघट एवं समुपजायत इति भावघटस्य भावघटात्मिका या परिणतिः कार्यं तया भावघटस्यैव भाव इत्यस्य व्यवस्थितिः तथा च घट इत्युक्ते आपामरं भावघटस्यैव प्रतीतिरुपजायते न तु नामघटादीनामिति तथाविज्ञानतो घटशब्दाद् भावघटस्य विज्ञानाद् भावघटस्वरूप एवं घट इत्यर्थः ॥ ८३ ॥ चतुरशीतितमपद्यमवतारयति एतन्मतेति द्रव्यार्थिकस्य नामादयस्त्रयो निक्षेपाः पर्यायार्थिकस्य भावनिक्षेप इत्यभ्युप• गन्तृमतेत्यर्थः । अवष्टम्भकम् उपोद्वलकं समर्थकमिति यावत् । विवृणोति - द्रव्यार्थ इतीति । द्रव्यार्थ इत्यस्य विवरण- द्रव्यार्थिकन ये इति, पर्यायार्थे चेत्यस्य विवरणं- पर्यायार्थिकनये चेति । तद्गुण इत्यस्य विवरणं Page #326 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः। २५५ नययोः शुद्धद्रव्यपर्यायावेव विषयौ, तत्र पर्यायव्ययोभिन्नयोः ‘कुण्डलतापन्नं स्वर्ण, पत्रस्य नीलता' इत्यादाविव कल्पितयोर्विशेषणत्वं शब्दप्रयोगविषयत्वमिति भाष्यकृदभिप्रायः, मतान्तराभिप्रायेण तु पर्यायार्थिक एव द्रव्यस्य कल्पितस्य विशेषणत्वम् , द्रव्यार्थिके तु प्रागुपदर्शितदिशा पर्यायस्याकल्पित. स्यापि विशेषणत्वं न्याय्यमेव, उभयविषयग्राहिणा नैगमेनोभयविषयस्य सत्यताया एवाभिमानात्, घटस्य रूपादय इति प्रयोगे प्रामाणिकत्वस्यैतन्मतेनैवोपत्तेव्यवहारसङ्घहयोरुद्भूतत्वाऽनुद्भूतत्वाभ्यामे. तत्समर्थनस्य नैगमनयानतिरेकदृष्ट्यैव मलयगिर्यादिभिरुतत्वात् , अत एवोक्तं देवसूरिभिः- धर्मयो. धर्मिणोधर्म-धर्मिणोश्च प्रधानोपसर्जनभावेन यद् विवक्षणं स नैकगमो नैगमः, सञ्चैतन्यमात्मनीति धर्मयोः १, वस्तु पर्यायवद्रव्यमिति धर्मिणोः २, क्षणमेकं सुखी विषयासक्तजीव इति धर्म धर्मिणोः ३" जीवस्य गुण इति, इति यत् प्रोक्तं तदेतन्मतमवसेयमिति निरुक्तपद्यस्यार्थ इत्यर्थः। एतन्मतोपो(लकभाष्यकृदभिप्रायमुपदर्शयति- अत्रेति । द्रव्येति- द्रव्य थिकनयस्य द्रव्यमेव विषयः पर्यायार्थिकनयस्य पर्याय एव विषय इत्यर्थः । तत्रेतिद्रव्यार्थिकनये विषयोभूते द्रव्ये भिन्नस्य पर्यायस्य कलितस्य विशेषणत्वं शब्दप्रयोगविषयत्वलक्षणम् , यथा- कुण्डलतापन्नं वर्णमित्यत्र सुवर्णद्रव्ये भिन्नस्य कल्पितस्य कुण्डलतापर्यायस्य विशेषणत्वं शब्दप्रयोगविषयत्वम् , पर्यायार्थिकनये विषयीभूते पर्याये मिन्नस्य कलितस्य द्रव्यस्य विशेषणत्वं शब्दप्रयोगविषयत्वम् , यथा-पत्रस्य नीलतेत्यादौ नीलतालक्षगपर्याये भिन्नस्य कल्पितस्य पत्ररूपद्रव्यस्य विशेषणत्वं शब्दप्रयोगविषयत्वमिये भाष्यकृतोऽभिप्राय इत्यर्थः । “भावं चिय सद्दगया सेसा इच्छंति सव्वनिक्खेवे" [विशेषावश्यकभाष्यगाथा- 1 इति भाष्याभिप्रायमुपदर्थ द्रव्यार्थिकत्त्य नामादयस्त्रयो विकल्याः. भावः पर्यायार्थिकस्येति मतान्तराभिप्रेतार्थमुपदर्शयति-मतान्तराभिप्रायेण स्विति । पर्यायार्थिक एवेति-पर्यायाथिकनय एव विषयीभूते पर्याये कलितस्य द्रव्यस्य विशेषगत्वम् , द्रव्यार्थिकनये पुनः प्रागुपदर्शितदिशा 'पाश्चात्यनयाद् विशेषोपयोगेन विशेषमनुभवतोऽन्त्यनैगमेन शद्धपर्यायविशिष्टं द्रव्यं विषयीक्रियते' इति ग्रन्थोपदर्शितमार्गेण अकल्पितस्यापि-पारमार्थिकस्यापि पर्यायस्य द्रव्यार्थिकनयविषयीभूते द्रव्ये विशेषणत्वं युकोवेत्यर्थः । कथं द्रव्याथिके विषयीभूतद्रव्येऽकल्पितस्य पर्यायस्य विशेषणत्वमित्यपेक्षायामाह- उभयविषयग्राहिणेति- द्रव्यार्थिक-पर्यायार्थिकन योभयविषयसामान्यात्मकद्रव्य-विशेषात्मकार्यायोभयग्राहिणा नैगमनयेन द्रव्य-पर्यायनयोभयविषयद्रव्यपर्यायोभयस्य सत्यताया एवाभिमानादित्यर्थः । “स्यैतन्प्रतेनैवोपत्ते” इत्यस्य स्थाने “स्यैतन्मतेनैवोपपत्त" इति पाठो युक्तः । घटस्य रूपादय इत्यत्र घटोऽपि द्रव्यस्य पर्यायो रूपादयोऽपि गुणाः सहभाविपर्याया द्रव्यार्थिकस्य व्यवहारस्य विशेषविषयकस्योद्भतत्वादेव ते विषयाः, एते च व्यकपर्याय. स्वरूपेण न द्रव्यमाहिणः सङ्ग्रहस्य विषयाः, किन्त्वनुभूतं द्रव्यस्वरूपं तेषां समस्तीति तद्रूपेणानुभूतत्वादेव ते विषया इत्येवं व्यवहारसङ्ग्रहनययोरुद्भतत्वानुभूतत्वाभ्यां घटस्य रूपादय इत्यस्य समर्थनं यन्मलयगिरिप्रभृतिभिरुक्तं तदपि सामान्य-विशेषो भयविषयकस्य नैगमस्य यत् सामान्यावगाहिस्वरूपं तदभेदः सङ्घहस्य, यच्च विशेषावगाहिस्वरूपं तदभेदो व्यवहारस्येति कृत्वा नैगमनयानतिरेकाश्रयणतो नैगमनयनवेत्याह-व्यवहार-सहयोरिति । गौण-प्रधानभावेन नैगमस्य द्रव्यार्थिकस्यापि सामान्य-विशेषोभयविषयकत्वमित्यत्र देवसूरिवचनसंवादमाह-अत एवेत्ति-नेगमस्य सामान्य विशेषोभयविषयकत्वादेवेत्यर्थः । धर्मयोरिति-धर्मयोः प्रधानोपसर्जनभावेन यद् विवक्षणं स नैगमः, एवं धर्मिणोः प्रधानोपसर्जनभावेन यद् विवक्षणं स नैगमः । कथमेतत्रयाणां नैगमत्वमित्याकाडानिवृत्तये-नैकगम इति-नके अनेके गमा बोधप्रकारा यस्य स नैगम इति नैगमपदनिरुक्त्या अनेकप्रकारबोधजनकवाक्यानां नैगमत्वमिति तत्तद्वाक्यजन्यबोधस्यापि नैगमत्वमुपपद्यते । तत्र धर्मयोः प्रधानोपसर्जनभावेन विवक्षणरूपनगमस्य प्रथमस्य निदर्शनमाह- सच्चैतन्यमात्मनीति धर्मयोरिति- सच्चैतन्यमात्मनीति वाक्येन आत्मरूपधर्मिणि सत्त्वविशिष्टचैतन्यरूपधर्मस्य विधानम् , तत्र चैतन्यरूपधर्मस्य विशेष्यत्वेन प्राधान्येन विवक्षणं सत्त्वरूपधर्मस्य तत्र विशेष गत्वेनोपसर्जनतया विवक्षणमिति । धर्मिणोः प्रधानोपसर्जनभावेन विवक्षणरूपद्वितीयनैगमभेदस्य निदर्शनमाह-वस्तु पर्यायवाव्यमिति धर्मिणोरिति- अत्र वस्त्वात्मके धर्मिणि पर्यायवद्व्यरूपस्य धर्मिणस्तादात्म्येन विधानम्, तत्र द्रव्यरूपस्य धर्मिणो विशेष्यत्वेन प्राधान्येन विवक्षणम्, तत्र पर्यायरूपधर्मिणो विशेषणत्वेनोप Page #327 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । [प्रमाण० परि० सू० ८, ९, १०.] इति, अत्र हि प्रधानोपसर्जनभावो विशेष्य-विशेषणभावेन न तु कल्पिततया, न चैवमस्य प्रमाणात्मत्वानुषङ्गः, धर्म-धर्मिणोः प्राधान्येनात्र ज्ञप्तेरसम्भवात् , तयोरन्यतर एव हि नैगमेन प्रधानतयाऽनुभूयते, प्राधान्येन द्रव्य-पर्यायद्वयात्मकं चार्थमनुभवद् विज्ञानं प्रमाणं ज्ञेयम् , नान्यत् , इत्यस्यार्थस्य तद्वन्थ एव व्यक्तत्वात् , नवा नये विशेषणं कल्पितमेवेति प्राचीनमतेऽपि नियमः, "सावजजोगविरओ" [ ] इत्यत्र सङ्ग्रहनयस्वीकृतात्मसामान्यसामायिकविधिनियमनाय प्रवृत्तानां पर्यायशुद्धिमतां व्यवहारादिनयानां यावदेवम्भूतमुत्तरोत्तरपर्यायकदम्बकविशेषणोपरागे. गैव प्रवृत्तिदर्शनात् , न च तत्र पर्यायनयानां सङ्ग्रहस्वीकृतविधिविशेषपर्यवसानार्थ पर्यायविशेषणमुद्रया प्रवृत्तावपि 'सविशेषण' इत्यादिन्यायाच्छुद्धपर्यायविधावेव तात्पर्यात् , स्वविषये अन्यनयार्थविशेषणस्य सर्जनभावेन विवक्षणम् । धर्म-धर्मिणोः प्रधानोपसर्जनभावन विवक्षणरूपतृतीयनगमभेदस्य निदर्शनमाह-क्षणमेकं सुखी विषयासकजीव इति धर्म-धभिगोरितीति-क्षगमेकं सुखी विषयासक्तजीव इति वाक्यस्य विषयासक्तजीवस्य क्षणमात्रं सुखमित्यत्र पर्यवसानम् , तत्र सुखरूपधर्मस्य विशेष्यत्वेन प्राधान्येन विवक्षणं विषयासक्तजीवरूधर्मिणो विशेषणत्वेनोपसर्जनतया विवक्षणमिति । अत्राकाल्पतत्वेन प्राधान्यं कल्पित्वेनोपसजनत्वमित्येवं प्रधानोपसर्जनभावो न, किन्तु विशेष्यत्वेन प्राधान्यं विशेषणत्वेनोपसर्जनत्वमित्येवं प्रधानोपसर्जनभाव इत्याह- अत्र हीति । “न तु कल्पिततया" इत्यस्य स्थाने “न तु कल्पिताकल्पिततया" इसी पाठो युक्तः । ननु धर्मिगो द्रव्यस्य सामान्धात्मनो धर्मस्य पर्यायात्मनो विशेषस्य च प्राहित्वात् सामान्य-विशेषोभयग्राहिण एकस्य नैगमनयस्य प्रमाणात्मकत्वं प्रसज्यत इत्याशङ्कय प्रतिक्षिपतिन चेति । एवं धर्म-धर्म्युभयग्राहिये । अस्य नैगमनयस्य । प्राधान्येन सामान्यविशेषोभयग्राहिये सत्येव सामान्यविशेषोभयात्मकवस्तुग्राहित्वाज्ज्ञानस्य प्रामाण्य मिष्टम् , नैगमस्थ वेकस्य प्राधान्येन न निरुकोभयग्राहित्वमिति न प्रमाणात्मकत्वप्रसङ्ग इति निषेधहेतुमुपदर्शयति-धर्म-धर्मिणोरिति । अत्र नैगमे । तयोः धर्म-धर्मिणोः । प्राधान्येन तयोग्रहणं नैगमेन मा भूत्, प्रधानोपसर्जनभावेन तयोर्ग्रहणादपि किं न नैगमस्य प्रमाणत्वं प्रसज्यत इत्याकाङ्कायामाहप्राधान्येनेति । नान्यदिति-प्राधान्येन द्रव्य पर्या पदयात्मकााग्राहकं ज्ञानं न प्रमागमित्यर्थः । न चायमर्थो मयैव परिभावितः किन्तु श्रीमद्भिदेवसूरिभिरेव प्रकटितोऽयं विवेक इत्याह-इत्यस्यार्थस्थति-उक्तस्वरूपस्य प्रमाण-तदन्यविवेकरूपार्थस्येत्यर्थः। तन्थ एव देवसूरिनिर्मितरत्नाकराख्यग्रन्थ एव । ननु नये विशेषणं कल्पितमेवेति नियमादकल्पितस्य विशेष्यत्वात् प्राधान्यं कल्लितस्य विशेषणत्वादुपसर्जनत्वमिति प्रधानोपसर्जनभावस्य विशेष्य-विशेषणभावरूपत्वेऽपि विशेषणस्य कल्पितत्वमायातमेवेत्याशङ्का प्रतिक्षिपति-नवेति-प्राचीनमतेऽपि नये विशेषणं कल्पितमेवेति नियमो नेत्यन्वयः । निषेधे हेतुमाहसावजेति- “सावद्ययोगविरतः" इति संस्कृतम् । इत्यत्र इत्यस्यां गाथायाम् , सङ्गहेति- सङ्ग्रहनयेन स्वीकृतो य आत्मसामान्यं सामायिकमिति विधिस्तस्य नियमनाय नियमनाथ प्रवृत्तानां पर्यायशुद्धनता- शुद्धशद्धतरशुद्धतमपर्यायावगाहिना व्यवहारादिनयाना- व्यवहारर्जुसूत्रसाम्प्रतादिनयानामेवम्भूतनयपर्यन्तमुत्तरोत्तरपर्यायकदम्बकरू यत् सङ्ग्रहनयविषयीभूतात्मसामान्यरूपविशेष्ये विशेषणं तदुपरागेणैव प्रवृत्तिदर्शनादित्यर्थः, तथा च सङ्ग्रहनयविषयात्मसामान्यस्य तत्तत्पर्यायविशेष. विशिष्टात्मसामान्यरूपतोपपादकानां व्यवहारादिनयानां विषयास्तत्तत्पर्याया विशेषणीभवन्तोऽप्यकल्पिता एव, अन्यथा तेषां कल्पितत्वे तद्विशिष्टात्म सामान्यस्वरूपपर्यवसितस्य सङ्ग्रहनयविषयस्यापि कल्पितत्वं स्यादित्याशयः । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । तत्र "सावजजोगविरओ" इत्यादिगाथायाम् । पर्यायनयानामित्यस्य प्रवृत्तावपीत्यनेनान्वयः। सहेति- सङ्ग्रहनयेन स्वीकृतो य आत्मसामान्यलक्षणसामायिकस्य विधिस्तस्य विशेषे व्यवहारनयादिविषयीभूततत्तत्पर्याय विशिष्टात्मसामान्यसामायिकविधिस्वरूपे पर्यवसानार्थम् , पर्यायविशेषणमुद्रया प्रवृत्तावपि - पर्यायस्य विशेषणविधयाऽवगाहने प्रवृत्तावपि, *सविशेषणौ विधि निषेत्रौ विशेष्यबाधे विशेषणमुपसङ्कामत:* इति न्यायाच्छुद्धपर्यायविधावेव तात्पर्यात्, एवकारेण पर्यायविशिष्टसामान्यविधौ पर्यायस्य व्यवच्छेदः, तथा च स्वविषये सङ्ग्रहनयविषये आत्मसामान्ये, अन्यनयार्थविशेषणस्य व्यवहारादिनयविषयीभूततत्तत्पर्यायरूपविशेषणस्य, कल्पितत्वमेव एवकारेणाकल्पितत्वव्यवच्छेदः । प्रतिक्षेप Page #328 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। २५७ कल्पितत्वमेवेति वाच्यम् , एवं सति सर्वविशेषणानामेकधर्माकाङ्क्षाविधुरत्वेन वाक्यभेदप्रसङ्गात् , न च नयवाक्यानां प्रत्येकं निराकाङ्कत्वेऽप्यवयवानां न्याय इव स्याद्वादे वाक्यैकवाक्यत्वं सर्वत्रैवोपपादयि. ज्याम इत्यपि साम्प्रतम्, एकैकस्य शतभेदत्वेन सर्वत्रैकरीतेरभावाद् विशिष्टवैशिष्ट्यबोधस्य दुरपलापत्वात् , एवमपि नैगमे प्राच्यभेदातिशायकविशेषणस्याकल्पितत्वध्रौव्याचेति किमतिपल्लवितेन ॥ ८४ ॥ ___ तदेवं मतान्तरेण द्रव्याथिके नामादिनिक्षेपत्रयमेवेति समर्थितम् , अथ भाष्यकारमतेनैव "णामाइतियं दवट्ठिअस्स भावो अपज्जवणयस्स" [विशेषावश्यकभाष्यगाथा-७५ ] इति मङ्गलवादीयभाष्यप्रतीकस्य "भावं चिय सहणया सेसा इच्छंति सबणिकेवे" [विशेषावश्यकभाष्यगाथा ] इत्यप्रेतनवचनेन सहाविरोधं समर्थयन्नाह___ घटोपयोगरूपो वा, भावो द्रव्यार्थिकेऽमतः। तेन तत्र त्रयं प्रोक्तमिति जानीमहे वयम् ॥ ८५ ॥ नयामृत०-घटोपयोग इति । वेति पक्षान्तरे, घटोपयोगरूपो भावो द्रव्यार्थिकेऽमत:-अनिष्टः, हेतुमुपदर्शयति- एवं सतीति- पर्यायनयानां शुद्धपर्यायविधावेव तात्पर्याभ्युपगमे सतीत्यर्थः । सर्वविशेषणानामितियदि व्यवहारादिनयप्रभववाक्यैर्व्यवहारादिनयविषयतत्तत्पर्यायात्मविशेषणविशिष्टात्म कसामान्यविषयकशाब्दबोधो भवेद् भवेत तदा विशेष्यस्यात्मसामान्यस्यैकत्वात् तन्निष्ठाविशेष्यताद्वारा सर्वपर्यायस्वरूपविशेषणनिष्ठविषयत्वानां परस्परनिरूप्य-निरूपकभावलक्षणाकासासद्भावात् साक्षात् परम्परया वा परस्परनिरूप्य-निरूपकभावापन्नविषयताकैकबोधजनकत्वलक्षणमेकवाक्यत्वं नयवाक्यानाम्, यदा तु सङ्ग्रहप्रभववाक्यजबोधस्य न व्यवहारादिनयतस्तत्तत्पर्याय कदम्बारुषितसामान्यविषयकबोधस्वरूपे पर्यवसानं किन्तु व्यवहारादिनयप्रभववाक्यैरशुद्धतत्तत्पर्यायविषयकबोधानामेवाविर्भावस्तदा निरुक्ताकालाभावात् साक्षात् परम्परया वा निरूप्य-निरूपकभावानापन्नविभिन्न विषयताकबोधजनकत्वलक्षणवाक्यभेदस्यैव प्रसङ्गादित्यर्थः । न च इत्यस्य ' साम्प्रतम्' इत्यनेनान्वयः। अवयवानां प्रतिज्ञा हेतूदाहरणोपनय-निगमनखरूपाणां पञ्चानामवयवानाम्, न्याय इवेति-नीयते-प्राप्यते विवक्षितार्थसिद्धिरनेनेति न्याय इति व्युत्पत्त्या निरुक्तपञ्चावयवसमुदाय एवं न्यायस्तत्र यथाऽवय. वानां वाक्यैकवाक्यत्वं तथेत्यर्थः । स्याद्वादे सप्तनयवाक्यसमूहलक्षणस्याद्वादे, वाक्यैकवाक्यत्वं नयवाक्यानां निरुक्तवाक्यैकवाक्यत्वम् । निषेधे हेतुमाह- एकैकस्येति- प्रत्येकं व्यवहारादिनयानां शतविधत्वेन तैः सम्भूयैकविधबोधस्यो. त्पादयितुमशक्यत्वेन प्रत्येकं, सर्वत्र सर्वनयवाक्ये, एकरीतेः बोधनियमनविधाया एकस्या अभावादित्यर्थः । विशिष्टवैशिष्ट्यबोधस्य दुरपलापत्वादिति- अनुभूयमानस्य समस्तनयवाक्येनैकस्य विशिष्टवैशिष्ट्यबोधस्य पर्यायनयानां शद्धपर्यायविधायकत्वाभ्युपगममात्रेणापलपितुमशक्यादित्यर्थः । एवमपि स्वविषये अन्यनयार्थविशेषणस्य कल्पितत्वाभ्युपगमेऽपि । नैगम इति- नैगमनये सर्वनयात् प्रथमप्रवृत्तौ तस्य यः प्राच्यभेदः प्राथमिको भेदस्तस्योत्तरोत्तरनैगमभेदादतिशायक वैलक्षण्यप्रयोजकं यद् विशेषणं यद्विशिष्टसामान्यादि विषयकत्वेनान्यविशेषणविशिष्टसामान्यादिविषयकादुत्तरोत्तरनैगमप्रभेदात् स व्यावृत्तो भवति, अन्यथा सर्वस्य नैगमजातीयस्य सामान्य विषयकस्य विशेषविषयकस्य वा सामान्यविषयकनगमत्वेन विशेषविषयकनगमत्वेन वा समानस्वरूपत्वेऽवान्तरवलक्षण्यं न स्यादिति तस्य विशेषणस्य सविषयेऽन्यनयार्थविशेषणत्वाभावेनाकल्पितस्यावश्यकत्वेन तत्र प्रधानोपसर्जनभावस्याकल्पितत्व-कल्पितत्वाभ्यामुपपादयितुमशक्यत्वेन विशेष्यविशेषणभावत एवोपपत्तेरित्यर्थः ॥८४ ॥ पञ्चाशीतितमपद्यमवतारयन्नाह-तदेवमिति । तत् तस्मात् , एवम् अनन्तरोपवर्णितप्रकारेण, अन्यत् स्पष्टम् । विवृणोति-घटोपयोगेतीति। "घटोपयोग इति" अस्य स्थाने "घटोपयोगेति" इति पाठो मूलप्रतीकानुकूलः । मूले वाशब्दः पक्षान्तरार्थक इत्यावेदनायाह-वेति पक्षान्तरे इति । अमत इति मूलस्य विवरणम्- अनिष्ट इति । Page #329 -------------------------------------------------------------------------- ________________ २५८ नयामृततरकिणी-तरक्रिणीतरणिभ्या पदेशः। तेन तत्र-मङ्गलवादे द्रव्यार्थिके, त्रयं-नामादिनिक्षेपत्रयं प्रोक्तं, न तु सर्वथाभावानभ्युपगमाभिप्रायेण जलाहरणादिपरिणतिरूपभावघटस्य द्रव्यार्थि केनाप्यभ्युपगमादिति वयं जानीमहे, तथा च भाष्ये पूर्व शुद्धचरणरूपभावमङ्गलाधिकारप्रवृत्ते गमादिना जलाहरणादिरूपभावघटाभ्युपगमेऽपि घटोपयोगरूपभावघटानभ्युपगमात् तनिषेधोक्तिः, अग्रे तु व्यवस्थाधिकारात् विशेषोक्तिरिति न विरोध इति भावः, "जानीमहे " इत्यनेन स्वोत्प्रेक्षया सामान्यतो ज्ञातेऽप्यर्थे विशेषविवेके बहुश्रुताः प्रमाणमित्यभिव्यज्यते ॥ ८॥ उक्कं निक्षेपचतुष्टयम् , प्रसिद्धं घटमेवोदाहरणीकृत्य विवेचयन्नाह तत्र नामघटः क्लुप्तो, घटनाम्ना पटादिकः। तच्चित्रं स्थापना द्रव्यं, मृद्भावो रक्ततादिकः ॥ ८६ ॥ नयामृत-तत्रेति । तत्र-निक्षेपचतुष्टयमध्ये, घटनाम्ना क्लुप्तः पटादिकोऽपि नामघट उच्यते, नाम्ना घट इति व्युत्पत्तेः, तथा चैतल्लक्षणम् "यद् वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥" तेन पक्षान्तरे घटोपयोगरूपभावस्य द्रव्याथिकेऽनिष्टत्वेन । तत्रेति मूलस्य विवरणं-मङ्गलवादे द्रव्याथिके इति । त्रयमित्यस्य विवरणं-नामादिनिक्षेपत्रयमिति- नाम स्थापना-द्रव्यनिक्षेपत्रयम् , तत् किं घटोपयोगात्मकभावातिरिक्तो भावघटः पक्षान्तरेऽभ्युपगत एवेत्यपेक्षायामाह-न विति- सर्वथा भावानभ्युपगमाभिप्रायेण मङ्गलवादे द्रव्यार्थिंके नामादिनिक्षेपत्रयं न पुनः प्रोक्तमित्यर्थः। तत्रैव हेतुमुपदर्शयति-जलाहरणादीति- जलाहरणादिकार्यकारिपृथुबुध्नोदराद्याकारलक्षणा या मृदादेः परिणतिस्तद्रूपस्य भावघटस्य द्रव्यार्थिकनयेनाप्यभ्युपगमादित्येवं वयं यशोविजयवाचका जानीमहे- अवगच्छाम इत्यर्थः। तथा च पक्षान्तरे द्रव्यार्थिके उपयोगस्वरूपस्यैव भावघटस्यानभ्युपगमो न तु जलाहरणादिकार्यकारिपृथुबुनोदराद्याकारस्वरूपभावघटस्येति विवेके च। तन्निषेधोक्तिः द्रव्यार्थिके भावनिक्षेपनिषेधोक्तिः । अग्रे तु अग्रेतनभाष्ये पुनः। व्यवस्थाधिकारात् द्रव्यार्थिको निक्षेपेषु मध्ये अमुं निक्षेप स्वीकरोति पर्यायार्थिकश्चामुं निक्षेपमुररीकरोतीत्येवं व्यवस्थितिप्रयोजनतः। विशेषोक्तिः पर्यायार्थिको भावनिक्षेपमेव स्वीकरोति द्रव्यार्थिकश्च निक्षेपचतुष्टयमप्युररीकरोतीति विशेषावेदिकोक्तिः। इति एतस्माद् विवेकात् । न विरोधः भाष्यस्थितपूर्वोत्तरवचनयोर्न विरोधः । 'जानीमहे इत्यनेन' इत्यस्य 'अभिव्यज्यते' इत्यनेनान्वयः। किमभिव्यज्यत इत्यपेक्षायामाह- स्वोत्प्रेक्षयेति- एतद्रन्थकर्तृ. यशोविजयवाचकगतान्यातिशायिकल्पनाविशेषात्मकसम्भावनयेत्यर्थः। विशेषविविके इतोऽपि विशिष्टावगतिफलकविशेषविभजने । बहुश्रताः वयमपि बहुश्रुता एव तथाप्यस्मदपेक्षयाऽपि ये बहुश्रुता अनल्पसिद्धान्तोहापोहसमर्थास्त एव. विशेषविवेके प्रमाणमित्यर्थः ॥८५॥ षडशीतितमपद्यमवतारयति-उकं निक्षेपचतुष्टयमिति-अस्य 'विवेचयन् ' इत्यनेन सम्बन्धः । विवृणोतितत्रेतीति । तत्रेयस्य विवरण-निक्षेपचतुष्टयमध्य इति । घटनाम्ना क्लप्तः अयं घटशब्दादवगन्तव्य इत्येवमाधुनिकसङ्केतविषयीकृतः, पटादिकोऽपीत्यत्रापिरेवकारार्थे, तेन पटादिक एवेति तदर्थः, न तु समुच्चयार्थकत्वमस्य सम्भवति भावघटस्य घटशब्दपर्यायकलशकुटादिशब्दाभिधेयत्वेन नामघटत्वासम्भवात् । कथं पटादिको नामघट इत्यपेक्षायामाह-नाम्नेति- नाम्ना घटो नामघट इत्येवं नामघटस्य व्युत्पत्तनिर्वचनादित्यर्थः, पटादिकः केवलं नाम्नैव घटो जलाहरणादिलक्षणभावघटकार्यकारित्वाभावान वस्तुगत्या घट इत्यभिसन्धिः। तथा च निरुक्तव्युत्पत्त्याश्रयणेन पटादिकस्य नामघटवाच्यत्वव्यवस्थितौ च । एतल्लक्षणं नामनिक्षेपस्य लक्षणम् । नामनिक्षेपलक्षणप्रतिपादकस्य “यद् वस्तुनो. ऽभिधानं०" इत्यादिपद्यस्यार्थमुपदर्शयति-अयमिति-अनन्तरमेवाभिधीयमान इत्यर्थः। अभिधानमित्यस्यार्यकथनं Page #330 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समतो बयोपदेशः। २५९ अयमेतदर्थः-यद् वस्तुनः-जीवादेः, नाम-यथा गोपालदारकस्येन्द्र इति, स्थितमन्यार्थ इतिपरमार्थतखिदशाधिपेऽवस्थानात् , तदर्थनिरपेक्षमिति-इन्द्रार्थनिरपेक्षम्, 'इदि परमैश्वर्ये' इति धात्वर्थस्य गोपालकेऽभावात् , तथा पर्यायैः-शक्र-पुरन्दरादिभिः, नाभिधीयते इति एवम्भूतं नाम, इह नाम-नामवतोरभेदोपचाराद् गोपालकवस्त्येव नामोच्यते, तथान्यार्थेऽवर्तमानमपि किश्चिद् यादृच्छिकं-डित्थडवित्थादिवचनम् , चशब्दादित्वरं यावद्व्यभावि च तद्बाह्यम् , यत् तु " णामं [ आवकहियं ]' इति सूत्रे प्रोकं तत् प्रतिनियतजनपदसंज्ञामाश्रित्यैवेति ध्येयम् । ननु — गङ्गायां घोषः' इत्यत्र गङ्गापदेन गङ्गातीरमभिधीयते, तत्र किं नामनिक्षेपस्य प्रवृत्तिरुत निक्षेपान्तरस्य ? नाद्यः-जाह्नव्यादिपर्यायाभिधेयत्वेन तत्र नामनिक्षेपाप्रवृत्तेः, नापि द्वितीयः, प्रसिद्धनिक्षेपान्तराविषये तत्राप्रसिद्धनिक्षेपकल्पने तदियत्ताक्षतिप्रसङ्गादिति चेत् ? न-" जत्थ य जं जाणिज्जा, णिरकेवं णिरिकवे गिरवसेसं" [अनुयोगद्वारे गा० १] नामेति । गोपालदारकस्येन्द्रति यन्नाम तत् कथमन्यार्थे स्थितमित्यपेक्षायामाह-परमार्थत इति। इन्द्रार्थनिरपेक्षमिति - इन्द्रशब्दस्य निरुक्तिलभ्यो योऽर्थस्तदनपेक्षमिति तदर्थः। कथमिन्द्रशब्दार्थनिरपेक्षमित्याकाङ्क्षायामाह- इदीतिइदिधातुः परमैश्वर्यरूपार्थे वर्तत इति परमैश्वर्यरूपस्य धात्वर्थस्य गोपालदारकेऽभावाद् भवति गोपालदारके इन्द्रेति नाम तदर्थनिरपेक्षमित्यर्थः। “गोपालकेऽभावात्" इत्यस्य स्थाने ' गोपालदारकेऽभावात्" इति पाठो युक्तः। पर्यायानभिधेयं चेयस्यार्थ कथयति-पर्यायैरिति- इन्द्रशब्दसमानार्थकैरित्यर्थः, येन शब्देन सह यस्य शब्दस्यै प्रवृत्तिनिमित्तकत्वं स शब्दस्तस्य शब्दस्य पर्याय इति इन्द्रशब्दस्य यदेव प्रवृत्तिनिमित्तं तदेव शक्रादिशब्दस्य प्रवृत्तिनिमित्तमिति भवन्ति इन्द्रशन्दस्य शक्रादिशब्दाः पर्यायाः । निगमयति- एवम्भूतं नामेति । एवम्भूतं मोपालदारकवस्तु तत् कथं नाम ? गोपालदारकस्यार्थरूपत्वान्नाम्नश्च शब्दात्मकत्वादित्यत आह-इहेति- प्रकृते इत्यर्थः । विरुद्धधर्माकान्तयोर्नाम-नामवतोः परमार्थतोऽभेदासम्भवादाह- अभेदोपचारादिति । 'गोपालकवस्त्येव" इत्यस्य स्थाने "गोपालदारकवस्त्वेव" इति पाठो युक्तः । तथा एवम् । अन्यार्थे यत्रार्थे इदानीन्तनपुरुषैः सङ्केतितं तद्भिन्नेऽर्थे । अवर्तमानमपि वाच्य. वाचकभावसम्बन्धेन वृत्तिविकलमपि, आधुनिकसङ्केतविषयीभूतार्थभिन्नार्थावाचकमपीति यावत् । किश्चित् परिमितम् , यादृच्छिकं स्वेच्छयैव केनापि पुरुषेणाभिनवव्यवहारप्रवृत्तये काष्ठमयहस्त्यादिवस्तुनि वाचकतया परिभावितम्, एतादृशं किमित्यपेक्षायामाह-डित्थडवित्थादिवचनमिति । चशब्दात् 'यादृच्छिकं च' इति चकारात् । इत्वरं यत्किञ्चिकालस्थायि, यावद्दव्यभावि च यावत्कालमभिधेयमवतिष्ठते तावत्कालमनुवर्तमानम्, तत् नाम, ग्राह्य ज्ञातव्यम् । ननु नामाऽभिधेयस्य विनाशेऽपि यावल्लोकानां व्यवहारः प्रवर्तते तावत्कालावस्थायित्वाद् यावत्कथिक सूत्रे भणितं तत् कथमित्यत आह-यत्विति । णामं जावकहियं नाम यावत्कथिकम् । तत् नाम्नो यावत्कथिकत्वकथनम्, प्रतिनियता या जनपदसंज्ञा-अमुकदेशविशेषस्यामुकनाम तामवलम्ब्य नाम्नो यावत्कथिकत्वकथनं सूत्रे इत्यर्थः। शङ्का-समाधानाभ्यां नामनिक्षेपत्य विशेषाऽवगतिं शिष्याणामाधातुं परस्य शङ्कामुत्थापयति-नन्वित्यादिना । 'अभिधीयते' इत्यस्य 'प्रतिपाद्यते' इत्यर्थः, तेन गङ्गापदेन गङ्गातीरस्य शक्त्या प्रतिपादनाभावेऽपि न क्षतिः। नाद्य इति- नामनिक्षेपस्य प्रवृत्तिरिति पक्षो न सम्भवतीत्यर्थः । निषेधे हेतुमाह- जाह्नव्यादीति- गङ्गातीरे घोष इत्यर्थावगतये यथा गङ्गायां घोष इति वाक्यं प्रवर्तते तथा जाहव्यां घोष इति भागीरथ्यां घोष इत्यादिवाक्यान्यपि प्रवर्तयितुं शक्यन्त एवेति जाह्वव्यादियों गङ्गापदस्य पर्यायस्तदभिधेयत्वेन - तत्प्रतिपाद्यत्वेन तत्र गङ्गातीरे नामनिक्षेपप्रवृत्त्यसम्भवात्- नामनिक्षेपलक्षणसन्निविष्टस्य पर्यायानभिधेयत्वस्य तत्राभावादित्यर्थः। तत्र निक्षेपान्तरप्रवृत्तिरिति द्वितीयविकल्पं प्रतिक्षिपति-नापि द्वितीय इति । निषेधे हेतुमाह-प्रसिद्धति- प्रसिद्धस्य निक्षेपान्तरस्य नामनिक्षेपभिन्नस्य स्थापना-द्रव्य-भावनिक्षेपत्रयस्याविषये तत्र गङ्गातीरेऽप्रसिद्धस्य- प्रसिद्धनामनिक्षेपादिचतुष्टयभिन्नस्य निक्षेपस्य कल्पने तदियत्तायाः-निक्षेपाश्चत्वार एवेत्येवं निक्षेपेयत्तायाः क्षतिप्रसङ्गादित्यर्थः । उकाशङ्कायां प्रतिविधानमाह-नेति। जत्यत्ति- " यत्र यं जानीयानिक्षेपं निक्षेपेन्निरवशेषम्" इति संतम। इत्यनेन इत्याविगाथावबनेन । यथापाजानं परिज्ञानमनतिक्रम्य । निक्षेपास्तरकल्पनायाः प्रसिद्धनिक्षेप Page #331 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । इत्यनेन यथापरिज्ञानं निक्षेपान्तरकल्पनाया अप्यनुमतत्वेन दोषाभावात्, अस्तु वा तत्राभिप्रायकी स्थापनैव, भवतु वा वैज्ञानिको भावनिक्षेप एव, गङ्गापदेन तीरे गङ्गाभेदाभिव्यक्ति विना गङ्गागतशैत्यपावनत्वादिधर्मयोगस्याभिव्यञ्जयितुमशक्यत्वात् एतच्च विपश्चितमलङ्कारचूडामणिवृत्तावस्माभिः, तत् किं शक्तिलक्षणान्यतरवृत्तेरपेक्षित (?) शब्द सङ्केतविषयत्वमेव नामलक्षणम्, 'स्थितमन्यार्थे ' इत्यत्रानेकार्थवाच्यव्यावृत्तये ' अशक्यार्थे ' इति करणाच्छक्यस्य ' पर्यायानभिवेयं च' इत्यनेन लक्ष्यस्य च व्यावृत्तौ तात्पर्यात्, ओमिति चेत् ? तर्हि रूपसत्यादिविषये अतिव्याप्तिः, तस्य द्रव्यनिक्षेपविषयत्वेन २६० चतुष्टयातिरिक्तनिक्षेपकल्पनायाः । दोषाभावात् निक्षेपेयताक्षतिप्रसङ्गस्येष्टापत्तिरूपतया दोषत्वाभावात् निक्षेपानन्त्यस्यैवेष्टत्वादिति भावः । निक्षेपाश्चत्वार एवेत्यभ्युपगमेऽपि नामनिक्षेप भिन्नप्रसिद्धनिक्षेपविषय एवायमिति न निक्षेपेयत्ताक्षतिरित्याहअस्तु वेति । तत्र गङ्गातीरे । अभिप्रायिकी शैत्य-पावनत्वादिप्रतिपत्तिप्रयोजनाभिप्रायेण गङ्गायां घोष इति प्रयोक्तुगङ्गातीरे गङ्गाया या असद्भूतस्थापना तदभिप्रायविषयः, स्थापनैव स्थापनानिक्षेप एवेत्यर्थः । अथवा गङ्गापदशक्यार्थस्य गङ्गाजलप्रवाहस्याभेदाध्यवसाय एव गङ्गातीर इति गङ्गातीरं गङ्गैवेति कृत्वा भावनिक्षेप एव तत्रेत्याह- भवतु वेति । वैज्ञानिकः वस्तुतो गङ्गातीरस्य गङ्गात्वाभावेऽभेदाध्यवसायतो गङ्गात्वं तत्रेति विज्ञानकृतः । कथं विज्ञानकृतो भावनिक्षेपस्तत्राश्रीयत इत्यपेक्षायामाद- गङ्गापदेनेति गङ्गातीरं यदि गङ्गापदेन गङ्गाभिन्नतयाऽभिव्यक्तं स्यात् तदैव गङ्गागतस्य शैत्यपावनत्वादिधर्म सम्बन्धस्याभिव्यजनं तत्र भवेन्नान्यथेत्यतस्तत्र गङ्गापदेन गङ्गाभेदाभिव्यञ्जनमावश्यकमित्येतस्मात् कारणाद् गङ्गायां घोष इत्यत्र नामनिक्षेप एवेत्यर्थः । उक्तार्थस्य विशेषतोऽवगतयेऽस्मत्कृताऽलङ्कारचूडामणिवृत्तिरवलोकनीया विचक्षणैरित्यावेदनाय श्रीयशोविजयोपाध्याया आहुः - एतच्चेति । अस्माभिः श्रीयशोविजयोपाध्यायैः । अत्र परः पृच्छति - तत् किमिति । “रपेक्षित" इत्यस्य स्थाने "रुपेक्षैत्र ?” इति पाठो युक्तः, यदि लक्ष्येऽपि गङ्गातीरे न नामनिक्षेपप्रवृत्तिः, शक्ये तु नामनिपक्षे प्रवृत्तिरनभ्युपगतैवेत्येतस्मात् कारणात् किं शक्तिलक्षणान्यतरात्मिका या पदस्य वृत्तिस्तस्या उपेक्षैव किमित्यर्थः । एवं सति नामनिक्षेपलक्षणं यत् पर्यवसितं तदाह- शब्दसङ्केतविषयत्वमेव नामलक्षणमिति । ननु शब्दसङ्केतः शक्ये लक्ष्ये चेति शब्दसङ्केतविषयत्वस्य शक्य लक्ष्ययोः सत्त्वादुक्तलक्षणस्य तयोरतिव्याप्तिरित्यत आहस्थितमन्यार्थ इत्यत्रेति- नामलक्षणप्रतिपादकपद्ये यत् ' स्थितमन्यार्थे ' इति वचनं तत्रेत्यर्थः । अनेकार्थवाच्य व्यावृत्तये अनेकार्थो यो गत्रादिशब्दस्तस्यैकार्थभिन्नो यो वाच्यो द्वितीयोऽर्थस्तस्य तस्मिन् वा नामलक्षणस्य व्यावृत्तये व्यवच्छेदाय; यदि स्थितमन्यार्थ इत्येव स्यात् तदा गोपदं गोभिन्नवाण्यादिलक्षणेऽर्थे स्थितं गोरूपराक्यार्थे नामनिक्षेपो भवेत्, शब्दसङ्केतविषयत्वस्य तत्र सत्त्वादतस्तद्व्यावृत्तये 'अन्यार्थे ' इत्यस्य स्थाने ' अशक्यार्थे ' इति करणाच्छक्यस्य गोरूपार्थस्य, अस्य ' व्यावृत्तौ ' इत्यत्रान्वयः । गङ्गायां घोष इत्यत्र गङ्गापदमशक्यार्थे तीररूपार्थ एव स्थितमिति तीरे तस्य नामनिक्षेपत्वव्यावृत्तये स्वाह-पर्यायेति पर्यायलक्षणवाक्यघटकेन पर्यायानभिधेयं' इत्यनेन वचनेन लक्ष्यस्यगङ्गातीररूपार्थस्य व्यावृत्तौ नामनिक्षेपत्वव्यावृत्तौ निरुक्तनामलक्षणकर्तुस्तात्पर्यादित्यर्थः । तत्रोत्तरमाशङ्कते - ओमिति चेदिति - अत्र स्वीकारार्थक 'आँ' इति शब्दः, तथा च शक्ति-लक्षणान्यतरवृत्तेरुपेक्षा भवदाशङ्कितं नामलक्षणं शक्यलक्ष्यव्यावृत्तये लक्षगघटकमशक्यार्थ इति वचनं च स्वीक्रियत एवेति तदर्थः । प्रष्टोकोत्तरं दूषयति- रूपेति - " रूपसत्यादिविषये " इत्यस्य स्थाने " रूपवत्याद्य सत्यादिविषये " इत्येवं पाठो भवितुमर्हति; अन्यादृशो वा पाठो यद्यत्र स्यात् तदा साङ्गत्यमञ्चतीति विचारणीयं सुधीभिः, 'रूपवत्याद्य सत्यादिविषये ' इति पाठं समालम्ब्य व्याख्यायते - यद्य प्याकृतावपि शब्दस्य शक्तिरिति शक्यव्यावतर्कविशेषणत एव स्थापनाया आकृतिरूपाया व्यावृत्तिः भावे तु शक्तिरस्त्येवेति तत एव भावस्यापि व्यावृत्तिः, जातिस्त्वनुगतत्वाद् द्रव्यमेत्रेति जातौ शक्तेः स्त्रीकाराज्जातिरूपत्वाद् द्रव्यस्यापि शक्यत्वमिति शक्यव्यावर्तकविशेषणतो द्रव्यस्यापि व्यावृत्तिः, तथापि कल्पितरूपवत्यादिसंज्ञकनायिका वर्णनात्मकनायिकाख्यायिकाया असत्यादिविषये कल्पितादिनाम कनायिका. तद्भामायात्मकविषये तद्वचनस्य नामनिक्षेपत्वं स्याद् यतस्तादृशार्थे व्यवहार: पथानवतीर्णे न शक्तिर्नापि लक्षणा रूपवत्यादिशब्दस्यातः शक्य- लक्ष्यभिन्नः सोऽर्थ इति निरुक्तनाम निक्षेपलक्षणस्य तत्रातिव्याप्तिरित्यर्थः । ननु तस्य लक्ष्यत्वात् तत्रातिव्याप्तिरूपता न लक्षणसमन्वयस्येत्यत आह- तस्येति- रूपवत्यादिविषयस्ये Page #332 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। २६१ [तत्रैव सा] इति चेत् ? न-उक्तलक्षण एव भावनिक्षेपविषयाभेदव्यवहारौपयिकरूपराहित्यविशेषणदाने दोषाभावात् , निरूढलक्षणायाः स्वीकारे तु लक्षणाया निरूढत्वज्ञापकं वचनमेव निक्षेपः, तद्विषयविशेष. स्त्वन्यव्यावृत्त्यादिना यथाव्यवहारं स्वीकार्य इति नातिप्रसङ्ग इति दिक् ॥ तच्चित्रं स्थापनेति-तस्य-घटस्य चित्रं-पत्रादिलिखित आकारः स्थापना, तल्लक्षणं चैवं स्मरति" यत् तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि, लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ॥" एतदर्थोऽयं-यत्-वस्तु, तदर्थवियुक्त-भावेन्द्राद्यर्थरहितं, तदभिप्रायेण-तद्बुद्ध्या, करणिःआकृतिः, यच्चेन्द्राद्याकृति लेप्यादिकर्म क्रियते, चशब्दादाकृतिशून्यं चाक्षनिक्षेपादि तत् स्थापनेति, तच्चाल्पकालमित्वर मित्यर्थः, चशब्दाद् यावद्र्व्यभावि च । मृद्रव्यमिति-घटकारणीभूता मृदेव द्रव्यघट इत्यर्थः, तल्लक्षणमिदम् त्यर्थः। द्रव्यनिक्षेपविषयत्वेनेति- अनाद्यनन्तस्वरूपे भवे सम्भाव्यते रूपवत्यादिको निरुक्ताख्याविषयः कश्चिदासीत् भविष्यति वेत्यतीतानागतकालिकवस्त्वात्मनाऽध्यवसिते तस्मिन्नतीतानागतपदार्थविषयकस्य द्रव्यनिक्षेपस्य विषयत्वेन नामनिक्षेपत्वस्य तत्रानिष्टत्वादित्यर्थः । उत्तरयति-नेति । भावेति-यद्यपि द्रव्यनिक्षेपविषयो भावनिक्षेपविषयो न भवति तथापि अयं राजा भावी भूतो वेति प्रतिसन्धाय राजपर्यायकरणे राजपर्यायकार्ये वा द्रव्यराजनि भावनिक्षेपविषयस्य भावराजस्याभेदव्यवहारो भवति, तझ्यवहारोपयिकं यत्तत्कारणत्व- तत्कार्यत्वादिरूपं तद्राहित्यस्योक्तनामनिक्षेपलक्षणे निवेशाद् द्रव्यनिक्षेपविषये रूपवत्याद्याख्यायिकाविषयेऽतिव्याप्तिदोषाभावादित्यर्थः । निक्षेपसामान्यलक्षण एवाभिमतनिक्षेपातिरिक्तनिक्षेपविषयव्यावर्तकविशेषणदानतोऽभिमतनिक्षेपविशेषलक्षणं कर्तुं सुकरमित्याशयनाह-निरूढलक्षणाया इति-अन मूलिका लक्षणा निरूढलक्षणा, सा प्रयोजननिरपेक्षव, सा यस्य पदस्य यत्रार्थे तत्र तत्पदस्य शक्तिरेव स्वीकरणीया किमुक्तलक्षणाभ्युपगमेनेति विवाद प्रदर्शनायोक्तम् - स्वीकारे त्विति - यस्य पदस्य नान्यत्र शक्तिरवधूता तस्य पदस्य शक्यार्थान्तराभावात् तत्सम्बन्धरूपा लक्षणा न सम्भवतीति तस्य पदस्य प्रकृतेऽर्थे शक्तिरेव न निरूढलक्षणा; यस्य पदस्य पुनरन्यार्थे व्यवहारादिना शक्तिः क्लुप्ता तस्य पदस्य क्लुप्तशक्यसम्बन्धत एवान्यार्थोपस्थितिसम्भवान्न तत्र शक्तिः किन्तु प्रयोजनाभावेऽपि अनादितात्पर्यमूलिका लक्षणैव, अनन्यलभ्यो हि शब्दार्थ इति वचनादित्येवं निरूढलक्षणास्वीकारोपष्टम्भिका युक्तिः । एवं सति यन्निक्षेपसामान्यलक्षणमभिमतं तदाह-लक्षणाया इति । निरूढत्वज्ञापकं अनादितात्पर्यमूलकत्वज्ञापकम् । तद्विषयविशेषस्तु निक्षेपविषयविशेषः पुनः, यद्वै लक्षण्यबलादान्तरनामनिक्षेपादिप्रभेदो भवति तादृशो निक्षेपविषयविशेष इति यावत् । अन्यव्यावृत्त्यादिनेति- यस्य निक्षेपस्य यो विषयो व्यवह्रियते तस्य निक्षेपस्य तद्विषयान्यव्यावृत्त्यादिनेत्यर्थः । तल्लक्षणं स्थापनालक्षणम् , च पुनः, एवम् अनन्तराभिधीयमानस्वरूपम् , स्मरन्ति प्राचीनाः कथयन्ति, स्मरन्तीत्युक्त्या नेदमभिनवमेव लक्षणं केनचित् कृतं तत्पूर्वमपीत्थमेव केनचित् प्रकाशितमेवं तत्पूर्वमपीति ज्ञापितम् । एतदर्थः " यत्तु तदर्थवियुक्तं" इति पद्यार्थः । अयम् अनन्तरं 'यत्तु०" इत्यादिनाऽभिधीयमानः। यत् त्वित्यत्र यत्पदं यत्किञ्चिद्वस्तुपरामर्शकमित्याह- यद् वस्त्विति । तदर्थवियुक्तमित्यस्य भावेन्द्राद्यर्थरहितमिति विवरणम् , भावेन्द्रादिको य इन्द्रादिशब्दार्थस्तद्रहितं- तच्छून्यमित्यर्थः । तदभिप्रायेणेत्यस्य विवरणं- तद्बुद्धयेति- इन्द्रोऽयमितीन्द्रादिबुद्धयेत्यर्थः । तत्करणीत्यत्र करणीशब्दार्थ आकृतिरित्याह - करणिः आकृतिरिति, तथा च तत्करणीत्यस्ये न्द्राद्याकृति वस्त्वित्यर्थ इत्याह- यच्चन्द्राद्याकृतीति- इन्द्रादेराकृतिराकारो यस्मिन् वस्तुनि तद् वस्तु, इन्द्राद्याकृतीत्यर्थः । तद् वस्तु किमित्यपेक्षायामाह-लेप्यादिकमैति- तथा'च भावेन्द्राद्यर्थरहितं भावेन्द्रादिबुद्धथा इन्द्राद्याकृतिस्वरूपं लेप्यादिकर्म क्रियते तल्लेप्यादिकर्म इन्द्रादिस्थापनेत्यर्थः । चशब्दात् 'यच' इत्यत्र चशब्दात् । आकृतिशून्यमिन्द्राद्याकृतिरहितं च यत् अक्षनिश्चपादि इन्द्रोऽयमिति बुद्धया स्थापितं तदक्षनिक्षेपादि, स्थापना स्थापनानिक्षेपः। तत्र Page #333 -------------------------------------------------------------------------- ________________ २६२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । "भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥" एतदर्थों यथा-भूतस्य-अतीतस्य, भाविनो वैष्यतो भावस्य, कारणं-निमित्तं यल्लोके तद् द्रव्यमिति, द्रवति गच्छति तांस्तान् पर्यायन क्षरति वेति द्रव्यम् , तत्त्वज्ञैः-सर्वस्तीर्थकृद्भिरिति यावत्, सचेतनम्अनुपयुक्तपुरुषाख्यम् , अचेतनं-ज्ञशरीरादि तथाभूतमन्यद् वा, कथितं-प्रतिपादितम् , इहायं सम्प्रदायःद्रव्यघटस्तावद्. द्विधाऽऽगमतो नोआगमतश्च, आगमः-पदार्थपरिज्ञानं, नोआगमस्तद्विपर्ययः, तत्रागमतो द्रव्यघटो घटशब्दाध्येताऽनुपयुक्तः " अनुपयोगो द्रव्यम्" [ ] इति वचनात्, अनुद्वद्धपदवृत्तिमहाहितसंस्कारवानागमद्रव्यपदवाच्य इत्येतन्निष्कर्षः, नोआगमतश्च त्रिविधो द्रव्यघटो ज्ञशरीर-भव्यशरीर-तद्व्यतिरिक्तभेदात्, तत्र घटपदार्थज्ञस्य शरीरमात्मरहितं सिद्धशिलातलगतमप्यतीत स्थापनानिक्षेपात्मकं लेप्यादिकर्म च। अल्पकालमित्यस्येत्वरमित्यर्थ इति । चशब्दात् 'अल्पकालं च' इत्यत्र चशब्दात् । यावद्रव्यमावि आकृतिमद्रव्यं यावदवतिष्ठते तावत्कालं स्थाप्यमाना तदाकृतिरप्यवतिष्ठते। मृद द्रव्यमितीति मूलधारणम् , घटकारणीभूत। मृदेव द्रव्यघट इत्यर्थ इति तदर्थप्रपश्चनम् । तल्लक्षणं द्रव्यनिक्षेपलक्षणम् , इदम् अनन्तरमेवाभिधीयमानम् । एतदर्थो यथेति- द्रव्यनिक्षेपलक्षणप्रतिपादकस्य "भूतस्य" इत्यादिपद्यस्याओं यथेत्यर्थः । भूतस्येत्यस्य अतीतस्येत्यर्थकथनम् । भाविन इत्यस्य विवरणम् -एष्यत इति । कारणमित्यस्य निमित्तमिति व्याख्यानम्। तत् भूतस्य भाविनो वा निमित्तम् । भूतभाविकार्यनिमित्तस्य द्रव्यत्वं कथमित्यपेक्षायां द्रव्यादनिरुक्तित एव तलभ्यत इत्याशयेन तन्निरुक्तिमुपदर्शयति-द्रवतीति । तत्वरित्यस्य विवरणं- सर्वरिति । बौद्धादिभिः सर्वज्ञतया सुगतादिरप्यनुमतो, न च सुगतादिभिर्भूतभाविकार्यनिमित्तं द्रव्यमिति कथितमित्यत आह-तीर्थकृद्भिरिति यावदिति- तीर्थङ्करा एव वस्तुतः सर्वज्ञा नान्ये सुगतादयस्तदुच्चरितवाक्यस्याबाधितार्थत्वाद्यभावेन तदागमस्य तीर्थस्वाभावात् , “ सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागत" इति कोशस्तु नाम: निक्षेपालम्बनेनैव प्रवृत्तः न च सुगतादिर्भावसर्वज्ञो नामसर्वज्ञत्वस्यैव तत्र भावादिति । सचेतनमित्यस्य विवरणम्अनुपयकपुरुषाख्यमिति-अनुपयुक्तः पुरुष उपयुक्तपुरुषपर्यायमभिगच्छतीति उत्तरपर्यायनिभित्तत्वाद् द्रव्यम्, अचेतनमित्यस्य विवरणं-शशरीरादीति-ज्ञस्यात्मनो यच्छरीरादिकं तदपि तन्निमित्तत्वाद् द्रव्यमिति, ज्ञशरीरादीत्यत्रादिपदाद् भव्यशरीरादेरुपग्रहः । तथाभूतं भूतस्य भाविनो वा पर्याययस्य निमित्तम् । अन्यद्वा ज्ञशरीरादिभिन्नं मृदाद्यपि । कथितमित्यस्य विवरण-प्रतिपादितमिति । अनुपयुक्तपुरुषो यथा स्वपर्यायनिमित्तत्वाद् द्रव्यं तथोपयुक्तपुरुषोऽपि स्वपर्यायनिमित्तत्वाद् द्रव्यं भवेत्येवेति किमित्यनुपयुक्तपुरुषाख्यमित्युक्तम् ?, ज्ञशरीरादीति किमित्युक्तम् ? सामान्यतः शरीरादेरपि तथात्वसम्भवादिति नाशङ्कनीयम् , घटस्यैव निमितत्वाद् यथा मृद् द्रव्यघटः, तथा घटेऽनुपयुक्तः पुरुषोऽप्यागमतो द्रव्यघटः, एवं नोआगमतो ज्ञशरीरादिरपि द्रव्यघट इत्याशयेनेत्थमभिधानात् , अमुमेवार्थ स्पष्टीकर्तुमाह- इहायं सम्प्रदाय इति । इह द्रव्यनिक्षेपविचारे । अयं द्रव्यघटस्तावद् द्विधेत्यादिनाऽनन्तरमेवाभिधीयमानः । सम्प्रदायः सम्प्रदीयते गुरुणा शिष्यायेति सम्प्रदायः- प्राचां वचनसन्दर्भ: प्रवाहत आगतो न त्वेकेनैव केनचित् स्वयमुत्प्रेक्षितः । तद्विपर्यय:-पदार्थपरिज्ञानाभावः । अनुदबुद्धेति- अनुबुद्ध उद्बोधकासमवहितः, यत्सहकृतेन संस्कारेण स्मरणमुपजायते स संस्कारस्योद्बोधको भवति, पदस्य- घटादिशब्दस्य घटादिरूपार्थे वृत्तेः- शक्ति-लक्षणान्यतरसम्बन्धस्य ग्रहेणाहितो- जनित: संस्कारः पदवृत्तिमहाहितसंस्कारः, अनुद्बुद्धश्चासौ पदवृत्तिग्रहाहितसंस्कारश्चानुबुद्धपदवृत्तिग्रहाहितसंस्कारः, सोऽस्यास्तीत्यनुबुद्धपदवृत्तिग्रहाहितसंस्कारवान्, आगमद्रव्यपदवाच्य इत्येवमनुपयोगो द्रव्यमिति वचनस्य पर्यवसितोऽर्थ इत्यर्थः, अत्र । न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत् तदर्थप्रतिपत्तिकरः' इति वचनात्, अनुबुद्धपदवृत्तिग्रहाहितसंस्कार इत्येतावन्मात्रेणैवानुबुद्धः पदवृत्तिग्रहाहितः संस्कारो यस्य सोऽनुबुद्धपदवृत्तिग्रहाहितसंस्कार इति बहुव्रीहिसमासतो परवत्तिमहाहितसंस्कारवतः प्रतीतिसम्भवादनुपतिप्रहाहितसंस्कारवानिति कपमुपपद्यत इति नाराहनीय Page #334 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । कालीनतद्भावानुवृत्त्या घृतघटन्यायेन ज्ञशरीरद्रव्यघटः, येन शरीरेण न तावदिदानी घटपदार्थं जानाति किन्त्वनेनैव कालान्तरेण ज्ञास्यति स भव्यशरीरद्रव्य घटः, तद्व्यतिरिक्तद्रव्यघटो मृद्रूपः कण्ठत एवोक्तः, अयं च द्रव्यपदार्थो द्विधा प्रयुज्यते, अप्राधान्येन योग्यतया च, अप्राधान्येन यथाऽङ्गारमर्दको द्रव्याचार्य इति, योग्यतया यथा मृत्पिण्डो द्रव्यघटः सुश्रावको द्रव्यसाधुः साधुश्च द्रव्यदेव इत्यादि, योग्यता च यद्यप्यैकमविक-बद्धायुष्काऽभिमुखनामगोत्रभेदेन त्रिविधैव अनुयोगद्वारसूत्रे नयभेदेन व्याख्याता, कायोत्सर्गनियुक्ती द्रव्यकायनिरूपणप्रस्तावे"जंतु पुररकडभावं दवियं पच्छाकडं च भावाओ । तं होइ दबदवियं जह भविउंदव्वदेवाई ॥ १॥" [ आवश्यकभाष्ये गा० २३३ ] इत्यत्रापि चातीतानागतानन्तभवेष्वपि द्रव्यपदव्यपदेशप्रसङ्गात् स्वयमुट्टङ्कय पुरष्कृतपश्चात्कृतभवद्वय एवायुःकर्मसव्यस्पर्शनोद्भावनेन निरस्तः, तथाहि"दुहओऽणन्तररहिया जइ एवं तो भवा अणन्तगुणा। एगस्स एगकाले भवा ण जुजन्तिऽणेगा(उ)॥" [आवश्यके गा० १५३६ ] व्याख्या-" दुहओ "त्ति-वर्तमानभवे स्थितस्योभयत एष्यकाले अतीतकाले, अणन्तररहिअ त्तिअनन्तरौ एष्यातीतौ, अनन्तरौ च तौ रहितौ च वर्त्तमानभवभावेनेति प्रकरणाद् गम्यते अनन्तररहितौ तावपि, जइत्ति- यदि तस्योच्यते, तो त्ति- एवं सति, भवा:- तद्भवद्वयव्यतिरिक्ता वर्तमानभवभावेतर" असुब्वत" इति भाष्यप्रयोगदर्शनादुक्तानुशासनस्य प्रायिकत्वादिति बोध्यम् । तत्र नोआगमतस्त्रिविधेषु द्रव्यघटेषु मध्ये । भव्यशरीरद्रव्यघटमुपदर्शयति-येन शरीरेणेति । अनेनैव तेन शरीरेणैव । तद्वयतिरिक्तति- ज्ञशरीर-भव्यशरीरव्यतिरिक्तत्यर्थः । अप्रधाने योग्येऽपि च द्रव्यपदं प्रयुज्यत इत्यप्राधान्य योग्यत्वाभ्यां द्रव्यपदार्थस्य द्वैविध्यमुपदर्शयति- अयं चेति । अप्रधानस्वरूपद्रव्यपदार्थमुदाहरति--अप्राधान्येन यथेति । अङ्गारमर्दको द्रव्याचार्य इत्यत्र द्रव्यपदमप्रधानार्थकम् , तथा चोक्तवाक्यात् अङ्गारमर्दकोऽप्रधानाचार्य इति प्रतीयते । योग्यतया द्रव्यपदार्थमुदाहरति- योग्यतया यथेति । मृत्पिण्डो द्रव्यघट इत्यत्र द्रव्यपदं योग्यार्थे प्रयुक्तम् , तथा चोक्तवाक्यान्मृत्पिण्डो घटयोग्यः- घटात्मकपर्यायरूपेण कदाचित् परिणस्यते मृत्पिण्ड इत्येवं प्रतीयते । सुश्रावक इति सूत्रविहितश्रावकाचारपरिपालनपरायणः सुश्रावकः, स च साधुपर्यायं कालान्तरे आसादयिष्यतीति द्रव्यसाधु:- साध्वात्मकपर्यायरूपेण भवितुं योग्य इत्यर्थः । साधुश्च द्रव्यदेवः य इदानीं सूत्रविहितसाधुसमाचारी सम्यगातिष्ठति साधुः, स कालं कृत्वा देवो भविष्यतीति कृत्वा द्रव्यदेव इत्युच्यते, यः साधुरन्तरभव एव न देवरूपेणोत्पत्स्यते किन्तु भवद्वयादिव्यवधानेन देवो भविष्यति सोऽपि द्रव्यदेव इत्युच्यते, तत्रानुयोगद्वारसूत्रोपवर्णितत्रिविधयोग्यताऽसम्भवतः कथं द्रव्यदेवतेति शङ्कया भवद्वयादिव्यवधानेनापि तद्भवनस्वभावे तद्योग्यता - सम्भवतीति तथाविधस्यापि द्रव्यसाधुतोपपद्यते इत्यभिप्रायकसमाधानेन च बुधजनानन्दकरं विचारं प्रस्तौति-योग्यता चेति-योग्यता च त्रिविधैव व्याख्यातेति सम्बन्धः । यद्यपीति-तथापी. यमित्याधुत्तरग्रन्थस्थिततथापीत्युक्तिसापेक्षयं यद्यपीत्युक्तिः । जं तु० त्ति- “यत् तु पुरस्कृतभावं द्रव्यं पश्चात्कृतं च भावतः । तद् भवति द्रव्यद्रव्यं यथा भवितुं द्रव्यदेवादि ॥ इति संस्कृतम् । "प्रसङ्गात्" इत्यस्य स्थाने "प्रसङ्गः" इति पाठो युक्तः, अस्य 'निरस्तः' इत्यनेनान्वयः। निरसनप्रकारमेव भावयति-तथाहीत्यादिना । दुहओ०त्ति"उभयतोऽनन्तररहितौ यद्येवं ततो भवा अनन्तगुणाः । एकस्यैककाले भवा न युज्यन्तेऽनेके तु॥” इति संस्कृतम् । उक्तगाथाविवरणमुपदर्शयति-दुहओ त्तीति । उभयत इत्यस्य फलितकथनम्- एष्यकाले अतीतकाल इति-भविध्यत्काले भूतकाले च । केन रहिताविति न ज्ञायत इत्यत आह-वर्तमानति-प्रकरणाद् वर्तमानभवभावेन रहिताविति गम्यते, “वर्तमानभवभावतररहिता" इत्यस्य स्थाने “वर्तमानभवभावेन रहिता" इति पाठः सम्यग् । इटा Page #335 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । रहिता एष्या अतीताश्चान्तगुणास्तस्य सिद्धाः, ततस्तदपेक्षयापि द्रव्यकल्पना स्यात् , इष्टापत्तिश्च कर्तृमशक्येमेत्याह-एकस्य एककाले-पुरुषादिकाले भवा न युज्यन्ते अनेके, ततो भावेन सह साक्षात्सम्बन्धाभावात् तेषु सर्वेषु द्रव्यत्वस्वीकारोऽनिष्ट इत्यर्थः ॥ १ ॥ इत्थं चोदकेनोक्ते गुरुराह"दुहओऽणन्तरभवियं जह चिट्ठइ आउअं तु जं बद्धं । हुजियरेसु वि जइ तं दव्वभवा हुज ता ते वि ॥२॥" [आवश्यके गा० १५३५] व्याख्या-दुहओ त्ति-वर्तमानभवे वर्तमानस्योभयत एध्येऽतीते च, अनन्तरभविकं-पुरस्कृतषश्चात्कृतभवसम्धधीत्युक्तं भवति, यथा तिष्ठति आयुष्कमेव-तुशब्दस्यावधारणार्थत्वान्न शेषं कर्म, यहीतरेष्वपिप्रभूतेष्वनागतेषु च भवेषु, तदायुष्कर्म बन्धोदयद्वारकप्रत्यासत्तिकारि भवेत् , तदा तेऽपि-तस्मिन् भवे वर्तमानस्य द्रव्यभवा भवेयुः, तदायुष्कर्मसम्बन्धात्, न चैतदस्ति तस्मादसच्चोदकमतमिति गाथार्थः ॥२॥ अस्यैवार्थस्य प्रसाधकं लोकप्रतीतं निदर्शनमाह" संज्झासु दोसु सूरो अदिस्समाणो वि पप्पसमईअं। जह ओभासइ खित्तं तहेव एवं पि णायव्वं॥३॥" [आवश्यके गा० १५३८] पत्तिश्च अनन्तातीतानागतभवापेक्षया द्रव्यत्वकल्पनाप्रसङ्ग इष्टापत्तिरेव । भावार्थमाह-तत इति । "ततो" इत्यस्य स्थाने "तद्गतेन" इति पाठो युज्यते, व्यवहितातीतानागतभवगतेन भावेन सह द्रव्यत्वेनाभिमतैतद्भवीयस्य साक्षात्सम्बन्धस्याभावाद् व्यवधायकस्य भवस्य साक्षात्सम्बन्धविघटकस्य सद्भावादित्यर्थः । इत्यर्थः एवं “दुहओ" इत्यादिगाथार्थ इत्यर्थः । दुहओत्ति-उभयत आनन्तरभविकं यथा तिष्ठति आयुष्कं तु यद् बद्धम् । भवेदितरेष्वपि यदि तद् भव्यभवा भवेयुस्तदा तेऽपि ॥” इति संस्कृतम् । विवृणोति- दुहओ त्तीति । उभयत इत्यस्य विवरणम्- एष्येऽतीते चेति । आनन्तरभविकमित्यस्य फलितार्थकथनम्-पुरस्कृतपश्चात्कृतभवसम्बन्धीत्युकं भवतीति। " आउअंतु" इत्यस्य "आयुष्कं तु" इति स्यातू आयुष्कमेवेति कथमित्यत आह-तुशब्दस्येति । अवधारणार्थ केन तुशब्देन कस्य व्यवच्छेद इत्यपेक्षायामाह-न शेषं कर्मेति-निरुक्तायुष्कर्मभिन्नं कर्म न तिष्ठतीत्यर्थः । यदीत्यस्य भवेदित्यनेन सम्बन्धः । इतरेष्वपीत्यस्य विवरण-भूतेष्वनागतेषु च भवेष्विति । "प्रभूतेष्व" इत्यस्य स्थाने “भूतेष्व" इति पाठो युक्तः, अथवा "प्रभूतेष्वतीतेष्व" इति पाठः शोभनः । तत् अनेकभवकालसम्बन्धि । आयुष्कर्म बन्धेतिअतीतभवे तस्य कर्मणो बन्धो वर्तमानभवे तस्योदयः, तद्द्वारिका या अतीतभवेन सह वर्तमानभवस्य प्रत्यासत्तिःसम्बन्धस्तत्कारि आयुष्कर्म यदि भवेदित्यर्थः, तदा तेऽपि व्यवहितभवा अपि। तस्मिन् भवे वर्तमानस्य वर्तमानभवे वर्तमानस्य पदार्थस्य भावरूपस्य । वर्तमानभवगतेन भावेन सह व्यवहितभवगतानामपि बन्धोदयद्वाराऽऽयुष्कर्मलक्षणप्रत्यासत्तिकारिबलात् सम्बन्धस्य सद्भावादित्याह-तदायुष्कर्मसम्बन्धादिति । न चैतदस्ति आयुष्कर्म व्यवहितातीतभवे बध्यते वर्तमानभवे उदयमासादयतीत्येव नास्ति, किन्त्वव्यवहितातीतभवे आयुष्कर्म बध्यते तदन्तरमेव वर्तमानभवे उदयमाप्नोतीत्यतो वर्तमानभवगतभावस्य व्यवहितभवगतपदार्थेन सह सम्बन्धस्य बन्धोदयद्वारकायुष्कर्मसम्बन्धकृतस्याभावान्न व्यवहितानन्तभवगताः पदार्थाः वर्तमानभवगतभावापेक्षया द्रव्यतापत्तिभाजनानीत्युपसंहरति- तस्मादिति। अस्यैव द्वितीय गाथाप्रतिपादितस्यैव । संज्झासु० त्ति- “ सन्ध्ययोर्द्वयोः सूर्योऽदृश्यमानोऽपि प्राप्यसमतीतम् । यथाऽवभासयति क्षेत्रं तथैवैतदपि ज्ञातव्यम् ॥” इति संस्कृतम्। विवृणोति- सन्ध्या चेति। "प्रत्यूष-प्रदोषा प्रतिबद्धयोः" इत्यस्य स्थाने "प्रत्यूष प्रदोषप्रतिबद्धयोः" इति पाठो युक्तः, तथा च द्वयोः सन्ध्ययोरित्यनेन प्रत्यूष-प्रदोषसन्ध्ययोरित्युक्तं भवति । प्राप्यं म्वक्रियाजन्यसंयोगशालि, अस्य क्षेत्रमित्यनेनान्वयः, समतीतं स्वक्रियाजन्यविभागशालि, येन क्षेत्रेण संयुक्तो भवति, यस्मात् क्षेत्रादनन्तरमेवापक्रान्तो भवति, तदुभयक्षेत्रमित्यर्थः। “यथाऽपभाषयति" इत्यस्य स्थाने “ यथाऽवभासयति" इति पाठो युक्तः । उक्तमेवार्थ स्पष्टयति- यथेति । प्रत्यूषसन्ध्यायां प्रातः Page #336 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । सन्ध्या च सन्ध्या च सन्ध्ये, तयोः सन्ध्ययोः प्रत्यूष - प्रदोषा प्रतिबद्धयोः, सूर्य आदित्योऽदृश्यमानोऽपि प्राप्यं समतीतं च क्षेत्रं यथाऽवभासयति-यथा प्रत्यूषसन्ध्यायां पूर्वविदेहं भरतं च, प्रदोषसन्ध्यायां तु भरतमपरविदेहं च, तथैवैतदपि प्रक्रान्तं ज्ञातव्यम् इदमुक्तं भवति - वर्तमानभवस्थितः पुरस्कृतभवं पश्चात्कृतभवं चायुष्कर्मसद्द्रव्यतया स्पृशति प्रकाशेनादित्यवदिति गाथार्थः ॥ ३ ॥ तथापीयं भवद्वय नियतायुष्कर्म घटिता (तया) योग्यता (तया) तथानिय मोक्तिर्न तु सर्वत्रानेन नियमेनैव व्यामोहो विधेयः, तीर्थङ्कर नामकर्मघटितया योग्यतया नानाभवव्यवधानेनापि मरीचेद्रव्यतीर्थ करत्वप्रतिपादनात् " जे अ अईआ सिद्धा" [ शक्रस्तवे ] इत्यादिना सुदूरव्यवहितानामपि द्रव्यतीर्थ कृतां वन्द्यत्वप्रतिपादनस्य नानाभव सम्बन्धघटित योग्य तयैवोपपत्तेश्च इत्थमेव पुष्पादिना भगवत्पूजादावुत्क र्षतोऽपार्द्धपुद्गलपरावर्तंव्यवधानेन भावस्तवरूपफलोपधायकतया द्रव्यस्तत्रत्वम् अपुनर्बन्ध काद्युचिताचारे चोत्कर्षतः पुद्गलपरावर्तव्यवधानेन भावाज्ञारूपफलोपधायकतया द्रव्याज्ञात्वमुपदेश पदादावुकं सङ्गच्छते, तत्र समुचितशक्तिरूपाया योग्यतायास्तावत्कालनियताया एव सिद्धेः न च फले पुद्गलपरावर्तव्यवधानमपुनर्बन्धकक्रियाया असिद्धम्, आशातना बहुलस्योत्कृष्टान्तरस्यापार्द्धपुद्गलपरावर्तमानस्यैव प्रसिद्धत्वादिति वाच्यम्, बीजादीनां सान्तरेतरत्वभेदस्य तेषामुत्कृष्टान्तरस्यैकपुद्गलपरावर्तमानतायाश्च विंशिकायामाचार्यैः प्रतिपादनात् । तदुक्तं -- २६५ " बीजाइआ य एए तहा तहा सन्तरेतरा णेया । तहभवत्तखित्ता एगन्तसहाबबाहा ॥ १ ॥ सन्ध्यायाम् । भरतं चेत्यनन्तरमवभासयतीत्यस्यानुकर्षेण सम्बन्धः । प्रदोषसन्ध्यायां सायं सन्ध्यायाम्, तु पुनः, अपरविदेहूं चेत्यनन्तरमपि अवभासयतीत्यस्यानुकर्षेण सम्बन्धः । एतदित्यस्य विवरणं प्रकान्तमिति । संक्षेपेण निरुक्तगाथार्थमनुगमय्य दर्शयति- इदमुक्तं भवतीति । इदं वर्तमानभवस्थित इत्यादिनानन्तरमेवाभिधीयमानम्, उक्तम् एतद्गाथयोच्चरितम्, अन्यत् स्पष्टम् । यद्यपीत्युक्तिव्यपेक्षेयं तथापीत्युक्तिः । इयमित्यस्य नियमोक्तिरित्यनेन सम्बन्धः । न त्वित्यस्य विधेय इत्यनेन सम्बन्धः । कथं भवद्वयनियतायुष्कर्मघटितया योग्यतयैव सर्वत्र वर्तमानभवगतभावस्याव्यवहितभवगतमेव द्रव्यमिति नियमो नेत्याकाङ्क्षायां तत्र हेतुमुपदर्शयति तीर्थङ्करेति । नानाभवसम्बन्धघटितयोग्यतयाऽपि द्रव्यत्वे हेत्वन्तरमप्युपदर्शयति- जे अ० इति - जे अ अईआ सिद्धा, जे अ भविस्संति अणागकाले । संपइ वट्टमाणा सव्वे तिविहेण वंदामि ॥ इति संपूर्णः पाठः, "ये चातीताः सिद्धा ये च भविष्यन्त्यनागतकाले सम्प्रति वर्तमानाः सर्वान् त्रिविधेन वन्दे ॥ " इति संस्कृतम् । वन्द्यत्वप्रतिपादनस्येत्यस्योपपत्तेरित्यनेन सम्बन्धः । इत्थमेवे - त्यस्य सङ्गच्छते इत्यनेनान्वयः । इत्थमेव नानाभवसम्बन्धघटितयाऽपि द्रव्यत्वमित्यभ्युपगमप्रकारेणैव । अपार्द्धपुद्गलपरावर्तादिसमयविज्ञानं समयसमुद्रात् कर्तव्यम् । द्रव्यस्तवत्वमित्यस्योपदेशपदादावुक्तमित्यनेन सम्बन्धः । अपुन - बन्धकेति न पुनरपि कर्मबन्ध मोहनीय कर्मोत्कृष्टवन्धनं यस्य सोऽपुनर्बन्धकः तल्लक्षणं यथा- "पावं न तिव्वभावा, कुइ ण बहु मन्नइ भवं घोरं । उचिअठिदं च सेवइ, सव्वत्थ वि अपुणबंधोति ॥ " यद्वा- " भवाभिनन्दिदोषाणां प्रतिपक्ष गुणैर्युतः । | वर्धमान गुणप्रायो पुनर्बन्धको मतः ॥ " इति तत्र अपुनर्बन्धकक्रियायाम्, तावत्कालनियतायाः पुद्गलपरावर्तव्यवधानकालनियतायाः । न चेत्यस्य वाच्यमित्यनेनान्वयः । अपुनर्बन्ध कक्रियायाः फले पुद्गलपरावर्तव्यवधानस्यासिद्धत्वे हेतुमुपदर्शयति- आशातनाबहुलस्येति । निषेधे हेतुमाह - बीजादीनामिति । सान्तरेतरत्वभेदस्य बीजादीनि सान्तराणि निरन्तराणि चेत्येवं भेदस्य, अस्य विंशिकायामाचार्यैः प्रतिपादनादित्यनेन सम्बन्धः । तेषां बीजादीनाम् । उक्तार्थ प्रतिपादकं विंशिकागतं गाथात्रितयमुल्लिखति- बीजा हुआ य० इति - बीजादिका चैते तथा तथा सान्तरेतरा ज्ञेयाः । तथा ૪ Page #337 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । बस्स व संपत्ती जायइ चरमम्मि चेव परिअट्टे । अञ्च्चन्त सुन्दरा जं एसा वि तओ ण सेसेसु ॥ २ ॥ ५-८ णय अम्मि अणन्तो जुज्जइ णेयस्स णाम कालु त्ति । ओसप्पिणी अणन्ता हुन्ति जओ एगपरिअट्टे ॥३॥ [ बीजादिविशिकायाम्-८, ६, ७ ] २६६ तस्माद् योग्यता प्रतिकार्यं यथासम्प्रदायं द्रव्यव्यवहारहेतुर्विशिष्याश्रयणीया, न तु द्रव्यमेव, ( एवमत्रापि ) द्रव्यकार्यादिव्यपदेशहेतुरायुः सम्बन्धघटितैव तत्तत्पदसमभिव्याहारेण द्रव्यपदस्य नानाताद्योतनात्, अन्यथा द्रव्यस्तवादावगतेः तदिदमुक्तं - " इयरो पुण जोगात्ते चित्ते णयभेयओ अ” [ ] इतरो द्वितीय द्रव्यपदार्थः, नयभेदश्च प्रस्थका दिन्याय सिद्धः ' इत्यादिविपश्चितमस्माभिर्धर्मपरीक्षायामिति विस्तरार्थिनैतत्तत्त्वं तत एवावगन्तव्यम् । रक्तादिको रक्तादिपर्यायपरिणामः, भावो - भावघटः, तल्लक्षणं चेदम् " भावो विवक्षित क्रियानुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् " ॥ १ ॥ [ ] भवनं भावः, स हि वक्तुरिष्टक्रियानुभवलक्षणः सर्वज्ञैः समाख्यातः, इन्दनादिक्रियानुभव नयु केन्द्रादिवदिति, अनागमतो भावघटो घटपरिज्ञानोपयुक्तः, नोआगमतो भावघटश्च रक्ततादिपरिणामसमूह इति विवेक: । अथ घटोपयोगमात्रात् कथं भावघट इति चेत् ? न-घट-ज्ञानयोरतिरिक्तसम्बन्धाभव्यत्वक्षिप्ता एकान्तस्वभावबाधया ॥ १ ॥ बीजस्यापि सम्पत्तिर्जायते चरम एव परावर्ते । अत्यन्तसुन्दरा यदेषाऽपि ततो न शेषेषु ॥ २ ॥ न चैतस्मिन्ननन्तो युज्यते ज्ञेयस्य नाम काल इति । उत्सर्पिण्योऽनन्ता भवन्ति यत एकपरिवर्ते ॥ ३ ॥” इति संस्कृतम् । उपसंहरति- तस्मादिति- योग्यता विशिष्याऽऽश्रयणीयेति सम्बन्धः, एकस्य कारणस्यैकस्मिन् कार्ये द्रव्यव्यवहारहेतुर्या योग्यता सेव नान्यस्य कारणस्य नान्यस्मिन् कार्ये तथा, नवा तस्यैवान्यकार्ये तथा; किन्तु प्रतिकार्य विभिन्नैव सा तथा साऽपि यथा सम्प्रदायं सम्प्रदायमनतिक्रम्यैवाश्रयणीयेत्यर्थः । न तु द्रव्यमेवेतिद्रव्यमेवाविशेषितस्वरूपं द्रव्यव्यवहारहेतुर्नाश्रयणीयमित्यर्थः । आयुः सम्बन्धघटितैवेत्यनन्तरं योग्यताऽऽश्रयणीयेत्यनुकर्षः । एवं सति नानार्थता द्रव्यपदस्येष्ठैव, किन्तु तद्द्योतनं तत्तत्पदसमभिव्यावहारेण भवतीत्याह तत्तत्पदेति । अन्यथा द्रव्यव्यवहारहेतुतया प्रतिकार्यं विशिष्य योग्यताया अनाश्रयणे । तत्र संवादं दर्शयति - तदिदमुक्तमिति । इयरो० इति - " इतर : पुनर्योगात्ते चित्ते नयभेदतो ज्ञातव्यः " इति संस्कृतम् । तदिदमुक्तमर्थं दृढीकर्तुमस्मन्निर्मित धर्मपरीक्षाग्रन्थोऽवलोकनीयो विस्तरार्थिनेत्युपदिशति - इत्यादि विपश्चितमिति ॥ 1 भावो रक्ततादिक इति भावनिक्षेप प्रतिपादकं वचनं विवृणोति- रक्तादिक इति- अस्य स्थाने मूलपद्यपाठानुसारात् 'रक्ततादिक' इति पाठो युक्तः, अस्यार्थकथनम् - रक्तादिपर्याय परिणाम इति । भाव इत्यस्य विवरणं- भावघट इति । तल्लक्षणं च भावनिक्षेपलक्षणं तु । इदम् अनन्तरमेवाभिधीयमानम् । " भावो विवक्षित० " इति पद्यार्थं संक्षेपेण दर्शयति- भवनमिति । स भावः । हि यतः । अत्रेत्यस्य ' इति विवेक:' इत्यनेन सम्बन्धः । अत्र भावनिक्षेपविचारे घटपरिज्ञानोपयुक्तः पुरुषश्चेतनः घटश्वाचेतन इति कथं चेतनस्याचेतनभावरूपत्वमित्याशङ्कते - अथेति । समाधत्ते-नेति । घट- ज्ञानयोर्विषयविषयिभावलक्षणसम्बन्धो यद्यतिरिक्त उपेयते तदा तस्यापि प्रतियोग्यनुयोगिभ्यां घट-ज्ञानाभ्यामसम्बद्धस्य सम्बन्धत्वं न सम्भवतीति तस्याप्यतिरिक्तः सम्बन्धोऽभ्युपेयः, एवं तस्याप्यतिरिक्त इत्यनवस्थानान्न तयोरतिरिक्तः सम्बन्धः, एवं सति घटज्ञानं पटज्ञानमिति व्यवहारो निर्निमितो मा प्रसासीदित्येकाकारतैव विषय-विषयिणोस्तन्नियामिका इति वाच्यम्, तथा चाचेतनस्य घटस्य घटोपयोगस्य च चेतनस्य घटाकारत्वलक्षणभाव घटत्वमविशिष्टमिति घटाकारत्वलक्षणभाव घटत्वाश्रयणेन घटपरिज्ञानोपयुक्ते भावघटत्वाभिधाने बाधकाभावादित्याह - घट-वानयोरिति । तज्ज्ञाने घटज्ञाने । Page #338 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। २६७ भावेन घटाकारतायास्तज्ज्ञानेऽवश्यं स्वीकर्तव्यत्वात् तादृशभावमपेक्ष्य घटोपयुक्तेभ्यश्च भावघटत्वोक्तो बाधकाभावात् , अग्न्युपयुक्तस्य भावाग्नित्वे बाधकमुक्तमेव तदन्यत्रापि समानमिति चेत् ? सत्यमुक्तम्परमयुक्तम्-नयनलः सर्व एव दहनाद्यर्थक्रियाप्रसाधको भस्माच्छन्नाग्निना व्यभिचारात् , ज्ञानाद्वैतनयमतमेतदिति चेत् ? किं ततः ? सर्वनयमये भगवत्प्रवचने [ ] यथाधिकारं यथेष्टतयाश्रवणे दोषाभावादिति किमतिप्रसक्तानुप्रसत्या ॥ ८६ ॥ तदेवं भिन्ने वस्तुनि निक्षेपचतुष्टयमवतारितम् , अथैकस्मिन्नैव तदवतारयनाह एकद्रव्येऽप्यात्मनामा-कृति-कारण-कार्यता। पुरस्कृत्य महाभाष्ये, दिष्टाः पक्षान्तरेण ते ॥ ८७॥ नयामृत०-एकद्रव्येऽपीति-एकस्मिन्नपि द्रव्ये, आत्मनो-विवक्षितपदार्थस्य, नाम-अभिधायकं पदम् , आकृतिः-संस्थानम् , कारणता-तत्पर्यायजननशक्तिः, कार्यता-तद्रूपेणाभिव्यक्तिः, एताः पुरस्कृत्य-मेलयित्वा, पक्षान्तरेण-भिन्नपक्षाभिप्रायेण, ते-नामादयश्चत्वारोऽपि निक्षेपाः, महाभाष्ये दिष्टाः-प्रतिपादिताः, तथा च तद्गाथा"अहवा वत्थुभिहाणं नामं ठवणा य जो तयागारो। कारणया से दव्वं कज्जावनं तयं भावो॥" [विशेषावश्यकभाष्ये गा० ६० ] इति, तारशभावं घटाकारत्वलक्षणभावम् । “घटोपयुक्तभ्यश्च" इत्यस्य स्थाने “घटोपयुक्त" इति पाठो युक्तः । यथाऽग्न्युपयुक्तस्य पुरुषस्य भावाग्नित्वेऽग्निना यथा दहनकार्यमुपजायते तथाऽग्न्युपयुक्तपुरुषेणापि दहनकार्य स्यादित्यापत्तिलक्षणबाधकाद् यथाऽग्न्युपयुक्तस्य न भावाग्नित्वं तथा घटोपयुक्तस्य जलाहरणादिकार्यकारित्वप्रसङ्गलक्षणबाधकान्न भावघटत्वमित्याशङ्कत-अग्न्युपयुक्तस्येति । तत् तत्कार्यकारित्वलक्षणबाधकम् । अन्यत्रापि घटपरिज्ञानोपयुकस्य भावघटत्वेऽपि। समाधत्ते-सत्यमुक्तमिति- नोक्तं भवता तदिति न किन्तु उक्तमेवेत्यर्थः । परं किन्तु । अयुक्तत्वे हेतुमाहनहीति- यत्र यत्रानलत्वं तत्र दहनाद्यर्थक्रियासाधकत्वमिति नियमो नास्तीत्यर्थः । तत्र हेतुमाह-भस्मेति-भस्माच्छादितोऽप्यग्निरग्निर्भवत्येव न च स दहनाद्यर्थक्रियासाधक इत्येवं व्यभिचारादित्यर्थः । बाह्यघटस्य ज्ञानात्मकत्वं न सम्भवतीति न बाह्यपदार्थाभ्युपगन्तृमते भावघटरूपता घटोपयोगस्य, किन्तु सर्वस्य वस्तुनो ज्ञानाकारत्वाज्ज्ञानरूपत्वमेवेत्यभ्युपगन्तृयोगाचारमत एव घटोपयोगस्य भावघटत्वमिति तथाऽभ्युपगमे योगाचारमतप्रवेश: स्यादित्याशङ्कते-शाना. द्वैतेति । समाधत्ते-किं तत इति-भवत्वेतस्य ज्ञानाद्वैतनयमतत्वं तस्मात् किं नः सर्वनयमयभगवत्प्रवचनाश्रितानां छिन्नमित्यर्थः । " यथेष्टतयाश्रवणे" इत्यस्य स्थाने " यथेष्टनयाश्रयणे" इति पाठः सम्यक् ॥ ८६ ॥ सप्ताशीतितमपद्यमवतारयति-तदेवमिति । अवतारितं योजितम् । एकस्मिन्नवेत्यनन्तरं वस्तुनीति दृश्यम् । तत् निक्षेपचतुष्टयम् । विवृणोति-एकद्रव्येऽपीतीति। विवक्षितपदार्थस्य यथा घटस्य नामनिक्षेपादिचतुष्टयविवक्षायां नामादिनिक्षेपचतुष्टयास्पदतया विवक्षितस्य घटपदार्थस्य, यदभिधायक घकारोत्तराकारोत्तरटकारोत्तरात्वरूपानुपूर्व्यवच्छिन्नं घटेति पदं तद् घटस्य नामनिक्षेपः, तस्य यत् कम्बुग्रीवाद्यवयवसन्निवेशविशेषविशिष्टपृथुबुध्नाद्याकारलक्षणं संस्थान तद् घटस्य स्थापनानिक्षेपः, घटस्य या कारणतोत्तरोत्तरप्रतिक्षणभाविपर्यायजननशक्तिः सैव घटस्य द्रव्यनिक्षेपः, घटस्य घटरूपेण याऽभिव्यक्तिस्तद्रूपा कार्यतैव तस्य भावनिक्षेप इत्यर्थः । एताः आत्मनामाऽऽकृति-कारण-कार्यताः । पुरस्कृत्येत्यस्य विवरणं-मेलयित्वेति । पक्षान्तरेणत्यस्य विवरणं-भिन्नपक्षाभिप्रायेणेति । ते इत्यस्य विवरणं नामादयश्चत्वारोऽपि निक्षेप। इति । दिष्टा इत्यस्य विवरणं-प्रतिपादिता इति । तदाथा महाभाष्यगाथा । अहवा० इत्ति-" अथवा वस्त्वभिधानं नाम स्थापना च यस्तदाकारः । कारणता तस्य द्रव्यं कार्यापन्नं तकत् भावः ॥" Page #339 -------------------------------------------------------------------------- ________________ २६८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। अस्मिंश्च पक्षे " व्यक्क्या-ऽऽकृति-जातयः पदार्थः " [न्यायदर्शन० अ-१, सू.] इति गौतमीयसूत्रं यथा त्रिषु पदार्थपर्याप्त्यभिप्रायेण व्याख्यायते तथा " नाम-स्थापना-द्रव्य भावतस्तन्यासः " [ तत्त्वार्थ० अ० १, सू० ५] इत्यस्मदीयं तत्त्वार्थसूत्रमपि चतुर्पु पर्याप्त्यभिप्रायेण व्याख्येयम् , अधिकविषयपक्षपाती च व्यवहारः, नह्याकृतिरिव नामापि स्वरसतः पदान्न प्रतीयते, नवाऽऽकृतिवत्ताया इव नामवत्ताया अपि संशयः शाब्दबोधानन्तरमवतिष्ठत इत्यादिरन्यत्र विस्तरः ॥ ८७ ॥ तदेवं भिन्नद्रव्ये एकद्रव्ये वा चत्वारोऽपि निक्षेपा द्रव्यार्थिक सिद्धाः, एतेषां च सर्वव्यापकत्वं श्रूयते, तद्व्यभिचारशङ्कामुन्नीय प्रायिकव्याप्त्यभिप्रायेण व्यवस्थापयति अप्रज्ञाप्याभिधा द्रव्यजीव-द्रव्याद्ययोगतः। न चाव्यापित्वमेतेषां, तत्तद्भेदनिवेशतः ॥ ८८ ॥ इति संस्कृतम् । अस्मिंश्च अनन्तरोपदिष्टे च । त्रिषु- व्यक्त्याकृतिजातिषु। पदार्थपर्याप्त्यभिप्रायेण पदार्थत्वं व्यक्त्याकृतिजातिषु पर्याप्तमित्यभिप्रायेण । अस्मदीयं स्याद्वादराद्धान्तकान्तोपासकास्मदाचार्यश्रीमदुमास्वातिभगवद्गुम्फितम् । चतुषु नाम-स्थापना-द्रव्य-भावेषु । पर्याप्त्यभिप्रायेण नाम-स्थापना-द्रव्य-भावेषु पदार्थत्वं पर्याप्तमित्यभिप्रायेण । ननु स्थापना आकृतिः, द्रव्यमनुगतत्वाजातिः, भावो व्यक्तिः, एतत्रितयस्य पदार्थत्वाभ्युपगमो जैन-नैयायिकयोः समानः, नाम्नस्तु पदार्थत्वं न नैयायिकनाभ्युपगतं जैनेन तु तस्याप्यधिकस्य पदार्थत्वमभ्युपगम्यते, तत्र । " शक्तिमहं व्याकरणोपमान-कोशाऽऽप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद् विवृतेर्वदन्ति, सान्निध्यतः सिद्धपदस्य वृद्धाः॥१॥" [ इति वचनप्रसिद्धशक्तिग्राहकव्याकरणादिषु मध्ये कस्य बलान्नाम्नि शक्तिप्रहः, येनाधिकस्य तस्य पदार्थत्वं परीक्षकै. रनुमोदनीयं स्यादित्यत आह-अधिकविषयपक्षगती च व्यवहार इति-लौकिकव्यवहारे यत्पदाद् यमर्थमवगत्य व्यवहरति पुरुषस्तत्पदस्य तत्र शक्तिरवगम्यते, यथा घटमानयेत्यत्र घटपदाद् घटरूपार्थमवगत्य तदानयनादिव्यवहारमाचरति, एवं घटमुच्चारयेत्यत्र घटपदाद् घकारोत्तराकारोत्तरटकारोत्तरात्वरूपानुपूर्व्यवच्छिन्नं घटेति नामावगत्य तदुच्चारणव्यवहारमाचरतीत्येवं नैयायिकानुमतपदार्थत्रयादधिको नामात्मको यो विषयः, तस्य पदार्थत्वाभ्युपगमके जनपक्षे पतितुंतद्दाय विधातुं शीलं यस्य सोऽधिकविषयपक्षपाती, च पुनः, व्यवहारः, तथा च शक्तिप्राहकतया प्रसिद्धस्य व्यवहारस्य नाम्न्यपि पदस्य शक्तिप्राहकत्वमित्यर्थः । यथा चाकृतिः स्वरसतः पदात् प्रतीयते तथा नामापि स्वरसत एव पदात् प्रतीयत इत्यतो यथाऽऽकृतौ पदार्थत्वं तथा नाम्न्यपि पदार्थत्वं स्वीकरणीयमित्याह-नहीति-'द्वौ नौ प्रकृतमर्थ गमयतः' इति वचनाद् 'नहि न प्रतीयते' इति निषेधद्वयात् प्रतीयत एवेत्यवगतिः। नवेति-शाब्दबोधानन्तरमाकृतिवत्तायाः संशय इव नामवत्तायाः संशयोऽपि नवाऽवतिष्ठत इत्यन्वयः, घटपदाच्छाब्दबोधे सति घट आकृतिमान् न वेति संशयो यन्न भवति तत्रेदमेव कारणं-यदुत घटपदादाकृतिमत्तयैव घटस्य निर्णयात्मकः शाब्दबोधः, निर्णयश्च संशयविरोधी, अर्थादाकृतिमत्त्वप्रकारकघटविशेष्यकनिर्णय आकृतिमत्त्वप्रकारकघटविशेष्यकसंशयस्य प्रतिबन्धक इति तदभावरूपकारणस्याभावात् तथासंशयो न भवतीति, एवं घटपदाच्छाब्दबोधे जाते घटो नामवान् नवेति संशयोऽपि न भवति, तत्राप्येतदेव कारणं वाच्यं-यद्धटपदात् घटनामवान् घट इति घटनामवत्त्वप्रकारकघटविशेष्यकनिर्णयात्मकः शाब्दबोधो घटविशेष्यकघटनामवत्त्वप्रकारकसंशयप्रतिबन्धक इति तदभावरूपकारणाभावाद् घटो घटनामवान् नवेति संशयो न भवतीत्यतो घट पदजन्यशाब्दबोधविषयत्वान्नाम्नोऽपि पदार्थत्वमित्यर्थः ॥ ८७ ॥ अष्टाशीतितमपद्यैकोननवतितमपद्ये अवतारयति-तदेवमिति । एतेषां नाम-स्थापना-द्रव्य भावनिक्षेपाणाम् , सर्व व्यापकत्वं सर्वस्मिन् वस्तुनि नामादयश्चत्वारो निक्षेपाः प्रवर्तन्त इति यत्र यत्र वस्तुत्वं तत्र नामादिनिक्षेपचतुष्टयतत्त्वमित्येवं सर्वव्यापकत्वम् , श्रयते यत्रापि यं जानीयाद्, यत्रापि यं न जानीयात् तत्रापि निक्षिपेदित्याद्यागमवचनेन प्रतिपाद्यते। Page #340 -------------------------------------------------------------------------- ________________ wed नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । २६९ इतीयं प्रायिकी व्याप्तिरभियुक्तैर्निरूप्यते । यत्तत्पदाभ्यां व्याप्तिश्चानुयोगद्वारनिश्चिता ॥ ८९ ॥ नयामृत-अप्रज्ञाप्येति, इतीयमिति । एतेषां-नामादीनां चतुर्णा निक्षेपाणाम् , अप्रज्ञाप्ये वस्तुनि, अभिधाया-नाम्नोऽप्रयोगात् , जीव द्रव्ययोश्च जीवत्वेन द्रव्यत्वेन च भूत-भविष्यत्पर्यायभावेन तत्कारणत्वाभावाद् द्रव्यनिक्षेपस्यायोगात् , न चाव्यापित्वमाशङ्कनीयम् , कुतः ? तव्यभिचारस्थानभेदस्य निवेशात् , इति-हेतोः, इयं-यद् यद् वस्तु तत् तन्निक्षेपचतुष्टयवद् इत्याकारा व्याप्तिः प्रायिकी, अभियुक्तैः-पण्डितैर्निरूप्यते, व्याप्यतावच्छेदकेऽप्रज्ञाप्यजीवद्रव्यादिभेदनिवेशात् , ननु यदि सामान्यतो व्याप्तेहिकं प्रमाणं स्यात् तदा तत्रायं सङ्कोचः कर्तुं शोभते तदेव तु किमित्याशङ्कायामाह-व्याप्तिश्च, यत्तत्पदाभ्यामनुयोगद्वारसूत्रादेव निश्चिता ।। " जत्थ य जं जाणिज्जा निरकेवे णिरवसेसं । जत्थ वि य न जाणिज्जा चउक्कयं णिरिकवं तत्थ ॥” [ अनुयोगद्वारे सू० १ ] इति । तत् सर्वनिक्षेपाणां सर्वव्यापकत्वम् , अस्य व्यवस्थापयतीत्यनेनान्वयः। व्यभिचारशङ्काम् अप्रज्ञाप्यादिवस्तुनि नामादिनिक्षेपामावतो यत्र वस्तुत्वं तत्र निक्षेपचतुष्टयवत्त्वमिति नियमाभावशङ्कायाम् । उन्नीय उद्भाव्य । विवृणोति-अप्रज्ञाप्येतीतिप्रथमपद्यप्रतीकधारणम्, इतीयमितीति-द्वितीयपद्यप्रतीकधारणम् । एतेषामित्यस्य विवरणम्-नामादीनां चतर्णा निक्षेपाणामिति । अप्रज्ञाप्ये विशिष्य प्रतिपादकवचनाभावाद् वचनेन ज्ञापयितुमशक्ये । वस्तुनीत्युक्त्या यद्वक्तुमशक्य तच्छशशृङ्गवदनुपाख्यत्वाद् वस्त्वेव न भवतीत्यभिमानस्य व्यवच्छेदः, दधि-दुग्ध-गुड-सिता-शर्करादीनामन्योऽन्यविलक्षणमाधुर्यस्य प्रमात्रानुभूयमानस्य वस्तुनोऽपि विशिष्य वचनेन प्रतिपादयितुमशक्यत्वात् , अभिधाया अयोगोऽप्रयोग एव, यन्नाम तत् प्रयुज्यत एव इत्याशयेन नाम्नोऽयोगादिति वक्तव्ये नाम्नोऽप्रयोगादित्युक्तम् । जीव-द्रव्ययोश्चेत्यादि व्याख्यानप्रन्थस्वारस्यान्मूले "अप्रज्ञाप्याभिधाद्रव्यजीवद्रव्याद्ययोगतः" इत्यस्य स्थाने 'अप्रज्ञाप्याभिधाजीवद्रव्यद्रव्याद्ययोगतः" इति पाठो भवितुमर्हति । " भूतभविष्यत्पर्यायभावेन" इत्यस्य स्थाने " भूत-भविष्यत्पर्यायाभावन" इति पाठो युक्तः, जीवस्य जीवत्वेन भूतस्य भाविनो वा पर्यायस्याभावेन द्रव्यस्य द्रव्यत्वेन भूतस्य भाविनो वा पर्यायस्याभावेन चेत्यर्थः, नहि जीवस्य जीवलक्षणः पर्यायो भूतो भावी वा, नवा द्रव्यस्य द्रव्यलक्षणः पर्यायो भूतो भावी वेति। तत्कारणत्वाभावात् जीवात्मक-द्रव्यात्मकपर्यायकारणत्वाभावात् । द्रव्यनिक्षेपस्यायोगादिति-जीवो जीवस्य कारणं यदि भवेत् तदा जीवकारणीभूतो जीवो द्रव्यजीवो भवेत् , जीवश्चानादिनिधनत्वात् कार्यमेव न भवतीति न तं प्रति जीवस्य कारणत्वमिति जीवात्मकवस्तुनि द्रव्यजीव इत्येवंरूपस्य द्रव्यनिक्षेपस्याभावात् , एवं द्रव्यं प्रति द्रव्यं यदि कारणं स्यात् तदा द्रव्यकारणीभूतं द्रव्यं द्रव्यद्रव्यं भवेत् , द्रव्यं च ध्रौव्यखभावत्वात् कार्यमेव न भवतीति न तत् प्रति द्रव्यस्य कारणत्वमिति द्रव्यात्मकवस्तुनि द्रव्यद्रव्यमित्येवंरूपस्य द्रव्यनिक्षेपस्याभावादित्यर्थः, एतच्चाव्यापित्वमित्यत्रान्वेति । अव्यापित्वं निक्षेपचतुष्टयस्य वस्तुत्वाव्यापकत्वम् , न चाशनीयमित्यन्वयः । पृच्छति-कुत इति- कुतोऽव्यापित्वं नाशङ्कनीयमित्यर्थः। उत्तरयति-तद्वयभिचारस्थानभेदस्य निवेशादिति-यत्र यत्र वस्तुत्वं तत्र निक्षेपचतुष्टयवत्त्वमिति नियमे व्यभिचारस्थानमप्रज्ञापनीयादि तद्भेदस्य निवेशात् , अप्रज्ञापनीयादिभिन्नत्वे सति वस्तुत्वे यत्र तत्र निक्षेपचतुष्टयवत्त्वमित्येव हि नियमः, तत्र न व्यभिचार इत्यर्थः॥ इतीयमित्यत्रेतिशब्दो हेतुपर इत्याशयेनाह-इति हेतोरिति । इयमित्यस्य विवरणं-यद् यद् वस्तु तत् तद् निक्षेपचतुष्टयवदित्याकारेति । व्याप्तिर्नियमः। प्रायिकी सम्भावितार्थस्वभावा । अभियुक्तैरित्यस्य विवरणपण्डितैरिति । कथं निरूप्यते ? इत्याकाङ्घानिवर्तकं यत्तद्भेदनिवेशत इति, तस्यैव हेतोः स्पष्टीकरणं-व्याप्यताबच्छेदकेऽप्रज्ञाप्यजीवद्रव्यादिभेदनिवेशादिति-तथा च किश्चिद्विशेषप्रदानेन सोचमानीता व्याप्तिः प्रकृते प्रायिकी Page #341 -------------------------------------------------------------------------- ________________ २७० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । Nnnnnnw तत्पाठात् यो धूमवान् सोऽग्निमानितीव व्याप्त्युपस्थितेरावश्यकत्वादिति भावः ॥ ८८-८९ ॥ एतच्च प्रायिकव्याप्त्यभिधानं तत्त्वार्थटीकाकृन्मतेन, तथा च ते आहुः-" यद्यकस्मिन्न सम्भवति नैतावता भवत्यव्यापिता" [ तत्त्वार्थ० अ० सू० ] इति, एतदेव च सम्प्रदायशुद्धमिति । अत्र मतद्वयमुपन्यस्य दूषयति आदिष्टजीव-द्रव्याभ्यां, द्रव्यन्यासस्य सम्भवम् । अप्रज्ञाप्ये जिनप्रज्ञानाम्नश्च ब्रुवते परे ॥ ९० ॥ तच्चिन्त्यमुपयोगो यन्नाम द्रव्यार्थिकस्य न। नरादेव्यजीवत्वे, सिद्धे स्याद् भावजीवता ॥ ९१ ॥ आदिष्टद्रव्यहेतुत्वाद्, द्रव्यद्रव्यप्रतिश्रुतौ । भावद्रव्यं न किञ्चिद् स्याद, गुणेऽपि द्रव्यताऽर्पणात् ॥ ९२ ॥ नयामृत-आदिष्टेत्यादित्रयेण-परे-आचार्याः, अप्रज्ञाप्ये-वस्तुनि, जिनप्रज्ञारूपनामनिक्षेपस्य सम्भवं ब्रुवते, यत्र न शृङ्गग्राहिकया सङ्केतः कर्तुं शक्यस्तत्र केवलिप्रज्ञैव नाम तयैव तत्कार्यकरणात् , न च नाम शब्दरूपमेवेति, मौनिकृतलिप्यादौ व्यभिचारात्, मनुष्यादिजीव एव भाविदेवादिजीवव्याप्तियत्र न व्यभिचारावकाश इत्याशयः। उत्तरार्द्ध व्याख्यातुमवतारयति-नन्विति । तत्र सामान्यतो व्याप्तौ। अयं तत्तद्वयभिचारस्थानभेदनिवेशलक्षणः, तदेव सामान्यतो व्याप्तेहिकं प्रमाणमेव । उक्तव्याप्तौ प्रमाणभूतमनुयोगद्वारसूत्रमुल्लिखति-यत्थ य० इति-" यत्र च यं जानीयान्निक्षेपं निक्षिपेन्निरवशेषम् । यत्रापि च न जानीयाच्चतुष्टयं निक्षिपेत् तत्र ॥” इति संस्कृतम् । तत्पाठात् उक्तानुयोगद्वारसूत्रपाठात् ॥ ८॥ ८९ ॥ ___ नवतितमपद्यमवतारयति-पतञ्चेति । ते तत्त्वार्थटोकाकाराः । तत्पाठमुल्लिखति-योकस्मिन्निति । एतदेव तत्त्वार्थटीकाकृन्मतमेव । अत्र एतद्विचारे । मतद्वयमुपन्यस्यति-आदिष्टेत्यादिपद्यत्रयेणैकं मतम्, अन्ये स्वित्यायेकपद्येन द्वितीयं मतं चोपन्यासपुरस्सरं दूषणास्पदं विदधातीत्यर्थः । विवृणोति-आदिष्टेत्यादित्रयेणेति-प्रथममतं न्यस्य निरा. करोतीति दृश्यम् । तत्र नवतितमपद्यव्याख्यानं प्रथममधिकरोति-परे आचार्या इति। अत्र परे के ? इत्याकालानिवृत्तये आचार्या इति, अस्य 'ब्रवते' इत्यनेन सम्बन्धः । अप्रज्ञाप्यं किमित्याकालोपशान्तये वस्तुनीति । जिनप्रज्ञानाम्न इत्यस्य विवरणं-जिनप्रज्ञारूपनामनिक्षेपस्येति । जिनप्रज्ञायाः कथं नामत्वमित्यपेक्षायां नामकार्यकारित्वात् तस्या नामत्वमित्याह-योति-यस्मिन् प्रज्ञाप्ये वस्तुनीत्यर्थः । शृङ्गग्राहिकयेति-यथा कश्चिद् गोपो निजस्य गोविशेषस्य गवां समूहे स्थितस्य स्वसम्बन्धित्वावगतये शङ्ख हस्तेन गृहीत्वेयं गौर्मदीयेत्येवं सङ्केत ग्राहयति तथा यत्र वस्तुनि यस्य पदस्य सङ्केतः करणीयस्तद्वस्त्वसाधारणरूपेणोपादाय तत्र पदविशेषस्य सङ्केतकरणं शृङ्गग्राहिकान्यायस्तेनेत्यर्थः। तत्र शृङ्गमाहिकान्यायेन सङ्केतकरणायोग्ये वस्तुनि । केवलिप्रव केवलिनः सर्वज्ञस्य यत् तद् वस्तुविज्ञानं तदेव, एवकारेण तदन्यस्य तत्र नामत्वव्यवच्छेदः । नाम नामनिक्षेपः । तयैव केवलिप्रज्ञयैव । तत्कार्यकरणात् नामनिक्षेपकार्यस्य करणादुत्पादनात् । ननु नाम शब्दस्वरूपं प्रज्ञा तु शब्दानात्मिकेति कथं तस्या नामत्वमित्याशङ्का प्रतिक्षिपति-न चेति । निषेधे हेतुमाह-मौनिकते. ति-मौनव्रतधारिपुरुषकृतं यदक्षरविशेषसङ्केतितरेखाविशेषात्मकं लिप्यादि शब्दानात्मकेऽपि तत्र शाब्दबोधविशेषजनकत्वेन नामत्वस्य भावेन शब्दात्मकत्वस्य तत्राभावेन व्यभिवारान्नाम शब्दरूपमेवेति नियमासम्भवादित्यर्थः । निक्षेपेषु नाम्नः प्राथमिकत्वात् व्यापकत्वशङ्कापनोदकमेव प्रथमं व्याख्येयमित्याशयेनोत्तरार्द्धगतस्यापि तस्य पूर्व व्याख्यानमिति बोध्यम् । व्यनिक्षेपाब्यापकत्वाशङ्कापनोदकमादिष्टेत्यादिकं पर्यवसितभावार्थकथनेन विवृणोति-मनुष्यादिजीव एवेति-स्पष्टम् ।। Page #342 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । पर्यायहेतुत्वाद् द्रव्यजीवो, मृदादिद्रव्यमेव आदिष्टद्रव्यत्वानां घटादिपर्यायाणां हेतुत्वाद् द्रव्यमिति वक्तुं शक्यत्वादिति भावः ॥ २७१ तद् - एतन्मतं, चिन्त्यम्, यद् - यस्माद्, द्रव्यार्थिकस्य नयस्य मते, उपयोगो नाम न भवति, शाब्दबोधनजन काक्षरलिप्यादेरेव तेन नाम्नः स्वीकारादिति द्रव्यार्थिक विषयनिरूपणे केवलिज्ञानरूपं नामातिरिक्तं वाचादिष्टम्, ( अप्रज्ञाप्यवस्तुनि नाम न भवति ), जीवहेतुतया नरादेर्द्रव्यजीवत्वे चाभ्युपगम्यमाने सिद्धे भावजीवत्वं स्यात् तत्रादिष्टे द्रव्यद्देतुत्वाभावादिति संसारिजीवमात्रे भावजीवत्वाभिधायकसिद्धान्तव्याकोपः स्यात् ॥ आदिष्टद्रव्य हेतुत्वाद्धेतोः द्रव्यद्रव्यस्य प्रतिश्रुतौ स्वीकारे च भावद्रव्यं किमपि न स्यात् यदेव भावद्रव्यं स्वीक्रियतेऽन्त्यावयव्यादि, तत्रापि तद्गतगुणे द्रव्यतामर्पयि त्वादिष्टद्रव्यहेतुतया द्रव्यद्रव्यव्यपदेशस्य कर्तुं शक्यत्वात् । किञ्च, स्वसमभिव्याहृत पदार्थतावच्छेदकावच्छिन्नकर्मतानिरूपितकारणताबोधन एव द्रव्यस्य साकाङ्क्षत्वान्मनुष्यो द्रव्यजीव इत्यादि दुर्वचम्, अन्यथा प्रथमपद्योपदिष्टमतदूषणपरं द्वितीयपद्यं विवृणोति तदिति-अस्य विवरणम् - एतन्मतमिति । एतन्मतस्य चिन्त्यत्वे हेतुमाह-यदिति तदर्थो यस्मादिति । नयस्य मते इति शेषः कृतः । द्रव्यार्थिकमते कुत उपयोगो नाम न भवतीत्याकाङ्क्षायामाह - शाब्दबोधेति - शाब्दबोधजनकं यदक्षरलिप्यादि तस्यैव नाम्नो नामरूपस्य तेन द्रव्यार्थिकनयेन स्वीकारादभ्युपगमादित्येतस्मात् कारणाद् द्रव्यार्थिकनयविषयस्य नाम्नो निरूपणे प्रक्रान्ते केवलिज्ञानं - केवलिसम्बन्धि ज्ञानरूपं नामातिरिक्तमपि वाचादिष्टं-वचनमात्रेणादिष्टं न तु युक्तयुपपन्नम्, कुत्र वाचादिष्टमित्याकाङ्क्षानिवृत्तये - अप्राप्यवस्तुनीति, तन्नाम नामनिक्षेपो न भवतीत्यर्थः । जीवद्देतुतया देवादिजीवकारणत्वेन नरादेर्नरादिपर्यायापन्नजीवस्य द्रव्यजीवत्वे स्वीक्रियमाणे पुनः सिद्धे सिद्धावस्थे जीवे, भावजीवत्वं स्यात् । कथं सिद्धजीवस्यापि भावजीवत्वमित्यपेक्षायामाह -तत्रेतिसिद्धे इत्यर्थः । " आदिष्टे द्रव्यहेतुत्वाभावादिति " अस्य स्थाने " आदिष्टद्रव्य हेतुत्वाभावादिति " इति पाठः समुचितः, आदिष्टद्रव्यस्य जीवत्वेनादिष्टस्य द्रव्यस्य जीवस्य हेतुत्वाभावात् नहि सिद्धपर्यायस्योत्तरं कोऽपि जीवपर्यांयो यत्कारणत्वं सिद्धस्य स्यादित्यर्थः । भवतु सिद्धमात्रस्यैव भावजीवत्वम्, संसारिजोवस्य तु द्रव्यजीवत्वमेव का नो हानिरित्यत आह- संसारिजीवमात्र इति " संसार्यसंसारिजीवमात्रे ” इति पाठः सम्यग् उपयोगलक्षणो जीवः स संसारी सिद्धश्चेत्यादिकस्य संसार्यसंसारिजीवमात्रे भावजीवत्वाभिधायकस्य सिद्धान्तस्य व्याकोपो व्याघातः स्यात् सिद्धमात्रस्य भावजीवत्वाभ्युपगम इत्यर्थः ॥ तृतीयपद्यं विवृणोति - आदिष्टद्रव्य हेतुत्वादिति । प्रतिश्रुतावित्यस्य विवरणं स्वीकारे चेति । नन्ववयवानात्मकावयविखरूपस्य घटादेर्न द्रव्यं प्रति कारणत्वमिति तस्य भावद्रव्यत्वं भविष्यत्यत आह-यदेवेति । अन्त्यावयवित्वमवयवानात्मकावयवित्वम् । तत्रापि अन्त्यावयव्यादिद्रव्येऽपि । तद्गतगुणे अन्त्यावयव्यादिगतगुणे । द्रव्यतामर्पयित्वा गुण-गुणिनोरभेद इत्यभ्युपगन्तृनये गुणिनो द्रव्यत्वे तदभिन्नस्य गुणस्यापि द्रव्यत्वमित्येवं द्रव्यतामर्पयित्वा । आदिष्टद्रव्यहेतुतया आदिष्टद्रव्यं यदवयवादिगतगुणस्तस्य कारणत्वेन । मनुष्यजीवस्य देवात्मकजीवकारणत्वाद् द्रव्यजीवत्वं प्रकारान्तरेण दूषयतिकिश्चेति । स्वमभिव्याहृतेति - " कर्मता " इत्यस्य स्थाने " कार्यता" इति पाठः सम्यग् मनुष्यो द्रव्यजीव इत्यत्र स्वं द्रव्यपदं तत्समभिव्याहृतं जीवपदं तदर्थावच्छेदकं जीवत्वं न तु देवत्वमिति जीवत्वावच्छिन्न कार्यताया अप्रसिद्धत्वाद् देवत्वावच्छिन्नकार्यताया ग्रहीतुमशक्यत्वान्मनुष्यो द्रव्यजीव इति वक्तुमशक्यम्, मृत्पिण्डो द्रव्यघट इति च वक्तुं शक्यते, तत्र स्वं द्रव्यपदं तत्समभिव्याहृतं घटपदं तदर्थतावच्छेदकं घटत्वं तदवच्छिन्न कार्यतानिरूपित कारणत्वस्य मृत्पिण्डे स्वत्वादित्यर्थः । अन्यथा स्वसमभिव्याहृतपदार्थतावच्छेदकावच्छिन्न कार्यतानिरूपित कारणताबोधन एव द्रव्यपदस्य साकाङ्क्षत्वमिति नियमस्या नभ्युपगमे । मृत्पिड इति यथा मृत्पिण्डो द्रव्यघट इति प्रयोगो भवति तथा मृत्पिण्डो द्रव्यपट इति प्रयोगस्यापि प्रसङ्गादित्यर्थः । ननु मृत्पिण्डो द्रव्यघट इत्यस्य घटकारणं मृत्पिण्ड इत्यर्थः, स च घटं प्रति मृत्पिण्डस्य कारणत्वात् सम्भवति, मृत्पिण्डो द्रव्यपट इत्यस्य तु पटकारणं मूत्पिण्ड इत्यर्थः स्यात्, न स सम्भवति, पटं प्रति Page #343 -------------------------------------------------------------------------- ________________ २७५ ___नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । मृत्पिण्डो द्रव्यघट इतिवत् द्रव्यपट इत्यस्याप्यापत्तेः, कार्यमा कालोपाधिविधयापि तस्य पटहेतुत्वादिति विभावनीयं सुधीभिः ॥ ९० ॥ ९१ ॥ ९२ ॥ अन्ये तु द्रव्यजीवो धीसन्यस्तगुण-पर्ययः । तदसन्न धिया तेषां, सन्यासः स्यात् सतां यतः ॥ ९३ ॥ नयामृत-अन्य इति । अन्ये त्वाचार्याः, धिया-बुद्ध्या सन्यस्ता गुण-पर्याया यस्य स तथा, गुण-पर्यायवियुक्तः प्रज्ञास्थापित इति यावत् , तादृशो जीवो द्रव्यजीव इति व्याचक्षते, तदसत्-यतः सतां तेषां-गुण पर्यायाणां धिया सन्न्यासो न स्यात् , नहि यादृच्छिकज्ञानायत्ताऽर्थपरिणतिरस्ति । जीवशब्दार्थज्ञस्तत्रानुपयुक्तः, जीवशब्दार्थज्ञस्य शरीरं वा जीवरहितं द्रव्यजीव इति मृत्पिण्डस्य कश्चिदपि कारणत्वाभावादित्यत आह -कार्यमात्र इति । "कार्यमात्र कालोपाधिविधयाऽपि तस्य पटहेतुत्वादिति" इत्यस्य स्थाने " कार्यमा जन्यमात्रस्य कालोपाधिविधया हेतुत्वेन पटं प्रत्यपि तस्य हेतुत्वादिति" इति पाठो युक्तः, कार्यमा प्रति कालस्य कारणत्वमुररीक्रियते, तत्र कार्यकारणभावश्च कार्यत्वावच्छिन्न कार्यतानिरूपितकालत्वावच्छिन्नकारणत्वमित्येवंरूपः, नित्यस्य कालस्य विशिष्टस्यैकरूपत्वाद्धैमन्तिकवासन्तिककार्यभेदनिमित्तत्वं न भवेदिति हेमन्तादिका लभेद एव कारणम् , तस्य कालो गधिरूपत्वादेव कालत्वम् , तदेव कालत्वं तत्र कारणतावच्छेदकम् , तच्च जन्यमात्र एवेति कार्यतावच्छेदकं कार्यत्वं कार्यमात्रे, कारणतावच्छेदकं च कालोपाधित्वलक्षणं कालत्वं जन्यमात्र इति पटस्यापि कार्यतावच्छेदककार्यत्वधर्माऽऽक्रान्तत्वात् कार्यता, मृत्पिण्डस्यापि जन्यमात्रगतकालोपाधित्वलक्षणकालत्वधर्मा ऽऽकान्तत्वात् कारणतेति भवति पटं प्रति कालोपाधिविधया मृत्पिण्डस्य कारणत्वमिति निरुक्तकार्यकारणभाव समाश्रित्य मृत्पिण्डो द्रव्यपट इत्यपि प्रज्येत, तत्परिहाराय निरुक्तनियमोऽवश्यमभ्युपेय इति जीवत्वस्य कार्यतानवच्छेदकत्वेन तदवच्छिन्नकार्यत्वासिद्ध्या तन्निरूपितकारणत्वस्याप्यसिद्धितो मनुष्यो द्रव्यजीव इत्येवं जोवे द्रव्यनिक्षेपो न सम्भवतीत्यर्थः ॥ ९० ॥ ९१ ।। ९२ ॥ उपन्यासपूर्वकं मतान्तरस्य दुष्टत्वावेदकं त्रिनवतितमपद्यं विवृणोति-अन्य इतीति । धीसभ्यस्तगुण-पर्यय इति समस्तस्य व्यासवचनमन्तरेण नार्थाभिव्यक्तिः समासस्याने कविधस्यापि सम्भवादतो बहुब्रोहिरत्र समास इत्यावेदयितुं विग्रहवाक्यमुपदर्शयति-धियेति-अस्य विवरणं-बुद्धयेति न तु तस्य विग्रहघटकतेति बोध्यम् । तथा धीसन्न्यस्तगुणपर्ययः, एतावताऽपि समासार्थो न स्पष्टं प्रतीयते इत्यत आह-गुणपर्यायविमुक्तः प्रज्ञास्थापित इति यावदितिपर्यायस्य पर्यायान्तरकथने यावच्छन्दः प्रयुज्यते, प्रकृते समासवाक्यस्य समानार्थकत्वाद् विग्रहवाक्यं पर्यायस्तत्पर्यायकथनं चेदमिति युक्तो यावच्छन्दप्रयोगः, द्रव्यस्य गुण-पर्यायाभ्यां सह कथञ्चित्तादात्म्यलक्षणाविष्वग्भावसम्बन्धो न कदाचिदपगच्छतीति यद् द्रव्यं याभ्यां गुणपर्यायाभ्यामविष्वग्भावसम्बन्धेन समन्वितं ताभ्यां तत् सर्वदैव युक्तं न तु कदाचिदपि वियुक्तमिति जीवः स्वगुण-पर्यायाभ्यां वियुक्तो न सम्भवत्यत उक्तम्-प्रज्ञास्थापित इति-स्वगुणपर्याययुक्त एव जीव: केवलं बुद्धया गुण-पर्यायवियुक्त इति कल्पित इत्यर्थः । तादृशः निरुक्तस्वरूपधीसन्न्यस्तगुणपर्ययः । जीव इति पूरणम् । इति व्याचक्षते इत्यपि पूरितमेव, अत्र 'अन्य त्वाचार्या' इत्यस्यान्वयः। तदसत् उक्तमतं न समीचीनम् । तत्र हेतुमुपदर्शयति-यत इति । असतां बुद्धया निषेधः सम्भवति न तु सतां वस्तुभूतानामित्याह-सतामिति, तेषामित्यस्य विवरणं-गुण-पर्यायागामिति । सन्न्यासः निषेधः । कथं सतां बुद्ध्या न सन्न्यास इत्यपेक्षायामाहनहीति-हि-यतः, अर्थपरिणतिर्यादृच्छिकज्ञानायत्ता नास्तीत्यन्वयः, यथाभूतं वस्तु तथाभूतं तद् व्यवस्थापयितुं प्रगल्भते ज्ञानम्, न तु सन्तमर्थमसन्तं विधातुं ज्ञानस्य सामर्थ्य मस्ति, तथा च गुणपर्यायवन्तं जीवं गुणपर्यायवियुक्तं कर्तु कथं बुद्धिः प्रगल्भतामिति धीसन्यस्तगुणपर्ययस्य जीवस्याभावान्न तस्य द्रव्यजीवता वक्तुं शक्येत्याशयः। मतान्तरमुपदर्य तत्राप्यरुचिमुपदर्शयति-जीवशब्दार्थज्ञ इति । तत्र जोवशब्दार्थे । जीवशब्दार्थाभिज्ञः पुरुषो यदा जीवपदार्थोपयोगशून्यस्तदा स द्रव्यजीव इत्यर्थः । जीवशब्दार्थक्षस्येति, वा अथवा, जीवशन्दाभिज्ञस्य पुंसो यजीवरहितं शरीरं Page #344 -------------------------------------------------------------------------- ________________ २७३ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। नाव्यापिता नामादीनामिति तु परिभाषाव्याख्याने शोभते, न त्वेकरूपे व्याप्तिमहमूलके व्यवहार इति भावनीयं सुधीभिः ॥ ९३ ॥ ___ तदेवं प्रायिकव्याप्त्या नामादिचतुष्टयं सर्वत्रेच्छन्ति सर्वेऽपि द्रव्यार्थिकनया इति व्यवस्थापितम् , अत्र यः स्थापनानिक्षेपः सङ्ग्रहनये नेष्यते तन्मतमुपन्यस्य तत्र भाष्योक्तदूषणमेवानूद्य तत्रैव युक्त्यन्त. रपरिस्कारं कर्तुकाम आह सङ्घहे स्थापना नेष्टा, तस्या नाम्नैव सङ्ग्रहात् । किं नेन्द्रचित्रं नामेन्द्र इन्द्रनामकपिण्डवत् ॥ ९४ ॥ नयामृत-सङ्ग्रह इति । सङ्ग्रहे-सङ्ग्रहनये, स्थापना नेष्टा-स्थापनानिक्षेपो नाभिमतः, तस्या:स्थापनायाः, नाम्नव-नामनिक्षेपेणैव संग्रहात् , सङ्घहप्रवणो ह्ययं व्यापके व्यापकं(व्याप्यं) संगृह्णात्येव, पद-प्रतिकृतिभ्यामनयोर्भेदः स्यात् , अत इन्द्रचित्रं किं इन्द्रनामकपिण्डवन्नामेन्द्रो न भवति ? काका भवत्येवेत्यर्थः, तथा च नामेन्द्रत्वं द्विविधम् , इन्द्र इति पदत्वमेकम् १, अपरं चेन्द्रपदसङ्केतविषयत्वम् २, आद्यं नाम्नि, द्वितीयं च पदार्थे, तञ्च नाम-स्थापनासाधारणमेवेति न दोष इति भावः ॥ ९४ ॥ तद् द्रव्यजीव इत्यर्थः । इति एवमभ्युपगमे सति । नाव्यापितेति- नामादोनामव्यापिता नेत्यन्वयः। नामादीनां नाम-स्थापन'-द्रव्य-भावानाम् । इति तु एवंस्वरूपं कस्यचिदाचार्यस्य व्याख्यानं पुनः। परिभाषाव्याख्याने जैनसिद्धान्ते केनचिदाचार्येण जीवशब्दार्थानुपयुक्त जीवशब्दार्थज्ञपुरुषे जीवशब्दार्थज्ञस्य जीवरहिते शरीरे द्रव्यजीवशब्दः परिभाषितःसङ्केतित इत्येवं परिभाषाया व्याख्याने अधिकृते सति उक्तव्याख्यानं शोभते इत्यर्थः । तर्हि कुत्र न शोभते ? इत्यपेक्षायामाह-न विति। एकरूपे जैनसिद्धान्ते तन्त्रान्तरे च समानस्वरूपे, व्याप्तिग्रहमूलके यत्र यत्र वस्तुत्वं तत्र नामादिनिक्षेपचतुष्टयमित्येवं व्यातिज्ञानप्रभवे, व्यवहारे सर्वे पदार्था नामादिनिक्षेपचतुष्टयवन्त इत्याकारकव्यवहारे, 'न तु शोभते' इत्यस्यात्रान्वयः । उक्तार्थस्य गम्भीरत्वमावेदयितुमुक्तम्- इति भावनीयं सुधीभिरिति ।। ९३ ॥ चतुर्नवतितमपद्यमवतारयितुमाह - तदेवमिति । प्रायिकव्याप्त्येति - या बहुस्थलेष्वात्मानं लभते क्वचिदेव तु न प्रवर्तते सा प्रायिकव्याप्तिस्तयेत्यर्थः। अत्र नयनिक्षेपयोजनविचारे। यैरित्यत्र यत्पदं तन्मतमिति तत्पदापेक्षम् । सङ्गहनये स्थापनानिक्षेपो नेष्ट इति यैरनिर्धारितनामकैराचारिष्यते अभ्युपगम्यते तन्मतं तेषामाचार्याणां मतम् , उपन्यस्य उद्भाव्य, तत्र तस्मिन्नाचार्यमते, भाष्योक्तदषणमेवानद्य यदेव भाष्ये दूषणमुपदर्शितं तदेव दूषणमुपदर्य । तत्रैव भाष्योक्तदूषण एव, युक्त्यन्तरपरिष्कार युक्त्यन्तरविवेचनाम् । विवृणोति-सङ्गह इतीति । कथं सङ्ग्रहनये नामनिक्षेपेणैव स्थापनानिक्षेपस्य सङ्ग्रह इत्यपेक्षायामाह-सहप्रवणो हीति । हि यतः, अयं सङ्ग्रहनयः, सङ्ग्रहप्रवणः अनेकस्यैकरूपेण सङ्ग्रहणस्वभावः, अत एव व्यापके सामान्यादिस्वभावे, व्याप्यं विशेषादिस्वरूपम् , सगृह्णात्येव अन्तर्भावयत्येव । पद-प्रतिकृतिभ्यां तत्तद्वर्णाव्यवहितोत्तरतत्तवर्णात्मकं पदं प्रतिकृतिराकृतिस्ताभ्याम् । अनयोः नामस्थापनयोः। अतः एतस्मात् कारणात् , यतो नाम-स्थापनयोर्विशेषरूपेणैव भेदो न सामान्यरूपेणापीत्येतस्मात् कारणा. दिति यावत् । काकेति- यथा “मश्नामि कौरवशतं समरे न कोपात् , दुश्शासनस्य रुधिरं न पिबाम्युरस्तः। सञ्चूर्णयामि गदया न सुयोधनोरू? सन्धि करोतु भवतां नृपतिः पणेन ॥१॥" [वेणीसंहारे ] इति भीमसेनोक्तौ न मनामीत्यादौ काका- स्वरविशेषेण नना निषेधो न प्रतिपाद्यते किन्तु विधेर्दाळमेव तथा प्रकृतेऽपीत्याशयः। तथा च आकृतेरपि नाम्ना सङ्ग्रहेण स्वाभिमतत्वे च । आद्यम् इन्द्र इति पदत्वलक्षणं नामेन्द्रत्वम् , नाम्नि इकारोत्तरनकारोत्तरदकारोत्तररेफोत्तराऽकाररूपे इन्द्र इति नाम्नि वर्तते, न तस्याकृतौ सम्भव इत्याशयः । द्वितीयं च इन्द्रपदसङ्केतविषयस्वरूपं नामेन्द्रत्वं च, पदार्थे यस्मिन् गोपालदारकादौ 'अयमिन्द्रशब्दाद् बोद्धव्यः' इये सङ्केतः क्रियते तत्र, वर्तते इत्यर्थः । ३५ Page #345 -------------------------------------------------------------------------- ________________ २७४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। अथ नाम-भावनिक्षेपसाङ्कर्यपरिहारायेन्द्रपदसङ्केतविशेषविषयत्वमेव नामेन्द्रत्वं निर्वक्तव्यम् , तच्च सादृश्येतरसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं स्थापना इत्यावृत्यामेवेति तन्नाम्ना तत्सङ्ग्रहा इत्याशङ्कायामह नामातिरिक्तो नामेन्द्रो, लक्ष्य इन्द्रपदस्य हि । तस्य मुखार्थसादृश्ये, वैसादृश्ये च नाग्रहः ॥ ९५॥ नयामृत-नामेति । इन्द्रपदस्य लक्ष्यो नामातिरिक्त एव हि नामेन्द्रपदार्थस्य घटकलक्षणायां सादृश्ये वैसाहश्ये वा निमित्त नाग्रहः कर्तव्यो, गौण्यतिरिक्तलक्षणाया असङ्ग्रहापत्तेः, तथा च लाघवात् तच्च इन्द्रपदसङ्केतविषयत्वलक्षणं नामेन्द्रत्वं च । नाम-स्थापनासाधारणमेव नाम-स्थापनोभयवृत्त्येव, गोपालदारके इन्द्रपदसङ्केतकरणाद् यथा गोपालदारको नामेन्द्रस्तथेन्द्रप्रतिकृतौ इन्द्रपदसङ्केतकरणात् साऽपि नामेन्द्र इत्यर्थः ॥ ९४ ॥ पञ्चोत्तरनवतितमपद्यमवतारयति- अथेति । यदीन्द्रपदसङ्केतविषयत्वमेव नामेन्द्रत्वं तर्हि इन्द्रपदसङ्केतविषयत्वं यथा गोपालदारके इन्द्रप्रतिकृतौ च वर्तते तथा भावेन्द्रेऽपि वर्तत इति भावेन्द्रोऽपि गीर्वाणपतिर्नामेन्द्र एव स्यादिति सङ्ग्रहनये भावनिक्षेपस्याप्यतिरिकस्योच्छेदः स्यादतो नाम-भावनिक्षेपसाङ्कर्यपरिहाराय भावनिक्षेपस्य नामनिक्षेपेऽन्तर्भावो सा भवत्वित्येतदर्थम् । इन्द्रपदसङ्केतविशेषविषयत्वमेवेत्येवकारेण सामान्यत इन्द्रपदसङ्केतविषयत्वस्य नामेन्द्र त्वरूपताव्यवच्छेदः । किमिन्द्रपदसङ्केतविशेषविषयत्वं यद् भावेन्द्रे न वर्तत इत्यपेक्षायामाह- तच्चेति- इन्द्रपदसङ्केतविशेषविषयत्वं पुनरित्यर्थः । सादृश्येतरेति- सादृश्यभिन्नो यः सम्बन्धस्तन्निमित्तिका येन्द्रपदस्य लक्षणा तद्विषयत्वम्, लक्षणा यदि सङ्केतविशेषरूपा तदैव तस्याः सविषयकत्वात् तद्विषयकत्वं लक्ष्यार्थे सम्भवति, तस्याश्च सादृश्येतरसम्बन्धनिमित्तिकत्वमप्युपपद्यतेतराम्, इन्द्रपदसङ्केतविशेषविषयत्वरूपताऽपि तद्विषयत्वस्य सङ्गच्छते, इन्द्रपदशक्यसम्बन्धरूपा तु परदर्शनसम्मतेन्द्रपदलक्षणा नात्र सम्मता, तस्याः सादृश्येतरसम्बन्धरूपायाः स्वस्य स्वनिमित्तकत्वाभावेन सादृश्येतरसम्बन्धनिमित्तकत्वाभावात् सविषयकत्वाभावेन तद्विषयत्वस्य लक्ष्यार्थेऽसम्भवात् , अत एव तद्विषयत्वस्येन्द्रपदसङ्केतविषयत्वरूपताऽपि न सम्भवतीति बोध्यम्, । “स्थापना इत्यावृत्त्यामेवेति तन्नाम्ना तत्सङ्गहा" इत्यस्य स्थाने " स्थापनाव्यावृत्तमेवेति नाम्ना तदसङ्ग्रहः" इति पाठो युक्तः, यद्यपीन्द्रपदस्य सङ्केतविशेष आधुनिको भावेन्द्रेऽभावेऽपीन्द्रप्रतिकृतौ सम्भवति, तथापि स भावेन्द्रलक्षणेन्द्रपदमुख्यार्थेन समं य इन्द्रप्रतिकृतौ सादृश्यलक्षणसम्बन्धस्तन्निमित्तक एव न तु सादृश्येतरसम्बन्धनिमित्तक इति सादृश्येतरसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वमिन्द्रस्थापनायां न वर्तत इतीन्द्रस्थापनाव्यावृत्तमेवेत्यतस्याद्धेतोमिनिक्षेपेण तदसङ्ग्रहः- स्थापनाया असङ्कह इत्याशङ्कायां प्रतिविधानमाहेत्यर्थः । विवृणोति-नामेति । “इन्द्रपदस्य लक्ष्यो नामातिरिक एव हि नामेन्द्रपदार्थस्य घटकलक्षणायां सादृश्ये” इत्यस्य स्थाने “इन्द्रपदस्य लक्ष्यो नामातिरिक्त एव नामेन्द्रः," हिः- एवार्थे, तस्य- नामेन्द्रपदार्थस्य, घटकलक्षणायां मुख्यार्थसादृश्य- शक्यार्थसादृश्ये" इति पाठो युक्तः, इन्द्रपदस्य लक्ष्यो नामातिरिक्त एव नामेन्द्र इति मूलस्यान्वयमात्रोपदर्शनम् , अर्थस्य स्पष्ट. स्वान्न कथनम् , मूले एक्शब्दस्याभावात् तस्यान्वये कथं सन्निवेश इत्यपेक्षायामाह-हिः- एवार्थे इति- हिशब्दो मूलस्थ एवशब्दस्यार्थे वर्तते, तस्य नामातिरिक इत्यनेनान्वयमभिसन्धायोक्तान्वयो दर्शित इत्याशयः, तस्येत्यस्य विवरणंनामेन्द्रपदार्थस्येति, घटकलक्षणायामिति पूरणं, तथा च नामेन्द्रपदार्थ इन्द्रपदलक्षणाविषयस्तस्य घटकीभूता या लक्षणा तस्यामित्यर्थः, मुख्यार्थसादृश्ये इत्यस्य विवरणं- शक्यार्थसादृश्ये इति, एवं च नामेन्द्रपदार्थघटकलक्षणायां निमित्त मुख्यार्थसादृश्ये मुख्यार्थवैदृश्ये वा आग्रहो न कर्तव्य इत्यर्थः, कर्तव्य इति पूरणालभ्यते, तथा च इन्द्रपदलक्षणाविषयत्वमेव नामेन्द्रत्वं न तु सादृश्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं वैसादृश्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं वा नामेन्द्रत्वमित्यर्थः । कुतो मुख्यार्थसादृश्ये वैसादृश्ये वा निमित्ते आग्रहो न विधेय इत्याकाङ्क्षायामाह-गौण्यतिरिक्तेति"गौण्यतिरिक्तलक्षणाया असहापत्तेः" इत्यस्य स्थाने "गौण्यतिरिक्तलक्षणाया गौणीलक्षणाया वा असङ्ग्रहापत्तेः" इति पाठः समीचीनः, यदि नामेन्द्रपदार्थघटकलक्षणायां मुख्यार्थसादृश्यनिमित्तकत्वं विशेषणतया प्रविशति, एवं च सति मुख्यार्थसादृश्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं नामेन्द्रत्वं स्यात् तदानीं गौण्यतिरिक्तलक्षणाया असङ्ग्रहापत्तः, Page #346 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। २७५ सादृश्येतरसम्बन्धनिमित्तकत्वमपहायेन्द्रपदलक्षणाविषयत्वमेव नामेन्द्रवं वाच्यम् , तच्च न स्थापना. व्यावृत्तमिति नाम्ना स्थापनासङ्ग्रहो युक्त एवेति भावः ॥ ९५॥ इदं कैश्चिन्मतं तच्च, भाष्ये दूषितमुच्चकैः। नाम्नैव द्रव्यनिक्षेपेऽप्येवं सङ्ग्रहसम्भवात् ॥ ९६ ॥ नयामृत-इदमिति । इदं कैश्चिदाचार्यैर्मतम्-अङ्गीकृतम् , तच्चोच्चकैर्महता प्रबन्धेन भाष्य एव दूषितम् , एवम्- उपचारविषयत्वस्यैव नामार्थत्वे, द्रव्यनिक्षेपेऽपि- द्रव्यनिक्षेपविषयेऽपि, नाम्नैवनामपदार्थतयैव सहसम्भवात् ॥ ९६ ॥ भावप्रवृत्तिताप्रयोजकसम्बन्धभेदान्नाम-द्रव्ययो/दो भविष्यतीत्याशङ्कायामाह परिणामितया द्रव्यं, वाचकत्वेन नाम च । भावस्थमिति भेदश्चेन्नामेन्द्रे दुर्वचं ह्यदः ॥ ९७ ॥ नयामृत-परिणामितयेति । परिणामितया द्रव्यं भावे सम्बद्धम् , नाम च वाचकत्वेन वाच्य-वाचकभावेन सम्बद्धमित्येवं नाम-द्रव्ययोर्भेदश्चेत् , अदो नियामकं नाम्नेन्द्रे गोपालदारके दुर्वचं तस्य भावावाचकत्वात् ॥ ९७ ॥ यदि च नामेन्द्रपदार्थघटकलक्षणायां मुख्यार्थवसादृश्यनिमित्तकत्वं विशेषणतया प्रविशति, एवं सति मुख्यार्थवैसादृश्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं नामेन्द्रत्वं भवेत् , तदा गौणीलक्षणाया असङ्ग्रहापत्तेरित्यर्थः । तथा च उक्तदोषभयान्मुख्यार्थसादृश्ये मुख्यार्थवैसादृश्ये वा निमित्ते आग्रहाभावे च । तच्च इन्द्रपदलक्षणाविषयत्वं नामेन्द्रत्वं च। न स्थापनाव्यावृत्तं स्थापनायां न वर्तते इति न, किन्तु स्थापनासाधारणम् , इति एतस्माद्धेतोः। नाम्ना नामनिक्षेपेण, स्थापनासाहः स्थापनानिक्षेपस्य सङ्ग्रहणम् ॥१५॥ षण्णवतितमपद्यं विवृणोति- इदमितीति-इदमनन्तरमभिहितं 'सङ्ग्रहनये स्थापनानिक्षेपस्य नामनिक्षेप एवान्तरर्भावः' इत्येवं स्वरूपम् । कैश्चित् अनिर्दिष्ट नामकैः, कैरित्यपेक्षायामाचार्यैरिति । मतमित्यस्य विवरणम्- अङ्गीकृतमिति । तञ्च निरुताचार्यमतं च । उच्चकैरित्यस्य विवरणं- महता प्रबन्धेनेति । भाष्य एवेति-मूले भाष्ये इत्येनावन्मात्रस्योपादानेऽपि यदवकारस्याप्युपादानं तेनेदं ज्ञापितं भवति- अतिशयितप्रज्ञभाष्यकारेण महता प्रबन्धेन खण्डितोऽर्थो न केनापि व्यवस्थापयितुं शक्य इति तत्र नास्माकं दूषणान्तरोपदर्शनेन किमपि कृत्यमिति न तत्खण्डनेऽस्माभिलेखनी व्यापार्यत इति । भाष्योक्तदूषणमेवोद्भावयति-एवमिति- अस्य विवरणम्- उपचारविषयत्वस्यैव नामार्थत्वे इति । द्रव्यनिक्षेपेऽपीत्यस्य विवरणं-द्रव्यनिक्षेपविषयेऽपीति । नाम्नैवेत्यस्य विवरणं-नामपदार्थतयैवेति, तथा च साहनये नामनिक्षेप-भावनिक्षेपाभ्यां द्वैविध्यमेव निक्षेपस्याभिमतं न तु नामद्रव्यभावभेदेन निक्षेपस्य त्रैविध्यमित्येवमङ्गीकरणीयं स्यात्, न च तथाऽजीकृतमिति युक्तिरितं तदाचार्यमतमित्याशयः ॥ ९६॥ सप्तनवतितमपद्यमवतारयति-भावेति- "भावप्रवृत्तिता" इत्यस्य स्थाने "भाववृत्तिता" इति पाठो युक्तः, भावे वाचकतासम्बन्धेन नाम वर्तत इति नानो भावनिरूपितवृत्तिताप्रयोजकः सम्बन्धो वाचकतालक्षणः, द्रव्यं भावरूपेण परिणमते इति परिणामितालक्षणसम्बन्धेन द्रव्यं भावे वर्तते इति द्रव्यस्य भावनिरूपितवृत्तिताप्रयोजकः सम्बन्धः परिणामितालक्षणः, यद्यपि परिणामिता परिणामिनि वर्तते न तु परिणामे, तथापि परिणामितायाः संसर्गतानियामकः सम्बन्धो निरूपकतालक्षणोऽत्र विवक्षितः, निरूपकतासम्बन्धेन च परिणामित्वं परिणामे वर्तत इत्येवं भाववृत्तिताप्रयोजकयोः सम्बन्धयोभैदानाम-द्रव्ययोमिनिक्षेपद्रव्यनिक्षेपविषययोर्भेदो भविष्यतीत्येवस्वरूपाशङ्कायामुत्तरमाहेत्यर्थः । विवृणोति-परिणामितयेतीति। भावे सम्बद्धमिति भावस्थमिति मूलस्य विवरणम् । वाचकत्वेने त्यस्य विवरणं-वाच्यवाचकभावेनेति । सम्बद्धमित्यत्र 'भावे' इत्यस्यानुकर्षेण सम्बन्धः। अदः एतत् । किमित्यपेक्षायां नियामकमिति। "नानेन्द्रे" इत्यस्य स्थाने Page #347 -------------------------------------------------------------------------- ________________ २७६ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। परिणामित्वभिन्नश्चेन्नामनिक्षेपलक्षकः । सम्बन्ध इष्टः साम्यादिभिन्नः किं न तथेष्यते ॥ ९८ ॥ नयामृत-परिणामित्वेति । अथ द्रव्ये नाम्नो भिन्नत्वस्य सार्वजनीनत्वान्नामनिक्षेपलक्षकःनामनिक्षेपपदार्थताघटकलक्षणाविशेषणीभूतः सम्बन्धः परिणामित्वभिन्न एवैष्टव्यः, तदा स्थापनाया अपि नामभिन्नत्वस्य सार्वजनीनत्वात् साम्यादिभिन्नसम्बन्धोऽपि तथा- नामनिक्षेपलक्षकत्वेन किं नेष्यते तुल्ययोग-क्षेमत्वात् , तथा च गौरवस्य प्रामाणिकत्वात् परिणामित्व-सादृश्यादीतरसम्बन्धनिमित्तक लक्षणाविषयत्वमेव नामत्वमिति नाम्ना स्थापनासङ्ग्रहः सङ्ग्रहनये दुष्कर इति सिद्धम् , नो चेत् ? भावातिरिक्तमप्राधान्ययोग्यतातात्पर्य मुद्रया सर्वे द्रव्यमेवेति यदृच्छया नामापि द्रव्यतयैव सङ्ग्राह्यमित्यपि वक्तुं शक्यतेति पर्यालोचनीयम् । स्यादेतत्- षण्णां प्रदेशस्वीकर्तनँगमात् पश्चानां तत्स्वीकारेणेवात्रापि चतुर्निक्षेपस्वीकर्तुस्ततस्तत्रयस्वीकारेणैव सङ्ग्रहस्य विशेषो युक्त इति, मैवम्- देश( प्रदेश )वत् स्थापनाया " नामेन्द्रे” इति पाठो युक्तःः, पद्ये तथैवाभिधानात् , तस्य विवरणं-गोपालदारके इति । कुतो दुर्वचमित्यपेक्षायामाह- तस्येति-नामेन्द्रस्येत्यर्थः । यदि वाचकतासम्बन्धेन यदेव भावसम्बद्धं तदेव नामनिक्षेपविषयो भवेत् तर्हि नामेन्द्रलक्षणस्य नामनिक्षेपविषयत्वेनाभिमतस्यापि भावे वावकत्वसम्बन्धेनावृत्ते मनिक्षेपविषयत्वं न स्यादत उक्तनियामकं न सम्भवदुक्तिकमित्यर्थः ॥ ९७॥ ___ अष्टनवतितमपद्यं विवृणोति-परिणामित्वेतीति । यद्यर्थे वर्तमानस्य चेदित्यस्याथेत्यनेनोल्लेखः । द्रव्ये द्रव्यनिक्षेपविषये। नाम्नः नामनिक्षेपविषयात् । भिन्नत्वस्य भेदस्य । सार्वजनीनत्वात् लौकिकपरीक्षकाशेषजनसिद्धत्वात् । नामनिक्षेपलक्षक इत्यस्य विवरणं- नामनिक्षेपपदार्थताघट कलक्षणाविशेषणीभूत इति- नामनिक्षेपपदार्थता किञ्चिच्छक्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वरूपा, तद्धटकीभूता या लक्षणा तस्यां विशेषणीभूत इत्यर्थः। परिणामित्व. भिन्न एवेति- मूले परिणामित्वभिन्न इत्येतावन्मात्रस्योपादानात् परिणामित्वभिन्नसम्बन्धोऽपि निरुक्तलक्षणाया विशेषणमस्तु परिणामित्वसम्बन्धोऽपि तथाऽस्तु ततो नाम्नि द्रव्यस्यान्तर्भावः स्वादेवेयतः परिणामित्वसम्बन्धव्यवच्छेदायैव कारस्य टीकायामुपादानम्। परस्य तथा वस्तुत इष्ट इति कथङ्कारं तथाविधपरवचनाभावे निर्णेतुं शक्यः, द्रव्यस्य नाम्न्यनन्तवितस्तथेच्छाविषयत्वेन सम्भावयितुं शक्य इत्याशयेन इष्ट इत्यस्य एष्टव्य इति विवरणम् । यद्यर्थकचेत्पदोपादानस्वारस्यादल्लिब्धस्य तदेत्यस्य टीकायामुपादानम् । तथेत्यस्य विवरणं- नामनिक्षेपलक्षकत्वेनेति । तथा च नामनिक्षेप पदार्थताघटकलक्षणाविशेषणीभूतसम्बन्धे द्रव्यस्य नामान्तरर्भाववारणाय परिणामित्वभिन्नत्वस्येव स्थापनाया नामान्तर पवारणाय सादृश्यभिन्नत्वस्यापि विशेषणत्वमावश्यकमिति व्यवस्थितौ च । गौरवस्य प्रामाणिकत्वादिति- सादृश्यभिन्नत्वस्थापि सम्बन्धविशेषणतया प्रवेशे यत् तदनिवेशापेक्षया गौरवं तस्य प्रामाणिकत्वादित्यर्थः । नामत्वं नामनिक्षेपविषयत्वम् । स्थापनाया नामभिन्नत्वस्य सर्वजनसिद्धत्वेऽपि कदाग्रहमात्रेण सङ्ग्रहनये नाम्नि स्थापनाऽन्तर्भाव इष्ट इत्युपेयते तदा भावा. तिरिक्तयोर्नाम-स्थानयोर्द्रव्यगताप्राधान्ययोग्यताशालित्वेन तात्पर्यविषयत्व तो द्रव्यत्वमेवेति केनचिदाचार्येण स्वेच्छया नानोऽपि द्रव्यतयैव सङ्ग्रहीतुं शक्यत्वेन सङ्ग्रहनये नाम-स्थापनयोर्द्रव्येऽन्तर्भाव इति सङ्ग्रहनये द्रव्यभावाभ्यां द्वावेव निक्षेपाविष्टावित्यपि मतं रमणीय स्यादित्याह-नो चेदिति । इति यदृच्छया एवंस्वरूपस्वेच्छामात्रेण । नामाऽपि नामनिक्षेपोऽपि, अपिना स्थापनानिक्षेपस्य परिग्रहः। द्रव्यतयैव द्रव्यनिक्षेपतयैद। पर्यालोचनीयमित्युक्त्या एवं पर्या लोचने सङ्ग्रहनये किं द्रव्यभावभेदेन द्विविधो निक्षेप इष्टः किं वा नाम-द्रव्य-भावभेदेन त्रिविध इति विनिगन्तुमशक्यत्वेनाव्यवस्थैव प्रसज्येत, एतद्भयाच्चत्वारोऽपि निक्षेपाः सङ्ग्रहेऽपि द्रव्याथिकेऽभिमता इति स्वीकार एव ज्यायानित्यावेदितम्। शङ्कते-स्थादेतदिति । षण्णां धर्मा-ऽधर्माऽऽकाश-जीव पुनल-तद्देशानाम् । पञ्चानां धर्माऽधर्मा-ऽऽकाशजीव-पुदलानाम् , सङ्ग्रहनये देशिव्यतिरिक्तदेशस्याभावान्न तत्प्रदेशस्वीकारः, तत्स्वीकारेणेव प्रदेशस्वीकारेण यथा Page #348 -------------------------------------------------------------------------- ________________ २७७ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। उपचरितविभागाभावेन तत्स्थलीयसङ्ग्रहादेतत्स्थलीयसङ्ग्रहस्य विशेषात् , पाश्चात्योपरितनयोर्विकासकसङ्कोचकविशेषणवत्त्व एव मध्यवर्तिनयस्य पाश्चात्यार्थसङ्कोचरूपसङ्ग्रहपरत्वनियमाञ्चेति दिक् ॥ ९८ ।। ___ ननु सादृश्यसम्बन्धस्य स्थापनानिक्षेपनियामकत्वे असद्भावस्थापनोच्छेदप्रसङ्गः, अभिप्रायसम्बन्धस्यापि तन्नियामकत्वे च नाम्न्यपि तस्य सुवचत्वादतिप्रसङ्गस्तदवस्थ एवेत्याशङ्कायामाह अतिप्रसङ्गो नैवं चाभिप्राया-ऽऽकारयोगतः। यत् श्रुतोक्तमनुलय, स्थापना नाम चान्यतः ॥ ९९ ॥ नयामृत-अतिप्रसङ्ग इति । एवम्- उक्तासङ्करप्रकारेण चातिप्रसङ्गो न भवति, यत् श्रुतो. नैगमात् समहस्य विशेषस्तथा, अत्रापि निक्षेपविषयेऽपि, चतुर्निक्षेपस्वीकर्तुः नाम-स्थापना-द्रव्य-भावभेदेन निक्षेपचतुष्टयाभ्युपगन्तुः, ततः नैगमनयात्, तत्रयस्वीकारेणैव नाम-द्रव्य-भावात्मकनिक्षेपत्रयस्वीकारेणैव, विशेषः भेदः । समाधत्ते-मैवमिति । देशवदिति- देश-देशिनोरभेदाद् देशिनः सकाशाद् देशस्य पृथक्तयाऽऽश्रयणमुपचारादेव, उपचारश्च सङ्ग्रहनये नेष्ट इति न सङ्ग्रहनये देशस्य प्रदेश इति यथा तथेत्यर्थः । स्थापनाया उपचरितविभागाभावेनेतिदेशिनः सकाशाद् देशस्योपचरितविभाग इति उपचारानभ्युपगन्त्रा सङ्ग्रहेण स नेष्यते, नाम्नः सकाशात् स्थापनाया यो बिभागः सोऽनुपचरित इति सङ्प्रहेण स उपेयत इत्युपचरितविभागाभावेनेत्यर्थः । तत्स्थलीयसङ्ग्रहात् प्रदेशाभ्युपगम स्थलीयसमहात् । एतत्स्थलीयसङ्ग्रहस्य निक्षेपाभ्युपगमस्थलीयसङ्ग्रहस्य । “पाश्चात्योपरितनयोः" इत्यस्य स्थाने "पाश्चात्योपरितननययोः" इति पाठो युक्तः, पाश्चात्यो नयो व्यवहारनयः, उपरितननयो नैगमनयः, तयोः, विकासक-सङ्कोचविशेषणवत्त्वे एव पाश्चात्यनयस्य विकासकविशेषणवत्त्वम् , उपचरितनयस्य सङ्कोचकविशेषणवत्त्वमित्येवं विकासकसङ्कोचविशेषणवत्त्वे सत्येव, अर्थाद् येन विशेषणेन पाश्चात्यो नयोऽन्योऽन्यविभक्तरूपेणार्थग्राहकः, येन च विशेषणेनोपरितननयोऽविभक्तरूपेणार्थग्राहकः, एको नयोऽथविकासं विदधाति, अपरो नयोऽथेसङ्कोचमाधत्ते इति । मध्यवर्तिनयस्य नैगम-व्यवहारमध्यवर्तिनो नयस्य । पाश्चात्येति-पाश्चात्यो यो व्यवहारनयस्तस्य यो विव स्तस्य सङ्कोचरूपसङ्ग्रहपरत्वस्य नियमाचेत्यर्थः, प्रकृते तु नैगमोऽपि निक्षेपचतुष्टयमभ्युपैति व्यवहारोऽपि निक्षेपचतुष्टयं स्वीकरोति, न च तयोर्विकास-सङ्कोचकविशेषमवत्त्वमिति न तन्मध्यवर्तिन एतत्स्थलीयपङ्ग्रहस्य पाश्चात्यार्थ. सङ्कोचरूपसङ्ग्रहपरत्वमिति नैगम-व्यवहारयोरिव सङ्ग्रहस्यापि प्रकृते निक्षेपचतुष्टयाभ्युपगन्तृत्वमेवेत्यर्थः ॥ ९८॥ नवनवतितमपद्यमवतारयति- नन्विति । सादृश्यसम्बन्धस्य भावेन सह सादृश्यलक्षणसम्बन्धस्य । असद्भावेतिभावाकारसदृशाकारो न यस्याः स्थापनायाः सा असद्भावस्थापना तस्याम्, भावेन सह सादृश्यलक्षणसम्बन्धाभावात् स्थापनानिक्षेपत्वं न स्यादित्यर्थः । अभिप्रायसम्बन्धस्यापीत्यपिना सादृश्यसम्बन्धस्य सङ्ग्रहः । तन्नियामकत्वे च स्थापनानिक्षेपनियामकत्वे । भावोऽयमित्यभिप्रायो यत्र सोऽभिप्रायलक्षणसम्बन्धेन भावसम्बद्ध इति कृत्वा तस्य स्थापनानिक्षेपत्वं यद्यनुमतं तदा नाम्न्यपि कस्यचिद् भावोऽयमित्यभिप्रायः सम्भवत्येवेत्यभिप्रायसम्बन्धेन नाम्नोऽपि भावसम्बद्धत्वात् तस्यापि स्थापनानिक्षेपत्वं प्रसज्यत इत्याह-नाम्न्यपीति । तस्य अभिप्रायसम्बन्धस्य । यो दोषः पूर्वमभिहित. स्तस्यैवोत्तरत्र सद्भावे तादवस्थ्योक्तिर्घटते, अत्र तु पूर्वमतिप्रसङ्गदोषो नाभिहित एवेति कथमतिप्रसङ्गस्तदवस्थ इत्युक्तिः सङ्गतेति चेत् ? व्यवहारमुल्लङ्घय यदि यथाकथञ्चित् सामान्यधर्मपुरस्कारेणैकस्यान्यनिक्षेपेऽन्तर्भावः सङ्ग्रहाभिमतो भवेत् तर्हि अप्राधान्यादिना नामनिक्षेपस्यापि द्रव्यनिक्षेपत्वं स्यादित्यतिप्रसङ्गदोषः पूर्व प्रसङ्गादभिहितोऽत्राप्यतिप्रसङ्ग एवावेद्यते इत्यतिप्रसङ्गत्वेन समानतामालम्ब्य तादवस्थ्योक्तिरिति बोध्यम्। विवृणोति-- अतिप्रसङ्ग इतीति । एवमित्यस्य विवरणम्- उक्तासङ्करप्रकारेणेति- वाचकत्वेन भावसम्बन्धस्य नामत्वं परिणामित्व-सादृश्यादीतरसम्बन्धनिमित्तकलक्षणाविषयत्वं वा नामत्वम्, परिणामित्वसम्बन्धेन भावसम्बद्धस्य द्रव्यत्वम् , अभिप्रायविशेषसम्बन्धेन सादृश्यसम्बन्धेन बा भावसम्बद्धस्य स्थापनात्वमित्यसङ्करप्रकारेणेत्यर्थः । कथमतिप्रसङ्गो न भवति ? नाम्नोऽप्यभिप्रायसम्बन्धेन भावसम्बद्धत्वेन Page #349 -------------------------------------------------------------------------- ________________ २७८ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । क्तम्-सिद्धान्तवचनमनुल्लङ्घयाक्षादावेवाभिप्रायसम्बन्धं प्रतिमादावेव चाकारसम्बन्धं पुरस्कृत्य स्थापनाऽऽद्रियते, अन्यतः-- अन्यस्थले च नामनिक्षेप इति क्वातिप्रसङ्गः ? तथा च सूत्रबोधितबलवदनिष्टाननु. बन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोद्बोधकाभिप्रायाऽऽकारान्यतरसम्बन्धवत्त्वं तत्स्थापनात्वमिति फलितं भवति ॥ ९९॥ उक्तविशेषप्रयोजनमेवोपदर्शयितुमाह अत एव न धीरर्हत्प्रतिमायामिवार्हतः।। भावसाधोः स्थापनया, द्रव्यलिङ्गिनि कीर्तिता ॥ १० ॥ नयामृत-अत एवेत्यादि । अत एवोक्तविशेषणनिवेशध्रौव्यादेव, अर्हत्प्रतिमायामहंत इव, द्रव्यलिङ्गिनि-प्रकटप्रतिषेविणि पार्श्वस्थादौ, स्थापनया भावसाधोर्धी सिद्धान्ते न कीर्तिता ॥ १० ॥ कुत इत्याह सा हि स्थाप्यस्मृतिद्वारा, भावादरविधायिनी । न चोत्कटतरे दोषे, स्थाप्य-स्थापकभावना ॥ १०१ ॥ नयामृत-सा हि- स्थापनाधीहि, स्थाप्यस्मृतिद्वारा- एकसम्बन्धिज्ञानेऽपरसम्बन्धिस्मृतिरिति नियमविधया स्थाप्यस्मृतिव्यापारेण, भावादरस्य- स्थाप्यगतगुणप्रणिधानोद्रेकस्य तजनितनिर्जरातिस्थापनात्वापत्तरित्याशङ्कायामाह- यदिति- यस्मात् कारणादित्यर्थः । श्रुतोक्तमित्यस्य विवरणं-सिद्धान्तवचनमिति । अनुलथेति अभिप्रायाकारयोगतः इत्यस्याप्यन्वयं समालम्ब्य विवरणम्- अक्षादाववाभिप्रायसम्बन्धं प्रतिमादावेव चाकारसम्बन्धं पुरस्कृत्येति। अनुल्ल येत्यस्य समानकर्तृकक्रियान्तरसाकाङ्क्षत्वादाद्रियत इति पूरणम् , अन्यत इत्यस्य विवरणम्- अन्यस्थले चेति । नामेत्यस्य विवरणं- नामनिक्षेप इति । इति एवमुपगमे । कातिप्रसङ्गः? अतिप्रसङ्गो न भवतीत्यर्थः । एतावता स्थापनायाः किं लक्षणं निष्टङ्कितं भवता येनातिप्रसङ्गस्तस्य न स्यादित्यपेक्षायामाहतथा चेति- सिद्धान्तवचनं पुरस्कृत्य स्थापनाया आदरणे चेत्यर्थः । सूत्रबोधितेति-सूत्रबोधितो यो बलवदनिष्टाननुबन्धीष्टसाधनताकस्तद्गतगुणस्मृतिजनकसंस्कारोद्बोधकोऽभिप्राय आकारश्च तदन्यतरसम्बन्धवत्त्वं तत्स्थापनात्वमित्येवं स्थापनालक्षणं निष्कृष्टं भवतीत्यर्थः, यस्य स्थापनात्वं यस्मिन् सङ्गमनीयं तत् तद्गतगुणत्यत्र तत्पदेन ग्राह्यम्, तन्नामादावभिप्रायश्च न बलवदनिष्टाननुबन्धीष्टसाधनताकत्वेन तद्गतगुणस्मृतिजनकसंस्कारोद्बोधकतया सूत्रबोधित इति नोक्तलक्षणस्य नामादावतिव्याप्तिरित्याशयः ॥ ९९॥ शततमपद्यमवतारयति- उक्तविशेषप्रयोजनमिति- बलवदनिष्टाननुबन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोदोधनलक्षणप्रयोजनमित्यर्थः । विवृणोति- अत एवेत्यादीति । अत एवेत्यस्य विवरणम् - उक्तविशेषणध्रौव्यादेवेतिअभिप्रायाऽऽकारान्यतरसम्बन्धे सूत्रबोधितबलवदनिष्टाननुबन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोद्बोधकत्वविशेषणनिवेशस्यावश्यकत्वादेवेत्यर्थः । अईत्प्रतिमाया अर्हत इवेति- अर्हत्प्रतिमायामहतो धीर्यथा सिद्धान्ते कीर्तिता तथेत्यर्थः । द्रव्यलिङ्गिनीत्यस्य विवरणं-प्रकटप्रतिषेविणि पार्श्वस्थादाविति । स्पष्टत्वादन्यन्न व्याख्यातम् ॥१०॥ एकोत्तरशततमपद्यमवतारयति-कुत इति अर्हतः प्रतिमायामहतो धीः स्थापनया सिद्धान्ते कीर्तिता, द्रव्यलिशिनि स्थापनया भावसाधो(सिद्धान्ते न भणितेत्येतद्वैलक्षण्यं कुत इत्यर्थः । विवृणोति-सा हीति, अस्य विवरणं-स्थापनाधीहीति । स्थाप्यस्मृतिद्वारेत्यस्य विवरणं-स्थाप्यस्मृतिव्यापारणेति, एतस्योपोलकं च-एकसम्बन्धिानेs. परसम्बन्धिस्मृतिरिति नियमविधयेति-स्थाप्य स्थापनयोः स्थाप्यस्थापनभावसम्बन्ध इति स्थापनाज्ञानमेकसम्बन्धि Page #350 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी·तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । शयस्य वा विधायिनी । न च स्थापनाविषये उत्कटतरे दोषे प्रतिसन्धीयमाना [ इति शेषः, ] स्थाप्य - स्थापकभावना फलवतीति शेषः, तथा च द्रव्यलिङ्गिदर्शनादपि न भावसाधुगुणाननुस्मृतिरेव, तन्नियामकप्रायिकसादृश्यरजोहरण- गोच्छक पतग्रहादिरूपस्य तस्या बाधित्वात् किन्तूत्कटदोषवत्वेन प्रतिसन्धीयमानस्य सादृश्याद् गुणवदनुस्मृतिः सूत्रबोधितबलवदनिष्टानुबन्धिकैव इति न यथोक्तविशेषणविशिष्टं स्थापनालक्षणं तत्रेत्युक्तं भवति, अत एव वन्दनकनिर्युक्तौ — " " तित्थयरगुणा पडिमासु णत्थि णिस्ससंयं वियाणंतो । तित्थयर त्ति णमन्तो सो पावइ णिज्जरं विउलं ॥ १ ॥ लिंगं जिणपण्णत्तं एव णमंतस्स णिज्जरा विउला । जइवि गुणविप्पहीणं वंदइ अज्झप्पसोहीए ॥ २॥ ' [ आवश्यके गा० ११४२-४३] ज्ञानम्, तस्मिन् सति अपरसम्बन्धिन: स्थाप्यस्य स्मृतितिरिति नियमबलेन स्थापनाज्ञानात् स्थाप्यस्मृतिः, ततश्च स्थाप्ये भावे आदरो भवतीत्येवं स्थापनाधीः स्थाप्यस्मृतिद्वारा भावादरस्य विधायिनीत्यर्थः । भावादरः को यस्य विधायिनी स्थापनाधीरित्यपेक्षायामाह - भावादरस्येति अस्य विवरण- स्थाप्यगतगुण प्रणिधानोद्रेकस्य तज्जनितनिर्जरातिशयस्य वेति-स्थाप्यो भावस्तद्गतो यो गुणस्तत्र यत् प्रणिधानं चित्तस्यैकाग्रीकरणं तस्य य उदेकोऽतिशयितता तस्य, अस्य विधायिनीत्यनेन सम्बन्धः, वा अथवा, तज्जनितः स्थाप्यगतगुणप्रणिधानोद्रेकजनितो यो निर्जरातिशय:- कर्मपुद्गलपरिशाटातिशयस्तस्य विधायिनी स्थापनाधर्यतोऽतोर्हत्प्रतिमायामतो धीरेवोक्तखरूपस्थापनया निरुक्तफलवतीत्यर्थः । द्रव्यलिङ्गिनि स्थापनया भावसाधोधर्न फलवतीत्युपदर्शयति- न चेति- अस्य फलवतीत्यनेन शेषविषयेणान्वयः । मूले उत्कटतरे दोषे इत्यस्ति विषयस्तु नोपात्त इत्यतो विषयोल्लेखेन योजयति-स्थापनाविषये उत्कटतरे दोषे इति - सति सप्तमीयम् । गुणवत्यपि स्थापये स्थाप्य स्थापकभावनाऽप्रबुद्धा न तत्स्मृतिजनिकेत्यतो न तस्या अपि फलवत्त्वमिति स्थाप्ये उत्कटतरदोषे भवतु अप्रबुद्धायाः स्थाप्यस्थापकभावनायाः फलवत्त्वाभावो न स दोषावह इत्यतः स्थाप्यस्थापकभावनां विशिनष्टि - प्रतिसन्धीयमानेति । स्थापनाविषये स्फुटतरदोषे सत्यपि प्रतिसन्धीयमाना स्थाप्यस्थापकभावना भवत्येवेति न तन्निषेधः कर्तुं शक्य इत्यत आह- फलवतीति शेष इति तथा च यादृशं फलमन्त्राभिप्रेतं तादृशफलं निरुक्तस्थाप्यस्थापकभावनाया न सम्भवतीति तादृशफलवत्त्वेन तस्या निषेधो युक्त इत्याशयः । सूत्रबोधितेत्यादि स्थापनालक्षणं यत् प्रागुपदर्शितं तदेवोक्तपद्येन मूलकर्तुरभिमतम्, तदभावाच्च द्रव्यलिङ्गिनि भावसाधोः स्थापनाया न स्थापनात्वमित्युपदर्शयति तथा चेति- स्थापनाविषये उत्कटतरदोषे सति प्रतिसन्धीयमानायाः स्थाप्यस्थापक भावनायाः फलवत्त्वाभावे व्यवस्थिते चेत्यर्थः । न भावसाधुगुणाननुस्मृतिरेवेत्यत्र निषेधद्वयतो भावसाधुगुणानुस्मृतिर्भवत्येवेत्यर्थः प्रतीयते । कुतो द्रव्यलिङ्गिदर्शनादपि भावसाधुगुणानुस्मृतिर्भवत्येवेत्याकाङ्क्षायामाह - तन्नियामकेति - " तन्नियामक प्रायिकसादृश्यरजो " इत्यस्य स्थाने " तन्नियामक प्रायिकसादृश्यस्य रजो " इति पाठो युक्तः, तन्नियामक प्रायिक सादृश्यस्य- भावसाधुगुणानुस्मृतिनियामकस्य भावसाधुना समं कतिपयधर्मप्रयुक्तसादृश्यस्य, किंरूपस्य तस्येत्यपेक्षायामाद- रजोहरणेत्यादि । " तस्यावाधित्वात् ” इत्यस्य स्थाने " तत्राबाधित्वात् " इति पाठः सम्यकू, द्रव्यलिङ्गिनि निरुक्तसादृश्यस्य बाधितत्वाभावादित्यर्थः । पृच्छति - किन्त्विति । उत्तरयति - उत्कट्ठेतिपार्श्वस्थादिव्यलिङ्ग्यप्युत्करदोषवत्त्वेन प्रतिसन्धीयमानोऽतस्तस्य यन्निरुक्तसादृश्यं तस्माद् या गुणवद्भाव साधुस्मृतिः सा सूत्रबोधितफलवदनिष्टानुबन्धिचैव न तु सूत्रबोधितबलवदनिष्टाननुबन्धीष्टसाधनताका, इति एतस्मात् कारणात् यथोक्तविशेषणविशिष्टं स्थापनालक्षणं सूत्रबोधितबलवदनिष्टाननुबन्धीष्टसाधनताकतद्गत गुणस्मृतिजनक संस्कारोद्बोधकाभिप्राया ssकारान्यतरसम्बन्धवत्त्वस्वरूपं स्थापनालक्षणम्, न तत्र द्रव्यलिङ्गिनि भावसाधुस्थापनायां न भवति, इति एवं स्वरूपम् उक्तं भवति " सा हि स्थाप्यस्मृतिद्वारा ' " इत्यादिपद्येन प्रतिपादितं भवति । उक्तार्थोपोलकं प्रश्न- प्रतिविधानाभ्यां प्रवृत्तं वन्दनकनिर्युक्तिमतं गाथाकदम्बकं संवादकतयोपदर्शयति- अत एवेति- अर्हत्प्रतिमायामहतो धीः स्थापनया भावादर विधायिनी भवति, उत्कटतरदोषवति द्रव्यलिङ्गे स्थापनया भावसाधुधीर्भावादर विधायिनी न भवतीति विशेषादेवेत्यर्थः । तित्थयर० इति - " तीर्थकरगुणाः प्रतिमासु न सन्ति निःसंशयं विजानन्तः । तीर्थकर इति नमन्तः प्राप्नुवन्ति २७९ Page #351 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । इति गाथाभ्यां सादृश्यसम्बन्धमात्रेणाहत्प्रतिमाया अर्हतः( इव ) द्रव्यलिङ्गिनो भावसाधो. स्तटस्थेन स्मृतेरुत्थापकतयाऽध्यात्मशुद्धिप्रभवनिर्जराङ्गत्वेन वन्दनीयत्वं यदाक्षिप्तं पूर्वपक्षकृता, तत्राचार्यरेकत्रोत्कटदोषवत्त्वेनोपस्थिते समानसंविसंवेद्यतालभ्यगुणवत्सादृश्यधीस्तद्गतदोषानुमितिरूपतया गुणवदपकर्षव्यञ्जकत्वेन तन्निदानरूपत्वेन बलवदनिष्टानुबन्धावहा, अन्यत्र चोक्तकारणाभावान्न तथात्वमिति वैषम्यमुद्भावयित्वा समाधानं कृतम्" सन्ता तित्थयरगुणा तित्थयरे तेसिमं तु अज्झप्पं । ण य सावज्जा किरिया इयरेसु धुवा समणुना ॥१॥" [ आवश्यके गा० ११४४ ] इति गाथया, अस्यार्थ:- सन्तो-विद्यमानाः शोभना वा, तीर्थकरत्वेन प्रतीयमानस्य गुणाः, निर्जरां विपुलाम् ॥१॥ लिङ्गं जिनप्रज्ञप्तमेव नमतो निर्जरा विपुला । यद्यपि गुणविप्रहीनं वन्दते अध्यात्मशुद्धयै ॥२॥" इति संस्कृतम् । गाथाभ्यामित्यस्य पूर्वपक्षकृता वन्दनीयत्वं यदाक्षिप्तमित्यनेनान्वयः। सादृश्यसम्बन्धमात्रेण भावेन सह स्थापनायाः सादृश्यलक्षणसम्बन्धमात्रेण । अर्हत्प्रतिमाया अर्हत इव अर्हत्प्रांतमातो यथाऽर्हतः स्मृतेरुदयस्तथा । द्रव्यलिङ्गिन इति- भावसाधुना समं द्रव्यलिङ्गिनः पार्श्वस्थादेरपि सादृश्यलक्षणसम्बन्धोऽस्ति, तन्मात्रेण द्रव्यलिङ्गिस्वरूपस्थापनातो भावसाधोः स्मृतेः सम्भवेन भावसाधुविषयकस्मृत्युत्थापकत्वेन द्रव्यलिङ्गिलक्ष गस्थापनाया अध्यात्मशुद्धि न तटस्थेन पुरुषेण वन्दनीयत्वं स्यादिति पूर्वपक्षकृता यदाक्षिप्तमित्यर्थः। तत्र उक्ताक्षेपे। आचारि त्यस्य इति वैषम्यमुद्भाव्य समाधानं कृतमित्यनेनान्वयः । वैषम्यमेव दर्शयति - एकत्रेति- पार्श्वस्थादिभावसाधुस्थाप्य. स्थापनभावस्थले इत्यर्थः। उत्कटदोषवत्वेनोपस्थिते इति- द्रव्यलिङ्गिनः पार्श्वस्थादेर्दर्शने सति तद्गतदोषोऽपि दर्शन. पथमुपैतीति उत्कटदोषवत्त्वेनोपस्थिते पार्श्वस्थादावित्यर्थः, समानसंविसंवेद्यतालभ्यगुणवत्सादृश्यधीस्तद्गतदोषानुमितिरूपतयेति- अनेन सदृशः स इति ज्ञाने सति तेन सदृशोऽयमिति ज्ञायत एवेति पार्श्वस्थगतभावसाधुसादृश्य-भावसाधुगतपार्श्वस्थसादृश्ययोः समानसंविसंवेद्यत्वमिति समानसंविद्यतया लभ्या आत्मलाभमुपगता जन्येति यावत् या गुणवत्सादृश्यधीगणवतो भावसाधोव्य लिङ्गिनि सादृश्य धीः, सादृश्यं च तद्भिन्नत्वे सति तद्गतभूयोधर्मरत्वम्, तत्र भिन्नत्वं वैधर्म्यरूपम् , प्रकृते उत्कटदोषवत्त्वेनोपस्थिते गुणवतो वैधर्म्यमुत्कटदोषवत्त्वमेवेत्यनुमितिरूपा गुणवत्सादृश्यधीः पार्श्वस्थगत. दोषानुमितिरूपाऽपि स्यादित्येवं तद्गतदोषानुमितिरूपतयेत्येवमर्थो नात्रादरणीयः, यत उत्कटदोषवत्त्वेनोपस्थिते पार्श्वस्थादौ दोषवत्चं प्रत्यक्षसिद्धमेवेति * नहि करिणि दृष्टे चीत्कारेण तमनुमिनुते * इति न्यायेन तस्यानुमितिविधेयत्वं न सम्भवति, किन्तु सादृश्यप्रतियोग्यनुयोगिनोर्मध्ये एकस्योत्कटदोषवत्त्वेनोपस्थितौ तदन्यस्य गणवतोऽपि तेन समं सादृश्यज्ञानमनुमितिरूपं तद्गतदोषस्यापि तदन्यस्मिन्ननुमितिरूपं भवतीत्युत्कटदोषवत्वेनोपस्थिते पार्श्वस्थादौ सति तस्य गुणवति भावसाधौ या सादृश्यधीः सा पार्श्वस्थनिष्ठबहुधर्मावगाहिनी सती पार्श्वस्थनिष्ठबहुधर्मान्तर्गततद्गतदोषस्यापि भावसाधाववगाहिनीत्येवं भावसाधौ पार्श्वस्थगतस्य दोषस्यानुमितिरूपतयेत्यर्थ एवात्राश्रयणीयः, तथा च भावसाधुगतदोषानुमितिरूपतया, गुणवदपकर्षव्यञ्जकत्वेन गुणवतोभावसाघोर्दोषवत्ताप्रयुक्तापकर्षस्य व्यञ्जकत्वेन, तन्निदानरूपत्वेन, बलवदनिष्टमनुबध्नातीति बलवदनिष्ठानुबन्धावहा, गुणवति भावसाधौ उत्कटदोषवतो द्रव्यलिङ्गिनः सादृश्यधोरतस्तत्स्थापनायाः सूत्रबोधितवलवदनिष्टाननुबन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोद्बोधकाभिप्रायाकारान्यतरवत्त्वलक्षणं तत्स्थापनात्वं न सम्भवतीत्यर्थः। अन्यत्र चेतिभावजिन-जिनप्रतिमयोः स्थाप्यस्थापनभावस्थले चेत्यर्थः, उक्तकारणाभावात् उक्तदिशा गुणवदपकर्षव्यञ्जकत्वेन तन्निदानरूपत्वलक्षणकारणाभावात् , न तथात्वं न भावजिने जिनप्रतिमासादृश्यधियो बलवदनिष्टानुबन्धावहत्वम्, इति एवं स्वरूपं, वैषम्यं भावसाधुद्रव्यलिङ्गिस्थाप्यस्थापकभाव-भावजिनजिनप्रतिमास्थाप्यस्थापनयो_लक्षण्यम् , उद्धावयित्वा उपदर्य, समाधानम् उक्ताक्षेपप्रतिविधानम् , कृतं 'सन्तो तित्ययरगणा' इत्यादिगाथयेति सम्बन्धः । सन्ता० इति- "सन्तस्तीर्थकरगणास्तीर्थकरे तेषामिदन्त्वध्यात्मम् । न च सावद्या तासु क्रिया इतरेषु ध्रुवा समनुज्ञा ॥१॥" हति संस्कृतम् । अस्यार्थः अस्य गाथावचनस्यार्थोऽयमुपदर्यते । सन्त इत्यस्य विद्यमाना इति वा अथवा शोभना इति विवरणम् । Page #352 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । २८१ तीर्थकरे-अर्हतीति, इयं च प्रतिमा, तेषां- नमस्कुर्वताम् , इदमध्यात्म- समापत्त्यादिफलकानुभूयमान. तीर्थकरगुणस्मृत्यालम्बनम् , यद्वा तेषां-गुणानाम्, इदम् , अध्यात्मम् , अध्यारोपविषयः, तटस्थेन स्मृतौ योग(ग्य )जीवानुसमापत्त्यसिद्धेः । न च तासु प्रतिमासु सावद्या-सपापा क्रिया, इतरेषु- पार्श्वस्थादिषु ध्रुवा, सेति योज्यते, ततः समनुज्ञा सावद्यक्रियायुक्तपार्श्वस्थादिप्रणमनात् ध्रुवेति योगः, ‘एवं सति प्रतिमायामुभयक्रियाभावप्रसञ्जितोभयफलाभावस्तदालम्बनकस्थाप्यगुणसङ्कल्परूपमनःशुद्धेबलवत्तयैव निराक्रिय. माणः पार्श्वस्थादिवन्दनेऽपि मनःशुद्धेबलवत्तयैव दोषाभावं गुणोदयं च साधयितुं कथं न प्रगल्भते ?' इत्याशङ्काशेषः ' उभयविकल एवाकारमात्रतुल्ये कतिपयगुणान्विते वा उत्कृष्टगुणाध्यारोपशुभसङ्कल्प. तीर्थकरगुणा इत्यस्य तीर्थकरत्वेन प्रतीयमानस्य गुणा इति विवरणम् । तीर्थकरे इत्यस्य विवरणम्- अहंतीति । इयं च प्रतिमेति प्रक्रान्तत्वाल्लभ्यते, तेषामित्यस्य विवरणं-नमस्कुर्वतामिति । इदमध्यात्ममित्यस्य विवरण- समापत्त्यादिफलकानुभूयमानतीर्थकरगुणस्मृत्यालम्बनमिति- स्वात्मन्येव परात्मनः स्थापना-अहमेव परात्मैवं स्वरूपो बोधः, तदादिफलिका याऽनुभूयमानतीर्थकरगुणस्य स्मृतिस्तस्या आलम्बनमियं प्रतिमेत्यर्थः, तीर्थकरप्रतिमां नमस्कुर्वतां तटस्थानां समापत्त्यादिफलकानुभूयमानतीर्थकरगुणस्मृत्यालम्बनं नमस्कृतिक्रियाकर्माभूताऽहत्प्रतिमा भवति, यतोऽहत्प्रतिमादर्शनेन सिद्धान्तोक्तिजन्यशाब्दानुभवविषयस्य तीर्थकरगुणस्य फलं नमस्कुर्वतामवश्यमेव भवतीति । तेषामिदं त्वध्यात्ममित्यत्स्य व्याख्यानान्तरमुपदर्शयति- यद्वेति । तेषामित्यस्य विवरणं-गुणानामिति । अध्यात्ममित्यस्य विवरणम् - अध्यारोपविषय इति-भावजिनगतगुणा जिनप्रतिमायामारोप्यन्ते, इयं प्रतिमा तीर्थकरगुणवतीत्यारोपाकारः। पूर्वोपदर्शितोऽर्थः कथं नेत्यपेक्षायामाह- तटस्थेनेति-स्थाप्यस्थापकभिन्न जिनप्रतिमां नमस्कुर्वता पुरुषेणेत्यर्थः, स्मृतौ अनुभूयमानतीर्थकरगुणस्मृतौ, “योग(ग्य )जीवानुसमापत्त्यसिद्धेः" इत्यस्य स्थाने “ योगजजीवात्मसमापत्त्यसिद्धेः” इति पाठो युक्तः, योगजा योगाभ्यासजनिता या योगिनो जीवस्य परात्मना सहकतालक्षणा समापत्तिस्तस्या असिद्धः, अतः प्रथमं व्याख्यानमुपेक्ष्येदं व्याख्यानमातमित्याशयः । उत्तरार्द्ध विवृणोति-न चेति- अस्य क्रिययाऽन्वयः । सावद्येत्यस्य विवरण- सपापेति । इतरेधित्वस्य फलितार्थकथनं-पार्श्वस्थादिष्विति । ध्रुवा केत्यपेक्षायामाह-ध्रुवा सेति योज्यते इति । ततः योजनातः । समनुज्ञा सपापक्रियानुमतिः, अस्य ध्रुवेत्यनेन योगमुल्लिखति-सावधेति- सावधक्रियायुक्तपार्श्वस्थादीनां प्रणामे कृते सति तद्दता सावधक्रियाप्यभिनन्दिता भवतीति सावद्यक्रियानुमतिस्तत्प्रणामकतुः, सा च सावध क्रियाफलिका ध्रुवेति द्रव्यलिङ्गिस्वरूपा भावसाधुस्थापना बलवदनिष्टानुबन्धावत्याशयः । एवं च सतीति- "एवं च सति' 'इत्याशङ्काशेषः, आचार्यस्तत्रैव निराकृतः' इत्येवमन्वयोऽत्र बोध्यः। एवं सति तीर्थकरप्रतिमासु सावद्या क्रिया नास्ति पार्श्वस्थादिषु सावद्या क्रिया विद्यते इति व्यवस्थितौ सत्याम् । प्रतिमायामितिप्रतिमायां सावद्या क्रिया नास्ति निरवद्याऽपि क्रिया नास्तीत्येवमुभयविधक्रियाऽभावतः प्रसञ्जितो यः शुभफलस्याशुभफलस्य चाभाव इत्येवमुभयफलाभावः, अस्य 'निराक्रियमाणः' इत्यनेनान्वयः, तथा च स तदालम्बनकः- तीर्थकरप्रतिमालम्बनको यः स्थाप्यगुणसंकल्पः- स्थाप्यस्य तीर्थकरस्य ये गुणास्तेषामारोपलक्षणः संकल्पस्तद्रपा तदात्मिका या मनःशुद्धिस्तस्या बलवत्तयैवअतिप्राबल्येनैव निराक्रियमाणः- प्रतिमालम्बनकस्थाप्यगुणसङ्कल्परूपमनश्शुद्धितः शुभफलस्यावश्यम्भावादशुभफलस्याभावेऽपि शुभफलस्य सद्भावेन फलद्वयाभावो न सम्भवतीत्येवं निराक्रियमाणः, अस्य 'प्रगल्भते' इत्यनेनान्वयः । पार्श्वस्थादिवन्दनेऽपीत्यपि नातीर्थकरप्रतिमावन्दनस्यानेडनम् । दोषाभावमिति- पार्श्वस्थादेः सपापक्रियत्वेऽपि तद्वन्दनकर्तुमनश्शुद्धिबलवत्तरेत्यतो दोषो न भवतीति दोषाभावमित्यर्थः, अस्य ' साधयितुम्' इत्यत्रान्वयः, 'गुणोदयं च' इत्यत्रापि 'मनःशुद्धबलवत्तयैव ' इत्यस्यान्वयः। इत्याशङ्काशेषः एवंस्वरूपोऽवशिष्ट आशङ्काभागः, अस्य 'निराकृतः' इत्यनेनान्वयः । उभयविकले एव सावद्यक्रियानिरवद्यकियोभयरहिते एव जिनप्रतिबिम्बे, आकारमात्रतुल्ये भावजिनेन सममाकारमात्रेण सदृशे, वा अथवा, कतिपयगुणान्विते भावजिनगता ये कतिपये गुणास्तैरन्विते युक्ते, “ उत्कृष्टगुणाध्यारोपशुभ" इत्यस्य ३६ Page #353 -------------------------------------------------------------------------- ________________ २८२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । रूपतामास्कन्दन निर्जराहेतुः, अन्यत्र वसावशुभसङ्कल्परूपत्वेन निरवद्यकर्माभाववद्विशेष्यकत्वस्य गौरवेणातन्त्रत्वात् , सावद्यकर्मवद्विशेष्यकतयैव विपर्यासलक्षणसमन्वयेन वा अनन्तकेशावह ' इत्यभि. प्रायेणाचार्यैस्तत्रैव निराकृतः, तथाहि"जह सावज्जा किरिया णस्थि य पडिमासु एवमियरावि । तयभावे णस्थि फलं अह होइ अहेउगं होइ" ॥ कामं उभयाभावो तहवि फलं अस्थि मणविसुद्धीए। तीइ पुण मणविसुद्धीइ कारणं होन्ति पडिमा उ॥ जइवि य पडिमा उ जहा मुणिगुणसंकप्पकारणं लिंगं । उभयमवि अस्थि लिंगे ण य पडिमासूभयं अस्थि ।। णियमा जिणेसु उ गुणा पडिमाओदिस्स जे मणे कुणइ । अगुणे उ वियाणतो कं नमइ मणे गुणं काउं । जह वेडंबगलिंग जाणंतस्स णमओ हवइ दोसो। गिद्धसमिय णाऊण वंदमाणे धुवं दोसो" । [ आवश्यके गा० ११४५-४६, ४७, ४८, ४९. ] इति ॥ १०१ ॥ नन्वेवं स्थापनास्थले सावद्यकर्माभाववद्विशेष्यगुणसङ्कल्पत्वेन भावस्य निर्जराहेतुत्वमित्यागतम् , स्थाने “ उत्कृष्टगुणाध्यारोपः शुभ" इति पाठो युक्तः, भावजिनगतो य उत्कृष्टगुणस्तस्य जिनप्रतिबिम्बे य आरोपः स शुभसङ्कल्परूपतां- शुभसङ्कल्पात्मकताम् , आस्कन्दन प्राप्नुवन् , निर्जराहेतुः कर्मक्षपणकारणं भवतीति शेषः । अन्यत्र तु द्रव्यलिङ्गे पार्श्वस्थादौ पुन:। असौ उत्कृष्टगुणाध्यारोपः। अशुभसङ्कल्परूपत्वेन अशुभसङ्कल्पात्मकत्वेन, इदमनन्तक्लेशावहत्वे हेतुः, तथा च द्रव्यलिङ्गिनि पार्श्वस्थादौ उत्कृष्टगुणाध्यारोपोऽशुभसङ्कल्पात्मकत्वेनानन्तक्लेशावह इत्यर्थः, वा अथवा, पार्श्वस्थादावुत्कृष्टगणाध्यारोपो विपर्यासलक्षणसमन्वयेनानन्तक्लेशावहः । ननु पार्श्वस्थादावुत्कृष्ट गुणाध्यारोपो यदि विपर्यासलक्षणसमन्वयेनानन्तक्लेशावहस्तर्हि जिनप्रतिमायां द्वयोरपि निरवद्यक्रिया-सावधक्रिययोरभावे सति तत्रोत्कृष्टगुणाध्यारोपोऽपि निरवद्यक भाववजिनप्रतिमाविशेष्यकत्वाद् विपर्यासलक्षणसमनुगत इति सोऽप्यनन्तक्लेशावहः स्यादित्यत आह-निरवद्यकर्माभाववद्विशेष्यकत्वस्येति, गौरवेण सावद्यकर्मवद्विशेष्यकत्वापेक्षया गुरुभूतत्वेन, अतन्त्रत्वात् विपर्यासत्वेऽप्रयोजकत्वात् , तथा च पार्श्वस्थादावुत्कृष्टगुणाध्यारोपस्य निरवद्यकर्माभाववद्विशेष्यकत्वेन यदि विपर्यासत्वं स्वीक्रियेत तदा निरवद्यकर्माभाववद्विशेष्यकत्वेन जिनप्रतिमायामप्युत्कृष्टगणाध्यारोपो विपर्यासः स्यात्, यदा तु निरवद्यकर्माभाववद्विशेष्यकत्वप्रयुक्तं विपर्यासत्वं पार्श्वस्थादावुत्कृष्टगुणाध्यारोपस्य नेष्यते कुतस्तद्बलाजिनप्रतिमायामुत्कृष्टगुणाध्यारोपस्य विपर्यासत्वं प्रसज्यत इति, तर्हि किं प्रयुक्तं पार्श्वस्थादावुत्कृष्टगुणाध्यारोपो विपर्यास इत्यपेक्षायामाह- सावद्यकर्मवद्विशेष्यकतयैवेति- सावद्यकर्मवान् पार्श्वस्थादिस्तद्विशेष्यकतयैवेत्यर्थः, जिनप्रतिमा च न सावद्यकर्मवती, अतस्तत्रोस्कृष्टगुणाध्यारोपस्य सावद्यकर्मवद्विशेष्यकत्वाभावान्न विपर्यासलक्षणसमन्वय इति न तेनानन्तक्लेशावहत्वं जिनप्रतिमायामुत्कृष्टगुणाध्यारोपस्य किन्तु सावद्यकर्मवद्विशेष्यकत्वेन पार्श्वस्थादावुत्कृष्टगुणाध्यारोपस्य विपर्यासलक्षणसमन्वयेनानन्तक्लेशावहत्वमित्याशयः । इत्यभिप्रायेण उपदर्शितस्वरूपाभिप्रायेण । आचार्यः सूरिभिः । तत्रैव वन्दनकनियुक्तावेव । निराकृतः अपहस्तितः पूर्वोपदर्शिताशङ्काशेषः । निरुक्ताशङ्काशेषनिराकृत्युपदर्शकं वन्दनकनियुक्तिगतगाथाकदम्बकमुपदर्शयति-तथाहीति । जहा इति-" यथा सावद्या क्रिया नास्ति च प्रतिमासु एवमितराऽपि। तदभावे नास्ति फलम् अथ भवति अहे तुकं भवति ॥ काममुभयाभावस्तथापि फलमस्ति मनोविशुद्धया । तस्याः पुनर्मनोविशुद्धः कारणं भवन्ति प्रतिमास्तु ॥ यद्यपि च प्रतिमास्तु यथा मुनिगुणसङ्कल्पकारणं लिङ्गम् । उभयमप्यस्ति लिङ्गे न च प्रतिमासूभयमस्ति ॥ नियमाजिनेषु तु गुणाः प्रतिमा उद्दिश्य यो मनसि करोति । अगुणे तु विजानन् कं नमति मनसि गुणं कृत्वा ॥ यथा विडम्बकलिङ्गं जानतो नमतो भवति दोषः । निध्वंसमिति ज्ञात्वा वन्दमाने ध्रुवं दोषः ॥५॥ इति संस्कृतम् ॥ १०१ ॥ ___व्यधिकशततमपद्यमवतारयति-नन्वेवमिति । एवम् उक्तप्रकारेण । 'द्विशेष्य' इत्यस्य स्थाने 'द्विशेष्यक ' इति पाठो युक्तः। भावस्य सङ्कल्पविशेषरूपस्य । तच्च उत्तप्रकारेण निर्जराहेतुत्वं च। अयुक्तत्वे हेतुमाह-लाघवेनेति- सावद्यकर्माभाववद्विशेष्यकत्वापेक्षया लाघवेनेत्यर्थः । तद्धेतुत्वौचित्यात् गुणसंकल्पस्य निर्जराहेतुत्वौचित्यात् । ननु विपर्यासलक्षणं सावद्यकर्म Page #354 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कतो नयोपदेशः। २८३ तच्चायुक्तम्- लाघवेन निरवद्यकर्मवद्विशेष्यकत्वेनैव तद्धेतुत्वौचित्यालक्षणगौरवापेक्षया कार्यकारणभावगौरवस्य च महादोषत्वात् , किश्च स्थापनास्थलीयभावे जात्युपाध्यन्यतरकृतातिरिक्तविशेषाभावे यथोक्तरूपेणैव हेतुत्वे मायाच्छादितदोषे आलयविहारादिना शुद्धताप्रतिसन्धानदशायां वन्द्यमाने साधौ कथं निर्जरोत्पत्तिः सङ्गच्छते ?, न च तत्र निरवद्यकर्मयुक्ततया अगृहीतासंसर्गकगुणसङ्कल्पेन पृथगेव निर्जराहेतुत्वाददोषः, तथा सति तुल्यन्यायतया सावद्यकर्मयुक्तत्वेनागृहीतासंसर्गकगुणसङ्कल्पत्वेन बन्धहेतुताया एव युक्तत्वात् प्रतिमावन्दनादुभयाभावापत्तेः, न च सत्त्वशुद्धिविधया कारणतायामयमेव प्रकारः, अव वद्विशेष्यकत्वमेव निरवद्यक भाववद्विशेष्यकत्वापेक्षया लघुभूतं प्रागुपदर्शितमिति तदनुसारेण सावद्यकर्माभाववद्विशेष्यकत्वेन गुणसङ्कल्पस्य निर्जराहेतुत्वमेव युक्तम् , अन्यथा निरवद्यक भाववद्विशेष्यकत्वं गुरुभूतं विपर्यासलक्षणमापद्यतेत्यत आह-लक्षणगौरवापेक्षयेति- तथा च लक्षणगौरवमेव सह्यं न तु कार्यकारणभावगौरवमिति कार्यकारणभावलाघवानुरोधेन गुरुभूतं विपर्यासलक्षणमेवादरणीयमित्याशयः । सावद्यकर्माभाववद्विशेष्यकगुणसङ्कल्पत्वेन हेतुत्वं प्रकारान्तरेण दूषयतिकिश्चेति । स्थापनास्थलीयभावे स्थापनास्थलीयमनःसंकल्पविशेषलक्षणभावे । जातीति- जात्युपाध्यन्यतरकृतो यो विशेषस्तद्भिनविशेषस्याभावे सतीत्यर्थः । यथोक्तरूपेणैव हेतुत्वे सावद्यकर्माभाववद्विशेष्यकगुणसङ्कल्पत्वेन रूपेणैव भावस्य कर्मनिर्जराहेतुत्वेऽभ्युपगम्यमाने । मायाच्छादितदोषे मायया कपटेनाच्छादितोऽदर्शनतां नीतः स्वगतो दोषो येन स मायाच्छादितदोषस्तस्मिन् , इदं च साधावित्यस्य विशेषणम् । आलयविहारादिना सूत्रबोधितालयावस्थान-समयोचितविहाराद्याचरणेन । शुद्धताप्रतिसन्धानदशायां शुद्धोऽयं साधुरिति वन्दनकर्तृप्रतिसन्धानकाले । वन्द्यमाने साधी वन्दनकर्तुर्या निर्जरोत्पत्तिः सा कथं सङ्गच्छते? काक्का न कथञ्चित् सजता स्यात् , यतस्तत्र गुणसङ्कल्पलक्षणभावस्य सावद्यक भाववद्विशेष्यकगुणसङ्कल्पत्वलक्षणनिर्जराकारणतावच्छेदकधर्माकान्तत्वं नास्तीति । ननु मायाच्छादितदोषे साधौ गुणसङ्कल्पविशेषलक्षणभावस्य न सावधकर्माभाववद्विशेष्यकगुणसङ्कल्पत्वेन निर्जराहेतुत्वं, किन्तु निरवद्यकर्मयुक्ततयाऽगृहोतासंसर्गगुणसङ्कल्पत्वेन, एवं च मायाच्छदितदोषे साधौ निरवद्यकर्मयुक्ततयाऽसंसर्गस्तथापि स न गृहीत इति निरवद्यकर्मयुक्ततयाऽगृहीतासंसर्गकगुणसङ्कल्पत्वस्य तत्र भावात् तेन रूपेण निर्जरां प्रति कारणत्वसम्भवेन ततो निर्जरोत्पत्तिः सङ्गच्छत एवेत्याशङ्कय प्रतिक्षिपति-न चेति । तत्र मायाच्छादितदोषे साधौ, भावस्येति शेषः 'सङ्कल्पेनेति स्थाने 'सङ्कल्पत्वेने ति पाठो युक्तः । निषेधे हेतुमाह-तथा सतीति तत्र निरवद्यकर्मयुक्त तयाऽगृहीताऽसंसर्गकगुणसङ्कल्पत्वेन निर्जरां प्रति हेतुत्वे सतीत्यर्थः । तुल्यन्यायतयेति- निरवद्यकर्मयुक्त एव साधौ केनचित् स्वोत्प्रेक्षितकारणादिनाऽशुद्धताभ्रमे सत्यपि लोकानुवृत्तिमात्रेण वन्द्यमाने खीयश्रद्धाप्राबल्याद् बन्धोत्पत्तिरेव भवति न निर्जरोत्पत्तिः, तत्र भावस्य सावद्यकर्मवद्विशेष्यकगुणसङ्कल्पत्वेन बन्धं प्रति कारणत्वे बन्धोत्पत्तिर्न स्यात् , तस्य साधोः सावद्यकर्मवत्त्वाभावात् , अतः सावद्यकर्मयुक्तत्वेनागृहीतासंसर्गकगुणसङ्कल्पत्वेनैव बन्धं प्रति हेतुत्वं वाच्यम्, तथा हेतुतायां च निरुतसाधौ गुणसङ्कल्पस्य सावद्यकर्मयुक्तत्वेनाऽगृहीतासंसर्गकगुणसङ्कल्पत्वलक्षणबन्धकारणतावच्छेदकधर्माकान्तत्वाद् भवति ततो बन्धोत्पत्तिः, एवं च जिनप्रतिमायां न सावद्यं कर्म नवा निरवयं कर्मेति कर्मद्वयाभावे तत्र भावस्य गुणसङ्कल्पविशेषरूपस्य न निरवद्यकर्मयुक्ततयाऽगृहीतासंसर्गकगुणसङ्कल्पत्वम् , यतस्तत्र निरवद्यकर्मयुक्तताया अभावेन निरवद्यकर्मयुक्ततया समं गृहीतासंसर्गकगुणसङ्कल्पत्वमेव तस्येति निर्जराकारणतावच्छेदकनिरुक्तधर्मानाक्रान्तात् तस्मान्न निर्जरोत्पत्तिः, एवं तत्र भावस्योक्तस्वरूपस्य न सावद्यकर्मयुक्ततयाऽगृहीतासंसर्गकगुणसकल्पत्वम्, यतस्तत्र सावद्यकर्मयुक्तताया अभावेन सावद्यकर्मयुक्ततया समं गृहीतासंसर्गकगुणसङ्कल्पत्वमेव तस्येति बन्धकारणतावच्छेदकनिरुक्तधर्मानाकान्तात् तस्मान्न बन्धोत्पत्तिरित्येवं प्रतिमावन्दनादुभयाभावापत्तेरित्यर्थः । न चेत्यस्य वाच्यमित्यनेनान्वयः। अयमेव प्रकारः निरवद्यकर्मयुक्ततयाऽगृहीतासंसर्गकगुणसङ्कल्पत्वेन निर्जरां प्रति कारणत्वम् , सावद्यकर्मयुक्तत्वेनागृहीतासंसर्गकगुणसङ्कल्पत्वेन बन्धं प्रति कारणत्वमित्येव कार्यकारणभावकल्पनप्रकारः। अवश्चकयोगविधया अवञ्चक:- वञ्चकत्वविकलो यो योगस्तद्विधया- तत्प्रकारेण, अवञ्चकयोगश्च त्रिविधः, तद्यथासद्योगवश्चकः क्रियावश्चकः, फलावश्वकश्च, तत्स्वरूपं चेदम्-" सद्भिः कल्याणसम्पन्नदर्शनादपि पावनैः । तथा दर्शनतो योग Page #355 -------------------------------------------------------------------------- ________________ २८४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ञ्चकयोगविधया कारणतायां तु वास्तवविषयताया एव निवेशान्न दोष इति वाच्यम् , सत्त्वशुद्धिविधयैव प्रतिमावन्दनाद् निर्जरोत्पत्तेः "तह वि फलं अस्थि मणविसुद्धीए" इत्यनेन प्रतिपादनात् , किञ्च, गुणदोषो. भयवैकल्यमात्रेण प्रतिमायामहंदध्यवसायस्य निर्जराङ्गत्वे (प्रतिष्ठिता)प्रतिष्ठितयोरविशेषापत्तेः, न च"सयं कारियाइ एसा जायइ ठवणाइ बहुफला केई । गुरुकारियाइ अन्ने विसिट्टविहिकारियाए य ॥१३॥ ठंडिल्ले वि य एसा मणठवणाए पसत्थिगा चेव । आयासगोमयाइहिं एत्थमुवल्लेवणाइ हिअं ॥१४॥ उवयारंगा इह सोवओगसाहारणाण इट्ठफला । किंचि विसेसेण तओ सव्वे ते विभइअव्व ति" ॥१५॥ इति पूजाविधिविंशिकावचनपर्यायलोचनयेयमभिष्टप्रदेति वाच्यम् , तत्र प्रतिष्ठितत्वव्याप्यधर्मपुरस्कारेणेव मानसप्रतिष्ठापुरस्कारेण प्रवृत्तानां पूजाविधिविकल्पानां विधिप्रतिष्ठितपूजाजन्यतावच्छेदकजातिव्याप्यजात्यवच्छेदेन मानसाऽभिप्रायशोधिताविधिप्रतिष्ठितपूजाजन्यतावच्छेदकजात्यवच्छेदेन च फलभेदाद्धेतुभेदोपयुक्त इत्यभिप्रायेण प्रवृत्तावपि प्रतिष्ठासामान्यस्याकिश्चित्करत्वे तात्पर्याभावात् , अन्यथा आद्योऽवञ्चक उच्यते ॥ तेषामेव प्रणामादिक्रियानियम इत्यलम्। क्रियावञ्चकयोगः स्यान्महापापक्षयोदयः ॥ फलावञ्चकयोगस्तु सद्भय एव नियोगतः। सानुबन्धफलावाप्तिधर्मसिद्धौ सतां मता ॥" षो० ८, विव० । वास्तवविषयताया एवेति-निर्जरां प्रति सावद्यकर्माभाववन्निष्ठविशेष्यतात्मकविषयताशालिगुणसङ्कल्पत्वेन हेतुत्वम् , बन्धं प्रति तु सावद्यकर्मवन्निष्ठविशेष्यतात्मकविषयताशालिगुणसङ्कल्पत्वेन हेतुत्वमित्येवं वास्तवविषयताया एव कारणतावच्छेदककोटौ निवेशान्न प्रतिमावन्दनादावुभयाभावापत्तिलक्षणो दोषः, यतः प्रतिमायां सावद्यकर्मणोऽभावेन सावद्यकर्मवन्निष्ठविशेष्यताकगुणसङ्कल्पस्याभावेन न प्रतिमावन्दनतो बन्धोत्पत्तिः, सावधकर्मणोऽभावादेव सावद्यकर्माभाववती भवति प्रतिमेति सावद्य कर्माभाववत्प्रतिमानिष्ठविशेष्यताकगुणसङ्कल्पलक्षणकारणबलात् प्रतिमावन्दनतो निर्जरोत्पत्तिरिति । निषेधे हेतुमाह-सत्त्वशुद्धिविधयैवेति । निर्जरोत्पत्तरित्यस्य प्रतिपादनादित्यनेनान्वयः । तह वीति-“ कामं उभयाभावो तह वि फलं अत्थि मनविसुद्धीए। तीइ पुण मणविसुद्धीइ कारणं होत्ति पडिमा उ ॥” इति सम्पूर्ण प्रागुपदर्शितम्। प्रतिमायां गुणदोषयोरसत्त्वेऽप्युक्तदिशा निर्जराङ्गत्वाभ्युपगमे दोषान्तरमुपदर्शयति-किञ्चेति । प्रतिष्ठिताप्रतिष्ठितयोरिति- यस्यां जिनप्रतिमायां प्रतिष्ठाविधिना सूत्रोक्तेन जिनप्रतिष्ठा कृता सा प्रतिष्ठिता, यस्यामुक्तदिशा जिनप्रतिष्ठा न कृता साऽप्रतिष्ठिता तयोरित्यर्थः। अविशेषापत्तेरिति-प्रतिष्ठितायामप्रतिष्ठितायां च प्रतिमायां गुण-दोषौ न स्त एव, एवं यस्यामहदध्यवसायो भवति सा निर्जराजं भवति, यस्यां चार्हदध्यवसायो न भवति सा न निर्जराङ्गमिति विशेषः सन्नप्यन्यथैवोपपन्न इति प्रतिष्ठाविधिना तत्र जिनस्थापनस्य बह्वायाससाध्यस्यानर्थक्यापत्तेरित्याशयः । न चेत्यस्य चाच्यमित्यनेनान्वयः। सयं त्ति- " स्वयं कारितयैषषा जायते स्थापनया बहुफला केचित् । गुरुकारितया अन्ये विशिष्टविधिकारितया च ॥१॥ स्थण्डिलेऽपि चैषा मनःस्थापनया प्रशस्तिका चैव । आकाशगोमयादिभिरत्र उपलेपनादि हितम् ॥ २ ॥ उपचाराङ्गा इह सोपयोगसाधारणानामिष्टफला। किञ्चिद् विशेषेण ततः सर्वे ते विभजयितव्या इति ॥ ३ ॥ इति संस्कृतम् ॥ इति एवंस्वरूपेत्यर्थः, अस्य पूजाविधिविंशिकावचनेऽन्वयः । इयं प्रतिमा । निषेधे हेतुमाह-तत्रेति- पूजाविधि विंशिकावचने इत्यर्थः, अस्य प्रवृत्तानामित्यनेनान्वयः। प्रतिष्ठितत्वव्याप्यधर्मपुरस्कारेणेव प्रतिष्ठितत्वव्याप्यधर्मपुरस्कारेण प्रवृत्तानामिव, पूजाविधिविकल्पानामित्यस्य प्रवृत्तावपीत्यनेनान्वयः । विधिप्रतिष्ठितेति- विधिना सूत्रोक्तविधिना प्रतिष्ठितस्य जिनप्रतिबिम्बस्य या पूजा तन्निष्ट जनकतानिरूपितजन्यतावच्छेदिका या पूजाफलगता जातिस्तव्याप्या याऽवान्तरफलगता जातिस्तदवच्छेदेनेत्यर्थः, अस्य फलभेदादित्यनेनान्वयः । मानसेति-मानसाभिप्रायशोधितस्याविधिप्रतिष्ठितस्य जिनबिम्बस्य या पूजा तजन्यतावच्छेदिका याऽविधिप्रतिष्ठितजिनपूजाफलगता जातिस्तदवच्छेदेनेत्यर्थः, अस्यापि फलभेदादित्यनेन सम्बन्धः। “हेतुभेदोपयुक्तः" इत्यस्य स्थाने " हेतुभेदोऽपि युक्तः" इति पाठ: सम्यक्, हेतुभेदमन्तरेण फलभेदो न सम्भवति, तत्तज्जात्यवच्छेदन फलभेदस्तु दृश्यत इति तदन्यथाऽनुपपत्त्या कल्पनीयस्तत्तज्जात्यवच्छिन्नं प्रति विधिप्रतिष्ठितजिनबिम्बपूजाऽविधिप्रतिष्ठितजिनबिम्बपूजात्मकहेतुभेदोऽपि युक्त इत्यर्थः । इत्यभिप्रायेण Page #356 -------------------------------------------------------------------------- ________________ २८५ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकृतो नयोपदेशः । प्रतिष्ठाविधिवैयर्थ्यप्रसङ्गात् , ततः प्रतिष्ठादिविधिजनितः प्रतिभागतोऽतिशयविशेषः कश्चित् स्थापनानिक्षेपो निरुच्यतामित्याकाङ्क्षायां " सन्ता तित्थयरगुणा" इत्यादिगाथायामेव व्याख्यानान्तरं सूचितं, पक्षानन्तरं परिष्कुर्वन्नाह यद्वा प्रतिष्ठाविधिना, स्वात्मन्येव परात्मनः । स्थापना स्यात् समापत्तिबिम्बे सा चोपचारतः ॥ १०२ ॥ नयामृत०-यद्वेति । यद्वा- पक्षान्तरे, प्रतिष्ठाविधिना प्रतिष्ठाकारयितुः स्वात्मन्येव परात्मनःपरमगुणवतत्रिभुवनभर्तुः, ध्यानतारतम्ये च तात्स्थ्यतदञ्जनत्वरूपा समापत्तिरेव स्थापना स्यात्, निश्चयतः सर्वक्रियाणां तत्फलानां चोद्देश्यसम्बन्धित्वेन व्यवह्रियमाणानामपि स्वात्मसम्बन्धित्वस्यैव भाष्यादौ व्यवस्थापनात् , परात्मन इत्युपलक्षणं स्वभावस्य, आहत्य हि प्रतिष्ठया कारयितरि स्वभाव एव स्थाप्यते, परम्परया तु तन्मूलपरमात्मानुध्यानविषयवचनाद्यप्रवर्तकत्वसम्बन्धस्मारितः, तच्चप्रवृत्तावपि एवंस्वरूपाशयेन पूजाविधिविंशिकावचने पूजाविधिविकल्पानां प्रवृत्तावपि, किन्तु प्रतिष्ठेति- प्रतिष्ठासामान्य न किञ्चित् करोतीत्यत्र पूजाविधिविकल्पानां तात्पर्याभावादित्यर्थः । अन्यथा पूजाविधिविकल्पानां प्रतिष्ठासामान्यस्याकिञ्चिकरत्वे तात्पर्याभ्युपगमे। प्रतिष्ठति- सूत्रे यः प्रतिष्ठाविधिः- अनेन विधिना जिनप्रतिबिम्बं स्थापयेदित्याकारकस्तस्य वैयर्थं स्यादित्यर्थः । उपसंहरति-तत इति- तस्मात् कारणादित्यर्थः । “प्रतिभागतो" इत्यस्य स्थाने प्रतिमागतो" इति पाठो युक्तः, तथा च प्रतिष्ठादिविधिना प्रतिमायां कश्चिदतिशयविशेष उपजायते, स एव च सफलत्वात् स्थापनानिक्षेप इत्येवं निरुच्यताम्- कल्प्यतामित्याकाङ्क्षायां सत्यामित्यर्थः । " व्याख्यानान्तरं सूचितं, पक्षानन्तरं" इत्यस्य स्थाने "व्याख्यान्तरसूचितं, पक्षान्तरं" इति पाठो युक्तः, व्याख्यानान्तरं च “ यद्वा तेषां गुणानामिदमध्यात्मम्" इत्यादिग्रन्थेनोपदर्शितं प्राक्, पक्षान्तरं प्रतिष्ठाविधिना प्रतिमायां किमपि न भवतीति पक्षाद् विभिन्नः पक्षः-प्रतिष्ठाविधिना प्रतिमायां स्थाप्यगणाध्यारोपो भवतीत्येवंस्वरूपस्तम् । विवृणोति- यद्वेतीति । यद्वेत्यस्य पक्षान्तरे इत्यर्थकथनम् । प्रतिष्ठाविधिना सूत्रोक्तप्रतिष्ठाविधिना, प्रतिष्ठाकारयितुरिति पूरणम् । स्वात्मन्येव प्रतिष्ठाकारयितृपुरुषात्मन्येव । परात्मन इत्यस्य विवरणं-परमगुणवतस्त्रिभुवनभर्तुरिति- एतच्च जिनबिम्बप्रतिष्ठामधिकृत्य। 'समापत्तिः स्थापना' इति मूले उक्तम् , तत्र समापत्तिः किंस्वरूपेत्यपेक्षायामाह- ध्यानतारतम्ये चेति- स्वात्मनि परमात्मनो ध्यानं समापत्तिः, ध्यानस्य च तरतमभावो, भवतीति ध्यानतारतम्ये च सतीत्यर्थः, यदि ध्यानमेकरूपमेव स्यात् तदा तदात्मकसमापत्तेरनेकरूपतयोपवर्णनं न सङ्गतमतो ध्यानस्याप्यनेकरूपत्वमित्यावेदनाय 'ध्यानतारतम्ये च' इत्युक्तम् , तात्स्थ्ये ति- प्रतिष्ठाकारयित्रात्मस्थितत्वं परमगुणवतत्रिभुवनभर्तः समापत्तिः स्थापना स्यादित्यर्थः । तदञ्जनत्वेति- प्रतिष्ठाकारयित्रात्मत्वेन परमात्मनो व्यापनत्वेत्यर्थः । ननु प्रतिष्ठाविधान प्रतिबिम्बे क्रियते कथं तत्रत्या स्थापना स्वात्मनीत्यत आह-निश्चयत इति-निश्चयनयत इत्यर्थः । तत्फलानां सर्वक्रियाफलानाम्, उद्देश्यसम्बन्धित्वेनेति- या क्रिया यदुद्देश्येन क्रियते सा क्रिया तत्फलं च तत्सम्बन्धित्वेनैव व्यवहियत इति प्रतिष्टाविधिना स्थापना प्रतिमामुद्दिश्यैव क्रियत इति स्थापनातत्फलयोरुद्देश्यप्रतिमासम्बन्धित्वेन व्यवडियमाणयोरपि निश्चयनयतः स्थापनादिक्रियाकर्तृसम्बन्धित्वस्यैव भाष्यादौ व्यवस्थापनादिति स्वात्मनि परमात्मनस्तास्थ्यतदजनत्वरूपा समापत्तिरेव स्थापनेत्यर्थः । परमात्मन इति यदुक्तं तत् स्वभावस्याप्युपलक्षणम् , तेन प्रतिष्ठाविधिना प्रतिष्ठाकारयितरि स्वभावः स्थाप्यते इत्याह-परमात्मन इत्युपलक्षणं स्वभावस्येति । अत्र हेतुमाह-आहत्य हीति। हि यतः, आहत्य साक्षादेव, प्रतिष्ठया प्रतिष्ठाविधिना, कारयितरि प्रतिष्ठाकारयितरि, स्वभाव एव परमात्मनः स्वभाव एव । ननु परमात्मनः स्वभावो यदि स्मृतिपथमुपगच्छेत् तदा तत्स्थापनं न्याय्यं स्यादित्यत आह-परम्परया वितिप्रतिष्ठामूलं यत् परमात्मानुध्यानविषयवचनं तस्य यत् तीर्थकरे आद्यप्रवर्तकत्वं तद्रूपो यः प्रतिमया समं तीर्थकरस्वभावस्य Page #357 -------------------------------------------------------------------------- ________________ २८६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। " भवति च खलु प्रतिष्ठा निजभावस्यैव देवतोद्देशात्। स्वात्मन्येव परं यत् स्थापनमिह वचननीत्योच्चैः ॥१॥ बीजमिदं परमं यत् परमाया एव समरसापत्तेः । स्थाप्येन तदपि मुख्या हन्तैषैवेति विज्ञेया" ॥२॥ ] इति । नन्वेवं निश्चयतः स्थापनाया आत्मगतायाः प्राप्तौ प्रतिमायां तद्व्यवहारः कथम् ? अत आहबिम्बे च सा- स्थापना, उपचारतः- स्वात्मनि स्थापितस्य भावस्यालम्बनतया समापत्तिविषयीक्रियमाणस्य परमात्मनः साकारयोगमुद्रानुकारितया वा लक्षणयैवेत्यर्थः ॥ १०२॥ नन्वेवं यजमानगतादृष्टमेव प्रतिष्ठाफलं भवद्भिरुपपादितम् , तावता वन्दक-पूजकादीनां का सिद्धिः? सा हि तदा स्यात् यदि प्रतिष्ठाहित चाण्डालादिस्पर्शनाश्य-पूजाफलप्रयोजकः कश्चिदतिशयोऽभ्युपगतः परम्परया सम्बन्धस्तेन सम्बन्धेन “एकसम्बन्धिज्ञानमपरसम्बन्धिनं स्मारयति" इति न्यायबलात् स्मारितः स्वभावः स्थाप्यत इत्यर्थः। उक्तार्थसामनोपोलूलकं प्राचीनपद्यद्वयमुपदर्शयति-तच्चेति- उक्तार्थसङ्गमनं चेत्यर्थः। देवतोद्देशात् स्वात्मन्येव निजभावस्यैव प्रतिष्ठा खलु भवतीत्यन्वयः, परं किन्तु, यत् यस्मात् कारणात् स्थापनम् , इह प्रतिमायाम् , उच्चैः परम्परया, वचननीत्या तीर्थकरवचनोपदर्शितनीत्या, भवतीति शेषः ॥ १॥ यत् स्थाप्येन परमाया एव समरसापत्तेः परमं बीजमपीदं हन्त तत् एषेव मुख्येति विज्ञेयेति सम्बन्धः यत् यस्मात् कारणात्, स्थाप्येन जिनेन सह, परमाया उत्कृष्टायाः, समरसापत्ते: एकस्वभावतायाः, परमं बीजमपि उत्कृष्टं निमित्तमपि, इदं जिनवचनम् , तत् तस्मात् कारणात् , एषैव स्थाप्येन सह प्रतिष्ठाकारयितुरुत्कृष्टसमरसापत्तिरेव, मुख्या स्थापनेति ज्ञातव्येत्यर्थः ॥ २ ॥ 'बिम्बे सा चोपचारतः' इति तुरीयचरणं व्याख्यातुमवतारयति-नन्वेवमिति । एवम् उक्तप्रकारेण । निश्चयतः निश्चयनयतः । तद्वयवहारः स्थापनाव्यवहारः। बिम्बे चेति-प्रतिमायां चेत्यर्थः। सेत्यस्य विवरणं-स्थापनेति । उपचारतः इत्यस्य विवरण- लक्षणयैवेति। तत्र वैकल्पिकं निमित्तद्वयं क्रमेणोपदर्शयति- स्वात्मनि स्थापितस्य भावस्यालम्बनतयेति-अस्य लक्षणयवेत्यत्रान्वयः, स्वात्मनि प्रतिष्ठाकारयित्रात्मनि, स्थापितस्य प्रतिष्ठाविधिना स्थापितस्य, भावस्य स्थाप्यजिनभावस्य, आलम्बनतयेति- जिनप्रतिमामालम्ब्यैव जिनप्रतिमया समं परम्परासम्बन्धेन सम्बद्धस्य जिनस्वभावस्य स्मारितस्य स्थापना भवतीत्येवमालम्बनतयेत्यर्थः । समापत्तिविषयीक्रियमाणस्य तात्स्थ्यतदजनत्वान्यतरलक्षणसमापत्त्या विषयीक्रियमाणस्य, परमात्मनः जिनस्य, साकारयोगमुद्रानुकारितया साकारा या योगमुद्रा तस्या अनुकारिणी जिनप्रतिमा भवतीति तदनुकारितया ॥१.२॥ ___ त्र्युत्तरशततमपद्यमवतारयति- नन्वेवमिति । तावता यजमानगतादृष्टलक्षणप्रतिष्ठाफलोपपादनेन । चन्दकपूजकादीनां प्रतिमावन्दनकर्तृ-प्रतिमापूजनकर्तृप्रभृतीनाम् । का सिद्धिः ? न काचित् सिद्धिः । सा वन्दनक पूजकादीनामपीष्टसिद्धिः । हि यतः। प्रतिष्ठाहितः-प्रतिष्ठाजनितः, चाण्डालादिस्पर्शनाश्यः- चाण्डाल प्रभृत्यस्पृश्यजातिस्पर्शजन्यनाशप्रतियोगी, पूजाफलप्रयोजकः पूजेत्युपलक्षणं वन्दनदर्शनस्तुत्यादीनामपि, पूजादिजन्यफलस्य प्रयोजकः, कश्चित् अनिर्वचनीयः शक्त्यादिशब्दवाच्यो वा, अतिशयः अप्रतिष्ठितप्रतिमाव्यावृत्तधर्मविशेषः प्रतिमागतः, अभ्युपगतः स्यात् खीकृतो भवेत् । “प्रतिष्ठितप्रतिमावन्दन पूजन-नत्यादिना" इत्यस्य स्थाने "प्रतिष्ठितप्रतिमावन्दन-पूजन नत्यादीनां" इति पाठो युक्तः । इत्थमेव प्रतिष्ठया प्रतिमागतातिशयविशेषाभ्युपगमे सत्येव । ननु प्रतिष्ठया यजमानगतमदृष्टमेतादृशमेवोपजायते यत् प्रतिष्ठितप्रतिमावन्दन-पूजन-नत्यादिकर्तृणां फलविशेषमुपजनयतीत्याशय प्रतिक्षिपति-न चेति । तदाहितं प्रतिष्ठाक्रियाजनितम् । तथा प्रतिष्ठितप्रतिमावन्दनादिकर्तृणां फलविशेषजनकम् । निषेधे हेतुमाह-चाण्डालादिस्पर्शनेतिचाण्डालादिस्पर्शः प्रतिमागतः, अदृष्टं च यजमानगतमिति यजमानगतादृष्टस्य, व्यधिकरणेन विभिन्नाधिकरणवृत्तिना चाण्डालादिस्पर्शेन यजमानगतादृष्टस्य नाशासम्भवात् , तथा च प्रतिमायां चाण्डालादिस्पर्शे जाते ऽपि तद्वन्दनादिकर्तृणां यजमानगतादृष्टबलात् फलविशेषः स्यादेवेति तदानीमपि प्रतिमायां पूजनीयत्वादिकं स्यादेवेत्यर्थः । किञ्च यजमानगतं यददृष्टं Page #358 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । स्यात्, प्रतिष्ठितप्रतिमावन्दन-पूजन-नत्यादिना फलविशेषहेतुत्वस्येत्थमेव वक्तुं शक्यत्वात् न च यजमानगतादृष्टं तदाहितं तथा, चाण्डालादिस्पर्शेन व्यधिकरणेन तन्नाशायोगात्, यजमानस्य तददृष्टक्षये पूज्यत्वानापत्तेः । एतेन सम्बन्धविशेषेण यजमानगतादृष्टस्य प्रतिमागतत्वसमर्थनमपि प्रत्याख्यातम् । यत्तु 'प्रतिष्ठाविधेर्देवतासविधानस्य स्वाभेद - स्वीयत्वादिज्ञान तदाहित संस्काररूपस्योत्पादात् फलोत्पत्तिः, चाण्डालादिस्पर्शे च तदभावात् फलाभावः' इति कस्यचिन्मतम्, तत् तु मुक्तिप्रतिष्ठितदेवताया अभिमानाभावात् प्रतिष्ठया तदुपकारस्याशक्य क्रियात्वाच्चाचार्यैरेव दूषितम्, तदुक्तम् २८७ 66 [ मुक्त्यादौ तत्त्वेन प्रतिष्ठिताया न देवतायास्तु । स्थाप्ये न च मुख्येयं तदधिष्ठानाद्यभावेन ॥१॥ इज्यादेर्न च तस्या उपकारः कश्चिदत्र मुख्य इति । तदतत्वकल्पनैषा बालक्रीडा समा भवति " ॥२॥ ] इति । यदपि 'प्रतिष्ठितं पूजयेदिति विधिः प्रतिष्ठाकालीनयावदस्पृश्यस्पर्शी भावविशिष्ट प्रतिष्ठाध्वंसस्तद्विशिष्टप्रतिमापूजनं वा फलप्रदम्, क्तप्रत्ययादती तत्व लाभाद्' इति गङ्गेशोपाध्यायैरुक्तं तदपि तुच्छम्, प्रतिष्ठया जनितं तत् स्वफलं यजमाने जनयित्वा नश्यत्येवेति तन्नाशानन्तरमपि चिरं कालं प्रतिष्ठितप्रतिमा पूजनीयैव भवति लोकानाम्, ततः फलविशेषोत्पत्तिरपि भवति, यदि च यजमानगतादृष्टमेव प्रतिष्ठितप्रतिमापूजनादिकर्तॄणां फलविशेषजनकं तदा तददृष्टनाशे तददृष्टरूपफलविशेषजनकस्याभावात् तदानीं फलविशेषो न स्यादेवेति निष्फलं पूजादिकं न प्रेक्षावद्भिराचरणीयमिति पूज्यत्वमेव प्रतिमाया न भवेदित्याह - यजमानस्येति । तददृष्टक्षये प्रतिष्ठाजनितादृष्टस्य नाशे सति । पूज्यत्वानापत्तेः प्रतिष्ठितप्रतिमायाः पूजनीयत्वं न स्यादित्यर्थः । एतेनेत्यस्य प्रत्याख्यातमित्यनेनान्वयः, एतेन प्रतिष्ठाहितयजमानगता दृष्टनाशे प्रतिमायाः पूज्यत्वानापत्तिदोषेण । सम्बन्धविशेषेण स्वाश्रयकर्तृकप्रतिष्ठाकर्मत्वलक्षणपरम्परासम्बन्धेन । कस्यचिन्मतान्तरमुद्भाव्य दूषयति यत्विति - अस्य ' इति कस्यचिन्मतम् ' इत्यनेनान्वयः । प्रतिष्ठाविधेः इत्यस्य 'उत्पादाद्' इत्यनेनान्वयः । " देवतास विधानस्य " इत्यस्य स्थाने " देवतासन्निधानस्य ” इति पाठो युक्तः । देवतायाः स्वर्गादिस्थानगताया अत्रागमनासम्भवात् तत्संयोगलक्षणं सन्निधानं न. सम्भवतीत्यत आह- स्वाभेदेति देवतायाः प्रतिमायां यत् स्वाभेदज्ञानं मदभिन्नेयमित्याकारकम्, स्वीयत्वादिज्ञानं मदीयेयं प्रतिमेत्याकारकं ज्ञानं स्वीयत्वज्ञानम्, आदिपदादेतस्याः प्रतिमायाः स्वाम्यहमित्यादिज्ञानस्योपग्रहः, स्वाभेदज्ञानस्वायत्वादिज्ञानरूपत्वे देवतासन्निधानस्य कालान्तरेऽभावात् तज्जन्यफलं कालान्तरे न स्यादत आह- तदाहितेतिस्वाभेदज्ञान स्वीयत्वादिज्ञानजन्येत्यर्थः, तदभावात् स्वाभेद- स्वीयत्वादिज्ञान तदाहितसंस्काररूपस्य देवतासन्निधानस्याभावात् । तत्तु तन्मतं पुनः अस्य दूषित मित्यनेनान्वयः । कस्माद्धेतोः कैर्दूषितमित्यपेक्षायामाह - मुक्तीति मुक्तौ प्रतिष्ठितायाःस्थितायाः, देवतायाः - सिद्धात्मस्वरूपायाः, ममेयं प्रतिमा, अस्याः प्रतिमाया अहं स्वामीत्याकारकाभिमानाभावात् कृतकृत्यस्य भगवतः सिद्धस्य प्रतिष्ठया कस्यचिदुपकारस्याशक्यक्रियात्वात् कर्तुमशक्यत्वाच आचार्यैरेव जैनाचार्यैरेव, दूषितं स्खण्डितमित्यर्थः । आचार्यो कमतखण्डन हेतुमुपदर्शयति- तदुक्तमिति मुक्त्यादौ प्रतिष्ठिताया देवतायास्तु तत्त्वेन प्रतिमास्वामित्वादिना, अभिमानो न, स्थाप्ये- मुक्तिप्रतिष्ठितदेवे, इयं प्रतिमा मुख्या न च मुक्तिप्रतिष्ठितदवेस्य प्रतिमाद्यधिष्ठानाद्यभावेनेत्यन्वयः, अर्थस्तु व्यक्त एव ॥ १ ॥ इज्यादे :- प्रतिष्ठादिकर्मणः, तस्याः - मुक्तिप्रतिष्ठितदेवतायाः, कश्चिदुपकारो न च मुख्यः, इति एतस्मात् कारणात् एषा देवता सान्निध्यादिरूपा तदतत्त्वकल्पना बालक्रीडासमा भवतीत्यन्वयः, अर्थस्तु सुगमः ॥ २ ॥ चिन्तामणिकृन्मतमुपदर्शनपूर्वकं प्रतिक्षिपति - यदपीति- अस्य गङ्गेशोपाध्यायैरुक्तमित्यनेनान्वयः । “ विधिः" अस्य स्थाने " विधेः " इति पाठः सम्यकू, प्रतिष्ठितं पूजयेदिति विधिवाक्यादित्यर्थः । प्रतिष्ठेतिप्रतिष्ठाकालीनो यो यावदस्पृश्यस्पर्शाभावस्तद्विशिष्टः प्रतिष्ठाध्वंसः फलप्रदः, वा अथवा, निरुक्तप्रतिष्ठाध्वंस विशिष्टप्रतिमापूजनं फलप्रदम् । क्तप्रत्ययात् प्रतिष्ठितमित्यत्र कप्रत्ययात्, अतीतत्वलाभात् प्रतिष्ठाया अतीतत्वलाभादित्यर्थः । Page #359 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । प्रतिष्ठारूपायां पूजायामेवागतस्तत्र ध्वंसस्यैव फलजनकव्यापारस्याश्रयणे वाढष्टमात्रस्यैव दत्तजलाञ्जलीत्वप्रसङ्गात्, कथं चैवं प्रतिष्ठितेऽप्यप्रतिष्ठितत्वज्ञाने न पूजाफलम् ? प्रतिष्ठाध्वंसवत्त्वेन प्रमीयमाणत्वस्य पूजाफलजनकतावच्छेदककोटौ निवेशेन प्रतिष्ठावत्त्वेन प्रमीयमाणत्वस्यैव निवेशौचित्यमिति न किि देतत् तस्माद् वन्दनपूजाफलप्रयोजकत्वं कथं प्रतिष्ठाया इति जिज्ञासायामाह - प्रतिष्ठितप्रत्यभिज्ञासमापन्नपरात्मनः । आहार्यारोपतः सा च द्रष्टृणामपि धर्मभूः ॥ १०३ ॥ नयामृत० - प्रतिष्ठितेति । सा स्थापना, प्रतिष्ठितप्रत्यभिज्ञया समापन्नो यः परात्मा भगवान् तस्याहार्यांरोपतः, द्रष्टृणामुपलक्षणाद्वन्दकानां पूजकानां च, धर्मभूः - धर्मकारणं भवति, अयं भावःप्रतिमायां भगवदभेदारोपं विना न तावद् वन्दन - पूजनादिफलं हेतुसहस्रेणापि सम्पद्यते, स च काष्ठ २८८ तदपि गङ्गेशोपाध्यायोक्तमपि । तुच्छत्वे हेतुमाह प्रतिष्ठ/रूपायामिति प्रतिष्ठारूपा या पूजा सा फलप्रदाऽभिमता, अन्यथा अफलायां तस्यां कस्यचित् प्रवृत्तिरेव न स्यात् एवं च प्रतिष्ठारूपायां पूजायां निरुक्तप्रतिष्ठाध्वंसस्य तादृशध्वंसविशिष्ट प्रतिमापूजनस्य वाऽभावात् फलोत्पत्तिर्न स्यादित्यर्थः । ननु प्रतिष्ठारूपपूजातस्तदानीमेव फलं न भवति किन्तु कालान्तर इति फलोत्पत्त्यव्यवहितपूर्वक्षणे प्रतिष्ठा खरूपतो नास्त्येव किन्तु स्वजन्यव्यापारवत्त्वसम्बन्धेनैव, स्वजन्यव्यापारश्च प्रतिष्ठाध्वंस एवेति व्यापारविधया प्रतिष्ठाध्वंसस्य फलप्रदत्वं समस्त्यैवत्यत आह- तत्रेति प्रतिष्ठारूपपूजायामित्यर्थः । ध्वंसस्यैव प्रतिष्ठाध्वंसस्यैव । अदृष्टमात्रस्यैवेति- चिरध्वस्त कर्मणोऽदृष्टलक्षणव्यापारमन्तरेण फलजनकत्वं न सम्भवतीत्येतावन्मात्र युक्त्यैवान्यत्राप्यदृष्टं कल्प्यते, यदि च स्वध्वंसद्वारा प्रतिष्ठाकर्म फलजनकं तदा कर्मान्तरमपि स्वध्वंसद्वारेव स्वफलं जनयिष्यतीति किमित्यदृष्टं तद्व्यापारत्वेन कल्पनीयमित्येवमदृष्टमात्रस्यैवोच्छेदः स्यादित्यर्थः, वस्तुतो ध्वंसव्यापारत्वं कल्पयितुमशक्यम्, तथा सति कारणीभूताभावप्रतियोगित्वं प्रतिबन्धकत्वमिति प्रतिष्ठाजन्यफलं प्रति प्रतिष्ठाध्वंसस्य कारणत्वे कारणीभूतध्वंसरूपाभावप्रतियोगित्वेन प्रतिष्ठायाः प्रतिबन्धकत्वं प्रसज्यत इति । किञ्च यत्र प्रतिष्ठितेऽपि प्रतिबिम्बे अप्रतिष्ठितत्वज्ञानं पूजकस्य तत्र तत्पूजकस्य तत्पूजाफलं न भवति यदि तु प्रतिष्ठाध्वंसस्य फलजनकत्वं तदा प्रतिष्ठाध्वंसस्याप्रतिष्ठितत्वज्ञानेऽपि सत्त्वात् तत्पूजाफलं स्यादित्याह- कथं चेति - अस्य न पूजाफलमित्यत्रान्वयः । एवं प्रतिष्ठाध्वंसस्य फल - प्रदत्वे । ननु प्रतिष्ठा ध्वंसवत्त्वेन प्रमीयमाणप्रतिबिम्बपूजनं फलप्रदम्, यत्र प्रतिष्ठितेऽप्रतिष्ठितत्वज्ञानं तत्र प्रतिबिम्बे प्रतिष्ठाध्वंसवत्त्वेन प्रमीयमाणत्वं नास्त्यतस्तत्पूजनतः फलं न भविष्यतीत्यत आह- प्रतिष्ठाध्वंसवत्वेनेति । यत्राप्रतिष्ठितेऽपि प्रतिबिम्बे प्रतिष्ठाध्वंसवत्त्वस्य भ्रमस्तत्र तादृशभ्रमतस्तत्पूजकस्य तत्पूजाफलं न भवतीत्यतो ज्ञायमानत्वस्येत्यनुक्त्वा प्रमीयमाणत्वस्येत्युक्तम् । निवेशेनेति स्थाने निवेशापेक्षयेति पाठः सम्यक्, प्रतिष्ठाध्वंसवत्त्वापेक्षया प्रतिष्ठावत्त्वस्य लघुभूतत्वेन प्रतिष्ठाध्वंसवत्त्वेन प्रमीयमाणत्वापेक्षया प्रतिष्ठावत्त्वेन प्रमीयमाणत्वं लध्वतः पूजाफलजनकतावच्छेदककोटौ तन्निवेशस्यौचित्यम् । इति एतस्मात् कारणात् । एतत् गङ्गेशोपाध्यायोक्तम् । न किञ्चित् तुच्छमित्यर्थः । उपसंहरति-तस्मादिति । विवृणोति - प्रतिष्ठितेतीति । सेत्यस्य विवरण- स्थापनेति । प्रतिष्ठितेत्यादिसमस्तवाक्यं विवृणोति - प्रति ष्ठितेति । निरुक्ताहार्यारोपतो द्रष्टृणामिव वन्दकानां पूजकानां च प्रतिमा धर्मकारणं भवति, मूले तदप्रदर्शनेन न्यूनत्वं स्यादत आह- उपलक्षणाद् वन्दकानां पूजकानां चेति- मूले द्रष्टृपदं वन्दक- पूजकयोरप्युलक्षणन्यायात् प्रतिपादकमतो न न्यूनत्वम् । धर्मभूः इत्यस्य विवरणम् - धर्मकारणमिति । सर्वं हि वाक्यं क्रियया परिसमाप्यते, यत्राप्यन्यत् क्रियापदं न श्रूयते तत्राप्यस्ति भवतीतिक्रियाऽध्याहियत इति शाब्दिकसम्प्रदायमवलम्ब्य भवतीति क्रियापदं योजितम् । शब्दशक्यार्थमुपदर्श्य भावार्थमुपदर्शयति- अयं भाव इति । स च प्रतिमायां भगवदभेदारोपः पुनः अस्य सम्पाद नीय इत्यनेनान्वयः । विरुद्धधर्मज्ञानस्य भेदव्यञ्जकत्वमिति भगवतः प्रतिमा काष्ठमयी पाषाणमयी मृन्मयो वा भवतीति wa Page #360 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । पाषाणत्वादिना भेदप्रत्यक्षे सति स्वरसतो नोदयतीत्याहार्य एव सम्पादनीयः, आहार्यत्वं चेच्छाजन्यत्वम्, इच्छा चेष्टसाधनताज्ञानसाध्ये तीष्टसाधनताज्ञानसम्पादनाय प्रतिष्ठितां प्रतिमां भगवदभेदेनाध्यारोपयेदिति विधिः कल्पनीयः । तथा चाहार्य भगवदध्यारोपविषयप्रतिमापूजनत्वादिना फलविशेषहेतुत्वे आहार्यत्वप्रयोजकेच्छा जनकज्ञानजनक विशेष्यतावच्छेदककुक्षिप्रविष्टत्वेन प्रतिष्ठाया अपि परम्परया प्रयोजकत्व - मित्युक्तं भवति, प्रतिष्ठितं पूजयेदित्यत्रापि क्तप्रत्ययस्य खण्डशः शक्त्या लक्षणादिना वा प्रतिष्ठाप्रयुक्तातत्र काष्ठत्व - पाषाणत्व-मृत्त्वज्ञाने सति परमात्मस्वरूपाद् भगवतो भेदप्रत्यक्षमेव जायते सति च तस्मिन् प्रतिमायां भगवदभेदज्ञानमनाहार्यरूपं न सम्भवति, अनाहार्य तद्भेदज्ञानस्यानाहार्यतदभेदज्ञानं समानधर्मिकं प्रति प्रतिबन्धकत्वादतो बाधकाले आहार्यज्ञानमेव सम्पादयितुं शक्यमित्याह - काष्ठ-पाषाणत्वादिनेति । स्वरसतः इच्छादिकमनपेक्ष्य स्वभावतः । नोदयति नोत्पद्यते, अत्रापि स चेत्यस्यान्त्रयः । आहार्यत्वं किमित्यपेक्षायामाह - आहार्यत्वं चेच्छाजन्यत्वमितिसमानविषयक प्रत्यक्षाऽनुमितिसामग्र्योः सत्योः समानविषयकप्रत्यक्षमेव भवति न त्वनुमितिरिति समानविषयकानुमितिं प्रति समानविषयकप्रत्यक्षसामग्री प्रतिबन्धिका एवं भिन्नविषयकानुमितिप्रत्यक्षसामग्योः सत्योर्भिन्नविषयकानुमितिरेव भवति न तु भिन्नविषयकप्रत्यक्षमिति भिन्नविषयकप्रत्यक्षं प्रति भिन्नविषयकानुमितिसामग्री प्रतिबन्धिकेत्येवं प्रतिबध्यप्रतिबन्धकभावे व्यवस्थितेऽपि समानविषयकप्रत्यक्षसामग्रीसत्त्वेऽपि समानविषयकानुमितीच्छायां सत्यां समानविषयकानुमितिसामग्रीतः समानविषय कानुमितिरुपजायत इति तां प्रतीच्छा कारणम्, एवं विभिन्नविषयकानुमितिसामग्रीसत्त्वेऽपि विभिन्नविषयक प्रत्यक्षेच्छाबलाद् विभिन्नविषयकप्रत्यक्ष सामग्रीतो विभिन्नविषयकप्रत्यक्षमुपजायत इति तत् प्रतीच्छा कारणम्, तथा च तादृशानुमितिप्रत्यक्षयोरिच्छाजन्यत्वेऽपि नाऽऽहार्यत्वमतो नेच्छाजन्यत्वमात्रमाहार्यत्वम्, किन्तु बाघकालीनेच्छाजन्यत्वमाहार्यत्वमिति, यद्यपि खविरोधिधर्मितावच्छेदककस्वप्रकारकज्ञानमाहार्यमितीच्छाजन्यत्वाघटितमप्याहार्यलक्षणं सम्भवति तथापि तादृशलक्षणलक्षितमप्याहार्यज्ञानं नेच्छामन्तरेणेतीच्छाजन्यत्वं तस्यावश्यकमिति बोध्यम् । इच्छा चेष्टसाधनताज्ञानसाध्येति- इच्छा द्विविधा - फलेच्छा उपायेच्छा चेति, तत्र फलेच्छां प्रति फलज्ञानं कारणम्, उपायेच्छां प्रति चेष्टसाधनताज्ञानं कारणम्, प्रतिमायां भगवदभेदाध्यारोपात्मकज्ञानं च न सुखं नापि दुःखाभाव इति न फलं सुख-दुःखाभावान्यतरस्यैवान्येच्छानधीनेच्छाविषयत्वेन फलत्वात् किन्तु सुख-दुःखाभावान्यतरात्मक फलसाधनत्वेनोपायरूपं तदिति तदिच्छा इष्टसाधनताज्ञानसाध्ये - त्यर्थः । इति एतस्माद्धेतोः । इष्टसाधनताज्ञानसम्पादनाय प्रतिमायां भगवदभेदारोपे इष्टसाधनताज्ञानसम्पादनाय, प्रतिमायां भगवदभेदाध्यारोपो मदिष्टसाधनमित्याकारकज्ञानसम्पत्तये इति यावत् । इष्टसाधनत्वं विधेरर्थ इति विधिवाक्यादेवेष्टसाधनताज्ञानं भवितुमर्हतीति यादृशविधिवाक्यं प्रतिमायां भगवदभेदाध्यारोपस्येष्टसाधनत्वं बोधयितुं समर्थं तादृशं विधिवाक्यं कल्पनीयमित्याशयेन कल्पनीयविधिस्वरूपमुल्लिखति- प्रतिष्ठितां प्रतिमामिति । तथा च निरुक्तविधिकल्पनया प्रतिष्ठितप्रतिमागतभगवदभेदाध्यारोपस्येष्टसाधनत्वबोधने तत्प्रभवेच्छाजन्यत्वेन निरुक्ताभेदारोपस्याहार्यत्वव्यवस्थितौ च । आहार्येतिआहार्यो यो भगवतोऽभेदेन प्रतिमायामध्यारोपस्तद्विषयीभूता या प्रतिमा तत्पूजनत्वादिनेत्यर्थः, आदिपदात् तद्दर्शनत्व-तद्वन्दत्वादीनामुपग्रहः । फलविशेषहेतुत्वे फलविशेषं प्रति निरुक्तप्रतिमापूजनादीनां कारणत्वे सति । आहार्यत्वेति- प्रतिष्ठितप्रतिमायां भगवदभेदाध्यारोपस्य यदाहार्यत्वं तत्प्रयोजिका येच्छा प्रतिष्ठित प्रतिमायां भगवदभेदाध्यारोपो जायतामित्याकारिका, तज्जनकं यज्ज्ञानं प्रतिष्ठितप्रतिमाविशेष्यकभगवदभेदाध्यारोपो मदिष्टसाधनमित्याकारकम्, तज्जनकं प्रतिष्ठित प्रतिमा विशेष्यकभगवदभेदप्रकारकज्ञानम्, तन्निरूपितविशेष्यता प्रतिष्ठितप्रतिमात्वावच्छिन्नविशेष्यता, तदवच्छेदककुक्षौ - तदवच्छेदकशरीरे प्रविष्टत्वेने - त्यर्थः, प्रयोजकत्वं प्रतिमापूजनादिफलं प्रति प्रयोजकत्वम् । यदपि प्रतिष्ठितं पूजयेदिति विधिः कल्पितश्चिन्तामणिकुद्भिस्तत्राप्युक्तदिशैव फलहेतुतेत्याह- प्रतिष्ठितं पूजयेदित्यत्रापीति । कप्रत्ययस्य प्रतिष्ठितमित्येतदुद्घटक क्तप्रत्ययस्य, खण्डशः शक्त्या प्रयुक्ते आहार्ये आरोपविषये च तप्रत्ययस्य पृथगेव शक्तिस्तथा, वा अथवा, लक्षणादिना प्रयुक्तहार्यारोपविषये कप्रत्ययस्य लक्षणादिना । प्रतिष्ठेति - सूत्रबोधितसविधिप्रतिष्ठया प्रयुक्तो जनितो यः प्रतिमायां भगवतो - Sमेदेनाहार्य आरोपस्तद्विषयप्रतिमापूजनत्वादिनैव फलहेतुतेत्यर्थः, प्रतिमापूजनत्वादिनैवेत्येवकारेण प्रतिष्ठाकालीन यावदस्पृश्य ३७ २८९ Page #361 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । हार्यारोपविषयपूजनत्वादिनैव फलहेतुता, क्तप्रत्ययस्य चौत्सर्गिकेन कृत्प्रत्ययेनैवार्थवत्तेत चिन्तामणिकारादृप्यतिसूक्ष्ममतिनिपुणं च वयमीक्षामहे ॥ १०३ ॥ उक्तमेव वक्ष्यमाणफलान्वयेनाह - २९० wwwwwwwwww.. तत्कारणेच्छाजनकज्ञानगोचरबोधकाः । विधयोऽप्युपयुज्यन्ते, तेनेदं दुर्मतं हतम् ॥ १०४ ॥ नयामृत० - तत्कारणेति । तस्य- आहार्यारोपस्य कारणं या इच्छा, तज्जनकं यत् प्रतिष्ठितां प्रतिमां भगवदभेदेनाध्यारोपयेदिति विधिजनितं ज्ञानम्, तद्गोचरीभूत प्रतिष्ठाया बोधका :- इष्टसाधनत्वबोधनादिद्वारा तदुत्पत्तिहेतव इति यावत् विधयोऽपि - विधिवाक्यान्यपि, उपयुज्यन्ते - फलवन्तो भवन्ति, तैः प्रतिष्ठोत्पादने प्रतिष्ठित प्रतिमायामारोपविधिना भगवदभेदाध्यारोपोपपत्तौ पूजाफलप्रयोजकरूपसिद्धेः, तेनेदं - वक्ष्यमाणं दुर्मतम्, आध्यात्मिकाभासानां, हतं - निराकृतम् ॥ १०४ ॥ किं तद् इत्याह प्रतिष्ठाद्यनपेक्षायां, शाश्वतप्रतिमार्चने । अशाश्वतार्चापूजायां, को विधिः किं निषेधनम् ? ॥ १०५ ॥ नयामृत० - प्रतिष्ठेति । शाश्वतप्रतिमार्चने, प्रतिष्ठाया आदाविदं प्रथमतोऽनपेक्षायां तत्रैव स्पर्शाभावविशिष्ट प्रतिष्ठा ध्वंसत्वेन तादृशध्वंस विशिष्टप्रतिमापूजनश्वेन वा फलं प्रति हेतुत्वस्य चिन्तामणिकारानुमतस्य व्यव च्छेदः । ननु कप्रत्ययस्य प्रयुक्ताहार्यारोपविषये लक्षणापक्षे तस्य शक्यार्थवत्ता न स्यादत आह- कप्रत्ययस्येति । औत्सर्गिकेन कृत्प्रत्ययविधायक सामान्यशास्त्रोपस्थापितेन । " कृत्प्रत्ययेनैवा" इत्यस्य स्थाने " कृत्प्रत्ययार्थेनैवा " इति पाठो युक्तः धात्वर्थस्वरूपमात्रेऽपि कृत्प्रत्ययविधानमस्तीति प्रकृते प्रतिष्ठालक्षणधात्वर्थस्वरूपेणैव शक्यार्थवत्त्वमपि कप्रत्ययस्य भविष्यति कृत्प्रत्ययार्थेनैवेत्येवकारेण ध्वंसप्रतियोगित्वलक्षणातीतत्वरूपविशेषशास्त्र स्मारितार्थेनार्थवत्त्वस्य व्यव च्छेदः, एतेन वर्तमानप्रतिष्ठात्मकपूजाया अपि फलवत्वमुपपद्यतेतरामित्यावेदितं भवतीति । इति एवंस्वरूपम् चिन्तामणिकारादपि गङ्गेशोपाध्यायादपि, अतिसूक्ष्मं विशिष्टशेमुषीशालिबुधैकगम्यम्, अतिनिपुणम् एतादृशार्थस्यावश्यमेव कार्यकारित्वमित्यत्यन्तकार्यनिर्वाहकम्, वयं श्रीयशोविजयोपाध्यायाः, ईक्षामहे विचारयामः ॥ १०३॥ चतुरुत्तरशततमपद्यमवतारयति उक्तमेवेति- अनन्तरपद्याभिहितमेवेत्यर्थः । वक्ष्यमाणफलान्वयेन वक्ष्यमाणं यद् दुर्मतखण्डनलक्षणं फलं तत्सम्बन्धेन । विवृणोति तत्कारणेतीति । अनेकस माससङ्घटितमूर्तेर्वाक्यस्यावान्तर समासस्फुटीकरणद्वाराऽर्थमुपदर्शयति - तस्येत्यादिना । तस्येत्यस्य विवरणम् - आहार्यारोपस्येति । तज्जनकम् इच्छाजनकम् । यदित्यस्य ज्ञानमित्यनेनान्वयः । तज्ज्ञानं किंजनितमित्यपेक्षायामाह - प्रतिष्ठितामिति । तद्गोचरीभूतेति तादृशज्ञानविषयीभूतेत्यर्थः । वोधका इति विधय इत्यनेनान्वितम् । कथं बोधका इत्यपेक्षायामाह - इष्टसाधनत्वबोधवादिद्वारेति । तदुत्पत्तिहेतवः प्रतिष्ठित प्रतिमाविशेष्य कभगवदभेदज्ञानं मदिष्टसाधनमिति ज्ञानजनकाः । विधयोऽपीत्यस्य विवरण- विधिवाक्यानीति प्रतिष्ठित प्रतिमां भगवदभेदेनाध्यारोपयेदित्यादीनीत्यर्थः । उपयुज्यन्ते इत्यस्य विवरण- फलवन्तो भवन्तीति । कथं फलवन्तो भवन्तीत्यपेक्षायामाह - तैरिति - विधिवाक्यैरित्यर्थः । प्रतिष्ठोत्पादने इति सति सप्तमी, अन्यत् स्पष्टम् । इदमित्यस्य विवरणं- वक्ष्यमाणमिति । केषां दुर्मतमित्यपेक्षायामाह - आध्यात्मिकाभासानामिति । छतमित्यस्य विवरणं- निराकृतमिति ॥ १०४ ॥ पश्चोत्तरशततमपद्यमवतारयति किं तदिति - आध्यात्मिकाभासानां मतं किंस्वरूपमित्यर्थः । विवृणोति प्रतिष्ठेतीति । Page #362 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । २९१ तस्याः फले व्यभिचारात्, अशाश्वता नां - कृत्रिमप्रतिमानां पूजायाम् , प्रतिष्ठितां प्रतिमां पूजयेदिति विधिः कः ? अप्रतिष्ठितं न पूजयेदिति निषेधनं च किम् ? प्रतिष्ठा-तदभावयोरिष्टानिष्टसाधनतया व्यभिचारात्, अभावेन तत्र विधि-निषेधार्थान्वयस्यायोग्यत्वादिति भावः ॥ १०५ ॥ कथमेतन्निरस्तम् ? इत्याह पूजादिविधयो ज्ञानविध्यङ्गित्वं यदाश्रिताः । शाश्वताऽशाश्वतार्चासु, विभेदेन व्यवस्थिताः ॥ १०६ ॥ नयामृत-पूजादीति । पूजादिविधयः-प्रतिष्ठितां प्रतिमां पूजयेदित्यादिवाक्यलक्षणाः, ज्ञानविधेः-प्रतिष्ठितां प्रतिमां भगवदभिन्नत्वेनाध्यारोपये दित्यागमवाक्यात्मकस्य, अङ्गित्वं-प्रधानत्वम् , आश्रिताः, शाश्वता-ऽशाश्वतार्चासु, विभेदेन-भिन्नरूपेण व्यवस्थिताः । तथा च प्रतिष्ठाया न पूजासह. कारित्वम्, किन्तु स्वकर्तव्यताबोधकविध्यङ्गता। यत्र विधिविषयनिर्वाहकत्वेन प्रयोजकत्वम् , तचा. " इदं प्रथमतो" इत्यस्य स्थाने "इदं प्राथम्ये तेन प्रथमतो" इति पाठो भवितुमर्हति, इदमादिपदं प्राथम्यरूपार्थे वर्तते, तेन आदी- इत्यस्य प्रथमत इत्यर्थः । शाश्वतप्रतिमा सर्वदेव व्यवस्थितैव, तत्र प्रतिष्ठा प्रथमतो नास्त्येव, अतस्तत्र प्रतिष्ठामन्तरेण शाश्वतप्रतिमार्चनतः फलं भवतीति तत्रैव शाश्वतप्रतिमार्चन एव, तस्याः प्रतिष्ठायाः, फले प्रतिमाऽर्चनजन्यफले, व्यभिचारात् व्यतिरेकव्यभिचारात् , प्रतिष्ठाया अभावेऽपि प्रतिमापूजनजन्यफलस्य भावात् । अशाश्वता पूजायामित्यस्य विवरणम्- अशाश्वता नां-कृत्रिमप्रतिमानां पूजायामिति । को विधिरित्यस्य विवरण- प्रतिष्ठितां प्रतिमा पूजयेदिति विधिः क इति । किं निषेधनमित्यस्य विवरणम्- अप्रतिष्ठितं न पूजयेदिति निषेधनं च किमिति । विधि-निषेधयोरभावे हेतुमुपदर्शयति-प्रतिष्ठेति- शाश्वतप्रतिमायां प्रतिष्ठाया अभावेऽपि तत्पूजनत इष्टफलस्य भावेन व्यतिरेकव्यभिचारात् प्रतिष्ठाया इष्टं प्रति न कारणत्वम् , एवं शाश्वतप्रतिमायां प्रतिष्ठाभावस्य सत्त्वेऽपि न भवत्यनिष्टफलमित्यन्वयव्यभिचारात् प्रतिष्ठाभावस्य नानिष्टफलं प्रति कारणत्वमित्येवं प्रतिष्ठाप्रतिष्ठाऽभावयोर्व्यभिचारादिष्टानिष्टसाधनत्वयोरभावेन प्रतिष्ठितां प्रतिमां पूजयेदित्यत्र प्रतिष्ठितप्रतिमापूजने विध्यर्थेष्टसाधनत्वान्वयस्यायोग्यत्वात् , अप्रतिष्ठितं न पूजयेदित्यत्र अप्रतिष्ठितप्रतिमापूजने निषेधविध्यर्थानिष्टसाधनत्वान्वयस्यायोग्यत्वादित्यैवमत्र भावार्थ इत्यर्थः । "प्रतिष्ठा तदभावयोरिष्टानिष्टसाधनतया व्यभिचारात्, अभावेन" इत्यस्य स्थाने " प्रतिष्ठातदभावयोरिटानिष्टसाधनत्वयोर्व्यभिचारादभावन" इति पाठः समीचीनः, एतत्पाठानुसारेणैवानन्तरमुपवर्णितोऽर्थ इति ॥१०५ ॥ षड्डुत्तरशततमपद्यमवतारयति- कथमिति- केन प्रकारेणेत्यर्थः, एतत् आध्यात्मिकाभासानां मतम्, निरस्त खण्डितम् , इत्याह एवं प्रश्ने सत्युत्तरं कथयति । विवृणोति-पूजादीतीति । पूजादिविधयः किंस्वरूपा इत्यपेक्षायामाहप्रतिष्ठितां प्रतिमां पूजयेदित्यादिवाक्यलक्षणा इति । ज्ञानविध्यङ्गित्वमिति समस्तं व्यासार्थोपदर्शनेन विवृणोतिज्ञानविधेरिति । किंस्वरूपस्य ज्ञानविधेरित्यपेक्षायामाह-प्रतिष्ठितां प्रतिमां भगवदभिन्नत्वेनाध्यारोपयेदित्यागमवाक्यात्मकस्येति । अङ्गित्वमित्यस्य विवरणं-प्रधानत्वमिति । आश्रिताः आश्रित्य प्रवृत्ताः । अतो ज्ञानविधिः प्रधान पूजाविधिस्तु तदङ्गमिति प्रधाने न भवति विकल्पः किन्तु तदङ्ग एवेति यथा प्रधानविध्युपपत्तिस्तथा तदनविधिर्विकल्पनीय इत्याशयेनाह-शाश्वताऽशाश्वता स्विति- शाश्वतप्रतिमाऽशाश्वतप्रतिमास्वित्यर्थः । विभेदेनेत्यस्य विवरण-भिन्नरूपेणेति । तथा च ज्ञानविध्यज्ञानां पूजादिविधीनां भिन्नरूपेण व्यवस्थितौ सत्यां च । प्रतिष्ठाया न प्रजासहकारित्वं प्रतिमापूजाफले प्रतिष्ठाया न कारणत्वम् । एवं सति प्रतिष्ठा निरर्थिकैव स्यादिति पृच्छतिकिन्विति। उत्तरयति- स्वकर्तव्यतेति- " स्वकर्तव्यताबोधकविध्यङ्गता । यत्र विधि" इत्यस्य स्थाने " स्वकर्तव्यताबोधकविध्यङ्गतापन्नविधि" इति पाठः समीचीनः, तस्यायमर्थः- स्वस्या:- प्रतिष्ठायाः, कर्तव्यताबोधको यो विधिः-प्रतिष्ठितां प्रतिमा भगवदभिन्नत्वेनाध्यारोपयेदिति, तस्याङ्गतापन्नो विधिः- प्रतिष्ठितां प्रतिमा पूजयदिति, तद्विषयः Page #363 -------------------------------------------------------------------------- ________________ २९२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। शाश्वतप्रतिमास्थले, अन्यत्र खनादिप्रतिष्ठितत्वप्रत्यभिज्ञाया एव तथात्वम् , तादृशशिष्टाचारेण तथैव विधिबोधनादिति विकल्पेनानयोः पूजाफलप्रयोजक(का)व्याहतेन कोऽपि दोष इति, अत एव निश्रिताऽनिश्रितादिभेदेन स्वल्प-बहुभक्तिविधानादेनिविशेषाक्षेपकत्वेन व्यवस्थितिविकल्पोत्पादकं सङ्गच्छते । अत एव चाविधिप्रतिष्ठितेऽप्यविच्छेदादिकारणालम्बनोपबृंहितवैज्ञानिकविधिना विधिप्रतिष्ठिततुल्यतामामनन्ति सम्प्रदायवृद्धाः, भावशोधितशुद्धनिमित्तनिमित्तकैकान्तशुद्ध्यभावेऽपीदानींतनयतिधर्मपौषधादिक्रियावत् , तत्र भावशोधनमात्रेण मध्यमशुद्ध्याच्यवात्, तस्या अपि च शुभानुबन्धनसारत्वादिकमुपपादितं प्रतिमाशतकादौ । तस्मात् स्थापना ताटस्थ्येन भगवद्गुणस्मारकतया तदाहार्यारोपप्रयोजकतया सङ्घहनयेनाप्यवश्यं स्वीकर्तव्येति व्यवस्थापितम् ॥ १०६ ॥ एतेन तदनभ्युपगन्ता व्यवहारोऽपि निरस्त इत्याह प्रतिष्ठितपूजनगतेष्टसाधनत्वम् , तनिर्वाहकत्वेन- परम्परया तत्सम्पादकत्वेन, पूजाफलप्रयोजकत्वं प्रतिष्ठाया इत्यर्थः । तञ्च उक्तदिशा पूजाफलप्रयोजकत्वं च । अन्यत्र तु शाश्वतप्रतिमास्थले तु । अनादिप्रतिष्ठितत्वप्रत्यभिज्ञाया एव इयं प्रतिमाऽनादिप्रतिष्ठितेत्याकारकप्रत्यभिज्ञाया एव, एवकारेण तत्र प्रतिष्ठाया उक्तदिशा प्रयोजकत्वस्य व्यवच्छेदः । तथात्वं प्रयोजकत्वम् , एवं च तत्र प्रतित्रितां प्रतिमां पूजयेदित्यत्र प्रतिष्ठितामित्यस्यानादिप्रतिष्ठितत्वेन प्रत्यभिज्ञायमानामित्यर्थः, तथा च प्रधानविधावपि प्रतिष्ठितामित्यस्यानादिप्रतिष्ठितत्वेन प्रत्यभिज्ञायमानामित्यर्थोऽर्थादायात्येवेति बोध्यम् । एकरूपस्यापि विधिवाक्यस्यैवमर्थभेदबोधकत्वं कथमित्यपेक्षायामाह-ताशशिष्टाचारेणेति- कृत्रिमप्रतिमास्थले प्रतिष्ठितप्रतिमापूजने शिष्टस्य प्रवृत्तिः, शाश्वतप्रतिमास्थले अनादिप्रतिष्ठितत्वेन प्रत्यभिज्ञायमानप्रतिमापूजने प्रवृत्तिरित्येवं विभिन्नशिष्टाचारेणेत्यर्थः। तथैव पूर्वोपदर्शितप्रकारेणैव । विकल्पेन क्वचिदेकस्य प्रयोजकत्वं क्वचिदन्यस्येत्येवं विकल्पेन । अनयोः प्रतिष्ठा प्रतिष्ठितत्वप्रत्यभिज्ञयोः । "पूजाफलप्रयोजक(का)व्याहते" इत्यस्य स्थाने "पूजाफलप्रयोजकत्वाव्याहते" इति पाठो युक्तः, अर्थस्तु व्यक्त एव । अत एव विकल्पेनानयोः पूजाफलप्रयोजकत्वादेव, अस्य 'सङ्गच्छते' इत्यनेनान्वयः। निश्रितेत्यादि- निश्रितः- प्रतिनियतपुरुषस्वामिकत्वेन व्यवस्थितः, तद्भिन्नोऽनिश्रितः, प्रतिनियतपुरुषस्वामिकत्वेन व्यवस्थितप्रतिमायां तदन्यजनानां स्वल्पभक्तिः, तद्भिन्नायां च बहुभक्तिः, तादृशस्वल्पबहुभक्तिविधानादेनिविशेषापेक्षकत्वेनेत्यर्थः । अत एव च उक्तकारणादेव च । अस्य आमनन्तीत्यनेनान्वयः । अविधिप्रतिष्ठितेऽपि सूत्रोक्तविधिमतिकम्य प्रतिष्ठितेऽपि प्रतिबिम्बे । अविच्छेदादीति- प्रतिष्ठासमयादारभ्य बहुकालपर्यन्तं यथावजनसमूहकृतवन्दनपूजनाद्यनुवर्तन नैरन्तर्यलक्षणाविच्छेदादिस्वरूपकारणालम्बनेनोपवृंहितोऽतिपुष्टिं नीतो यो वैज्ञानिको विधिः प्रतिष्ठितप्रतिमोद्देश्यकभगवदभेदाध्यारोपात्मकज्ञानविधिस्तेन तद्बलेनाविधिप्रतिष्ठितेऽपि सूत्रोक्तविधिप्रतिष्ठितस्य तुल्यतां सदृशतां सम्प्रदायवृद्धा आमनन्तीत्यर्थः । उक्तार्थोपोद्वलनाय दृष्टान्तमाह-भावेति- "भावशोधितशुद्ध" इत्यस्य स्थाने भावशोधिते शुद्ध" इति पाठोऽन्वयानुगुणः; भावशोधिते निर्मलभक्तिप्रभृतिभावेन शुद्धतामुपगते, शुद्धं स्वरसतः शुद्धं यन्निमित्तं तन्निमित्तका यैकान्तशुद्धिस्तस्या अभावेऽपीदानीन्तनयतिधर्मपौषधादिक्रिया यथा भावशोधनमात्रेण शुद्धनिमित्तनिमित्तककियातुल्या तथेत्यर्थः। तत्र इदानीन्तनयतिधर्म-पौषधादिक्रियायाम् । तस्या अपि च इदानीन्तनयतिधर्म पौषधादिक्रियाया अपि पुनः । शुभानुबन्धसारत्वात् शुभानुबन्धफलत्वात् । एतद्विस्तृतप्ररूपणं निजनिर्मितप्रतिमाशतकादिग्रन्थे अस्माभिः कृतमिति तद्विशेषजिज्ञासुभिस्तत्र परिशीलनं विधेयमित्युपदेशाभिप्रायेणाहइत्यादिकमुपपादितं प्रतिमाशतकादाविति । सङ्ग्रहनयोऽपि स्थापनानिक्षेपमभ्युपगच्छतीति प्रकृतमर्थमुपसंहरतितस्मादिति । ताटस्थ्येन भावभिन्नत्वे सत्यपि भावसादृश्येन, तदाहार्यारोपप्रयोजकतया तस्य- भावजिनस्य, प्रतिमायां य आहार्य आरोपः- अभेदाध्यवसायस्तस्य प्रयोजकतया ॥१०६॥ सप्तोत्तरशततमपद्यमवतारयति-पतेनेति- अस्य निरस्त इत्यनेनान्वयः। तदनभ्युपगन्ता स्थापनानिक्षेपानभ्युपगन्ता । व्यवहारोऽपि व्यवहार इति केषाश्चिदाचार्याणां कदापहोऽपि, अथवा व्यवहारोऽपीत्यस्य स्थाने व्यवहार Page #364 -------------------------------------------------------------------------- ________________ २९३ - नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । एतेन व्यवहारेऽपि, स्थापनाऽनाग्रहो हतः। तत्रार्धजरतीयं किं, नाम्नाऽपि व्यवहर्तरि ॥ १०७ ॥ नयामृत०-एतेनेति । एतेन-अनुपदोक्तयुक्तिकदम्बकेन सङ्ग्रहे स्थापनाव्यवस्थापनेन, व्यवहारे. ऽपि, स्थापनाया अनाग्रह:-अस्वीकारो, हतः-निरस्तः, केषाश्चिदाचार्याणाम्, यतस्तत्र-व्यवहारे, नाम्नापि-नामनिक्षेपेणापि, व्यवहर्तरि-व्यवहारमुपगच्छति, किमिदमर्धजरतीयम्- यदुत स्थापनाया न व्यवहार इति, नहीन्द्रप्रतिमायां नेन्द्रव्यवहारो भवति, नवा भवन्नपि भ्रान्त एव, नवा नामादिप्रतिपक्षव्यवहारसाङ्कर्यमित्येकमाद्रियमाणस्यापरं च परित्यजतः केवलं आहोपुरुषिकामात्रमेवेति ॥ १०७ ॥ ऋजुसूत्रेऽपि द्रव्यनिक्षेपं ये न स्वीकुर्वते तन्मतं निरूपयन्नाह ऋजुसूत्रेऽपि ये द्रव्यनिक्षेपं प्रवदन्ति न । ___ व्याख्येया तैः कथं तत्र, द्रव्यावश्यकसूत्रगीः ॥ १०८ ॥ नयामृत-ऋजुसूत्रेऽपीति । स्पष्टम् , व्याख्याप्रकारश्च यद्यप्यत्र नव्यनये प्रागभिहित एव, तथापि कथमित्यनेन सम्प्रदायविरोधाद् बिभ्यतां साम्प्रदायिकानां तथा नास्थेति व्यज्यते ।। १०८ ॥ इति कदाग्रहोऽपीति पाठ एव । विवृणोति- एतेनेतीति । एतेनेत्यस्य विवरण- अनुपदोक्तयुक्तिकदम्बकेन सङ्घहे स्थापनाव्यवस्थापनेनेति । अनाग्रह इत्यस्य विवरणम्- अस्वीकार इति। हत इत्यस्य विवरणंनिरस्त इति । निरासहेतुपरतयोत्तरार्द्ध योजयति-यत इति । तत्रेत्यस्य विवरणं- व्यवहार इति । नाम्नाऽपीत्यस्य विवरण- नामनिक्षेपेणापीति, व्यवहर्तरीत्यस्य व्यवहारमुपगच्छतीति- सति सप्तमीयम्। अर्द्धजरतीयं कस्मादित्यपेक्षायामाहयदुतेति- यथा नाम्नो व्यवहारस्तथा स्थापनाया अपि व्यवहारः, तत्र नानो व्यवहार इति पूत्करोति, स्थापनाया न व्यवहार इति स्वीकरोति, एतदर्द्धजरतीयमित्यर्थः। स्थापनायां व्यवहारस्य दाय व्यवस्थापयति-नहीति- अस्य भवतीत्यनेनान्वयः। न भवतीति नहीति निषेधद्वयेन इन्द्रप्रतिमायामिन्द्र व्यवहारो भवत्येवेत्यवधारितम् । तादृशव्यवहारस्य भ्रान्तत्वान्न वस्तुसाधकत्वमित्यपि नास्तीत्याह-नवेति- इन्द्रप्रतिमायामिन्द्रव्यवहारो भवन्नपि भ्रान्त एवेत्यपि नैवेत्यर्थः, स्थापना नामादिष्वन्तभूतेति स्थापनाव्यवहारो नामादिव्यवहार एवेत्यपि नास्तीत्याह-नवेति- स्थापनाव्यवहारस्य नामादि. रूपो यः स्थापनायाः प्रतिरक्षः, तद्व्यवहारेण समं साङ्कर्यमपि न, किन्तु नामादिव्यवहारासङ्कीर्ण एव स्थापनाव्यवहार इत्यर्थः । इति एतस्मात् कारणात् । एकं नामादिव्यवहारम् । आद्रियमाणस्य स्वीकुर्वाणस्य । अपरं च स्थापनाव्यवहारं च। परित्यजतः अस्वीकुर्वतः परस्य । केवलं युक्तिरिक्तम् , पुरुषिकामात्रमिति- आश्चर्यकारिस्वपौरुषमात्रप्रकटनम् ॥१०॥ अष्टोत्तरशततमपद्यमवतारयति-ऋजुसूत्रेऽपीति- ऋजुसूत्रनयेऽपीत्यर्थः । ये नव्यतार्किकाः श्रीमन्तः सिद्धसेनदिवाकराः । तम्मतं नव्यानां मतम् । व्याख्यानस्य स्पष्टत्वादनादरणेऽपि प्रतीकं गृह्णाति-ऋजुसूत्रेऽपीति। पदार्थस्य स्पष्टत्वाद् व्याख्यानं नापेक्षितमित्याह- स्पष्टमिति । ननु " तार्किकाणां त्रयो भेदा आद्या द्रव्यार्थतो मताः । सैद्धान्तिकानां चत्वारः पर्यायार्थगताः परे ॥१८॥” इति पद्यव्याख्याने तार्किकानुसारिणस्त्वित्यादिना सिद्धसेनदिवाकरमतोपवर्णने 'जुसूत्रो यदि द्रव्यं नाभ्युपेयात् तथा उक्तम् “ उजुसूयस्स एगे अणुवउत्ते एगं दवावस्सयं पुहुत्ते णेच्छइ" [ ] इति सूत्रं विरुध्येत' इति सैद्धान्तिकाक्षेपस्य प्रतिविधानमित्थम्-' उक्तसूत्रं त्वनुपयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्यपदोपचारात् समाधेयम् ' इति ग्रन्थेन द्रव्यावश्यकसूत्रगी नव्यतार्किकमतानुसारिभियाख्यातैवेति व्याख्येया तैरित्युत्तरार्द्धसङ्गमनं कथमित्यपेक्षायामाह-व्याख्याप्रकारश्चेति - द्रव्यावश्यकसूत्रवचनप्रकारश्चेत्यर्थः । अत्र नयोपदेशवृत्तौ। कथमित्यनेन कथमिति वचनेन, अस्य 'व्यज्यते' इत्यनेन सम्बन्धः । तथा नास्था यथा नव्यानुसारिभिव्याख्यातं तथा म्याख्याने नादरः ॥१०८॥ Page #365 -------------------------------------------------------------------------- ________________ २९४ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । अत एवोक्ता निक्षेप-नययोजनां सम्प्रदायशुद्धिमनुरुध्य निगमयन्नाह तस्माद् यथोक्तनिक्षेपविभागो भाष्यसम्मतः । इतीयं मुहुरालोच्या, निक्षेप-नययोजना ॥ ॥ १०९ ॥ नयामृत-तस्मादिति । स्पष्टम् ॥ १०९॥ उक्ता निक्षेप-नययोजना । अथ दर्शन-नययोजनामभिघित्सुराह जातमित्यादिना जातं द्रव्यार्थिकाच्छद्धाद, दर्शनं ब्रह्मवादिनाम् । तत्रैके शब्दसन्मानं, चित्सन्मानं परे जगुः ॥ ११० ॥ नयामृत-शुद्धाद् द्रव्यास्तिकाद् ब्रह्मवादिनां दर्शनं जातम् , तदाह वादी-" दवट्ठियणयपयडी सुद्धा संगहपरूवणाविसउ" [ सम्मतिकाण्डगाथा- त्ति, तत्रै ब्रह्मवादिनः शब्दसन्मात्रमिच्छन्ति, अन्ये च चित्सन्मात्रम् । तत्राद्यमतावलम्बी शब्दस्वभावं ब्रह्म सर्वेषां शब्दानां सर्वेषां चार्थानां प्रकृतिरित्यभ्युपैति, तदाह तदभियुक्तो भर्तृहरिः" अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो.यतः ॥ १॥" ] इति । अस्यार्थः-' आदिः-उत्पादः, निधनं-विनाशः, तदभावादनादिनिधनं ब्रह्म, शब्दतत्त्वं-शब्दात्मनवोत्तरशततमपद्यमवतारयति- अत एवेति- साम्प्रदायिकानां सम्प्रदायविरोधाद् भयभीतत्वादेवेत्यर्थः । उक्ताम् अनन्तरमेव व्यावर्णिताम् । स्पष्टत्वाद् व्याख्यानस्याकरणीयत्वेऽपि पूर्वापरपद्यव्याख्यानसन्दर्भेकीकरणार्थ प्रतीकं गृह्णाति-तस्मा दितीति । पदार्थस्य सुगमावबोधान्न व्याख्यानापेक्षेत्याशयेनाह- स्पष्टमिति ॥१०९॥ दशोत्तरशततमपद्यमवतारयति-- उक्तति- येन नयेन यस्य निक्षेपस्याभ्युपगमस्तेन नयेन तस्य निक्षेपस्याभ्युपगमोपदर्शनलक्षणा निक्षेपनययोजनाऽभिहितेत्यर्थः । अथ निक्षेपनययोजनाभिधानानन्तरम् । दर्शन-नययोजनाम् अनेन नयेनास्य दर्शनस्य प्रवृत्तिरित्येवंस्वरूपां दर्शन-नययोजनाम् । अभिधित्सुः वक्तुमिच्छुर्मूलकारः । आह कथयति । विवृणोतिशुद्धादिति । द्रव्यार्थिकादित्यस्य विवरणं-द्रव्यास्तिकादिति । शुद्धद्रव्यास्तिकसङ्ग्रहनयप्रसूतं ब्रह्मवादिदर्शनमित्यत्र सम्मतिकृतो वचनं प्रमाणयति- तदाहेति । वादी श्रीसिद्धसेनदिवाकरः। दवट्रियं इति- “द्रव्यार्थिकनयप्रकृतिः शुद्धा सहप्ररूपणाविषयः" इति संस्कृतम् । तत्र सङ्ग्रहनयावलम्बनप्ररूपणप्रवृत्तानां ब्रह्मवादिनां मध्ये । अन्ये च शब्द. सन्मात्राभ्युपगन्तृब्रह्मवादिभिन्ना ब्रह्मवादिनः पुनः । तत्र शब्दसन्मात्राभ्युपगन्तृ-चित्सन्मात्राभ्युपगन्तृब्रह्मवादिनोर्मध्ये । आद्यमतावलम्बी शब्दसन्मात्राभ्युपगन्तृब्रह्मवादिमतावलम्बी, अस्य ' अभ्युपैति' इत्यनेनान्वयः । शब्दस्वभावमितिसर्वेषां शब्दानां सर्वेषां चार्थानां प्रकृतिः-मूलकारणं शब्दस्वभाव- शब्दात्मकं ब्रह्मेत्येवमभ्युपैति-स्वीकरोति, शब्दसन्मात्राभ्युपगन्तृब्रह्मवादिमतावलम्बीत्यर्थः। उक्तार्थे भर्तृहरिवचनं प्रमाणयति- तदाहेति । तदभियुक्तः शब्दसन्मात्राभ्युपगन्तृब्रह्मवादिमतावलम्बिनामाप्तः। अस्यार्थः अनन्तरमभिहितस्य " अनादिनिधनम्" इत्यादिपद्यस्यार्थः, उपदर्यत इति शेषः। आदिश्च निधनं चादिनिधने, न विद्यते आदिनिधने यस्य तदनादि निधनमिति समासः, तदर्थ प्रत्येकसमासघटकपदार्थकथनद्वारा स्पष्टयति- आदिरिति । तदभावात् उत्पादविनाशयोरभावात् । शब्दतत्त्वमित्यस्य विवरणंशब्दात्मकमिति । वैखरो-मध्यमा-पश्यन्तीभेदेन शब्दस्य त्रैविध्यम्, तत्र वैखरी स्पष्टा, यतो व्यवहारप्रवृत्तिः, मध्यमाsन्तर्गता, याऽन्तर्मुखजल्पाकारा नोच्चारणपथमुपगच्छति, अथापि किञ्चिद् विचारयति पुरुषस्तत्र सर्वत्र ज्ञानस्वरूपसन्निविष्टा, पश्यन्ती त्वत्यन्तसूक्ष्मा निर्विकल्पकज्ञानस्वरूपसन्निविष्टा, इत्थं त्रिविधेन शब्देन प्रत्येकं सर्वार्थव्यापनाद् व्यापकस्य ब्रह्मणस्तत्स्वरूपत्वमुपपद्यतेतरामित्याशयेनाह- वैखर्यात्मकशब्देनैवेति- सर्वेऽप्यर्थाः शब्देनोल्लिख्यामानाः सन्त एव व्यव Page #366 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः। २९५ कम् , वैखर्यात्मककब्देनैव सर्वोल्लेखान्मध्यमाख्यशब्दसंसृष्टसविकल्पकज्ञानेनैव सर्वार्थग्रहणात् पश्यन्त्याख्यशुद्धशब्दात्मकज्ञानेनैव चाखण्डैकस्वरूपनिश्चयात् सर्वत्रानुस्यूतत्वात् सर्वोपादानत्वाच्च शब्दतत्त्वमखण्डं ब्रह्मेत्यर्थः । एतदेवाह-यदक्षरम्-अकारादि, एतेनाभिधानरूपो विवर्तो दर्शितः । तथा यत् 'अर्थभावेन' तद् विवर्त्तते, एतेनाभिधेयरूपो विवत्तों दर्शितः। तथा यतो जगतः प्रक्रिया-प्रतिनियता व्यवस्था, भेदानां सङ्कीर्तनमेतदिति । अयं च वर्णक्रमरूपो वेदस्तदधिगमोपायः, प्रतिच्छन्दकन्यायेन तस्यावस्थितत्वात् , तञ्च परब्रह्माऽभ्युदय-निःश्रेयसफलधर्मानुगृहीतान्तःकरणैरवगम्यते, अन्यैस्तु प्रयोगादव. गम्यते, 'शब्द एव जगतस्तत्त्वम् , तद्वाऽऽप्यबाध्यमानत्वात् , अहिरज्जुवत्, ग्रामारामादयः शब्दा. हृतिधुरां दधतीति सर्वार्थोल्लेखशेखरत्वेन वैखर्याः सर्वार्थव्यापकत्वम् । मध्यमाख्येति- मध्यमासंज्ञको यः शब्दस्तेन संस्पृष्टंतादात्म्येन संबद्धं यत् सविल्पकज्ञानं तेनैव सर्वार्थग्रहणादित्यर्थः, न खल्वर्थमज्ञात्वैव परार्थ शब्दमुच्चारयति सोऽपि पुरुष इति: शब्दोच्चारणार्थ तदर्थज्ञानमपेक्षितम् , निर्विकल्पकं चार्थज्ञानं न शब्दोच्चारणायालमिति सविकल्पज्ञानमेव तदर्थमावश्यकम्, तच्च मध्यमाख्यशब्दसंस्पृष्टमेवेत्येवं सर्वार्थग्रहणपटिष्ठसविकल्पकज्ञानस्वरूपसन्निविष्टत्वान्मध्यमाख्यशब्दस्य सर्वार्थव्यापकत्वम् । पश्यन्त्याख्येति-पश्यन्तीसंज्ञको यः शुद्धशब्द:- आनुपादिलक्षणाशुद्धिरहितत्वाच्छुद्धत्वम् , तदात्मकज्ञानेनैव पुन: अखण्डैकस्वरूपस्य ब्रह्मणो निश्चयादखण्डकब्रह्मस्वरूपमेव सर्व वस्तु परमार्थत इति सर्वस्यापि तदात्मनः पश्यन्त्याख्यशुद्धशब्दात्मकज्ञानेनैव निश्चयादिति तद्द्वारा पश्यन्त्याख्यशब्दस्यापि सर्वव्यापकत्वम् । एवं च शब्दतत्त्वस्य, सर्वत्र सर्वस्मिन्नर्थे, अनु स्यूतत्वात् अनुगतत्वात् , सर्वोपादानत्वाच्च सर्वस्य वस्तुनस्तत एवोद्भूतत्वेन सर्ववस्तुन उपादानत्वाच्च, अखण्डं ब्रह्म सर्वत्रानुस्यूतं सर्वोपादानं च, शब्दतत्त्वमपि तथेति नैकस्योपादानद्वयमतो यदेव ब्रह्म सर्वानुस्यूतं सर्वोपादानं च तदेव शब्दतत्त्वमिति शब्दतत्त्वमखण्डं ब्रह्म, इति एवंस्वरूपः, अर्थः अनादिनिधनं ब्रह्म शब्दतत्त्वमित्यस्यार्थः। एतदेव ब्रह्म शब्दतत्त्वमेव, आह कथयति । यदक्षरं यत् शब्दतत्त्वं ब्रह्म, अक्षरमित्यस्य विवरणम्- अकारादीति । एतेन यदक्षरमित्यनेन शब्दतत्त्वं ब्रह्मैवाकाराद्यक्षररूपेण निवर्तत इति अकाराद्यक्षरात्मकाभिधानलक्षणो विवर्तः शब्दतत्त्वात्मकब्रह्मणो दर्शित आवेदितः । यत् शब्दतत्त्वं ब्रह्म, तत् तदेव, अर्थभावेन अर्थात्मना, विवर्तते परिमणते । एतेन विवर्ततेऽर्थभावेनेत्यनेन । यतः शब्दतत्त्वात्मब्रह्मणः सकाशात् । प्रक्रियेत्यस्य विवरणम् - प्रतिनियता व्यवस्थेति । एतत्कथनप्रयोजनं दर्शयति-भेदा. नामिति- विशेषाणामित्यर्थः । सङ्कीर्तनं कथनम् । एतत् प्रक्रिया जगतो यत इति वचनम् । शब्दतत्त्वात्मकब्रह्मणोऽवगमे क उपाय इत्यपेक्षायामाह- अयं चेति- इदानीन्तनरस्माभिरपि प्रत्यक्षेण गोचरीक्रियमाणश्चेत्यर्थः । वर्णक्रमरूपः आनुपूर्वीविशेषविशिष्टवर्णसमुदायात्मकः। तदधिगमोपायः शब्दतत्त्वात्मकब्रह्माधिगमनिबन्धनम् । कथं वेदस्तदधिगमोपाय इत्याकाङ्खायामाह-प्रतिच्छन्दकन्यायेनेति-बिम्ब-प्रतिबिम्बन्यायेनेत्यर्थः । तस्य वेदस्य, प्रतिबिम्ब न बिम्बातिरिकं वस्तुभूतं तथापि बिम्बस्य वस्तुनो ज्ञापकं भवति, प्रतिबिम्बस्य बिम्बमन्तरेणानुपपत्तेः, एवं वेदोऽपि शब्दतत्त्वात्मकब्रह्मणो बिम्बस्थानीयस्य प्रतिबिम्बस्थानीय एवेति भवति तदधिगमसाधनभित्याशयः । किं तदधिगमोपायेन वेदेन सर्वैरेव वेदार्थाभिः शब्दतत्त्वात्मकं ब्रह्माधिगम्यते ? किं वा तत्रापि विशिष्टरेव कैश्चिदित्यपेक्षायामाह-तच्च परमब्रह्मेति- शब्दतत्त्वात्मकपरमब्रह्म पुनरित्यर्थः, अस्य ‘अवगम्यते' इत्यनेनान्वयः। अभ्युदयोति- अभ्युदयः- स्वर्गादिः, निःश्रेयसं- मोक्षः, अभ्युदय-निःश्रेयसान्यतरत् फलं यस्य सोऽभ्युदय निःश्रेयसफलः, एवम्भूतो यो धर्म:- शमदमादिलक्षणः, योगाभ्यासजनितपुण्यविशेषो वा, तेनानुगृहीतं- तत्सम्बन्धात् पूतम्, अन्तःकरणं-हृदयं येषां तैरभ्युदय-निःश्रेयसफलधर्मानुगृहीतान्तःकरणैः, कैश्रिदेव महात्मभिः शब्दतत्त्वात्मकपरमब्रह्मावगम्यत इत्यर्थः । अन्यैस्तु अभ्युदयनिःश्रेयसफलधर्मानुगृहीतान्तःकरणभिन्नैः पुरुषैः पुनः । प्रयोगात् प्रकृष्टयोगात् , अथवा परार्थानुमानस्वरूपत्र्यवयवोपपन्नवाक्यप्रयोगात् , अवगम्यते शब्दतत्त्वात्मकपरमब्रह्म ज्ञायते । परार्थानुमानात्मकवाक्यप्रयोगस्वरूपो द्वितीयपक्ष एवात्राभिप्रेत इति स एवोपदयते-शब्द एवेति- शब्द एव जगतस्तत्त्वमिति प्रतिज्ञा, तद्बाधेऽप्यबाध्यमानत्वादिति हेतुः, जगतो बाधेऽपि शब्दतत्त्वस्याबाध्यमानत्वादिति तदर्थः, अहिरज्जवदिति दृष्टान्तवचनम् , अत्र यद् यद्बाधेऽप्यबाध्यमानं तदेव तत्त्वं यथा अहेर्बाधेऽपि रज्जुरबाध्यमाना तत्त्वमित्युदाहरणस्वरूपम् । प्रयोगान्तरमाह-ग्रामा-ऽऽरामादय इति-प्रामा-ऽऽरामादयः शब्दात्मका इति प्रतिज्ञा, तदाकारानुस्यूतत्वादिति हेतुः, Page #367 -------------------------------------------------------------------------- ________________ २९६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । त्मकाः, तदाकारानुस्यूतत्वात्, सुवर्णात्मककुण्डलादिवद्' इत्यादितः शब्दब्रह्मसाम्राज्यसिद्धेः । न च प्रमाणाधीना प्रमेयव्यवस्था, प्रमाणं च चिदात्मकमेवानुभूयत इति तत्र शब्दरूपत्वासिद्धिः, निराकारस्य ज्ञानस्यार्थाप्राहकत्वेन व्यवहारेऽनाश्रयणीयत्वात्, साकारस्य च तस्य वागूरूपतां विना असम्भवात्, तदुक्तम्— वागूरूपता चेद् व्युत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ १ ॥ ] इति । 39 [ अत एव शब्दार्थसम्बन्धो वैयाकर्णैरभेदेनैव प्रतिपादितः, युक्तं चैतत् कथमन्यथा अदृष्टदशरथादीनामिदानीन्तानानां दशरथादिपदाच्छाब्दबोधः ? शुद्धदशरथत्वादिनोपस्थितेस्तत्रा सम्भावनीयत्वात् ग्रामा-ऽऽरामादीनां शब्दाकारेणानुस्यूतत्वादिति तदर्थः, सुवर्णात्मककुण्डलादिवदिति दृष्टान्तवचनम् अत्र यद् यदाकारानुस्यूतं तत् तदात्मकं यथा कुण्डलादिकं सुवर्णाकारानुस्यूतं सुवर्णात्मकमिति उदाहरणप्रयोगः । इत्यादितः इत्याद्यनुमानप्रयोगतः । शब्दब्रह्मसाम्राज्यसिद्धेः सर्वस्य वस्तुनः शब्दत स्वात्मकब्रह्मात्मकत्वसिद्धेः । ज्ञानभिन्नस्य सर्वस्य प्रमेयस्य ज्ञानात्मकप्रमाणेन शब्दतत्त्वात्मकत्वसिद्धेः सम्भवेऽपि ज्ञानात्मकस्य प्रमाणस्य चिदात्मकत्वेनैव स्वसंवेदन प्रत्यक्षेणानुभूयमानस्य प्रत्यक्षवावान्न शब्दत स्वात्मकत्वसिद्धिरित्याशङ्कां प्रतिक्षिपति न चेति इदं शब्दात्मकमिदं वा ज्ञानात्मकं ब्रह्मात्मकं वेत्येवं प्रमेयव्यवस्था प्रमाणाधीनैव मन्तव्या, अन्यथा सर्वस्य वस्तुनः परस्परात्मकत्वमपि वाङ्मात्रेण सिद्धयद् व्यवस्था मेवोत्सादयेदिति प्रमाणं चिदात्मकमेवानुभूयते इति तत्र चिदात्मके प्रमाणे शब्दरूपत्वासिद्धिरिति न चेत्यर्थः । निषेधे हेतुमाह - निराकारस्येतिइदमेतदात्मकमिदमेतदात्मकमिति व्यवहारस्वरूपैव प्रमेयव्यवस्था, ज्ञानमपि स्वसंवेदनं चिदात्मकमिति व्यवस्था व्यवहाररूपैव एवं च सर्वोऽपि व्यवहारः साकार ज्ञानादेवार्थग्राहकात् प्रवर्तते न त्वर्थाप्राहकान्निराकारज्ञानात् तस्य स्वसंवेदनेनाप्यननु - भूयमानस्यासिद्धत्वात्, साकारस्य च ज्ञानस्य वाग्रूपतां विनाऽसम्भवादित्यन्यथानुपपत्त्या ज्ञानस्यापि चिदात्मकस्य शब्दे - नानुस्यूतत्वाच्छब्दात्मकत्वं सिद्धिपद्धतिमुपयातीत्यर्थः । ज्ञानस्यापि शब्दरूपत्वे भर्तृहरिवचनं संवादकतयोपदर्शयति - तदुक्त मिति । वाग्रूपतेति चेत् यदि, अवबोधस्य ज्ञानस्य वाग्रूपता शब्दरूपता, शाश्वती सर्वकालिकी स्वाभाविकी, व्युत्क्रामेत् न भवेत्, ताँति शेषः, प्रकाशः अवबोधः, न प्रकाशेत स्वसंवेदनेन नानुभूयेत, हि यतः, सा वाग्रूपता, प्रत्यवमर्शिनी ज्ञानस्वरूपनिश्चयकारिणी, शब्देन ज्ञानस्वरूपोल्लेखमन्तरेण किंस्वरूपं ज्ञानमित्येवावधारयितुं न शक्यत इत्यर्थः । अत एव जगतः शब्दात्मकत्वादेव । शब्दार्थसम्बन्धः शब्दस्यार्थेन समं सम्बन्धः, “वैयाकर्णैः" इत्यस्य स्थाने “ वैयाकरणैः” इति पाठो युक्तः, अभेदेनैव तादात्म्येनैव शब्दार्थयोर्वाच्यवाचकभाव सम्बन्धस्तयोस्तादात्म्या - देव भवतीत्येवं वैयाकरणैः प्रतिपादितः प्रदर्शितः । शब्दार्थयोस्तादात्म्यसम्बन्धस्य युक्त्युपेततां भावयति युकं चैतदिति - वैयाकरणैः शब्दार्थयोस्तादात्म्य सम्बन्ध प्रतिपादनं युक्तमित्यर्थः । कथमित्यस्य शाब्दबोध इत्यनेनान्वयः । अन्यथा शब्दार्थयोस्तादात्म्य सम्बन्धाभावे । अदृष्टदशरथादीनामिति न दृष्टा दशरथादयो यैस्तेऽदृष्टदशरथादयस्तेषामित्यर्थः । दशरथादिसमानकालीना अपि दूरदेशाद्यवस्थानादिना कतिपये अदृष्टदशरथादयः सम्भवन्ति तथाऽपि येषां कथञ्चिदपि न दशरथादिदर्शनं सम्भवति तेषां सुगम व गतिनिमित्तमुक्तम् इदानीन्तनानामिति ऐदंयुगीनानां प्रमातॄणामित्यर्थः । दशरथादिपदात् कथमिदानीन्तनानां शाब्दबोधो न भवेच्छन्दार्थयोस्तादात्म्य सम्बन्धाभावे इत्यपेक्षायामाह - शुद्धेति - अन्यधर्मानवच्छिन्नेत्यर्थः तेन मेयत्वधर्मावच्छिन्नदशरथत्वादिनोपस्थितिसम्भवेऽपि न क्षतिः । तत्र अदृष्टदशरथादिष्विदानीन्तनेषु । शुद्धदशरथत्वादिनोपस्थितेस्तत्र कथमसम्भावनीयत्वमित्याकाङ्क्षायामाह - तथेति - शुद्धदशरथत्वादिनेत्यर्थः । 66 'पूर्वक " इत्यस्य स्थाने " पूर्व" इति पाठो युक्तः येषां निरवच्छिन्नदशरथत्वादिप्रकारक दर्शनात्मानुभवो नास्ति तेषां दशरथादिपदं निरवच्छिन्नदशरथत्वादिविशिष्टे शक्तमिति शक्तिप्रहो न सम्भवति, शक्त्यनुभवाभावे शक्तिस्मरणमपि न सम्भवति, अनुभवस्य स्मरणं प्रति कारणत्वात् तथाविधशक्तिग्रहाभावे दशरथादिपदान्निरवच्छिन्न दशरथादिप्रका रकस्मरणं न सम्भवति, तत् प्रति संस्कारद्वारा कारणस्य निरवच्छिन्नदशरथत्वादिप्रकार कानुभवस्य निरवच्छिन्नदशरथत्वादिविशिष्टे दशरथादिपदशक्तिप्रहस्य चाभावादिति नेदानीन्तनामामदृष्टदशरथादीनां दशरथादिपदान्निरवच्छिन्नदशरथत्वादिप्रकारकशाब्दबोधस्य सम्भवः, शब्दाऽर्थयोस्तादात्म्य सम्बन्धाभावे इत्यर्थः । यद्यपीदानीन्तनानामपि दशरथादिपदं प्रमेयविशिष्ठे 66 Page #368 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। २९७ तथा पूर्वकमनुभवाभावात् , प्रमेयत्वादिना दशरथत्वादिप्रकारकोपस्थितौ च ततः प्रमेयवानित्याकारक. बोधस्यैव सम्भवात् , न च, प्रमेयवानित्याकारकसंस्कारात् प्रमेयत्वांशे उद्बोधकरहिता(तत्वा)च्छुद्धदशरथत्वादिप्रकारकस्मरणोपपत्तिः, तत्प्रकारकस्मृतौ तत्प्रकारकानुभवत्वेनैव हेतुत्वादिति वाच्यम् , अन्वयव्यतिरेकाभ्यां शुद्धतत्प्रकारकस्मृति प्रति शुद्धतत्प्रकारकानुभवत्वेनैव हेतुत्वसिद्धेः, न च प्रमेयाभाववदित्यादिज्ञानात् संसर्गविधया शुद्धदशरथत्वादिस्वरूपप्रतियोगित्वलक्षणसम्बन्धविषयकात् ज्ञानलक्षणप्रत्यासत्तेः शुद्धदशरथत्वादिप्रकारको मानसानुभवः सुलभः, सर्वज्ञापत्तिभिया सांसर्गिकज्ञानस्यानुपनायकत्वस्वीकारात् । तस्मादत्र दशरथपदवाच्यत्ववति दशरथपदवृत्तिप्रकारकज्ञानाद् यथा दशरथपदवाच्यत्वेन शकमिति शक्तिग्रहः प्रमेयत्वेन रूपेण दशरथत्वादिप्रकारकानुभवतः सम्भवति, तेन च शक्तिप्रहेण प्रमेयत्वादिना दशरथत्वादिप्रकारकोपस्थितिरपि दशरथादिपदाद् भवितुमर्हति तथापि तथोपस्थितितः प्रमेयवानित्याकारक एव शाब्दबोधः प्रमेयत्वेन दशरथत्वादिप्रकारको भवेन्न तु दशरथादिरित्याकारकः शुद्धदशरथत्वादिप्रकारकः शान्दबोध इत्याह-प्रमेयत्वादिनेति। ततः प्रमेयत्वादिना दशरथत्वादिप्रकारकोपस्थितिद्वारा दशरथादिपदात् । ननु प्रमेयत्वादिना दशरथत्वादविशिष्टेऽनुभूते दशरथादिपदानां शक्तिग्रहेऽपि तदनुभवाहितात् प्रमेयवानित्याकारकसंस्कारात् प्रमेयत्वांशे उद्बोधकरहितात् प्रमेयत्वं परित्यज्य शुद्धदशरथत्वादिप्रकारकस्मरणं सम्भवति, तदात्मकोपस्थितिद्वारा दशरथादिपदाच्छुद्धदशरथत्वादिप्रकारकशाब्द. बोधोऽपि सम्भवत्येव, अनुभव-स्मरणयोः समानप्रकारकत्वेनैव कार्यकारणभाव उपेयत इति दशरथत्वादिप्रकारकस्मरणं प्रति दशरथत्वादिप्रकारकोऽनुभवः कारणम् , न तु शुद्धदशरथत्वादिप्रकारकस्मरणं प्रति शुद्धदशरथत्वादिप्रकारकोऽनुभवः कारणमित्येवं प्रकारांशे शुद्धत्वादिकमपिं निवेश्यते, एवं च प्रमेवत्वेन दशरथादिविशिष्टानुभवोऽपि दशरथत्वादिप्रकारकानुभवो भवत्येवेति ततः शुद्धदशरथत्वादिप्रकारकस्मरणस्य दशरथत्वादिप्रकारकस्मरणलक्षणोक्तानुभवकार्यतावच्छेदकधर्माकान्तस्योदयः सम्भवतीत्युक्तस्मरणलक्षणोपस्थितिद्वारा दशरथादिपदाच्छुद्धदशरथत्वादिप्रकारकः शाब्दबोधः स्यादेवेत्याशय प्रतिक्षिपतिन चेति-अस्य वाच्यमित्यनेनान्वयः। निषेधे हेतुमाह- अन्वय-व्यतिरेकाभ्यामिति-शुद्धतत्प्रकारकानुभवसत्त्वे शुद्धतत्प्रकारकस्मरणं शुद्धतत्प्रकारकानुभवाभावे शुद्धतत्प्रकारकस्मरणाभाव इत्यन्वय-व्यतिरेकाभ्यामित्यर्थः, एवं च शुद्धदशरथत्वादिप्रकारकानुभवाभावाच्छुद्धदशरथत्वादिप्रकारकस्मरणलक्षोपस्थित्यनुत्पत्त्या न दशरथादिपदाच्छुद्धदशरथत्वादिप्रकारकशाब्दबोधो भवेदित्यर्थः । ननु प्रमेयाभाववदित्यादिज्ञानं शुद्धदशरथत्वाद्यवच्छिन्न प्रतियोगितासम्बन्धेन प्रमेयप्रकारकाभावविशेष्यकज्ञानरूपमपि सम्भवति, तस्मादेव च ज्ञानलक्षणप्रत्यासत्तिलक्षणालौकिकसन्निकर्षान्मनोरूपेन्द्रियेणेदानीन्तनानामपि शुद्धदशरथत्वादिप्रकारकालौकिकप्रत्यक्षात्मकानुभवो भविष्यति, तदनुभवतश्च शुद्धदशरथत्वादिप्रकारकस्मरणमपि भवितुमर्हति, तदात्मकोपस्थितिद्वारा दशरथादिपदाच्छुद्धदशरथत्वादिप्रकारकशाब्दबोधोऽपि भविष्यतीत्याशङ्कां प्रतिक्षिपति-न चेति । यदि चान्वयितावच्छेदकावच्छिन्न प्रतियोगितैव संसर्गविधया भासत इति दशरथत्वादिकं नान्वयितावच्छेदकमिति न तदवच्छिन्नप्रतियोगितायाः संसर्गविधया भानमिति विभाव्यते तदापि प्रमेयत्वेन दशरथादेरप्यभावेऽन्वय इति प्रतियोगिनो दशरथादेदशरथत्वादिस्वरूपमेव प्रतियोगित्वं संसर्ग इत्येतावताऽपि संसर्गविधया दशरथत्वादिखरूपप्रतियोगितालक्षणसंसर्गज्ञानरूपं तज्ज्ञानलक्षणविधया दशरथत्वाद्यलौकिकमानसप्रत्यक्षकारणं भविष्यतीति बोध्यम् , एवं सति प्रमेयाभाववदित्यादिज्ञाने धर्ममात्रखरूपप्रतियोगित्वस्य संसर्गविधया भानसम्भवेन तज्ज्ञानस्य ज्ञानलक्षणप्रत्यासत्तिविधया निरवच्छिन्नधर्ममात्रप्रकारकालौकिकमानसप्रत्यक्षकारणत्वसम्भवेन ततः सर्वज्ञानसम्भवतः सर्वज्ञत्वापत्तिरेव प्रसज्यत इति तद्भिया संसर्गविधया ज्ञानस्य न ज्ञानलक्षणप्रत्यासत्तिविधया कारणत्वमित्येव स्वीकरणीयमिति निषेधहेतुमुपदर्शयति-सर्वज्ञापत्तिभियेति-अत्र सार्वक्यापत्तिभियेति पाठो युक्तः। अनुपनायकत्वं ज्ञानलक्षणप्रत्यासत्तिविधया भानाप्रयोजकत्वम् । शब्दा-ऽर्थयोस्तादात्म्ये सत्येव सम्बन्ध इति प्रतिज्ञातमुपसंहरति - तस्मादिति। अत्र दशरथादिपदस्थले। दशरथपदवाच्यत्ववतीत्यत्र सप्तम्यर्थो विशेष्यत्वम् , तस्य निरूपकतासम्बन्धेन ज्ञानेऽन्वयः, तथा च दशरथपदवाच्यत्ववनिष्ठविशेष्यतानिरूपकदशरथपद ३८ Page #369 -------------------------------------------------------------------------- ________________ २९८ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। वाच्यतासम्बन्धेन दशरथपदत्वेन वा शाब्दबोधः स्वीकर्तव्यः, तथा तुल्यन्यायात् सर्वत्रापीति शब्दानु. भवोऽप्यर्थस्य शब्दात्मकत्व एव साक्षीति । न चानवगतचित्तोऽपि रूपं चक्षुषा वीक्षमाणोऽभिलापासंसृष्टमेव विषयीकरोतीति नीलादेरशब्दात्मकत्वसिद्धिः. शब्दासंसृष्टार्थानुभवस्य ज्ञानवादिना ज्ञानाभावकाल इव शब्दवादिना शब्दाभावकाले बाह्यार्थस्यैवानुभ्युपगमेन शब्दातिरिक्तबाह्यासिद्धेः, बाह्यत्वनियतदेशवृत्तित्वादि च घटादावविद्यावशादेव भासत इति न तत्तदाकारैः शब्दब्रह्मभेदसिद्धिः, तदुक्तम्" यथा विशुद्धाकाशं तिमिरोपप्लुतो जनः । संकीर्णमिव मात्राभिश्चित्राभिरभिमन्यते ॥ १ ॥ तथैदममलं ब्रह्म निर्विकल्पमविद्यया । कलुषत्वमिवापन्नं भेदरूपं विवर्तते ॥ २॥" इति । यदि वा प्रामा-ऽऽरामादिप्रपञ्चो व्यवहारसत्यः स्वीक्रियते, ताहग्वैलक्षण्यानुभावात् , तदाऽविद्या प्रतियोगिकशक्तिलक्षणान्यतरसम्बन्धनिष्टप्रकारतानिरूपकज्ञानाद् दशरथपदाद् दशरथपदवाच्यत्वेन रूपेण वाच्यतासम्बन्धेन दशरथपदवत्त्वेन रूपेण वा दशरथस्य बोधो यथा स्वीकर्तव्यो भवति तथा तुल्यन्यायात् सर्वत्र घट-पटादिस्थलेऽपि घटादिपदवाच्यत्ववति घटादिपदवृत्तिप्रकारकज्ञानाद् घटादिपदवाच्यत्वेन रूपेण वाच्यतासम्बन्धेन घटादिपदवत्त्वेन घटादेः शाब्दबोधो घटादिपदादभ्युपगन्तव्य इत्येवं शाब्दबोधः शन्दानुभवरूपः सन्नर्थस्य शब्दात्मकत्वे साक्षी भवत्येवेत्यर्थः, दशरथपदत्वेनेत्यस्य स्थाने दशरथपदवत्त्वेनेति पाठो युक्तः। अत्र पराशङ्कामुत्थाप्यापहस्तयति-न चेति । अनवगतचित्तोऽपीति-चक्षुषा नीलादिरूपसाक्षात्कारे ज्ञानस्य भानं ज्ञानलक्षणालौकिकप्रत्यासत्त्यैवेति ज्ञानस्य ज्ञाने सत्येव चक्षुषा नीलादिज्ञाने तद्भानं भवितुमर्हति, यश्च प्रमाताऽनवगतचित्तोऽज्ञातज्ञान:- नीलादिवीक्षणाव्यवहितपूर्वसमये ज्ञानज्ञानशून्यः सोऽपि, रूपं चक्षुषा वीक्षमाणः पश्यन् सन् । अभिलापासंसृष्टमेव नीलं विषयीकरोति अभिलापासंसृष्टनीलादिविषयकदर्शनवानेव सः, इति एतस्मात् कारणान्नीलादेरशब्दात्मकत्वसिद्धिरिति न चेत्यर्थः । अत्र हेतुमुपदर्शयति-शब्दासंसृष्टार्थानुभवस्येति- अस्य 'अनभ्युपगमेन' इत्यनेन सम्बन्धः, ज्ञानवादिना ज्ञानाभावकाले इव बाह्यार्थस्येव शब्दवादिना शब्दाभावकाले शब्दासंसृष्टार्थानुभवस्यानभ्युपगमेन शब्दातिरिक्तग्राह्यार्थासिद्धरित्यन्वयः, "बाह्यार्थस्यैवानभ्युपगमेन" इत्यस्य स्थाने "बाह्यार्थस्येवाभ्युपगमेन" इति पाठः सम्यक्, ज्ञानाद्वैतवादिना यथा ज्ञानाभावकाले बाह्यार्थो नाभ्युपगम्यते बाह्यार्थस्य ज्ञानाकारव्यतिरिक्तस्याभावेन ज्ञानाभावकाले तदभावस्य न्यायप्राप्तत्वात् तथा शब्दाद्वैतवादिना शब्दाभावकाले शब्दासंसृष्टार्थानुभवो नाभ्युपगम्यते, सर्वस्यार्थस्य शब्दात्मकतया शब्दतत्त्वव्यतिरिकस्यार्थ. स्याभावेन शब्दाभावकाले तदनुभवाभावस्यापि न्यायप्राप्तत्वात् , एवं च नीलादिशब्दासंसृष्टस्य नीलाद्यर्थस्याभावेन ज्ञानेन तद्विषयीकरणस्याप्यसम्भवेन ततो नीलादेरशब्दात्मकत्वसिद्धयसम्भवादित्यर्थः । ननु यदि ज्ञान-शब्दव्यतिरिक्तो बाह्यार्थो नास्ति तर्हि बाह्यत्वप्रतिनियतदेशवृत्तित्वादिकं धर्म्यभावात् कथं भासेतेत्याकाङ्क्षायामाह-बाह्यत्वेति । तत्तदाकारैः घटपटादिप्रतिनियतबाह्याकारैः। उक्तार्थे ब्रह्मवादिवचनसंवादमाह-तदुक्तमिति । यथेत्यादिपद्यद्वयं स्पष्टार्थम् । वा अथवा, सत्त्वं द्विविधं- व्यावहारिकसत्त्वं पारमार्थिकसत्त्वं च, तत्र पारमार्थिकसत्त्वं शब्दब्रह्मणः, तस्य त्रिकालाबाध्यत्वात् , व्यावहारिकसत्त्वं शब्दब्रह्मातिरिक्तस्याशेषस्यैव जगतः, तस्य व्यवहारकाले बाधाभावेऽप्युत्तरकाले शब्दब्रह्मसाक्षात्कारेण बाध्यमानत्वात् , प्रातीतिकसत्त्वस्याप्यतिरिक्तस्य शुक्तिरजतादौ कस्यचिदभ्युपगमस्तन्मते- ब्रह्मज्ञानातिरिकज्ञानाबाध्यत्वं व्यावहारिकसत्त्वम्, ब्रह्मज्ञानातिरिक्तज्ञानबाध्यत्वे सति प्रतीयमानत्वं प्रातीतिकसत्त्वमिति व्यावहारिक-प्रातीतिकसत्त्वयोविवेकः, तयोर्न मेद इति पक्षे तु बाध्यत्वे सति प्रतीयमानत्वमेव व्यावहारिकसत्त्वमित्याशयेनाह-ग्रामा-ऽऽरामादि. प्रपञ्च इति । कथं प्रामारामादिप्रपञ्चो व्यवहारसत्य उपेयत इत्यपेक्षायामाह- ताहर ण्यानुभवादिति- सर्वथाऽसत्यत्वे यद् प्रामारामादीनां वैलक्षण्यमनुभूयते तन्न स्यात्, निरुपाख्यस्य- सकलधर्मविनिर्मुक्तस्य किञ्चिद्धर्मविशिष्टतया प्रतीयमानत्वस्यैवासम्भवेन परस्परवैलक्षण्यानुभवस्य सम्भावयितुमप्यशक्यत्वादित्याशयः। तदा तदानीम् । अविद्या Page #370 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। २९९ सहायशब्दब्रह्मैव तदुपादानं वाच्यम् , अद्वैतशास्त्रेणाविद्यानिवृत्तौ च तन्मूलप्रपञ्चविगमे शुद्धं शब्दब्रह्मेवावशिष्यते, स एव मोक्ष इति निरवद्यम् । केवलं तस्य शब्दात्मकत्वे शुद्धशब्दत्वादिधर्मवत्त्वम् , निर्धर्मकत्वेऽप्यसदादिव्यावृत्तिवदशब्दादिव्यावृत्त्यैवोपपत्तिरिति संक्षेपः । द्वितीयमतावलम्बिनो वेदान्तिनः, तन्मतेऽखण्डमद्वितीयमानन्दैकरसं स्वप्रकाशं चैतन्यमेव जगतस्तत्त्वम् , अनिर्वचनीयस्यैव सर्पस्य रज्जुः । कथं तर्हि जीवेश्वरविभाग इति चेत् ? अज्ञानरूपादुपाधेः, सहायम् अविद्यासहकृतम् । ब्रह्मैवेत्येवकारेण तदतिरिक्तस्य सर्वस्यैव कल्पितस्योपादानत्वव्यवच्छेदः । तदुपादानं प्रामा-ऽऽरामादिप्रपञ्चस्योपादानम् । अद्वैतशास्त्रेण शब्दब्रह्माद्वैतबोधकवेदान्तवाक्येन, नहि तद्वाक्यमात्रतोऽविद्यानिवृत्तिः सम्भवति तथा सति पूर्वमेवाविद्यानिवृत्तिप्रसनः स्यात् किन्तु शब्दात्मकब्रह्मद्वितसाक्षात्कारादित्यत्र दृश्यम् । तन्मूलप्रपञ्चविगमे अविद्यामूलकस्य प्रपञ्चस्य - प्रामारामादिरूपस्य विलये सति । शुद्धं कल्पितप्रपञ्चरहितम् । शब्दब्रह्मैव शब्दतत्त्वात्मकब्रह्ममात्रम् । अवशिष्यते अवशिष्टं भवति । स एव शुद्धं शब्दतत्त्वात्मकब्रह्ममात्रम् , एवकारेण शब्दब्रह्मातिरिक्तस्य मोक्षखरूपत्वस्य व्यवच्छेदः । केवलं किन्तु। तस्य ब्रह्मणः। अखण्डस्य ब्रह्मणो भिन्नस्य कस्यचिद्धर्मस्याभावाच्छुद्धशब्दत्वादिधर्मोऽपि नास्ति द्वैतापत्तिभयात् तदुपगमोऽपि न शक्यः कर्तुमत आह-निर्धर्मकत्वेऽ. पीति । विधिरूपधर्मस्यातिरिक्तस्याभावादेव निर्धर्मकत्वं ब्रह्मणः, अभावो हि अधिकरणात्मक इत्यसदादिव्यावृत्तिलक्षणस्य सत्त्वादिधर्मस्य ब्रह्मात्मकाधिकरणस्वरूपस्य ब्रह्मणि स्वीकारतो यथा सद् ब्रह्म आनन्दो ब्रह्म ज्ञानं ब्रह्मेति व्यवहारोप. पत्तिस्तथाऽशन्दादिव्यावृत्तिलक्षणस्य शुद्धशब्दत्वादिधर्मस्य ब्रह्मात्मकस्यैव ब्रह्मण्यभ्युपगमेन शब्दतत्त्वं ब्रह्मत्यप्युपपद्यतेतरामित्याह-असदादिव्यावृत्तिवदिति ॥ चित्सन्मानं ब्रह्मेति द्वितीयब्रह्मवादिमतमुपवर्णयितुमाह-द्वितीयेति । शब्दतत्त्वं ब्रह्मेति प्रथमब्रह्मवादिमतावलम्बिनो भर्तृहरिप्रभृतेवैयाकरणत्वस्यावधारितत्वाद् द्वितीयमतावलम्बिनः के इत्याकाडानिवृत्तये वाह-वेदान्तिन इति । तन्मते वेदान्तिमते। अखण्डम् अवयवावयविभाव-देशप्रदेशादिभाव-गुणगुणिभावादिविकलम् । अद्वितीयं स्वभिन्नत्वव्यापकीभूताभावप्रतियोगिपारमार्थिकसत्त्ववत्, एतावता ब्रह्मैव परमार्थसत्, ब्रह्मभिन्नं परमार्थसन्न भवतीति ज्ञापितम् । दुःखैकरूपमप्यद्वितीयं स्यादत आह-आनन्देकरसमिति-आनन्दकस्वभावमित्यर्थः । एवम्भूतं ब्रह्म यदि न प्रमाणविषयस्तर्हि न श्रद्धेयम्, यदि च प्रमाणविषयस्तर्हि तत्प्रमाणं यदि परमार्थसत् तर्हि तदादाय द्वैतापत्तिः, अथ कल्पितं तदा कल्पितेन तेन न परमार्थसद्ब्रह्मसिद्धिरित्यत आह-स्वप्रकाशमिति- तथा च स्वप्रकाशरूपत्वात् स्वसिद्धस्य न प्रमाणान्तराधीना सिद्धिरिति न तत्सिद्धये प्रमाणान्तरमन्वेषणीयमिति । अभेदे विषयविषयिभावाभावात् स्वप्रकाशमित्यस्य स्वविषयकप्रकाशरूपमिति नार्थः, किन्त्वस्वप्रकाशभिन्नमित्येव तदर्थः, कथं ज्ञानानात्मकं तत् स्वप्रकाशं जडस्य स्वप्रकाशत्वासम्भवादत आहचैतन्यमेवेति-तथा च ज्ञानस्वरूपत्वादेव स्वप्रकाशं तदित्यर्थः, एवकारेण तद्भिन्नस्य तत्त्वरूपताव्यवच्छेदः । निरुक्तस्वप्रकाशं ब्रह्म जगतोऽधिष्ठानमतो ब्रह्मैव जगतस्तत्त्वं यद् यस्याधिष्ठानं तत् तस्य तत्त्वमिति व्याप्तेर्निष्टङ्कनाय दृष्टान्तमुपदर्शयति- अनिर्वचनीयस्येति-“अनिर्वचनीयस्यैव" इत्यस्य स्थाने “ अनिर्वचनीयस्येव" इति पाठो युक्तः, अनिर्वचनीयस्य सर्पस्य रज्जुरिवेत्यन्वयः, रजौ अयं सर्प इति यद् भ्रमात्मकं ज्ञानं भवति तद्विषयः सर्पो न देशान्तरीयः, तेन समं च चक्षुषो लौकिकसन्निकर्षाभावात् , ज्ञानलक्षणाऽलौकिकसन्निकर्षस्येन्द्रियप्रत्यासत्तित्वं नाभ्युपेयत एव, किन्तु रज्ज्वज्ञानात् तदानोमेवोत्पन्नोऽनिर्वचनीयः सर्प एव रजौ कलितस्तद्विषयः, स च प्रातीतिकसन्निति गीयते, तस्यानिर्वचनीयस्य सर्पस्याधिष्ठानं रज्जुरेव तत्त्वं कल्पितस्याधिष्ठानसत्तातिरिक्तसत्त्वानभ्युपगमादिति यथा तथा निरुक्कचैतन्यस्वरूपब्रह्मणि कल्पितस्य जगतो ब्रह्मसत्त्वातिरिक्तसत्त्वाभावात् तदेव तत्वमित्यर्थः । पृच्छति-कथमिति । तर्हि यदि निरुक्तचैतन्यव्यतिरिकवस्तुनोऽभावाचैतन्यमेव जगतस्तत्त्वं तदा उत्तरयति-अज्ञानरूपादुपारिति- एकस्यापि चैतन्यस्वरूपस्य ब्रह्मणोऽज्ञानरूपोपाधिसम्बन्धादयं जीवोऽयमीश्वर इति भेदस्वरूपो विभाग इति विभागेनोपाधिकल्पितेन न परमार्थस्य शुद्धचैतन्याद्वैतस्य व्याघात इत्यर्थः । अज्ञानरूपादुपाधेरेकस्य चैतन्यस्य जीवेश्वरविभाग इति यदुक्तं तदेव भावयति Page #371 -------------------------------------------------------------------------- ________________ ३०० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । तथाहि- एकस्यैव मुखस्य दर्पणोपाधिसम्बन्धाद् बिम्बप्रतिबिम्बभावः, एवं चिन्मात्रस्योक्तोपाधिसम्बन्धाजीवेश्वरभावो न तत्त्वान्तरमस्ति । अज्ञानं त्वनाद्यनिर्वचनीयमायाऽविद्यादिशब्दाभिधेयम् , तञ्चैकेनैवोपपत्तावनेककल्पनानवकाशादेकमेवेत्येके । बद्धमुक्तव्यवस्थानिरूपणाय नानेत्यन्ये, तदवस्थानि मूलाज्ञानानि व्यवहारसौकर्याय निरूपयन्ति- तत्रैव माया-ऽविद्याशब्दद्वयनिमित्तं शक्तिद्वयं-विक्षेपशक्तिरावर्णशक्तिश्च, कार्यजननशक्तिर्विक्षेपशक्तिः, तिरोधानशक्तिरावर्णशक्तिः, यथा-अवस्थारूपस्य रज्वज्ञानस्य सर्पजनन. तथाहीत्यादिना । बिम्बप्रतिबिम्बमात्र इति-दर्पणरूपोपाधौ दर्पणगतमालिन्यादिदोषान्मलिनमिव तद्गतमुपलभ्यमानं मुखं प्रतिबिम्बत्वधर्माकान्तत्वादन्यत् तदन्यच्च ग्रीवास्थमेव स्वस्वरूपव्यवस्थितं बिम्बत्वधर्माकान्तम्, दर्पण लक्षणोपाधि. सम्बन्धाभावे च बिम्बप्रतिबिम्बभावानाक्रान्तमेव केवलं मुखमिति यथेत्यर्थः। एवं तथा । उकोपाधिसम्बन्धात् अज्ञानलक्षणोपाधिसम्बन्धात् । न तत्त्वान्तरम् औपाधिकस्य जीवेश्वरविभागस्योपाध्यभावेऽभाव एवेति वस्तुतस्तस्याभावान्न ब्रह्मतत्त्वातिरिकतत्त्वरूपतालक्षणं तत्त्वान्तरत्वमिति न ब्रह्मतत्त्वादन्यत् तत्त्वमस्ति । अज्ञानमिदं न ज्ञानप्रागभावज्ञानात्यन्ताभावरूपं किन्तु तेजोविरोधिभावस्वरूपवज्ज्ञानविरोधिभावस्वरूपमेवाविद्यादिशब्दाभिधेयमित्याह-अज्ञानं विति- अनाद्यनिर्वचनीयं यद् मायाऽविद्यादि तत्प्रतिपादको यो मायाऽविद्यादिशब्दस्तेनाभिधेयमज्ञानमित्यर्थः, अथवा अनादिशब्दोऽनिर्वचनीयशब्दो मायाशब्दोऽविद्याशब्द इत्यादिशब्दाभिधेयमज्ञानं पुनरित्यर्थः । तदज्ञानमेकमने वेति जिज्ञासायामके केचन वेदान्तिमतानुयायिन आचार्या लाघवादेकमेव तदिच्छन्तीति तन्मतमुपदर्शयति- तच्चेति- मायाऽविद्यादिशब्दाभिधेयमज्ञानं पुनरित्यर्थः । एकेनैवाशानेन उपपत्ती अज्ञानबिम्बत्वाकान्तं चैतन्यमीश्वरः, अज्ञानप्रतिबिम्बत्वाकान्तं चैतन्यं जीव इत्येवमीश्वरजीवभेदव्यवस्थित्युपपत्तौ। अनेककल्पनानवकाशात् मायोपाधिकं चैतन्यमीश्वरोऽविद्योपाधिकं चैतन्यं जीव इत्येवमनेकाज्ञानकल्पनायाः प्रयोजनस्य जीवेश्वरविभागस्यान्यथैवोपपत्तावनवकाशात् । एकमेवेत्यत्र तदित्यस्यान्वयः । इति एवम् । एके आचार्या अभ्युपगच्छन्ति । अविद्याशब्दाभिधेयस्य जीवोपाधेरज्ञानस्यैकत्वे तदुपाधिकचैतन्यरूपस्य जीवस्याप्येकत्वमित्येकस्य मुक्तौ तपस्य सर्वजीवस्य मुक्तिरेकस्य बन्धे सर्वस्यापि बन्ध इति एको जीवो बद्धस्तदानीमेवान्यो मुक्त इत्येवं बद्धमुक्तव्यवस्थैकाज्ञानोपाधिवादे दुर्घटेत्यनेकमेवाज्ञानमभ्युपेयमियेवमन्ये वेदान्तिमतानुयायिन आचार्या उररी कुर्वन्तीति तन्मतं दर्शयतिबद्धमुक्तेति । 'अन्ये' इत्यस्यैव निरूपयन्तीत्यनेनान्वयः, तथा च व्यवहारसौकर्याय तदवस्थानि मूलाज्ञानानि निरूपयन्त्यन्ये इत्यन्वयः फलितः। कथं तन्निरूपणमित्याकालायां निरूपणप्रकारमुपदर्शयति-तत्रैवेति-- मूलाज्ञान एवेत्यर्थः । मायेति-मायाशब्दनिमित्तमेकां शक्तिमपरामविद्याशब्दनिमित्तमित्येवं शक्तिद्वयं निरूपयन्तीत्यर्थः। शक्तिद्वयं नाममा दर्शयति-विक्षेपेति-रावणेत्यस्य स्थाने रावरणेति पाठो युक्तः, एवमग्रेऽपि, तथा च अज्ञाने विक्षेपशक्त्या मायाशब्दः प्रवर्तते, आवरणशक्त्या अविद्याशब्दः प्रवर्तते इति । क्रमेण तदुभयखरूपं लक्षयति- कार्येति- अज्ञानं यया शक्त्या - भिनवकार्य जनयति सा कार्यजननशक्तिर्विक्षेपशक्तिरित्यर्थः, यया शक्त्या यथावस्थितवस्तुस्वरूपप्रहणं ज्ञानस्य प्रतिबध्नाति सा तिरोधानशक्तिरावणशक्तिरित्यभिधीयते, आवरणशक्तेरपि असत्त्वापादका-ऽभानापादकशक्तिभ्यां वैविध्यं ग्रन्थान्तरे उपवर्णितम्, तत्र ययाऽज्ञानशक्त्या प्रतिबन्धाद् वस्तुनोऽस्तित्वमपि ग्रहीतुं न पार्यते साऽसत्त्वापादकावरणशक्तिः, वस्तुनः सत्त्वं गृह्णन्नपि पुरुषो ययाऽज्ञानशक्त्या प्रतिबन्धादिदमीग् वस्त्वित्येवं प्रहीतुं न शक्नोति प्रमाता साऽभानापादकावरणशक्तिः, अत्र असत्त्वापादकावरणशक्तिरज्ञानस्य परोक्षज्ञानात् प्रतिरुद्धा भवति विनश्यति वा, तेन वस्तुनः परोक्षज्ञाने जाते सोऽस्तीति सामान्यतोऽस्तित्वं प्रतीयते, स इत्थंस्त्ररूप इति विशेषतो ज्ञानाभावात् कीदृशः स इति जिज्ञासा ततो न निवर्तते, अभानापादकावरणशक्तिस्त्वज्ञानस्यापरोक्षज्ञानात् प्रतिरुद्धा भवति विनश्यति वा, तेन वस्तुनः प्रत्यक्षज्ञाने समुत्पन्ने सतीदं वस्त्वित्थमेवेति विशेषतो ग्रहणं भवति, न तदानीं कीदृगिदमिति जिज्ञासा समुल्लसति, तथा च परोक्षज्ञानतोऽसत्त्वापादकशक्तेरभिभवान्नाशाद् वा वस्त्वस्तीत्येव ज्ञायते, प्रत्यक्षज्ञानतोऽभानापादकशकेरभिभवान्नाशाद् वा वस्तु भातीति ज्ञायते इति विवेकः । निरुक्तशक्तिद्वयमेव दृष्टान्तदान्तिकभावसङ्गमनेन भावयति- यथेति । अवस्थारूपस्य मूलाज्ञानावस्थरूपस्य, तूलाज्ञानपदवाच्यस्येति यावत् , मूलाज्ञानं शुद्धचैतन्यं परमब्रह्मावृणोति, तत्रैव व्यावहारिकसत्त्वाद्याकान्तं भूजलादिकं सजति चेति रज्ज्वज्ञानादिकं च तस्यैवावस्थाविशेषरूपं तूलाज्ञानशब्दाभिधेयं रज्ज्वादिकमावृणोति रज्ज्वादावेव च Page #372 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। ३०१ शतीः रज्जुतिरोधानशक्तिश्च, एवं मूलाज्ञानस्याद्वितीयपूर्णानन्दैकरसचिदावर्णशक्तिराकाशादिप्रपञ्चजननशक्तिश्चेति; निवृत्ते चाज्ञाने तन्निमित्ते च जीवेश्वरादिप्रपञ्चे चिन्मात्रमेव(वाव)शिष्यते, जीवस्त्वज्ञानप्रतिबिम्बितं चैतन्यमिति विवरणाचार्याः, “ रूपं रूपं प्रति रूपी बभूव " [ ] इति श्रुतेः, " एकधा बहुधा चैव दृश्यते जलचन्द्रवद्" इति [ ] स्मृतेश्च, न चामूर्तस्यप्रतिबिम्बाभावः शक्यो वक्तुम् , अमूर्तानामपि रूप-परिमाणादीनां गुणानामादर्शमूर्तद्रव्यस्यापि साभ्रनक्षत्राप्रातिभासिकसत्त्वाकान्तं रज्जुसादिकं सृजति चेति, “सर्पजननशक्तीः" इत्यस्य स्थाने "सर्पजननशक्ती" इति पाठो युक्तः, रज्ज्वज्ञानस्य या सर्पजननशक्तिः सा विक्षेपशक्तिरित्यर्थः, रज्ज्वज्ञानस्य या पुना रज्जुतिरोधानशक्तिर्यदलात् सत्यपि रग्जुस्तिरोहिता सती न ज्ञायते सा आवरणशक्तिरित्यर्थः । एवं तथा । मूलाज्ञानस्य शुद्धचैतन्यस्वरूपब्रह्मावरकाज्ञानस्य । चिदावर्णशक्तिरित्यस्य स्थाने चिदावरणशक्तिरिति पाठः सम्यग्, यया शक्त्याऽऽवृतं ब्रह्म अद्वितीयपूर्णानन्दैकरसचिद्रूपतया न ज्ञायते सा आवरणशक्तिर्मूलाज्ञानस्येत्यर्थः, यया शक्त्या मूलाज्ञानं पुनस्तत्र ब्रह्मणि आकाशादिप्रपञ्चं जनयति सा मूलाज्ञानस्य विक्षेपशक्तिरित्यर्थः, मूलाज्ञाननिवृत्तौ तन्निमित्तजीवेश्वरादिप्रपञ्चनिवृत्तौ च शुद्धं ब्रह्मवावशिष्यते तदेव मोक्ष इत्युपदर्शयति-निवृत्ते चाज्ञान इति । तन्निमित्ते अज्ञाजनिमित्तके, चकारान्निवृत्ते इति अनुकृष्यते। यद्यज्ञानरूपोपाधित एव जीवेश्वरविभागो वक्तव्यस्तर्हि किंस्वरूपस्तदा जीव ईश्वरश्च किंस्वरूप इत्यपेक्षायामाह-जीवस्त्विति- जीवस्याज्ञानप्रतिबिम्बितचैतन्यस्वरूपत्वे कथिते अज्ञानबिम्बत्वाकान्तं चैतन्यमीश्वर इत्युक्तमेवेति न न्यूनत्वमिति नात्र मन्तव्यम्, ईश्वरस्याप्यज्ञानप्रतिबिम्बितचैतन्यस्वरूपतयैवात्रैवानेऽभिधानादिति बोध्यम् । एकं मूलाज्ञानमित्येके, अनेकानि तानीत्यन्ये, मूलाज्ञाना. वस्थाविशेषरूपाण्यज्ञानानि तूलाज्ञानानि, तत्र शक्तिद्वयमावरणविक्षेपशक्तिस्वरूपम् , तदज्ञानबिम्बत्वाकान्तं चैतन्यमीश्वरस्तत्प्रतिबिम्बत्वाकान्तं चैतन्य जीव इत्येवं बिम्बप्रतिबिम्बभाववादोपवर्णनं केषामित्याकालानिवृत्तये त्वाह- इति विवरणाचार्या इति- एवं विवरणाचार्याः प्रतिपादयन्तीत्यर्थः । अयं च बिम्बप्रतिबिम्बभाववादः श्रुति-स्मृतिप्रमाणसिद्धत्वात् सर्वैरप्युपादेय इत्यावेदनाय तत्र क्रमेण श्रुति-स्मृती दर्शयति- रूपमिति, एकधेति च, "रूपं रूपं प्रति रूपीबभूव" इत्यस्य स्थाने “रूपं रूपं प्रतिरूपो बभूव" इति पाठः सम्यग् , रूपं रूपमिति वीप्सया यं यमुपाधि प्राप्नोति चैतन्य तत् तदुपाध्यनुरूपं तद् भवति तदुपाधिविगमे नासौ तथा भवतीति दर्शितम्, एतावताऽनेकोपाधिपक्षः प्रकटितो भवति; अथवा रूपं रूपमित्यनेनैकस्याप्युपाधेरनेकावस्थस्यामेडनम् , तथा चैकोपाधिरवस्थाविशेषादनेकरूपतामञ्चतीत्येकोपाधिपक्षोऽपि सूचितो भवति, मायाऽप्येका चैतन्यमप्येकमेवमपि तयोः सम्बन्धे कथं जीवेश्वराद्यनेकव्यवस्थितिरित्याकासां निवर्तयति एकत्यादिस्मृतिः, यथा जलाशयलक्षण उपाधिरेकः, आकाशश्चन्द्रोऽप्येकस्तथापि तयोः सम्बन्धे सति नानाविधजलाशय. गतोर्मिभावे अनेकानि चन्द्रप्रतिबिम्बानि जायन्ते, निस्तरङ्गे च तस्मिन्नेव जलाशये एकं चन्द्रप्रतिबिम्बं समुल्लसदू दृश्यते तथा प्रकृतेऽपीति । ननु मूर्तस्यैव चन्द्रादेः प्रतिबिम्ब भवतीत्यमूर्तस्य चैतन्यस्वरूपस्य ब्रह्मणः प्रतिबिम्बमेव न सम्भवतीत्याशङ्का प्रतिक्षिपति-न चेति- अस्य शक्य इत्यनेनान्वयः। निषेधे हेतुमाह- अमूर्तानामपीति "मादर्शमर्त" इत्यस्य स्थाने “मादशेऽमूर्त" इति पाठो युक्तः, मूर्तत्वं रूपवत्त्वमेव प्रतिबिम्बनिबन्धनमत्र परस्याभिमतम् , न च रूप परिणामादयो गुणा रूपवन्तः, गुणे गुणानङ्गीकारात्, अथापि आदर्श-दर्पणे रूप-परिणामादिगुणविशिष्टस्य मुखादेः प्रतिबिम्बने मुखादिगतानां रूपपरिणामादीनां गुणानाममूर्तानामपि प्रतिबिम्बस्य दर्शनादित्यर्थः । ननु दर्शनस्य दुरपह्नवत्वादमूर्तानां गुणानां प्रतिबिम्बनं दृश्यत इति तदुररीक्रियताम् अमूर्तस्य तु द्रव्यस्य प्रतिबिम्बनं न दृष्टमिति दृष्टान्ताभावात् कथममूर्तस्य ब्रह्मणः प्रतिबिम्बनमास्थ्यमित्यत आह-अ स्थापीति । साभ्रनक्षत्राकाशस्येति-अत्र अभ्र-नक्षत्रयोर्मूतत्वेऽपि आकाशस्य न मूर्तत्वमिति साभ्रनक्षत्राकाशस्य न मूर्तत्वमिति बोध्यम्। जानुमात्र जानुप्रमाणे, एतेन चन्द्रो यद्यपि जलाशयगतोऽधिकपरिमाणस्तथाऽपि वितस्तिमात्रतयैव लोकैरनुभूयत इति कृत्वा जलाशयान्न्यूनपरिमाणक एव कल्पित इति न्यूनपरिमाणकस्य तस्य प्रतिबिम्बनमधिकपरिमाणे जलाशये, न त्वधिकपरिमाणस्य न्यूनपरिमाणे प्रतिबिम्बनं सम्भवतीति कथमतिमहतो ब्रह्मणोऽल्पपरिमाणेऽज्ञाने प्रतिबिम्बनमिति तुच्छशङ्काऽपि व्यपाकृता भवति, अतिमहतोऽ. प्याकाशस्य स्वल्पपरिमाणे जले प्रतिबिम्बस्य दर्शनेन तदृष्टान्तेनातिमहतोऽपि ब्रह्मणः स्वापेक्षया न्यूनपरिमाणेऽज्ञाने Page #373 -------------------------------------------------------------------------- ________________ ३०२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। D काशस्य जानुमात्रे जले विशालरूपेण प्रतिबिम्बदर्शनात् ; प्रतिबिम्बस्यापि च चिद्रूपत्वं प्रत्यक्षशास्त्राभ्यां सिद्धम् । न च घटावच्छिन्नाकाशवदविद्यावच्छिन्नं चैतन्यमेव जीवोऽस्तु, किं प्रतिबिम्बत्वेनेति वाच्यम् , तथा सति जीवभावेनावच्छिन्नस्य पुनरवच्छेदान्तरायोगात्, घटाकाशादी तथादर्शनाद् ब्रह्मणः सर्वनियन्तृत्वानुपपत्तौ " यो विज्ञाने तिष्ठन् विज्ञानमन्तरायमयति " [ बृहदारण्यकोपनिषद् ३, ७, २२] इति श्रुतिव्याकोपप्रसङ्गात् , प्रतिबिम्बपक्षे तु जलगतस्वाभाविकाकाशे सत्येव प्रतिबिम्बाकाशदर्शनाद् द्विगुणीकृत्य वृत्त्युपपत्तेर्जीवावच्छेदेषु ब्रह्मणोऽपि नियन्तृत्वादिरूपेणावस्थानमुपपद्यत इति न दोषः । अस्मिन् पक्षे बिम्बचैतन्यं नेश्वरः, बिम्बास्यापि प्रतिबिम्बान्तरद्विगुणीकृत्य वृत्त्ययोगेन प्रतिबिम्बात्मकप्रतिबिम्बनं सम्भवत्येवेति । विशालरूपेणेति- एतेन शास्त्रदृष्ट्या भवतु जलापेक्षयाधिकप्रमाणश्चन्द्रस्तथापि लोकदृष्ट्याऽविशालस्यैव तस्याविशालरूपेणैव प्रतिबिम्बनं न तु ब्रह्मण इत्याशङ्काशङ्गुरप्युद्धतः, साधनक्षत्राकाशस्य विशालरूपस्यैव विशालरूपेण प्रतिबिम्बस्य दर्शनादित्यर्थः । ननु भवतूपदर्शितदृष्टान्तबलाद् ब्रह्मणोऽपि प्रतिबिम्बनम् , किन्तु जलाशयगतस्य चन्द्रप्रतिबिम्बस्य न चन्द्रत्वं बिम्बादन्यदेव प्रतिबिम्बमिति बिम्बगतासाधारणधर्मस्य प्रतिबिम्बे न सम्भव इति कथं चिद्रूपब्रह्मप्रतिबिम्बरूपस्य चिद्रूपत्वमित्यत आह-प्रतिबिम्बस्यापीति-जीवश्चैतन्यरूपतया स्वसंवेदनप्रत्यक्षेणानुभूयते, शास्त्रमपि तस्य चैतन्यरूपत्वमनुशास्तीति प्रत्यक्ष शास्त्राभ्यां सिद्ध जीवस्य चैतन्यरूपत्वं नान्यत्रादर्शनमात्रेणापनेयमित्यर्थः । न चेत्यस्य वाच्यमित्यनेनान्वयः, यथा योऽप्यस्ति आकाशोऽप्यस्ति, तयोरवच्छेद्यावच्छेदकभावमात्रतो घटावच्छिन्नाकाश इति व्यवहियते तथाऽविद्या-चैतन्ययोरवच्छेद्यावच्छेदकभावमात्रतोऽविद्यावच्छिन्नचैतन्यस्य जीवत्वमस्तु किमतिरिक्तबिम्बप्रतिबिम्बभावकल्पनेनेति शङ्कार्थः । प्रतिक्षेपहेतुमुपदर्शयति- तथा सतीति- अविद्यावच्छिन्नत्वस्यैव जीवत्वस्वरूपस्वे सतीत्यर्थः । जीवभावेन अविद्यावच्छिन्नत्वलक्षणजीवत्वेन । अवच्छिन्नस्य अवच्छेद्यभावं प्राप्तस्य चैतन्यस्य । पुनः अवच्छे. दान्तरायोगात् अन्यावच्छिन्नत्वासम्भवात् , अस्य श्रुतिव्याकोपप्रसङ्गादित्यत्रान्वयः। एकनावच्छिन्नस्यावच्छेदासम्भवे दृष्टान्तमाह-घटाकाशादाविति । तथादर्शनात् अन्यावच्छेदासम्भवस्य दर्शनात्, न हि घटाद्यवच्छिन्नत्वविशिष्टाकाशस्य पटाद्यवच्छिन्नत्वं दृश्यते । अन्यानवच्छेदे यदनिष्टं तदुपदर्शयति- ब्रह्मण इति- जीवभावेनावच्छिन्नस्य ब्रह्मणोऽन्यानवच्छिन्नत्वान्नान्यनियन्तृत्वम् , तत्रस्थस्यैव तन्नियन्तृत्वम् , जीवभावेनावच्छिन्नं तु जीव एव तिष्ठति नान्यत्रेत्यतः सर्वनियन्तृत्वानुपपत्ती सत्याम् , “यो विज्ञाने तिष्ठन् विज्ञानमन्तरायमर्यात" इत्यस्य स्थाने “ यो विज्ञाने तिष्ठन् विज्ञानमन्तर्यमयति" इति पाठो युक्तः । इति एवंस्वरूपेत्यर्थः । प्रतिबिम्बवादे यथा ब्रह्मणः सर्वनियन्तृत्वोपपत्त्योक्तश्रुत्यव्याकोपस्तथा भावयति-प्रतिबिम्बपक्षे त्विति निरवच्छिन्नस्य शुद्धाकाशस्य सर्वव्यापकत्वाजले शुद्धाकाशस्य सत्त्वे सत्येव प्रतिबिम्बाकाशस्य सत्त्वं दृश्यत इति शुद्धभावेन प्रतिविम्बभावेन च द्विगुणीभूयाकाशस्तत्र वर्तते, यत्र ब्रह्मप्रतिबिम्ब जीवो वर्ततेऽविद्यायां तत्रैव जीवावच्छेदेषु सत्सु ब्रह्मणोऽपि शुद्धस्य सर्वब्यापकस्यावस्थितितो नियन्तृत्वादिरूपेणावस्थानमुपपद्यत इति सर्वनियन्तृत्वोपपत्त्या निरुक्तश्रुतिव्याकोपो न भवतीत्यर्थः । अस्मिन् पक्षे प्रतिबिम्बपक्षे । कथं बिम्बचैतन्यं नेश्वर इत्यपेक्षायामाह-बिम्बस्यापीति- “प्रतिबिम्बान्तरद्विगुणीकृत्य" इत्यस्य स्थाने "प्रतिबिम्बान्तरे द्विगुणीकृत्य" इति पाठः सम्यग्, 'यो यत्र बिम्बरूपेण तिष्ठति स तत्र प्रतिबिम्बरूपेणापि तिष्ठति' इत्येवं द्विगुणीकृत्य-द्विगुणो भूत्वा, बिम्बस्य प्रतिबिम्बान्तरे- भिन्नप्रतिबिम्बे, वृत्त्ययोगेन वृत्त्यसम्भवेन, "प्रतिविम्बात्मकजीवान्तरयामित्वानुपपत्तेः" इत्यस्य स्थाने "प्रतिबिम्बात्मकजीवान्तर्यामित्वानुपपत्तेः” इति पाठः सम्यग, प्रतिबिम्बात्मकस्य जीवस्यान्तर्यामित्वं बिम्बस्येश्वरस्य न स्यात् । तर्हि किंस्वरूपतयेश्वरस्याभ्युपगमे तस्य जीवान्तर्यामित्वोपपत्तिरित्याकाङ्कायामाह-कार्योपाधिभूतस्येति- कारणोपाधिमूलाऽविद्या, कार्योपाधिस्तूलाविद्येति तूला विद्यारूपस्येत्यर्थः । शकिद्वयस्य विक्षेपशक्तिरावरणशक्तिश्चेत्येवं शक्तिद्वयस्य । व्यापकतया सर्वत्रावस्थितत्वेन । तत्प्रतिबिम्बयोर्जीवेश्वरयोरपीतिअत्र विक्षेपशक्तिरूपकार्योपाधिप्रतिबिम्बमीश्वरः, आवरणशक्तिरूपकार्योपाधिप्रतिबिम्बं जीव इत्येवं शक्तिद्वयप्रतिबिम्बितचैतन्यरूपयोर्जीवेश्वरयोरपीत्यर्थः। जीवान्तर्यामित्वश्रुतेः ईश्वरस्य जोवान्तर्यामित्वप्रतिपादिकायाः “यो विज्ञाने तिष्ठन् विज्ञानमन्तर्यमयति" इति श्रुतेः । न च ज्ञानप्रतिबिम्बितं चैतन्यं जीव इतीदानी परित्यक्तः पक्षः शक्तिप्रतिबिम्बित Page #374 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। ३०३ जीवान्तरयामित्वानुपपत्तेः । कार्योपाधिभूतस्य शक्तिद्वयस्य व्यापकतया तत्प्रतिबिम्बयोर्जीवेश्वरयोरपि व्यापकत्वाज्जीवान्तर्यामित्वश्रुतेरप्यव्याघातात्, अज्ञानप्रतिबिम्बितमित्यत्राज्ञानपदं चाविद्यापरम् , अज्ञानप्रतिबिम्बितं चैतन्यं साक्षी, स चोक्तशक्तिद्वयप्रतिबिम्बितो जीव इति, ईश्वरश्रवियं तु शुद्धमिति दिक् । एतेनाज्ञानप्रतिबिम्बितं चैतन्यमीश्वरः, बुद्धिप्रतिबिम्बितं चैतन्यं जीवः, अज्ञानोपहितं बिम्बचैतन्यं शुद्धमिति संक्षेपशारीरकारमतमप्युपसगृहीतं तात्पर्यतोऽभेदात् । अज्ञानावच्छिन्नं चैतन्यं जीव इति वाचस्पतिमिश्राः, तेषामयमाशयः- वस्तुतः सजातीय-विजातीय. भेदशून्यं चैतन्यमनादिसिद्धानिर्वचनीयाज्ञानोपाध्यवच्छिन्नं जीव इति, अज्ञानं चेश्वर इति द्वैविध्यं प्रतिपद्यते, अज्ञातत्वम् अज्ञानविषयत्वम् , तदेवेश्वरोपाधिः, तच्च व्यापकमिति तदुपहितेश्वरस्यापि व्याप. कत्वात् सर्वान्तर्यामित्वमप्युपपद्यते, विवरणाचार्यस्त्ववच्छिन्नस्यैवेश्वरत्वमवच्छिन्नस्य च जीवत्वं दूषित. Ansin चैतन्यस्य जीवत्वाभ्युपगमादित्यत आह-अज्ञानप्रतिबिम्बितमित्यत्रेति-घटकत्वं त्रत्प्रत्ययार्थः, तथा चाज्ञानप्रतिबिम्बितमित्यस्याविद्याप्रतिबिम्बितमित्यर्थः, अविद्या चावरण विक्षेपशक्तिद्वयरूपैवात्र विवक्षिता, तत्रावरणशक्तिप्रतिबिम्बितचैतन्यं जीवः, विक्षेपशक्तिप्रतिबिम्बितचैतन्यमीश्वर इति विवेकः प्रागुपदर्शित इति न जीवेश्वरयोः सर्वथैक्यापत्तिः । वेदान्ते यच्चैतन्यस्य जीवेश्वर-साक्षि-ब्रह्मभेदेन चतुर्विधत्वं प्रसिद्धं तत् संक्षेपेण निगमयति-अज्ञानप्रतिबिम्बितं चैतन्यं साक्षीति । "ईश्वरश्रवियं तु शुद्धमिति" इत्यस्य स्थाने " ईश्वर इति च, ब्रह्म तु शुद्धमिति" इति पाठः सम्यग, तथा च स च निरुक्तस्वरूपः साक्षी पुनः । उक्तशक्तिद्वयप्रतिबिम्बितः आवरण-विक्षेपशक्तिद्वयप्रतिबिम्बितः सन् जीव इति जीवसाक्षीत्येवमाख्यायते, तथा ईश्वर इति ईश्वरसाक्षीत्येवमाख्यायते, अज्ञानलक्षणव्यापकोपाधिप्रतिबिम्बितस्य तच्छक्तिरूपव्याप्योपाधिप्रतिबिम्बितत्वं नासम्भवदुक्तिकम् , जलप्रतिबिम्बितस्य चन्द्रस्य जलतरङ्गप्रतिबिम्बितत्वस्यापि दर्शनात् , एतावांस्तत्र विशेषः- जीवे ईश्वरे च शक्तिप्रतिबिम्बितत्वं विशेषणमिति शक्तिरूपोपाधिकार्य तत्र भवति, साक्षिणि तु तदुपलक्षणमतस्तत्र निरुकोपाधिकार्य न भवतीति, ब्रह्म पुनश्शुद्ध चैतन्यमित्यर्थः। एते नेत्यस्योपसङग्रहीतमित्यनेनान्वयः। बुद्धिपतिबिम्बितम् अन्तःकरणप्रतिबिम्बितम् । कथमुपसङ्गहीतमित्यपेक्षायामाह- तात्पर्यतोऽमेदात उक्तमतस्य पूर्वोपदर्शितार्थ एव तात्पर्यादित्यर्थः । अज्ञानप्रतिबिम्बितमित्यत्राज्ञानपदं निरूक्तशक्तिपरम्, बुद्धिप्रति. बिम्बितमित्यत्र बुद्धिपदमपि तथा, अज्ञानोपहितमिति तु यथाश्रुतार्थकमेव, बिम्बचैतन्यमित्यनेन साक्षी परिगृहीतः, शुद्धमित्यनेन शुद्धचैतन्यस्वरूपं ब्रह्म परिगृहीतमिति । वाचस्पतिमिश्राणां भामतीग्रन्थप्रणेतृणां मतमुपदर्शयति- अज्ञानावच्छिन्नमिति । तदभिप्रायमुद्घाटयति-तेषामिति- वाचस्पतिमिश्राणामित्यर्थः । वस्तुत इति- वस्तुतः सजातीयविजातीयभेदशून्यं चैतन्यं द्वैविध्यं प्रतिपद्यते इत्यन्वयः, परमार्थतश्चैतन्यमेकमेव, चैतन्यभिन्नं च किमपि नास्त्येवेत्यतस्तस्य सजातीयं चैतन्यान्तरम्, विजातीयं जडं च नास्तीति सजातीय-विजातीयभेदशून्यमित्यर्थः। अनादिसिद्धेति- अनादिसिद्धं न केनचित् कदाचित् कुत्र. चिदुत्पादितं किन्त्वनादिकालतः स्वत एवासादितात्मलाभम् , एवमप्यनिर्वचनीयं- नेदं सद् भवितुमर्हति, उत्तरकालं ब्रह्मज्ञानेन बाध्यमानत्वात् , नाप्यसत् प्रतीयमानत्वादिति पारमार्थिकसत्त्वकिञ्चिदधिष्ठानकप्रतीत्यविषयत्वलक्षणासत्त्वाभावोभयवत्त्वलक्षणानिननीयत्वाकलितं यदज्ञानं तदात्मकोपाध्यवच्छिन्नं यनिरुक्तचैतन्यं तजीव इत्यर्थः, “अज्ञानं चेश्वरः" इत्यस्य स्थाने " अज्ञातं चेश्वरः" इति पाठो युक्तः, अज्ञातं निरुक्तचैतन्यमीश्वर इत्यर्थः । इति एवम् , द्वैविध्यं द्विविधत्वं, प्रतिपद्यते भजति । अज्ञातं चेश्वर इत्यत्राज्ञातत्वं किमित्यपेक्षयामाह- अज्ञातत्वमज्ञानविषयत्वमिति । तदेव अज्ञातत्वमेव विषयतयाऽज्ञानमेवेति यावत् । तच्च अज्ञानं च । इति उपाधेरज्ञानस्य व्यापकत्वाद्धेतोः। तदुपहितेश्वरस्यापि अज्ञानोपहितचैतन्यरूपेश्वरस्यापि । ननु विवरणाचार्यैरवच्छेदवादे यो दोष उपदर्शितस्तद्दोषदुष्टत्वेनेदं वाचस्पतिमतं नोपादेयमित्यत आह-विवरणाचास्त्विति- जीवेश्वरयोरुभयोरप्यवच्छिन्न चैतन्यरूपत्वे घटावच्छिन्नाकाशो Page #375 -------------------------------------------------------------------------- ________________ ३०४ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। मिति नात्र दोषस्पर्शः। नन्वेवमज्ञातस्य चैतन्यस्येश्वरत्वे 'अहं मां न जानामि ' इत्यनुभवादीश्वरस्य प्रत्यक्षत्वापातः, न चाज्ञाततयेश्वरस्य प्रत्यक्षवमनापाद्यः सर्वस्यैव वस्तुनो ज्ञाततयाऽज्ञाततया वा साक्षिप्रत्यक्षत्वाङ्गीकारादिति वाच्यम् ; न ह्यज्ञाततयेश्वरप्रत्यक्षमापाद्यते-ईश्वरं न जानामीति येनाभ्युपगमव्याघातापत्तिः स्यात् , किन्त्वहं मां न जानामीत्यज्ञानं चैतन्यमनुभूयते, स चेश्वर इति तस्य स्वरूपेणापरोक्षत्वं स्यादिति चेत् ? न- अहं मां न जानामीत्यत्राज्ञाततया जीवस्याखण्डजगज्जीवेश्वरादिभ्रमा यथा पटावच्छिन्नाकाशो न भवतीति घटावच्छिन्नाकाशत्वविशिष्टस्य न पटावच्छिन्नाकाशत्वविशिष्टता तथाऽविद्यावच्छिन्नात्मकचैतन्यत्वरूपजीवत्वविशिष्टस्य नाविद्यावच्छिन्नचैतन्यात्मकेश्वरत्वविशिष्टता, विवेकस्त्वत्रापि अविद्यापदेनाविद्यावरणशक्यविद्याविक्षेपशक्त्योर्विवक्षया सम्भवति किन्तु यत्रैकावच्छिन्नचैतन्यस्वरूपावस्थानं तत्र नान्यावच्छिन्नस्वरूपावस्थानमिति जीवनियन्तृत्वस्यानुपपत्त्या तत्प्रतिपादकश्रुतिव्याकोपदोषो विवरणाचार्योक्तो न वा वस्पतिमिश्रमतं स्पृशति यतो नात्रोभयोरप्यवच्छिन्नरूपत्वं जीवस्यावच्छिन्नरूपत्वेऽपीश्वरस्य तदभावादित्याशयः । वाचस्पतिमिश्रमते अज्ञानस्याश्रयो जीवः, अज्ञानस्य विषय ईश्वर इति फलितम् , संक्षेपशारीरकारमते तु शुद्धं चैतन्यमेवाज्ञानस्याश्रयो विषयश्च, तदुक्तं संक्षेपशारीरके- "आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला। पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥१॥ बहु निगद्य किमत्र वदाम्यहं शृणुत सङ्ग्रहमदयशासने । सकलवाड्मनसाऽतिगता चितिः सकलवाङ्मनसोर्व्यवहारभाक् ॥ २ ॥ इति । वाचस्पतिमिश्रसम्मतमीश्वरेऽज्ञानविषयत्वमसहमानः परः शङ्कते-नन्वेवमिति । एवमित्यस्येवोपवर्णनम्- अज्ञातस्य चैतन्यस्येश्वरत्वे इति-अज्ञानविषयचैतन्यस्येश्वरत्वाभ्युपगमे इत्यर्थः। महमिति- अहं मां न जानामीत्यनुभवोsस्मच्छब्दार्थस्वात्मविषयकाज्ञानवानहमित्येवंस्वरूप एव, तत्राज्ञानविषयो यदीश्वर एव तदा द्वितीयाप्रकृत्यस्मच्छब्दार्थोऽपि स एव, तस्यैवाज्ञानविषयत्वाभ्युयगमादित्युक्तानुभवस्य प्रत्यक्षरूपत्वेन तद्विषयस्याज्ञानकर्मतापन्नेश्वरस्य प्रत्यक्षत्वं प्रसज्यत इत्यर्थः । नन्वज्ञाततयेश्वरप्रत्यक्षं यदापाद्यते तन्नानिष्टं वस्तुमात्रस्यैव ज्ञाततयाऽज्ञाततया वा साक्षिभास्यत्वेनेश्वरस्यापि तद्रूपेण साक्षिप्रत्यक्षत्वस्य स्वीकारादित्याशय प्रतिक्षिपति-न चेति- अस्य वाच्यमित्यनेनान्वयः। "मनापाद्यः" इत्यस्य स्थाने इत्यस्य स्थाने “ मनापाद्यम्" इति पाठो युक्तः, तदेवापादनं दोषाधायकं यदनिष्टम् , ईश्वरस्य प्रत्यक्षत्वं त्विष्टमेवेति परं प्रति तन्नापाद्यमित्यर्थः। तस्येष्टत्वमेवात्र हेतुतयोपदर्शयति- सर्वस्यैवेति- सर्व वस्तु ज्ञातमज्ञातं वेति मनसो वृत्तिन बहिरिन्द्रियव्यापारमपेक्षते, बहिरिन्द्रियव्यापारमन्तरेण जायमानमनोवृत्त्याऽविद्यावृत्त्या वा यत् प्रत्यक्षं भवति तत् साक्षिप्रत्यक्षमिति गीयते, अत एव शुक्काविदं रजतमिति भ्रमस्थले शुक्त्यवच्छिन्नचैतन्याज्ञानमेव शुक्तिरजतरूपेण तदाकारमनोवृत्तिरूपेण परिणमत इत्यनिर्वचनीयशुक्तिरजतस्य तदाकारवृत्त्यवच्छिन्नचैतन्यलक्षणतत्प्रत्यक्षस्य साक्षिभास्यत्वात् साक्षिप्रत्यक्षत्वमिति । निषेधे हेतुमाह-- न हीति-हि यतः, ईश्वरं न जानामीत्येवस्वरूपमज्ञाततयेश्वरप्रत्यक्षं नापाद्यत इत्यर्थः । येन तथापादनेन । अभ्युपगमव्याघातापत्तिः स्यात् अज्ञाततयेश्वरप्रत्यक्षाभ्युपगमस्य व्याघातापत्तिर्भवेत् । यद्येवं नापाद्यते तर्हि कीदृशमापाद्यत इति पृच्छति-किन्विति । उत्तरयति- अहमिति । “त्यज्ञानम्" इत्यस्य स्थाने "त्यज्ञातम्" इति पाठो युक्तः, अहं न जानामीत्याकारकप्रत्यक्षेण अज्ञातं चैतन्यमनुभूयते, न त्वज्ञातचैतन्यलक्षण श्वरस्याशातत्वेन स्फुरणं तत्र येन तदिष्टं भवेदित्यर्थः। ननु भवतु अज्ञातचेतन्यानुभवः स तावताऽपि प्रकृते किमायातमित्यत आह-सचेति- ईश्वरशब्दस्य तच्छब्दार्थाभिन्नार्थप्रतिपादकस्य पुंलिङ्गत्वात् तच्छब्दस्याज्ञातचैतन्यप्रतिपादकस्यापि पुंलिङ्गस्य निर्देशः, तथा चाज्ञातचैतन्यं चेत्यर्थः । इति अज्ञात चैतन्यत्वेनेश्वरासाधारणधर्मेणाह मां न जानामीति प्रत्यक्षेऽ. वभासमानत्वाद्धेतोः। तस्य ईश्वरस्य । स्वरूपेणेति- यथा घटोऽयमिति प्रत्यक्षे घटत्वेन स्वाधारणधर्मेणावभासमानस्य घटस्य स्वरूपेणापरोक्षत्वं तथेश्वरस्य स्वाधारणाज्ञातचैतन्यत्वरूपधर्मेणावभासमानस्य स्वरूपेणापरोक्षत्वं प्रसज्येतेत्यर्धः । समाधत्ते-नेति- अज्ञाततया जीवस्य भानेऽपीत्यन्वयः। किंस्वरूपस्य जीवस्य तत्राज्ञाततया भानमित्यपेक्षयामाह - अखण्डं चेति-सकलोपाधिशून्यं च जगजीवेश्वरादीनां भ्रमस्याधिष्ठानं च यच्चैतन्यं तदात्मकस्येत्यर्थः। जीवस्य निरुक्तचैतन्यस्वरूपस्य तत्र भानं न स्वज्ञानोपहितचैतन्यरूपस्येश्वरस्येत्यत्र किं बीजमित्यपेक्षायामाह- अज्ञानतास्फुरण इति- अत्र Page #376 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । धिष्ठान चैतन्यरूपस्य भानेऽप्यज्ञानोपहितचैतन्यरूपस्येश्वरस्याभानादज्ञानता स्फुरणे तदुपहितस्येश्वरस्य स्फुरणापत्तेः कर्तुमशक्यत्वात् तस्यायोग्यत्वात् नहि घटस्फुरणे घटोपहिताकाशादेरपि स्फुरणं केनचिदापादयितुं शक्यत इति, तत्र विशेष्यस्यायोग्यत्वम्, अत्र तु विशेषण - विशेष्ययोर्योग्यत्वमित्यस्ति विशेष इति चेत् ? न - तथाप्युपहितत्वसम्बन्धगर्भत्वेनादृष्टवज्जीवत्वेनेवा योग्यताया धौव्यात् । आभासवादिनो वार्तिकाचार्यास्तु - ' दर्पणादौ मुखान्तरोत्पत्ति स्वीकुर्वाणाश्चैतन्यस्यानादिभूताज्ञाने अज्ञानादिरेवाभासः समस्ति, न त्वसौ जीवो जडत्वात्, अतस्तत्तादात्म्यापन्नं चैतन्यं जीवः ' इत्याहुः । किमत्राभासाङ्गीकारे बीजमिति चेत् ? चैतन्ये अहङ्काराध्यासस्य निरुपाधिकस्येष्टत्वात्, निरुपाधिकाध्यासत्वावच्छेदेन च सादृश्यस्यापेक्षणात्, आभासतादात्म्यापत्त्या च सादृश्यापन्ने चैतन्येऽहङ्काराभ्यास'अज्ञाततास्फुरणे' इति पाठो युक्तः । तदुपहितस्य अज्ञाततोपहितस्य । नन्वज्ञातताऽपि भासते तद्रूपेण चैतन्यस्वरूपो जीवोऽपि भासते इति किमवशिष्टं यदभानादीश्वरस्याभानमित्यपेक्षायामाह - तस्यायोग्यत्वादिति- अज्ञात तोपहित चैतन्य • स्वरूपस्येश्वरस्यास्मदादिप्रत्यक्षा योग्यत्वादित्यर्थः । ईश्वरस्योपाधिभूतमज्ञानविषयत्वं योग्यत्वाद् भासते, ईश्वरस्त्वयोग्यत्वान्न भासते इत्येतद् दृष्टान्तावष्टम्भेन भावयति नहीति - अस्य 'शक्यते ' इत्यनेनान्वयः, यथा घटस्य प्रत्यक्ष मानेऽपि तदुपाधिकस्य घटावच्छिन्नाकाशस्यायोग्यत्वान्न प्रत्यक्षे भानं तथाऽज्ञानविषयत्वस्य प्रत्यक्षे मानेऽपि तदुपाधिकस्याज्ञानविषयत्वोपहितचैतन्यस्वरूपेश्वरस्यायोग्यत्वान्न प्रत्यक्षे भानमित्यर्थः । ननूपाधेर्घटस्य विशेषणीभूतस्य योग्यत्वेऽपि विशेष्यीभूतस्याकाशस्यायोग्यत्वमिति न घटावच्छिन्ना काशस्य प्रत्यक्षविषयत्वमिति युज्यते, प्रकृते त्वज्ञानविषयत्वलक्षणस्योपाधेर्विशेषणीभूतस्यापि योग्यत्वं विशेष्यीभूतस्य चैतन्यस्यापि योग्यत्वमिति विशेषस्य सद्भावात् कथं नाज्ञानविषयत्वोपहित चैतन्यस्वरूपेश्वरस्य प्रत्यक्षविषयत्वमित्याशङ्कते - तत्रेति-घटावच्छिन्नाकाशे इत्यर्थः । विशेष्यस्य आकाशस्य । अयोग्यत्वं प्रत्यक्षायोग्यत्वम् । अत्र तु अज्ञानविषयत्वोपहित चैतन्यखरूपेश्वरे पुनः । विशेषण- विशेष्ययोः अज्ञानविषयत्वलक्षणविशेषण - चैतन्य लक्षणविशेष्ययोः । योग्यत्वं प्रत्यक्ष योग्यत्वम् । इति एवम्। विशेष: घटावच्छिन्नाकाशादज्ञानविषयत्वोपहितचैतन्ये विशेषः । समाधत्ते - नेति । तथापि अज्ञानविषयत्वोपहितचैतन्यलक्षणेश्वरे अज्ञानविषयत्वलक्षणविशेषण चैतन्य लक्षणविशेष्ययोर्योग्यत्वेऽपि । उपहितत्वसम्बन्धगर्भत्वेनेति - नह्युपहितत्वं सम्बन्धमन्तरेण भवति, तथा सति सर्वस्य सर्वोपहितत्वं स्यात्, अतोऽवश्यमेवोपहितत्वं सम्बन्धविशेषेण भवतीति वाच्यम्, तथा च विशेषणविशेष्ययोर्योग्यत्वेऽपि सम्बन्धविशेषघटितस्य सम्बन्धविशेषप्रयुक्तस्य वोपहितत्वस्यायोग्यत्वमित्युपहितत्वसन्निविष्टसम्बन्ध उपहितत्वनियामकसम्बन्धो वा गर्भे खशरीरमध्ये यस्य स उपहितत्वसम्बन्धगर्भस्तत्त्वेन, अज्ञानविषयत्वोपहितचैतन्यस्य जीवस्य जीवत्वेन योग्यत्वेऽप्यदृष्टवज्जीवत्वेन यथायोग्यत्वं तथाऽयोग्यताया एव धौव्याद् - अवश्यम्भावादित्यर्थः । 6 आभासवादिनां वार्तिककृतां वेदान्तिप्रवराणां मतमुपदर्शयति- आभासवादिन इति दर्पणादौ मुखान्तरोत्पत्तिं स्वीकुर्वाणा आभासवादिनो वार्तिकाचार्यास्त्वित्याहुरिति सम्बन्धः । किमाहुरित्यपेक्षायां तत्कर्मोपदर्शयति- चैतन्यस्येतिअनादिभूताज्ञाने चैतन्यस्याभासोऽज्ञानादिरेव समस्तीत्यन्वयः, अज्ञानादिरेवेत्येवकारेणाज्ञानादिव्यतिरिक्तरूपत्वस्य व्यवच्छेदः, न त्वसौ जीवः' इत्यनेनैव कारार्थव्यवच्छेदस्यैवोपदर्शनम्, असौ अनादिभूताज्ञाने चैतन्यस्याभासः, जीवो न तु जीवस्वरूपो नैव भवति । तत्र हेतुः - जडत्वात् जीवावृत्तिजडत्व धर्माक्रान्तत्वात् । अतः एतस्मात् कारणात् तत्तादात्म्यापन्नम् अनादिभूताज्ञानगत चैतन्याभास तादात्म्यापन्नम् । आभासः किमर्थमुररीक्रियत इति पृच्छति - किमिति - अस्य बीज मित्यनेनान्वयः । अत्र अनादिभूताज्ञाने । आभासाङ्गीकारे चैतन्याभासस्य स्वीकारे । उत्तरयति - चैतन्य इति । निरुपाधिकेति यत्र यस्य निरुपाधिकोऽध्यासस्तत्र तस्य सादृश्यमिति व्यात्या निरुपाधिकाध्याससामान्ये निमित्ततया सादृश्यस्यापेक्षणादित्यर्थः । एवं च यदि अनादिभूताज्ञाने चैतन्यस्याभासो नाङ्गीक्रियेत तदा चैतन्यस्य जडस्वरूपत्वाभावेन तत्र जडस्याहङ्कारस्य सादृश्याभावात् तद्रूपनिमित्ताभावेन चैतन्ये निरुपाधिकाहङ्कारो न भवेत्, अनादिभूताज्ञाने चैतन्याभासाङ्गीकारे तु अज्ञानस्य जडरूपत्वेन तत्र चैतन्याभासस्यापि जडरूपतया तत्तादात्म्यापन्नस्य चैतन्यस्यापि जडखेन ३९ ३०५ Page #377 -------------------------------------------------------------------------- ________________ ३०६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । सम्भवात्, न चाभासाध्यासेऽपि तदपेक्षायामनवस्थापत्तिः, तस्यानादित्वात् , जन्याध्यास एव निरुपा. धिके सादृश्यापेक्षणात्, न चाज्ञानाध्यासेनैव सादृश्यापत्तिः सुवचा, जाड्येन हि सादृश्यं वाच्यम् , तच्च जडतादात्म्यापत्त्या; न चाज्ञानं तादात्म्येनाध्यस्तम्, किन्त्वहमज्ञ इति संसर्गेणाध्यस्तमिति, अतो. ऽनाद्याभासतादात्म्याध्यासेन जाड्यापत्त्या सादृश्ये सत्यहङ्काराध्यासो युज्यते । न चाभासे प्रमाणाभावः, न्तराभासात्, एकत्र क्लुप्तमन्यत्रापि प्रतिसन्धीयत इति न्यायेनाज्ञानेऽपि जा लामाला आदश TOE TE तद्रूपेणाहकारेण समं सादृश्यस्य सम्भवेन तद्बलाच्चैतन्ये निरुपाधिकाहङ्काराध्यास उपपद्यतेतरामित्याह- आभासतादास्यापत्त्या चेति-अज्ञानगतचैतन्याभासतादात्म्यापत्त्या, जडात्मकाहङ्कारेण समं जडत्वलक्षणसाधारणधर्मवत्वेन सादृश्यापने चैतन्येऽहङ्कारतादात्म्यारोपलक्षणाहकाराध्याससम्भवादित्यर्थः। नन्वनादिभूताज्ञाने चैतन्याभासोऽपि न वास्तविको वस्तुभूतस्य तस्याभावात् किन्त्वध्यस्त एवेति तदध्यासस्यापि निरुपाधिकाध्यासरूपत्वेन चैतन्याभासेन सममनादिभूताज्ञानस्य सादृश्यं निमित्ततयाऽपेक्षणीयमतस्तत्सादृश्योपपत्तयेऽनादिभूताज्ञाने चैतन्याभासतादात्म्यापत्तिमूलकचैतन्याभासगतकिश्चित्साधारणधर्मवत्त्वं वाच्यमित्यनवस्थापत्तिरपरिहार्येत्याशय प्रतिक्षिपति-न चेति । आमासाध्यासेऽपि अनादिभूताज्ञाने चैतन्यामासाध्यासेऽपि । तदपेक्षायां चैतन्याभासेन सममनादिभूताज्ञानस्य सादृश्यापेक्षायाम् । अनवस्थापत्तिः अवतरणोपदर्शित. प्रकारेणानवस्था प्रसभ्यत इति । निषेधे हेतुमाह-तस्यानादित्वादिति- अनादिभूताज्ञाने चैतन्याभासाध्यासस्यानादित्वात् , अनादेर्न किञ्चिजन्यत्वमिति तत्र सादृश्यं निमित्ततया नापेक्षितमित्यर्थः । अनाद्यध्यासे सादृश्यस्य नापेक्षेत्येतत्स्पष्टप्रतिपत्तये वाह-जन्याध्यास पवेति- एवकारेणाजन्येऽनाद्यध्यासे सादृश्यापेक्षणस्य व्यवच्छेदः । नन्वज्ञानमेवात्मन्यध्यस्तम्, अज्ञानाध्यासोऽपि चैतन्ये, सादृश्यमन्तरेण न सम्भवतीति जडस्वरूपेणाज्ञानेन चैतन्यस्य सादृश्यं जडत्वेनैव धर्मणेत्येतावताऽपि जडत्वेनाहङ्कारेणापि समं चैतन्यस्य सादृश्यात् ततोऽहङ्काराध्यासो निरूपाधिकश्चैतन्ये सम्भवेदेवेति किमित्यनाद्यज्ञाने चैतन्यस्याभासः कल्पनीय इति अनादिभूताज्ञाने चैतन्याभासस्यैवाभावान्न चेतन्याभासतादात्म्यापन्नं चैतन्यं जीव इत्याशङ्का प्रतिक्षिपति-न चेति- अस्य सुवचेत्यनेनान्वयः । निषेधे हेतुमाह-जाड्येनेति। हि यतः, सादृश्यम् अहङ्कारेण समं चैतन्यस्य सादृश्यम् । जाड्येन जाड्यात्मकधर्मेण । वाच्यं वक्तव्यम् । तच जाज्यं च। जड़तादाम्यापत्या जडेन केनचित् सह तादात्म्यं कस्यच्चिजडस्य वा तादात्म्यं तदापत्त्या भवेदिति, अजडस्य चैतन्यस्य जाज्यं वस्तुतो नास्ति किन्तु जडतादात्म्यापत्त्या स्यादिति यावत् । ननु तदर्थमेवाज्ञानाध्यास: स्वीक्रियते, चैतन्ये अज्ञानाध्यासादेव जडत्वरूपाज्ञानतादात्म्यापत्तिश्चैतन्ये स्यादित्यत आह-न चेति- अस्या 'अध्यस्तम्' इत्यनेनान्वयः, अज्ञानं चैतन्ये तादात्म्येनाध्यस्तं न चेत्यर्थः, अज्ञानस्य चैतन्ये तादात्म्येनाध्यासे सत्येवाज्ञानस्य जडत्वात् तत्तादात्म्यापन्नस्य चैतन्यस्यापि जडत्वापत्त्या जडत्वेनाहङ्कारसादृश्यं तस्याहङ्काराध्यासप्रयोजकं भवेन चैवमित्याशयः। तत् किमज्ञानं चैतन्ये नाध्यस्तमेव ! तथा सत्यनध्यस्तस्य तस्य चैतन्यवद् वस्तुत्वेऽद्वतवादो व्याहन्येतेत्याशयेन पृच्छति-किन्त्विति । उत्तरयति- अहमक्ष इतीति- अहमज्ञ इत्याकारकवृत्तिरूपेण संसर्गेण चैतन्येऽज्ञानमध्यस्तमतोऽध्यस्तत्वादज्ञानस्य वस्तुत्वं नापतति नवा तथाध्यासतो जडत्वापत्तिश्चैतन्ये, ततो नाज्ञानाध्यासतोऽहकाराध्यासप्रयोजकमहङ्कारसादृश्यं चैतन्ये घटत इत्यर्थः । अतोऽस्माद्धेतोः । अनाद्याभासतादात्म्याध्यासेनेति- अनादिभूताज्ञानेऽनादिर्यश्चैतन्याभासस्तस्य चैतन्ये यस्तादात्म्याध्यासस्तेनेत्यर्थः । जाड्यापत्त्या चैतन्ये जाड्यापत्त्या । सादृश्ये सति जडत्वरूपसाधारणधर्मेण चैतन्येऽहङ्कारस्य सादृश्ये सति । अहङ्काराध्यासो युज्यते चैतन्येऽहङ्काराध्यासो घटत इत्यर्थः । अनादिभूताज्ञाने चैतन्याभास इत्यत्र प्रमाणमेव नास्तीत्यपि नास्तीत्याह-न चेति । आदर्श यन्मुखं दृश्यते तद् प्रीवास्थमुखं न भवति किन्तु मुखान्तरमेवाभासत इति तदृष्टान्तेनाज्ञानेऽपि यच्चैतन्यमवभासते तच्छुद्धचैतन्यं न भवति किन्तु चैतन्याभास एवेत्येवं चैतन्याद् भिन्नस्य चैतन्याभासस्य स्वीकारादित्याह- आदर्श मुखमितीति-- प्रीवास्थं यन्मुखं तस्य प्रीवैवाधारो न त्वादर्श इत्यादर्शाधिकरणतया प्रतीयमानं मुखं सष्टं मुखान्तरमिति तस्य यथा मुखाभासत्वं तथा व्यापकीभूतं चैतन्यं स्वापेक्षयाऽव्यापकेऽज्ञाने नावस्थातुमर्हतीति अज्ञानाश्रिततया प्रतीयमानस्य चैतन्यस्य चैतन्यान्तरत्वमिति तस्य चैतन्याभासत्वमित्यर्थः । नन्वादर्श मुखान्तरं तथादर्शनात् क्लप्तं न त्वज्ञाने चैतन्याभास इत्यत आह-एकत्रेति- एकत्र मुखे मुखान्तरकल्पनानिमित्ततया क्लप्तं युक्ति Page #378 -------------------------------------------------------------------------- ________________ ३०७ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । चैतन्याभासाङ्गीकारात्, एवमन्त: करणादावपि चैतन्याभासोऽज्ञानगत चैतन्याभासः, अज्ञानगत चैतन्याभासस्तु जीवशब्दप्रवृत्तिनिमित्तम्, तत्तादात्म्यापन्नचैतन्यस्य जीवत्वादिति । विवरणाचार्यस्तु मुखान्तरोत्पत्ति, नेच्छन्ति, किन्तु मुखे अधिष्ठानगतभेदमात्रस्य द्विश्वपर्यांयस्यादर्शस्थत्वस्य चानिर्वचनीयस्योत्पत्तिं तावतैव प्रतीत्युपपत्तेर्मुखान्तरकल्पने गौरवात् । न चैवं शुक्तावपि रजतापत्तिर्न स्यात् तादात्म्यमात्रोत्पत्स्यैवेदं रजतमिति धीनिर्वाहोपपत्तेरिति वाच्यम्, तथा सति र्जत जालमन्यत्रापि चैतन्य उपाधिमाहात्म्यात् प्रतिसन्धीयते - चैतन्यान्तर कल्पकत्वेन प्रतिसन्धीयते इत्येवं न्याययोजनाऽत्र कार्या । यथाऽज्ञाने चैतन्याभासस्तथाऽन्तःकरणादावपि चैतन्याभासः, अन्तःकरणादेरपि कल्पितस्याज्ञानपरिणामत्वादज्ञानत्वमित्यन्तःकरणादिगतचैतन्याभासोऽप्यज्ञानगत चैतन्याभास इत्यनेकजीववादेऽन्तःकरणगत चैतन्याभास तादात्म्यापन्न चैतन्यस्य जीवत्वेऽप्यज्ञानगतचैतन्याभासतादात्म्यापन्नचैतन्यं जीव इति वादो न व्याहन्यत इत्याशयेनाह - एवमन्तःकरणादाव पीति - आदिपदादज्ञानशक्तेरुपग्रहः । कथमज्ञान गत चैतन्याभासस्य जीवशब्दप्रवृत्तिनिमित्तत्वमित्यपेक्षायामाह - तत्तादात्म्या पन्नेति - अज्ञानगतचैतन्या भासतादात्म्यापन्नेत्यर्थः, यथा पशुशब्दस्य लोमवल्लाङ्गूलवति शक्तत्वे शक्यस्वरूपसन्निविष्टत्वालोम वत्त्वस्य पशुपदप्रवृतिनिमित्तत्वं तथा जीवपदशक्याज्ञानगतचैतन्याभासतादात्म्यापन्नचैतन्य स्वरूपसन्निविष्टत्वादज्ञानगतचैतन्याभासस्य जीवशब्दप्रवृत्तिनिमित्तत्वमिति । विवरणाचार्यमतमुपदर्शयति- विवरणाचार्यास्त्विति । यदि विवरणाचार्या आदर्शे मुखान्तरोत्पत्तिं नेच्छन्ति तर्हि तत्स्थले किमिच्छन्तीति पृच्छति - किन्त्विति । उत्तरयति - मुख इति - " मुखे अधिष्ठानगतभेदमात्रस्य " इत्यस्य स्थाने " मुखे अधिष्ठाने भेदमात्रस्य " इति पाठः सम्यग्, द्वित्वापरपर्यायस्य भेदमात्रस्य अनिर्वचनीयस्यादर्शस्थत्वस्य च मुखे अधिष्ठाने उत्पत्तिमिच्छन्तीत्यन्वय इच्छन्तीत्यस्यानुकर्षाद् बोध्यः । तावतैव मुखे अधिष्ठाने द्वित्वापरपर्यायभेदमात्रस्यानिर्वचनीयादर्शस्थत्वस्य चोत्पत्त्यैव । प्रतीत्युपपत्तेः आदर्श मुखमिति प्रतीतेरुपपत्तेः । मुखान्तरोत्पत्तिमेव कुतो नेच्छन्तोत्यपेक्षायामाह - मुखान्तरकल्पने गौरवादिति - मुखान्तरकल्पनेऽपि तत्र श्रीवास्थमुखाद् भेद आदर्शस्थत्वं च कल्पनीयमेव, मुखान्तरकल्पनं त्वधिकमिति मुखे द्वित्वस्यादर्शस्थत्वस्य च कल्पनापेक्षया गौरवं व्यक्तमेव । न चेत्यस्य वाच्यमित्यनेनान्वयः । एवं गौरवान्मुखान्तराकल्पने । शुक्तावपीति- शुक्काविदं रजतमिति भ्रमस्थले अन्यथाख्याति - वादिभिर्नैयायिकादिभिरन्यदेशस्थितस्य रजतस्य तादात्म्येन टङ्कशाला स्थरजतगतर जतत्वस्य वा समवायेन शुक्तौ भ्रम उपेयते, वेदान्तिना तु शुक्तिरजतस्यैवानिर्वचनीयस्य शुक्तयज्ञानतस्तदानीमेव चाकचक्यादिदोषसह कृताज्ञानतः शुतावुत्पन्नस्य रजतस्य ख्यातिरुपेयते, यदि चादर्शे नानिर्वचनीयस्य मुखान्तरस्योत्पादः, आदर्शे मुखमिति प्रतीतिरन्यथैवोपपाद्यते, तदा शुक्तावपि रजतोत्पत्तिर्नाभ्युपेया स्यात्, तत्रेदं रजतमिति धियः शुक्तौ रजततादात्म्योत्पत्त्या तदवगाहनत एव सम्भवाद् रजतान्तरकल्पने गौरवस्यात्रापि जागरूकत्वादित्यर्थः । निषेधे हेतुमाह तथा सतीति- शुक्तौ रजतस्योत्पादानभ्युपगमे सतीत्यर्थः । " रजतस्यापरोक्षत्वापत्तेः " इत्यस्य स्थाने " रजतस्यापरोक्षत्वानापत्तेः " इति पाठो युक्तः, रजतस्योत्पादाभ्युपगमे रजतं सन्निकृष्टमिति रजताकारान्तःकरणवृत्यवच्छिन्न चैतन्यरूपप्रमाणचैतन्यस्य शुक्तिरजतावच्छिन्न चैतन्यरूप प्रमेयचैतन्यस्यान्तःकरणावच्छिन्न चैतन्यरूपप्रमातृचैतन्यस्य चेत्येवं चैतन्यत्रयाणामेकदेशस्थितोपाधीनामभेदेन प्रमेयचैतन्यस्य प्रमाणचैतन्याभेदलक्षणं ज्ञानगत प्रत्यक्षलक्षणं घटते, प्रमातृसत्तातिरिक्तसत्ताकत्वाभावलक्षणं विषयगतापरोक्षत्वमपि घटते, यतो वेदान्तमते स्वावच्छिन्नचैतन्यसत्तैव विषयस्य सत्ता, प्रत्यक्षस्थले च प्रमेयचैतन्य- प्रमातृचैतन्ययोरेकदेशस्थितोपाधिकत्वेनैक त्वाद् भवति प्रमातृसत्तैव प्रमेयसत्तेति, रजतस्योत्पादानभ्युपगमे तु शुक्तिदेशे टङ्कशालायन्यदेशगतं रजतं नास्तीतौदमवच्छिन्नचैतन्यं न रजतावच्छिन्नं पुरोवर्तिन्याः शुकेरिदंशब्दप्रतिपाद्यायाः सन्निकृष्टत्वाद् रजतस्यासन्निकृष्टत्वादिति रजताकारान्तःकरणवृत्तिरन्तःकरणदेशगतैव न शुक्तिदेशगता नवा रजतदेशगतेति रजतावच्छिन्नचैतन्येदमवच्छिन्न चैतन्ययोर्भेदे शुक्तिदेशगतस्य प्रमातृचैतन्यस्य शुक्त्यवच्छिन्न चैतन्येन सहाभेदेऽपि रजतावच्छिन्न चैतन्येन सह नाभेदः, एवमिदमाकार वृत्त्यवच्छिन्न चैतन्यस्येदमवच्छिन्नचैतन्यरूपशुक्त्यवच्छिन्न चैतन्येन सदाभेदेऽपि रजताकारवृत्त्यवच्छिन्न चैतन्यस्य रजतावच्छिन्न चैतन्येन सह नाभेद Page #379 -------------------------------------------------------------------------- ________________ ३०८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । स्यापरोक्षत्वापत्तेः, मुखं त्वधिष्ठानपरोक्षमिन्द्रियसन्निकर्षात् , अत एवादशैं मुखमित्यपरोक्षभ्रमोत्पत्तेनानिर्वचनीयमुखान्तरोत्पत्तिः । न च मुखस्येन्द्रियसन्निकर्षाभावः, कतिपयावयवावच्छेदेन तत्सत्त्वात् , आसत्तेविंशदावभासप्रतिबन्धकत्वेऽपि तत्रादर्श सन्निधानस्योत्तेजकत्वेन दोषाभावात् । आदर्शादिनाऽभिहतचक्षुषो मुखाभिमुख विजातीयसंयोगात् तदपरोक्षत्वमित्यपि कश्चित् । ननु किमित्येवं वर्ण्यते मुखमधिष्ठानमिति ? आदर्श एवाधिष्ठानमस्तु, तत्र च मुखाभावाज्ञानेन मुखोत्पत्तिस्तत्संसर्गोत्पत्तिर्वास्तु, आदर्श मुखमिति प्रतीतेरेवमप्युपपत्तेः, मुखं यद्यपरोक्षं तर्हि तत्संसर्गस्य, यदि च नापरोक्षं तर्हि इतीदमंशे ज्ञानस्य प्रत्यक्षत्वेऽपि तथेदनः प्रत्यक्षवेऽपि च रजतांशे ज्ञानस्य प्रत्यक्षत्वं रजतस्य प्रत्यक्षत्वं च न स्यात् , रजताकारवृत्त्यवच्छिन्न चतन्य-रजतावच्छिन्न चैतन्ययोर्मेदात् , रजतस्य च प्रमातृसत्तातिरिक्तसत्ताकत्वादित्यर्थः । आदर्श मुखान्तरोत्पादानभ्युपगमेऽपि मुखं त्वधिधानमिन्द्रिय सन्निकर्षादपरोक्षमिति तद्गतं कल्पितं भेदमात्रमादर्शस्थत्वं च कल्पितमपरोक्षमित्यादर्शे मुखमित्यपरोक्षभ्रमोत्पादः सम्भवत्येवेत्याह- मुखं विति- " मुखं त्वधिष्ठानपरोक्षं" इत्यस्य स्थाने "मुख त्वधिष्ठानमपरोक्षं" इति पाठो युक्तः । अत एव इन्द्रियसन्निकर्षान्मुखस्यापरोक्षत्वादेव । मुखस्येन्द्रियासनिकृष्टस्वाशङ्का प्रतिक्षिपति- न चेति । तत्र हेतुमुपदर्शयति- कतिपयेति । तत्सत्वात् इन्द्रियसन्निकर्षसत्त्वात् । नन्वादर्श सन्निधानस्थले स्वमुखस्येन्द्रिय सन्निकृष्टत्वेऽपि विशदप्रत्यक्षं न भवति ततोऽत्यन्तमिन्द्रिय सन्निधानं विशदप्रत्यक्षप्रतिबन्धकमित्यादर्श सम्मुखस्थेऽप्यत्यन्तासत्तिीवास्थमुखे इन्द्रियस्य समस्त्येवेति न तस्य विशदप्रत्यक्षं किन्त्वादशस्थमुखान्तरस्यैवेत्यादर्शे मुखान्तरस्थोत्पत्तिरवश्यमभ्युपेयेत्यत आह- आसत्तेरिति- अत्यन्तसन्निकर्षस्येत्यर्थः । अविशदप्रत्यक्षं मुखस्येन्द्रियात्यन्तसन्निहितस्यादर्शसन्निधानकालेऽपि भवत्येवे यत उक्तम्-विशदेति । तत्र विशदावभासिप्रत्यक्षं प्रति अत्यन्तेन्द्रियासत्तिः प्रतिबन्धिकेत्येवं प्रतिवध्यप्रतिबन्धकभावे । उत्तेजकत्वेनेति- उत्तेजकत्वं प्रतिबन्धकताकारणतान्यतरावच्छेदकीभूताभावप्रतियोगित्वम् , प्रकृते विशदावभासिप्रत्यक्षं प्रति आदर्शसन्निधानाभावविशिष्टेन्द्रियात्यन्तासत्तेः प्रतिबन्धकत्वेन तादृश. प्रतिबन्धकतावच्छेदकोभूताभाषप्रतियोगित्वेनादर्शसन्निधानस्योतेजकत्वमिति आदर्शसन्निधान काले निरुक्तपतिबन्धकस्यासत्त्वेनेन्द्रियात्यन्तसन्निहितस्यापि मुखत्य विशदावभासिप्रत्यक्षसम्भवादित्यर्थः । चक्षुषो मूलावयवसंयोगनिबन्धनसंयोगस्यासन्ता. सतिरूपस्य बलेन मुखस्य न प्रत्यक्षं, किन्त्वनावयवसंयोगनिबन्धन संयोगेनैव, यथाऽग्रदेशस्थितघटादीनां प्रत्यक्षं तथैव मुखस्यापि प्रत्यक्षं, चक्षुरादर्शदेशं गत्वाऽऽदर्शनाभिहतं मुखसम्मुखं भूत्वा स्वागावयवावच्छिन्नं सम्मुखेन संयुज्यते, तादृशविजातीयेन्द्रियसंयोगेन मुखस्य प्रत्यक्षमिति कस्यचिन्मतमुपदर्शयति- आदर्शादिनेति । तदपरोक्षत्वं मुखस्यापरोक्षत्वम् , ननु मुखेऽधिष्ठाने भेदस्यादर्शस्थत्वस्य चानिर्वचन यस्योत्पत्तिः किमिति परिकल्प्यते ? आदर्शस्यैवाधिष्ठानत्वमुररीकृत्य तत्र मुखान्तरोत्पत्तिस्तस्कल्पने गौरवे वा मुखत्य संसर्गोत्पत्तिरेवास्तु, ततोऽप्यादर्श मुखमिति प्रतीतिरुपपद्यत एव, तत्र यदि मुखाभावज्ञानं स्यात् तदा मुखोत्पत्तिस्तसंसर्गोत्पत्तिा न भवेन्न चैवमिति मुखाभावाज्ञानमेव तत्र मुखस्य तत्संसर्गस्य वा कारणमित्याशङ्कते- नन्विति- मुखमधिष्ठानमित्येवं किमिति वर्ण्यत इत्यन्वयः । तत्र च आदर्शे च । तत्संसर्गेतिमुखसंसर्गेत्यर्थः । एवमपि आदर्श मुखोत्पत्तेर्मुखसंसर्गोत्पत्तेर्वा भावेनापि । मुखोत्पत्तिमुखसंसर्गोत्पत्त्योर्यद् विकल्पनं तत्र हेतुमुपदर्शयति-मुखमिति- प्रीवास्थमुखनेवादशै मुखभिति प्रत्यक्षात्मकप्रतीतौ भासते, मुखेन समं मूलावयवावच्छिन्नचक्षुःसंयोगो विद्यते, तस्याप्यादर्शसन्निधानतो मुखप्रत्यक्षं प्रति कारणत्वमित्यन्यथैव मुखप्रत्यक्षस्य विशदस्योपपत्त्या न तदर्थ मुखोत्पत्तिरादर्श आवश्यकीत्याशयेनोक्तम् - मुखं यद्यपरोक्षमिति । अपरोक्षमपि मुखं प्रीवास्थमेव न त्वादशस्थमतोऽपरोक्षस्यापि मुखस्य संसर्गोत्पत्तिरादर्श आवश्यकी, यद्बलादादर्शाधिकरणकत्वेन मुखस्यादर्श मुखमिति प्रतीतावभासनभित्याशयेनाह- तर्हि तत्संसर्गस्थेति- अस्य स्वीकर्तव्यत्वादियनेनान्वयः, तथा च मुखस्य प्रत्यक्षत्वेऽपि आदर्श व्यावहारिकस्य मुखसंसर्गस्याभावात् प्रातीतिकमु संपर्ग एव आदर्शऽत्रभासत इति प्रातीतिकमुखसंसर्गस्योत्पत्तेः प्रत्यक्षत्वानुरोधेन स्वीकर्तव्यत्वादित्यर्थः । यदि च नापरोक्षमिति- अग्रावयवावच्छिन्न चक्षुःसंयोगस्यैव विशदप्रत्यक्ष प्रति कारणत्वमिति मुखे व्यावहारिके अग्रावच्छिन्न वक्षुस्संयोगस्याभावात् तदपरोक्षं न भवति यदीत्यर्थः। तीति- आदर्श Page #380 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ३०९ तदुत्पत्तेः स्वीकर्तव्यत्वान्मुखाधिष्ठानस्य चानुभवाननुसारित्वादिति चेत् ? एवं ह्यधिष्ठानत्वाभिमतस्योपाधिकत्वोक्तौ सर्वभ्रमाणां सोपाधिकत्वे प्रसक्ते सोपाधिक-निरुपाधिकभ्रमव्यवच्छेदप्रसङ्गात् , ' लोहितः स्फटिकः' इत्यत्रापि शुक्त्यज्ञानाद् रजतभ्रमवजपाकुसुमत्वाज्ञानालोहिते तस्मिन् स्फटिकतादात्म्यभ्रम इति सोपाधिकचमत्वासिद्धेः, शक्यं ह्यत्रापि वक्तम्- स्फटिको यद्यपरोक्षस्तर्हि तत्संसर्गमात्रमुत्पद्यते, यदि नापरोक्षस्तर्हि तदुत्पत्तिस्तस्मान्नादर्शोऽधिष्ठानम् , किन्तु मुखमेव, तत्र च भेदोऽध्यस्यते न मुखान्तरम् , प्रत्यभिज्ञानाच न मुखान्तरोत्पत्तिः स्वीक्रियते । कथं तर्हि भेदभ्रमोऽपि स्यात्, प्रत्यक्षप्रत्यभिज्ञानेनामुखमिति विशदप्रत्यक्षं तु मुखस्य भवति तदन्यथानुपपत्त्या, तदुत्पत्तेः मुखोत्पत्तेः, आदर्श स्वीकर्तव्यत्वाद् अभ्युपगन्तव्यत्वादित्यर्थः । मुखरूपाधिष्टान एवादस्थित्वं भेदश्वोत्पद्यत इत्येव किं नोपयत इत्यपेक्षायामाह - मुखाधिष्ठानस्य नुभवानुसारेण कल्पना प्रामाणिकानां शोभते, मुखस्याधिष्ठानता तु नानुभूयत इति मुखाधिष्ठानस्यानुभवाननुसारित्वान्न मुखे आदर्शस्थत्वोत्पत्त्यादिकल्पना भद्रेत्यर्थः । मुखं यदि नाधिष्ठानं किन्वादर्श एवाधिष्ठानमुपाधिश्चेति भ्रमान्तरेष्वपि यदेवाधिष्ठानं तदेवोपाधिरिति निरधिष्ठानको भ्रमो न भवत्येवेत्यधिष्ठानात्मकोपाधेः सर्वत्र सत्त्वात् सर्वभ्रमाणां सोपाधिकत्वमेव स्यादिति निरुपाधिकभ्रमोच्छेदापत्तेरिति समाधत्ते- एवं हीति । “सोपाधिक-निरुपाधिश भ्रमव्यवच्छेदप्रसङ्गात्" इत्यस्य स्थाने " निरुपाधिकभ्रमव्यवच्छेदप्रसङ्गात्" इति “ सोपाधिक-निरुपाधिकभ्रमव्यवस्थाव्यवच्छेदप्रसङ्गात्" इति वा पाठो युक्तः, अत्राग्रिमग्रन्थखारस्याद् द्वितीयपाठो युक्तः, यतो यश्चोपाधिस्तस्यैवाधिष्ठानत्वमुक्तदिशा प्राप्तमिति लोहितः स्फटिक इत्ययं भ्रमः सोपाधिकः, आदर्श मुखमिति भ्रमश्च सोपाधिकः, जपाकुसुमादर्शरूपोपाधिसन्निधानतो भावात् , शुक्तौ रजतभ्रमश्च निरुपाधिकस्तत्रोपाधेरभावादित्येवं सोपाधिक निरुपाधिकभ्रमव्यवस्था, तस्या इदानी लोपः, यो झुपाधिः स एवाधिष्ठानं यथैकत्र तथाऽन्यत्रापि भविष्यतीत्यधिष्ठानव्यतिरिक्त उपाधिरेव नास्तीति स्पष्टयति-लोहितः स्फटिक इत्यत्रापीति-अस्य सोपाधिकभ्रमत्वासिद्धरित्यनेनान्वयः । सोपाधिकभ्रमत्वासिद्धौ हेतुमुपदर्शयति-शक्त्यज्ञानादिति- यथा शुक्ताविदं रजतमिति भ्रमः शुक्त्यज्ञानाच्छुक्तिरूपाधिष्टाने उत्पन्नस्य रजतस्यावगाही निरुपाधिक उपाधेरधिष्ठानव्यतिरिक्तस्याभावात् , तथा लोहितः स्फटिक इति भ्रमोऽपि जपाकुसुमत्वाज्ञानालोहिते जपाकुसुमे स्फटिकस्य स्फटिकतादात्म्यरूपसंसर्गस्य वोत्पत्त्या स्फटिकतादात्म्यावगाही निरुपाधिकभ्रम एवेत्यतः सोपाधिकभ्रमत्वासिद्धरित्यर्थः । यथा चादर्श मुखसम्बन्धस्य मुखस्य वोत्पत्तिव्यवस्थापनत आदर्श मुखमिति प्रतीतिर्मुखसंसर्गावगाहिनी मुखावगाहिनी वोपपादिता, तथा प्रकृतेऽप्युपपादनं सम्भवतीत्याह-शक्यं हीति । अत्रापि लोहितः स्फटिक इत्यत्रापि। किं वक्तुं शक्यमित्यपेक्षायामाह-स्फटिक इति-स्फटिकस्य व्यावहारिकस्येन्द्रियसनिकृष्टस्य लोहितः स्फटिक इति प्रत्यक्ष भानं सम्भवतीति न तत्र स्फटिकान्तरस्य जपाकुसुमे उत्पत्तिकल्पना भद्रेत्याशयः। तर्हि स्फटिकस्यापरोक्षतायाम् । तत्संसर्गमात्रमुत्पद्यते लोहिते जपाकुसुमे स्फटिकतादात्म्यमात्रमुत्पद्यते, मात्रपदेन स्फटिकान्तरोत्पत्तेर्व्यवच्छेदः, यो ह्यपरोक्षः श्वेतरूपविशिष्टः स्फटिकः स श्वेतरूपवत्तयैवापरोक्षः, स्वरूपसहितस्यैव तस्य प्रत्यक्षयोग्यत्वम् , लौहित्यं च न व्यावहारिकस्य स्फटिकस्य रूपमिति न सोऽपरोक्ष इति यदि विभाव्यते तदा स्फटिकान्तरमेव लोहिते जपाकुसुमे उत्पद्यत इत्याह- यदि नापरोक्ष इति । तदुत्पत्तिः स्फटिकोत्पत्तिः। उपसंहरति-तस्मादिति- सोपाधिकनिरुपाधिकभ्रमव्यवस्थोच्छेदप्रसङ्गभयादित्यर्थः। नादर्शोऽधिष्ठानं मुखान्तरस्य मुखसंसर्गस्याधिष्ठानमादर्शो न भवति, मुखमेव अधिष्ठानमित्यनुवर्तते । तत्र च मुखे च। मेदोऽध्यस्यते भेदोऽध्यस्तो भवति, एकमेव मुखं भेदाध्यासाद् द्वित्वेन प्रतीयते, न मुखान्तरम् एकं ग्रीवास्थं मुखं द्वितीयमादर्शस्थं मुखमित्येतन भवति । आदर्श मुखान्तरोत्पत्तिरेव कुतो नाङ्गीक्रियते इत्यपेक्षायामाह-प्रत्यभिज्ञानाच्वेति-प्रीवास्थमुखमेवेदमित्येवं प्रत्यभिज्ञानाच मुखान्तरोत्पत्ति भ्युपेयत इत्यर्थः । नन्वेकत्वावगाहिप्रत्यभिज्ञानेनाभेदाज्ञानस्य भेदभ्रमकारणस्य निवृत्त्या तत्कार्यस्य मुखे भेदभ्रमस्य निवृत्तिः प्रसज्येत, ब्रह्मज्ञानेन ब्रह्माज्ञानरूपजगदुपादानकारणनिवृत्त्या जगन्निवृत्तिवदित्याशङ्कते-प्रत्यक्षप्रत्यभिज्ञानेनेति- ब्रह्मसाक्षात्कारस्यैव ब्रह्माज्ञाननिवर्तकत्वं न तु ब्रह्मपरोक्षज्ञानस्य दिल्योहादौ तथैवावधारणादिति प्रत्यभिज्ञानं यदि परोक्षं स्यान्न तर्हि ततो भेदाज्ञाननिवृत्तिर्भवेदतः प्रत्यक्षत्वं प्रत्यभिज्ञानस्य Page #381 -------------------------------------------------------------------------- ________________ ३१० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ज्ञानादिनिवृत्त्या भेदभ्रमनिवृतिप्रसङ्गादिति चेत् ? उच्यते- सोपाधिकभ्रमनिवृत्तावुपाधिनिवृत्तेः पुष्कल. कारणत्वान्न ततो भेदभ्रमनिवृत्तिः । मुखान्तरोत्पत्तिपक्षे तु सोपाधिकत्वमेव नास्ति, उपाधिर्हि उप समीपे स्थित्वा स्वकीयं धर्ममन्यत्रादधातीत्युच्यते, नहि मुखान्तराध्यासे उपाधिरस्ति रजताध्यासवत् , भेदाध्यासे दर्पणस्योपाधित्वं संभवति, अतः सत्यपि प्रत्यभिज्ञाने यावदुपाधि भेदाध्यासानुवृत्तिर्युक्ता, तस्मान्मुखमधिष्ठानं तत्र भेदोऽध्यस्यते । एवं चाज्ञानादौ प्रतिबिम्बे सत्यपि नाभासान्तरम् , मानाभावात् । सादृश्यापत्तिस्त्वज्ञानाध्यासेन परिच्छिन्नत्वापत्त्याहङ्काराध्यासापेक्षिता भविष्यति, तस्माना. भासवादो ज्यायानिति विवरणाचार्याभिप्रायः। अज्ञानोपहितं बिम्बचैतन्यमीश्वरः, अज्ञानप्रतिबिम्बितं चैतन्यं जीव इति वा, अज्ञानानुपहितं शुद्धविशेषणम् । समाधत्ते- उच्यते इति । सोपाधिकेति- आदर्शरूपोपाधिसन्निधाने सत्येष मुखे भेदभ्रम इति सोऽयं मुखे भेदभ्रमः सोपाधिकस्तनिवृत्ती सान्निध्यसम्बन्धेन दर्पणरूपोपाधिनिवृत्तेः। पुष्कलकारणत्वाद असाधारणकारणत्वादिति सान्निध्यसम्बन्धेन दर्पणाभावादेव मुखे भेदभ्रमनिवृत्तिः, ततोऽभेदावगाहिप्रत्यक्षप्रत्यभिज्ञानतोऽभेदाज्ञाननिवृत्तितो न नैव, भेदभ्रमनिवृत्तिरित्यर्थः। यश्च दर्पणरूपाधिष्ठान एव मुखान्तरोत्पत्तिमभ्युपैति तन्मते दर्पणे मुखान्तरभ्रमस्य सोपाधिकत्वं नास्ति, यो हि सन्निहिते वस्तुनि स्वधर्ममादधाति स उपाधिर्भवति, दर्पणे मुखाध्यासे तु दर्पणधर्मस्य न मुखे आधानम् , यथा शुक्तौ रजताध्यासे न शुक्तिधर्मस्य रजत आधानमिति शुक्तौ रजतभ्रमो न सोपाधिकस्तथा दर्पणे मुखान्तरभ्रमोऽपि सोपाधिको न भवेत्, मुखरूपाधिष्ठाने भेदाध्यासे तु दर्पणस्य मुखभिन्नत्वाद् भेदो दर्पणधर्मस्तस्य सन्निहिते मुखेऽध्यास इति मुखे भेदभ्रमः सोपाधिक इति तन्निवृत्तिः सान्निध्यसम्बन्धेन दर्पणनिवृत्तित एवेति यावद् दर्पणरूपोपाधिसान्निध्यं तावन्मुख भेदभ्रमोऽनुवर्ततेऽभेदावगाहिप्रत्यक्षप्रत्यभिज्ञाने सत्यपीत्युपपादयति-मुखान्तरोत्पत्तिपक्षे त्विति । दर्पणे मुखान्तरभ्रमे सोपाधिकत्वनिषेधे हेतुमुपदर्शयति- उपाधि-ति । उपाधिरित्यस्य उच्यते इत्यनेन सम्बन्धः । उपाधिपदे उपशब्द आधिशब्दश्च वर्तते, तदर्थयोरावेदनपुरस्सरं तद्वयुत्पत्तिमुपदर्शयति- उप समीप इतियो ह्यन्यपदार्थस्य समीपे स्थित्वाऽन्यपदार्थे स्वकीयं धर्ममादधाति स उपाधिरिति गीयते, यथा जपाकुसुमं स्फटिकस्य समीप स्थित्वा स्वकीयं रक्तत्वधर्म स्फटिके आदधातीति जपाकुसुममुपाधिः, तत्सन्निधानात् स्फटिके रक्तत्वभ्रमः सोपाधिक इति । शुक्तौ रजताध्यासे यथा कोऽप्युपाधिर्नास्तीति शुक्को रजतभ्रमो न सोपाधिकस्तथा दर्पणे मुखान्तराध्यासे कोऽप्युपाधिर्नास्तीति दर्पणे मुखान्तरभ्रमोपगमे तस्य सोपाधिकत्वं न स्यादित्यर्थः । भेदाध्यास इति- मुखेऽधिष्ठाने भेदस्याध्यास इत्यर्थः । दर्पणस्योपाधित्वं सम्भवति दर्पणं मुखस्य समीपे स्थित्वा स्वकीयं धर्म भेदरूपं मुखे आदधातीत्येवमुपाधिपदव्युत्पत्तिनिमित्तं दर्पणेऽस्तीति । अतः दर्पणे उपाधित्वस्य सम्भवतः। सत्यपि प्रत्यभिज्ञाने ग्रीवास्थमेवेदं मुखमित्यभेदावगाहिप्रत्यक्षप्रत्यभिज्ञाने सत्यपि । यावदुपाधि दर्पणरूपोपाधिसन्निधानं यावत् । अध्यासानुवृत्तिर्युक्ता मुखे भेदाभ्यासस्यानुवर्तनं युज्यते, सोपाधिकभ्रमनिवृत्तिकारणस्योपाधिनिवृत्तेरभावेन भ्रमनिवृत्तेरभावादित्यर्थः। उपसंहरतितस्मादिति । तत्र मुखे। प्रकृतं विवरणाचार्यमतमधिकरोति- एवं चेति- दर्पणे मुखान्तरोत्पत्तिप्रतिक्षेपे व्यवस्थिते वैत्यर्थः। अज्ञानादौ अनादिभूताज्ञानादौ । प्रतिबिम्बे सत्यपि चैतन्यप्रतिबिम्बे सत्यपि । नाभासान्तरम् अज्ञाने चैतन्याभासान्तरं नैव । तत्र हेतु:-मानाभावादिति । चैतन्ये जडत्वेनाहङ्कारसादृश्यापन्नेऽहङ्काराध्यासः सम्भवति नान्यथेत्येतदर्थमनादिभूताज्ञाने चैतन्याभासः, तत्त दात्म्यापत्त्या चैतन्यस्य जडत्वेन सादृश्यं यदिष्टं तचैतन्य एवाज्ञानाध्यासेनाज्ञानतादात्म्यापत्त्या परिच्छिन्नत्वेन सम्भवतीत्याह- सादृश्यापत्तिस्त्विति-अस्य भविष्यतीत्यनेनान्वयः । अज्ञानाध्यासेन चैतन्येऽज्ञानाध्यासेन । परिच्छिन्नत्वापत्त्या अज्ञानाभासस्य परिच्छिन्नत्वेन तत्तादात्म्याचैतन्यस्यापि परिच्छिन्नत्वापत्तिस्तया। उपसंहरति-तस्मादिति । विवरणाचार्यसिद्धान्तमुपदानकेषु वेदान्तिसिद्धान्तेषु प्रधानं दृष्टिसृष्टिवादसिद्धान्तमुपदर्शयितुं तदभिप्रेतं जीवेश्वरविभागमुपदर्शयति- अज्ञानोपहितमिति- उपाधेः प्रतिबिम्बपक्षपातित्वादुपाधिकार्य प्रतिबिम्बे भवति न तु बिम्बे इति Page #382 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलङ्कृतो नयोपदेशः । ३११ चैतन्यमीश्वरः, अज्ञानोपहितं च जीव इति च मुख्यो वेदान्तसिद्धान्तः, एकजीववादाख्य इममेव दृष्टिसृष्टिवादमाचक्षते । अस्मिंश्च पक्षे जीव एवेश्वरज्ञानवशादुपादानं निमित्तं च, दृश्यं च सर्व प्रातीतिकम् , जडात्मकमायालक्षणाज्ञानोपहितचैतन्यस्वरूपत्वेऽपीश्वरस्य शुद्धचैतन्यधर्मः स्वयंप्रकाशत्वाऽपरिच्छिन्नत्वादिको निर्बाधमुपतिष्ठत इति जीवादयं विशिष्ट इति । अज्ञानप्रतिबिम्बितमिति- अज्ञानलक्षणमायाप्रतिबिम्बत्वाकान्तं चैतन्यं जीव इति स मायाधर्मेर्जडत्वाक्षिभिः संसृज्यत इति । जीवेश्वरविभागे प्रकारान्तरमुपदर्शयति- अज्ञानानुपहितमिति- यद्यपि एतन्मते एकमुक्ती सर्वमुक्तिरिति अज्ञानविगमे अज्ञानानुपहितं शुद्धचैतन्यमवतिष्ठते, तदानीमीश्वरावस्थानं भवितुमर्हति, तथापि अज्ञानसद्भावकाल एव जीवेश्वरविभागो विचारमारोहति, तदानीमेवाज्ञानानुपहितत्वविशिष्टं भवदेव शुद्धचैतन्यमीश्वरः, अज्ञानविगमे त्वेकस्यैव शुद्धचैतन्यस्य भावात् तस्य विभागाभावात् तदनीं सदपि शुद्धचैतन्यमज्ञानाभावादेव तदुपहितं तदनुपहितं वेति भक्तव्यकोटि नाटीकत इति नेश्वरोऽपि तदानीमित्यभिसन्धिः। अज्ञानोपहितं चेति- चकाराच्छुद्धचैतन्यमनुकृष्यते, अज्ञानोपहितत्वे न शुद्धचेतन्यत्वमिति न तस्यानुकर्षः, चैतन्यमानं तु न पूर्वोपात्तमिति कथं तस्याप्यनुकर्ष इति न प्रेरणीयम् , यतः पूर्वप्रकारे बिम्बत्वं प्रतिबिम्बत्वं वा यचैतन्यस्य विशेषणतया विवक्षितं तद्रहितत्वमेवात्र शुद्धपदेन विवक्षितम् , पूर्वपक्षे बिम्बप्रतिबिम्बभावकल्पना समस्ति, न चास्मिन् कल्पे सेति पूर्वकल्पादत्र लाघवम् । " इति च मुख्यो वेदान्तसिद्धान्तः, एकजीववादाख्य" इत्यस्य स्थाने " इति च मुख्यो वेदान्तसिद्धान्त एकजीववादाख्यः" इति पाठो युक्तः, उक्तस्वरूप एवैकजीववादनामकः प्रधानो वेदान्त इति तदर्थः । इममेव उक्त स्वरूपवादमेव । दृष्टिसृष्टिवाद येव यदैव वस्तूनां दृष्टिदर्शनं यस्य जीवस्य तदेव तद् वस्तु सत्त्वमनुमति दर्शनाभावकाले नास्त्येव किञ्चिदिति प्रतिपादको वादो दृष्टिसृष्टिवादस्तम् । आचक्षते वेदान्तसिद्धान्तरहस्याभिज्ञाः कथयन्ति । एतद्वादोपपादनं मधुसूदनसरस्वतिनाऽद्वैतसिद्धावित्थं कृतम् "शुक्तिरूप्य-खप्नादिवद् दृष्टिसृष्ट्यन्यथानुपपत्त्याऽपि जगतो मिथ्यात्वसिद्धिः, अथ केयं दृष्टिसष्टिः ? दृष्टिरेव सृष्टिरिति वा १, दृष्टिव्यतिरिक्तसृष्ट्यभावो वा २, दृष्टिव्यतिरेकेण सृज्याभावो वा ३, दृष्टिसामग्रीजन्यत्वं वा ४, दृष्टिसमानकालीनसृष्टि ५, दृष्टिसमानसत्ताकसृष्टि ६, सदसद्विलक्षणत्वं वा ७, त्रिविधसत्त्वबहिर्भूतत्वे सत्यसद्विलक्षणत्वं वा ८, अज्ञातसत्त्वाभावो वा ९, ज्ञातैकसत्त्वं वा १०, आये- वृत्तिरूपा, चैतन्यरूपा वा दृष्टिरभिमता, प्रथम चरमवृत्तिविषयब्रह्मणोऽपि दृष्टिसृष्ट्यापत्तिः, द्वितीये सर्वदाऽपि सृष्ट्यापत्तिः, न द्वितीयः- चैत्रेण सृष्टो मया दृष्ट इति लक्षण्येन व्यवहारानुपपत्तेः, न तृतीयः- ज्ञातो घटो न ज्ञानमित्यनुभवविरोधात्, न चतुर्थ:- एकसामग्रीप्रसूतत्वेन घटादेदृष्ट्यभिन्नत्वेनानन्तरोक्तदोषात् , न पञ्चमः- शान्दादिज्ञानसमानकालोत्पन्नघटादौ सिद्धसाधनात्, तद्वदन्यत्रार्थान्तरतापत्तेश्च, न षष्ठः- उभयसत्त्वेऽ. प्युपपत्तेः सिद्धसाधनात, न सप्तमः- अस्यैव मिथ्यात्वरूपत्वेन तत्साधनायैव तदुपन्यासानुपपत्तेः, नाष्टमः- त्रिविधसत्त्वमध्ये प्रातिभासिकसत्त्वस्याप्यन्तर्भावेन दृष्टिसष्टिपक्षे तद्वति जगति तद्वहिर्भावानुपपत्तेः, न नवमः- तुच्छसाधारण्यात्, न दशमः- सुखादौ सिद्धसाधनात्, तद्वदन्यत्रार्थान्तरापत्तश्चेति चेत् ? न-दोषप्रयुक्तत्वनिबन्धनस्य ज्ञातैकसत्त्वस्याज्ञातसत्वा. भावस्य वा प्रतिपन्नोपाधिदृष्टिजन्यज्ञातैकसत्त्वस्य वा दृष्ट्यन्तरावेद्यत्वे सति ज्ञातैकसत्त्वस्य वा विवक्षितत्वात् , तथा च न सुखाद्यंशे सिद्धसाधनं तद्वदन्यत्रार्थान्तरं वा। ननु " जीव ईशो विशुद्धा चित् तथा जीवेशयोभिदा। अविद्या तच्चितोयोगः षडस्माकमनादयः॥१॥" [ ] इति प्राचां वचनेन बौद्धं प्रति प्रत्यभिज्ञानादिना विश्वस्य स्थायित्वप्रतिपादकेन च सूत्रभाष्यविवरणादिप्रन्थेन च विरोध इति चेत् ?- अनाद्यतिरिक्तसृष्टिविषय एव दृष्टिसृष्टिस्वीकारात्, कारणात्मना स्थायित्वस्वीकाराच्च, तावतैव बौद्धाभिमतक्षणिकत्वनिराकरणोपपत्ते करविरोधः, प्रत्युताकरेषु दृष्टिसृष्टिरुपपादितैव । नन्वेवं प्रतीतिमात्रशरीरत्वेन नियतकारणाजन्यत्वे श्रुतिषु स्वर्गाद्यर्थं ज्योतिष्टोमादिविधेः, ब्रह्मसाक्षात्कारार्थ श्रवणादिविधेराकाशादेर्वाय्वादिहेतुत्वस्य चोक्तिरयुकेति चेत् ? न-स्वाप्नकार्यकारणभावबोधकवाक्यवदुपपत्तेः; न चैवं वेदान्तवाक्यस्य तन्मीमांसायाश्च स्वाप्रवाक्य-तन्मीमांसातुल्यतापत्तिः, विषयबाधाबाधाभ्यां विरोधोपपत्तेः, अत एव- तृप्त्यर्थ भोजने परप्रत्यायनार्थ शब्दादौ प्रवृत्तेरयोगेन स्वक्रियाव्याघात इति निरस्तम्, स्वाप्नव्यवहारवदुपपत्तेः। अथैवं घटादेः स्वज्ञानात् पूर्वमसत्त्वेन प्रतिकर्मव्यवस्थानुपपत्तिः, अधिष्ठानस्यापि शुक्तीदमंशस्य रूप्यादिवत् इदं रजतमिति ज्ञानात् प्रागसत्त्वेन संप्र Page #383 -------------------------------------------------------------------------- ________________ ३१२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः। देहभेदाज्जीवभेदभ्रान्तिः । एकस्यैव स्वकल्पितगुरु-शास्त्रायुपबृंहितश्रवण-मननादिदाादात्मसाक्षात्कारे योगादिहेतुत्रयजन्यत्वरूपाध्यासतटस्थलक्षणस्य सत्यस्य वस्तुनो मिथ्यावस्तुसंभेदावभास इत्यस्य स्वरूपलक्षणस्य चायोग इति चेत् ? न-प्रतिकर्मव्यवस्थायाः संयोगादिहेतुत्रयजन्यत्वरूपाध्यासतटस्थलक्षणस्य च मन्दाधिकारिविषयत्वात् , सत्यस्य वस्तुनो मिथ्यावस्तुसंभेदावभास इति स्वरूपलक्षणं तु दृष्टिसृष्टिपक्षेऽप्यविरुद्धम् , नहोदमंशावच्छिन्नचैतन्यं न वस्तु, नवा मिथ्यारूपस्य तेन सह न संभेदावभासः । न च इदं रूप्यमिति ज्ञानकाले शुक्तित्वादेरभावेनाध्यासस्य तदज्ञानकार्यत्वादिप्रक्रियाविरोध इति वाच्यम्, इदं रूप्यमिति ज्ञानकाले शुक्तित्वस्याभावेऽपि तदज्ञानस्थित्यविरोधात् , न हि सत्ताकाले इव सत्ताविरहकालेऽप्यज्ञानं विरुद्धयते। न च 'इदं रूप्यं, नेदं रूप्यम्' इति ज्ञानयोर्मिन्नविषयत्वेन बाध्यबाधकभावानुपपत्तिरिति वाच्यम् , भिन्नविषयत्वेऽपि विषययोः सारूप्यात् स्वप्नबाध्यबाधकयोरिव बाध्यबाधकभावोपपत्तेः । न च रूप्यादिबाघस्यापि दृष्टिसृष्टित्वे तेन रूप्यादेमिथ्यात्वासिद्धिरिति वाच्यम् , बाध्यान्यूनसत्ताकत्वमेव बाधकत्वे प्रयोजकम् , न त्वधिकसत्ताकत्वमित्यस्योपपादितत्वेन व्यावहारिकेण व्यावहारिकबाधवत् प्रातिभासिकेन प्रातिभासिकबाधाविरोधात् । न च सुषुप्ति-प्रलयादौ जीव-ब्रह्मविभागस्याप्रतीतत्वेनाविद्यमानतया प्रतिसुषुप्ति प्रतिप्रलयं च मुकस्य पुनरावृत्त्यापत्तिरिति वाच्यम् , जीव ब्रह्मविभागादेरनादित्वेन दृष्टिसृष्टित्वानभ्युपगमस्योकत्वात् । न च सुषुप्तं प्रति संस्कारादेरप्यभावेन तस्य पुनः प्रबोधायोगः, कारणात्मना संस्कारादेः सत्त्वात् । न च मोक्षस्य दृगन्यत्वेन स्वानमोक्षवदृष्टिसृष्ट्यापत्तिः, मोक्षस्य ब्रह्मस्वरूपत्वेन हारभन्नत्वासिद्धेः। न च चैतन्य मात्ररूपा दृष्टिन सृष्टिः, किन्तु वृत्तिविशिष्टचैतन्यरूपा वा वृत्तिरूपा वा दृष्टिः सृष्टिरिति वाच्यम् , तथा च तस्या अपि दृष्ट्यन्तरं सृष्टिरित्यनवस्थेति वाच्यम् , चैतन्यमात्रस्य दृष्टित्वे यद्यपि तत्समानसत्ताकतया घटादेः सदातनत्वापत्तिः, तथापि वृत्त्युपहितचैतन्यमेव दृष्टिशब्दार्थः, वृत्तावपि वृत्तिरेव स्वस्वरूपा चैतन्योपाधिरिति नानवस्था। अत एव दोषाज्ञानादृष्टदेहेन्द्रियादीनामभावेन भ्रम इति तेषामपि दृष्टिसृष्टित्वेऽनवस्थेति निरस्तम् स्वाप्नभ्रमवद्देहेन्द्रियादिनरपेक्ष्येणाप्युपपत्तेः, अन्वय व्यतिरेकानुविधानं च तद्वदेव । न च दृष्टिसृष्टेरपि दृष्टिसृष्टित्वेन घटादेरदृष्टिसृष्टित्वापत्तिरिति वाच्यम् , ज्ञानस्य ज्ञेयत्वेऽपि विषयस्याज्ञेयत्वाभाववद् दृष्टिसष्टेदृष्टिसष्टित्वेऽपि घटादेदृष्टिसृष्टित्वोपपत्तेः । ननु ऐक्यप्रत्यभिज्ञाविरोधः, पूर्वकालप्रतीतस्येदानीम. भावात् , न चैषा भ्रान्तिः, दीपादौ परिणाम माण )भेदस्येवेह वाचकत्वाभावात् , तदभावेऽपि भ्रान्तित्वे घटादेरप्येकस्मिन् क्षणे भेदस्यात्मनोऽपि प्रतिक्षणं भेदस्य प्रसङ्ग इति चेत् । न- "नेह नाना०" [ ] इत्यादिश्रुतिभिः प्रपञ्चस्य मिथ्यात्वेऽवधूते रज्जुसर्पादिवत् प्रतिभासमात्रशरीरत्वमेव प्रतिभासकत्वातिरिक्तकालसत्त्वे बाधकम् , अतो भिन्नकालीनानामात्मभिन्नानां प्रत्यभिज्ञाभ्रान्तिः, आत्मन्येकप्रतीतिरेककालावच्छेदेन घटादौ चैक्यप्रत्यभिज्ञा न भ्रान्तिः, एककालावच्छिन्नघटादावात्मनि चाभेदे बाधकाभावात् , पुरुषान्तरप्रतीतेन सदककालावच्छेदेनापि घटादौ प्रत्यभिज्ञानं भ्रम एव, प्रतिभासस्य भेदात्, यथैकस्यामेव रज्ज्वां मन्दान्धकारवर्तिन्यां दशानां युगपत्सर्पभ्रमेण पलायमानानां परस्परसंवादेनक एव सर्पः सर्वैरनुभूयत इति प्रत्यभिज्ञाभ्रमः, अन्यभ्रमसिद्धस्यान्येन ज्ञातुमशक्यत्वात् । ननु अत्र कथमभेदभ्रमः ? तत्कारणस्य सादृश्यादेः कस्याप्यभावादिति चेत् ? न- स्वप्नाभेदभ्रमवद् दृष्टिसष्टिसिद्धसादृश्यादिसम्भवात् । न चैवमभेद एवोत्पद्यतामिति वाच्यम्, इष्टापत्तेः, रज्जुस दिवदुत्पन्नस्यैव ग्रहणनियमात् । न च क्वचिदुत्पद्यते क्वचिन्नेत्यत्र नियामकाभावः, मायाया विचित्रशक्तिकत्वाभ्युपगमात् । न च सोऽयं देवदत्त इति दृष्टान्तेन तत् त्वमस्यादिवाक्ये जहदजहल्लक्षणयक्यपरत्वोक्त्ययोग इति वाच्यम्, यद्यपि धर्मवद् धर्थभेदोऽपि बाधित एवेति जहदजल्लक्षणाऽपि न युज्यते, तथाऽपि यदा धर्माभेदो वाधान्न गृहीतः किन्तु धर्म्यभेद एव तदा सोऽयमित्यादौ जहदजहल्लक्षणासम्भवेन दृष्टान्तत्वोपपत्तिः । न चाभेदस्यापि दृष्टिसृष्टित्वेन तज्ज्ञानस्य बाधकत्वायोगः, आत्माभेदस्यात्मरूपत्वेन दृष्टिसृष्टित्वाभावात्, अन्यूनसत्ताकत्वमात्रेण बाधकत्वोपपत्तेश्च । न च साक्षात्कारस्यापि दृष्टिसृष्टित्वेन प्रमाणजन्यत्वाभावात् तत्त्वज्ञानत्वाभावेन ततो मुक्तिर्न स्यादिति वाच्यम्, अबाधितविषयत्वेनैव तत्त्वज्ञानत्वोपपत्तेः, तस्य च दृष्टिसृष्टित्वेऽप्यक्षतेः । न च "ध्रुया द्यौर्बुवा पृथिवी ध्रुवाः पर्वता इमे ध्रुवं विश्वमिदं जगद्" [ऋ० सं० ८. ८. ३१.] इत्यादिश्रुतिविरोधः, अनित्यतावादिभिरपि ध्रुवेत्यस्यान्यथानयने आवश्यके दृष्टिसृष्टिप्रतिपादकश्रुत्यनुरोधेन आकल्पं संतानाविच्छेदपरत्वस्यैव युक्तत्वात्, अन्यथा ध्रुवो राजेत्यादावगतेः, दृष्टिसृष्टौ च “एवमेवास्मादात्मनः सर्वे प्राणाः, सर्वे लोकाः, सर्वे वेदाः, सर्वाणि भूतानि, सर्व एत आत्मानो व्युच्चरन्ति" [बृ. २. १. २०.] इति श्रुतिः । सुप्तोत्थितजीवात् प्राणादिसृष्टिं प्रतिसादयन्ती प्रमाणम् न च सुषुप्तौ प्राणादिपञ्चकस्य त्वात् किमर्थं पुनः सृष्टिरिति वाच्यम् , " न तु तद् द्वितीयमस्ति ततोऽन्यद् विभक्कं यत् पश्येत्” [बृहदारण्यकोपनिषद् धवं विश्वमिदं जगद्” । १० नाविच्छेदपरत्वस्येव युक्तत्वात, मानो व्यच्चरन्ति" Page #384 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। ३१३ सति मोक्षः, शुकादीनां मोक्षश्रवणं चार्थवाद इत्यायुधम् । ननु वस्तुनि विकल्पासंभवात् कथं परस्परविरुद्धमतप्रामाण्यम् , तस्मात् किमत्र हेयं किमुपादेयमिति चेत् ? क एवमाह वस्तुनि विकल्पो न । ४. ३. २३.] इत्यादिना सुषुप्तौ सकलकार्यप्रपञ्चलयश्रवणात् । न च "सुषुप्तौ हिता नाम नाड्यः" [ ] इति नाडीसत्त्वप्रतिपादकवाक्यविरोधः, केन क्रमेण सुषुप्तौ भवतीत्यपेक्षायां “हिता नाम नाड्यो हृदयात् पुरीततमभि प्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते" [ को. त. ४. १९. 1 इत्यादिना सुषुप्यव्यवहितकाले क्रमोक्तये नाडीसत्त्वं प्रतिपाद्यते, न तु सुषुप्तिकालेऽपि, वाक्यान्तरविरोधात् , प्राक् सत्त्वमात्रेण च क्रमाभिधानपर्याप्तः । ननु " यत्रैष एतत्सुप्तोऽभूत् " [बृ० २१. १६.] इति यच्छब्देन सुप्ताधारत्वेनोक्तस्य ब्रह्मण एवास्मादात्मन इत्यनेन परामर्शात् तत्कर्तृकैव प्राणादिसृष्टिने तु सुप्तोत्थितजीवकर्तृका, अन्यथाऽन्यूर्णनाभादेस्तन्तुविस्फुलिङ्गादिजननोतिरत्रापि वाक्ये सर्वलोकदृष्टयुक्तिश्चालीकार्था स्यात् , नहि दृष्टिसृष्टिपक्षेऽग्न्यूर्णनाभादेस्तन्त्वादिजनकत्वं सर्वलोकसृष्टिर्वाऽस्तीति चेत् ? न- यत्रेत्यस्य कालपरत्वेन यच्छब्देन ब्रह्मणो निर्देशाभावात् । न च यत्रेयस्य ब्रह्मरूपाधिकरणपरत्वं कालपरत्वं वेत्यत्र विनिगमनाविरहः, अनन्तरवाक्ये केष तदाभूदित्यत्र क-तदेति पदद्वयोपादानस्यैव विनिगमकत्वात् , यत्रेत्यनेन निर्देशे केति प्रश्नानुपपत्तेः, कालानिर्देशे च तदेति प्रतिनिर्देशानुपपत्तेः, भाष्यकारादिभिश्च स्थूलाधिकारिणं प्रति तथाव्याख्यानात् , ऊर्णनाभादेस्तन्त्वादिजन्योत्पत्तिस्तु लौकिकभ्रमसिद्धकार्यकारणभावप्रसिद्धिमनुरुध्य, सर्वलोकादिसृष्टिश्च तत्तदृष्टिव्यक्तिमभिप्रेत्य, यदा यत् पश्यति तत्समकालं तत् सृजतीत्यत्र तात्पर्यात् । न चाविद्यासहकृतजीवकारणकत्वे जगद्वैचित्र्यानुपपत्तिः, जगदुपादानस्याज्ञानस्य विचित्र शक्तिकत्वात् , उपपत्त्यन्तरं चात्र सिद्धान्तबिन्दुकल्पलतिकादावभिहितम् . वासिष्ठ वार्तिकामृतादावाकरे स्पष्टमेवोतं- यथा " अविद्यायोनयो भावाः सर्वेऽमी बुद्धदा इव । क्षणमुद्भूय गच्छन्ति ज्ञानकजलधौ लयम् ॥१॥" [ ] इत्यादि, तस्माद् ब्रह्मातिरिक्तं द्वैतजातं ज्ञानज्ञेयरूपमाविद्यकमेवेति प्रातीतिकत्वं सर्वस्येति सिद्धम् , "रज्जु-सर्पादिवद् विश्वं नाज्ञातं सदिति स्थितम् । प्रबुद्धदृष्टिसृष्टित्वात् सुषुप्तौ च लयश्रुतेः ॥१॥" [ ] इति। दृष्टिसृष्टिवादे वादान्तरतो विशेषमुपदर्शयति-अस्मॅिश्व पक्षे इति । "जीव एवेश्वरज्ञान" इत्यस्य स्थाने 'जीव एवेश्वराज्ञान' इति पाठो युक्तः, ईश्वरविषयकं यदज्ञानं जीवस्य तद्वशात् - तत्सहकाराजीव एव जगत उपादानकारणं निमित्तकारणं चेत्यर्थः । वादान्तरे कस्यचित् प्रातीतिकं सत्त्वं कस्यचिद् व्यावहारिक सत्त्वं ब्रह्मव्यतिरिक्तस्य, दृष्टिसृष्टिवादे तु ब्रह्मव्यतिरिक्तस्य सर्वस्य प्रातीति कसत्त्वमेवेत्याह-दृश्यं चेति । दृष्टिसृष्टिवादे यद्येक एव जीवस्तदा जीवभेद उपलभ्यमानः कथमुपपद्यतामित्यपेक्षायामाह-देहभेदादिति- वस्तुतो जीव एक एव, देहभेदात् तद्भेदोपलम्भस्तु भ्रमरूपत्वान्न जीवभेदसाधने प्रभुरित्यर्थः । अस्मिन् मते एकस्य जीवस्यात्मसाक्षात्कारे सति मोक्षो यदा भविष्यति तदेव स मोक्षः सर्वजीवमोक्षात्मकः, न त्विदानी पर्यन्तं कस्यापि मुक्तिरुपजाता, शुकादीनां मोक्षप्रतिपादनमर्थवादमात्रमुपदर्शयतिएकस्यैवेति - अस्य मोक्ष इत्यनेन सम्बन्धः, स्वेन कल्पितो यो गुरुः शास्त्रादिश्च, तदुपबृंहितस्तदुपष्टम्भेन जनितो यः स्वस्यैव ब्रह्मस्वरूपस्य श्रवण-मननादिः, आदिपदान्निदिध्यासनापरिग्रहः, तस्य दायाद्- भूयो भूयोऽभ्यासादात्मसाक्षाकारे-परब्रह्मात्मकस्वसाक्षात्कारे सति एकस्यैव जीवस्य मोक्षो भवति, एवकारेण जीवान्तरस्याभावान्न मोक्ष इत्यावेदितम् । नन्वेवं यद्येक एव जीवोऽतस्तस्यैव मोक्षस्तर्हि शुक-वामनादीनां शास्त्रे मोक्षप्रतिपादनं विरुद्धयत इत्यत आह-शुकादीनामिति । अर्थवादः प्रशंसामात्रम् । तदेवं ब्रह्माद्वैतवादे वेदान्ते जीवेश्वरविभागव्यवस्था अवान्तरमतभेदनिबन्धना बहुधोपदर्शिता, वस्तुनि विकल्पासम्भवात् तत्र कश्चिदेक एव प्रकारो युज्यते, अन्ये प्रकारास्तु कल्पनामात्रनिबन्धना न प्रमाणवीथीमवतरन्ति, योऽप्येकप्रकारो वस्तुभूतः सोऽपि विरुद्धपक्षसमाहारान्तर्गतोऽनिर्धारितस्वरूप एव, न चैतेषां परस्परविरुद्धप्रकाराणां प्रामाण्यमात्मसात्कर्तुं शक्यमतः कस्यात्रोपादानं कस्य परित्यागो वा न्याय्य इति सन्दिहानस्तटस्थः शङ्कते- नन्विति । तस्मात् प्रकारभेदकल्पनालक्षणविकल्पासम्भवप्रयुक्तवस्तुविषयकपरस्परविरुद्धमतप्रामाण्याभावात् । अत्र दर्शितमतेषु । कि हेयं किं मतं नोपादेयम्, किमुपादेयं किं मतं स्वीकरणीयम् । उत्तरयति-क एवमाहेति - वस्तुनि विकल्पो न संभवतीत्येवं क आहेति, काक्का न कोऽप्येवं कथयतीति। ततः किं वस्तुनि विकल्पः सम्भवतीत्यपेक्षायामाह-स्थाणुबैतिएकस्मिन्नपि वस्तुनि 'अयं स्थाणुर्वा स्यादयं पुरुषो वा भवेदयं किमु राक्षसः' इत्यादिविकल्पानां प्रवृत्तेदर्शनादित्यर्थः । ४० Page #385 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । सम्भवतीति, स्थाणुर्वा पुरुषो वा राक्षसो वेत्यादिविकल्पानां वस्तुनि प्रवृत्तिदर्शनात् । अतान्त्रिकी सा कल्पना पुरुषबुद्धिमात्रप्रभवा, इयं तु शास्त्रीया जीवेश्वरविभागादिव्यवस्थेति कथं तत्र विकल्पस्पर्श इति चेत् ? नूनमतिमेधावी भवान् येनेत्थं वदसि, अद्वितीयात्मतत्त्वं हि प्रधानं फलवत्त्वादज्ञातत्वाच्च प्रमेयम्, शास्त्रस्य जीवेश्वरविभागादिकल्पनास्तु पुरुषबुद्धिप्रभवा अपि शास्त्रेणानूद्यन्ते तत्त्वज्ञानोपयोगित्वात् " फलवत्सन्निधावफलं तदङ्गम् " [ ] इति न्यायात् भूमसिद्धस्यापि श्रुत्यानुवादनभावात् । एतेन द्वैतसमानाश्रयविषयत्वनियमाज्जडैव प्रामाण्यप्रयोजनाभावेनाज्ञानानङ्गीकारात्, तदवनन्वेकस्वरूपे पुरुषे स्थाणौ वा येयं स्थाणुर्वाऽयं पुरुषो वाऽयं राक्षसो वाऽयमित्यादिकल्पना सा न वस्तुनिबन्धना किन्तु पुरुषबुद्धिमात्र प्रभवेत्यनेकधा सम्भवति, जीवेश्वरविभागव्यवस्था तु शास्त्रीया वस्तुतत्त्वनिबन्धनैवेति वस्तुन एकस्वरूपत्वा देकस्वरूपैव सा भवितुमर्हति, न नानकस्वरूपा यतो वस्तुनि न विकल्पस्पर्श इत्याशङ्कते - अतात्विकी सेति । अताविकी अपारमार्थिकी । सा स्थाणुर्वा पुरुषो वैत्याकारा । इयं त्वित्यस्य जीवेश्वरविभागव्यवस्थेयनेनान्वयः । तत्र शास्त्रीयायां जीवेश्वरविभागादिव्यवस्थायाम् । समाधत्ते - नूनमिति - निश्चितमित्यर्थः । " धीर्धारणावती मेधा " इति वचना दतिमेघावीत्यस्यात्यन्तधारणा शालिबुद्धिमानित्यर्थः, उपहासवचनं चेदम्, यतो जीवेश्वरविभागादिकल्पनाः पुरुषबुद्धिप्रभवा एव, तासामनुवादमात्रं शास्त्रेण न च तत्र शास्त्रस्य प्रामाण्यम्, अन्याज्ञात एवार्थे शास्त्रस्य प्रामाण्याभ्युपगमादित्यशास्त्रीयास्वपि जीवेश्वरविभागादिकल्पनासु शास्त्रीयत्वमवधारयतो भवतोऽतिमेधावित्वं नास्त्येवेति । येन अतिमेधावित्वेन, अर्थाद् अतिमूढत्वेन । इत्थम् अतारिवकी सेत्यादिस्वरूपम् । शास्त्रीयं तत्त्वमद्वितीयात्मतत्त्वम् जीवेश्वरविभागादिकल्पना न शास्त्रीयाः किन्तु पुरुषबुद्धिप्रभवा इत्येतत् स्पष्टयति-अद्वितीयेति । " प्रमेयम्, शास्त्रस्य " इत्यस्य स्थाने " प्रमेयं शास्त्रस्य । ” इति पाठो युक्तः, हि यतः फलवत्त्वादज्ञातत्वाच प्रधानं सदद्वितीयात्मतत्त्वं शास्त्रस्य प्रमेयमिति तदेव शास्त्रीयमित्यर्थः । पुरुषबुद्धिमात्र प्रभवाणामपि जीवेश्वरविभागादिकल्पनानां तत्त्वज्ञानोपयोगित्वाच्छास्त्रेणानुवादः " असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते" [ ] इति वचनादित्याह - जीवेश्वर विभागादिकल्पनास्त्विति । तत्त्वज्ञानोपयोगित्वेन प्रमाणान्तरसिद्धानामपि तासां शास्त्रेणानुवदनं न्याय्यमित्यावेदयति- फलवदिति - यथा दर्श- पौर्णमासाभ्यां स्वर्गकामो यजेतेति विधिः स्वर्गफलकदर्शपौर्णमासयाग प्रतिपादकत्वात् फलवान्, तत्प्रकरणपठितः समिधो यजतीत्यादिविधिः समिधा यागादिप्रयाजपञ्चकाफलवत्त्रतिपादकत्वादफल: सन् दर्शपौर्णमासादियागविध्यङ्गं भवति-समिद्यागादिभिरुपकृत्य दर्शपौर्णमासाभ्यां स्वर्गं भावयेदिति तथा प्रकृतेऽपि अद्वितीयात्मतत्त्वज्ञानान्मोक्ष इति मोक्षरूपपरमपुरुषार्थ साधन ज्ञानविषयत्वादद्वितीयात्मतत्त्वं फलवत् तत्प्रतिपादकवचनमपि तथा तत्सन्निधौ श्रूयमाणं प्रमाणान्तरसिद्धमपि जीवेश्वरविभागादिकमफलं सत् तदङ्गमिति प्रमाणान्तरसिद्धानामपि तासां शास्त्रेणानुवदनं युक्तमिति मुकुलितोऽर्थः । भूमसिद्धस्यापीत्यस्यानेकप्रमाणसिद्धस्यापीत्यर्थः । एतेनेत्यस्यायमेव परिहार इत्यनन्तरं ज्ञातव्य इति पूरितेनान्वयः । 'द्वैतसमानाश्रयविषयत्वनियमाज्जजैव प्रामाण्यप्रयोजनाभावेनाज्ञानानङ्गीकारात् " इत्यस्य स्थाने " अद्वैतस्य चैतन्यस्य अज्ञानाश्रयविषयत्वनियमात् ; जडे च प्रमाणप्रयोजनाभावेनाज्ञानानङ्गीकारात् " इति पाठो युक्तः, अद्वैतस्य - अद्वैतस्वरूपस्य चैतन्यस्य शुद्धब्रह्मणः, अज्ञानाश्रय विषयत्वनियमात् -- अद्वितीय चैतन्यमेवाज्ञानस्याश्रयोऽज्ञानस्य विषयश्चेत्येवं नियमात् " आश्रयत्व विषयत्वभागिनी निर्विभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमी नाश्रयो भवति नापि गोचरः ॥ १ ॥ [१३१९ ] इति संक्षेपशारीरकवचनात्, जडे च- चैतन्यभिन्ने पुनः, प्रमाणप्रयोजनाभावेनेति - चैतन्यस्य स्वयं प्रकाशस्वरूपत्वात् तत्राज्ञानरूपावरणाभावे तत्प्रकाशः सर्वदैव स्यात्, यथा दीपस्य प्रकाशस्त्ररूपस्य शरावाद्यावरणाभावे प्रकाश इति चैतन्ये आवरणरूपाज्ञानकल्पने प्रमाणं विद्यते, जडस्य तु स्वयं प्रकाशरूपत्वाभावात् प्रकाशस्वरूपनिराकृत चैतन्यतादात्म्याभ्यासादेव प्रकाशो नान्यथेति तत्रावरणकल्पने प्रमाणं न विद्यते न वा किमपि प्रयोजनम्, चैतन्ये तु सत्यावरणे न प्रकाशः, तदपगमे तु प्रकाश इत्येवं प्रयोजनं विद्यते, तथा यावदज्ञानसम्बन्धस्तावद् बन्धः, सर्वथा तदपगमे मोक्ष इत्येवमपि प्रयोजनं विद्यते, एवं च जडे प्रमाण- प्रयोजनयोरभावेनाज्ञानस्यानभ्युपगमादित्यर्थः । नन्वेवं जडेऽज्ञानाभावे शुत्यज्ञानं रज्ज्वज्ञानमित्येवं शुक्तिरज्ज्वादावज्ञानव्यवहारो न स्यादित्यत आह-तदवच्छिन्नेति शुक्त्याद्यवच्छिन्नेत्यर्थः, तत्र शुक्त्यादौ तथा च शुक्तय ३१४ " Page #386 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलङ्कतो नयोपदेशः । च्छिन्नचैतन्याज्ञानादेव तत्राज्ञानव्यवहारोपपत्तेः, प्रामाण्यस्य चाऽज्ञातज्ञापकत्वरूपत्वात् , अन्यथा स्मृतेरपि तदापत्तेरिति वेदान्तेषु सर्वत्रैवं विरोधेऽयमेव परिहारः, तदाह वार्तिककारः “ यया यया भवेत् पुंसो, व्युत्पत्तिः प्रत्यगात्मनि । सा सैव प्रक्रिया ज्ञेया, साध्वी सा वानवस्थितेः ॥" [ इति श्रुतितात्पर्यविषयीभूतार्थविरुद्धं तु मतं हेयमेवेति नातिप्रसङ्गः, स च जीवोऽज्ञानबहुत्ववादिनां हिरण्यगर्भ-विराडादिभेदेन नाना, अज्ञानक्येऽपि तत्तच्छक्तिभेदात् तज्जान्तःकरणभेदाद् वा नानेत्यपि वदन्ति । तत्र तत्त्वज्ञानेन शक्तिरन्तःकरणस्य वा निवृत्तिरिति बद्धमुक्तव्यवस्था, जीवभेद एव क्रममुक्तिफलानां हिरण्यगर्भाद्युपासनावाक्यानां " न तस्य प्राणाः" [बृहदारण्यकोपनिषद्, ४. ४. ६. ] इत्यादीनां चाञ्जस्येनोपपत्तिः, एकजीववादे तूपासनावाक्यानां क्रममुक्तिफलश्रवणमर्थवादमात्रम् , क्रमेणैव मुक्त्यङ्गीकारे क्रममुक्तिफलानामुपासनानां बहुत्वेनैकस्यैव फलवत्त्वेऽपीतरेषु ज्ञानमित्यस्य शुक्त्यवच्छिन्न वेतन्याज्ञानमित्यर्थः, एवं रज्ज्वज्ञानमित्यादेरपि रज्ज्ववच्छिन्नचैतन्याज्ञानमित्यादिरेवार्थस्तथैव तझ्यवहारोपपत्तिरिति । यच्च शुद्धचैतन्यभिन्नं तत् सर्वमपि प्रमाणान्तरज्ञातमेवेति तत्प्रतिपादकश्रुतिवचनस्याशेषस्यापि अज्ञातज्ञापकत्वलक्षणं प्रामाण्यं न स्यादित्यप्यद्वैतप्रतिपादकवेदान्तेषु द्वैतप्रतिपादकवेदवचनेन विरोध इत्याशयेनाह-प्रामाण्यस्य चेति-प्रामाण्यस्य वेति पाठोऽपि, वाकारः पुनरर्थक एव। अन्यथा प्रामाण्यस्याज्ञातज्ञापकत्वरूपत्वानभ्युपगमे । तदापत्तेः प्रामाण्यापत्तेः । अयमेव अद्वितीयात्मतत्त्वव्यतिरेके वेदवचनस्यानुवादकत्वमेव, न तु प्रामाण्यमित्येवंरूप एव । उक्कार्थे वार्तिककारसम्मतिमुपदर्शयति- तदाहेति । यया यया यादृश्या यादृश्या जीवेश्वरविभागादिकल्पनालक्षणप्रक्रियया। पंसः प्रमातुः । प्रत्यगात्मनि शुद्धचैतन्यलक्षणात्मनि । व्युत्पत्तिः सम्यगवगतिः । भवेत् स्यात् । “सा वानवस्थितः" इत्यस्य स्थाने “सा चानवस्थिता" इति पाठः सम्यग, सा प्रक्रिया, अमुकप्रमाणवेत्येवं कल्पकानां पुरुषज्ञानानामनन्तत्वान्नावधारयितुं शक्येत्यनवस्थितेति तदर्थः । तस्मात् किमत्र हेयं किमुपादेयमिति यत् पृष्टं तत्राह- श्रुतितात्पर्येतिश्रुतितात्पर्यविषयीभूतार्थविरुद्धमतस्य हेयत्वे कथिते श्रुतितात्पर्यविषयीभूतार्थाविरुद्धमतस्योपादेयत्वमुक्तप्रायमिति कण्ठतस्तदनुक्तावपि न न्यूनत्वमिति बोध्यम् । नातिप्रसङ्गः न हेयमतस्योपादेयत्वप्रसङ्गः, उपादेयमतस्य च हेयत्वप्रसङ्गः । स च जीवः अज्ञानोपहितचैतन्यलक्षणो जीवश्च, अस्य नानेत्यनेनान्वयः । अज्ञानलक्षणोपाधिबहुत्वात् तदुपहितचैतन्य लक्षणजीवस्य हिरण्यगर्भ-विराडादिभेदेन नानात्वमभिहितम्, इदानीमज्ञानस्यैक्येऽपि प्रकारान्तरेण जीवस्य नानात्वं स्वीकुर्वतां मतमुपदर्शयति- अज्ञानक्येऽपीति । तत्तच्छक्तिभेदात् तत्तज्जीवं प्रति एकस्यैवाज्ञानस्यावरणशक्तिविक्षेपशक्तिभेदात् । वा अथवा । तजान्त:करणभेदात् यावन्तो जीवास्तावन्त्यज्ञानजन्यान्तःकरणानि, तेषां भेदात् । नाना जीवो नाना । वदन्तीत्यनेनास्वरसः, स च- यथाऽज्ञानस्यैक्यं तथा जीवस्याप्यैक्यमेव तथापि विभिन्नशक्तिसम्बन्धाद् विभिन्नान्तःकरणसम्बन्धाद् वा प्रतिनियतबन्धादिव्यवस्थोपपत्तेर्जीवस्य नानात्वाभ्युपगमो न ज्यायानित्यादिरूपः । अथवोक्तदिशा जीवभेदस्यैव युक्तत्वं न तत्र वदन्तीत्यनेनास्वरसोऽभिप्रेतोऽपीत्याशयेनाहतत्रेति- उक्तप्रकारेण जीवभेदपक्षे इत्यर्थः । "शक्ति" इत्यस्य स्थाने "शके" इति पाठो युक्तः, यद्यपि तत्त्वज्ञानेन शरन्तःकरणस्य वा निवृत्तौ यज्जीवभेदप्रयोजकशक्त्यन्तःकरणनिवृत्तिस्तस्य जीवस्य मुक्तिरित्येवं मुक्तिनियम एवोपपादितो न तु बन्धनियम उपदार्शत इति तावन्मात्रोक्त्या बन्धमुक्तव्यवस्था नोपदर्शिता भवति तथापि शक्तरन्तःकरणस्य वा निवृत्त्या मुक्तिव्यवस्थितौ शक्तेरन्तःकरणस्य वा सत्त्वाद् बन्धस्यापि व्यवस्थितिरर्थात् प्राप्तैवेति यजीवभेदप्रयोजकस्य शक्तेरन्तःकरणस्य वा सत्त्वं तस्य जीवस्य बन्धो यज्जीवभेदप्रयोजकस्य शक्तरन्तःकरणस्य वा निवृत्तिस्तस्य जीवस्य मोक्ष इत्येवं भवति बद्धमुक्तव्यवस्थेति । जीवभेदपक्ष एव वेदवचनानां केषाञ्चित् सर्वथोपपत्तिरित्याह-जोवभेद एवेति । आञ्जस्येन अकुटिलप्रकारेण । एवं जीवभेदपक्षे बद्धमुक्तव्यवस्थादिकमुपदर्य जीवैक्यवादे तदुपदर्शयति-एकजीववादे विति-"क्रमेणैव" इत्यस्य स्थाने "अक्रमेणैव' इति पाठो युक्तः, एकजीववादे जीवसमष्टिरूप एक एव जीवस्तस्य Page #387 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। तच्छ्रवणस्यार्थवादताया आवश्यकत्वात् , फलवत्ता तु तासां सत्त्वशुद्धिद्वारा श्रवणाद्यधिकारोपयोगात् , प्रमातृभेदाङ्गीकारात् तत्तत्फलभोगोत्तरमिममिति विशेषणादेतत्कल्पावच्छेदेन मानवभवानावृत्त्या वा भविष्यति, तदेवं व्यवस्थितमेकानेकवा दिनां जीवस्वरूपम् । तत्रान्तःकरणमध्यस्यतेऽहमिति रजवामिव सर्पः केवलस्य तस्य साक्षिभास्यत्वात् , तत्तत्कार्याकारपरिणतस्यैव साक्षिणा भानमित्यहमाकारेण परिणतस्य तस्याभ्यासोऽयमहङ्काराध्यास इति गीयते । अयं च न सोपाधिक उपाधेरभावात् , अहमज्ञ इति स्वहङ्काराज्ञानयोरेकचैतन्याध्यासाद् दग्धृत्वायसोरेकवह्निसम्बन्धादयो दहतीतिवत् । तच्चान्तःकरणं स्मृति-प्रमाण-वृत्तिसङ्कल्पविकल्पा-ऽहंवृत्त्याकारेण परिणतं चित्त-बुद्धि-मनो-ऽहकारशब्दैमुक्तिरेव सर्वजीवमुक्तिरित्येवमक्रमेणैव मुक्त्यङ्गीकारे इत्यर्थः । एकस्यैव फलवत्त्वेऽपीति- येनोपासनेनैकजीवमुक्तिलक्षणसर्वजीवमुक्तिस्तस्यैवोपासनस्य मुक्तिरूपप्रयोजनवत्त्वेऽपीत्यर्थः । इतरेषु मुक्तिफलकोपासनव्यतिरिक्तोपासनेषु । तच्छ्रवणस्य मुक्तिरूपफलवत्त्वश्रवणस्य । यदि चान्योपासनवचनानामर्थवादमात्ररूपत्वेन न फलवत्त्वं तर्हि निष्प्रयोजनानां तेषामाचरणं प्रेक्षावद्भिरकर्तव्यपद्धतिमापद्यत इत्यत आह- फलवत्ता विति, तासाम् अन्योपासनानाम् , अन्योपासनाभिरन्तःकरण. शुद्या तदनुष्ठाता मुमुक्षुः पुरुषः श्रवणाद्यधिकारी भवति, ततश्च स मुक्तो भवतीत्येवमन्योपासनानां सत्त्वशुद्धिद्वारा श्रवणाधिकारोपयोगात् फलवत्तेत्यर्थः । ननु जीवस्यैकत्वे तत्तदुपासनानन्तरमपि भवे पुनरावर्तनमस्त्येव, एकस्य जीवस्य जीवसमष्टयभिमानिनो मुक्तौ सत्यामशेषजीवानां पुनर्भवानवतारो नान्यथेति तत्तदुपासनानन्तरं भवानावृत्तिश्रवणं कथं सङ्गतमित्यत आह-प्रमातृभेदाङ्गीकारादिति- जीवस्यैकत्वेऽपि तत्तदन्तःकरणस्याज्ञानजस्यानन्तशक्त्याकलिताज्ञानशक्तिभेदात् तत्तवृत्त्यवच्छिन्नचैतन्यलक्षणप्रमातुदस्य स्वीकाराद् विभिन्नस्य तत्तदुपासनकर्तुः प्रमातुस्तत्तत्फलोपभोगोत्तरं पुनरनावृत्त्या भवानावृत्तिश्रवणं सुसङ्गतमित्यर्थः। वा अथवा। तत्तदुपासनाफलप्रतिपादिका श्रुतिः “इमं मानवमावर्त नावर्तते" [छान्दोग्योपनिषद्, ४. १५. ६ ] इत्येवंरूपा, तत्र मानवमावर्तमित्यस्य इममिति विशेषणात् इममिति विशेषणो. पादानात् एतत्कल्पावच्छेदेन यस्मिन् कल्पे यस्य हिरण्यगर्भाधुपासनं तत्कल्पावच्छेदेन तस्य मानवभवानावृत्त्या भवानावृत्तिश्रवणमुपपन्नं भविष्यतीत्यर्थः, ब्रह्मणो दिवसस्य यावान् समयः स एक कल्पतयोच्यते, ब्रह्मदिनं क्रमिकोत्पन्नचतुदशमन्ववस्थानसमयो भवति, एकैकस्य मनोर्दिव्यैकसप्ततियुगावस्थानम्, “मन्वन्तरं तु दिव्यानामेकसप्ततिः" [ ] इति वचनात् , कृतयुगादिचतुष्टयं दिव्ययुगमेकमुच्यते, दिव्यं युगसहस्रं तु ब्रह्मणो दिनमिति वचनाच दिव्ययुगसहस्नप्रमाणं ब्रह्मणो दिनं तत्प्रमाणकश्चैककल्पस्तदवच्छेदेन तत्कल्पाधिकरणकहिरण्यगर्भायुपासनकर्तृणां भवानावृत्तिः, न पुनः सर्वथा भवानावृत्तिरिति भावः । उपसंहरति-तदेवमिति । तत्र निरुक्तस्वरूपे जीवे । अन्तःकरणमितिअहमित्येवंरूपेणान्तःकरणमध्यस्यते इत्यर्थः । उक्काध्यासे निदर्शनमाह-रज्ज्वामिवेति- रज्ज्वां यथा सर्पोऽयमित्येवं सध्यासस्तथेत्यर्थः । अहमाकारणान्तःकरणस्य जीवे किमर्थमध्यास इष्यत इत्यपेक्षायामाह- केवलस्येति- अहमाद्याकारेणापरिणतस्येत्यर्थः । तस्य अन्तःकरणस्य । “साक्षिभास्यत्वात्" इत्यस्य स्थाने “ साक्ष्यभास्यत्वात्" इति पाठो युक्तः । 'अहं सुखी, अहं दुःखी, अहं यते' इत्येवमन्तःकरणं प्रतीयते न तु केवलमिति केवलस्य तस्य साक्षिणाप्य. भानादहमित्येवंरूपेण जीवे तस्याध्यासस्तद्भानान्यथानुपपत्त्या कल्प्यते इत्यर्थः । अमुमेवार्थ स्पष्टयितुमाह- तत्तत्कार्येतितत्तत्कार्याकारपरिणतस्यैवेत्यनन्तरं तस्येति दृश्यम् , एवकारेण तत्तत्कार्याकारेणापरिणतस्य तस्य व्यवच्छेदः, तस्येत्यस्यान्त:करणस्येत्यर्थः । जीवेऽहमित्याकारेण योऽन्तःकरणस्याध्यासलक्षणोऽहङ्कारः स उपाधेरभावान्न सोपाधिक. किन्तु निरुपाधिक एवायमित्याह-अयं चेति। अन्तःकरणस्य जीवेऽहमित्याकारेणाध्यासतोऽहङ्कारस्वरूपनिष्पत्तिस्तस्याङ्कारस्थाज्ञानस्य चैकचैतन्ये. ऽध्यासादहमज्ञ इति प्रतीतिरुपपद्यत इत्याह- अहमज्ञ इति स्विति । उभयोरेकस्य सम्बन्धात् कार्यान्तरं भवतीत्यत्र दृष्टान्तमाहदग्धृत्वेति । एकस्यवान्तःकरणस्य चित्तबुद्धिमनोऽहङ्कारशब्देन व्यवहियमाणत्वं कार्यभेदादुपदर्शयति- तच्चान्तःकरणमिति । स्मृतीति-स्मृत्याख्यवृत्तिरूपेण परिण मन्तःकरणं चित्तमिति व्यवहियते, प्रत्यक्षानुमानादिप्रमाणवृत्तिरूपेण परिणतमन्तःकरणं बुद्धिरित्यभिधीयते, सङ्कल्पविकल्पादिवृत्तिरूपेण परिणतमन्तःकरणं मन इति गीयते, अहमाकारवृत्तिरूपेण परिणतमन्तःकरणमहार इत्येवं व्यपदिश्यते, अन्तःकरणस्य निरुकचतुष्टयरूपत्वं संवदतीदं वचनम्-मनो बुद्धिरहङ्कारश्चित्तं करणमिष्यते Page #388 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। ३१७ व्यवह्रियते, इदमेवात्मतादात्म्येनाध्यस्यमानमात्मनि सुखदुःखादिस्वधर्माध्यासे उपाधिः, स्फटिके जपाकुसुममिव लौहित्यावभासे । एवं प्राणादयस्तद्धर्माश्चाशनीयाः पिपासादयः तथा, श्रोत्रादयो वागा. दयश्च तद्धर्माश्च बधिरत्वा-ऽन्धत्वादयोऽध्यस्यन्ते, तथा देहस्तद्धर्माश्च स्थूलत्वादय आत्मन्यध्यस्यन्ते । तत्रेन्द्रियादीनां न तादात्म्याध्यासः, अहं श्रोत्रमित्यप्रतीतेः, देहस्तु मनुष्योऽहमितिप्रतीतेस्तादात्म्येनाध्यस्यते, एवं चैतन्यस्याप्यहङ्कारादिषु देहपर्यन्तेष्वध्यासः स्वीकार्यः, अध्यासव्यवधानतारतम्याच्च प्रमेय. तारतम्यम्, तदुक्कं वार्तिकामृते " वित्तात् पुत्रः प्रियः पुत्रात् , पिण्डः पिण्डात् तथेन्द्रियम् । इन्द्रियेभ्यः परः प्राणः, प्राणादात्मा परः प्रियः ॥" सङ्कल्पाध्यवसायादिलक्षणा विषय स्त्वमी ॥१॥" [ इति । चैतन्येऽन्तःकरणाहकारादेरध्यासस्य निरुपाधिकत्वमुपदर्य आत्मनि सुख-दुःखादिधर्माध्यासस्य सोपाधिकत्वमुपदर्शयति- इदमेवेति-निरुक्तस्वरूपमन्तःकरणमेवेत्यर्थः । आत्मतादात्म्येनाध्यस्यमानम् आत्मनि तादात्म्येनाध्यस्यमानं सत्, अस्योपाधिरित्यनेनान्वयः । स्वधर्मेतिअन्तःकरणधर्मेत्यर्थः । स्वधर्माध्यासे खस्योपाधित्वे दृष्टान्तमाह- स्फटिक इति-जपाकुसुमं यथा खगतलौहित्यधर्मस्य स्फटिकेऽवभासे उपाधिस्तथेत्यर्थः। यथाऽन्तःकरण-तद्धर्मसुख-दुःखादीनामात्मन्यध्यासस्तथा प्राणादीनां तद्धर्माणामशनीयादीनामात्मन्यध्यासः, एवं श्रोत्रादीनां ज्ञानेन्द्रियाणां वागादीनां कर्मेन्द्रियाणां तद्धर्माणां बधिरत्वादीनां चात्मन्यध्यास इत्याहएवमिति । तद्धर्माश्च प्राणादिधर्माश्च । “श्चाशनीयाः पिपासादयः तथा," इत्यस्य स्थाने 'श्वाशनीयापिपासादयः, तथा' इति पाठः समीचीनः । तद्धर्माश्च श्रोत्रादिधर्माश्च । अन्धत्वादय इत्यत्रादिपदात् कुष्ठादीनां त्वगादिधर्माणां मूकत्वादीनां वागादिधर्माणामुपग्रहः। देह-तद्धर्माणामप्यात्मन्यध्यास इत्याह- तथा देह इति । तद्धर्माश्च देहधर्माश्च । इन्द्रियादीनां तादाम्यातिरिक्तसम्बन्धेनैवाध्यासो न तादात्म्यसम्बन्धेनेत्याह-तत्रेति- आत्मनीत्यर्थः । आत्मनीन्द्रियस्य तादात्म्याध्यासाभावे हेतुमुपदर्शयति- अहं श्रोत्रमित्यप्रतीतेरिति- एतच्च 'अहं चक्षुः, अहं घ्राणम्' इत्याद्यप्रतीतेरिति हेतोरप्युपलक्षणम् । देहस्तु तादात्म्येनात्मन्यध्यस्यत इति सहेतुकमुपदर्शयति-देहस्त्विति । यथा चैतन्येऽहङ्कारादीना. मध्यासस्तथा चैतन्यस्याप्यहंकारादिष्वध्यासः, सोऽयमन्योऽन्याध्यास इत्याह- एवमिति । चैतन्यमात्मस्वरूपं परमप्रेमास्पदम् , तत्र यस्याभेदाद्यध्यासस्तस्य वा यत्राभेदाद्यध्यासस्तत्रापि प्रेम भवति, किन्तु साक्षादव्यवधानेनाध्यासे उत्कृष्टं प्रेम, ततो व्यवधानतरतमभावाभ्यासिताध्यासतस्तदपकृष्टतरतमभावापन्नं प्रेम भवतीत्याह- अध्यासतारतम्यभावाच्चेति । “प्रेमयतारतम्यम्" इत्यस्य स्थाने "प्रेम्णस्तारतम्यम्" इति पाठो युक्तः । उक्कार्थे वार्तिकामृतसम्मतिमुपदर्शयति- तदुक्तं वार्तिकामृत इति । वित्तादिति-वित्तं-धनं सर्वस्यात्मनः प्रियं भवति, परमप्रेमास्पदस्यात्मनो वित्ते स्वस्वत्वसम्बन्धाध्यासात् , ततोऽप्युत्कृष्टस्वत्वाध्यासादुत्कृष्टप्रियः पुत्रो भवति, पुत्रादपि पिण्डः शरीरं स्वतादात्म्यापन्नाहङ्कारतादात्म्याध्यासादुत्कृष्टतरप्रियं भवति, तथा उक्तप्रकारेण पिण्डादप्युत्कृष्टतमप्रियमिन्द्रियं भवति, इन्द्रियेभ्योऽपि पर:- अत्यन्तोत्कृष्ट. प्रियाः प्राणा भवन्ति, उक्तेभ्यः सर्वेभ्योऽनन्तरनिर्दिष्टप्राणेभ्यः परो निरतिशयः प्रिय आत्मा भवतीत्यर्थः । आत्मनः परमप्रेमास्पदत्वं च पञ्चदश्यां तत्त्वविवेकप्रकरणेऽप्युक्तम् " इयमात्मा परानन्दः परमप्रेमास्पदं यतः । मा न भूवं हि भूयासमिति प्रेमात्मनीक्ष्यते ॥" [ इदं च पद्यमित्थं व्याख्यातम्- भवत्येवं संविदो नित्यत्वं स्वप्रकाशत्वं च ततः किमित्यत आह- इयमिति-अनार्य प्रयोगः- 'इयमात्मा संविद् भवितुमर्हति, नित्यत्वे सति स्वप्रकाशत्वाद्, यन्नैवं न तदेवं यथा घटः' इत्यात्मनो नित्यसंविद्रूपत्वप्रसाधनेन सत्यत्वमपि साधितं भवति, नित्यत्वातिरिक्तसत्यत्वाभावान्नित्यत्वं सत्यत्वं तद् यस्यास्ति तन्नित्यं सत्यमिति वाचस्पतिमित्रैरुतत्वादिति भावः । आत्मन आनन्दरूपत्वं साधयति- परानन्द इति- आत्मेत्यनुषज्यते, परश्चासावानन्दश्चेति परानन्दो निरतिशयसुखस्वरूप इत्यर्थः, तत्र हेतुमाह- परेति- यतो यस्मात् कारणात् परस्य- निरुपाधि. कत्वेन निरतिशयस्य, प्रेम्णः- स्नेहस्य, आस्पदं- विषयस्तस्मात् , अत्रेदमनुमानम्- आत्मा परमानन्दरूपः परमप्रेमास्पद Page #389 -------------------------------------------------------------------------- ________________ ३१८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । तेनान्योऽन्याध्यासाच्चिदचिदन्थिरूपोऽयमध्यासः समूहालम्बनभ्रमवदवश्यमत्रेतरेतराध्यासस्याभ्युपगन्तव्यत्वात् । अयमेव संसारो मायाशबलाच्चिदात्मना आकाशादिक्रमेण लिङ्गशरीरात्मकापञ्चीकृत त्वात् , यः परमानन्दरूपो न भवति नासौ परमप्रेमास्पदमपि, यथा घटः, तथा चायं परमप्रेमास्पदं न भवतीति न, तस्मात् परमानन्दरूपो न भवतीति न । नन्वात्मनि धिङ् मामिति द्वेषस्योपलभ्यमानत्वात् प्रेमास्पदत्वमेवासिद्धम् , कुतः परप्रेमास्पदत्वमित्याशा तस्य दुःखसम्बन्धनिमित्तकत्वेनान्यथासिद्धत्वात् प्रेम्णश्चात्मन्यनुभवसिद्धत्वान्मैवमिति परिहरतिमा न भूवमिति । हि- यस्मात् कारणादात्मनि विषये मा न भूवम्- अहं मा भूवमिति न, ममासत्त्वं कदापि मा भूत् , किन्तु भूयासमेव सदा सत्त्वमेव मम भूयादित्येवंविधं प्रेमेक्ष्यते- सर्वैरनुभूयते, अतो नासिद्धिरित्यर्थः । तत्प्रेम्णः परमत्वप्रतिपादनपरमिदं पद्यम् "तत् प्रेमात्मार्थमन्यत्र नैवमन्यार्थमात्मनि । अतस्तत्परमं तेन परमानन्दताऽऽत्मनः।" [ ] तद्वयाख्यानं यथा- ननु मा भूत् स्वरूपासिद्धिः प्रेम्णः, परत्वे भानाद् विशेषणासिद्धितोरित्याशयाह- तत्प्रेमेति, अन्यत्र- स्वातिरिक्त पुत्रादौ, यत् प्रेम तद् आत्मार्थम् , तेषामात्मशेषत्वनिमित्तकमेव न स्वाभाविकम् , एवमात्मनि विद्यमानं प्रेमान्यार्थं न, आत्मनोऽन्यशेषत्वनिमित्तकं न भवति, किन्त्वात्मत्वनिमित्तकमेव, अतो निरुपाधिकत्वात् तत् परमं निरतिशयम् । फलितमाह- तेनेति- तेन निरतिशयप्रेमास्पदत्वेनात्मनः परमानन्दता निरतिशयसुखस्वरूपत्वं सिद्धम् ॥ पति-जायादीनां सर्वेषामात्मभोगार्थत्वादात्मन एव परमप्रेमास्पदत्वमित्यत्रेदमपि तृप्तिदीपप्रकरणगतं पद्यं साक्षिभावमाश्रयतिपति-जायादिकं सर्व तत्तद्भोगाय नेच्छति । किन्त्वात्मभोगार्थमिति श्रुतावुद्घोषितं बहु ॥ १॥" एतद्व्याख्यानं यथा- नन्वात्मनो भोक्तत्वप्रतिषेधस्तत्प्रसक्तिपूर्वको वक्तव्यः, सा तु न विद्यत असङ्गत्वादात्मन इत्याशक्य तस्याः स्वानुभवसिद्धत्वान्मवमित्यभिप्रेत्य तदनुवादिकां श्रुतिमर्थतोऽनुक्रामति- पतिजायेति- " नवा पत्युः कामाय पतिः प्रियो भवति" इत्यारभ्य “आत्मनस्तु कामाय सर्व प्रियं भवति" इत्यन्तन [ ] वाक्यसन्दर्भेण पति-जायादिकस्य प्रपञ्चस्यात्मनो भोगायतनत्वं प्रतिपाद्यते, तत आत्मनो भोक्तत्वप्रसक्तिरित्यर्थः ॥ तेनेति- चैतन्येऽहकारादेः, अङ्कारादौ चैतन्यस्य चाध्यासेनेत्यर्थः। अन्योऽन्याध्यासात् परस्पराध्यासात् । चिदचिद्रन्थिरूपोऽयमध्यासः अयमनन्तराभिहितोऽन्योऽन्याध्यासः, आत्मा चित् , अहङ्कारादिकमचित् , तयोप्रन्थिरूपोऽतिकठिनबन्धरूपः, चैतन्येऽहङ्कारादेरध्यासो भ्रमोऽहङ्कारादौ चैतन्याध्यासोऽपि भ्रमः, सोऽयं भ्रमद्वयात्मकः समूहालम्बनभ्रमवदवश्यमेषितव्य इत्याह- समूहालम्बनेति। अयमेव संसार चिदचिदन्थिरूपो योऽयमध्यासोऽनन्तरमुपदर्शितः स एव संसारः, तत्र कस्य कुत उत्पत्तिर्यतोऽयं विस्तृतस्वरूपश्चकास्तीत्यपेक्षायामुत्पत्तिक्रममुपदर्शयति-मायाशबलादिति- मायासमन्वितादित्यर्थः । “चिदात्मना" इत्यस्य स्थाने “चिदात्मनो" इति पाठः समुचितः । आकाशादिक्रमेणेति- मायासंवलिताच्चिदात्मन आकाशः सम्भूतः, आकाशाद् वायुस्सम्भूतः, वायोस्तेजस्सञ्जातम् , तेजसो जलमुत्पन्नम् , जलात् पृथिवी समुत्पन्नेत्येवं क्रमेणेत्यर्थः । लिङ्गशरीरात्मकापञ्चीकृतभूतोत्पत्ताविति- एतत्तत्त्वावबोधनाय पञ्चदशीगततत्त्वविवेकप्रकरणस्थानि कानिचित् पद्यानि सव्याख्यानान्युपदर्यन्ते " तमःप्रधानप्रकृतेस्तद्भोगायेश्वराज्ञया । वियत् पवन-तेजो-ऽम्बु-भुवो भूतानि जज्ञिरे ॥" क्रमप्राप्त सूक्ष्मशरीरं तदुपाधिकं जीवं व्युत्पादयितुं तत्कारणाकाशादिसृष्टिमाह- तमःप्रधानेति- तेषां प्राज्ञानां भोगायसुख-दुःखसाक्षात्कारसिद्धये, तमःप्रधानप्रकृतेः- तमोगुणप्रधानायाः प्रकृतेः पूर्वोक्काया उपादानकारणभूतायाः सकाशादीश्वराज्ञया-ईशनादिशक्तियुक्तस्य जगदधिष्ठातुराज्ञया ईक्षापूर्वकसर्जनेच्छारूपया निमित्तकारणभूतया वियदादिपृथिव्यन्तानि पञ्च भूतानि जज्ञिरे- प्रादुर्भूतानि, उत्पन्नानीत्यर्थः । “सत्त्वांशः पञ्चभिस्तेषां क्रमादीन्द्रियपञ्चकम् । श्रोत्र-त्वगक्षि-रसन-घ्राणाख्यमुपजायते ॥" भूतसृष्टिमभिधाय भौक्तिकसृष्टिमभिदधान आदौ ज्ञानेन्द्रियसृष्टिमाह- सत्त्वांशैरिति- तेषां वियदादीनां पञ्चभिः सत्त्वांशःसत्त्वगुणभागैरुपादानभूतैः, श्रोत्र त्वगक्षि-रसन-प्राणाख्यधीन्द्रियाणि ज्ञानेन्द्रियाणि तेषां पञ्चकं क्रमादुपजायते, एकैकभूतसत्त्वांशादेकैकमिन्द्रियं जायत इत्यर्थः । Page #390 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । ३१९ भूतोत्पत्तौ केषाश्चिन्मते तेभ्य एव पञ्चीकृतभूतोत्पत्तौ संप्रदायमते च तेषामेव संयोगविशेषावस्थानां तत्त्वस्वीकारे तेभ्यो ब्रह्माण्डभूवरादिचतुर्दशभुवनचतुर्विधस्थूलशरीरोत्पत्तेः, अत एव सिद्धाभिधानात्. ___ " तैरन्तःकरणं सर्वैर्वृत्तिभेदेन तद् द्विधा । मनो विमर्शरूपं स्याद् बुद्धिः स्यान्निश्चयात्मिका ॥" सत्त्वांशानां प्रत्येकमसाधारणकार्याण्यभिधाय सर्वेषां साधारणं कार्यमाह- तैरिति-तैः सह- सत्त्वांशः सर्वैः सम्भूय वर्तमानरन्तःकरणबुद्धयुपादानभूतं द्रव्यमुपजायत इत्यनुषङ्गः, तस्यावान्तरभेदं सनिमित्तमाह- वृत्तीति- तदन्तःकरणं वृत्तिभेदेन-परिणामभेदेन, द्विधा - द्विप्रकारं भवति, वृत्तिभेदमेव दर्शयति- मन इति-विमर्शरूपं-विमर्शः संशयात्मिका वृत्तिः सा स्वरूपं यस्य तत् तथा, तन्मनः स्यात् , निश्चयात्मिका - निश्चयोऽध्यवसायः स आत्मा स्वरूपं यस्याः सा निश्चयात्मिका वृत्तिबुद्धिः स्यात् ॥ " रजों शैः पञ्चभिस्तेषां क्रमात् कर्मेन्द्रियाणि तु । वाक्-पाणि-पाद-पायूपस्थाभिधानानि जज्ञिरे ॥" क्रमप्राप्तानां रजोंऽशानां प्रत्येकमसाधारणकार्याण्याह- रजोशैरिति - तेषां-वियदादीनामेव, पञ्चभी रजोशः- रजोभागस्तूपादानभूतः, वाक्-पाणि पाद पायूपस्थाभिधानानि- एतन्नामकानि, कर्मेन्द्रियाणि- क्रियाजनकानि इन्द्रियाणि जज्ञिरे ॥ " तैः सर्वैः सहितैः प्राणो वृत्तिभेदात् स पञ्चधा । प्राणोऽपानः समानश्चोदान-व्यानौ च ते पुनः ॥" रजोशानामेवं साधारणं कार्यमाह- तैः सर्वैरिति - सहितैः-सम्भूय कारणतां गतः, प्राणो जायत इति शेषः, तस्यावान्तरभेदमाह-वृत्तिभदादिति- स प्राणो वृत्तिभेदात् प्रागादिव्यापारभेदात् पञ्चधा-पञ्चप्रकारको भवति, वृत्तिभेदानेव दर्शयतिप्राण इति, ते पुनः- ते तु भेदाः प्राणादिशब्दवाच्या इत्यर्थः ॥ “बुद्धि-कर्मेन्द्रिय-प्राणपञ्चकर्मनसा धिया । शरीरं सप्तदशभिः सूक्ष्म तल्लिङ्गमुच्यते ॥" यदर्थमाकाशादिप्राणान्तानां सृष्टिरुक्ता तदिदानी दर्शयति-बुद्धीति- बुद्धयो ज्ञानानि कर्माणि व्यापारास्तजनकानीन्द्रियाणि, बुद्धीन्द्रियाणि कर्मेन्द्रियाणि चेत्यर्थः, बुद्धिकर्मेन्द्रियाणि च प्राणश्च बुद्धिकर्मेन्द्रियप्राणास्तेषां पञ्चकानि तैः, मनसाविमर्शात्मकेन, धिया-निश्चयरूपया बुद्धया च सह, सप्तदशभिः-सप्तदशसंख्यकैः, सूक्ष्मशरीरं भवति, तस्यैव संज्ञान्तरमाहतल्लिङ्गमिति, उच्यते- वेदान्तेष्वित्यर्थः ॥ एवं च पञ्चज्ञानेन्द्रिय पञ्चकर्मेन्द्रिय पञ्चप्राण-मनो-बुद्धयेतत्सप्तदशसमष्टयात्मकलिङ्गशरीरात्मकापञ्चीकृतभूतोत्पत्तावित्यर्थः । केषाश्चिन्मते केषाञ्चिद् वेदान्तिप्रकाण्डानामाचार्याणां मते, एभ्य एव आकाशादिपञ्चपूक्ष्मभूतेभ्य एव, पञ्चीकृतभूतो. त्पत्ताविति - एतत्तत्त्वप्रतिपादकं तत्त्वविवेकप्रकरणस्थं पद्यद्वयं क्रमेण वृत्तिसनाथमुपदर्यते " तद्भोगाय पुनर्नोग्यभोगायतनजन्मने । पञ्चीकरोति भगवान् प्रत्येक वियदादिकम् ॥ १॥" एवं लिङ्गशरीरं तदुपाधिको तैजस-हिरण्यगर्भी च दर्शयित्वा स्थूलशरीराद्युत्पत्तिसिद्धये पञ्चीकरणं निरूपयितुमाहतद्भोगायेति- भगवान् - ऐश्वर्यादिगुणषट्कसम्पन्नः परमेश्वरः, पुनः-पुनरपि, तद्भोगाय-तेषां जीवानां भोगायैव, भोग्यभोगायतनजन्मने - भोग्यस्यान्न पानादेः, भोगायतनस्य जरायुजादिचतुर्विधशरीरजातस्य च जन्मने उत्पत्तये वियदादिकमाकाशादिभूतपञ्चकं प्रत्येकमेकैकं पञ्चीकरोति अपञ्चात्मकं पञ्चात्मकं संपद्यमानं करोति ॥ द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः । स्वस्वेतरद्वितीयांशैर्योजनात् पञ्च पञ्च ते ॥" कथमेकैकस्य पञ्चपञ्चाकत्वमित्यत आह-द्विधेति-वियदादिकमेकै द्विधा द्विधा, तन्त्रेणोच्चारितो द्विधाशब्दः, विधायकृत्वा, भागद्वयोपेतं कृत्वेत्यर्थः पुनश्च-पुनरपि. प्रथमं -प्रथमभागम् , चतुर्धा-भागचतुष्टयोपेतं विधायेत्यनुषज्यते. स्वस्वेतरद्वितीयांशैः- स्वस्मात् स्वस्मादितरेषां चतुर्णा चतुर्णा भूतानां यो यो द्वितीयः स्थूलो भागस्तेन तेन सह प्रथमप्रथमभागांशानां चतुर्णा चतुर्णा मध्ये एकैकस्य योजनात् ते वियदादयः प्रत्येकं पञ्च पञ्चात्मका भवन्तीति ॥ ____ इत्थं पञ्चीकृतभूतोत्पत्तावित्यर्थः । संप्रदायमते च प्राचीनवेदान्तिमते पुनः । तेषामेव अपञ्चीकृतानामाकाशादिपञ्च. भूतानामेव । संयोगविशेषावस्थानां संयोगविशेषान्वितानाम् । तत्त्वस्वीकारे पञ्चमहाभूतत्वस्वीकारे । तेभ्यः पञ्चमहाभूतेभ्यः । ब्रह्माण्डेति- एतत्प्रतिपादकं तत्त्वविवेकगतपद्यं सविवरणं यथा " तैरण्डस्तत्र भुवनं भोग्यभोगाश्रयोद्भवः । हिरण्यगर्भः स्थूलेऽस्मिन् देहे वैश्वानरो भवेत् ॥" Page #391 -------------------------------------------------------------------------- ________________ ३२० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नबोपदेशः । (धानम् ), अथ कथमेतस्य निवृत्तिरिति चेत् ? शृणु- कश्चित् खलु पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः साङ्गाध्ययनबलाद् वेदान्तवाक्यानामापाततोऽर्थमधिगच्छति, काम्यत्वे सति कथम. ध्ययनविधेनित्यत्वमिति चेत ? काम्यत्वेऽपि धर्मा( अर्थावबोधफलकत्वेन फलतो नित्यत्वस्याबाधात. एतच्च मीमांसकमतेनोच्यते, स्वमते त्ववाप्तिफलकत्वेन फलतो नित्यत्वमध्ययनस्य, अहरहःकर्तव्यब्रह्मयज्ञाद्यर्थतयाऽवाप्तेरावश्यकत्वात् । अध्ययनविधेहि फलाकाङ्क्षायां निरतिशयसुखात्मकोऽपि स्वर्गो यथा न फलम् , अदृष्टत्वात , एवं दृष्टोऽप्यर्थावबोधो न फलम् , अनन्तरादृष्टत्वादश्रुतत्वाञ्च, अवाप्तिस्त्वनन्तर. दृष्टा श्रुता च फलत्वेन संबध्येत्, यथाहि- फलाकाङ्क्षायां दृष्टे सति नादृष्टं कल्प्यम् , एवमनन्तरदृष्टे सति न व्यवहितदृष्टं कल्प्यम् , श्रुते च सति नाश्रुतं कल्प्यम् , अर्थावबोधवादिनाप्यवाप्रङ्गीकारात्, एवं पञ्चीकरणमभिधाय तैर्भूतैरुत्पाद्यं कार्यवर्ग दर्शयति- तेरण्ड इति - तैः पञ्चीकृतैर्भूतैरुपादानकारणभूतैः, अण्डोब्रह्माण्ड उत्पद्यते, तत्र ब्रह्माण्डान्तर्भुवनान्युपरिभागे वर्तमाना भूम्यादयः सप्त लोकाः, भूमेरधः स्थितान्यतलादीनि सप्त पातालान्तानि, तेषु च भुवनेषु तेस्तैः प्राणिभिर्मोक्तुं योग्यान्यन्नादीनि तत्तल्लोकोचितशरीराणि च तैरेव पञ्चीकृतभूतैरीश्वराज्ञया जायन्ते, एवं स्थूलशरीरमभिधाय तेषु स्थूलशरीरेषु अभिमानवतो हिरण्यगर्भस्य समष्टिरूपस्य वैश्वानरसंज्ञकत्वम् , एकैकस्थूलशरीराभिमानवतां व्यष्टिरूपाणां तैजसानां विश्वसंज्ञकत्वं च भवतीत्याह-हिरण्यगर्भ इति- अस्मिन् स्थूल शरीरे वर्तमानो हिरण्यगर्भो वैश्वानरो भवेदिति ॥ अत एव अन्योऽन्याध्यासाच्चिदचिदन्थिरूपस्याध्यासस्य संसारस्वरूपत्वादेव । सिद्धाभिधानमित्यत्र ब्रह्माण्डेत्यादिषष्ट्यन्तस्यान्वयः, अत एवेत्यस्य च हेतुतयाऽन्वयः, सिद्धाभिधानमित्यस्य सिद्धवदभिधानमित्यर्थः, यत एव संसारो निरुकाध्यासस्वरूपस्तत एव तदन्तर्वर्तिनां ब्रह्माण्डादीनामुत्पतेरभिधानं सिद्धवदेव, न तत्र कोशाद्यभिहिते कथमित्थमित्याद्याकाजोत्थानम् , अन्योऽन्याध्यासात्मके संसारे सुव्यवस्थिते तदन्तर्गतस्याशेषस्याप्यन्योऽन्याध्यासरूपस्य सुव्यवस्थितत्वमेवेत्याशयः, इत्यमपञ्चीकृतपञ्चीकृतभूतादिमयचिदचिदन्थिस्वरूपान्योऽन्याध्यासलक्षणसंसारस्य क्रमिकोत्पत्तिमभिधाय निवृत्तिमभिधातुकामस्तत्र परपृच्छामुपन्यस्यति- अथेति - अस्य संसारोत्पत्तिनिरूपणानन्तरमित्यर्थः । एतस्य अनन्तराभिहितस्वरूपस्य संसारस्य । कथमित्याक्षेपे, प्रवाहतोऽनादिभूतस्य संसारस्य सहसैव निवृत्तिने सम्भावनापथमुपयातीति प्रष्टुरभिसन्धिः। उत्तरयति- शुण्विति । मुक्तिकारणब्रह्मतत्त्वसाक्षात्कारेच्छया मुमुक्षुरध्ययनमनुतिष्ठतीत्यध्ययनविधेः काम्यत्वे सति कथं नित्यत्वं नित्यत्व-काम्यत्वयोर्विरोधादिति नित्याध्ययनविधिनत्युक्तिर्न सङ्गतिमङ्गतीति शङ्कते-काम्यत्वे सतीति । " स्वाध्यायोऽध्येतव्यः" [ ] इत्यध्ययनविधिरध्ययनस्यैव कर्तव्यत्वमनुशास्तीति शब्दात्मकवेदस्वरूपाभ्यसनलक्षणाध्ययनेच्छया स्वाध्यायाध्ययनकरणे तस्य काम्यत्वेऽपि ततोऽर्थावबोधोऽवश्यम्भावीति तदात्मकफलापेक्षया स्वाध्यायाध्ययनविधेर्नित्यस्यापि सम्भवादपेक्षाभेदेन काम्यत्व नित्यत्वयोर्विरोधाभावादित्याशयेनोत्तरयति-काम्यत्वेऽपीति । अर्थावबोधफलकत्वेन फलतो नित्यत्वमध्ययनविधेः पूर्वमीमांसामतेनोक्तमित्याह- एतच्चेति। मीमांसकमतेन पूर्वमीमांसाभ्युपगन्तृमतेन । स्वमते उत्तरमीमांसाभ्युपगन्तृवेदान्तिमते, तु पुनः, अवाप्तिफलकत्वेनेति- अवाप्तिस्वरूपमप्रे व्यक्तीभविष्यति । अध्ययनविधेरवाप्तिफलकत्वं तदा स्याद् यद्यध्यनादवाप्तिः स्यात् , तस्यास्त्वनर्थिकाया अनावश्यकत्वमेवेत्यत आह- अहरहाकर्तव्येति- अहरहः कर्तव्यं यद् ब्रह्मयज्ञादि तदर्थतया तत्प्रयोजनकत्वेन अवाप्तेर्वक्ष्यमाणस्वरूपायाः आवश्यकत्वात्- अवश्यमभ्युपगन्तव्यत्वादित्यर्थः । अवाप्तेरध्ययनविधिफलत्वं व्यवस्थापयति- अध्ययनविधेीति । फलाकालायां किमर्थमध्ययनं कर्तव्यमित्याकाङ्खायाम् । स्वर्गस्याध्ययनफलत्वाभावे हेतुमाह- अदृष्टत्वादिति । अर्थावबोधस्याध्ययनविधिफलत्वाभावे हेतुद्वयमुपदर्शयति- अनन्तराष्टत्वादश्रुतत्वाञ्चेति । अनन्तरदृष्टत्वाच्छ्रुतत्वाचावाप्तेरध्ययनविधिफलत्वं निगमयति- अवाप्तिस्त्विति । निरतिशयसुखात्मकत्वेन फलान्तरतो वैशिष्ट्यमनुभवतोऽपि स्वर्गस्य कथमदृष्टवान्न फलत्वं, कथं वा दृष्टस्याप्यर्थावबोधस्यानन्तरादृष्टत्वादश्रुतत्वाच्च न फलत्वमित्याकाङ्क्षानिवृत्तये त्वाह- यथा हीति । मीमांसकेनाप्यवाप्तिः स्वीकरणीयेत्याह-अर्थावबोधवादिनाऽपीति- अध्ययनविधेरर्थावबोधः फलमित्यभ्युपगन्त्रा मीमांसके Page #392 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ३२१ = तन्मतेऽपि " पुरोहितं वृणीत " [ ] इत्यत्र वरसंस्कृतेन पुरोहितेनेष्टं भावयेदितिवत् " स्वाध्यायोऽध्येतव्यः " [ तैत्तरीयारण्यक, २. २५] इत्यत्रापि अध्ययनसंस्कृतेन स्वाध्यायेनार्थावबोधं भावयेदिति वाक्यार्थस्याभ्युपगमात् ' संस्कारश्चावाप्तिः' इत्यावश्यकमस्याः, किश्च क्षत्रियस्य निषादे. ष्ट्यादिवाक्याध्ययने अर्थावबोधफलाभावादवाप्तिरेव फलत्वेनाश्रयणीया, तस्मादध्ययनविधेः सर्वत्रावाप्तिरेव फलमिति युक्तम् । अथ केयमापातता ? उच्यते- वेदान्तजन्यज्ञानस्य निस्सामान्यविशेषब्रह्मावधारणरूपस्यापि संशयाविरोधितैव, सा च दोषविशेषसाचिव्येन समानप्रकारकसमानविशेष्यक. निश्चयत्वेनापि [ संभवति ], संशयप्रतिबन्धकत्वस्यापि घटवद् भूतलमिति निश्चयसत्त्वस्य भूतले घटो नवेति संशयाप्रतिबन्धकत्वेन वक्तुमशक्यत्वात् , सति दोषविशेषे निश्चितेऽपि संशयोत्पत्तेः, असति नाऽपीत्यर्थः । अवाप्तिर्मीमांसकेनाङ्गीक्रियते इत्युपपादयति-तन्मतेऽपीति-मीमांसकमतेऽपीत्यर्थः। वरसंस्कृतेनेत्यस्य वरणसंस्कृतेनेत्यर्थः, वरणं वर इति व्युत्पत्तेः, 'त्वं मे कर्तव्यकर्मणि पुरोहितो भूयाः' इत्येवं यस्य वरण तेनैव वरणसंस्कृतेन पुरोहितेनेष्टस्य करणे सति फलमधिगच्छति यजमानो न वरणसंस्काररहितेनेत्येतदर्थ भावयितुं पुरोहितं वृणीतेत्यस्यार्थ विष्कृतो वरसंस्कृतेनेत्यादिवचनेन । नन्वेवं संस्कारस्यावश्यकत्वं नावाप्तेरित्यत आह-संस्कारश्चावाप्तिरिति । " इत्यावश्यकमस्याः” इत्यस्य स्थाने " इत्यावश्यकत्वमस्याः" इति पाठो युक्तः, अस्याः अवाप्ते: । अवाप्तेः फलत्वे युक्त्यन्तरमुपदर्शयति-किश्चेति, निषादेष्ट्यादीति- " निषादस्थपति याजयेत्" [ ] इत्यत्र निषादश्चासौ स्थपतिस्तं याजयेदित्येवं कर्मधारयसमास एव लाघवादाश्रितः, न तु निषादानां स्थपतिर्निषादस्थपतिस्तं याजयेदित्येवं तत्पुरुषसमासोऽभ्युपगतः, एवं च निषादेष्टयुपयुक्तपदार्थावबोधकफलकं वेदवाक्यं सङ्करजातिविशेषेण निषादेनैवाध्येतव्यम् , क्षत्रियस्य तु निषादेष्ट्यनधिकारिणो न निषादेष्ट्युपयुक्तार्थावबोधफलमुपादेयमिति तत्फलकवाक्याध्ययनं न कर्तव्यं भवेत् , अवाप्तिफलाभ्युपगमे तु ब्राह्मण-क्षत्रिय-वैश्यलक्षणत्रैवर्णिकस्यैव वेदाध्ययनाधिकारतो वेदाध्ययनतः संस्कृताः सर्वेऽपि त्रैवर्णिका भवन्तीति संस्कारविशेषलक्षणावाप्तिः क्षत्रियस्यापीष्टेति तदर्थ क्षत्रियस्यापि निषादेष्ट्यादिवाक्याध्ययनं कर्तव्यकक्षामश्चतीति। उपसंहरतितस्मादिति । एतावता नित्याध्ययनविधिनेत्यत्र नित्यत्वं यदध्ययनविशेषणमुकं तदुपपादितम् , इदानी सानाध्ययनबलाद् वेदान्तवाक्यानामापाततोऽर्थमधिगच्छतीत्यत्राधिगमे आपातत इति यद् विशेषणं तत्स्वरूपमजानानः पृच्छति- अथ केयमापाततेति । उत्तरयति- उच्यत इति । वेदान्तजन्यज्ञानस्य तत्त्वमसीति महावाक्यात्मकवेदान्तजन्याखण्डब्रह्मसाक्षात्काररूपज्ञानस्य । तस्यानिर्णयात्मकत्वादेव संशयाविरोधितेति माऽवमंस्था निश्चयात्मकत्वेऽपि तस्य संशयाविरोधितेत्युपदर्शयितुमुक्तं-निःसामान्यविशेषब्रह्मावधारणरूपस्यापीति- ब्रह्मणो निर्धर्मिकत्वान्न तत्र सामान्यं विशेषा वा विद्यन्त इति निःसामान्यविशेषमखण्डं ब्रह्म, तस्य यदवधारणं निश्चयात्मकं ज्ञानं तपस्यापि तदात्मकस्यापि वेदान्तजन्यज्ञानस्येत्यर्थः । संशयाविरोधितैवेत्यनन्तरमापाततेत्यनुषज्यते । ननु तत्प्रकारकतद्विशेष्यकनिश्चयस्य तत्प्रकारकतद्विशेष्यकसंशयं प्रति प्रतिबन्धकत्वात् कथं निश्चयस्य संशयाविरोधितेत्यत आह-सा चेति-संशयाविरोधितालक्षणाऽऽपातता चेत्यर्थः, अस्य सम्भवतीत्यनेनान्वयः, अत एवाग्रे सम्भवतीति पाठो युक्त एव । दोषसाचिव्येनेति- एतदुक्तिस्तु दोषासमवधाने समानप्रकारकसमानविशेष्यकनिश्चयसत्त्वे संशयो न भवतीति दोषासमवहितोक्तनिश्चयस्य न संशयाविरोधित्वमित्यवगतये । ननु दोषासमवहित्वविशेषणमनादृत्यैव समानप्रकारकसमानविशेष्यकनिश्चयत्वेन निश्चयस्य संशयप्रतिबन्धकत्वमस्तु, तथा च दोषसाचिव्येनापि नोक्तनिश्चयत्वेन संशयाविरोधितेत्यत आह-संशयप्रतिबन्धकत्वस्यापीति- अस्य वक्तुमशक्यत्वादित्यनेनान्वयः । ननु घटवद् भूतलमिति निश्चयसत्त्वे भूतले घटो नवेति संशयो न जायत एवेति घटवद् भूतलमिति निश्चयसत्त्वस्य भूतले घटो नवेति संशयप्रतिबन्धकत्वमेवेत्यत आह-सति दोषविशेष इति । असतीति- दोषविशेष इत्यनुषज्यते। तदभावादेव दोषविशेषाभावादेव । तस्यैव दोषविशेषस्यैव । तद्धतत्वात संशयहेतुत्वात् । तस्यैवेत्येवकारेण निरुकनिश्चयाभावस्य संशयकारणत्वव्यवच्छेदः, यदा च निरुक्तनिश्चयाभावस्य न संशयकारणत्वं तदा कारणीभूताभावप्रति Page #393 -------------------------------------------------------------------------- ________________ ३२२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नबोपदेशः । तदभावादेव संशयाभावादन्वय व्यतिरेकाभ्यां तस्यैव तद्धेतुत्वात् । किञ्च, सत्यपि निश्चयेऽप्रामाण्यसंशयेन संशयदर्शनादप्रामाण्यसंशयानास्कन्दितत्वेन प्रतिबन्धकत्वं वाच्यं, तद् वरं दोषविशेषानास्कन्दितत्वेनैव तथात्वं युक्तम्, अनुगतत्वाल्लाघवाच । अत एव स्वतः प्रामाण्यनिश्चयेऽप्यनभ्यासादिदोषविशेषात् काशीस्थस्याद्रमरिचप्रत्यक्षेऽपि वा संभावनादोषविशेषात् संशयः, त[व]दिहापि वेदान्तवाक्यादधीता. जातेऽपि ब्रह्मनिश्चयेऽसंभावनादिदोषविशेषात् संशयोत्पत्तौ तदविरोधितैव तस्यापाततेति । एककोटिकानिश्चयरूपैवाऽऽपाततेति तु न युक्तम् , अदृष्टकल्पनापत्तेः, तदयमापातज्ञानवानिह जन्मनि जन्मान्तरे योगित्वलक्षणप्रतिबन्धकत्वमपि निरुक्तनिश्चयस्य नेत्यागतमेवेत्याशयः । घटवद् भूतलमिति निश्चयसत्त्वेऽपि तत्राप्रामाण्यसंशये इदं ज्ञानमप्रमा नवेत्येवंरूपे, इदं ज्ञानं प्रमा नवेत्येवं रूपे वा सति भूतले घटो नवेति संशयस्य दर्शनादप्रामाण्यसंशयानास्कन्दितनिरुकनिश्चयत्वेन संशयं प्रति प्रतिबन्धकत्वं कल्पनीयम् , तदपेक्षया लाघवाद् दोषविशेषानास्कन्दितनिरुक्तनिश्चयत्वेनैव संशयं प्रति प्रतिबन्धकत्वमाश्रयणीयम् , यत्र निश्चयेनाप्रामाण्यसंशयस्तत्रापि दोषविशेषे सति संशयस्योदयेन दोषविशेषानास्कन्दितत्वनिवेशस्यवश्याकत्वेन तस्यानुगतत्वात् , अप्रामाण्यसंशयोऽपि दोषविशेषादेव तत्रापि दोषविशेषसद्भावस्यावश्यम्भावेन तस्यानुगतत्वं स्वीकरणीयमेवेत्याह-किश्चेति । अप्रामाण्यसंशयानास्कन्दितत्वेनेतियद्यपि यत्र निश्चयत्वेन प्रतिबन्धकत्वं कारणत्वं वा तत्राप्रामाण्यज्ञानस्य ज्ञानत्वेनैवोत्तेजकत्वम् , यत्र तु ज्ञानत्वेन प्रतिबन्धकत्वं कारणत्वं वा तत्राप्रामाण्यज्ञानस्य निश्चयत्वेनैवोत्तेजकत्वमिति नियमात् प्रकृते निश्चयत्वेन प्रतिबन्धकत्वस्याश्रितत्वादप्रामाण्यज्ञानस्य ज्ञानत्वेनैवोत्तेजकत्वमित्यप्रामाण्यज्ञानानास्कन्दितत्वेनेत्येव वक्तमुचितम् , तथापि निश्चयेऽप्रामाण्य. निश्चयो यत्र निश्चयो वस्तुतो विपर्ययात्मकस्तत्र प्रमात्मकोऽपि सम्भवति, प्रमायां च गुणस्यैव कारणत्वं न दोषस्येति न तत्र दोषसद्भाव इत्यप्रामाण्यज्ञानस्थले दोषसद्धावस्तदैव स्याद् यद्यप्रामाण्यज्ञानं संशयरूपं भवेदित्याशयेनाप्रामाण्यसंशयानास्कन्दितत्वेनेत्युक्तमिति बोध्यम् । तथात्वं प्रतिबन्धकत्वम् । तथाप्रतिबन्धकत्वस्य युक्तत्वे हेतुद्वयमुपदर्शयति-अनुगतत्वाल्लाघवाञ्चेति- अनुगतत्वं यत्र न प्रामाण्यज्ञानं यत्र चाप्रामाण्यज्ञानमुभयत्रापि दोषस्य सद्भावान्निश्चयस्य न संशयविरोधित्वमित्यतः, लाघवं तु तदभाववति तत्प्रकारकत्वलक्षणाप्रामाण्यज्ञानापेक्षया दोषविशेषस्य शरीरकृतं सुव्यक्तमेव । अत एव दोषविशेषसमवहितनियुक्तनिश्चयाभावस्य न संशयकारणत्वं किन्तु दोषविशेषस्यैव संशयकारणत्वमित्यस्मादेव कारणाद् अप्रामाण्यसंशयानास्कन्दितत्वस्य न प्रतिबन्धकतावच्छेदकतया निवेशः किन्तु दोषविशेषानास्कन्दितस्यैव तथा निवेश इत्यस्मादेव हेतोः । स्वतः प्रामाण्यनिश्चयेऽपीति- परतः प्रामाण्यनिश्चयाभ्युपगमे प्रामाण्यनिश्चायकप्रमाणस्याप्यनिश्चितप्रामाण्यस्य न प्रामाण्य निश्चयात्मकत्वमिति तस्यापि प्रामाण्यनिश्चयः, एवं तत्प्रामाण्यनिश्चायकप्रमाणस्यापि परतः प्रामाण्यनिश्चय इत्येवमनवस्थानाद् मीमांसक-वेदान्त्यादिमते ज्ञानस्य स्वत एव प्रामाण्यनिश्चयेऽपीत्यर्थः। यदा च तद्विषयकज्ञानस्य निश्चितप्रामाण्यस्य तद्विषयनिश्चायकत्वे सत्यपि तस्मिन् विषये संशयो भवति तदा संशयोऽनभ्यासादिदोषविशेषादेव भवतीत्याह-अनभ्यासादिदोषविशेषादिति- अस्य संशय इत्यनेनान्वयः । एवं कश्चित् प्रमाता कञ्चनामरीचनामानं पुरुषं प्रामान्तरे दृष्टवान् , स एव प्रमाता काशी गतस्तत्रापि आर्द्रमरीचं पश्यति, तत्प्रत्यक्षं तस्य स्वतो निश्चितप्रामाण्यकमेव तथापि कथमत्राईमरीचो भवितुमर्हति तदयमार्दमरीचो न सम्भावनापथमृच्छतीत्येवमसम्भावनादोषविशेषादयमामरीचोऽन्यो वेति योऽयं संशयः सोऽप्यसम्भावनादोषविशेषादेवेत्याह- काशीस्थस्येति। "वा संभावना" इत्यस्य स्थाने "वाऽभावनादि " इति पाठो युक्तः । यथाऽन्यत्र निश्चितप्रामाण्यकनिश्चयात्मकज्ञानविषयेऽपि दोषविशेषात् संशयो भवति तथाऽधीतवेदान्तवाक्यजन्यनिश्चितप्रामाण्य कनिश्चयात्मकविषयेऽपि ब्रह्मणि असंभावनादिदोषविशेषात् संशयः स्यादेवेति अधीतवेदान्तवाक्यजन्यब्रह्मनिश्चयस्य संशयाविरोधितालक्षणापातता सुव्यवस्थितेत्याह- तद्वदिहापीति । तदविरोधितैव संशयाविरोधितैव । तस्य वेदान्तवाक्यजन्यब्रह्मनिश्चयस्य । एककोटि कानिश्चयरूपत्वमेवापातत्वम् , तच्चैककोटिकनिश्चयरूपे ब्रह्मनिश्चये न संभवतीत्याशङ्का प्रतिक्षिपति- एककोटिकेति । "रूपैवा" इत्यस्य स्थाने "रूपतैवा" इति पाठो युक्तः । तदभावाप्रकारकतत्प्रकारकज्ञानत्वमेव निश्चयत्वम्, तच्च सर्वत्रैककोटिके निर्विवादमेवेति यदेककोटिक तन्निश्चयरूपमेव दृष्टं नानिश्चयरूपमित्येककोटिकानिश्चयकल्पनाऽदृष्टकल्पनैवेत्ययुक्तत्वे हेतुत्वमुपदर्शयति-अदृष्टकल्पनापत्ते Page #394 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलतो मयोपदेशः । ३२३ वानुष्ठितकर्मभिर्विशुद्धान्तःकरणो नित्यानित्यविवेकादिकं लभते । ननु कथं कर्मणां तत्तत्फलसाधनानामन्तः. करणशोधकत्वमिति चेद् ? ज्ञानाज्ञानकृतानां सर्वपापानां पुरुषेषु सत्वात् तत्क्षयस्य सदाभीप्सि. तत्वाद् दुःखवत् पापस्यापि द्वेष्यतया तन्निवृत्तेः काम्यत्वादहरहःकर्त्तव्यत्वेनावगतप्रत्ययानां नित्यानां तेनैव फलवत्त्वाद् धर्मेण पापमपनुदति । " योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये" [भगवद्गीता, रिति । एतावता “कश्चित् खलु पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः साङ्गाध्ययनबलाद् वेदान्तवाक्यानामापाततोऽर्थः मधिगच्छति " इति यदुक्तं तदुपपादितम् , तदनन्तरवक्तव्यमुपदर्शयति- तदयमिति । तत् तस्मात् , अयं पुरुष धुरन्धरः । ननु यत् कर्म यत्फलसाधनतया वेदविहितं तेन कर्मणानुष्ठितेन तदेव फलमुपजायत इत्यन्तःकरणविशोधकत्वं नानुष्ठितकर्मणामिति 'अनुष्ठितकर्मभिर्विशुद्धान्तःकरण' इति यदुक्तं तत् कथं सङ्गतमिति शङ्कते-नन्विति । यद्यपि काम्यकर्मणां तत्तत्फलसाधनत्वेन विहितानां प्रतिनियततत्तत्फलसाधनत्वेऽपि नित्यानां कर्मणां प्रतिनियतफलसाधनतयाऽविहितानां यद् यदभीप्सितं कर्तुस्तत्साधनत्वं यद् यद् द्विष्टं तन्निवर्तकत्वं स्वीकरणीयम्, नित्यकर्मणां निष्फलत्वे प्रेक्षावतां तत्र फलमपश्यतां प्रवृत्तेरेवानुपपत्तेः, प्रतिनियतफलसाधनत्वेनाविहितानामिदमेव फलमिदं नेति विनिगमनविरहात् कल्पयितुमशक्यमतः पुरुषेषु सतां ज्ञानाज्ञानकृतानां सर्वपापानां निवृत्तेरिष्टत्वाद् दुःखवद् दुःखसाधनपापस्यापि द्वेषविषयत्वेन तन्निवृत्तेरिष्टत्वात् तजनकत्वेन फलवत्त्वस्यापि नित्यकर्मणां संभवाद् धर्मेण नित्यकर्मणा पापापनोदनतो विशुद्धान्तःकरणो भवेदेव कर्तेति समाधत्ते-ज्ञानाज्ञानकृतानामिति । तत्क्षयस्य ज्ञानाज्ञानकृतसर्वपापक्षयस्य । सदाऽभीप्सितत्वात् सर्वदैवेष्टत्वात् , ननु कथमभीप्सितत्वं सर्वपापनिवृत्तेरित्यपेक्षायामाह- दुःखवदिति- दुःखस्य यथा साक्षादनिष्टत्वादेव द्वेषविषयत्वं तथेत्यर्थः । द्वेष्यतया अनिष्टसाधनत्वेन द्वेषविषयतया। तन्निवृत्तेः ज्ञानाज्ञानकृतसर्वपापनिवृत्तेः । काम्यत्वात कामना इच्छा तद्विषयत्वात् । अहरहः कर्तव्यत्वेनावगतप्रत्ययानामिति-सन्ध्यावन्दनादीनामुपनयनादारभ्यामरणं प्रतिदिनकर्तव्यत्वं यत् तदेव नित्यत्वमिति अहरहः कर्तव्यत्वेनेत्यस्य नित्यत्वेनेत्यर्थः, अवगतप्रत्ययानाम् - अवगतः- निश्चितः प्रत्ययो विश्वासो येषु ते अवगतप्रत्ययास्तेषाम् , यद्यपि अवगतशब्दस्य समासानिविष्टाहरहः कर्तव्यत्वेनेतिपदार्थान्वितस्वार्थ. कत्वेनासमर्थतया समासासम्भवाशङ्का समुपजायते, तथापि प्रतियोगिपदाद्यतिरिक्तसमासानिविष्टपदार्थान्वितस्वार्थकत्वे सत्येवासामर्थ्य भवति नान्यथा, अत एव चैत्रस्य गुरुकुलमित्यत्र गुरुपदस्य समासानिविष्टचैत्रस्येतिपदान्वितस्वार्थकत्वेऽपि नासामर्थ्यम्, तदुक्तम्- "प्रतियोगिपदादन्यद् यदन्यत् कारकादपि । वृत्तिशब्दैकदेशार्थे न तस्यान्वय इष्यते ॥१॥" [ ] इति, प्रकृते अहरहः कर्तव्यत्वेनेति कारकतया तदर्थान्वितस्वार्थकत्वेऽप्यवगतपदस्य नासामर्थ्यमिति, वस्तुतः 'अवगतप्रत्ययानाम्' इत्यस्य स्थाने 'अविगीतप्रत्ययानाम्' इति, पाठो युक्तः, अविगीत:-केनापि वादिना विगानं-निन्दा, तां न इतः-प्राप्तः, प्रत्ययो-ज्ञानं येषां तेऽविगीतप्रत्ययाः सर्ववादिनिश्चितप्रत्यया इति यावत् , तेषामिति तदर्थः, तत्र समासान्तनिविष्टप्रत्ययपदस्यैव समासानिविष्टपदार्थान्वितस्वार्थकत्वमिति न समासानुपपत्तिः । तेनैव सर्वपापक्षयेनैव । फलवत्वादित्यस्यानन्तरं कल्पलतायां-" स्वर्गादेनियतानुपस्थितिकत्वात् प्रत्यवायप्रागभावस्य चासाध्यत्वात्" इत्यप्यस्ति पाठः, तत्सङ्गमनं यथा- ननु “ विश्वजिता यजेत् '' इत्यत्र विश्वजिद्यागस्य न किञ्चित् फलं श्रूयते, अथापि सर्वाभिलषितत्वेन स्वर्ग एव फलं कल्प्यते, एवं नित्यकर्मणामपि सर्वाभिलषितत्वेन स्वर्ग एव फलं कल्प्यताम् अथवा नित्ये कर्मण्यकृते प्रत्यवायो भवति, कृते च तस्मिन् प्रत्यवायो न भवतीति नित्यकर्मसत्त्वे प्रत्यवायप्रागभावसत्त्वं नित्यकर्माभावे प्रत्यवायप्रागभावाभाव इत्यन्वयव्यतिरेकाभ्यां प्रत्यवायप्रागभाव एव नित्यकर्मणां फलमस्तोत्यत आहस्वर्गादेनियतानुपस्थितिकत्वादिति- स्वर्गादेर्नियतोपस्थितिकत्वाभावादित्यर्थः, यद्यपि स्वर्गादिकं सर्वाभिलषितत्वेन कदाचित् कदाचिदुपस्थितिविषयोऽपि भवति न तु सर्वदोषस्थितिविषयोऽर्थाद् यदा यदा सन्ध्यावन्दनादिकं करोति पुरुषस्तदा तदा नियमेन तत्फलत्वेन न स्वर्गादिकमुपस्थितं भवति; अत एवानुपस्थितिकवादित्यनुक्त्वा नियतानुपस्थितिकत्वादित्युक्तम् , पापक्षयस्तु सर्वदोपस्थित एव भवति, अत एवानन्तरमेवाभिहितं-तत्क्षयस्य सर्वदाऽभीप्सितत्वादिति, एवं च यथाऽयं नियमःउपस्थितानुपस्थितयोर्मध्ये उपस्थितस्यैव प्रहणमिति, तथा नियतोपस्थित-नियतानुपस्थितयोर्मध्ये नियतोपस्थितस्यैव ग्रहणमित्यपि नियम इति भणुरपि विशेषोऽध्यवसायकरः' [ 1 इति न्यायानित्यकर्मणां पापक्षय एव फलं Page #395 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नबोपदेशः । ५- ११ ] इत्यादिशास्त्राश्च । यद्वा " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन " [ बृहदारण्यकोपनिषद्, ४.४.२२. ] इत्यादिश्रुत्या तत्तत्फलसंयुक्तानामपि कर्मणां संयोग- पृथक्त्वन्यायेन विविदिषासंयोगस्य ज्ञानसंयोगस्य वा विधानात्, तत्रान्तःकरणशुद्धिद्वारम् एकस्य तूभयत्वे संयोग-पृथक्त्वमिति ३२४ न तु स्वर्गादिकम्, येऽपि नित्यकर्मणां स्वर्गादिफलमुपयन्ति तेऽपि नित्यकर्मभ्यः पापक्षयस्ततः स्वर्गादिरिति रीत्या यतस्तत्र प्रमाणयन्तीदं वचनम् - " सन्ध्यामुपासते ये तु सततं शंसितव्रताः ॥ विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् ॥ १॥ [ ] इति, एवं च पापस्य कस्यचित् स्वर्गादिप्रतिबन्धकत्वमपि संभवतीति तत्क्षयस्य प्रतिबन्धकाभावविधया स्वर्गादिकं प्रति कारणत्वस्य क्लृप्तत्वेन तेनान्यथासिद्धत्वान्न स्वर्गादिकं प्रति नित्यकर्मणां कारणत्वम्, न च पापक्षयस्य स्वर्गादिफलजनने नित्यकर्मणां व्यापारतया व्यापारेण तेन व्यापारिणां नित्यकर्मणां नान्यथासिद्धिरिति वाच्यम्, यत्र व्यापारिणः प्रमाणान्तरावगतं कारणत्वान्यथानुपपत्त्या व्यापारस्य कल्पनं तत्रैव व्यापारेण व्यापारिणो नान्यथासिद्धिः, यत्र तु व्यापारिणः कारणत्वमन्तराऽपि व्यापारस्य कारणत्वं क्लृप्तं तत्र व्यापारेण व्यापारिणोऽन्यथासिद्धत्वं भवत्येव यथा काशी मरणान्मुक्तिः [ ] इत्यत्र " तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय " [ वा. सं. ३१. १८. ] इत्यादिश्रुत्या क्लृप्तकारणताकेन तत्त्वज्ञानेन व्यापारभूतेनापि काशीमरणस्यान्यथासिद्धत्वमिति पञ्चम्याः प्रयोजकत्वमेवार्थ इत्यन्यत्र चिन्तितम् । नन्वेवमपि प्रत्यवायप्रागभावस्य पापक्षयवद् नियतोपस्थितिकत्वात् प्रतिबन्धका भावविधया तस्यापि स्वर्गादिकं प्रति कारणत्वस्य क्लृप्तत्वादेकेनापरस्यान्यथासिद्धत्वस्य वक्तुमशक्यत्वात् प्रत्यवाय प्रागभावोऽस्तु नित्यकर्मणां फलमित्यतस्तस्य फलत्वाभावे हेतूपदर्शनायोक्तम् प्रत्यवायप्रागभावस्य चाऽसाध्यत्वादिति - असाध्यत्वादित्यस्यानुत्पाद्यत्वादित्यर्थः, आद्यक्षणसम्बन्धश्चोत्पत्तिः, साऽनादिकाली ने प्रस्यवायप्रागभावे नास्ति, नित्ये कर्मणि कृते प्रत्यवायप्रागभावस्तिष्ठति, अकृते च तस्मिन् न तिष्ठतीत्येवं क्षैमिकजन्यत्वं यद्यपि असाध्येऽपि प्रत्यवायप्रागभावे सम्भवति तथापि यौगिकजन्ये पापक्षये नित्यकर्मफलत्वे सम्भवति क्षैमिकजन्यत्वमुपादाय प्रत्यवायप्रागभावस्य तत्फलत्वकल्पनमन्याय्यमेवेत्याशयः । धर्मेण अनुष्ठितनित्यादिकर्मणा । पापमपनुदति पापं विनाशयति नित्यादिकर्मानुष्ठाता पुरुषः । पापक्षयरूपात्मशुद्धिकारणत्वे कर्मणः शास्त्रं प्रमाणयति - योगिन इति-योगिन इत्युक्तया योगिनां मुक्यर्थिनां स्वर्गादिफलाकाङ्क्षाऽभावात् तत्कृतकर्मणां पापक्षयलक्षणात्मशुद्ध्यर्थत्वमेवेत्यावेदितम् । तेषां स्वर्गादिफलाकाङ्क्षाऽभावावगतये उक्तम्-सङ्गं त्यक्तवेति- स्त्री-पुत्र- धनादिविषयसम्बन्धं त्यक्त्वेति तदर्थः, यदि स्वर्गादिफलाकाङ्क्षणं तेषां स्यात् तदा रागादिलक्षणसम्बन्धस्यावश्यंभावात् तस्याग एव नोपपद्येतेति न स्वर्गादिफलाकाङ्क्षा तेषामित्यभिसन्धिः । प्रकारान्तरेणानुष्ठितकर्मणां पापक्षयसाधनत्वं व्यवस्थापयति-यद्वेति । तमेतमिति - एतम् - अनन्तरपूर्व श्रुति दर्शितस्वरूपम्, तमात्मानम्, वेदानुवचनेन निरन्तराभ्यस्तवेदवाक्येन ब्राह्मणाः ब्रह्मज्ञानपरायणाः, विविदिषन्ति वेत्तुमिच्छन्ति, विविदिषानन्तरं जानन्त्यपि, यज्ञेन यज्ञादिकर्मणा, अत्रापि तमेतं विविदिषन्तीत्यस्यान्वयः । श्रुत्येत्यस्य विधानादित्यनेनान्वयः । तत्तत्फलसंयुक्तानामपि प्रतिनियतस्वर्गादिफलेन सह जनकतया सम्बद्धानामपि । कर्मणां यज्ञादिकर्मणाम् । संयोगपृथक्त्वन्यायेनेति यत्र संयोग - पृथक्त्वन्यायः प्रवर्तते यच्चास्य स्वरूपं तदुभयमत्रैवानन्तरं स्पष्टीकृतम् । विविदिषासंयोगस्य विविदिषया समं जनकतालक्षणसम्बन्धस्य । ज्ञानसंयोगस्य ज्ञानेन समं जनकतालक्षणसम्बन्धस्य । कर्मभिरनुष्ठितैर्विविदिषा ज्ञानं वा कथं स्यादित्यपेक्षायामाद-तत्रेति कर्मभिर्विविदिषाजनने ज्ञानजनने वेत्यर्थः "6 1 अन्तःकरणशुद्धिद्वारम् ” इत्यस्य स्थाने " अन्तःकरणशुद्धिर्द्वारम् " इति पाठो युक्तः, वेदान्तिमते आत्मनो निर्लिप्तत्वादन्तःकरणोपाधिक एव पुण्य-पापसम्बन्धो न तु स्वत इति पापसम्बन्धलक्षणाऽशुद्धिरन्तःकरणस्य तत्तादात्म्याभ्यासादात्माऽप्यशुद्ध इत्युपचर्यते, अनुष्ठितकर्मभिः पापविगमे पापापगमनलक्षणा शुद्धिरन्तःकरणस्यैव तत्तादात्म्याच्या सादात्मनोऽपि शुद्धिरिति तथा चान्तःकरणशुद्धिर्विविदिषाजनने ज्ञानजनने वा द्वारं व्यापारो भवति, पापविगमद्वारा कर्माणि विविदिषां ज्ञानं वा जनयन्तीत्यर्थः एवं च अनुष्ठितकर्मभिर्विशुद्धान्तःकरण इति यदुक्तं तद् युक्तमेवेत्याशयः । कुत्र संयोग- पृथक्त्वन्यायः प्रवर्तत इत्यपेक्षायामाद- एकस्येति - एकस्य कर्मणः पृथग्विधिभ्यामुभयत्वे फलद्वयसम्बन्धविधानत उभयरूपत्वे संयोग- पृथक्त्वमिति न्याय: प्रवर्तत इत्यर्थः । संयोगपृथक्त्वं किमित्यपेक्षायामाह-संयोग इति । तत्पृथक्त्वं विधिभिन्नत्वम् । एकस्य Page #396 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । न्यायः, संयोगो विधिस्तत्पृथक्त्वमे कस्यो भयरूपत्वे हेतुरिति तदर्थः, त[द्व]दिह तत्तत्फलार्थान्यपि कर्माणि तमेतमित्यादिवचनाद् विविदिषार्थानि वेदनार्थानि वा दृष्टव्यानीति । कथं पुनरत्र प्रकरणान्तरन्यायेन न कर्मान्तरत्वम्, प्रकरणान्तरे 'प्रयोजनान्यत्वम्' इत्यत्र ह्येतत् सिद्धम्, यत्र प्रकरणान्तरमनुपादेयगुणश्च तत्र कर्मान्तरत्वम्, ‘सायं प्रातर्जुहोति [ ] इत्यादौ ' यदाहवनीये जुहोति ' [ कठश्रु - ४ ] इत्यादौ [च] कर्मान्तरविधिवारणाय विशेषणद्वयम् तदिह 'मासमग्निहोत्रं जुहोति ' ] इत्यत्रेवोभयसत्त्वात् कर्मान्तरत्वं दुर्वारमिति चेत् ?, उच्यते- न तावदत्र यज्ञादिसंबन्धो विधिः ' जुहोति ' इतिबच्छूयते येनापूर्वं यज्ञादिर्विधीयते, कल्पनायां तु लाघवम् । 'जीवातुः' [ ३२५ , कर्मादेरेकस्य । उभयरूपत्वे विभिन्नफलजनकतयोभयस्वरूपत्वे । हेतुः एकमपि कर्म यद् विभिन्नफलजनकत्वेनोभयरूपं तद्विभिन्नफलविधायकविधिद्वैविध्यादेव । इति एवंस्वरूपः । तदर्थः संयोग-पृथक्त्वमिति न्यायस्यार्थः । उपसंहरति-तदिति - तस्मात् एकस्य कर्मणो विधि पृथक्त्वतो विभिन्नफलजनकत्वेनोभयरूपत्वात् । इद्द प्रकृते । तत्तत्फलार्थान्यपि प्रतिनियतस्वस्वफलार्थान्यपि । कर्माणि यज्ञादीनि कर्माणि । तमेतमित्यादिवचनात् तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन तपसा कर्मणा नाशकेनेत्यादिवचनात् । ननु दर्श- पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादीनि प्रतिनियत फल सम्बन्धबोधकप्रकरणगतानि, तमेतमित्यादिवचनानि तु ब्रह्ममात्रतत्त्वावबोधक प्रकरणगतानि, तथा च विभिन्नप्रकरणपठितत्वेन दर्श- पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादिविधिविहितदर्शादिकर्मभ्यो भिन्नान्येव तमेतमित्यादिविधिविहितकर्माणि विविदिषाद्यर्था नीति नैकस्योभयरूपत्वं संयोग-पृथक्तत्वन्यायेनेति शङ्कते - कथं पुनरिति अस्य न कर्मान्तरत्वमित्यनेनान्वयः तथा च प्रकृते कर्मान्तरत्वं स्यादेवेत्यर्थः । प्रकरणान्तरन्यायेन कर्मान्तरत्वं कुत्र व्यवस्थापितमित्यपेक्षायामाह - प्रकरणान्तर इतिप्रकरणान्तरे 'प्रयोजनान्यत्वम्' इत्यस्य प्रकरणान्तरे प्रयोजनान्यत्वम्, इत्येवं चिह्नित उल्लेखः कर्तव्यः । इत्यत्र एवं स्वरूपमीमांसाधिकरणे । एतत् कर्मान्तरत्वम्, सिद्धं व्यवस्थापितम् । निरुक्ताधिकरणविचारमेव वेदयति-यत्रेति । प्रकरणान्तरमिति अनुपादेयगुणश्चेति विशेषणद्वयव्यावृत्तिमुपदर्शयति - सायमिति - " सायं प्रातर्जुहोति " इत्यस्य स्थाने " सायं जुहोति प्रातर्जुहोति " इति पाठो युक्तः । एकस्मिन्नेव प्रकरणे सायं जुहोतीति प्रातर्जुहोतीति च पठितमस्ति, तत्र सन्ध्याकालीनहवनतः प्रातः कालीनहवने न कश्चिद् गुणोऽधिकोऽस्ति येन यदेव प्रातःकाले क्रियते हवनं तत्रैव गुणान्तर विधायकं विध्यन्तरं स्यादतोऽनुपादेयगुणत्वात् प्रातः कालीनहवनतोऽन्यदेव सायंकालीनं हवनमित्येवं कर्मान्तरत्वं मा प्रसाक्षीदित्येतदर्थं प्रकरणान्तरमिति - " सायं प्रातर्जुहोति " इत्यस्य स्थाने " सायं जुहोति प्रातर्जुहोति " इति - पाठो युक्तः, एवं च प्रकरणान्तराभावादेकमेव हवनकालविकल्पस्तत्रेत्याशयः । सायं जुहोतीत्यादि यत्प्रकरणे पठितं तदन्यप्रकरण एव यदाहवनीये जुहोतीति पठितम् तथा च प्रकरणान्तरत्वात् सायंकालीन हवनत आहवनीयाग्न्यधिकरणकहवनस्य कर्मान्तरत्वं प्रसक्तमिति तद्वारणाय अनुपादेयगुणश्चेति द्वितीयं विशेषणम् एवं चाहवनीयाग्न्यधिकरणकत्वलक्षणो गुणोऽत्रोपादेय इत्यनुपादेयगुणत्वाभावान्न कर्मान्तरत्वम्, किन्तु यदेव हवनं सन्ध्याकालादौ क्रियते तत्रैवाहवनीयाधिकरणकत्वलक्षणो गुणो विधीयत इति । प्रष्टा स्वाभिप्रेतमुपसंहरति- तदिति तत् तस्मात् प्रकरणान्तरपठितत्वादनुपादेयगुणत्वाच्च । इह प्रकृते, अस्य उभयसश्वादित्यनेनान्वयः । मासमग्निहोत्रं जुहोतीत्यत्रैवेति- सायं जुहोतीत्यादि यत्प्रकरणे पठितं तदन्यप्रकरणे मासमग्निहोत्रं जुहोतीति प्रकरणान्तरमस्ति, गुणान्तरं च न किञ्चिदुपादेयमित्यनुपादेय गुणश्चास्तीत्येवमुभयसत्त्वाद् यथा तस्य कर्मान्तरत्वं तथा दर्श- पूर्णमासप्रकर णभिन्न प्रकरणगतत्वादनुपादेयगुणत्वाच्च तमेतमित्यादिवचनविहितस्य यज्ञादिकर्मणः कर्मान्तरत्वं वारयितुमशक्यमित्यर्थः । समाधत्ते - उच्यत इति । नञः श्रूयत इत्यनेनान्वयः । " यज्ञादिसंबन्धो " इत्यस्य स्थाने " यज्ञादिसम्बद्धो ' इति पाठो युक्तः । जुहोतीतिवदितिजुहोतीत्यत्र हुधात्वर्थहवनक्रियासंबद्ध आख्यातार्थविधिर्यथा वचनेन प्रतिपाद्यते न तथा तमेतमित्यत्र यज्ञादिसंबद्धो विधिवचनेन प्रतिपाद्यत इत्यर्थः । तर्हि वचनान्तरप्राप्तयज्ञादेर्विविदिषा दिसंयोगमात्रविधिकल्पना कुतः समागतेत्यत आहकल्पनायां त्विति - " कल्पनायां तु लाघवम् । 'जीवातु:' इत्यस्य स्थाने " कल्पनायां तु लाघवं जीवातुः " >> Page #397 -------------------------------------------------------------------------- ________________ ३२६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। इति, आख्यातासमानाधिकरणव्यवहितपरामर्शसमर्थसुबन्तपरामृष्टानां कर्मणां फलसंबन्धमात्रविधानो. पपत्तौ नान्यत् कल्पयितुं युक्तम् , आख्यातसमानाधिकरणो हि मासमग्निहोत्रमिति शब्दस्तत्परतन्त्रत्वान्न व्यवहितमित्यग्निहोत्रं परामृशति, यज्ञेनेत्यादिसुबन्तस्त्वाख्यातसमानाधिकरणो व्यवहितपरामर्श समर्थ इति परमार्थः । ननु किमत्र पशुकामस्योद्भिच्चित्रादिष्विव विविदिषादिकामस्य यज्ञादिषु भिन्नवाक्योपात्तत्वाद् विकल्पः ?,यथा- दध्यादीनामग्निहोत्रहोमे, उत स्वर्गकामस्याग्नेयादिष्विव समुच्चयः ? इति चेत् ? अत्र त्वेकवाक्योपात्तत्वाद् दर्शादिवत् समुच्चयः । तत्र कथमेकवाक्यतेति विचार्यते- अर्थैकत्वाइति पाठो युक्तः, कल्पनायां तु वचनान्तरप्राप्तयज्ञादेर्विविदिषादिसंयोगमात्रविधिकल्पनायां पुनः, लाघवम् अतिरिक्त यज्ञादितत्फलविविदिषादिसंयोगविधिद्वयकल्पनापेक्षया वचनान्तरप्राप्तस्य यज्ञादिकर्मणः केवलविविदिषादिफलसंयोगविधिकल्पने लाघवं सुव्यक्तमेव, जीवातुः जीवनं प्रमाणसहकारीति यावत् । नन्वन्यत्रापि वचनान्तरप्राप्तस्यैव कर्मणः फलविशेष. सम्बन्धमात्रविधानं लाघवादुपेयताम्, नेत्थं चेत् किमपि विनिगमकमुपदर्शनीयमित्यत आह-आख्यातेति- आख्यातासमानाधिकरणो व्यवहितपरामर्शसमर्थश्च यः सुबन्तस्तत्परामृष्टानामित्येवमन्वयगमनिका । मासमग्निहोत्रं जुहोतीत्यादौ नेदं विनिगमकमतस्तत्र कर्मान्तरविधानमित्युपदर्शयति- आख्यातसमानाधिकरणो हीति-हि- यतः, मासमग्निहोत्रमिति शब्द आख्यातसमानाधिकरणः, जुहोतीत्याख्यातपदप्रतिपाद्यहवनाभिन्नमासाधिकरणकाग्निहोत्ररूपार्थकत्वात् तथा । कथमाख्यातसमानाधिकरण इत्यपेक्षायामाह- तत्परतन्त्रत्वादिति- जुहोतीत्याख्यातपरतन्त्रत्वात् , अत एवाग्निहोत्रमपि न व्यवहितमित्यव्यवहितस्याग्निहोत्रस्य परामर्शकं मासमग्निहोत्रमिति शब्दो न व्यवहितपरामर्शसमर्थ इति निरुक्तविनिगमकाभावान तत्र फलसम्बन्धमात्रविधानं किन्तु कर्मान्तरस्यापि विधानमित्यर्थः । प्रकृते तु निरुक्तविनिगमकसत्त्वात् फलसम्बन्धमात्र. विधानमित्याह-यज्ञनेत्यादीति-"यक्षेनेत्यादिसुबन्तस्त्वाख्यातसमानाधिकरणो" इत्यस्य स्थाने " यज्ञेनेत्यादि. सुबन्तस्त्वाख्यातासमानाधिकरणो" इति पाठः समीचीनः, आख्यातपदमत्र विविदिषन्तीति, तत्प्रतिपाद्यं न यज्ञादि, किन्तु विविदिषेति आख्यातप्रतिपाद्यार्थाप्रतिपादकत्वाद् यज्ञेनेत्यादिशब्दस्याख्यातासामानाधिकरण्यम् , व्यवहितं यद् दर्श-पूर्णमासाभ्यां यजेतेत्यादिवचनप्रतिपाद्यं दर्शादि तस्य परामर्श समर्थोऽपीति तत्परामृष्टानां दर्शादिकर्मणां फलसम्बन्धमात्रविधानम् । इति परमार्थः एवंस्वरूपोऽत्र वास्तविकोऽर्थः । ननु तमेतमिति वचने यज्ञेन दानेन तपसेत्यनेन फलान्तरजनकतया विहितानां दर्शादियज्ञ-दान-तपसामशेषाणां परामर्शे विविदिषादिकामस्तेषामन्यतमं कञ्चनैकं यज्ञं दानं तपो वाऽनुतिष्ठन् विविदिषादिफलमासादयति किम् ?, यथाऽग्निहोत्रहोमं केनचिद् दध्यायेकेनानुतिष्ठन् तत्फलमासादयतीति विकल्पोऽत्राभिप्रेतः, किं वा स्वर्गकाम आग्नेयादिषट्कमनुतिष्ठन्नेव तत्फलमासादयति यथा, तथा विविदिषादिकामो यज्ञ-दानादिकं सर्वमनुतिष्ठन्नेव तत्फलमासादयतीति आग्नेयादिसमुच्चयवद् यज्ञ-दानादिसमुच्चयोऽभिप्रेतः ? इति प्रश्नयति-नन्विति । किमोत्यस्य विकल्प इत्यनेन समुच्चय इत्यनेन चान्वयः। उद्धिच्चित्रादिष्विवेति- “पशुकाम उद्भिदा यजेत [ ] इति “पशुकामश्चित्रया यजेत" इत्यादिभिन्नवाक्योपात्तत्वाद् उद्भिद्याग-चित्रायागादिषु पशुकामस्य यथा विकल्पः- उद्भिद्याग-चित्रायागादीनां मध्यादेकमनुतिष्ठन्नपि पशुकाम इष्टफलमवाप्नोति तथा यज्ञेन दानेन तपसेति भिन्नवाक्योपात्तत्वाद् यज्ञादिषु विकल्पःयज्ञादीनां मध्यादेकमनुतिष्ठन्नपि विविदिषादिकाम इष्टफलमनुभवतीत्यर्थः । विकल्पे दृष्टान्तमाह-यथेति-अत्र “यथा वा" इति पाठो भवितुमर्हति । द्वितीयपक्षमावेदयति-उतेति। आग्नेयादिष्विवेति-दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेल्यत्र दशैं- अमावास्यायां क्रियमाणं यज्ञत्रयं दर्शयाग इति कथ्यते, पूर्णिमायां क्रियमाणं यज्ञत्रयं पौर्णमासयाग इति कथ्यते, ततः षड्भ्यो दर्शपौर्णमासनामधेयेभ्यो यागेभ्यः स्वर्गकामस्य स्वर्गो भवति, न तु तन्मध्यादेकैकस्मादाग्नेयादियागात् स्वर्गफलमुपजायते, तत्र मीमांसकानामियं प्रक्रिया- दशैं क्रियमाणयागत्रयमध्यादेकैकस्माद् यागादेकमपूर्वमुत्पद्यत इति तदपूर्वत्रितयमनापूर्वमिति कथ्यते, समुदितभ्यश्च त्रिभ्यो यागेभ्य एकमपूर्वमुत्पद्यते तदपूर्व प्रधानापूर्वमुच्यते, एवं पूर्णिमायाँ क्रियमाणयागत्रयात् प्रत्येकमपूर्वत्रयमुपजायते तदपूर्वमङ्गापूर्वशब्दव्यपदेश्यम्, समुदिताच यागत्रयादेकमपूर्वमुपजायते तदपूर्व प्रधानापूर्वमुच्यते, आभ्यां च प्रधानापूर्वाभ्यां यज्ञान्तक्रियमाणदक्षिणादानजन्याजापूर्वसहकृताभ्यामेकमपूर्वमुजायते तदपूर्व परमापूर्वमुच्यते, तदेव परमापूर्व स्वर्गादिफलमुपजनयतीति स्वर्गादिफलं जनयित्वैव विनश्यतीति, एवं च स्वर्गकामस्या Page #398 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ३२७ देकवाक्यम् , यथा- ' अग्निहोत्रं जुहोति' [ तैत्तरीयसंहिता १. ५. ९. ] इति, · अरुणयैकहायन्या' __] इत्यादौ तु सत्यप्यारुण्यार्थभेदे विशिष्टार्थविधानाद् विशिष्टाथै कत्वेनैकवाक्यत्वम् , सत्यपि च विशिष्टविधानस्य गौरवप्रस्तत्वे अगत्या तदाश्रयणम् , क्रियायाः प्रकरणान्तरप्राप्तौ हि विशेषणमात्रविधानम् , यथा- " दध्ना जुहोति" [ ] इति गुणविधौ, तत्राप्येकमेव विशेषणं विधातुं शक्यते, नानेकम् , वाक्यभेदप्रसङ्गात् , अप्राप्ता हि क्रियाने कविशेषणान्युपसङ्ग्रहन्ती विशिष्टा मेयादियागेषु षट्सु दर्श-पौर्णमासशब्दाभिधेयेषु यथा समुच्चयः, समुच्चितादेवाग्नेयादियागषदकात् स्वर्गफलं भवति, तथा विविदिषादिकामस्य यज्ञदानादिषु समुच्चयः, समुदितेभ्य एवं यज्ञदानादिभ्यो विविदिषादिफलनिष्पत्तिरित्यर्थः । यज्ञेन विविदिषन्ति दानेन विविदिषन्ति तपसा विविदिषन्तीत्येव भिन्नवाक्योपात्तत्वाद् यज्ञादिषु विकल्प इति पक्षो नात्रा. भिमतः किन्त्वेकवाक्योपात्तत्वाद् यज्ञादिषु समुच्चय एव, यथाऽऽग्नेयादिषु षट्सु यागेषु दर्शायेकवाक्योपात्तत्वात् समुच्चय इति समाधत्ते- अत्र त्विति । ननु यज्ञेन विविदिषन्ति दानेन विविदिषन्तीत्येवं भिन्नवाक्योपात्तत्वे स्पष्टं प्रतीयमाने कथमेकवाक्योपात्तत्वं यज्ञादिषु श्रद्धेयमित्याकालामुत्थाप्य तत्परिहारमुपदर्शयति-तत्रेति- यज्ञेनेत्यादिवाक्य इत्यर्थः । इति एवमाकाङ्क्षायां सत्याम् । विचार्यते तदाकाङ्कापरिहारो विचारविषयो भवति । विचारस्वरूपमुपदर्शयति- अर्थकत्वादित्यादि- विविदिषादिफललक्षणायकत्वाद् यज्ञेन विविदिषन्तीत्यादिवाक्यान्येकवाक्यं यज्ञदानादिसमुदितजन्यविविदिषादिफल. मेकमेवात्र विधीयत इत्येकवाक्यमिति यावत् । अन्यत्राप्यर्थैकत्वादेवैकवाक्यमित्यावेदयितुं दृष्टान्तमाह- यथेति- अग्निहोत्रमिति द्वितीयान्तमग्निहोत्रेणेति तृतीयान्तपर्यवसितम्, यतः फलसम्बद्धकर्मबोधकविधौ द्विविधा भावना- आर्थी भावना शाब्दी भावना चेति, द्विविधाऽपि भावना-कर्माकाक्षा, करणाकाङ्क्षा, इतिकर्तव्यताकाङ्क्षेत्येवं त्रिविधाकाक्षावती, तत्र कर्माकाङ्क्षया किं भावयेदित्येवंरूपया यस्य कर्मणो यत् फलं तदा भावनायामन्वेति, यथा- दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्र किं भावयेदित्याकाक्षायां स्वर्ग भावयेदिति, करणाकाङ्क्षया तु केन भावयेदित्येवंरूपया यज्ञादिकर्मकरणतयाऽऽर्थीभावनायामन्वेति, यथा-तत्रैव केन भावयेदित्याकाक्षायां दर्श-पूर्णमासयागाभ्यां भावयेदिति, इतिकर्तव्यताकाङ्क्षया च कथं भावयेदित्येवंरूपया यज्ञादिकर्मस्वरूपं येन प्रकारेण सम्पद्यते तत्रान्वेति, यथा-दर्शादिस्थल एव कथं भावयेदित्याकाक्षायां समिदादिभिर्भावयेदिति, तथा च समिदादिभिः सम्पद्यमानाभ्यां दर्श-पूर्णमासयागाभ्यां स्वर्ग भावयेदित्येवं प्रतीयमाना पुरुषप्रयत्नरूपाऽऽर्थी भावना निराकाङ्क्षा भवतीति, शाब्दीभावनायां च कर्माकाक्षया पुरुषप्रयत्नरूपाऽऽर्थी भावनैवान्वेति, यथा स्वर्गकर्मक-यागकरणक-समिदादीतिकर्तव्यताकप्रयत्नं भावयेदिति, प्रयत्न प्रति च बलवदनिष्टाननुबन्धीष्टसाधनत्वे सति कृतिसाध्यताज्ञानं कारणम्, तच्च लिङ्गादिविधिज्ञानादेवेति केन प्रयत्नं भावयेदिति करणाकाक्षायां विधिजन्यज्ञानादिति विधिजन्यज्ञानं तत्र करणतयाऽन्वेति, स्वर्गादिकर्मकप्रयत्नः प्रशंसामित एव पुरुषेणाद्रियत इति कथमुक्तप्रयत्नं भावयेदितीतिकर्तव्यताकाक्षायां दर्शादिप्रशंसकार्थवाद इतिकर्तव्यतया तत्रान्वेतीति. एवं चाग्निहोत्रहोमस्य करणतयैवार्थीभावनायामन्वय इति तस्य करणत्वबोधिका तृतीयैव तद्वाचकपदोत्तरं भवितुमर्हतीति अग्निहोत्रमिति द्वितीया तृतीयास्थान एवेति । अन्यत्राप्यर्थैकत्वादेकवाक्यत्वे दृष्टान्तान्तरमाह- अरुणयकहायन्येति"रुण्यार्थभेदे" इत्यस्य स्थाने "रुण्याद्यर्थमेदे" इति पाठो युक्तः, अरुणयकहायन्या गवा सोमं क्रीणातीत्यत्र सोमयागे उपयुक्तायाः सोमलतायाः क्रयः कर्तव्यः, न तु स्वयमेव प्राप्तया सोमलतया सोमयागः क्रियते, तत्र सोमक्रय आरुण्यकरणक एकहायनकरणको गोकरणक इत्येवं विधाने आरुण्याद्यर्थस्य भेदेनार्थकत्वाभावादेकवाक्यत्वं न स्यादतस्तत्रारुण्यविशिष्टेकहायनत्वविशिष्टगोकरणकसोमक्रयविधानमिति तत्रापि विशिष्टार्थस्यैकत्वेनैकवाक्यत्वमित्यर्थः । ननु पृथक् पृथग आरुण्यकरणकसोमक्रयणादिविधानापेक्षया आरुण्यादिविशिष्टगोकरणकसोमक्रयणविधाने गौरवमित्यत आह- सत्यपीति । अगत्येति-पृथगेवारुण्यादिविधाने वाक्यभेदप्रसङ्गो दुष्परिहर इति तत्परिहारे गत्यन्तराभावेनेत्यर्थः। तदाश्रयणं गौरवग्रस्तस्यापि विशिष्टविधानस्याश्रयणम् । ननु तत्र यदि विशिष्टविधानं तर्हि यत्रापि विशेषणमात्रविधानं तत्रापि विशिष्टविधानमेवास्त्वित्यत आह-क्रियाया इति-विशिष्टविधाने विशेषण-विशेष्ययोरुभयोरपि विशिष्टस्वरूपसन्निविष्टतया विधानं प्राप्नोति, विधानं चाप्राप्तस्यैव भवति न तु प्राप्तस्येति विशेष्यीभूतायाः क्रियायाः प्रकरणान्तरप्राप्तौ सत्यां Page #399 -------------------------------------------------------------------------- ________________ ३२८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । विधातुं शक्या, प्राप्तायां तु तस्यामनेकार्थविधाने विधिप्रत्ययावृत्तिलक्षणो वाक्यभेदः प्रसज्यते । न च " यदग्रमेव प्रजायत" "यवसायं जुहोति" "जातपुत्रः कृष्णकेशाग्री नादधीते"[ ] तत्र च कर्मानुवादेन गुणद्वयविधानेऽप्येकवाक्यवन्नानुपपत्तिः, पूर्वत्र " अग्निज्योतिर्योतेरग्निः स्वाहा" [तैत्तरीयारण्यक ४. १०. ] इति मन्त्रवर्णप्राप्तत्वादनेः प्रजापतिमात्रविधानम् , उत्तरत्र च जातपुत्रकृष्णकेशपदद्वयोपलक्षितावस्थाविशेषस्याधानानुवादेन विधानमित्येवं वाक्यभेदनिराकरणात्, तदिदमुक्तम्- " प्राप्ते कर्मणि नानेको, विधातुं शक्यते गुणः " [ ] इति, अत्र च कर्मणीत्युपलक्षणं प्राप्तमात्रमुद्दिश्यानेकविधानस्याशक्यत्वात् , अत एव " ग्रहसंमार्टि " [ ] इत्यत्र ग्रहोदेशेनैकत्व-संमार्गयोर्विधाने वाक्यभेदः, एकोदेशेनानेकविधानवदनेकोद्देशेनैकविधानमप्य विशेषणमात्रस्यैवान्यतोऽप्राप्तस्य विधानं युक्तमित्यर्थः । तत्र दृष्टान्तमाह- यथेति । गुणविधौ दधिद्रव्यरूपगुणविधाने, दध्ना जुहोतीत्यत्र होमक्रियाया अग्निहोत्रं जुहोतीत्यनेन प्राप्तत्वात् तत्र करणतया दधिगुणस्यैव विधानमित्यर्थः । तत्रापि प्रकरणान्तरप्राप्तक्रियायां गुणमात्रविधानस्थलेऽपि । नानेकमिति- अनेकं विशेषणं विधातुं न शक्यत इत्यर्थः। तत्र हेतुमाह-वाक्यभेदप्रसङ्गादिति । कथं वाक्यभेदप्रसङ्ग इत्यपेक्षायामाह- अप्राप्ता हीति-हि- यतः। अनेकविशेषणान्युपसंगृह्यन्ती विशिष्टस्वस्वरूपसन्निविष्टतयाऽनेकविशेषणानि सगृह्णन्ती सती । विशिष्टा अनेकविशेषणविशिष्टा, विधातुं शक्येति- तद्विधाने एकस्यैव विशिष्टस्य विधानमित्येकार्थत्वान्न वाक्यभेदप्रसङ्ग इति । प्राप्तायां तु प्रकरणान्तरप्राप्तायां पुनः। तस्यां क्रियायाम् । विधिप्रत्ययावृत्तिलक्षण: यावन्तो गुणा विधेयास्तावन्तो विधिप्रत्ययास्तस्मिन् वाक्ये न सन्ति, किन्त्वेक एव विधिप्रत्ययो विद्यते, स चैकत्रवोपक्षीण इति गुगान्तरविधानाय तस्यावृत्तिरभ्यासः पुनस्तत्पठनं तल्लक्षणस्तत्स्वरूपः, अतस्तद्भयात् प्राप्तायां क्रियायामेकस्यैव गुणस्य विधानमित्याशयः । तत्र शङ्कामुत्थाप्यापहस्तयति-न चेति । “यदग्रमेव प्रजायत" "यवसायं जुहोति" "जातपुत्रः कृष्णकेशाग्री नादधीते तत्र च" इत्यस्य स्थाने “ यदग्नये च प्रजापतये च सायं जुहोति" इत्यत्र " जातपुत्रः कृष्णकेशोऽग्नीनादधीत इत्यत्र च" इति पाठो युक्तः । कर्मानुवादेन सन्ध्याकालीनहवनकर्मानुवादन, अग्न्याधानकर्मानुवादेन च । गुणद्वयविधानेऽपि अग्नि-प्रजापतिदेवतारूपगुणद्वयविधाने, जातपुत्रत्व-कृष्णकेशाग्रत्वलक्षणगुणद्वयविधानेऽपि च । एकवाक्यवत् यथैकवाक्यं तथा। नानुपपत्तिः, अन्यत्रापि प्राप्तकर्मानुवादेनानेकगुणविधाने एकवाक्यं नानुपपन्नम्। निषेधे हेतुमाहपूर्वत्रेति-यदग्नये च प्रजापतये च जुहोतीत्यत्रत्यर्थः । “ज्योतेरग्निः" इत्यस्य स्थाने " ज्योतिरग्निः" इति पाठः सम्यक् । इति एवंस्वरूपेय॑थः । अग्निज्योतिरित्यादिमन्त्रस्याग्निरूपदेवताप्रकाशनसामर्थ्यात् तत एवाग्नेः प्राप्तत्वान्न तस्य किन्तु प्रजापतिरूपदेवतामात्रस्य विधानम् । उत्तरत्र च जातपुत्रः कृष्णकेशोऽग्नीनादधीतेत्यत्र च । अवस्थाविशेषस्येतिजातपुत्रत्वं वृद्धावस्थायामपि सम्भवति न तु कृष्णकेशाग्रत्वमिति विशेषस्य युवावस्थालक्षणस्य विधानम् , तथा च युवावस्थः पुरुषोऽग्नीनादधीतत्येवं पर्यवसिते अग्न्याधानानुवादेनावस्थाविशेषस्य विधानमित्यर्थः । इत्येवम् उक्कप्रकारेणैकस्य विधानतः । उक्तार्थे मीमांसासम्मतिमुपदर्शयति- तदिदमुक्तमिति । प्राप्त कर्मणीति- “प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥१॥" इति सम्पूर्ण पद्यम् , अत्र 'प्राप्त कर्मण्यनेको गुणो विधातुं न शक्यः, अप्राप्ते तु बहवोऽप्येकयत्नतो विधीयन्ते' इत्यन्वयः, अर्थस्तु व्यक्त एव । अत्र चेति-प्राप्ते कर्मणीति पद्ये चैत्यर्थः । कर्मणीत्युपलक्षणं कर्मपदेन कर्म-तद्भिन्नयोरुभयोरपि ग्रहणम् । तत्र हेतुमाह-प्राप्तमात्रमितिप्राप्तमात्रं यत् किमपि कर्मस्वरूपं गुणादिस्वरूपं वा तदुद्देशेनानेकविधाने विध्यावृत्तिलक्षणो वाक्यभेदः प्रसज्यत एवेति तद्भयादनेकविधानस्याशक्यत्वादित्यर्थः । अत एव कर्मणीत्यस्योपलक्षणत्वेन प्राप्तमात्रमुद्दिश्यानेकविधानस्याशक्यत्वादेव । "ग्रहसंमाष्टि" इत्यस्य स्थाने "प्रहं संमार्टि' इति पाठः सम्यग, ग्रहो नाम यज्ञोपयोगी पात्रविशेषः, प्रहं समाधीत्यत्र प्रहपदोत्तरद्वितीयकवचनेन प्रहगतैकत्वस्य विवक्षितत्वे एकत्वविशिष्टस्य ग्रहस्यैव सम्माजनेऽपूर्वोत्पत्तिर्न तु सर्वस्य प्रहस्य, एवं च आहे प्राप्ते एकत्व-संमार्जनयोरुभयोरप्यप्राप्तत्वाद् विधाने वाक्यभेदः प्राप्नोति ततो न प्रहगतकस्वं Page #400 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । 1 [ शक्यम्, यथात्रैवैकत्वमहोद्देशेन संमार्गविधानम् [ द्व ]दिह " तमेतम्० " [ पत्रइत्यादिविधौ न तावदरुणादिवाक्यवदेकविशिष्टक्रियाबोधकत्वम्, असंभवादनङ्गीकाराश्च, नापि " दधा जुहोति " इतिवत् कस्याश्चित् क्रियाया मेक विशेषणविधानम्, उक्तहेतोरेव, यज्ञ-दानादीन्युद्दिश्य विविदिषाफलसंबन्धविधाने एकत्वमहोद्देशेन संमार्गविधानवद् विविदिषाफलमुद्दिश्य यज्ञ दानादिविधाने च महोद्देशेनैकत्व संमार्गविधानवत् कथं न वाक्यभेदः ?, अथ " दर्श- पौर्णमासाभ्यां स्वर्गकामो यजेत " ] इत्यत्रै स्वर्गोद्देशेन दर्श- पौर्णमास्यात्मकाने कयागविधानवद् विविदिषोद्देशेन यज्ञदानाद्यनेकविधाने न वाक्यभेद इति चेत् ? न तत्र हि दर्शपूर्णमासपदेन न कालविधानम्, उत्पत्तिवाक्यैरेव प्राप्तत्वात्, अतो दर्श- पूर्णमासपदं तत्प्रख्यन्यायसिद्धं नामधेयम्, तत्प्रख्यं चान्यशास्त्रम्, यथा - " अग्निहोत्रं जुहोति ” इत्यत्र मन्त्रवर्णेनाभेः प्राप्तत्वान्नाग्निदेवताविधिः, किन्तु नामधेयं तथात्र विवक्षितमिति सर्वस्य यज्ञोपयोगिनो ग्रहशब्दव्यपदेश्यस्य पात्रस्य संमार्जनं न्याय्यम् । यथा चैकोद्देशेना ने कविधानं वाक्यभेदभयादशक्यं तथाऽनेकोद्देशेनैकविधानमपि यत एकविधावेकस्यैवोद्देश्यत्वमेवं चैकमुद्दिश्य यस्यैकस्य विधानं तस्यैव पुनरन्यमुद्दिश्यापि विधानमिति विध्यावृत्तिलक्षणो वाक्यभेदः स्यादेवेत्याह-एकोद्देशेनेति । तत्र दृष्टान्तमाह-यथेति । अत्रैव महं संमाष्टत्यत्रैव । संमार्गविधानमित्यनन्तरमशक्यमित्यनुषजनीयम् । उक्तमर्थं प्रकृते सङ्गमयन्नाह तदिद्देति । इहेत्यस्यैव स्पष्टीकरण- तमेतमित्यादिविधाविति तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेति विधावीत्यर्थः । अरुणादिवाक्यवदिति - अरुणयैकहायन्या गवा सोमं क्रीणातीत्यत्र यथा आरुण्याद्येकविशिष्टगोकरणकसोमक्रयविधानं न सम्भवति तथा तमेतमित्यादिविधौ नैकविशिष्टक्रियाविधानमतो नैकविशिष्टक्रियाबोधकत्वमित्यर्थः । एकविशिष्टक्रिया. बोधकत्वाभावे हेतुमुपदर्शयति- असंभवादिति यज्ञेन दानेनेत्यादिना यज्ञ-दानादि क्रियालक्षणाने कविशेषणेषु समानयोगक्षेमेषु सत्सु तन्मध्यादेकमेव किञ्चन विशेषणमुपादाय तद्विशिष्टविविदिषाक्रियाबोधकत्वस्य तमेतमित्यादावसम्भवात् यदेव विशेषणं नोपादीयते तस्यैवोक्तविधावुपादानवैयर्थ्यमनुषज्यत इत्यत एकविशिष्टक्रियाविधानं न सम्भवतीत्याशयः । यदि च कथञ्चिदेकविशिष्टक्रियाबोधकत्वं सम्भाव्येत तदाऽप्याह- अनङ्गीकाराच्चेति-तमेतमित्यादिवचनस्यैकविशिष्टक्रियाबोधकत्वस्यानभ्युपगमाच्चेत्यर्थः । नापि दध्ना जुहोतीत्यादिवदिति - दध्ना जुहोतीत्यत्र होमानुवादेनैकस्य दध्नो गुणस्य यथा विधानं तथा प्रकृतेऽपि कस्याश्चित् क्रियायामेकविशेषणविधानमित्यपि नेत्यर्थः । निषेधे हेतुमाह- उक्त हेतोरेवेति- असंभवादनङ्गीकारादेव चेत्यर्थः । अनेकोद्देशेनैकविधानमपि वाक्यभेदभयान्न संभवति प्रकृते इत्याह- यज्ञ दानादीन्युद्दिश्येति । विविदिषाफल संबन्धविधाने इत्यस्य कथं न वाक्यभेद इत्यनेनान्वयः, कथं न वाक्यभेदः ? स्यादेत्रेत्यर्थः । अनेकोद्देशेनैकविधाने वाक्यभेदप्रसङ्गस्य दृष्टान्तमाह - एकत्वग्रहोद्देशेनेति - एकत्वग्रहो भयोद्देशेन सम्मार्जनस्यैकस्य विधाने यथा वाक्यभेदस्तथेत्यर्थः । प्रकृते एकमुद्दिश्याने कविधानेऽपि वाक्यभेदप्रसङ्ग इत्याह- विविदिषाफलमुद्दिश्येति । यज्ञ-दानादिविधाने वेत्यस्यापि कथं न वाक्यभेद इत्यनेनान्वयः । तत्र दृष्टान्तमाह- ग्रहोद्देशेनेति- ग्रहमुद्दिश्येकत्व - संमार्जनयोर्विधाने यथा वाक्यभेदस्तथेत्यर्थः । एकफलोद्देशेनानेकक्रियाविधानेऽपि प्रकृते न वाक्यभेद इति सदृष्टान्तमाशङ्कते अथेति । समाधत्ते नेति । हि यतः, तत्र दर्श- पौर्णमासाभ्यां यजेतेत्यत्र । न कालविधानं यागोद्देशेन नामावास्यापूर्णिमालक्षणकालविधानम् । तत्र हेतुमाह - उत्पत्तिवाक्यैरेवेति द्रव्यं देवता च यागस्वरूपं तद् यद्वाक्ये प्रतिपाद्यते तदुत्पत्तिवाक्यम्, दर्शपौर्णमासस्थले षट् यज्ञाः, ततस्तेषामुत्पत्तिवाक्यान्यपि षडिति उत्पत्तिवाक्यैरिति बहुवचनम् । प्राप्तत्वात् कालस्य प्राप्तत्वात् । अतः दर्श- पूर्णमासपदेन कालविधानाभावतः । तत्प्रख्येति तत्प्रकाशकान्यशास्त्रतस्तस्य प्राप्तौ तत्प्रतिपादकतया - वभासमानशब्दो न तद्विधायकः किन्तु नामधेय इति तत्प्रख्यन्यायानुगमनिका । तत्प्रख्यन्यायेत्यत्र तत्प्रख्यं किमित्यपेक्षायामाह - तत्प्रख्यं चान्यशास्त्रमिति । तत्प्रख्यन्यायसिद्धं नामधेयमिति दृष्टान्तोद्घाटनेन स्पयष्टति - यथेति । नाग्निदेवताविधिः होमोद्देशेन नाग्निस्वरूपदेवताया विधानम्, तर्हि अग्निहोत्रमिति पदं किमर्थमिति पृच्छति - किन्त्विति । उत्तरयति नामधेयमिति- होमविशेषस्य नामधेयं संज्ञा अग्निहोत्रमिति पदम् । तथा एवम् । अत्र दर्श- पूर्णमासाभ्यां ४२ ३२९ Page #401 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । द्रष्टव्यम् । तथा च दर्शपौर्णमासनामधेयसमानाधिकरणैकयजतिपदाभिहितानां षण्णामपि यागानां फलोद्देशेन विधाने न वाक्यभेदः, यथा-" ब्रीहिभिर्यजेत" [ ] इत्यत्रैकपदानां ब्रीहीणां यागोद्देशेन विधौ, अत्र हि प्राप्तेऽपि कर्मणि ब्रीहितहहुत्वविशिष्टैककारकं विधीयते, " चित्रया यजेत ” [ तै. सं. २. ] इत्यत्र संभवत्यपि चित्रत्वस्त्रीत्वविशिष्टैककारकविधाने गौरवान्नामधेयाश्रयणम् , तदेवं ब्रीहिवाक्यतुल्यत्वाद् दर्श-पौर्णमासीभ्यामित्यादावेकपदोपात्तत्वान्न वाक्यभेदः, विविदिषन्तीत्यत्र तु भिन्नपदोपात्तानां यज्ञादीनां भिन्नकारकवतां च न ब्रीहिवाक्यतुल्यता, " ये मध्यमास्तानग्नये दात्रे" [ ] इत्यादौ तु सत्यपि भेदे सामानाधिकरण्येन प्रतिपादितं विशिष्टदेवताकारकमेकमेवेति न वाक्यभेदः, " यज्ञेन दानेन " [ पत्र- ] इति तु न सामानाधिकरण्यमस्ति । तस्मादेकविधाने अन्याविधानादेकस्यात्मपदस्य श्रोतव्यादिवाक्येष्वनुस्वर्गकामो यजेतेत्यत्र, तत्तत्कालविहितानां षण्णां यज्ञविशेषाणां दर्श-पूर्णमासपदं नामधेयमिति ज्ञातव्यमित्यर्थः । तथा च षण्णामपि यज्ञा मां दर्श-पूर्णमासैकपदाभिधेयत्वे व्यवस्थिते च । तत्र दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्र । दर्शतिदर्शपौर्णमासनामधेयसमानाधिकरणं यदेकं यजतिपदं तेनाभिहितानामित्यर्थः, भिन्नपदाभिहितानां भिन्नत्वे सति बहूनामेकफलोद्देशेन विधाने वाक्यभेदो भवेत् , बहूनामपि चैकपदोपात्तत्वेनैकत्वे एकीभूतस्य बहोरप्येकफलोद्देशेन विधाने न वाक्यभेद इत्याशयः। एकपदोपात्तानां बहूनामेकोद्देशेन विधाने वाक्यभेदाभावे दृष्टान्तमाह- यथेति । एकपदोपात्तानां व्रीहिस्वरूपैकपदाभिहितानाम् । विधावित्यनन्तरं न वाक्यभेद इत्यनुषज्यते । अत्र व्रीहिभिर्यजेतेत्यत्र। हि यतः । प्राप्तऽपि कर्मणि वचनान्तरविहितेऽपि यागलक्षणकर्मणि । तदहत्वेति-व्रीहिनिष्ठबहुत्वेत्यर्थः । नन्वेवं चित्रया यजेतेत्यत्रापि चित्रत्वस्त्रीत्वविशिष्टैककारकविधानं संभवतीति तदेव किमिति नाङ्गीक्रियते, किमर्थं चित्रापदस्य यागविशेषनामधेयत्वमुररीक्रियत इत्यत आह-चित्रया यजेतेत्यत्रेति । एवं च दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्रैकयजतिपदोपात्तानां षण्णामपि यज्ञानामेकस्वर्गफलोद्देशेन विधाने न वाक्यभेदः, प्रकृते तु यज्ञदानादीनां भिन्न पदोपात्तानां विभिन्नतृतीयाविभक्तिबोध्यकरणत्वलक्षणभिन्नकारकवतां विविदिषालक्षणैकफलोद्देशेन विधानेऽपि वाक्यभेदः स्यादेवेत्युपसंहरति- तदेवमिति । व्रीहिवाक्यतुल्यत्वादिति- ब्रोहिभिर्यजेतेति वाक्ये यथा व्रीहिस्वरूपैकपदोपात्तत्वं बहूनां व्रीहीणां तथा दर्शपूर्णमासाभ्यां यजेतत्यत्राप्येकय जतिपदोपात्तत्वं षण्णामपि यागानामित्येवं ब्रीहिवाक्यतुल्यत्वादित्यर्थः । प्रकृते तु नैवमित्युपदर्शयति- विविदिषन्तीत्यत्र त्विति । यज्ञादीनामित्यत्रादिपदाद् दानादीनामुपग्रहः । क्वचित् क्रियादिस्वरूपभेदेऽपि देवताकारकैक्यादेकत्वमिति न वाक्यभेद इत्युपदर्शयति- ये मध्यमा इति - त्रिः प्रथमां त्रिरुत्तमां त्रिमध्यमामन्वाहेत्येवं क्रियान्तरे प्रथमादीनामृचां त्रिरावृत्त्या विधानात् तत्र दातृनामकाग्निदेवतायै मध्यमानाम्नामनेकेषामृचां विधानेऽपि अग्नये दात्रे इति सामानाधिकरण्येन प्रतिपादितं दातृत्वविशिष्टाग्निदेवतालक्षणसंप्रदानकारकमेकमेवेति ये मध्यमा इत्यत्र न वाक्यभेद इत्यर्थः। विभिन्न प्रवृत्तिनिमित्तकपदानामभेदेनैकार्यान्वितस्वार्थप्रतिपादकत्वं सामानाधिकरण्यम् , तच्चाग्नये दात्रे इत्यत्र समस्ति, यज्ञन दाननत्यत्र तु न यज्ञपदार्थस्य यागस्य दानपदार्थे दानेऽभेदेनान्वय इति न सामानाधिकरण्यमतो न विशिष्टकारकमेकमिति वाक्यभेदः स्यादेवेत्याह- यज्ञेन दानेन इति त्विति । प्रकृते वाक्यभेदः स्यादेवेति सङ्गमयतितस्मादिति । यत्रैकवाक्ये एकविधानेऽप्यन्यविधानं यत्र दृश्यते तत्र च भवति वाक्यभेदः, यथा- “श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कर्तव्यः" [बृहदारण्यके २. ४. ५.] इत्यत्र श्रवणविधानेऽपि मननादिविधान इत्याह-एकस्येति । "नुसङ्ग" इत्यस्य स्थाने "नुषङ्ग" इति पाठो युक्तः, श्रोतव्य इत्येतावन्मात्रश्रवणे उद्देश्यवाचकपदाभावात् कमुद्दिश्य श्रवणविधानम् , एवं मन्तव्य इत्यादावपि, आत्मपदस्यानुषणे तु आत्मा श्रोतव्यः, आत्मा मन्तव्यः, आत्मा निदिध्यासितव्यः, आत्मा साक्षात्कर्तव्य इत्येवं प्रत्येकमात्मपदानुषणाद् यथा वाक्यभेदस्तथा प्रकृतेऽपि यज्ञेन विविदिषन्ति दानेन विविदिवन्ति तपसा विविदिषन्तीत्येवं प्रत्येक विविदिषन्तीति पदस्यानुषङ्गाद् विध्यावृत्तिलक्षणो वाक्यभेदः स्यादेवेत्यर्थः । यत् तु पूर्वमुक्तम्-“अत्र त्वेकवाक्योपात्तत्वाद् दर्शादिवत् समुच्चयः" इति, तत्र पृच्छति-कथं तर्हि समुच्चय इति । उत्तरयतिउच्यत इति । " अरुणया क्रीणाति वा समाक्रीणाति" इत्यस्य स्थाने "अरुणया सोमं क्रीणाति गवा सोमं क्रीणाति" Page #402 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कतो नयोपदेशः । सङ्गवदेकस्य विविदिषन्तिपदस्य यज्ञेनेत्यादौ प्रत्येकमनुषङ्गादिह वाक्यभेदो विध्यावृत्तिलक्षणः । कथं तर्हि समुच्चयः ? उच्यते- " अरुणया क्रीणाति वा समाक्रीणाति" [ ] इत्यादिभिन्नवाक्यविहितानामपि सोमप्राप्त्यर्थानां क्रियाणामिव संभवत्समुच्चये यज्ञादीनां परिकल्पितान्तःकरणशुद्धिद्वाराणां भविष्यति, " अरुणया" इत्यादयो हि नियमविधयः, तत्र चार्थिकीतरनिवृत्तिरिति · अरुणाक्रयेणैव सोमं भावयेद् ' इत्यादिरर्थः फलितः, स च नित्यवत् समुच्चये नोपपद्यत इति संभवत्समुचयोऽयम् , न चैवं दध्यादिषु कथं नायमित्याशङ्कनीयम् , तत्र होमनिष्पत्तरस्यै केनैव सिद्धेः, "अरुणया" इत्यादौ तु क्रयविधेदृष्टार्थत्वादेकेनैव क्रयेणानतिसिद्धौ नियमविधित्ववत् , अन्यथा तु प्रत्येकावगतं नियम कार्यानुरोधेन त्यक्त्वा वाक्यान्तरविहितक्रयसापेक्षत्वं पूर्वक्रयस्य कल्प्यत इति युक्तः संभवत्समुच्चयः, त[ द्व ]दिहापि यज्ञादीनामसौ युक्तः, अत एव यज्ञानधिकारिणां ब्रह्मचारिणां वेदानुवचनेन केवलेनाइति पाठः समीचीनः, "क्रियाणामिव संभवत्समुच्चये" इत्यस्य स्थाने "क्रयाणामिव संभवत्समुच्चयो" इति पाठो युक्तः, संभवत्समुच्चय इत्यस्य भविष्यतीत्यनेनान्वयः। नियमविधयः अरुणयैव सोमं क्रोणाति, गवैव सोमं क्रीणातीत्येवंरूपा नियमविधयः । तत्र च नियमविधौ च । आर्थिकी अर्थात् प्राप्ता । इतरनिवृत्तिः अरुणेतरेण सोमकयो न कर्तव्यः, गोभिन्नेन सोमक्रयो न कर्तव्य इत्येवंरूपा । नियमविधौ कीदृशोऽर्थो भवतीत्यपेक्षायामाह- अरुणाकयेणैवेति । कथमत्र नित्यवत् समुच्चयो न येन संभवत्समुच्चय इत्युच्यत इत्यपेक्षायामाह- स चेति- अरुणाकयेणैव सोमं भावयेदित्यादिरर्थवेत्यर्थः, अस्य नोपपद्यते इत्यनेनान्वयः, अन्या अरुणा अन्या च गौरिति नास्ति किन्तु यैव गौः सैवारुणा येवारुणा सैव गौरिति अरुणया क्रयणमेव गवा क्रयणं गवा क्रयणमेव चारुणया क्रयणमिति वस्तुगत्या समुच्चयो नास्तीति न नित्यवत् समुच्चय इत्युक्तोऽर्थों नित्यवत् समुच्चयेऽङ्गीक्रियमाणे नोपपद्यत इत्ययं समुच्चयः सम्भवत्समुच्चयः, संभाव्यते चैवं समुच्चय इति, विविदिषन्तीत्यत्र तु यद्यपि याग-दानादीनां भिन्नानां वस्तुतः समुच्चयोऽस्ति किन्तु पुरुषविशेषस्य कस्यचिद् यज्ञ-दानादिक्रियासमुच्चये सति विविदिषा भवति, कस्यचिद् यज्ञेनैव कस्यचिद् दानेनैव कस्यचित् तपसैवान्तःकरणशुद्धिद्वारा विविदिषा भवतीति न यज्ञादीनां समुच्चयो नित्यवत् किन्तु संभवत्समुच्चयः, यथा नीलं सरोजं भवत्येवेत्यत्र न सरोजत्वावच्छेदेन नीलं समस्ति श्वेतस्यापि सरोजस्य भावात् , किन्तु किञ्चित् सरोज नीलमपि भवतीति सरोजं संभवन्नीलम् , एवं विविदिषामात्रस्य न यज्ञादिसमुच्चयादेव भावः, कस्याश्चिद् विविदिषाया एकेनापि यागेनान्तःकरणशुद्धिद्वारा भावात् , किन्तु काचिद् विविदिषा यागादिसमुच्चयादेव भवतीति संभवत्समुच्चयोऽयमित्यर्थः । ननु दना जुहोति पयसा जुहोतीयादावपि एकहोमोद्देशेन दधि-पयआदिसमुच्चयस्य विधानमस्तु, ततस्तत्रापि संभवत्समुच्चयः स्यादित्याशङ्कय प्रतिक्षिपति-न चेति। एवं यथाऽरुणयेत्यादौ संभवत्समुच्चयस्तथा । कथं नायं कथं न संभवत्समुच्चयः। निषेधे हेतुमाह- तत्रेति- दना जुहोतीत्यादावित्यर्थः । दधि-दुग्धादिद्रव्यस्वरूपस्य होमनिष्पत्तिद्वारा फलजनकत्वम्, होमनिष्पत्तिश्चैकेनापि दना पयसा वा संभवतीति न तत्र समुच्चयोऽवकल्प्यत इत्याह- होमनिष्पत्तेरिति । अरुणया गवा सोमं क्रीणातीत्यादौ तु नैवमित्याह- अरुणया इत्यादी स्विति । दृष्टार्थत्वात् सोमलताप्राप्तिरूपदृष्टार्थत्वात् । एकेनैव क्रयेण अरुणया क्रयेग गवा क्रयेण वा “क्रयेणानतिसिद्धौ" इत्यस्य स्थाने “क्रयेण तत्सिद्धौ” इति पाठो युक्तः, तत्सिद्धौ सोमलताप्राप्तिरूपदृष्टार्थसिद्धौ। नियमविधित्वम् अरुणयेत्यादेनियमविधित्वम् , अरुणयैव गवैव क्रयेणैव सोमं भावयेदित्येवं नियमार्थकविधित्वम् । अन्यथा त नियमविधित्वाभाव तु । प्रत्येकावगतं नियमं अरुणया सोमं क्रीणाति गवा सोमं क्रीणातीत्येवं प्रत्येकवाक्यावगतम्, अरुणयैव गवैवेत्येवं नियमं त्यक्त्वा कार्यानुरोधेन आरुण्यगोसमुच्चयेनैव क्रयेण सोमलताप्राप्तिरूपं कार्यमिति तदनुरोधेन, वाक्यान्तरेति-गवा क्रीणातीति वाक्यान्तरविहितो यः क्रयस्तत्सापेक्षत्वं पूर्वक्रयस्य अरुणया क्रीणातीति पूर्ववाक्यविहितकयस्य कल्प्यत इत्येतस्मात् कारणात् संभवत्समुच्चयोझणयेत्यादौ युक्त इत्यर्थः। तद्वत अरुणया क्रीणातीत्यादौ यथा संभवत्समुच्चयस्तथा। इहापि तमेतमित्यादावपि । असौ संभवत्समुच्चयः । अत एव तमेतमित्यादौ न नियमवत्समुच्चयः, किन्तु संभवत्समुच्चय इत्यभ्युपगमादेव । यज्ञानधिकारिणां सपत्नीकस्य गृहस्थस्यैव यज्ञादावधिकारो न पत्नीविकलस्य Page #403 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नवोपदेशः । 1 यन्तःकरणशुद्धिद्वारा विविदिषासिद्धिः । तथा च स्मृतिः- “ जपेनैव तु संसिद्ध्येत् " [ इति, संभवति चाधिकारिविशेषस्य विविदिषाद्युद्देशेन वेदानुवचनाद्यनुष्ठानमिति । न च स्वर्गकामोऽग्निहोत्रवत् सकृदनुष्ठाननियमो यज्ञाद्यनुष्ठानस्यान्तःकरणशुद्धिपर्यन्तत्वात्, तस्याश्च साधनचतुष्टयसंपत्तिगम्यत्वात्, तेन यस्य सकृदनुष्ठानादन्तःकरणशुद्धिर्न तस्यावृत्तिरिति । अथवा " जातपुत्र " इतिवत् यज्ञादिपदैः प्रसिद्धं शतपथविहितं कर्मसाम्राज्यमुपलक्ष्य विविदिषादिफलोद्देशेन विधीयत इति न वाक्य - भेदः, संभवत्समुच्चयश्चैवमुपपद्यते । यद्वा ईश्वरार्पणबुद्ध्यानुष्ठितानां कर्मणामन्तःकरणशुद्धिः फलम्, “ यत् करोषि " [ भगवद्गीता, अ. ९, श्लो. २७ ] इत्यादिस्मृते:, तेन सुष्ठुक्तम्- " कर्मभिः शुद्धान्तःकरणो ब्रह्मचारिण इत्येवं यज्ञानधिकारिणाम् । केवलेनापि यज्ञादिक्रियाविकलेनापि । यज्ञादिसमुच्चयमन्तराऽपि वेदानुवचनान्यतमेन विविदिषासिद्धौ स्मृतिं प्रमाणयति - तथा च स्मृतिरिति - " जपेनैव " इत्यस्य स्थाने " जप्येनैव " इत्यपि पाठः, " जप्येनैव तु संसिद्धयेद् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ १ ॥ इति सम्पूर्ण वचनम्, मैत्र इत्यनेन मित्रस्य - सूर्यस्य गायत्रीमन्त्रजपेनाराधक इति बोध्यते । यदा चात्र सम्भवत्समुच्चय एव न तु नियमवत्समुच्चयस्तदाऽधिकार विशेषस्यैकैकवेदवचनाद्यनुष्ठानमपि युक्तमित्याह - संभवति चेति- अस्य वेदानुवचनाद्यनुष्ठानमित्यनेनान्वयः । ननु " स्वर्गकामोऽग्निहोत्रं जुहोति ” इत्यादावेकदाऽनुष्ठितेनाप्यग्निहोत्रेण स्वर्गफलसिद्धिः, तथा सकृदनुष्टितेन यज्ञादिना विविदिषाफलसिद्धिसम्भवे विविदिषाद्यर्थं सकृदेव यज्ञाद्यनुष्ठाननियमः सिद्धयेदित्यत आहन चेति - " स्वर्गकामोऽग्निहोत्रवत्" इत्यस्य स्थाने " स्वर्गकामाग्निहोत्रवत् " इति पाठो युक्तः, स्वर्गकामस्याग्निहोत्रे यथा सकृदनुष्ठाननियमस्तथा विविदिषाकामस्य यागादौ सकृदनुष्ठाननियम इति न चेत्यर्थः । यज्ञाद्यनुष्ठानं हि अन्तःकरणशुद्धिद्वारा विविदिषाजननसमर्थमिति अन्तःकरणशुद्धिर्यावन्न संपद्येत तावद् भूयो यागाद्यनुष्ठानं कुर्यादेव, अन्तःकरणशुद्धिद्वारनिष्पत्त्यनन्तरं च न पुनर्यज्ञाद्यनुष्ठेयमिति निषेधहेतुमुपदर्शयति- यज्ञाद्यनुष्ठानस्येति । ननु यज्ञाद्यनुष्ठानं यद्यन्तःकरणशुद्धिकारणं तदा सकृदनुष्ठितेनापि यज्ञादिनाऽन्तःकरणशुद्धिर्जातैवेति किमर्थं भूयो यज्ञाद्यनुष्ठानमित्यत आह- तस्याश्चेतिअन्तःकरणशुद्धेश्चेत्यर्थः। साधनचतुष्टयसम्पत्तिगम्यत्वादिति - नित्यानित्य विवेक-विराग शमदमादि- मुमुक्षेत्येवं साधनचतुष्टयं तस्य या संपत्तिस्तया गम्यत्वादित्यर्थः, साधनचतुष्टय सम्पन्नत्वादयं शुद्धान्तःकरण इत्यवगमोऽत्र ज्ञेयः, तथा च साधनचतुष्टयगम्यान्तःकरणशुद्धिर्यावता यज्ञाद्यनुष्ठानेन भवति तावद् यज्ञाद्यनुष्ठानं विधेयमिति न तत्र सकृदनुष्ठानस्यासकृदनुष्ठानस्य वा नियम इति भावः । तेन यज्ञाद्यनुष्ठानस्यान्तःकरण शुद्धिपर्यन्तत्वेन । यस्य विविदिषाकामस्य कस्यचित् पुरुषधौरेयस्य । तस्य सकृदनुष्ठानादन्तःकरणशुद्धिमतः पुरुषविशेषस्य । न आवृत्तिः नानेकवारं यज्ञाद्यनुष्ठानम् । प्रकारान्तरेण संभवत्समुच्चयोपपादनेन यज्ञेन दानेनेत्यादौ वाक्यभेदप्रसङ्गं वारयति - अथवेति । जातपुत्र इतिवदितियथा जातपुत्रः कृष्णकेशोऽग्नीनादधीतेत्यत्र जातपुत्र-कृष्ण केशपदद्वयोपलक्षितावस्थाविशेषस्याग्न्याधानानुवादेन विधानमिति न वाक्यभेदस्तथेत्यर्थः । यज्ञादिपदैरित्यत्रादिपदाद् दानादिपदपरिग्रहः । यज्ञादिपदैरित्यस्योपलक्ष्येत्यनेनान्वयः । शतपथविद्दितं शतपथसंज्ञक वेदशाखाविहितम्, एवंभूतं यत् प्रसिद्धं कर्मसाम्नाज्यं तदुपलक्ष्य- उपलक्षणन्यायेन तदवबोध्य तदेव कर्मसाम्राज्यं विविदिषादिफलोद्देशेन विधीयत इत्येतस्मात् करणाद् यज्ञेन दानेनेत्यादौ वाक्यभेदो न भवतीत्यर्थः । एवम् उक्तप्रकाराश्रयणे, संभवत्समुच्चय उपपद्यते युज्यते । अनुष्ठितकर्मभिरन्तःकरणशुद्धौ प्रकारान्तरमावेदयतिद्वेति । ईश्वरार्पणबुद्धयेति यत् किमपि कर्म मया क्रियते तदीश्वरस्यास्तु, न तत्फलं किञ्चिदपि ममाभिलषितमित्येवं बुद्धयैत्यर्थः । । ईश्वरार्पणबुद्धया कर्मानुष्ठेयमित्यत्र भगवद्गीतावचनं प्रमाणयति - " यत् करोषि " इत्यादिस्मृतेरिति 66 यत् करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय ! तत् कुरुष्व मदर्पणम् ॥ १ ॥ " इति सम्पूर्ण पद्यम्, 'अनुष्ठितकर्मभिर्विशुद्धान्तःकरणो नित्यानित्यविवेकादिकं लभते ' इति यत् प्रतिज्ञातं प्राक् तदुपसंहरतितेनेति । " नित्यविवेकादि " इत्यस्य स्थाने " नित्यानित्यविवेकादि " इति पाठो युक्तः । नित्यानित्य विवेकादिकं यत् साधनचतुष्टयं तस्य क्रमिकोद्भव-स्वरूपे क्रमेणोपदशयति स चेति- अनन्तराभिहितश्चेत्यर्थः । नित्यानित्यविवेक इत्यस्य इत्येवमालोचनात्मक इत्यनेनान्वयः । विमर्शाधिष्ठानम्" इत्यस्य स्थाने " विमर्शस्याधिष्ठानम् " " ३३२ ܕܙ Page #404 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । "" "" - नित्यविवेकादि लभते " इति । स च नित्यानित्य विवेक:-' इदं सर्वमनित्यं दृष्टश्रुताभ्याम् एतस्य विशर्माधिष्ठानं किञ्चिन्नित्यम्' इत्येवमालोचनात्मकः । तत ऐहिक- पारलौकिक फलेच्छा विरोधिचेतोवृत्ति - विशेषात्मको विरागः । ततः शमादिषट्कम् - शम- देम उपरति तितिक्षा - समाधान-श्रद्धाः, अन्तःकरणनिग्रहः शमः, बाह्येन्द्रियनिग्रहो दमः, उपरतिः संन्यासः, द्वन्द्वसहिष्णुत्वं तितिक्षा, श्रवणादिप्रावण्यं समाधानम्, साम्प्रदायिके विश्वासः श्रद्धा । ततो मुमुक्षा - मोक्षेच्छा । तदेतत्साधनचतुष्टयं श्रवणाधिकारिविशेषणम् । यत्तु मुमुक्षैव तथा, काम्याधिकारे कामनाया एव निरपेक्षाधिकारनिमित्तत्वादिति, तन्नकाम्याधिकारे सामर्थ्यादेरप्यधिकारत्वात् । अथ कामनाऽर्थिकं सामर्थ्याद्यपेक्षते, न श्रुतमन्यत्, तत् किं इति पाठो युक्तः । दृष्टश्रुताभ्यामित्यत्र दृष्टपदेन लौकिकप्रत्यक्षादिप्रमाणस्य ग्रहणम् । इदं सर्वमनित्यं प्रत्यक्षादिप्रमाणेनावसीयते तथा यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते " [ इत्यादिश्रुतप्रमाणेनाप्यवसीयते, “अपाम सोमममृता अभूम [ अ. शिरः ३ २] इत्यादिश्रुतिश्च सोमलतादिपानजन्यफलस्य न नित्यत्वमवबोधयति, किन्तु चिरस्थितिकत्वमेव “आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते ॥ ] इति वचनात् एतस्य विमर्शस्य दृष्टश्रुताभ्यां प्रमाणाभ्यामुपजातस्येदं सर्वमनित्यमित्या कारकस्य विमर्शस्य विचारणास्वरूपज्ञानस्य, अधिष्ठानं यत्रायं विचारः प्रादुर्भवति सर्वस्य शून्यत्वे निरधिष्ठानको विचारोऽपि न भवेदिति किश्चिदधिष्ठानं चैतन्यलक्षणमुपगन्तव्यम्, तच्च नित्यमिति, इत्येवमुक्तप्रकारेण यदालोचनं तदात्मको नित्यानित्यविवेक इत्यर्थः । विरागस्वरूपं द्वितीयं साधनमुपदर्शयति तत इति - निरुक्तनित्यानित्यविवेकत इत्यर्थः । ऐहिकेति - ऐतद्भविकं पारलौकिकं च यत् फलं तदिच्छायास्तत्कामनाया विरोधी प्रतिबन्धको यश्चेतोवृत्तिविशेषोऽन्तःकरणपरिणाम विशेषस्तदात्मको. विराग इत्यर्थः । तृतीयं साधनस्वरूपमुपदर्शयति - तत इति - निरुक्तविरागत इत्यर्थः । शमादिषट्कमित्यत्रादिपदात् किं ग्राह्यमित्यतस्तद् विशिष्योपदर्शयति- शमदमेत्यादिना । शमादीनां विभक्तलक्षणमुपदर्शयति- अन्तःकरणनिग्रहः शम इति - अन्तःकरणस्य मनसो यदनेकाकारपरिणमनरूपेण प्रतिक्षणमन्यान्यावस्थाविशेषस्तदनुत्पत्तिप्रयोजकयत्नविशेषोऽन्तःकरणनिग्रहः शम इत्यर्थः । बाह्येन्द्रियेति- बाह्येन्द्रियाणां चक्षुरादीनां निग्रहः - स्वस्वविषयप्रवृत्तिविरोधिप्रयत्न विशेषो दम इत्यर्थः । उपरतिरिति सर्वाभ्यः क्रियाभ्यो विरमणलक्षणः संन्यास उपरतिरित्यर्थः । द्वन्द्वेति- सुख-दुःखशीतोष्णादिद्वन्द्वसहिष्णुत्वं तितिक्षेत्यर्थः । श्रवणेति श्रवण-मनन-निदिध्यासनैकतानतालक्षणश्रवणादिप्रावण्यं समाधानमित्यर्थः । साम्प्रदायिक इति - आप्तपरम्परानुष्ठानगोचरे कर्मणि विश्वास इदमित्थमेव यथाऽऽप्तैराचरितमिति चित्तपरिणामविशेषलक्षणो विश्वासः श्रद्धेत्यर्थः । चतुर्थं साधनमुपदर्शयति तत इति निरुक्तलक्षणश्रद्धातः । मोक्षविषयिणी येच्छा मुक्तोऽहं स्यामि - त्याकारिका सैव मुमुक्षेत्यर्थः । उपसंहरति- तदेतदिति । मुमुक्षामात्रस्य श्रवणाधिकारिविशेषणत्वं पराभिप्रेतं प्रतिक्षेप्तुमुपदर्शयति-यत् त्विति । तथा श्रवणाधिकारिविशेषणम् । मोक्षेच्छयैव श्रवणादिकमाचरतीति श्रवणादिकं काम्यमतस्तदधिकारे मोक्षकामनैवान्यानपेक्षा श्रवणाद्यधिकारे निमित्तत्वात् तद्विशेषणमित्याह- काम्याधिकारे इति । प्रतिक्षिपति - तन्नेति । नहि तत्तत्कर्मासमर्थस्तत्तत्कर्मण्यधिकारीति तत्तत्कर्मसामर्थ्यादेरप्यधिकारिविशेषणत्वादिति प्रतिक्षेप हेतुमुपदर्शयति- काम्या धिकार इति । अधिकारत्वात् अधिकारिविशेषणत्वात् । शङ्कते अथेति सामर्थ्यमन्तरेण कामनया कर्म न भवतीत्यत आर्थिकमर्थात् प्राप्तं सामर्थ्यादिकं कामनाऽपेक्षते, श्रुतं किञ्चिन्नापेक्षते कामनेति स्वातिरिक्तश्रुतानपेक्षत्वात् कामनाया एवाधिकारिविशेषणत्वमिति शङ्काऽर्थः कामनाऽतिरिक्तस्य श्रुतस्य भावेऽपि तदपेक्षा नास्ति कामनायाः, आर्थिकस्य तु सामर्थ्यादेः श्रुतत्वाभावेऽपि लिङ्गप्रमाणगम्यस्यापेक्षा विद्यते कामनाया इत्यभ्युपगमे श्रुति-लिङ्गयोर्मध्ये लिङ्गस्य प्राबल्यमभ्युपगतं स्यात् तच्च "श्रुति-लिङ्ग वाक्य प्रकरण-स्थान- समाख्यानामुत्तरोत्तरदौर्बल्यात् पूर्वपूर्वं बलीयः " [ जैमिनिसू० ३, ३, १४ ] इति मीमांसा सिद्धान्तविरुद्धम्, तत्र समाख्या- नाम, नाम्ना च एकाकाङ्क्षालक्षणं स्थानं कल्प्यते यदीमनेनाऽऽकाङ्क्षितं न स्यात् कथमेतस्येदं नामेति, एकं यदन्यदाकाङ्क्षति तद् यदि तन्नाकाङ्क्षन्न तर्हि तयोरङ्गाङ्गिभावोऽवकल्पते इति स्थानादुभयाकाङ्क्षा लक्षणं प्रकरणं कल्प्यते प्रकरणेन चाङ्गबोधकवाक्याङ्गिबोधकवाक्ययोरेकवाक्यतालक्षणवाक्यं परिकल्प्यते, तेन च सामर्थ्यलक्षणं ३३३ Page #405 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। श्रुति-लिङ्गयोर्लिङ्गं बलवत्, अपि च, एवं राजसूयादौ स्वराज्यकाममात्रस्य समर्थस्याधिकारः प्रसज्येत, अथ “ राजसूयेन यजेत " इति [ ] श्रुतेर्बलीयस्त्वात् राजत्वमप्यधिकारिविशेषणं तद्यत्रापि विवेकादिकमपि श्रुतं किं ततो न तथा, युक्तेस्तुल्यत्वात् । अथ विवेकादीनि सर्वत्र सर्वाणि( न ) श्रयन्ते, किन्तु कचित् किञ्चित् , ततश्चैकैकशाखावाक्यात् प्रसक्ता धीः सर्ववेदान्तप्रत्ययन्यायेन बाध्यते, मुमुक्षा तु सर्वशाखास्वबाधितेति सेवाश्रयणीयेति चेत् ? न- “ विवेकवता श्रवणं कर्तव्यम्" [ ] इत्यायेकेकशाखावाक्यात् 'अविवेकिनः श्रवणकर्तव्यता न' इत्यर्थात् प्रतीतावपि साधनान्तरसम्पन्नस्य विवेकिनस्तदकर्तव्यत्वाप्रतीतेरर्थसमाजस्योक्तन्यायाबाध्यत्वात् , तस्मात् साधनचतुष्टयसंपन्न एव श्रवणाधिकारी । न चोपरतिशब्दवाच्यस्य संन्यासस्य श्रवणाधिकारत्वानुपपत्तिः, तस्य श्रवणाङ्गत्वे मानाभावात् , अज्ञानाङ्गत्वस्यैव न्यायत्वादित्याशङ्कनीयम् , श्रवणस्य दृष्टार्थत्वात् , दृष्टेनैवार्थलिङ्गं परिकल्प्यते, लिङ्गेन च साक्षादङ्गाङ्गिभावबोधिका श्रुतिः परिकल्प्यते, तेन साक्षादङ्गाङ्गिभावबोधिका श्रुतिर्लिङ्गादितः प्रबलं प्रमाणम् . लिङ्गं च श्रुति कल्पयित्वाऽङ्गाङ्गिभावबोधकर्मिति श्रुत्यपेक्षया दुर्बलम् , लिङ्गाच वाक्यं दुर्बलं यतो वाक्य लिङ्गश्रुती कल्पयित्वा तद्द्वाराऽङ्गाङ्गिभावबोधकम् . लिङ्गं तु श्रुतिमात्रं कल्पयित्वाऽङ्गाङ्गिभावबोधकमिति, वाक्याच्च प्रकरणं दुर्बलम् , यावद्धि प्रकरणं वाक्य-लिङ्ग-श्रुतिकल्पनेन तद्द्वाराऽजाङ्गिभावबोधकम् , तावद्वाक्यं लिङ्ग श्रुती द्वे एव कल्पयित्वा तद्द्वाराऽङ्गाङ्गिभावबोधकमिति, प्रकरणाच्च स्थानं दुर्बलं यावद्धि स्थानं प्रकराणादीनि चत्वारि प्रमाणानि कल्पयित्वाऽङ्गाङ्गिभावबोधकं तावत् प्रकरणं वाक्यादीनि त्रीण्येव प्रमाणानि कल्पयित्वा तद्वाराऽङ्गाङ्गिभावबोधकमिति, एवं स्थानात् समाख्या प्रमाणं दुर्बलं यावत् समाख्याप्रमाणं स्थानादीनि पञ्च प्रमाणानि कल्पयित्वाऽङ्गाङ्गिभावबोधकं तावत् स्थानं प्रकरणादीनि चत्वार्यव कल्पयित्वा तद्वाराऽजाङ्गिभावबोधकमिति सोऽयं सिद्धान्तः श्रुतितो लिङ्गस्य प्राबल्याभ्युपगमे विरुद्धयेतेत्यर्थः । किञ्च यद्यार्थिकं सामर्थ्यमात्र कामनाऽपेक्षेत, तदा राजसूयादियागकरणसमर्थः स्वाराज्यकामो ब्राह्मणादिरपि राजसूयादावधिकारी प्रसज्येतेत्याह- अपि चेति । एवं कामनया सामर्थ्यमात्रस्यापेक्षणमित्युपगमे। पर आह- अथेति । श्रुतेः श्रुतिप्रमाणस्य । बलीयस्त्वात् लिङ्गादिप्रमाणापेक्षया बलवत्त्वात् । राजत्वमपीत्यपिना कामना-सामर्थ्ययोग्रहणम् । तहीति- यदि श्रुतत्वाद् राजसूयादौ राजत्वमधिकारिविशेषणं तदेत्यर्थः, अत्रापि तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेनेत्यादावपि । विवेकादिकमित्यत्रादिपदाद् विरागादेग्रहणम् । श्रुतं श्रुतिप्रमाणविषयः । ततः श्रुतिप्रमाणतः । किं न तथा किं नाधिकारिविशेषणम् । युक्तस्तुल्यत्वादिति-राजसूयादौ श्रुतत्वादेव राजत्वमधिकारिविशेषणं श्रुतत्वं च प्रकृते विवेकादेरपीत्येवं युक्तेः समानतादित्यर्थः । परः शङ्कते- अथेति- 'विवेकादीनि सर्वाणि सर्वत्र न श्रूयन्ते इत्यन्वयः । पृच्छति-किन्विति । उत्तरयति- क्वचित किश्चिदिति- कस्याश्चिच्छाखायां विवेकादीनां चतुर्णा मध्यादेकमेव श्रुतमित्यर्थः, ततश्च क्वचित् किञ्चिदेव श्रुतमित्येतस्माच्च । धीरित्यस्य बाध्यते इत्यनेनान्वयः, सर्ववेदान्तवाक्येषु विविदिषाकामनाया एवाधिकारिविशेषणतया प्रत्यय इति तेन प्रत्ययेन विवेकादीनां मध्यादेकैकस्याधिकारिविशेषणतया प्रतीतिरेकैक. शाखावाक्यात् प्रसक्ता बाध्यत इत्यर्थः । मुमक्षा विति-मुक्तीच्छा पुनः सर्वशाखास्वधिकारिविशेषणतया प्रतीयत इति तत्प्रतीतिरबाधितैवेत्यतः प्रकृते मुमुक्षवाधिकारिविशेषणतयाऽऽश्रयणीयेत्यर्थः । समाधत्ते-नेति । इत्यादीत्यत्रादिपदाद् विरागवता श्रवणं कर्तव्यं शमादिषट्कवता श्रवणं कर्तव्यमित्यादिवाक्यस्योपग्रहः । अर्थात् प्रतीतावपीति- अत्र " अविरागिणः श्रवणकर्तव्यता न" इति, "शमादिषट्करहितस्य श्रवणकर्तव्यता न" इत्यर्थात् प्रतीतावपीत्यस्याप्युपलक्षणम् । साधनान्तरसम्पन्नस्य विरागादिसम्पन्नस्य । तदकर्तव्यत्वाप्रतीतेः श्रवणाकर्तव्यत्वाप्रतीतेः । अर्थसमाजस्येतिविवेकिनः श्रवणं कर्तव्यं विरागिणः श्रवणं कर्तव्यं शमादिषदकवतः श्रवणं कर्तव्यं मुमुक्षोः श्रवणं कर्तव्यमित्येवं विवेकित्वविरागित्व-शमादिषदकवत्त्व-मुमुक्षावत्त्वसंवलनस्यार्थात् प्राप्तस्येत्यर्थः । उक्तन्यायति-सर्ववेदान्तप्रत्ययन्यायेत्यर्थः । उपसंहरति-तस्मादिति- शमादिषदकमध्यपतितस्योपरतिशब्दवाच्यस्य संन्यासस्य श्रवणाधिकारत्वानुपपत्तिमाशङ्कय प्रतिक्षिपतिन चेति-अस्य आशङ्कनीयमित्यनेनान्वयः। संन्यासस्य श्रवणाङ्गत्वे सति श्रवणाधिकारत्वं भवेत् , श्रवणाङ्गत्व एव तु मानं नास्तीति श्रवणाधिकारत्वानुपपत्तौ हेतुमुपदर्शयति- तस्येति-संन्यासस्येत्यर्थः । यथा हि श्रवणं मननादिद्वारा Page #406 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलङ्कृतो नयोपदेशः । वादिकेन फलेन फलवत्ताया निर्णयात् तत्संनिधौ श्रुतस्याफलस्य सन्न्यासस्य प्रयाजादिवदङ्गत्वाश्रवणस्यायौक्तिकत्वात् , प्रमाणं च तत्र प्रयाजादिवत् प्रकरणमेव । अथैतदात्मन एव प्रकरणं न श्रवणस्यैवेति चेत् ? न- उपक्रमोपसंहारादिलिङ्गैरात्मनः प्रतिपाद्यत्वप्रतीतेरात्मनः प्रकरणमित्यभिधीयमानेऽप्यङ्गत्वावेदकस्योभयाकाङ्क्षारूपस्य प्रकरणस्यापि सुव्यवस्थितत्वात् , तथाहि- यथा प्रयाजा उपकार्याकाङ्क्षाः प्रधानयागोऽप्युपकारकाकास इत्युभयाकाङ्क्षा प्रयाजानां प्रकरणम् , तथा सन्यासोऽप्युपकार्याकाङ्कः श्रवणमप्युपकारकासमित्युभयाकलाप्रकरणं सन्न्यासस्य, तदेव च श्रवणाङ्गत्वसाधकमिति किमत्रार्थवादिकफलकल्पनाक्लेशेनेति दिक् । तस्मात् युक्तमुक्तं साधनचतुष्टयसम्पन्नः श्रवणाद्यधिकारीति । सोऽयमधिकारी श्रोत्रियं ब्रह्मनिष्टं गुरुमनुसृतः श्रवणादि सम्पादयति । श्रवणादिकं तु-श्रवणं १, मननं २, आत्मसाक्षात्कारलक्षणफलजनकत्वादशीभूतं तथा संन्यासस्याप्यङ्गित्वमेव न्याय्यम् , तस्याङ्गित्वोपपत्तये फलान्तरमेव कल्पयितुमुचितमित्याशयेनाह- अज्ञानेति- अत्र " अज्ञानाङ्गत्वस्यैव" इत्यस्य स्थाने “अङ्गित्वस्यैव" इति पाठो युक्तः । निषेधे हेतुमाह-श्रवणस्येति । दृष्टार्थत्वात् मनन-निदिध्यासनद्वारा साक्षात्काररूपदृष्टप्रयोजनकत्वात् । यद्यपि आत्मसाक्षात्कारकाम आत्मश्रवणं कुर्यादित्येवमात्मश्रवणस्य फलतया आत्मसाक्षात्कारो न विहितस्तथापि आत्मश्रवणस्यार्थवादिकात्मसाक्षात्कारफलवत्तया फलवत्त्वं समस्त्येवेत्साह- दृष्टेनैवेति । यदा चार्थवादिकफलवत्तया फलवत्त्वं श्रवणस्य निश्चित तदा फलवत्सन्निधौ श्रूयमाणमफलं तदङ्गं भवतीति न्यायात् फलवच्छ्रवणसन्निधौ श्रूयमाणस्य संन्यासस्य श्रवणाङ्गत्वं स्यादेव यथा-स्वर्गकामो दर्श-पूर्णमासाभ्यां यजेतेति विधिना फलवत्तया विहितस्य दर्श-पूर्णमासस्य यागस्य सन्निधौ समिधो यजतीत्यादिविधिना विहिताः प्रयाजाः फलशून्यास्तदङ्गं भवन्तीत्येवं संन्यासस्य श्रमणाङ्गत्वाश्रयणं युक्त्युपेतमेवेत्याह- तत्सन्निधाविति- फलवच्छ्रवणसन्निधावित्यर्थः। “दङ्गत्वाश्रवणस्यौक्तिकत्वात्" इत्यस्य स्थाने " दङ्गत्वाश्रयणस्य यौक्तिकत्वात् " इति पाठो युक्तः । अङ्गाङ्गिभावबोधकानां श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां षण्णां प्रमाणानां मध्यात् किमत्र प्रमाणं, यद्बलाच्छ्रवणाङ्गत्वं सन्न्यासस्य स्वीकरणीयमित्याकाङ्क्षायामाह-प्रमाणं चेति । तत्र संन्यासस्य श्रवणाङ्गत्वे । ननु यत्र प्रकरणे संन्यासादीनां विधानं तत् प्रकरणमात्मन एव न तु श्रवणस्येति संन्यासस्व प्रकरणादात्माङ्गत्वमेव स्थान श्रवणाङ्गत्वमिति शङ्कते- अथेति । “श्रवणस्यैवेति" इत्यस्य स्थाने "श्रवणस्येति" पाठो युक्तः । समाधत्ते-नेति । उपक्रमोपसंहारादीति- " उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्ग तात्पर्यनिर्णये ॥ १॥" [ ] इति वचनाद् आदिपदादभ्यासादीनां पश्चानां प्रहणम् । लिङ्गैः तात्पर्यलिङ्गैः उपक्रमोपसंहारादिभिः “तत् त्वमसि' [निरा. ३.] इत्यादिव क्यानामात्मन्येवं तात्पर्यमिति निश्चयत उक्तवाक्यत आत्मनः प्रतिपाद्यत्वप्रतीतेस्तादृशवाक्यकदम्बकात्मक: सन्दर्भ आत्मनः प्रकरणमित्येवमभिधीयमानेऽपीत्यर्थः । तथा चैतादृशं प्रकरणं श्रवणस्य नास्तीति भावः, तथापि येन प्रकारेणाङ्गाङ्गिभावोऽवबुध्यते तत् प्रकरणं श्रवणस्यास्तीत्याह- अङ्गत्वावेदकस्येति । उभयाकावारूपप्रकरणस्याङ्गत्वावेदकं दृष्टान्तोपष्टम्भेन भावयति-तथाहीति-- समिधो यजतीत्यादिविधिविहितानां प्रयाजानां किञ्चित्फलकामनयाऽविहितानां प्रधानत्वासम्भवात् किञ्चित्फलवकर्मोपकारकत्वमवश्यमेषितव्यमित्युपकार्याकालाः प्रयाजाः, दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेति विधिविहितौ दर्श-पूर्णमासयागौ फलकामनया विहितत्वात् प्रधानौ भवतोऽपि कथमेतौ कर्तव्यावितीति कर्तव्यताकालाशालिस्वादुपकारकाकालावित्येवमुभयाकालालक्षणप्रकरणेन यथा प्रयाजानां दश-पूर्णमासयागाङ्गत्वम् , तथा च समिदादिभिर्दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवं विधिस्वरूपं निराकाई सम्पद्यते, तथा संन्यासेन किं भावयेदित्येवं संन्यासस्यास्त्युपकार्याकाङ्क्षा, श्रवणं कथं भावयेदिति श्रवणस्याप्यस्त्युपकारकाकाङ्केत्येवमुभयाकाङ्घारूपप्रकरणात् सन्यासस्य श्रवणाङ्गत्वम्, एवं च प्रधानीभूतश्रवणफलेनैव संन्यासस्य फलवत्त्वोपपत्तन तस्यार्थवादिकफलकल्पनाक्लेशो विधेय इत्यर्थः । उपसंहरति-तस्मादिति । एवम्भूतः श्रवणाधिकारी कथं श्रवणादि सम्पादयतीत्यपेक्षायामाह- सोऽयमधिकारीति- अस्य सम्पादयतीत्यनेनान्वयः । श्रोत्रियम् अध्ययनाध्यापनादिना यथावच्छ्रत्यर्थज्ञातारम् । ब्रह्मनिष्ठं शुद्धचैतन्यस्वरूपं ब्रह्मैव सत्यं तदन्यन्मिथ्येत्येवं ब्रह्मैकश्रद्धम्। गलं Page #407 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । निदिध्यासनं ३ चेति । श्रवणं नाम - वेदान्तानां शक्ति- तात्पर्यावधारणानुकूलो व्यापारः, श्रुतस्यार्थस्य युक्तितः सन्धानं मननम्, विजातीयप्रत्ययतिरस्कारेण सजातीयप्रत्ययप्रवाहीकरणं निदिध्यासनम् । एतेषां श्रवणं प्रधानम्, इतरे फलोपकार्याङ्गे, श्रोतव्यादिवाक्येषु प्राथमिकत्वात् श्रवणविधेरेवार्थवादिकफल्[ कल्पनयेतरयोस्तत्क]ल्पना क्लेश निवृत्तेः । श्रवणस्य तत्त्वज्ञाने प्रधानभूतशब्दप्रमाणस्वरूपनिर्वाहकतया प्राधान्यम्, असति श्रवणे प्रामाणासंभावनया तत्त्वज्ञानानुदयात्, अत्यन्तानवगतार्थे गृहीतशक्तितात्पर्यकस्य शब्दस्यैव प्रमाजनकत्वात् तन्निर्वाहकस्य श्रवणस्य प्राधान्यमिति तात्पर्यम् । विधिश्वात्र नियमाख्य एव दृष्टादृष्टार्थत्वात् दृष्टस्यापि तत्वज्ञानोपयोगित्वात् । न च, नियमविधिस्थले फले ब्रह्मस्वरूपोपदेष्टारमाचार्यम्, अनुसृतः सन् । श्रवणादीत्यनेन किं ग्राह्यमित्यपेक्षायामाह - श्रवणादिकं त्विति । श्रवणमनन-निदिध्यासनानां क्रमेण स्वरूपात्म कलक्षणमुपदर्शयति- श्रवणं नामेति । वेदान्तानां तत्त्वमसीत्यादिमहावाक्यानाम् । शक्तितात्पर्येति तत्पदस्य मायावच्छिन्न चैतन्ये शक्तिः, त्वम्पदस्यान्तःकरणावच्छिन्नचैतन्ये शक्तिः, शक्यार्थयोर्निरुक्तविशिष्टचैतन्ययोरभेदेनान्वयोऽनुपपन्न इत्यन्वयानुपपत्या जहदजहत्स्वार्थलक्षणया तत्त्वमसीति वाक्यं शुद्ध चैतन्यमेवावबोधयतीति तस्य शुद्धचैतन्य एव तात्पर्यमित्येवं शक्ति- तात्पर्यावधारणानुकूलो य उपक्रमोपसंहारादिषट्तात्पर्यलिङ्गान्वेषणलक्षणो व्यापारः श्रवणमित्यर्थः, उक्तस्वरूपस्य श्रवणस्य कर्तव्यत्वावेदकं तत्स्वरूपावेदकं च पद्यकदम्बकं पञ्चदश्यां यथा ३३६ " इति । " अहं ब्रह्मेति वाक्यार्थबोधो यावद् दृढीभवेत् । शमादिसहितस्तावदभ्यसेच्छ्रवणादिकम् ॥ १ ॥ बाढं सन्ति दास्य हेतवः श्रुत्यनेकता । असंभाव्यत्वमर्थस्य विपरीता च भावना ॥ २ ॥ शाखाभेदात् कामभेदाच्छुतं कर्मान्यथाऽन्यथा । एवमत्रापि मा शङ्कीत्यतः श्रवणमाचरेत् ॥ ३ ॥ वेदान्तानामशेषाणामादि-मध्यावसानतः । ब्रह्मात्मन्येव तात्पर्यमिति धीः श्रवणं भवेत् ॥ ४ ॥ मननस्वरूपं प्रकटयति- श्रुतस्येति श्रवणनिष्टङ्कितस्येत्यर्थः । युक्तितः प्रमाण- तर्कोपेतहेतुतः । सन्धानम् अनुमितिविषयकरणम्, यस्य येन रूपेण श्रवणं तस्मिंस्तद्रूपस्यानुमित्यात्मकं यज्ज्ञानं तन्मननमित्यर्थः । निदिध्यासन - स्वरूपमावेदयति-विजातीयेति - अनुमित्यात्मकं यदात्ममननं तद्विजातीयोऽन्यविषयकप्रत्यक्षादिरूपः प्रत्ययस्तस्य तिरस्कारेणअन्तराऽन्तराऽन्यादृशज्ञानजननतो यदात्मानुमितिप्रवाहस्य विच्छेदस्तत्परिहारेणेति यावत् सजातीयप्रत्ययस्यात्मानुमितिप्रत्ययस्य प्रवाहीकरणं - प्रवाहरूपेणावस्थापनं निदिध्यासनमित्यर्थः । एतेषां श्रवण-मनन-निदिध्यासनानां मध्ये । श्रवणं श्रुतिप्रभवात्मज्ञानम् । प्रधानं आत्मसाक्षात्कारलक्षणात्मतत्त्वज्ञानात्मक फलवत्त्वान्मुख्यम्, इतरे मनन-निदिध्यासने । फलोपकार्याने फलमात्मतत्त्वसाक्षात्कारलक्षणं तत्साधनं श्रवणमपि फलवत्त्वात् फलं तद्रूपं यदुपकार्यं प्रधानत्वात् तस्यातदुपकारके, फलवत्सन्निधौ श्रूयमाणमफलं तदनं भवतीति नियमात् । कथं श्रवणस्यैव फलवत्त्वं येन तदङ्गत्वं मनननिदिध्यासनयोरित्यपेक्षायामाह - श्रोतव्या दिवाक्येष्विति - "आत्मा वाsरे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात् कर्तव्यः " [ ] इति वाक्येष्वित्यर्थः । प्राथमिकत्वात् प्रथमं श्रूयमाणत्वात् । श्रवणविधेः श्रोतव्य इति विधेः । अर्थवादिकफलकल्पनया अर्थवादोक्तफलकल्पनया । इतरयोः मनन-निदिध्यासनविध्योः । तत्कल्पनाक्लेशनिवृत्तेः फलान्तरकल्पनाप्रयासाभावात् । श्रवणस्य मनन- निदिध्यासनापेक्षया प्राधान्यं व्यवस्थापयति- श्रवणस्येतिअस्य प्राधान्यमित्यनेनान्वयः । कस्मिन् फले प्राधान्यमित्याकाङ्क्षायामाह तत्त्वज्ञान इति। प्रधानभूतशब्दप्रमाणस्वरूपनिर्वाहकत्वमेव श्रवणस्य व्यवस्थापयति- असति श्रवण इति । ननु श्रवणाभावेऽपि शब्दप्रमाणातिरिक्तप्रमाणदेव तत्त्वज्ञानं भविष्यतीति कुतः प्रमाणासंभावनेत्यत आह- अत्यन्तानवगतार्थ इति । तन्निर्वाहकस्य प्रमाजनकशब्दस्वरूपनिर्वाहकस्य । " विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ॥ तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते ॥ १ ॥ " इति वचनाद् विधेस्त्रैविध्ये श्रवणविधिः किमेतेष्वित्यपेक्षयामाह विधिश्वात्रेति- "दृष्टा दृष्टार्थत्वात् दृष्टस्यापि " इत्यस्य स्थाने " दृष्टादृष्टार्थत्वात्, अदृष्टस्यापि " इति पाठो युक्तः, यथा ब्रीहिनवहन्तीत्यत्र नापूर्वविधिः, प्रमाणान्तराप्राप्तस्य प्रापको विधिरपूर्व विधिरित्युच्यते, तुषविमोकार्थं व्रीहेरवहननं प्रत्यक्षादिप्रमाणेनैवोपलभ्यत इति तत् प्रमाणान्तरप्राप्तमेव किन्तु Page #408 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । साधनान्तरस्य प्रा[ त्य]क्षिकी प्राप्तिस्तत्र सा च न निर्विशेषा आत्मज्ञाने श्रवणातिरिक्तस्याप्राप्तेरिति कथं नियमविधिः, न च त्रीहितुषविमोकत्व पुरस्कारेणावघातातिरिक्तस्येवात्मज्ञानत्व पुरस्कारेण श्रवणातिरिक्तस्य प्रत्यक्षादेः प्राप्तेरदोषफलतावच्छेदकावच्छिन्न साधनान्तर प्राप्ते रपेक्षितत्वात्, अत एवापूर्वापूर्वत्रीहि तुषविमोकोऽपि दलनादिना कर्तुं शक्यत इत्यवघातो नियम्यते, आत्मज्ञानमात्रे प्रत्यक्षादिप्रसन्नियमविध्यादरे च सुखमात्रे साधनान्तरप्राप्तेः " यजेत " [ ] इत्यादावपि तत्प्रसङ्गतः, अत एव न भ्रान्त्या साधनान्तरप्राप्तेरपि नियमविष्यङ्गत्वं 'यजेत' इत्यादावतिप्रसङ्गादेवेति व्रीहीन व हन्यादेवेत्येवंस्वरूपो नियमविधिरेव, अत्र नखविदारणादिनाऽपि तुषविमोकः सम्भवति, नियमविधिना तत्प्रतिक्षेपः क्रियते, अवघाततो वितुषीकृतैरेव व्रीहिभिर्यजेत न तु नखविदारणादिना वितुषीकृतैरिति तथा चावघाततो वितुषीकरणलक्षणदृष्टप्रयोजनमपि भवति, दृष्टफलकयज्ञोपयोग्यदृष्टलक्षणप्रयोजनमपि भवतीत्येवं तत्रत्यनियम विधेर्यथा दृष्टादृष्टार्थत्वम्, तथा प्रकृतेऽपि श्रवणादिनियमविधितो दृष्टमपि प्रयोजनं भवति, अदृष्टमपि प्रयोजनं भवतीति किमत्रादृष्टप्रयोजनमुररीक्रियत इत्यपेक्षायामाह - अदृष्टस्यापीति । न चेत्यस्य व्यवहितेन इति वाच्यमित्यनेन सम्बन्धः । नियमविधिस्थले व्रीहीनवहन्तीत्यादिनियमविधिस्थले । फले तुषविमोकादिलक्षणफले । साधनान्तरस्य अवघातभिन्ननखविदारणादिलक्षणकारणस्य । 'प्रा [त्य]क्षिकी" इत्यस्य स्थाने " पाक्षिकी " इति पाठो युक्तः - "" 1 " विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते ॥ १ ॥ " [ इति वचनात् यदा अवघातो न क्रियते किन्तु नखविदारणादिकमेव विधीयते तदानीं नखविदारणादिलक्षणसाधनान्तरस्य प्राप्तिरस्ति, अतस्तत्प्रतिषेधार्थं नियमविधिराश्रीयते । तत्र श्रवणादिविधिस्थले, सा च न आत्मज्ञानलक्षणफले श्रवणाद्यतिरिक्तसाधनस्य पाक्षिकी प्राप्तिर्न पुनः । कथं नेत्यपेक्षायामाह निर्विशेषेति - " निर्विशेषा आत्मज्ञाने " इत्यस्य स्थाने “ निर्विशेषाऽऽत्मज्ञाने " इति पाठो युक्तः । कथमित्याक्षेपे न कथञ्चिदित्यर्थः तथा चात्मज्ञानार्थं श्रवणादेरत्यन्ताप्राप्तत्वादपूर्व विधिरेवायं भवितुमईतीति भावः । अन्तरा शङ्कामुत्थाप्य प्रतिक्षिपति-न चेति- यथा सामान्यतो ब्रीहितुष विमोकं प्रति अवघातोऽपि कारणं नखविदारणादिकमपि कारणमिति नखविदारणादिसाधनान्तरस्य प्राप्तौ तदानीमवघातस्याप्राप्तौ नियमविधिस्तथा प्रकृतेऽपि सामान्यत आत्मज्ञाने श्रवणमपि कारणं प्रत्यक्षादिकमपि कारणमिति यदा प्रत्यक्षादिनाss. त्मानं ज्ञातुं प्रवर्तते तदानीं प्रत्यक्षादिसाधनान्तरस्य प्राप्तौ श्रवणस्याप्राप्तौ नियमविधिः स्यादिति शङ्कार्थः । “रदोष फल " इत्यस्य स्थाने " रदोषः, फलः " इति पाठो युक्तः । अवान्तराशङ्कानिषेधे हेतुमुपदर्शयति- फलतेति - व्रीहीन वहन्तीत्यत्रावघातरूपसाधनस्य फलतावच्छेदकं तुषविमोकत्वं तदवच्छिन्नस्य तुषविमोकस्य साधनान्तरं नखविदलनादिकं तत्प्राप्तेर्नियमविधिनाऽपेक्षितत्वात् प्रकृते तु श्रवणादिलक्षणसाधनस्य फलतावच्छेदकं निर्विशेषात्मज्ञानत्वं तदवच्छिन्नस्यनिर्विशेषात्मज्ञानस्य साधनान्तरं न प्रत्यक्षादिकं प्रत्यक्षादिप्रमाणतो निर्विशेषात्मज्ञानानुदयादिति साधनान्तरप्राप्यभावे तन्निबन्धनाप्राप्तेरभावान्न नियमविधिसम्भव इत्यर्थः । अत एव फलतावच्छेदकावच्छिन्न साधनान्तर प्राप्तर्नियम विधिनाऽपेक्षितत्वादेव । अपूर्वेतियस्य यस्य व्रीहेर्नखेन विदारणं न सम्भवति तस्याप्यूर्ध्वा घोव्यवस्थित प्रस्तर द्वयकरणकदलनादिना तुषविमोकः सम्भवत्येवेत्येवेति तुषविमोकत्वावच्छिन्ने साधनान्तर प्रात्या तत्प्रतिषेधायावघातो नियम्यत इत्यर्थः । यदि च निर्विशेषात्मज्ञाने - प्रत्यक्षादिप्रमाणान्तरा प्रवृत्तावपि आत्मज्ञानमात्रे प्रत्यक्षादिसाधनान्तरप्रवृत्तित: श्रवणादिविधेर्नियमविधित्वमुपपाद्यते, तदा फलतावच्छेदकावच्छिन्नसाधनान्तर प्रवृत्तेरनपेक्षितत्वं फलजातीयं यत् किञ्चित् फलं प्रति साधनान्तरप्राप्तेरपेक्षितत्वमित्यस्य नियमविध्युपोद्बलकस्य स्वहस्तितत्वेन स्वर्गकामो यजेतेत्यादावपि " यन्न दुःखेन सम्भिन्नं च प्रस्तमनन्तरम् ॥ अभिलाषोपनीतं च तत् सुखं खः पदास्पदम् ॥ १ ॥" [ ] इति वचनलक्षितसुखविशेषलक्षणस्वर्ग जातीयसुखमात्रं प्रति सक्-चन्दन- वनितादिलक्षण साधनान्तरप्राप्तेरपि नियमविध्यतत्वतो नियमविधित्वमेव तस्य प्रसज्येत स्वीकृतस्यापूर्वविधित्वस्योच्छेद एव स्यादि - त्याह- आत्मज्ञानमात्र इति । " तत्प्रसङ्गतः " इत्यस्य स्थाने " तत्प्रसङ्गः " इति पाठो युक्तः, तसिलप्रत्ययस्य सार्वविभक्तिकत्वे तथा पाठोsपि युक्त एव तस्य नियमविधित्वप्रसङ्ग इत्यर्थः । अत एव स्वर्गकामो यजेतेत्यादौ नियमविधित्व r ३३७ Page #409 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। वाच्यम् , निर्विशेषात्मबोधेऽपि “ इतिहासपुराणाद्यैर्वेदार्थमुपबृंहयेत् " [ ] इत्यादिना पुराणप्राकृतवाक्यश्रवणादेः प्राप्तत्वाद् वेदान्तश्रवणं नियम्यत इति दोषाभावात् । एतच्च श्रवणाद्यावृत्तं तत्त्वधीहेतुः, दृष्टार्थत्वात् , तदेवं बहुजन्मलब्धपरिपाकवशादसौ " तत्त्वमसि "[ आदिवाक्यार्थविशुद्धं प्रत्यगभिन्नं परमात्मानं साक्षात्कुरुते । न च प्रामाण्यस्योत्पत्तौ स्वतः स्वभङ्गः, श्रवणादेः प्रतिबन्धकनिवर्तकत्वात् तन्निवृत्तेश्च तुच्छत्वेनोत्पत्तावतिरिक्तानपेक्षणात् । ' तत् त्वम् ' इति पदयोः परोक्षत्वापरोक्षत्वविशिष्टचैतन्यरूपपृथगर्थवाचकयोः श्रयमाणं सामानाधिकरण्यं न तावत् सिंहो देववत्त इतिवद्गौणम् , मुख्ये संभवति तस्यान्याय्यत्वात् । नापि " मनो ब्रह्म" [ इत्यादिवदुपासनार्थम्, श्रुतहानाश्रुतकल्पनाप्रसङ्गात् । मुख्यत्वेऽपि न नीलोत्पलादिवत् सामानाधिप्रसङ्गादव, अस्य निषेधे नमर्थेऽन्वयः, तस्य नियमविध्यत्वमित्यनेनान्वयः। अत एवेत्यभिहितहेतुमेव स्पष्टयतियजेतेति । इत्थं श्रवणविधेर्न नियमविधित्वमित्युपपादनपराशङ्काप्रतिक्षेपहेतुमुपदर्शयति-निर्विशेषात्मबोधेऽपीतियद्यपि निर्विशेषात्मज्ञानत्वावच्छिन्नं प्रति प्रत्यक्षादिप्रमाणान्तरस्य प्रवृत्तिर्नास्ति तथापि इतिहासपुराणादिवाक्यश्रवणादिलक्षणप्रमाणान्तरप्राप्तेरितिहासपुराणादेरित्यादिवचनेन सद्भावात् तत्प्रतिषेधार्थ वेदान्तवाक्यश्रवणं नियम्यते, अत एव 'श्रोतव्यः श्रुतिवाक्येभ्यः' [ ] इति वचनं नियमप्रतिपादकमिति फलतावच्छेदकावच्छिन्नसाधनान्तरप्राप्तेरेव नियमविध्यङ्गत्वेन स्वर्गकामो यजेतेत्यादौ नियमविधिवप्रसङ्गदोषाभावादित्यर्थः । तत् किं निर्विशेषात्मज्ञानार्थ वेदान्तवाक्यश्रवणमेधैव कर्तव्यमुत तदावृत्तिरपेक्षितेत्यपेक्षायामाह-एतश्चेति- अनन्तरोपदिष्टस्वरूपं चेत्यर्थः । श्रवणादीत्यत्रादिपदान्मनननिदिध्यासनयोः परिग्रहः। आवृत्तं भूयोऽभ्यस्तम् । नियमविधिबोधितस्य श्रवणादेरदृष्टार्थत्ववद् दृष्टार्थत्वमपि, तेन यद्यदृष्टार्थत्वमेव स्यात् तदा सकृद्विधीयमानेनापि श्रवणादिना तत्त्वज्ञानोपयोग्यदृष्टजन तस्तद्वारा निर्विशेषात्मज्ञानं सम्भवतीति निष्प्रयोजनं श्रवणाद्यावर्तनं न विधेयं स्यात्, यदा तु दृष्टमपि तत्त्वज्ञानदृढीकरणादिकं तस्य प्रयोजनं तदा यावदभ्यस्तेन श्रवणादिना निर्विशेषात्मज्ञानं दृढं निष्पद्यते तावदभ्यसनीयं श्रवणादिकमित्यावेदनायाह- दृष्टार्थत्वादिति । तथा च पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः सानाध्ययनबलादापाततो वेदान्तवाक्यार्थज्ञानवानिह जन्मनि जन्मान्तरे वाऽनुष्ठितकर्मभिर्विशुद्धान्तःकरणो नित्यानित्यविवेक-विराग-शमादिषट्क-मुमुक्षावान् विशिष्टगुर्वनुसरणतः श्रवणमनन-निदिध्यासनवान् तत्त्वमसीत्यादिवाक्यार्थविशुद्धप्रत्यगभिन्नपरमात्मानं साक्षात्करोतीत्युपसंहरति-तदेवमिति। परिपाकश्च दाळ श्रवणादीनाम् । असौ पुरुषधुरन्धरः। ननु ब्रह्मसाक्षात्कारस्य प्रमाणात्मकस्य श्रवणादितो भावे तत्प्रामाण्यस्य श्रवणादिनिबन्धनत्वेन प्रामाण्यस्योत्पत्ती स्वतस्त्वं यद् वेदान्तिसम्मतं तद्भङ्गः स्यादित्याशङ्कय प्रतिक्षिपतिन चेति । "स्वतः स्वभङ्गः” इत्यस्य स्थाने " स्वतस्त्वभङ्गः" इति पाठो युक्तः। श्रवणादितः परमात्मसाक्षात्कारप्रतिबन्धकापगमो भवति, ततो विशुद्धं प्रमाणस्वरूपं साक्षात्कारात्मकं ज्ञानमुत्पद्यते, इति प्रतिबन्धनिवृत्तेस्तुच्छस्वरूपायाः प्रामाण्योत्पत्तौ प्रयोजकत्वेऽपि कस्यचिद् भावस्य तत्रानपेक्षणात् स्वतस्त्वं न व्याहन्यत इति निषेधहेतुमुपदर्शयतिश्रवणादेरिति । तन्निवृत्तेश्च प्रतिबन्धकनिवृत्तेश्च, स्वाश्रयज्ञानकारणातिरिक्तभावानपेक्षत्वं प्रामाण्ये स्वतस्त्वं, तच प्रामाण्यस्योत्पत्तो प्रतिबन्धकाभावापेक्षत्वेऽपि निर्वहतीसाशयः। तत्त्वमसीत्यत्र तत्-त्वंपदयोः सामानाधिकरण्यं केनापि प्रकारेणाघटमानमित्यतः शुद्धचैतन्यस्वरूपे ब्रह्मणि तयोर्जहद जहलक्षणा, तत एवाखण्डब्रह्मस्वरूपबोधजनकत्वं तत्त्वमसीति वाक्यस्येत्युपदर्शयति-तत्-त्वमिति पदयोरिति । परोक्षस्वेति- परोक्षत्वविशिष्ट चैतन्यरूपभिन्नार्थवाचकस्य तत्पदस्य अपरोक्षत्वविशिष्टचैतन्यरूपभिन्नार्थवाचकस्य स्वंपदस्य समानविभक्तिवचनकत्वलक्षणं सामानाधिकरण्यं श्रयमाणं सिंहो देवदत्त इतिवद् गौणं नेत्यर्थः । निषेधे हेतुमाह-मुख्य इति- मुख्य सामानाधिकरण्य इत्यर्थः। तस्य गौणस्य सामानाधिकरण्यस्य । सति प्रयोजने गौणमपि सामानाधिकरण्यमाश्रीयते, यथा- “ मनो ब्रह्म" [ ] इत्यत्र आरोपितब्रह्मामेदकं मन उपासीतेति, तथा आरोपितपरोक्षत्वादिविशिष्टचैतन्यलक्षणब्रह्माभेदकमपरोक्षत्वविशिष्टचैतन्य त्वंपदवाच्यमुपासीतेत्येवमुपासनार्थ गौणमपि सामानाधिकरण्यं न्याय्यमित्याशङ्का प्रतिक्षिपति-नापीति । निषेधे हेतुमाहश्रुतहानेति-श्रुतस्य सत्त्वम्पदयोः मुख्यस्य सामानाधिकरण्यस्य, यद्वा अश्रुतस्य यदुपासनलक्षणफलकस्य. गौणसामाना Page #410 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । करण्यम्, गुणगुणिभावाद्यसम्भवात्, निर्गुणाऽस्थूलादिवचनविरोधाच्च । नापि यः सर्पः सा रज्जुरितिव बाधीयम् उभयोश्चिद्रूपतया बाधायोगाद् मुक्त्यभावप्रसङ्गाच, नहि स्वबाधार्थ जीवप्रवृत्तिरुपपद्यते । तस्मात् पदार्थयोः परस्परव्यावर्तकतया विशेषणविशेष्यभावप्रतीत्यनन्तरं लक्षणया सोऽयं देवदत्त इति. द्विशुद्धप्रत्यगभिन्नाखण्डपरमात्मप्रतीतिः, सा च लक्षणा पदद्वयेऽपि अन्यथाऽखण्डार्थप्रतीत्यनुपपत्तेक्षणाबीज विरोधासमाधानाच्च । इयं लक्षणा विशेषणांशत्यागाद् विशेष्यांशात्यागाच्च जहदजहती ( भागलक्षणा च गीयते ) । नन्वेवं चैतन्याद्वैत सिद्धावपि कथं प्रपञ्चस्य पारमार्थिकत्वाभाव इति चेत् १ उच्यते-यदि त्वंपदार्थे भोक्तृत्वादिपारमार्थिकं कथं तत्पदार्थैक्यसिद्धिः, एवं तत्पदार्थेऽपि परोक्षत्वादि ३३९ धिकरण्यस्य, कल्पनं तयोः प्रसङ्गादित्यर्थः । भवतु मुख्यमेव सामानाधिकरण्यमित्यत आह- मुख्यत्वेऽपीति - समानाधिकरण्यस्य मुख्यत्वेऽपीत्यर्थः । नीलोत्पलमित्यत्र नीलरूपविशिष्टपरस्य नीलपदस्योत्पलात्मक द्रव्य वाचकपदेन सामानाधिकरण्यं संभवति नीलात्मक गुणवत्स्वस्योत्पलात्मके गुणिनि सद्भावात् प्रकृते तत्पदवाच्ये निर्गुणे ब्रह्मणि त्वम्पदवाच्य सगुण चैतन्याभेदासंभवादिति निषेधहेतुमाह-गुणगुणिभावाद्य संभवादिति । यदि निरुकसामानाधिकरण्यानुरोधेन गुणित्वादिकमपि ब्रह्मण्युपेयते तदा निर्गुणत्वादिप्रतिपादकवचनविरोधः स्यादित्याह-निर्गुगेति । ननु रजौ सर्पोऽयमिति भ्रमानन्तरं रज्जुरियं न सर्प इति बाधप्रतिसन्धाने सति यः सर्पः सा रज्जुरिति यद्वाधीयं सामानाधिकरण्यं तद्वत् प्रकृतेऽपि बाधीयं सामानाधिकरण्यं तत्-त्वम्पदयोरित्याशङ्कां प्रतिक्षिपति नापीति । निषेधे हेतुमाह- उभयोरिति तत्पदार्थ - स्वम्पदार्थयोरित्यर्थः । ननु तत्पदार्थस्य बाधाभावेऽपि त्वम्पदार्थस्य बाधादेव बाधीयं सामानाधिकरण्यं भविष्यतीत्यत आह- मुक्त्यभावप्रसङ्गाच्चेति । कथं मुक्त्यभावप्रसङ्ग इत्यपेक्षायामाह नहीति- अस्य ' उपपद्यते ' इत्यनेनान्वयः । स्वेति- स्वपदार्थस्य मुक्तत्यर्थिनो जीवस्य बाधार्थं मम बाघो भवत्वित्येतदर्थं जीवस्य प्रवृत्तिर्नह्युपयत इत्यर्थः । यदि न गौणं सामानाधिकरण्यं नापि मुख्यं नापि बाधीयं तर्हि तत्त्वमसीति वाक्यतः कथं कस्य प्रतीतिर्भवितुमर्हतीत्याकाङ्क्षायामुपसंहरति- तस्मादिति - उक्तदिशा सामानाधिकरण्यप्रकारस्य कस्याप्यसम्भवादित्यर्थः । पदार्थयोरिति तत्पदार्थ-त्वम्पदार्थयोर्मध्ये तत्पदार्थस्त्वं पदार्थ मन्यतो व्यावर्तयति, त्वंपदार्थस्तत्पदार्थमन्यतो व्यावर्तयतीत्येवं परस्परव्यावर्तकतया यद्वयावर्तकं यद्विशेषणं तद्वयावर्त्य तद्विशेष्यमिति नियमादुभयोर्विशेषणविशेष्यभावेन प्रतीत्यनन्तरं लक्षणया तत् संपदयोर्विशुद्ध प्रत्यगभिन्नाखण्डपरमात्मस्वरूपे शुद्धचैतन्ये जहदजहल्लक्षणया विशुद्ध प्रत्यगभिन्नाखण्डपरमात्मप्रतीतिर्भवति, यथा- सोऽयं देवदत्त इति वाक्याच्छुद्ध देवदत्तव्यक्तौ निरुकलक्षणया शुद्धदेवदत्तव्यक्तिप्रतीतिरित्यर्थः । सा च लक्षणा विशुद्धप्रत्यगभिन्नाखण्डपरमात्मनि लक्षणा पुनः । पदद्वयेऽपि तत्पद-त्वंपदद्वयेऽपि । अन्यथा एकपद एवं लक्षणाभ्युपगमे । अखण्डेति - एकपदस्य शुद्धचैतन्ये लक्षणायामपि लक्ष्ये शुद्धचैतन्ये द्वितीय पदराक्यार्थस्य विशिष्टचैतन्यस्य तत्राभेदेनान्वये सखण्डस्यैव ततो बोधः स्यादित्यखण्डस्य परमात्मरूपार्थस्य प्रतीतेरनुपपत्तेरित्यर्थः । लक्षणेति तत्-त्वंपदशक्यार्थयोरभेदेनान्वयासम्भवलक्षणविरोध एव लक्षणाबीजं तस्यासमाधानात् परिहाराभावाच्च, एकपदलक्षणायामपि तल्लक्ष्ये द्वितीय पदशक्यार्थस्याभेदेनान्वयासम्भवलक्षणविरोधोऽपरिहृत एवेत्यतो विरोधपरिहारार्थं पदद्वये लक्षणाऽऽवश्य कीत्यर्थः । अस्या लक्षणाया जहदजहल्लक्षणात्वं भागलक्षणात्वपर्यवसितं दर्शयति- इयं लक्षणेतितत्पदस्य शक्ये परोक्षत्वविशिष्टचैतन्ये विशेषणांशस्य परोक्षत्ववैशिष्टयस्य त्यागाद् विशेष्यांशस्य चैतन्यस्यात्यागात् एवं स्वपदस्य शक्ये अपरोक्षत्व विशिष्ट चैतन्ये विशेषणांशस्यापरोक्षत्ववैशिष्टयस्य त्यागाद् विशेष्यांशस्य चैतन्यस्यात्यागाच्च जहदमहती शक्यं विशेषणांशं जहती, विशेष्यं च शक्यमजतीति जहदजहती, अत एव शक्यस्य भागे विशेष्यरूपैकदेशे लक्षणेति भागलक्षणेयं गीयते इत्यर्थः । शङ्कते नन्वेवमिति - एवमुक्तप्रकारेण अद्वितीयं चैतन्यमप्यस्तु प्रपञ्चस्य पारमार्थि कत्वमप्यस्तु न हि प्रपञ्चस्य पारमार्थिकत्वाभावमन्तरेण चैतन्यस्याद्वैतमनुपपन्नं येन चैतन्यद्वैितान्यथानुपपत्त्या सिध्येतापि प्रपश्वस्य पारमार्थिकत्वाभावः, न चैवमित्याशङ्कितुरभिप्रायः । समाधत्ते - उच्यत इति । खंपदार्थे यदि भोक्तृत्वादिकं पारमार्थिकं त्वं पारमार्थिकं तदा भोक्तृत्वादिविशिष्टचैतन्यमेकं द्वितीयं च तत्पदार्थचैतन्यमिति न चैतन्याद्वैतं निर्वहति तथा तत्पदार्थेऽपि परोक्षत्वादि पारमार्थिकं तदा परोक्षत्वादिविशिष्ट चैतन्यमेकपरं च त्वंपदार्थचैतन्यमित्येवमपि चैतन्याद्वैतं न सिष्यतीत्याह- यदीति - " परोक्ष्यत्वादि " इत्यस्य स्थाने " परोक्षत्वादि " इति पाठः समीचीनः । नन्वेवं भोक्तुस्व Page #411 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । 1 [ यदि पारमार्थिकं कथं त्वंपदार्थैक्यसिद्धिः, तदेवं भोक्तृत्वादेः कल्पितत्वे भोग्यादिकल्पितमेव, एवं जगत्कर्तृत्वादेः कल्पितत्वे जगतः कल्पितत्वमित्यतः " तत् त्वमसि " [ ] आदिवाक्यसामर्थ्येनैव निरस्तसमस्तप्रपञ्चात्म्यैक्य सिद्धिः, सोऽयमित्यत्रेव पदाद् भेदभ्रमानिवृत्तेर्महावाक्याश्रयणस्यावश्यकत्वम् । तदिदमात्मज्ञानमुत्पन्नमेवानन्तजन्मार्जितकर्मराशिं विनाशयति " क्षीयन्ते चास्य कर्माणि " ] इति श्रुतेः । न च देहनाशप्रसङ्गः, प्रारब्धस्याविनाशात् तस्य " तावदेव चिरं यावन्न विभोक्ष्येऽथ सम्पत्स्ये " [ ] इति श्रुतेः कर्मविपाकेन प्रारब्धनिवृत्तावप्युक्तशास्त्रेण ज्ञानानिवर्त्यत्वाभिधानात्, ततश्च ज्ञानेन तदानीमेवाज्ञाने सर्वात्मना निवर्तयितव्ये प्रारब्धप्रतिबन्धादनिवृत्तिः, तस्यां चावस्थायां प्रारब्धफलं भुञ्जानः सकलसंसारं बाधितानुवृत्त्या पश्यन् स्वात्मारामो विधिपरोक्षात्वादिकस्य चैतन्यधर्मस्य कल्पितत्वमस्तु, तदन्यस्य प्रपञ्चस्य कल्पितत्वं कथमित्यपेक्षायामाह - तदेवमिति - तत् तस्मात्, एवम् उक्तप्रकारेण । भोग्यं स्रक्-चन्दन- वनितादिकं यदि पारमार्थिकं स्यात् तदा सन्निरूपित भोक्तृत्वादिकमपि चैतन्यस्य कल्पितं न भवेदिति भोक्तृत्वादेः कल्पितत्वान्यथानुपपत्त्या भोग्यादेः कल्पितत्वमास्थेयमित्याह - भोक्तृत्वादेरिति । एवमिति - उक्तप्रकारेण तत्पदार्थगतजगत्कर्तृत्वादेः कल्पितत्वं यच्चैतन्याद्वैतान्यथानुपपत्त्या सिद्धं तदपि जगतः कल्पितस्वमन्तरेणानुपपन्नमिति जगतः कल्पितत्वमास्थेयमित्यतस्तत्त्वमसीति वाक्यसामर्थ्यात् सिध्यच्चैतन्याद्वैतं निरस्तसमस्तप्रपञ्चमेव सिध्यतीत्यर्थः, यथा च सोऽयमित्यत्र पूर्वकालीनत्वविशिष्टवर्तमानकालीनत्वविशिष्टयोर्भेदग्रहे जाग्रति सति अभेदप्रहो न भवतीति लक्षणया देवदत्तव्यक्तिमात्र प्रतीतिजनकत्वान्महावाक्यत्वं तथा तत्त्वमसीत्यत्र तत्पदशक्यार्थ- खंपदशक्यार्थयोर्विशिष्टचैतन्ययोर्भेदभ्रमे सत्यभेदज्ञानाभावतो भेदभ्रमस्य पदादनिवृत्तेर्लक्षणया तत्त्वमसीति वाक्यतोऽखण्ड चैतन्यप्रतीतिरिति तस्य महावाक्यत्वमखण्डार्थप्रतीतिजनकत्व लक्षणमा स्थेयमित्यर्थः । पुरुषधुरन्धरे उत्पन्नब्रह्मसाक्षात्कारस्य फलमुपदर्शयति- तदिद मिति । उत्पन्नमेवेत्येवकारेणात्मतत्त्वसाक्षात्कारानन्तरं क्षणमात्रमप्यनन्तजन्मार्जितकर्म राशिविनाशोत्पत्तौ विलम्बो न भवतीति दर्शितम् । ननु " नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥१॥ " ] इत्यादिवचनात् कर्मणां क्षयस्य भोगादेव निर्णीतत्वादप्रमाणकं तत्त्वज्ञानतो निखिलकर्मक्षयं न प्रामाणिकः श्रद्धास्यतीत्यतस्तत्र श्रुतिं प्रमाणयति क्षीयन्ते चेति " तस्मिन् दृष्टे परावरे " इति चरणमत्रानुसन्धेयम्, तथा च तस्मिन् आत्मनि, परश्चासाववरश्च परावरस्तस्मिन् परावरे, अल्पज्ञापेक्षया तदधिकपदार्थज्ञो जीवोऽपि पर उत्कृष्टो भवति तस्य व्यपोहाय अवरेति, न विद्यते वर उत्कृष्टो यस्मात् सोऽवर इति - सर्वोत्कृष्ट इति, तस्मिन् दृष्टे सति, अस्य - पुरुषधुरन्धरस्य, कर्माणि - इति बहुवचनादशेषानन्तजन्मार्जितकर्माणि, क्षीयन्ते विनश्यन्तीत्यर्थः । नन्वखिलकर्मान्तिर- देहधारणानुकूल प्रारब्धकर्मणोऽपि तत्वज्ञानतो विनाशात् तद्वतो देहधारणमपि न स्यादित्याशङ्कय प्रतिक्षिपतिन चेति । प्रारब्धकर्मणो भोगादेव क्षय इति निर्णयात् 'क्षीयन्ते चास्य कर्माणि ' इत्यत्र कर्मपदेन प्रारब्ध कर्मेतर कर्मैव विवक्षितमिति तत्त्वज्ञानिनोऽपि प्रारब्धकर्मणो भोगादेव क्षय इति यावदुपभोगं तस्य सद्भावान्न देहविनाश इति प्रतिक्षेपहेतुमुपदर्शयति- प्रारब्धस्येति - प्रारब्धकर्मण इत्यर्थः । तत्र श्रुतिं प्रमाणयति तस्येति तस्य " तावदेव इत्यस्य स्थाने " तस्य तावदेव " इति मुद्रणं युक्तम् तस्येत्यारभ्य श्रुतिः, तस्य- तत्त्वज्ञानिनः, यावत्- यावत्कालम्, न विभोक्ष्येउपभोगप्रभवप्रारब्ध कर्म विनाशो न भवति तावदेव तावत्कालमेव, चिरम् - अशरीरादिस्वरूपावाप्तिविलम्बो भवति, अथभोगतः प्रारब्ध कर्मक्षयानन्तरम्, सम्पत्स्ये- अखण्डात्मस्वरूपावाप्तिलक्षणसम्पत्तिमद् भवतीत्यर्थः । उक्तश्रुत्यभिप्रेतार्थमुपदर्शयतिकर्मविपाकेनेति - फलदानाभिमुख कर्मोदयेनेत्यर्थः । प्रारब्धनिवृत्तौ प्रारब्धकर्मनिवृत्तिसम्भवेऽपि । उक्तशास्त्रेण तस्य तावदेव चिरमित्यादिश्रुत्या । ज्ञानानिवर्त्यत्वाभिधानात् प्रारब्धकर्मणो ज्ञानानिवर्त्यत्वस्योकैः । उपसंहरति- ततश्चेतिउक्तशास्त्रस्वारस्याच्चेत्यर्थः । ज्ञानेनेत्यस्य निवर्तयितव्ये इत्यनेनान्वयः । ज्ञानेन शुद्धचैतन्यसाक्षात्कारेण । तदानीमेव स्वोत्पत्यनन्तरक्षण एव । अज्ञाने सर्वात्मना निवर्तयितव्ये अशेषविक्षेपशक्तयशेषावरणशक्ति तदुक्कसर्व प्रपञ्चात्मक कार्यकारणात्मना मायाविद्याशब्दवाच्येऽज्ञाने निवर्तयितव्ये । प्रारब्धेति- प्रारब्धकर्मणा प्रतिबन्धाद् देहाद्यात्मना निरुक्ताज्ञानानिवृत्तिः, प्रारब्धकर्मरूप प्रतिबन्धका भावसद्दकृतस्यैवात्मसाक्षात्काररूपज्ञानस्य देहाद्यात्मनाऽज्ञाननिवर्तकत्वमित्यर्थः । तस्यां ३४० Page #412 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ३४१ निषेधाधिकारशून्यः संस्कारमात्रात् सदाचारः प्रारब्धक्षयं प्रतीक्षमाणो जीवन् मुक्त इत्युच्यते, अस्य प्रारब्धक्षये सशक्तिकनिरवशेषाज्ञाननिवृत्तौ परममुक्तिः । ननु केयमज्ञाननिवृत्तिः ? न सती, नाप्यसती, नापि सदसती, ज्ञानजन्यत्वाद्वैतप्रसङ्गोद्देश्यत्वविरोधेभ्यश्च, अस्तु त_निर्वचनीया जन्यत्वात् , तदुक्तम्" जन्यत्वमेव जन्यस्य मायिकत्वसमर्थकम् " [ ] इति, मैवम्- अनिर्वचनीयस्य ज्ञाननिवय॑त्वनियमेन निवृत्तिपरम्पराप्रसङ्गात् , सदद्वैतव्याकोपमङ्गीकृत्य तस्या असत्त्वाद् विधानेऽपि विना प्रमाणमद्वैतसङ्कोच एव दूषणम् , पञ्चमप्रकाराश्रयणं त्वत्यन्ताप्रसिद्धम् । अस्तु तर्हि चैतन्यात्मि चेति-प्रारब्धकर्मतत्कार्यव्यतिरिकाखिलाज्ञानप्रभवप्रपञ्चनिवृत्त्यवस्थायां पुरुषधुरन्धरः प्रारब्धकर्मफलं भुजानः सन् , सकलसंसारमज्ञानकार्य बाधितमपि किञ्चित्कालमनुवर्तत इति बाधितानुवृत्त्या पश्यन् सन् , स्वात्मन्येव रमत इति स्वात्मारामः विधि-निषेधाधिकारशून्यः- विहितकर्मकरणे तत्फलकामलक्षणरागः पुरुषस्य विशेषणत्वादधिकारः, निषिद्धकर्मानाचरणे निषिद्धकर्मफलद्वेषोऽधिकारिविशेषणत्वादधिकारः, अथवा निषिद्धकर्माचरणे निषिद्धकर्मफलकामोऽधिकारिविशेषणत्वादधिकारस्तदुभयशून्यः, यथा चक्रभ्रमणकारणापगमेऽपि कश्चित् कालं पूर्वोत्पन्नवेगाख्यसंस्कारविशेषवशाचक्रं भ्रमति एवं संस्कारमात्रात् सम्यकर्मा नुष्ठानपरो भवतीति सदाचारः, प्रारब्धक्षयं- प्रारब्धकर्मविनाशम् , प्रतोक्षत इति प्रतीक्षमाणः, जीवन्मुक्त इत्येवमुच्यतेकथ्यत इत्यर्थः। जीवन्मुक्त्यनन्तरं परममुक्तिरस्य भवतीत्युपदर्शयति- अस्येति- अस्य परममुक्तिरित्यनेनान्वयः। सशक्तिकेति- आवरणशक्ति-विक्षपेशक्तिसमन्वितेत्यर्थः। निरवशेषेति- अशेष कार्यकारणात्मकेत्यर्थः । परममतिरित्यनन्तरं भवतीति शेषः । नन्वज्ञाननिवृत्तौ सत्यां परममुक्तिरुपपादिता, परमज्ञाननिवृत्तिरेव विकल्पजर्जरितेति शङ्कतेनन्विति । "शानजन्यत्वा" इत्यस्य स्थाने “ज्ञानजन्यत्व" इति पाठो युक्तः, अज्ञाननिवृत्तेः सत्यत्वाभ्युपगमे तस्याः सर्वदा सत्त्वं सर्वदा मुक्त्यापत्तिभयान्नास्त्येवाभ्युपगम्यमिति कादाचित्क्यास्तस्या ज्ञानजन्यत्वमुपेयं स्यात् , तथा च द्वैतप्रसाः तस्या असत्यत्वाभ्युपगमे न सा कदाचिद् भवतीयज्ञानमेव सर्वदाऽवतिष्ठित इत्यज्ञाननिवृत्तौ मुक्तिर्भवतीति यदुद्देश्यं तद्भावलक्षणोद्देश्यत्वस्य विरोधः, अज्ञाननिवृत्तः सदसदुभयरूपत्वे विरोधः स्पष्ट एव, सत्यत्वाऽसत्यत्वयोः परस्परनिषेधरूपयोरेकत्रासम्भवात् , वस्तुतः "उद्देश्यत्व" इत्यस्य स्थाने "उद्देश्यासिद्धि" इति पाठः सम्यकु, तथा च विरोधस्य द्विधाऽऽश्रयणं कर्तव्यं न भवतीति बोध्यम् । ननु सत्यत्वाऽसत्यत्वाभ्यां वक्तुमशक्यत्वादज्ञाननिवृत्तिरनिर्वर्तनीयैवास्त्विति शङ्कासमाधानमाशङ्कते- अस्त्विति- उक्ताशङ्कास्वारस्याज्ज्ञानजन्यत्वस्य तत्रेष्टत्वेन तत्र ज्ञानजन्यत्वप्रसङ्गस्येष्टापादनरूपतयाऽदूषणत्वमिति पूर्व ज्ञानजन्यत्वेति स्थाने ज्ञानाजन्यत्वेति पाठ एव भवितुमर्हति, सतीति विकल्पे सत्त्वं सर्वदा सत्त्वमेव विवक्षितं द्वैतप्रसङ्गश्च पृथगेव दूषणमिति बोध्यम् । अत्र यजन्यं तदनिर्वचनीयमिति व्याप्तिबलादेवाज्ञाननिवृत्तेर्जन्यत्वलक्षणहेतुबलादनिर्वचनीयत्वं साध्यतेऽतस्तादृशव्याप्तौ प्राचीनवचनसंवादमाह-तदुक्तमिति-मायिकत्वम्अनिर्वचनीयत्वं तस्य समर्थकं- साधकमिति मायिकत्वसमर्थकमित्यस्यार्थः । निरुतसमाधानाशङ्को प्रतिक्षिपति-मैवमिति । भनिवर्चनीयस्येति- यदनिर्वचनीयं तज्ज्ञाननिर्वत्यमिति नियमेन " अज्ञाननिवृत्तिर्ज्ञाननिवर्त्या अनिर्वचनीयत्वाद् ," इत्यनुमानतोऽज्ञाननिवृत्तिनिवृत्तिसिद्धौ ‘अज्ञाननिवृत्तिर्ज्ञाननिवाऽनिर्वचनीयत्वाद्' इत्यनुमानात् तस्या अप्येवं निवृत्तिरेवं तस्या अपीत्येवं निवृत्तिपरम्परालक्षणानवस्थानप्रसङ्गादित्यर्थः। न च सत्येवाज्ञाननिवृत्तिः, तस्या असत्त्वाद्, अज्ञानतत्कार्यस्यानिर्वचनीयस्य विधावपि न तस्य सत्त्वं किन्तु ब्रह्मण एव सत्त्वमित्यद्वैतस्य ममाभ्युपगतस्य सदद्वैतरूपत्वमेवेत्येवं सदद्वैतवादो न व्याहन्यते सद्वैताभावादिति यद्युच्यते, तदाऽद्वैतस्य सदद्वैतरूपत्वेन सङ्कोचो निष्प्रमाणको दूषणमेवेत्याहसदद्वैतव्याकोपमङ्गीकृत्येति- सदद्वैताव्याकोपमङ्गीकृत्येति पाठो युक्तः, सदद्वैतव्याकोपः सदद्वैतव्याघातो मा भवत्वित्येवमङ्गीकृत्येत्यर्थः । तस्याः अज्ञाननिवृत्तेः । विधानेऽपि अनिर्वचनीयाज्ञान-तत्कार्ययोनिवृत्त्यभावाद् विधानेऽपि अनिवेचनीयतया विध्यभ्युपगमेऽपि । विना प्रमाणमिति- एकमेवाद्वितीयं ब्रह्म नेह नानाऽस्ति किश्चनेत्याद्याः श्रुतयोऽद्वैत एव प्रमाणं न सदद्वैत इति प्रमाणमन्तरेणेत्यर्थः। अद्वैतसङ्कोच इति- अद्वैतपदस्य सदद्वैतपरत्वमित्यर्थः । यद्यत्र सङ्कोचे प्रमाणं स्यात् तदा प्रामाणिकसकोचो न दूषणम् , यथा- पदार्थः पदार्थेनान्वेति न तु पदार्थंकदेशेनेत्यत्र व्युत्पत्ती सम्पन्नो व्रीहिरित्यत्रैकवचनविभक्यात्मकपदार्थस्यैकत्वस्य व्रीहिपदार्थतावच्छेदके व्रीहित्वेऽन्वयस्य व्रीहावेकत्वान्वये तत्र सम्पत्तेर्बहुत्व Page #413 -------------------------------------------------------------------------- ________________ ३४२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलड़तो नयोपदेशः । केति चेत् ? न- जन्यत्वादेव । नास्त्येव जन्यत्वमिति चेत् ? न- ज्ञानानर्थ क्य ]प्रसङ्गात्, चैतन्यस्य सदा सत्त्वेन प्रयत्नविशेषानुपपत्तेश्च । अत्र केचित् - तत्त्वज्ञानोपलक्षितं चैतन्यमेवाज्ञाननिवृत्तिः, तच्च न तत्त्वज्ञानतः प्रागस्ति, उपलक्षणत्वस्य संबन्धाधीनत्वात् , [ यथा ] काकसंबन्धो हि गृहस्य काकोपलक्षितत्वम् , तदपिन- ज्ञानोपलक्षितस्यापि सत्त्वेऽद्वैतव्याघातात् , असत्त्वे उद्देश्यत्वानुपपत्तेः, मिथ्यात्वे ज्ञाननिवर्त्यत्वापत्तेः, चिन्मात्रत्वे उक्तदोषानतिवृत्तेः। न च तत्त्वज्ञानानुपलक्षितभिन्नं चैतन्यमेव सा, अवस्थाभेदं विना तस्यापि दुर्वचस्त्वादतो दुर्वचस्वरूपेयमज्ञाननिवृत्तिः, अत्रोच्यते-नाज्ञानस्य निवृत्ति. ध्वंसः, रूपान्तरपरिणतोपादानस्यैव तद्रूपत्वात् , घटध्वंसो हि चूर्णाकारपरिणता मृदेव, न च चैतन्यस्य विशेषलक्षणायाः संयोगविशेषरूपाया वाऽन्वयानुपपत्त्या प्रामाणिकस्य निर्वाहाथ सङ्कोचोपदार्थतावच्छेदकस्य सम्पन्नो व्रीहिरिति वाक्यघटकबीहिपदार्थतावच्छेदकवी हित्वभिन्नपदार्थतावच्छेदकस्वरूपत्वं न दूषणम्, न त्वेवं प्रकृते सङ्कोच: प्रामाणिक इति स दूषणं स्यादेवेति भावः । नन्वज्ञाननिवृत्तिन सती, नाप्यसतो, नापि सदसती, नाप्यनिर्वचनीया, किन्तु पञ्चमप्रकारैव, तत्र नोक्तदूषणप्रसङ्ग इत्यत आह-पञ्चमप्रकाराश्रयणमिति- तथा चात्रात्यन्ताप्रसिद्धिरेव दूषणमित्या. शयः। नन्वभावस्याधिकरणात्मकत्वमेव लाघवादित्यज्ञाननिवृत्त्यधिकरणं चैतन्यमिति चैतन्यात्मिकैवाज्ञाननिवृत्तिरिति समाधानमाशङ्कते- अस्तु तहीति । चैतन्यस्य नित्यत्वेनाज्ञाननिवृत्त न्यत्वेन विरुद्धधर्माध्यासात् तयोस्तादात्म्यासम्भव इति प्रतिक्षिपति- नेति । ननु चैतन्यात्मकत्वादेवाज्ञाननिवृत्तौ जन्यत्वं नास्तीति शङ्कते- नास्त्येवेति-चैतन्यात्मिकाया अज्ञाननिवृत्तेर्जन्यत्वं नास्त्येवेत्यर्थः। अज्ञाननिवृत्त्यर्थमेव चैतन्यसाक्षात्कार उपादीयते, यदि चाज्ञाननिवृत्तिन जन्या तात्मसाक्षात्कारस्यानर्थक्यात् तदर्थ मुमुक्षुर्न प्रवर्ततेति निषेधति-नेति । चैतन्यं यद्यज्ञाननिवृत्तिस्तदा चैतन्यस्य सदा सत्त्वात् तदर्थ प्रयत्नविशेषानुपपत्तिरप्यासज्यत इत्याह-चैतन्यस्येति । ननु केयमज्ञाननिवृत्तिरित्यादिना पल्लवितायामाशङ्कायां केषाञ्चित् प्रतिविधानमुपदर्शयति- अत्रेति- उक्ताशङ्कायामित्यर्थः । तञ्च तत्त्वज्ञानोपलक्षितं चैतन्यं पुनः, तत्त्वज्ञानतः प्राक् तत्त्वज्ञानोपलक्षितचैतन्यस्यासत्त्वे हेतुमुपदर्शयति-उपलक्षणत्वस्येति- यद्यसंबद्धस्याप्युपलक्षणत्वं तदा सर्व सर्वस्योपलक्षणं भवेन भवति च सर्व सर्वस्योपलक्षणमित्युपलक्ष्योपलक्षकयोः सम्बन्धोऽवश्यमेषितव्यः, सम्बन्धश्च समकालं विद्यमानयोरेवेति तत्त्वज्ञान काल एव तत्त्वज्ञानोपलक्षितं चैतन्यमतो न तत्त्वज्ञानतः प्राक् तत्त्वज्ञानोपलक्षित चैतन्यम् , ततस्तत्त्वज्ञानोपलक्षितचैतन्यस्वरूपाज्ञाननिवृत्त्यर्थ तत्त्वज्ञानमुपादेयम्, तदर्थ यत्नविशेषस्यापि साफल्यमित्यर्थः । उपलक्षणत्वस्य सम्बन्धाधीनत्वे दृष्टान्तमाह- यथेप्ति । निरुक्तसमाधानं प्रतिक्षिपति-तदपि नेति । ज्ञानोपलक्षितत्वं सत् असत् अनिर्वचनीय चिन्मात्रं वा, प्रथमपक्षे- एकं ज्ञानोपलक्षितत्वं द्वितीयं चैतन्यमित्येवं द्वैतव्यवस्थितावद्वैतं व्याहन्येतत्याहशानोपलक्षितत्वस्यापीति । द्वितीये-नह्यसत उद्देश्यत्वमिति तस्योद्देश्यत्वमनुपपन्नं स्यादित्याह- असत्व इतिज्ञानोपलक्षितत्वस्यासत्त्वे इत्यर्थः । यदनिर्वचनीयं तन्मिथ्येत्यनिर्वचनीयत्वमेव मिथ्यात्वम् , अत एव क्वचिदप्युपाधावप्रतीयमानत्वलक्षणासत्त्वतोऽस्य भेदः, एवं च यदनिर्वचनीयं तज्ज्ञाननिवर्त्यमिति नियमस्याज्ञान-तत्कार्ययोः स्वहस्तितत्वात् तत्त्वशानोपलक्षितचैतन्यलक्षणाज्ञाननिवृत्तेरपि निवृत्त्यापत्तेस्तृतीयपक्षस्याप्ययुक्तत्वमित्याह- मिथ्यात्व इति-तत्त्वज्ञानोपलक्षितत्वस्य मिथ्यात्व इत्यर्थः । तुरीयपक्षे-चिन्मात्रस्वरूपाज्ञाननिवृत्तेः रादा सत्त्वेन ज्ञानजन्यत्वाभावाज्ज्ञानानर्थक्यं प्रयत्नविशेषणानुपपत्तिश्च स्यातामित्याह-चिन्मात्रत्व इति-ज्ञानोपलक्षितत्वस्य चिन्मात्रस्वरूपत्वे इत्यर्थः । तत्त्वज्ञानासमाधानान्तरमाशङ्कय प्रतिक्षिपतिन चेति । सा अज्ञाननिवृत्तिः । निषेधे हेतुमाह- अवस्थाभेदं विनेति-चैतन्यस्य तत्त्वज्ञानोपलक्षितत्वावस्था तत्त्वज्ञानानुपलक्षितत्वावस्था तत्त्वज्ञानानुपलक्षितभिन्नत्वावस्थेत्येवमवस्थात्रयमन्तरेणेत्यर्थः । तस्यापि तत्त्वज्ञानानुपलक्षितभिन्न चैतन्यस्वरूपत्वस्यापि । उपसंहरति-अत इति- पूर्वोपदर्शितविकल्पजर्जरितत्वादित्यर्थः । समाधत्ते - अत्रोच्यत इतिकथमज्ञाननिवृत्तिरित्याङ्कायां समाधानं कथ्यत इत्यर्थः । अज्ञाननिवृत्तेरज्ञानध्वंसरूपत्वाभावे हेतुमाह- रूपान्तरेति- रूपा. न्तरात्मना परिणतं यदुपादानं- परिणामिकारणं तस्यैव तद्रूपत्वात्- ध्वंसरूपत्वादित्यर्थः । रूपान्तरपरिणतोपादानस्यैव धंसरूपत्वमिति दृष्टान्तोपदर्शनेन स्पष्टयति-घटस इति-चूर्णाकारेण परिणता या मृत् सेव घटध्वंस इत्यर्थः । ननु प्रकृतेऽपि रूपान्तरात्मना परिणतं चैतन्यस्वरूपमुपादानमेवाज्ञानध्वंसोऽस्त्वित्यत आह-न चेति- अस्य 'अस्ति' इत्येननान्वयः, चैतन्यस्याखण्डस्वरूपस्या परिणामिनो रूपान्तरपरिणामाभावादित्यर्थः । एवं चाज्ञाननिवृत्ति ज्ञानध्वंसरूपेत्युपसंहरति-तस्मादिति । Page #414 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः। ४३ रूपान्तरमस्ति, तस्मादत्र नास्त्येवाज्ञानध्वंसः, किन्त्वज्ञानस्य कल्पितत्वादत्यन्ताभाव एष तन्निवृत्तिः । कि तर्हि तत्त्वज्ञानस्य साध्यमिति चेत् ? नास्त्येवाज्ञानात्यन्ताभावबोधात्मकत्वबाधव्यतिरेकेण, तदुक्तम् " तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः। अविद्या सह कार्येण, नासीदस्ति भविष्यति ॥१॥" [ ] इति, शुक्तिबोधेनापि हि रजतात्यन्ताभावबोधरूपो बाध एव क्रियते, मिथ्याभूतस्य च बाध एव ध्वंस इत्यभिधीयते, तद्वदिहापि द्रष्टव्यम् , स चायमधिष्ठानात्मक एव । कथं तर्हि सर्वथा सत इच्छाप्रयत्नाविति चेत् ? कण्ठगतचामीकरन्यायेनानवाप्तत्वभ्रमात्, पुरुषार्थत्वं तु तत्रा. भिलषितत्वादेव कृतिसाध्यत्वस्य तत्र गौरवेणाप्रवेशात् । चन्द्रामृतपातादौ पुरुषार्थत्वमिष्टमेवाऽप्रवृत्तिस्तु तत्र कृतिसाध्यत्वज्ञानरूपकारणान्तराभावादिति प्रतिपत्तव्यम् । कथं पुनः दृष्टिसृष्टिवादे श्रवणादिपरि. अत्र चैतन्ये । तो ज्ञाननिवृत्तिः किंस्वरूपति पृच्छति - किन्विति । उत्तरयति- अज्ञानस्येति । तन्निवृत्तिः अज्ञाननिवृत्तिः । नन्वत्यन्ताभावस्य परमतेऽतिरिक्तस्य नित्यत्वात् स्वमतेऽधिकरणस्वरूपत्वाज्ज्ञानसाध्यत्वाभावेन किं साध्यम् ? कस्यचिज्ज्ञानसाध्यस्याभावे ज्ञानानर्थक्यमापन्न मिति पृच्छति-किमिति- अस्य साध्यमित्यनेनान्वयः । उत्तरयति-नास्त्येवेति"बोधात्मकत्वबाध" इत्यस्य स्थाने "बोधात्मकबाध" इति पाठो युक्तः, अज्ञानात्यन्ताभावबोधात्मकबाधव्यतिरेकेण नास्त्येवेत्यन्वयः, तथा चाज्ञानात्यन्ताभावबोधलक्षणाज्ञानबाध एव ज्ञानसाध्योऽज्ञाननिवृत्तिरित्यर्थः । उक्तबाधस्वरूपाज्ञाननिवृत्ते. निसाध्यत्वे प्राचौ संवादमुपदर्शयति-तदुकमिति । तत्वमस्यादीति- 'तत्त्वमसि, अहं ब्रह्मास्मि ' इत्यादिवाक्यजन्यं यच्छुद्धचैतन्यज्ञानं तज्जन्यमात्रेण कार्येण सहाविद्याऽज्ञानस्वरूपा नासीत् - पूर्वकाले नाभवत् , नास्ति-वर्तमानकाले न विद्यते, न भविष्यति- उत्तर काले नैव स्थास्यतीत्यर्थः, अनेन कालत्रयेऽपि कार्येण सहाज्ञानस्यात्यन्ताभावबाध उपजायत इति स एव बाधः। उक्तमर्थ दृष्टान्त-दार्शन्तिकभावावष्टम्भेन भावयति- शुक्तिबोधेनापीति- शुक्ताविदं रजतमिति भ्रमानन्तरं त्रिकोणत्वादिकशुक्यसाधारणधर्मस्य तत्र ज्ञानत इयं शुक्तिरिति ज्ञानेन प्रातीतिकशुक्तिरूप्यस्य निवृत्तिर्भवति, तत्रापि त्रिकालेऽपि रजतं न भवतीदमिति रजतभेदबोधो मात्र रजतमिति रजतात्यन्ताभावबोधलक्षणबाध एवं क्रियत इति मिथ्याभूतस्य रजतस्य बाध एव तस्य ध्वंस इत्यभिधीयत इत्यर्थः । तदवदिति-तत्र यथा त्रैकालिकशुक्तिरजतात्यन्ताभावबोधो बाधः शुक्तिरजतनिवृत्तिस्तथेत्यर्थः । इहापि अज्ञाननिवृत्तावपि, कालिकसकार्याज्ञानात्यन्ताभावबोधात्मकबाधोऽज्ञाननिवृत्तिन त्वज्ञानध्वंस इति भावः । स चायमिति-निरुकवाधश्चाधिष्ठानभूतब्रह्मात्मक एव, तेन बाधस्वरूपद्वितीयसद्भावानाद्वैतमा इति बोध्यम् । यदि निरुकवाधात्मकाज्ञाननिवृत्तिब्रह्मात्मिकैव तदा तस्याः सर्वदा सत्त्वान्नोत्पत्तिरिति तद्विषयकाविच्छा-प्रयत्नौ कथं स्यातामिति पृच्छति-कथं तीति। उत्तरयति-कण्ठेति-स्वकण्ठे स्थितमपि चामीकर दोषवशादनवगच्छन् प्रत्युत चामीकरं विनष्टमिति भ्रान्त्या तद्वेषणप्रवृत्तः केनचिदाप्तेन अरे ! तव कण्ठ एव स्थितं चामीकरं किमर्थमितस्ततस्तदन्वेषयसीत्येवं प्रतिबोधितोऽवाप्तमेव तदवाप्तमित्यवगच्छति तथा प्रकृतेऽप्युक्तस्वरूपं ब्रह्मावाप्तमेवानवाप्तत्वभ्रमादुक्कदिशा तदवास्यर्थमिच्छा-प्रयत्नौ तदुपायविषयिणावात्मसात्कुर्वन् तदवाप्तितः कृतार्यो भवतीत्यर्थः। ननु निरुक्काज्ञाननिवृत्यात्मकमोक्षो भवन्मते पुरुषार्थ; पुरुषेण कृत्या साध्य एव पुरुषार्थो भवति, निरुतमोक्षश्च नित्यब्रह्मस्वरूपत्वान्न कृतिसाध्य इति पुरुषार्थत्वं तस्य न स्यादित्यत आह-पुरुषार्थत्वं विति पुरुषेणार्यते- अभिलष्यत इति पुरुषार्थ इति व्युत्पत्त्या पुरुषेच्छाविषयत्वं पुरुषार्थत्वम्, साधनस्य पुरुषार्थत्वं मा प्रसासीदित्येतदर्थमन्येच्छानधीनेच्छाविषयत्वं तत् परिष्कृतं भवति, एवं च ब्रह्मस्वरूपमोक्षेऽपि निरुक्केच्छाविषयत्वात् पुरुषार्थत्वं स्यादेव, कृतिसाध्यत्वे सति निरुक्तेच्छाविषयत्वं यदि पुरुषार्थत्वं भवेन्न भवेदपि कृत्यसाध्ये तस्मिन् पुरुषार्थत्वम्, किन्तु गौरवेण कृतिसाध्यत्वं तत्र न प्रवेश्यत इत्यर्थः । नन्वेवं चन्द्रगतामृत. पानादिविषयिण्यपि पुरुषेच्छा भवत्येवेति पुरुषेच्छाविषयत्वाच्चन्द्रगतामृतपानादावपि पुरुषार्थत्वं स्यादित्याशवामिष्टापत्त्या परिहरति-चन्द्रेति-"चन्द्रामृतपातादी" इत्यस्य स्थाने "चन्द्रामृतपानादौ" इति पाठः सम्यग् । यदि पुरुषार्थ चन्द्रामृतपानादि कथं तर्हि तदर्थिनां न तत्र प्रवृत्तिरित्याकालायामाह- अप्रवृत्तिस्त्विति । तत्र चन्द्रामृतपानादौ । प्रवृत्ति प्रति यथेच्छा कारणं तथा कृतिसाध्यताज्ञानमपि कारणम् , तदभावान्न चन्द्रामृतपानादौ प्रवृत्तिरित्यर्थः । ननु वेदान्तिनां दृष्टिसष्टिवाद एव प्रधानः, तत्र यदैव यस्य दर्शनं तदैव तस्य सत्त्वमित्येकजन्मन्यप्याजन्ममरणान्तसमयतया प्रसिद्ध न Page #415 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । 1 पाकजन्मना ज्ञानेन अज्ञानादिबाधः, तथाहि तस्मिन् मते चैतन्यातिरिक्तपदार्थानामज्ञातसत्त्वं नास्ति, मिध्यात्वस्य स्वप्नादिदृष्टान्तसिद्धत्वात् तादृशस्यैव सत्त्वस्याङ्गीकारात् एवं च घटादीनां यदा प्रतीतिस्तदा तत्त्वम्, नान्यदेति न दण्डादिजन्यत्वम्, किन्त्वज्ञानमात्रजन्यत्वम्, स्वप्नवञ्च दण्डाद्युपादानम् । अज्ञानदेहादिकं तु भासमानमेव तिष्ठति । अभावनिश्चयाभावाश्च पुत्राद्यभावकृतरोदनाद्यप्रसङ्गः, प्रत्यभिज्ञानमपि भ्रम एव ततश्चाकाशादिक्रमेण सृष्टिः, पञ्चीकरणं ब्रह्माण्डाद्युत्पत्तिश्चैतन्मते नास्त्येव, घटादेरपरोक्षं कस्यापि सत्त्वमित्यनेकजन्मसाध्यत्यान्ताभ्यास लक्षणश्रवणादिपरिपाकासम्भवात् कुतस्तत्प्रभवे नाऽऽत्मसाक्षात्कारेणाज्ञानादिबाधसम्भव इत्याशङ्कते - कथं पुनरिति । निरुक्ताज्ञानादिवाधासम्भवमेव भावयति तथाहीत्य दिना । तस्मिन् मते दृष्टिसृष्टिवादिमते । चैतन्यरूपस्य ब्रह्मणः सदातनत्वं तन्मतेऽप्यङ्गीक्रियत इत्यत उक्तं चैतन्यातिरिक्तेति । अज्ञातसखं नास्तीत्यनेनाज्ञातसत्त्वप्रतिषेधेन चैतन्यातिरिक्तपदार्थानां ज्ञातसत्त्वमेव- ज्ञानकालीन सत्वमेव तन्मते समस्तीत्युपदर्शितम् । मिथ्यात्वस्येति प्रप्रञ्चो मिथ्या दृश्यत्वात् स्वप्नादिवदित्यनुमानतः प्रपञ्चमात्रस्य स्वप्नादिदृष्टान्तेन मिथ्यात्वस्य सिद्धत्वात्, तादृशस्यैव - मिथ्यात्वस्वरूपस्यैव ज्ञातसत्त्वस्य प्रपञ्च स्वीकारादित्यर्थः । एवं च प्रपञ्चेऽज्ञातसत्त्वाभावस्य सिद्धौ च । तदा प्रतीतिकाले । तत्त्वं घटादीनां सत्त्वम् । नान्यदा प्रतीतिसमयातिरिक्तसमये न सत्त्वम् । इति एतस्माद्धेतोः । न दण्डादिजन्यत्वमिति - दण्डादिसमवधान समयातिरिक्तसमये प्रतीयमानस्य घटादेस्तदेवोत्पत्तिः, तदानीं च दण्डादिसमवधानाभावाद् दण्डादेर्घटादिनियताव्यवहितपूर्ववर्तित्वाभावेन कारणत्वाभावाद् दण्डादिनिष्ठ कारणता निरूपित कार्यतालक्षणं दण्डादिजन्यत्वं घटादीनां नास्तीत्यर्थः । तत् किं कारणं विनैव घटादीनामुत्पत्तिरिति पृच्छति किन्त्विति । अज्ञानस्यानादेस्तन्मतेऽपि स्वीकारात् तस्य घटादिकारणत्वसम्भवेन तज्जन्यत्वं घटादेः सम्भवतीत्युत्तरयति - अज्ञानमात्रजन्यत्वमिति - घटादीनामित्यनुवर्तते । नन्वेवं घटादीनां दण्डादिजन्यत्वमाकलय्य तदर्थं दण्डादीनामुपादानं लोकैः क्रियते तदप्यनुपपन्नं स्यादित्यत आह- स्वप्रवच्चेति - स्वप्नेऽपि घटादीनामज्ञानमात्रप्रभवाणामुत्पत्यर्थं दण्डाद्युपादानं यथा तथा प्रकृतेऽपीत्यर्थः, तथा च तत् कल्पितत्वान्मिथ्यैवेति भावः । कथं तर्ह्यज्ञानादीनामवस्थानमत आह- अज्ञानेति तदवभासनं च साक्षिणेति बोध्यम् । ननु पितृ-मात्रादीनां यदा पुत्रादिदर्शनं नास्ति तदानीं पुत्राद्यभावात् तत्कृतरोदनादिप्रसङ्गः स्यादित्यत आह- अभावेति- अदर्शनकाले पुत्रादीनामभावेऽपि पित्रादेः पुत्राद्यभावनिश्चयो नास्ति, पुत्राद्यभावनिश्चय एव रोदनादिकारणम्, वास्तविकसत्त्ववादिमतेऽपि देशान्तरगतस्य पुत्रादेर्मरणे तदभावो विद्यते नैतावता पित्रादिभी रोदनं क्रियते, यदा दलादिना तदभावनिश्चायकेन तदभावो निश्चीयते तदैव रोदनादिकं क्रियते इति स्वरूपसतः पुत्राद्यभावस्य न रोदनादिकारणत्वं किन्तु निश्चितस्यैवेति तदभावनिश्चयरूपकारणाभावान्न रोदनादिप्रसङ्ग इत्यर्थः । ननु ' स एवायं घटः, स एवायं पुत्रः' इत्यादिप्रत्यभिज्ञानात् पूर्वकालीन दर्शनविषयेण घटादिना वर्तमानकालीन दर्शनविषयस्य घटादेरभेदः सिध्यति, स च तदेवोपपद्यते यद्यन्तरालसमयेऽज्ञातोऽपि घटादिः स्यादित्यन्तरालकालेऽपि घटादिर्विद्यते, एवं च प्रत्यभिज्ञानेन बाधान्न ज्ञातमात्रसत्वं घटादीनामित्यत आह- प्रत्यभिज्ञानमपीति - लून- पुनर्जातनख-केशादौ स एवायं नख-केशादिशिते प्रत्यभिज्ञानं लून- पुन जतिनख केशादेरभेदाभावेऽपि सौसादृश्यादिदोषाद् भ्रान्तं समुद्भवति; दीपकलिकादावप्यनवरतविभिन्नतैलाद्युपादानतो विभिन्नमेव दीपकलिकादिकमुपजायत इति पूर्वापरदीपकलिकाद्योरभेदाभावेऽपि सैवेयं दीपकलिकेति प्रत्यभिज्ञानमभेदावगाहि श्रान्तमुपजायते सौसादृश्यादिदोषात् तथा सर्व प्रत्यभिज्ञानं भ्रम एवेति न ततोऽज्ञातसत्त्वसिद्धिरित्यर्थः । तत्र सृष्टिक्रमो न विद्यत इत्याह- ततश्चेति यदा घटादीनां प्रतीतिस्तदानीमेव घटादीनां सत्त्वमित्युपगमाच्चेत्यर्थः । आकाशादिक्रमेण सृष्टिरित्यस्य नात्स्येवेत्यनेनान्वयः, एवं पञ्चीकरणं ब्रह्माण्डाद्युत्पत्तिश्वेत्यस्यापि । एतन्मते दृष्टिसृष्टिवादिमते । ननु अपरोक्षकारणस्येन्द्रियादेरज्ञानकाले सत्वं नैतन्मते समस्तीति यदा घटादीनां दर्शनं तत्पूर्वकाले इन्द्रियादेर्दर्शनाभावादतीन्द्रियत्वाच्च न सत्वमिति तज्जन्यत्वभावादिन्द्रियादिजन्यं ज्ञानं प्रत्यक्षमिति लक्षणलक्षित प्रत्यक्षस्वरूपं घटादेर्ज्ञानं न स्यादित्यत आह- घटादेरपरोक्षमिति - अपरोक्षस्वरूप चैतन्येऽभ्यासादेव घटादेरपरोक्षं ज्ञानमित्यर्थः । ननु क्षणमात्रस्थायित्वाद् घटादिज्ञानं क्षणिकं तदात्मकसत्त्वमेव घटादेरिति तस्यापि क्षणिकत्वमिति यत् सत् तत् क्षणिकमिति व्याप्तितः सर्वस्य क्षणिकत्वमभ्युपगच्छतो बौद्धस्य मते दृष्टिसृष्टिवादिमतस्य प्रवेशः ૨૩૨ Page #416 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलङ्कतो नयोपदेशः । तत्तदध्यासादेव, अधिष्ठानस्य स्थायित्वाऽबाधितत्वाभ्यामज्ञानस्य चानादेः सकलसृष्टिहेतोरङ्गीकाराद् न बौद्धमतप्रवेशः, तदेवमज्ञानातिरिक्तकारणाभावात् कथं श्रवणादिजन्यं तत्त्वज्ञानमिति; अत्रोच्यतेलोके अज्ञानातिरिक्तानात्मदृष्टिकारणाभावेऽपि वेदे याग-स्वर्गादौ कार्यकारणभाववादीनां वेदान्तिनां यथेष्टाचरणप्रसङ्गात्, तस्माद् घटादेरिव स्वर्ग-नरकादे ज्ञानमात्रजन्यत्वम् , अपि तु विहित-निषिद्धक्रियाजन्यत्वमपीति । दृष्टानुश्रविकस्थले अर्द्धजरतीयं प्रामाणिकं नो चेत् ? अनात्मदृष्टिस[ष्टे ]रनवसानप्रसङ्गः । अधिष्ठानज्ञाने तदवसानप्रसङ्ग इति चेत् ? न- तस्यैव हेतुत्वाभावात् । अज्ञानं तद्धेतुरिति चेत् ? न- ततो दृष्टकारणनिरपेक्षया तदुत्पत्त्या शमाद्यनुष्ठानप्रसङ्गात्, भ्रान्त्या शमाद्यनुष्ठानमिति चेत् १ स्यादित्यत आह-अधिष्ठानस्येति-अधिष्ठानस्य शुद्धचैतन्यस्य सकलकालस्थायित्व-त्रिकालाबाधितत्वलक्षणपारमार्थिकसत्त्वाभ्यामङ्गीकारात् सकलसृष्टिहेतोरनादेरज्ञानस्य चाभ्युपगमाद् दृष्टिसृष्टिवादस्य बौद्धमतप्रवेशो नेत्यर्थः । प्रश्नकर्ता स्वाशङ्कामुपसंहरति-तदेवमिति- तत्- तस्मात् , एवम्- उक्तप्रकारेण । यद्यपि लोके घट-पटादिकमज्ञानात्मदृष्टिमात्रजन्यं तथापि वेदे स्वर्गादिकं प्रति अज्ञानात्मदृष्टिव्यतिरिक्त यागादि-तत्प्रभावादृष्टादिकमपि कारणम् , अन्यथा स्वर्गकामो ब्राह्मणहननादिकमपि कुर्वन्नज्ञानात्मदृष्टिरूपकारणबलात् स्वर्गादिकं प्राप्नुयादेवेति यथेष्टाचरणं प्रसज्येतेति वैदिकस्वर्गादिकं प्रति विहितयागादिकमप्यदृष्टद्वारा कारणं नरकादिकं प्रति निषिद्धहननादिकमप्यदृष्टद्वारा कारणमवश्यमभ्युपगन्तव्यम् , तथा च वैदिकनिरुक्ताज्ञाननिवृत्त्यात्मकमोक्षं प्रति अज्ञानात्मदृष्टिव्यतिरिक्तश्रवणादिकमपि कारणमिति भवत्येव निरुक्तमोक्षः श्रवणादि. प्रभव इत्येवं दृष्टिसृष्टिवादे श्रवणादिपरिपाकजन्मना ज्ञानेनाज्ञानादिबाधो निर्वहत्येवेति समाधत्ते-अत्रोच्यत इति । दृष्टि. सृष्टिवादे घटादिकं प्रत्यज्ञानमिवात्मदृष्टिरपि कारणमतोऽनात्मदृष्टीत्यात्मदृष्टिभिन्नार्थमुक्तम् । “वादीनाम्" इत्यस्य स्थाने "वादिनाम्" इति पाठो युक्तः । वेदान्तिनामित्यस्यानन्तरं "विहित-निषिद्धकर्मादिकमपि कारणम् , अन्यथा " इति पाठो दृश्यः, तदर्थस्त्ववतरणेन स्पष्टीकृत एवेति । तस्मात् यथेष्टाचरणप्रसङ्गात् । घटादेरिवेति व्यतिरेकिदृष्टान्तः, घटादेर्यथाऽज्ञानमात्रजन्यत्वं न तथा स्वर्ग-नरकादेरज्ञानमात्रजन्यत्वमिति तदर्थः । यदि स्वर्ग-नरकादे ज्ञानमात्रजन्यत्वं तीज्ञानव्यतिरिक्तकिंजन्यत्वमित्यपेक्षायामाह-अपि त्विति । ननु लोके घट-पटादिकं प्रति अज्ञानात्मदृष्टिद्वयमेव कारणं वेदे स्वर्गनरकादिकं प्रति विहित-निषिद्धकर्मादिकमपि कारणमित्यर्द्धजरतीयमप्रामाणिक किमित्युपेयमित्यत आह- दृष्टा-ऽऽनुअविकस्थल इति- दृष्टघटपटादिकस्थले आनुश्रविकस्यर्गादिस्थले चेत्यर्थः, अध्यापकपरम्परया श्रूयत एव न तु केनापि क्रियत इत्यनुश्रवोऽपौरुषेयो वेदस्तदीयं तत्प्रतिपादितमित्यानुश्रविकं स्वर्गादिकमिति बोध्यम् । अर्द्धजरतीयमिति- एका गौरर्द्धभागे युवती अर्द्धभागे वृद्धत्यर्द्धजरती यथा तथा प्रकृते एकत्र यादृशः कार्यकारणभावस्तदन्यादृशोऽन्यत्र कार्यकारणभाव इत्यभ्युपगमेऽर्द्धजरतीन्याय आयोजनीयः, उक्तयुक्त्या प्रामाणिक एवायमुपगमस्तथापि नोपेयते चेदित्यर्थः । “अनात्मदृष्टिसृष्टेः" इत्यस्य स्थाने “ अज्ञानात्मदृष्टिसृष्टेः" इति पाठो युक्तः । यद्यदिच्छामात्रत उपेयते तत्तदुत्पत्तेरज्ञानात्मदृष्टितः सम्भवादज्ञानात्मदृष्टरवसानं न स्यादनवस्थाप्रसङ्ग इत्यर्थः। तदवसानमाशङ्कते- अधिष्ठानज्ञाने इति- जगच्छुद्धचैतन्ये काल्पतमित्यधिष्ठान शुद्धचैतन्य तज्ज्ञाने, अज्ञानात्मदृष्टिसृष्टेरवसानमित्यर्थः। समाधत्ते-नेति । तस्यैव अधिष्ठानस्यैव, निरूपितत्वं षष्टयर्थः, तथा च तत्त्वज्ञाननिरूपितहेतुत्वं न कस्यापीति अधिष्ठानसाक्षात्कार एव नोत्पद्यतेत्यर्थः । शङ्कतेअज्ञानमिति-अधिष्ठानज्ञाने तदवसानमित्यस्याधिष्ठानज्ञानं नाज्ञानजन्यमिति तत्रावसानमिति नार्थः, किन्त्वधिष्ठानज्ञानमज्ञानमात्रजन्यमेव, तदनन्तरमज्ञाननिवृत्त्या तज्जन्यं न किमपीति तदवसानमित्यर्थः, एवं चाधिष्ठानज्ञानमज्ञानमात्रजन्यमेवेति नाधिष्ठानज्ञाननिरूपितहेतुत्वाभाव इति शङ्कार्थः । समाधत्ते-नेति । ततः अज्ञानमात्रतः। तदुत्पत्त्या अधिष्ठानचैतन्यसाक्षात्कारोत्पत्त्या। शमादीति-अज्ञानमात्रत एव चैतन्यसाक्षात्कारोत्पत्तेः सम्भवेन तदर्थ शमाद्यनुष्ठानस्याकर्तव्यत्वं प्रसज्येतेत्यर्थः। चैतन्यसाक्षात्कारोत्पत्तितः प्राग भ्रान्तिः शमादिकमात्मसाक्षात्कारजनकमिति ज्ञानं समस्तीत्यतः शमाद्यनुष्ठानमिति शङ्कते-भ्रान्त्येति । समाधत्ते-नेति- एकवार तत्त्वमस्त्रीत्यादिमहावाक्यलक्षणवेदान्तश्रवणवता ब्रह्मभिन्न Page #417 -------------------------------------------------------------------------- ________________ ३४६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकृतो नयोपदेशः । न- सकृद्वेदान्तार्थश्रवणवतां तदभावप्रसङ्गात् । किञ्च, भ्रमे अज्ञानमात्रजन्यत्वं युक्तम् , न त्वधिष्ठानज्ञाने, [ न ]हि रजतभ्रमवत् शुक्तिज्ञाने शुक्स्यज्ञानजन्यत्वम् । तदवश्यं दृष्टिसृष्टिपक्षे लोके अज्ञानातिरिक्तकारणाभावेऽपि वेदे यागादौ स्वर्गादिसाधनतया सम्मतैव । ततश्च यागादेः स्वर्गादिसाधनत्वं प्रतीत्य यागमनुतिष्ठतां उत्पन्नस्य स्वर्गसूक्ष्मरूपस्य [ यागसूक्ष्मरूपस्य ] वा अपूर्वस्य साक्षिसिद्धस्य स्वर्गजनकत्वम्, अपूर्वस्य साक्षिसिद्धत्वं नानुभूयते इति चेत् ? न- अज्ञातसत्त्वानङ्गीकारेणाज्ञानकारणताया इव अपूर्वस्य साक्षिसिद्धताभ्युपगमस्यावश्यकत्वात् , ततश्च यागादेः स्वर्गादिजन्मवत् श्रवण-मननादिसहजकृतवेदान्तवाक्यात् तत्त्वज्ञानोत्पत्तिरविरुद्धा । दृष्टिसृष्टिवादे ईश्वरो नास्तीति " तत् त्वमसि" [ ] इत्यत्र कथं तदभेदप्रतीतिरिति चेत् ? कुत एतदवगतम् ? सर्वदाऽप्रतीतेरिति चेत् ? तर्हि जीवोऽपि नास्त्येव, चिद्रूपतया भासमानत्वं चोभयत्र तुल्यम् , ईश्वरत्वं सदा न भासते इति चेत् ? जीवत्वेऽपि तुल्यमेतत् , उभयमपि तर्हि नास्त्येवेति चेत् ? न- साक्षित्वस्यानुभवसिद्धत्वात् , जगन्मिथ्यात्वज्ञाने शुद्धचैतन्यज्ञाने सति शमादिक शुद्धचैतन्यज्ञानकारणमिति भ्रान्तेरभावात् तज्जन्यस्य शमाद्यनुष्ठानस्याप्यभावप्रसङ्गादित्यर्थः। अधिष्ठान चैतन्यज्ञानं प्रमात्मकमिति न तत् प्रति अज्ञानात्मकदोषस्य कारणत्वम् , भ्रमं प्रत्येव तस्य कारणत्वादित्यज्ञानमात्रजन्यत्वं भ्रमे भवेत् , न तु चैतन्यसाक्षात्कारे इत्याह-किश्चेति । अधिष्ठानज्ञाने नाज्ञानस्य कारणस्वमित्यत्र दृष्टान्तमाह- नहीति- शुक्ताविदं रजतमिति भ्रमे शुक्त्यज्ञानस्य करणत्वं न तु शुक्तिज्ञाने शुक्त्यज्ञानस्य कारणत्वमिति यथा शुक्तो रजतभ्रमे शुक्त्यज्ञानजन्यत्वं न तु शुक्तिज्ञाने शुक्त्यज्ञानजन्यत्वं तथा प्रकृतेऽपीत्यर्थः । उपसंहरति-तदिति- तस्मादित्यर्थः । मनानातिरिककारणाभावेऽपीत्यस्याज्ञानात्मदृष्टिव्यतिरिक्तकारणाभावेऽपीत्यर्थः । ततश्च वेदे यागादौ स्वर्गादिसाधनतायाः सम्मतत्वाच । स्वर्गसूक्ष्मरूपस्येत्यस्यापूर्वस्येत्यनेनान्वयः, अपूर्वस्यादृष्टाख्यस्य स्वर्गसूक्ष्मरूपत्वं स्वर्गकारणत्वादेव, एवं तस्य यागसूक्ष्मरूपत्वमपि यागव्यापारत्वात् , यदा च यागजन्यं स्वर्गजनकमपूर्वमुत्पद्यते तदैव किञ्चिदशेन स्वर्गस्य सूक्ष्मरूपमपि सम्पद्यत इति स्वर्गसूक्ष्मरूपत्वमपूर्वस्य, अपूर्वोत्पत्तिकाले स्थूलरूपेण यागस्य विनाशेऽपि सूक्ष्मरूपेणावस्थानं समस्त्येवेत्यभिसन्धिः। एतादृशस्यापूर्वस्य प्रमाणाभावादसिद्धत्वमिति नाशनीयं तस्य साक्षिसिद्धत्वादित्याशयेनाह-साक्षिसिद्धस्येति । स्वर्गजनकत्वमित्यत्र च्छेदः। अपूर्वस्य साक्षि. सिद्धत्वं यदि भवेत् तदा स्वर्गजनकत्वं तस्य स्वीक्रियेतापि, न च तस्य साक्षिसिद्धत्वमननुभवादित्याशङ्कते-अपूर्वस्यति । "चिरध्वस्तं फलायालं न कर्मातिशयं विना" [कुसुमाञ्जलौ ] इति वचनात् चिरध्वस्तस्य यागादेः साक्षात् स्वर्गोत्पत्तितोऽव्यवहितपूर्वसमयेऽसत्त्वेन वेदबोधितकारणत्वमनुपपन्नमिति तदन्यथानुपपत्त्या यागव्यापारतयाऽपूर्व कल्प्यत इति तस्य यागजन्यत्वं स्वर्गजनकत्वं चान्यथानुपपत्तिलक्षणार्थापत्तिप्रमाणसिद्धमेव, किन्तु दृष्टिसृष्टिवादे सर्वस्य ज्ञातसत्त्वमेवयदैव ज्ञायते तदैव सदित्यज्ञातसत्त्वं न कस्यापि स्वीक्रियते, तत एव चाज्ञानस्य कारणता साक्षिवेद्येत्युपेयते, एवं चापूर्वमपि यद्यज्ञातं स्यान्न सत् स्यादित्यतस्तस्य साक्षिवेद्यत्वात् साक्षिसिद्धत्वमवश्यमभ्युपगन्तव्यमिति समाधत्ते-नेति । अज्ञानकारणताया इवेति- अज्ञाननिष्ठकारणताया यथा साक्षिसिद्धत्वाभ्युपगमस्तयेत्यर्थः । उपसंहरति-ततश्चेति । अन्यत् स्पष्टम् । शङ्कते-दृष्टिसृष्टिवाद इति । तदभेदप्रतीतिः त्वंपदार्थे जीवे तत्पदार्थस्येश्वरस्यामेदप्रतीतिः। समाधाता शङ्कितारं पृच्छति-कुत इति- दृष्टिसृष्टिवादे ईश्वरो नास्तीत्यवगतिर्भवतः कस्मात् कारणात् समुत्पन्नेत्यर्थः । प्रश्नयिता प्राहसर्वदेति- दृष्टिसृष्टिवादे. यदेव प्रतीयते तदेव सत्, ईश्वरस्तु कदाचिदपि न प्रतीयत इति सर्वदाऽप्रतीतत्वान्नास्तीश्वर इत्यर्थः । समाधाता प्राह-तहीति । सर्वदाऽप्रतीतेजींवोऽपि तन्मते नास्त्येवेति कथं जीवासत्त्वनिबन्धनाऽपि तदभेदप्रतीत्यनुपपत्ति शङ्किता ? यदि च चिद्रूपतया भासमानत्वाज्जीवस्य प्रतीतेने तस्यासत्त्वं तर्हि, चिद्रूपतया भासमानत्वेन तत्प्रतीतेरपि सद्भावादीश्वरस्यापि नासत्त्वमित्याह-चिद्रपतयेति । उभयत्र जीवे ईश्वरे च । यद्यपि भासमानत्वमस्तीश्वरस्य, तथापीश्वरत्वं सदा न तत्र भासत इतीश्वरत्वेनेश्वरोऽप्रतीयमानो नास्तीत्युच्यते इत्याशङ्कते-ईश्वरत्वमिति । समाधाता प्राह- जीवत्वेऽपीति- जीवत्वं सदा न भासत इति जीवस्वेन जीवो नास्तीत्यप्युच्यतामित्यर्थः । दुर्दुरुटः Page #418 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ३४७ अघटकाज्ञाने शक्तिद्वयस्यावश्यकत्वेन तद्गर्भजीवत्वेश्वरत्वयोरनादित्वस्य यौक्तिकत्वात् तयोरभेदानुपपत्तेलक्षणया अद्वयचिन्मात्रधीवक्तव्या। तस्माद् दृष्टिसृष्टिवादेऽपि यथोक्तानुष्ठानवता तत्त्वज्ञानादखण्डानन्दब्रह्मस्वरूपा मुक्तिर्युक्तैव, एतच्छुद्धद्रव्यास्तिकप्रकृतिकमत द्वयं पर्यायार्थिकनययुक्तिभिर्निर्लोठनीयमबतारणीयं च स्याद्वादे ॥ ११० ॥ अशुद्धाद् व्यवहाराख्यात् , ततोऽभूत् सांख्यदर्शनम् । चेतना-ऽचेतनद्रव्याऽनन्तपर्यायदर्शकम् ॥ १११ ॥ नयामृत-अशुद्धादिति । व्यवहाराख्यात्- व्यवहारनामधेयात् , अशुद्धात् ततः- द्रव्यार्थिकनयात् साझ्यदर्शनमभूत, कीदृशं तत् ? चेतनश्चाचेतनद्रव्यं च अनन्तपर्यायाश्च- आविर्भाव-तिरोभावात्मकाः, तेषां दर्शकं प्रतिपादकमिति यावत् । तथा च तन्मतरहस्यम्- पुरुषस्तावच्चिद्रूपो न कस्यापि प्रश्नयिता पुनः शङ्कते- उभयमपीति- ईश्वरत्वं जीवत्वं चेत्युभयमपीत्यर्थः, तथा चेश्वरत्वेनेश्वराभावस्येव, जीवत्वेन जीवाभावस्यापीष्टत्वमेवेति भावः। समाधत्ते-नेति। “साक्षित्व" इत्यस्य स्थाने “साक्षिभास्यत्व" इति पाठो युक्तः, साक्षी द्विविधो जीवसाक्षी ईश्वरसाक्षी च; साक्षी च स्वयं भासत इति तेनेश्वरो जीवश्च भासते, साक्षी च साक्षित्वेनैवावभासत इत्यनुभवसिद्धत्वादीश्वरजीवयोरीश्वरत्व-जीवत्वधर्माकान्तयो भाव इत्यर्थः । जीवत्वेश्वरत्वयोरनादित्वं व्यवस्थापयति- घटकेति- " अघटकाक्षाने " इत्यस्य स्थाने " घटकाज्ञाने " इति पाठो युक्तः, अज्ञानावरणविशिष्टचैतन्यत्वं जीवत्वमज्ञानविक्षेपशक्तिविशिष्टचैतन्यत्वमीश्वरत्वमित्येवं जीवत्वेश्वरत्वलक्षणेऽज्ञानघटिते घटकं यदज्ञानं तत्र शक्तिद्वयस्य आवरणशक्ति-विक्षेपशक्तिद्वयस्य । आवश्यकत्वेन अवश्यं स्वीकर्तव्यत्वेन । तद्गर्भजीवत्वेश्वरत्वयोनिरुक्कशक्किमदज्ञानघटितत्वेन तद्गर्भजीवत्वेश्वरत्वयोः, अनादित्वस्य निरुक्ताज्ञानस्यानादित्वेन तद्घटितयोरप्यनादित्वमित्येवमनादित्वस्य, यौक्तिकत्वात् युक्तिसिद्धत्वात् , विशिष्टस्वरूपसन्निविष्टयोर्विशेषणविशेष्ययोरनादित्वे विशिष्टस्याप्यनादित्वमित्यत्र युक्तिः, तयोः अनादिभूतजीवत्वेश्वरत्वरूपविरुद्धधर्मविशिष्टयोर्जीवेश्वरयोः- अभेदानुपपत्तेः तादात्म्यानुपपत्तेः, लक्षणया तत्-त्वंपदयोः शुद्धचैतन्ये जहदजहलक्षणया, अद्वयचिन्मात्रधीः, अद्वितीयं यच्चैतन्यमानं शुद्धचैतन्यं तस्य तत् त्वमसीतिवाक्यजन्या धीः, वक्तव्येत्यर्थः । दृष्टिसृष्टिवादे मुक्तयुक्तत्वमुपसंहरति-तस्मादिति । यथोक्तानुष्ठानवता शमदमाद्यनुष्ठानवता पुरुषधुरन्धरेण, एतत् भर्तृहरिमतं वेदान्तिमतं च क्रमेणानन्तरमेवोपपादितम् । शुद्धतिशुद्धद्रव्यास्तिको यः सङ्ग्रहाख्यो नयस्तत्प्रकृतिकं- तत्कारणकं मतद्वयम् , पर्यायार्थिकनयः- ऋजुसूत्रादिनयः, तस्य यैकान्तनित्ये अर्थक्रियाकारित्वलक्षणसत्त्वासम्भवादेकान्तनित्याद्वैतादिकं न सम्भवतीत्यादिका युक्तिस्ताभिनिर्लोठनीयं- खण्डनीयमित्यर्थः। तत् किमद्वैतादिकं न सम्भवति ? सम्भवति अपेक्षाभेदतः ‘स्यादद्वैतं स्यादभेदः ' इत्येवं कथंचिदर्थसङ्घटनेन स्याद्वादे, न त्वेकान्तवादे इत्याह- अवतारणीयं च स्याद्वाद इति- ग्रन्थगौरवभयाद् प्रन्थकारेण तत्खण्डनमण्डनयक्तिजालं नोपन्यस्तं किन्तु प्रन्थान्तरे स्वयं पूर्वसूरिभिश्चोपदर्शितं तत्तदभिलाषुकैरवलोकनीयमिति सूचितम् ॥ ११०॥ व्यवहारनयप्रकृतिकं साङ्खचदर्शनं चेतनाञ्चेतनादिप्रतिपादकमित्यावेदकमेकादशोत्तरशततमपद्यं विवृणोति- अशुद्धादितीति। व्यवहाराख्यादित्यस्य विवरण- व्यवहारनामधेयादिति । तत इति मूलस्य विवरण-द्रव्यार्थिकनयादिति । उत्तरार्द्धमवतार्य विवृणोति-कीदशमिति । तत् सायदर्शनम् । अनन्तपर्यायाः किंस्वरूपा इत्यपेक्षायामाह- आविर्भावतिरोभावात्मका इति, तन्मते कारण-कार्ययोरभेदादुत्पत्तेः प्रागपि कार्य विनाशानन्तरमपि च कारणात्मना समस्त्येव, उत्पत्तिस्तस्याविर्भावः, विनाशस्तिरोभाव इति । तथा च साङ्ख्यदर्शनस्य चेतनाऽचेतनद्रव्याऽनन्तपर्यायप्रदर्शकत्वे च । तन्मतरहस्यं सालयमताभिप्रेतम् । तन्मते पुरुषः किंस्वरूप इत्यपेक्षायामाह-पुरुष इति । तावदिति वाक्यालङ्कारे । चिद्वपः चैतन्यस्वरूपः । न कस्यापि कारणमित्यादिना पुरुषः कूटस्थनित्य इत्यस्य समर्थनम् , पुरुषस्य यत्, किञ्चित् कार्य प्रति कारणत्वे कार्य-कारणयोरभेदात् कार्यनाशे तस्यापि तदात्मना नाशादप्रच्युतानुत्पन्नस्थिरैकत्वभावत्वलक्षणं कूटस्थनित्यत्वं न स्यादित्यकारणं पुरुषः, कार्यरूपत्वे भावकार्यस्य नाशोऽवश्यम्भावीति न निरुक्तकूटस्थनित्यतेति Page #419 -------------------------------------------------------------------------- ________________ ३४८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । कारणं न कस्यापि कार्य नवा जन्यधर्माश्रय इति कूटस्थनित्य इत्युच्यते, बुद्धिगताश्च धर्मा अज्ञातपरमार्थस्तत्रारोप्यन्ते भटविजयपराजयो राज्ञीव, प्रकृतिरचेतना परिणामिनी आदिकारणं च, तस्याश्चाद्यपरिणामो बुद्धिमहत्तत्त्वापरपर्याया, तस्या धर्मा- ज्ञाना-ज्ञानेश्वर्या-नैश्वर्य-वैराग्या-ऽवैराग्य-धर्मा-ऽधर्मरूपाअष्टौ, बुद्धि-सुख-दुःखेच्छा-द्वेष प्रयत्ना अपि, भावनायास्तैरनङ्गीकारादनुभवस्यैव स्मृतिपर्यन्तं सूक्ष्मरूपतयाऽवस्थानाभ्युपगमात् , महत्तत्त्वादहकारः, अहङ्काराद् रूप-रस-गन्ध-स्पर्श-शब्दतन्मात्राणि पश्च एका. दशेन्द्रियाणि च । पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि जायन्ते, तदुक्तम् ---- VvvvvvvvvvvvvvvvvvuAN न कार्यः पुरुषः, जन्यधर्माश्रयत्वे धर्मधर्मिणोरभेदाद् धर्मनाशे धर्मिणस्तस्यापि नाशः प्रसज्यतेत्येवमपि कूटस्थनित्यता न स्यादिति जन्यधर्मानाश्रयः पुरुषः कूटस्थनित्य इत्येवमुच्यत इत्यर्थः । नन्वेवं सुख-दुःखादिधर्माधारतया पुरुषप्रतीतिर्न स्यादित्यत आह-बुद्धिगताश्चेति- बुद्धिरन्तःकरणं महत्तत्त्वम् , तद्गताः-तद्वर्तिनः सुख-दुःखादयो धर्माः, तत्र पुरुषे आरोप्यन्ते । कैरारोप्यन्त इत्यपेक्षानिवृत्तये उक्तमज्ञातपरमार्थैरिति- अज्ञातः परमार्थो वास्तविकार्थों यैस्तेऽज्ञातपरमार्थाः पुरुषास्तैः कूटस्थनित्ये पुरुषे बुद्धिधर्माः सुख-दुःखादय आरोप्यन्त इति सुख-दुःखाद्याधारतया पुरुषप्रतीतिन्तैिवेति तथाविधायास्तस्या नापलाप इति भावः। अन्यगतधर्माणामन्यत्रारोपतस्तथाप्रतीतिर्भवतीत्यत्र दृष्टान्तमाह-भटविजयपराजयी राशीवति-रणे मल्लप्रतिमल्लभावेनान्योऽन्यं नतां भटानां मध्ये यस्य जयः पराजयो वा भवति तज्जय-पराजयौ तत्स्वामिनि राजनि आरोग्यासौ राजाऽमुं राजानं जितवान् अनेन राज्ञा वा पराजित इति बुद्धिरारोपरूपत्वाद् भ्रान्ता यथा भवति तथेत्यर्थः । साङ्खथमते पुरुषमुपादाय प्रकृत्यादिकं पञ्चविंशतिविधं तत्त्वमिति क्रमेण प्रकृत्यादिस्वरूपं निरूपयितुमाह-प्रकृतिरिति- सत्त्व-रजस्तमसां साम्यावस्था प्रकृतिरिति गीयते।। " सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरु वर्णकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ १॥" [ ] ___इतीश्वरकृष्णवचनाद् यद् वस्तु लघुताशालि प्रकाशकताशालि तत् सत्त्वं साङ्खयाचार्यरिष्टम् , उपष्टम्भकं यदि रजो गुणो न भवेत् तदा गुरुणा तमसा प्रतिरुद्धं सत्त्वं स्वकार्य न साधयेदित्युपष्टम्भकं- सत्त्वादेः कार्यकरणे उत्तम्भक सहकारि रजः, तथा यदि रजोगुणो न भवेत् तर्हि गुरुणा तमसा व्याप्तं वस्त्वक्रियमेव भवेत् ततश्चलं चलनात्मकक्रियाविष्टं रज उपयते, एवं च गुर्वपि रजसा चालितं सद् वस्तु सक्रियं भवति, यदि तमो न भवेत् तदा रजसा चालितं लघु सत्त्वोपेतं वस्तु सर्वदा चलेदेव न क्वचिदवस्थानमासादयेत् , गुरुणा तमसाऽवष्टब्धं सर्वदा चलितुमशक्नुवत् किञ्चिच्चलति किञ्चिन्न चलत्यपीति गुरु तमः, एवं यदि तमो न स्यात् प्रकाशकस्वभावेन सत्त्वेनालिङ्गितं वस्तु सर्वदा प्रकाशेत एव कदाचिदप्यप्रकाशो न भवेदिति वरणकमावरणकारि तमः, एवं च यदा तमसः सत्त्वापेक्षया प्राबल्यं तदा न प्रकाशते, यदा च दौर्बल्यं तदा प्रकाशत इति सिद्धयतः प्रकाशाऽप्रकाशाविति निरुक्तवचनाभिप्रेतार्थः । सा च प्रकृतिः अचेतना न चेतयते, चेतनात्मकपुरुषाभेदारोपाच्च चेतनेव भवति । एवं परिणामिनी बुद्धयाद्यात्मना परिणमते । प्रकृतेर्न किञ्चित् कारणं तस्या अपि कारणाभ्युपगमेऽनवस्थानं प्रसज्यत इति न कार्यस्वरूपा सा किन्तु सर्वस्य कार्यस्य कारणमित्याह- आदिकारणं च । तस्याश्च प्रकृतेः पुनः। आद्यपरिणामः प्रथमपरिणामः, प्रकृतिः सत्त्वोद्रेकात् प्रथमतो बुद्धिरूपेण परिणमत इत्यर्थः । “बुद्धिरुपलब्धिनिमित्यनान्तरम् " [ ] इति गौतमसूत्रात् कौशाच्च बुद्धिर्ज्ञानमिति व्यवहियते लोके, नात्र तगृहणं किन्तु बुद्धिरन्तःकरणम् , तस्याश्च महत्तत्त्वमिति नामान्तरमित्याहमहत्तत्त्वापरपर्यायेति । बुद्धरेव ज्ञानाऽज्ञानादयो धर्मा न चैतन्यस्वरूपस्यात्मन इत्याह - तस्या इति-बुद्धरित्यर्थः। शानाऽज्ञानेत्यत्र ज्ञानपदेनैव ज्ञानस्वरूपाया बुद्धग्रहणे पुनर्बुद्धि-सुखेत्यत्र ग्रहणं बुद्धरन्तःकरणस्य धर्मोऽन्तःकरणरूपा बुद्धिर्न भवति, किन्तु ज्ञानस्वरूपा बुद्धिरपि साङ्खयाभिमता, सा च बुद्धिधर्म इत्यावेदनाय । अपीत्यनेन 'तस्या धर्माः' इत्यनुकृष्यते । ननु अनुभवात् कालान्तरे स्मृतेरुत्पत्तये तद्वयापारो भावनाख्यसंस्कारो नैयायिकैरुपेयत इति भावनाख्यसंस्कारः साङ्ख्यमते बुद्धिधर्मो भवितुमर्हतीति भावनाया अपि बुद्धिधर्मतया कथनमुचितमित्यत आह-भावनाया इतिभावनास्यसंस्कारस्येत्यर्थः। तर, साइपः। अनमीकारात भनभुपगमात् । नम्वेवं कालान्तरीमानुभवाद स्मत्युत्पत्या Page #420 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। ३४९ मूलप्रकृतिरविकृतिः, महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो, न प्रकृतिर्न विकृतिः पुरुषः ॥ १॥ [ ] इति, पञ्च महाभूतान्येकादशेन्द्रियाणि चेति षोडशको वर्गः, तत्राचेतनाया अचेतनप्रकृतिकार्याया बुद्धेश्चैतन्याभिमानानुपपत्या स्वाभाविक-चैतन्यरूपः पुरुषः सिद्ध्यति । चैतन्यस्य तु नित्यस्य स्वाभाविकेष्टाऽनिष्टविषयावच्छिन्नत्वस्वभावे अनिर्मोक्षापत्तिः, प्रकृत्यधीनत्वेऽपि विषयावच्छिन्नत्वस्य तस्याऽति( पि) नित्यतया तथैवानिर्मोक्षत्वापत्तिः, घटादेरेवानित्यस्य चैतन्यावच्छेदस्य व्यासङ्गानुपपत्तिः, अतो मनः सिद्ध्यति, तत्सम्बद्धेन्द्रियस्य विषयचैतन्यावच्छेदनियामकत्वम् । स्वप्नावस्थायां 'व्याघ्रोऽहम् ' वराहो. ऽहम् ' इत्यभिमानो दृश्यते, न तु ' नरोऽहम् ' इत्यभिमानः, अस्ति च तत्र नरत्वं सन्निहितमिन्द्रियव्यवहितपूर्वसमयेऽसतः कथं स्मृत्युत्पत्तिरित्यत आह- अनुभवस्यैवेति-तथा च स्मृत्युत्पत्त्यव्यवहितपूर्वसमये सूक्ष्मरूपेणावस्थितादेवानुभवात् स्मृत्युत्पत्तिसम्भवे भावनाख्यसंस्कारकल्पनं परेषामप्रामाणिकमित्याशयः । प्रकृत्यादिपञ्चविंशतितत्त्वं साथसम्मतमित्यावेदनाय तत्प्रतिपादिकामीश्वर कृष्णकारिकामुपनिबध्नाति-तदुक्तमिति । मूलप्रकृतिःबुद्धयाद्यशेषविकृतिप्रथमकारणं प्रकृतिः। अविकृतिः न कस्यापि कार्यमिति विकृतिरूपा न भवति । महदाद्याः सप्त महदहङ्कारपञ्चतन्मात्राणि । प्रकृतिविकृतय इति- महत्तत्त्वमहङ्कारस्य कारणमिति प्रकृतिः, मूलप्रकृतेः कार्यमिति विकृतिरिति प्रकृतिविकृतिः अहङ्कारः, पञ्चतन्मात्रादिषोडशविकारकारणमिति प्रकृतिः, महत्तत्त्वस्य कार्य इति विकृतिरित्येवं प्रकृतिविकृतिः. पञ्चतन्मात्राणि पञ्चमहाभूत कारणमिति प्रकृतिः, अहङ्कार कार्यमिति रीत्येवं प्रकृतिविकृतिरित्यर्थः । षोडशकश्च एकादशेन्द्रियाणि पञ्च भूतानीत्येवं षोडशसङ्खयको गणः। विकारः अहङ्कारस्य कार्यत्वादेकादशेन्द्रियाणि विकृतिः, पञ्चतन्मात्रकार्यत्वात् पञ्च महाभूतानि विकृतिः, न चायं षोडशको गणः कस्यापि तत्त्वान्तरस्य कारणमिति प्रकृतिनं भवति, यद्यपि मृदाद्यात्मिका पृथिवी घटादेः कारणं भवति तथापि न तस्य तत्त्वान्तरत्वमिति बोध्यम् । पुरुष: चैतन्यस्वरूपो न कस्यापि कारणमिति न प्रकृतिः प्रकृतिर्न भवति, एवं न कस्यापि कार्यमिति न विकृतिः विकृतिर्न भवतीत्यर्थः । षोडशको वर्ग: क इत्यपेक्षायामाहपञ्चेति । ननु प्रकृत्यादित एव जगदुत्पद्यत इति निष्प्रयोजनत्वात् पुरुषः प्रकृतिविकृत्यनात्मको नाभ्युपेय इत्यत आहतत्रेति- पञ्चविंशतितत्त्वेष्वित्यर्थः। अचेतनाया इति- यदि पुरुषधर्माः सर्वेऽपि बुद्धावेवाभ्युपगतास्तहि चैतन्यमपि पुरुषधर्मो बुद्धिधर्म एवास्त्विति कथं बुद्धिरचेतनेत्यपेक्षायामाह- अचेतनप्रकृतिकार्याया इति- कार्यकारणयोरभेदात् कारणस्याचैतन्ये कार्यस्याप्यचैतन्यमित्यचेतनप्रकृतिकार्यत्वाद् बुद्धरचैतन्यं सिद्धयतीत्यर्थः, तथा चाचेतनाया बुद्धेश्चेतनोऽहं करोमीति चैतन्याभिमानो नातिरिक्तचेतनमन्तरेणेति बुद्धिगतचैतन्याभिमानानुपपत्त्या स्वाभाविकचैतन्यरूपः पुरुषः सिद्धयतीति । बुद्धयहङ्कारादिकल्पनस्यावश्यकत्वमुपदर्शयति-चैतन्यस्य विति- चैतन्यस्य पुरुषस्य इष्टानिष्टविषयावच्छेदस्वभावो यदि स्वाभाविकस्तदा पुरुषस्य नित्यत्वात् तत्स्वभावोऽपि नित्य एवाभ्युपेयः, अन्यथा स्वभाव-तद्वतोरभेदात् स्वभावनाशे तद्वतः पुरुषस्यापि नाशः स्यादिति कूटस्थनित्यता तस्य भज्येत, एवं च, स्वाभाविकेष्टानिष्टविषयावच्छिन्नस्वभावः पुरुषः सदैवेत्यनिर्मुक्त एव प्रसज्येतत्यर्थः । ननु प्रकृतिरुपेयत एव, तदधीन एव पुरुषस्येष्टानिष्टविषयावच्छेदस्वभाव इत्यौपाधिक एवेति तन्नाशान्मुक्तिर्भविष्यतीत्यत आह-प्रकृत्यधीनत्वेऽपीति- विषयावच्छिन्नत्वस्य प्रकृत्यधीनत्वेऽपीत्यन्वयः । तस्यापि प्रकृत्यधीनविषयावच्छिन्नत्वस्यापि । नित्यतयेति- उपाधिसन्निधानस्यानित्य एवौपाधिकस्यानित्यत्वम् , उपाधि सन्निधानस्य नित्यत्वे त्वौपाधिकस्यापि नित्यत्वमेव, प्रकृते चैतन्यरूपपुरुषो नित्यो विभुश्च, प्रकृतिरपि नित्या विभ्वी चेति पुरुषे प्रकृतिसन्निधानस्य सदेव भावेन तन्निबन्धनस्येष्टानिष्टविषयावच्छेदस्यापि सर्वदा भावादनिर्मोक्षापत्तिस्तदवस्थैवेत्यर्थः । ननु घटादेरेवानित्यस्य चैतन्यावच्छेदस्वभाव इति घटादिनाशात् तद्गतचैतन्यावच्छेदस्वभावस्यापि नाशे पुरुषस्य मोक्षो भविष्यतीत्यत आह-घटादिरेवेति- घटादेश्चैतन्यावच्छेदस्वभावे घटादिज्ञानं भवति, तदभावे न भवतीत्यभ्युपेयं स्यात्, किन्तु घटादेश्चैतन्यावच्छेदस्य यदाऽपि भावस्तदापि कदाचिद् घटज्ञानं कदाचित् पटज्ञानमित्येवं व्यासजस्यानुपपत्तिः स्यादित्यर्थः । अतो ब्यासङ्गानुपपत्तिप्रसङ्गभयात् । मनः सिद्धयतीति-मनोऽभ्युपगमे च कथं व्यासङ्गोपपत्तिरित्यपेक्षायामाह-तत्सम्बनेन्द्रियस्येति-मनःसंपचारादीन्द्रियस्मत्यर्थः, तथा मनसा संयुकस्य पारादेवन Page #421 -------------------------------------------------------------------------- ________________ ३५० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः। मनःसम्बन्धश्चेति तद्भिन्नोऽहङ्कारो नियतविषयाभिमानव्यापारः स्वीकार्यः । सुषुप्ताविन्द्रियस्य व्यापारविरतावपि यद्व्यापारादुच्छ्वास-प्रश्वाससन्ततिर्जायते तद् बुद्धितत्त्वं प्रागुक्तभावाष्टकयोगि स्वीकार्यम् , तस्य ज्ञानरूपपरिणामेन सम्बन्धो विषयः पुरुषस्य स्वरूपतिरोधायकः । एवं च बुद्धितत्त्वनाशादेव विषयावच्छेदाभावात् पुंसो मोक्षः, भेदाग्रहाच्च । चेतनोऽहं करोमि' इत्यभिमानः, अत एव" प्रकृतेः क्रियमाणानि, गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा, कर्ताहमिति मन्यते ॥" [गीता, अ० श्लो० ] इति स्मर्यत इति । अत्र नैयायिकादयः- ' चेतनोऽहं करोमीति बुद्धरसति बाधके भ्रमत्वायोगाच्चैतन्यकृत्यादिधर्मवत्येव बुद्धिः स्वीकर्तव्या, तथा च आत्मनो नामान्तरमेतत् , अथ 'बुद्धिरचेतना परिणामित्वात् तन्तुवत्' इति चेत् ? तर्हि 'बुद्धिर्न कृतिमती तत एव तद्वत् ' 'न धर्मा-ऽधर्मादिमती जन्यत्वाद् घटवद्' विषयेण यदा सम्बन्धस्तदानीं तद्विषय पुरुषयोरवच्छेद्यावच्छेदकभाव इति कदाचिद् घटज्ञानं कदाचित् पटज्ञानमिति व्यासङ्ग उपपद्यत इति भावः । अहङ्कारकल्पनस्यावश्यकत्वं दर्शयति-स्वप्नावस्थायामिति । तद्भिन्नः मनोभिन्नः, अन्यत् स्पष्टम् । बुद्धितत्त्वाभ्युपगमस्यावश्यकत्वं दर्शयति-सुषुप्ताविन्द्रियस्येति । तस्य बुद्धिसत्त्वस्य । घटः पट इत्याकारको यो ज्ञानात्मकपरिणामस्तेन सह विषयविषयिभावसंबन्धेन संबद्धो घटपटादिलक्षणो विषयः पुरुषस्यान्यासम्पृक्ताखण्डचैतन्य. स्वरूपस्य तिरोधायक आवरको भवति, तथा च स्वविषयकबुद्धिपरिणामज्ञानातात्त्विकसंबन्धात् पुरुषसम्बद्धो घटादिः पुरुषस्वरूपतिरोधायक इत्यर्थः। बुद्धिपरिणामेन ज्ञानेन पुरुषस्य यो घटमहं जानामीत्येवंस्वरूपोऽतात्त्विकसम्बन्धः स एवो. पलब्धिरुच्यते, तथा च बुद्धितत्त्वबलादेव परम्परया पुरुषे विषयसम्बन्धलक्षणो विषयावच्छेद इति बुद्धितत्त्वनाशाद् विषयावच्छेदस्याप्यभावान्मोक्षो भवतीत्याह-एवं चेति । भेदाग्रहाच्च बुद्धया सह पुरुषस्य यो भेदस्तदग्रहात् पुनः । उक्कार्थे भगवद्गीतावचनसंवादमाह- अत एवेति- बुद्धया पुरुषस्य भेदाग्रहाच्चेतनोऽहं करोमीत्यभिमानस्य भावादेवेत्यर्थः। प्रकतेरिति-प्रकृतेर्गुणै:- सत्त्व-रज-स्तमोभिः, क्रियमाणानि सर्वशः कर्माणि कार्याणि, किन्तु अहङ्कारविमूढः- बुद्धया सह भेदेनागृहीत आत्मा-पुरुषोऽहं कर्तेत्येवं मन्यत इत्यर्थः । निरुक्तप्रकृत्यादिपञ्चविंशतितत्त्वाभ्युपगमप्रवणसांख्यमतायुक्तत्वावेदनाय तन्मतखण्डनपटिष्टयुक्तिकल्पननिष्णातान् नैयायिकादीन् प्रतिमल्लतयोत्थापयति- अत्रेति । नैयायिकादय इति- अस्य आहुरित्यनेन सम्बन्धः । किमाहुरित्यपेक्षायामाह-चेतनोऽहं करोमीति बुद्धरिति-अस्य भ्रमत्वायोगादित्यनेन सम्बन्धः, चेतनोऽहं करोमीति बुद्धिर्यदि चैतन्यांशे भ्रमात्मिका स्यात् तदा कर्तरि महत्तश्वे चैतन्यस्यारापोपपत्तयेऽन्य. श्वेतनः स्वीकरणीयः स्यात्, क्वचित् प्रमितमेवान्यत्रारोप्यते नाप्रमितमिति नियमात् , बाधके सति भ्रमत्वं भवति नान्यथा, न च कर्तरि चैतन्यस्य किञ्चिद् बाधकं समस्तीति य एव कर्ता स एव चेतन इति चैतन्य कृत्यादिधर्मवत्येव बुद्धिः स्वीकरणीया, एवं च परमते य एव चेतनः कर्ता च तस्यैवात्मेति संज्ञेत्यात्मशब्दसंशब्दिते पुरुषे बुद्धिरिति नामान्तरं, न तु तदन्यतत्त्वान्तरं बुद्धिशब्दवाच्यमित्यर्थः । ननु बुद्धौ कर्तृतयाऽभ्युपगतायां चैतन्यस्य बाधकमस्त्येवानुमानं प्रमाणमित्याशङ्कते- अथेति । तन्तुवदिति- यथा तन्तुः पटरूपेण परिणमत इति परिणामित्वात् तन्तुरचेतनस्तथा बुद्धिरहवाररूपेण परिणमत इति परिणामित्वाद् बुद्धिरचेतनेत्यर्थः । परिणामित्वादचैतन्यवदकर्तृत्वमपि साधयितुं शक्यते, तत्रापि तन्तुवदिति दृष्टान्तोद्भावनस्य कर्तुं शक्यत्वादिति प्रतिवन्द्या समाधत्ते-तहीति । तत एव परिणामित्वादेव । तद्वत् तन्तुवत् । अन्यदप्यनिष्टमेवं साधयतः साङ्ख्यस्य प्रसज्यत इत्याह-न धर्माऽधर्मादिमतीति- घटो यथा जन्यत्वान्न धर्माऽधर्मादिमान् तथा बुद्धिरपि जन्यत्वान्न धर्माऽधर्मादिमतीत्यर्थः। सांख्य आह- न स्यादिति- जन्यत्वहेतुना बुद्धौ धर्माधर्माद्यभावसाधनं न भवेदित्यर्थः। तत्र हेतुमाह- अनुकलेति- बुद्धौ जन्यत्वमप्यस्तु धर्माधर्मादिमत्त्वमप्यस्त्विति व्यभिचारशङ्कानिवर्तकतर्काभावादित्यर्थः। यदि व्यभिचारशङ्कानिवर्तकतर्काभावात् संदिग्धव्यभिचारोऽप्रयोजको वा जन्यत्वहेतुर्न बुद्धौ धर्माधर्मादिमत्त्वाभावसाधनाय प्रगल्भते तर्हि परिणामित्वमपि हेतुरनुकूलतर्काभावात् संदिग्धव्यभिचारोऽप्रयोजको वा.न चैतन्याभावसाधने समर्थः । तत्रापि परिणामित्वमस्तु चेतनत्वमप्यस्त्वित्येवं व्यभिचारस्य शक्तुिं शक्य Page #422 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ३५१ इत्यादिकमपि स्यात्, न स्याद् अनुकूलतर्काभावादिति चेत् ? तुल्यमुभयत्र । किञ्च, यदि बुद्धिनित्या तदा बुद्धिकृतभोगावच्छेदस्य सर्वदाऽऽत्मनः सत्त्वादनिर्मोक्षापत्तिः, यद्यनित्या तर्हि जन्येतरस्यानित्यत्वायोग्यत्वात् जन्या वाच्या, तथा च तदुत्पत्तेः प्राक् तदाश्रितस्य धर्मादेरप्यभावे बुद्धितत्त्वस्यानुत्पत्ती नियतशरीरेन्द्रियादेरप्यभावेऽसंसारः स्यादिति न किश्चिदेतद् ' इत्याहुः ॥ १११ ॥ अत्र वेदान्त-साक्ष्यदर्शनयोः शुद्धा-ऽशुद्धद्रव्यार्थिकप्रकृतिकत्वं यदुक्तं तत्राविशेषदृष्ट्या भेदबीजाभावमाशङ्कते यद्यप्येतन्मतेऽप्यात्मा, निर्लेपो निर्गुणो विभुः। अध्यासाद् व्यवहारश्च, ब्रह्मवादेऽपि सम्मतः ॥ ११२ ॥ नयामृत-यद्यपीत्यादि । यद्यपि एतन्मतेऽपि- साक्ष्यमतेऽपि, आत्मा निलेप:- कर्तृत्वादि. लेपरहितः, निर्गुण:- गुणस्पर्शशून्यः, विभुः- व्यापकश्चेति शुद्धात्माभ्युपगमेन उभयत्र शुद्धितौल्यम्, न च भोक्तृत्वस्योपचरितस्यात्मन्यभ्युपगमेन साङ्ख्यदर्शने वेदान्तदर्शनापेक्षया अशुद्धत्वम् , यतोऽध्यासाद् व्यवहारो ब्रह्मवादेऽपि सम्मतः- ब्रह्मवादिनोऽपि हि बुद्धिगुणान् ज्ञानादीन् आत्मनि कल्पितानेवाभ्यु त्वादिति समाधत्ते- तुल्यमुभयत्रेति । विकल्पजर्जरिता च साङ्ख्याभिमता बुद्धिरित्याह-किञ्चेति । बुद्धनित्यत्वे पुरुषस्यानिर्मोक्षापत्तिमुपदर्य तस्या अनित्यत्वं दूषयति- यद्यनित्यति बुद्धिरित्यनुवर्तते । जन्या वाच्येति-बुद्धिर्जन्या भावत्वे सत्यनित्यत्वाद् घटवदित्यनुमानमत्र बोध्यम् । भवतु जन्यत्वं बुद्धेः का नो हानिरित्यत आह-तथा चेति-बुद्धर्जन्यत्वे चेत्यर्थः । तदुत्पत्तेः प्राक् बुद्धयुत्पत्तेः प्राकाले । तदाश्रितस्य बुद्ध्याश्रितस्य । धर्मादेरभाव इति- नहि धर्मा धर्मिणमन्तरेणावतिष्ठन्ते इति बुद्धिरूपधर्म्यभावकाले बुद्धयाश्रितानां धर्माधर्मादिधर्माणामभावो न्यायप्राप्त एवेति । बुद्धितत्त्वस्यानुत्पत्ताविति-धर्माधर्मादीनां बुद्धयुत्पत्ति प्रति कारणत्वमवश्यमुपेयम् , अन्यथा मुक्तात्मानमधिकृत्यापि बुद्धयत्पत्तिः स्यात् , तथा च मुक्तस्यापि पुनः संसारः स्यात् , एवं च बुद्धयुत्पत्तितः प्राक् तत्कारणस्य धर्मादेरभावे बुद्धितत्त्वस्यानुत्पत्तावित्यर्थः । नियतशरीरेन्द्रियादेरप्यभाव इति" ऊचं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥१॥"[ 1 __इति सात्त्विकबुद्धिसम्बन्धादू लोके देवादिशरीराद्युत्पत्तिः, राजसबुद्धिसम्बन्धान्मध्यलोके मनुष्यादिशरीराद्युत्पत्तिः, तामसबुद्धिसम्बन्धादधोलोके नारकीयशरीराद्युत्पत्तिरित्येवं योनिनियतशरीरेन्द्रियादिकस्यापि बुद्धितत्त्वानुत्पत्तौ बुद्धिरूप. कारणाभावादभाव इत्यर्थः । असंसार: स्यात् बुद्धितत्त्वसम्बन्धप्रयुक्तनियतशरीरेन्द्रियादिजन्येष्टानिष्टभोक्तृत्वलक्षणबन्ध एव संसारः, स कारणाभावान स्यात् । साङ्ख्यमतखण्डनमुपसंहरति- इतीति । न किञ्चित् किञ्चित् तत्त्वनिरूपणसमर्थ न । एतत् साङ्खथमतम् ॥ १११ ॥ द्वादशोत्तरशततमपद्यमवतारयति- अत्रेति । वेदान्तेति- शुद्धद्रव्यार्थिकसङ्घहनयप्रकृतिकत्वं वेदान्तदर्शनस्य अशुद्धद्रव्यार्थिकव्यवहारनयप्रकृतिकत्वं साख्यदर्शनस्यास्मिन् ग्रन्थे यत् प्रागुपदर्शितं तत्र वेदान्त-साङ्ख्यदर्शनयोरविशेषदृष्टया विशेषो नास्तीति बुद्धया भेदबीजाभावं वेदान्तदर्शन शुद्धद्रव्यार्थिकप्रकृतिकं साङ्ख्यदर्शममशुद्धद्रव्यार्थिकमित्येवं भेदस्य कारणाभावमाशङ्कते इत्यर्थः, विवृणोति- यद्यपीत्यादीति- तथाप्युपनिषदृष्टीत्यादिपञ्चदशोत्तरशततमपद्यस्य तथापीत्यपेक्षो यद्यपीति । एतन्मतेऽपीत्यस्य विवरण- सायमतेऽपीति । निर्लेप इत्यस्य-कर्तृत्वादिलेपरहित इति विवरणम् , एवमप्रेऽपि । इति शुद्धात्माभ्युपगमेन एवं प्रकारेण शुद्धात्मनः साङ्ख्यमतेऽप्यभ्युपगमेन । उभयत्र वेदान्त-सालयदर्शनयोः शुद्धितौल्यं समानैव शुद्धिः । साङ्क्षयदर्शनेऽशुद्धत्वमाशङ्कय प्रतिक्षिपति-न चेति । निषेधहेतूपदर्शनमुत्तरार्द्धमित्याह- यत इति । ब्रह्मवादे वेदान्तदर्शनेऽध्यासाद् व्यवहारमेवोपपादयति- ब्रह्मवादिनोऽपीति Page #423 -------------------------------------------------------------------------- ________________ ३५२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । पयन्ति न पारमार्थिकान्, इति नायमपि प्रकार उभयोः शुद्ध्य( द्धि )विशेषाय ॥ ११२ ॥ प्रत्युतात्मनि कर्तृत्वं, साङ्यानां प्रातिभासिकम् । वेदान्तिनां च निर्वाच्यं, मतं तद् व्यवहारिकम् ॥ ११३ ॥ नयामृत-प्रत्युत इति । प्रत्युतेति वैपरीत्ये, साख्यानां मते कर्तृत्वम् , उपलक्षणाद् भोक्तृत्वादि च, प्रातिभासिकं- अन्यस्थमेवान्यत्रारोपितम् , वेदान्तिनां तु मते नान्तःकरणधर्माणां कर्तृत्वादीनां कर्तव्यम् , तच्च परमार्थतोऽसदपि व्यवहारतः सदिति स्थूलव्यवहारानुरोधाद् वेदान्तदर्शन एवाशुद्धत्वं स्यात्, अविद्ययाऽपि अन्यधर्ममात्मन्यस्पर्श[ यदु]पचारेण च व्यवहारबलं कुण्ठमतिनिश्चलबलं चोत्ते. जयतीति साझ्यदर्शने एव शुद्धत्वं स्यादिति भावः ॥ ११३ ।। किश्च, सत्कार्यवादित्वादपि साङ्क्षयस्य न व्यवहारानुरोधित्वम् , व्यवहारनयो हि कारणव्यापारानन्तरमेव कार्योत्पत्तिं पश्यन्नसत्कार्यपक्षमेवाश्रयते, न च क्षणिकासत्कार्यानभ्युपगममात्रेणास्य अस्य 'अभ्युपयन्ति' इत्यनेनान्वयः। अयम् अभोक्तृत्वस्येत्याशङ्काग्रन्थोपदर्शितोऽपि । उभयोः वेदान्त-साङ्खयदर्शनयोः। “शुद्धया(द्धि)विशेषाय" इत्यस्य स्थाने "शुद्धयशुद्धिविशेषाय" इति पाठो भवितुमर्हति ॥ ११२॥ शुद्धद्रव्यार्थिकप्रकृतिकत्वाच्छुद्धत्वं वेदान्तदर्शने, अशुद्धद्रव्यार्थिकप्रकृतिकत्वादशुद्धत्वं साङ्खयदर्शने इति यद् भवतोऽनुमतं तन्न समीचीनं यत आत्मनि प्रातिभासिकं कर्तृत्वं न तु व्यावहारिकमित्यभ्युपगन्तृसाङ्खघदर्शनस्यैव शुद्धत्वम्, व्यावहारिक कर्तृत्वमात्मन इत्यभ्युपगन्तृवेदान्तदर्शनस्यैवाशुद्धत्वमित्यावेदकं त्रयोदशोत्तरशततमपद्यं विवृणोति- प्रत्युतेतीति । प्रत्युतशब्दोऽत्र वैपरीत्ये वर्तत इत्याह-प्रत्युतेति। वैपरीत्योपदर्शकमात्मनीत्यादिकं विवृणोति- सायानामिति । मते इति पूरणम् । मूलस्थं कर्तृत्वं भोत्कृत्वादिकमुपलक्षयतीत्याह- उपलक्षणाद् भोक्तत्वादि चेति । प्रातिभासिकमित्यस्य विवरणम् - अन्यस्थमेवान्यत्रारोपितमिति- प्रकृते अन्यत्र बुद्धौ स्थितं कर्तृत्वभोक्तृत्वादिकमन्यत्रात्मन्यारोपितमिति प्रातिभासिकं तदित्यर्थः । मूले “वेदान्तिनां च निर्वाच्यं मतं तद् व्यवहारिकम्" इत्यस्य स्थाने " वेदान्तिनां त्वनिर्वाच्य मतं तद् व्यावहारिकम् " इति पाठः सम्यग् । तद्विवरणं-- वेदान्तिनां त्विति । मते इति पूरितम् । “कर्तव्यम्, तञ्च" इत्यस्य स्थाने " आत्मन्यारोपः, किन्वनिर्वाच्यमात्मनि कर्तृत्वादिकम् , च" इति पाठः सम्यक्, तच्च अनिर्वाच्यं कर्तृत्वादिकं च। "अविद्ययाऽपि " इत्यस्य स्थाने " अविद्यापि " इति पाठः सम्यग, अस्य अस्पर्शयन्तीत्यनेन कुण्ठयतीत्यनेन उत्तेजयतीत्यनेन चान्वयः, " अन्यधर्ममात्मन्यस्पर्श यदु)पचारेण" इति स्थाने “अन्यधर्ममात्मन्यस्पर्शयन्ती, उपचारेण" इति पाठः सम्यक् , अन्यधर्म बुद्धिधर्म कर्तृत्वादिकम् , आत्मन्यस्पर्शयन्ती आत्मनि सम्बद्धमकुर्वती सती, "कुण्ठमतिनिश्चय" इत्यस्य स्थाने "कुण्ठयति निश्चय" इति पाठः सम्यक् , आत्मनि कर्तृत्वादिकमौपचारिकमेवेति कृत्वोपचारत एवात्मनि कर्तृत्वादिव्यवहार इति व्यवहारबलं कुण्ठयति-वस्तुसाधनासमर्थं करोति, यो यत्र कर्मण्यसमर्थः स तत्र कुण्ठ इत्युच्यते, निश्चयतश्च नात्मनि कर्तृत्वादिकमिति निश्चयबलमुत्तेजयति- पुष्णाति । इति एतस्मात् कारणाद् व्यवहारानुरोधिवेदान्तदर्शनतो निश्चयानुरोधिनि साङ्ख्यदर्शन एवोपचारानाश्रयणाच्छुद्धत्वं स्यादित्युक्तपद्यभावार्थ इत्यर्थः ॥ ११३ ॥ चतुर्दशोत्तरशततमपद्यमवतारयति-किश्चेति- साङ्ख्यस्य सत्कार्यवादित्वं च- " असदकरणादुपादानग्रहणात् सर्वसम्भवात् । शकस्य शक्यकरणात् कारणाभावाच्च सत् कार्यम् ॥" [ साङ्ख्यकारिका ] इतीश्वरकृष्णकारिकया व्यवस्थापितम्। साङ्ख्यस्य सत्कार्यवादित्वेऽपि कथं न व्यवहानुरोधित्वमित्यपेक्षायामाह-व्यवहारनय इति- अस्य पश्यन्नित्यनेन आश्रयते इत्यनेन चान्वयः । ननु व्यवहारोऽपि क्षणिकासत्कार्यवादमृजुसूत्रनयाभिप्रेतं नाभ्युपगच्छति साङ्ख्योऽपि च तं नाभ्युपैतीत्येतावता साङ्ख्यस्य व्यवहारानुरोधित्वमित्याशङ्कय प्रतिक्षिपति-न चेति । अस्य साङ्ख्यस्य । निषेधहेतुमुपदर्शयति-तदनभ्युपगमेति-साख्यस्य क्षणिकासत्कार्यानभ्युपगमेऽपीत्यर्थः। उत्पत्त्यनभ्युपगमेन स्वाधिकरण. Page #424 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समतो नयोपदेशः । ३५॥ व्यवहारपक्षपाति( त्वम् ), तदनभ्युपगमेऽप्युत्पत्त्यनभ्युपगमेन व्यवहारबहिर्भावादित्यभिप्रायं स्पष्टीकरणपूर्वकं निगमयन्नाह अनुत्पन्नत्वपक्षश्च, निर्युक्तौ नैगमे श्रुतः। नेति वेदान्ति-साडयोक्त्योः , सङ्ग्रह-व्यवहारता ॥ ११४ ॥ नयामृत-अनुत्पनेत्यादि । अनुत्पन्नत्वपक्षश्च नियुक्तो-नमस्कारनियुक्ती, नैगमे- नैगमनये श्रुतः, " उप्पन्नाणुपन्नो इत्थ णयाऽऽइनिगमस्साणुप्पन्नो । सेसाणं उत्पन्नो" [ ] इति वचनात् । तथा चानुत्पत्तिवादी साक्ष्यो नैगमनयमेवोपजीवेत् , व्यवहारिकोत्पत्तिवादी वेदान्ती च व्यवहारनयमिति भावः, इति-हेतोर्वेदान्तिसाक्ष्योक्त्योः - तद्दर्शनयोः, सङ्ग्रह-व्यवहारता- सङ्ग्रह-व्यवहाराख्यशुद्धा- शुद्धद्रव्यार्थिकप्रकृतिकता न भवति, तथा च सम्मातै तथोक्तेः का गतिरिति भावः ॥ ११४ ॥ समाधत्ते तथापीति द्वयेन तथाप्युपनिषद् दृष्टिसृष्टिवादात्मिका परा। तस्यां स्वप्नोपमें विश्वे, व्यवहारलवोऽपि न ॥ ११५ ॥ साजधशास्त्रे च नानात्मव्यवस्था व्यवहारकृत् । इत्येतावत् पुरस्कृत्य विवेकः सम्मतावयम् ॥ ११६ ॥ नयामृत-तथापीति । तथापि उपनिषद्- वेदान्तदर्शनप्रवृत्तिः, दृष्टिसृष्टिवादात्मिका पराउत्कृष्टा, मूलाभियुक्ताभ्युपगतत्वात् , तस्यां चाज्ञातसत्त्वाभावेन स्वप्नोपमे विश्वे- जगति सति व्यवहार. क्षणध्वंसानधिकरणलक्षणसम्बन्धात्मकप्रथमक्षणसम्बन्धरूपाया उत्पत्तेरनभ्युपगमेन । व्यवहारबहिर्भावात् प्रथमक्षणसम्बन्धरूपोत्पत्त्यभ्युपगन्तृव्यवहारनयाद् बहिर्भूतत्वात् । इत्यभिप्रायम् इत्याकारकाशयम् । स्पष्टीकरणपूर्वकं स्पष्टावेदनपुरस्सरम् । विवृणोति - अनुत्पन्नेत्यादीति । निर्युक्तावित्यस्य स्पष्टीकरण- नमस्कारनिर्युक्ताविति- वेन नियुक्तिग्रन्थबहुप्रकरणकत्वेन तत्र कुत्रोक्तमिति जिज्ञासाया नोन्मेषः । 'नैगमेऽनुत्पन्नत्वपक्ष' इत्यस्य प्रतिपादकं नमस्कारनियुक्तिवचनमुकयति-उत्पन्न० इति-" उत्पन्नानुत्पन्नोऽत्र नय आदिनिगमस्यानुत्पन्नः । शेषाणामुत्पन्नः" इति संस्कृतम् । तथा व मैगमनयस्यानुत्पन्नत्वपक्ष इति व्यवस्थितौ च । व्यवहारनयमित्यनन्तरमुपजीवेदित्यस्यानुवृत्तिः। मूले इतिशब्दो हेतुपर इत्याशयेनाह- इति हेतोरिति- एतस्मात् कारणादित्यर्थः। वेदान्ति-साङ्ख्ययोरित्यस्य विवरणम्-तदर्शनयोरिति-वेदान्त-साजयदर्शनयोरित्यर्थः । सङग्रह-व्यहारतेत्यस्य विवरणम्-सग्रह-व्यवहाराख्यशुद्धाशुद्धद्रव्यार्थिकप्रकृतिकतेति । नेति मूलं भवतीति क्रिया ' यत्रान्यत् क्रियावाचि पदं न श्रूयते.' इत्यादिवचनप्रामाण्यादुपात्ता । तथा च वेदान्त-साडयदर्शनयोः शुद्धाशुद्धद्रव्यार्थिकप्रकृतिकत्वाभावव्यवस्थितौ च । “सम्मात" इति मुद्रणदोषात्, अत्र “सम्मतौ" इति पाठः समुचितः, तस्य सम्मतिग्रन्थे इत्यर्थः । तथोक्तः वेदान्ति-साडयदर्शनयोः शुद्धाशुद्धद्रव्यार्थिकप्रकृतिकत्वकथनस्य, तथा च सम्मतिप्रन्थस्य तत्प्रतिपादकवचनमसङ्गतमिति । इति भावः प्रश्नयितुरेवमाशयः ॥११४॥ पद्यद्वयं युगपदेवावतारयति- समाधत्ते तथापीति द्वयेनेति- तथापीत्यादिपद्यद्वयेनोक्तां शङ्का समाधत्ते- निराकरोतीत्यर्थः । विवृणोति-तथापीतीति- एवं सत्यपीत्यर्थः। उपनिषदित्यस्य विवरणं-वेदान्तदर्शनप्रवृत्तिरिति । परेत्यस्य विवरणम्- उत्कृष्टति । दृष्टसृष्टिवादात्मिकैव वेदान्तदर्शनप्रवृत्तिरुत्कृष्टेत्यत्र हेतुमाह-मूलाभियुक्तति- वेदान्त ४५ . Page #425 -------------------------------------------------------------------------- ________________ ३५४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। लवोऽपि-लेशोऽपि नास्ति, तन्मते जामव्यवहारस्य स्वप्नव्यवहारतुल्यत्वात् , तथा च मौलस्य वेदान्तदर्शनस्य व्यवहारापेतरवेन व्यवहारप्रकृतिता, किन्त्वेकात्मसङ्ग्रहप्रवणतया सङ्ग्रहप्रकृतितैव, आकाशोदकपातकल्पमूलदर्शनप्रवृत्तावेव चेयं नयप्रकृतिचिन्ता, इति नार्वाचीनवेदान्तिनां मिथोविरुद्धकल्पनाकोटिक्लेशपराहतानां व्यवहाराभाससमर्थनेनापि प्रतिश्रुतव्याहतिरिति हृदयम् ॥---- साङ्खथेति । सायशास्त्रे च नानात्मनां व्यवस्था प्रतिनियतजन्ममरणादिव्यवहारकृद् भवति, इत्येतावत् पुरस्कृत्य- तात्पर्यविषयीकृत्यायं विवेकः सम्मतौ, यदुत- व्यवहारप्रकृतिकं साक्ष्यदर्शनं सङ्ग्रहप्रकृतिकं च वेदान्तदर्शनमिति, वेदान्तप्रकृतिभूतसङ्गन्हनयेनैकतया विषयीकृतस्यात्मनः भेदकरणेन सङ्ग्रहविषयभेदकत्वलक्षणसमन्वयाद् व्यवहारप्रकृतिकत्वं सायदर्शनस्य विवक्षितमिति तात्पर्यम् , तेन सत्का. दर्शनप्रवर्तकैराप्तैष्टिसृष्टिवादस्यैवाभ्युपगतत्वादित्यर्थः । तस्यां च दृष्टिसृष्टिवादात्मकवेदान्तदर्शनप्रवृत्तौ तु, प्रपञ्चमात्रस्य ज्ञातसत्त्वमुपैयत इत्येतस्मात् कारणाद् अज्ञातसत्त्वाभावेन स्वप्नोपमे खप्नसदृशे, स्वप्ने दृश्यमानं वस्तु तत्कालीनमेवेति ज्ञातसद् यथा तथा जगदपि यदैव ज्ञायते तदैव सत् नान्यदेति, विश्वे इत्यस्य विवरणं- जगतीति, सतिसप्तमीयमित्यावेदनाय सतीति । "लेशोऽपि" इत्यस्य स्थाने " व्यवहारलेशोऽपि" इति पाठः सम्यग, व्यवहारलवोऽपी. त्यस्य विवरणं- व्यवहारलेशोऽपीति । अत्र हेतुमाह- तन्मत इति - दृष्टि सृष्टिवादिमत इत्यर्थः, जाग्रद्वयवहारस्य स्वप्नव्यवहारतुल्यत्वेन स्वप्नव्यवहारो यथा मिथ्या तथा जाप्रव्यवहारोऽपि मिथ्यैवेति भावः । तथा च वेदान्तदर्शनप्रवृत्तेदृष्टिसृष्टिवादात्मकत्वव्यवस्थितौ च । मौलस्य मूलाभियुक्ताभ्युपगतस्य । वेदान्तदर्शनस्य दृष्टिसृष्टिवादात्मकवेदान्तदर्शनस्य । व्यवहारापेतत्वेन व्यवहाररहितत्वेन, “व्यवहारप्रकृतिता" इत्यस्य स्थाने "न व्यवहारप्रकृतिता" इति पाठः समुचितः। यदि वेदान्तदर्शनस्य न व्यवहारप्रकृतिकत्वं तर्हि किंप्रकृतिकत्वमिति पृच्छतिकिन्विति । उत्तरयति- एकात्मेति- एकस्मिन्नात्मनि तत्स्वरूपतो जगत एव सङ्ग्रहस्य प्रवणतया वेदान्तदर्शनस्य सङ्कहप्रकृतितैवेत्यर्थः । उक्तपद्याभिप्रायमुपदर्शयति-आकाशोदकपातेति- आकाशादुदकस्य यत् पतनं तद् यदैव दृश्यते तदैव समस्ति तद्वद् जगदपि यदैव दृश्यते तदैवास्तीत्येवमभ्युपगमप्रवणं मूलदर्शनं दृष्टि सृष्टिवादात्मकवेदान्तदर्शनमाकाशोदकपातकल्पमूलदर्शनं तस्य प्रवृत्तावेव, एवकारेण दृष्टिसृष्टिवादभिन्नवेदान्तदर्शनप्रवृत्तिव्यवच्छदः । इयं नयप्रकृतिचिन्ता वेदान्तदर्शनं शुद्धद्रव्यार्थिकन यप्रकृतिकं साङ्ख्यदर्शनमशुद्धद्रव्यार्थिकनय प्रकृतिकमित्येवं नयविचारणा । इति एतस्मात् कारणात् , नञः प्रतिश्रतव्याहृतिरित्यनेनान्वयः । अर्वाचीनवेदान्तिनां नवीनवेदान्तिनाम् , एषामेव विशेषणं-मिथोविरुद्धकल्पनाकोटिक्लेशपराहतानामिति- एको वेदान्ती यथा कल्पयति, अन्यो वेदान्ती तत्कल्पनाविरुद्धामेव कल्पना पूत्करोतीत्येवं मिथोविरुद्धकल्पनानां या कोटि:- कोटिपदमत्रापरिमितसङ्खयापरं, तथा चापरिमित सङ्खचकमिथोविरुद्धकल्पनात्मकक्लेशपराहतानामित्यर्थः, उक्तविशेषणशालिनां नव्यवेदान्तिनां यद् व्यवहाराभासस्य समर्थनं तेनापि, प्रतिश्रुतस्य- प्रतिज्ञातस्य वेदान्तदर्शने शुद्ध द्रव्याथिकनयप्रकृतिकत्वस्य, व्याहतिः- भङ्गो नेत्येतादृशं हृदयं-रहस्यमित्यर्थः ॥ ११५ ॥ षोडशोत्तरशततमपद्यं विवृणोति- साहयतीति । व्यवहार कृदित्यस्य विवरणं- प्रतिनियतजन्ममरणादिव्यवहारकृद् भवतीति- नानात्मनां स्वीकार।देव केषाञ्चिन्नरके जन्म, केषाश्चिद् देवगतौ जन्म, केषाश्चित् तिर्यग्गतौ जन्म, एकस्य यदा जन्म तदाऽपरस्य कस्यचिन्मरणम् , एकोऽमुकशास्त्रज्ञाताऽपरस्तदन्यशास्त्रप्रवीणोऽन्यः सर्वशास्त्रनिपुणः कश्चित् किञ्चिज्ज्ञः, कश्चिद् बद्धः कश्चिन्मुक्त इत्येवं प्रतिनियतजन्ममरणादिव्यवहारो भवतीति नानात्मव्यवस्था व्यवहारकृदित्यर्थः । इत्येतावत् एतावन्मात्रम् । पुरस्कृत्येत्यस्य विवरणं तात्पर्यविषयीकृत्येति । अयं विवेकः सम्मतावित्यस्य फलितार्थमाह- यदुतेति । निरुक्तपद्यभावार्थमावेदयति- वेदान्तेति - वेदान्तदर्शनस्य प्रकृतिभूतो यः शुद्धद्रव्यार्थिकः . सङ्ग्रहनयस्तेनैकतया विषयीकृतस्यात्मनो यद् भेदकरणम् - एको बद्धोऽपरो मुक्त इत्येवं विभजनं नानात्माभ्युपगमनमिति यावत् , तेन सङ्ग्रहविषयभेदकत्वं यद् व्यवहारनयस्य लक्षणं तस्य समन्वयात्- साङ्ख्यदर्शने घटनात् साङ्ख्यदर्शनस्य व्यवहारनयप्रकृतिकत्वं सम्मतिका विवक्षितमिति तात्पर्यम्- अभिप्राय इत्यर्थः । तेन उक्तदिशा साडयदर्शने व्यवहार Page #426 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । विंशे व्यवहारप्रकृतित्वाभावेऽपि न क्षतिः, आत्मन एव सकलशास्त्रप्रयोजनभागित्वेन मुख्यत्वान्मुख्योदेशेनैव च नयानां प्रकृतिविकृतिचिन्ताया युक्तत्वादिति भावः ॥ ११५-११६ ॥ यद्येवं सहङ्घ-व्यवहारौ वेदान्त-साङ्ख्यदर्शनप्रवर्तकौ, नैगमनयस्तर्हि कस्य दर्शनस्य प्रवर्तक इति जिज्ञासायाह हेतुर्मतस्य कस्यापि शुद्धाशुद्धो न नैगमः। अन्तर्भावो यतस्तस्य सङ्ग्रह-व्यवहारयोः ॥ ११७ ॥ . नयामृत-हेतुरिति । सामान्य विशेषादुभयग्राहित्वेन शुद्धाशुद्धो नैगमनयः कस्यापि मतस्यदर्शनस्य, न हेतु:- न प्रकृतिः, यतः सामान्यग्रहाय प्रवृत्तस्य सङ्ग्रह एव, विशेषग्रहाय च प्रवृत्तस्य व्यवहार एवान्तर्भाव इति तदुभयभिन्नं स्वात्मानमेवालभमानस्य न भिन्नदर्शनप्रकृतिकत्वमभिधातुं युज्यत इति ॥ ११७ ॥ कुतस्तर्हि वैशेषिकदर्शनमुत्पन्नं कथं वा तन्न सम्यगित्याकाङ्खायामाह द्वाभ्यां नयाभ्यामुन्नीतमपि शास्त्रं कणाशिना । अन्योऽन्यनिरपेक्षत्वान्मिथ्यात्वं स्वमताग्रहात् ॥ ११८ ॥ नयामृत०-द्वाभ्यामिति । द्वाभ्यां- सामान्य-विशेषग्राहिभ्यां सङ्घह-व्यवहाराभ्यां नयाभ्याम् , उन्नीतं- पृथग व्यवस्थापितमपि, कणाशिना- कणादमुनिना, शास्त्रम् , अन्योऽन्यनिरपेक्षत्वात्- परस्परद्वयावलम्बनमेव शास्त्रस्य सम्यक्त्वप्रयोजकम् , किन्तु यथास्थाने तद्विनियोगः, स च स्वप्रयुक्तभङ्गविविक्तद्रव्य-पर्यायोभयावगाहित्वात् , स्वमताग्रहात्- स्वकल्पनाभिनिवेशात् , मिथ्यात्वम् , नहि नयजयप्रकृतिकत्वस्याभ्युपगमेन, अस्य न क्षतिरित्यनेनान्वयः, कथमेवमपि न क्षतिरित्यपेक्षायामाह- आत्मन एवेति अस्य मुख्यत्वादित्यनेनान्वयः, अन्यत् स्पष्टम् ॥ ११६ ॥ सप्तदशोत्तरशततमपद्यमवतारयति- यद्यवमिति। विवृणोति-हेतुरितीति । “सामान्य-विशेषादुभयग्राहित्वेन" इत्यस्य स्थाने “ सामान्यविशेषोभयग्राहित्वेन" इति पाठः सम्यग, नैगमो यदि सामान्यमेव गृह्णीयाद् विशेषमेव वा गृह्णीयात् तर्हि शुद्धः स्यात् न चैवम्, किन्तु सामान्यमपि गृह्णाति विशेषमपि गृह्णातीत्येवं सामान्यविशेषोभयप्राहित्वेनेत्यर्थः । मतस्येत्यस्य विवरणं दर्शनस्येति । न हेतुरित्यस्य विवरण-न प्रकृतिरिति । अत्रोत्तरार्दोक्तं हेतुं विवृणोति- यत इति- एतदनन्तरं तस्येति दृश्यम्, तस्य- नैगमस्य । कथमेकस्य तस्य सङ्ग्रहेऽन्तर्भावो व्यवहारे चाऽन्तर्भाव इत्यपेक्षायामाह- सामान्यग्रहायेति । एवं च सङ्ग्रह-व्यवहारभिन्नो नैगमनयो नास्ति कस्य भिन्नदर्शनहेतुत्वमित्याह-तदुभयभिन्नमिति-सङ्ग्रह-व्यवहारान्यतरभिन्नमित्यर्थः, तेनोभयभेदस्य केवलान्वयित्वेऽपि न क्षतिः । स्वात्मानमेव नेगमनयस्वरूपमेव । अलभमानस्य अप्राप्नुवतो नैगमनयस्य । “भिन्नदर्शनप्रकृतिकत्व" इत्यस्य स्थाने “भिन्नदर्शनप्रकृतित्व" इति पाठो युक्तः, भिन्नदर्शनकारणत्वं वक्तुं न घटत इत्यर्थः ।।११७॥ ___ अष्टादशोत्तरशततमपद्यमवतारयति- कुत इति- कस्मान्नयादित्यर्थः, अस्य 'उत्पन्नम्' इत्यनेनान्वयः । कथं वा कस्मात् कारणाद्वा। तन्न सम्यग् वैशेषिकदर्शनं न समीचीनम् । विवृणोति-द्वाभ्यामिति । द्वाभ्यामित्यस विवरण- सामान्य-विशेषग्राहिभ्यां सङ्गह-व्यवहाराभ्यामिति । उन्नीतमित्यस्य विवरणं-पृथगू व्यवस्थापितमिति। कणाशिनेत्यस्य विवरण- कणादमुनिनेति । कथं कणादमुनिप्रणीतं वैशेषिकदर्शनाख्यं शास्त्रं मिथ्यात्व मित्यपेक्षायां हेतूपदर्शकमुत्तरार्द्ध विवृणोति-अन्योऽन्यनिरपेक्षत्वादिति । अन्योऽन्यनिरपेक्षत्वं सामान्य-विशेषात्मकार्थयोरेव न तु तत्प्रतिपादकशास्त्रस्येत्यतस्तद्विवरण- परस्परविविक्तद्रव्य-पर्यायोभयावगाहित्वादिति- शास्त्रजन्य Page #427 -------------------------------------------------------------------------- ________________ ३५६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । द्वयेतरयावद्भङ्गानां स्याद्वादलाञ्छितानां परस्परसाकाङ्क्षाणां तात्पर्यविषयतया सम्पद्यते, एकतरस्याप्यतात्पर्य सिद्धान्तविराधनाया अपरिहारात् , तदाह " जे वयणिज्जविअप्पा संजुज्जन्तेसु होन्ति एएसु । सा ससमयपन्नवणा सिद्धन्तविराहणा अण्णा (तित्थयरासायणा अण्णा ) ॥" [सम्मतिप्र० का० गा० ५३ ] ___ तदिह सामान्य-विशेषयोगः कुतस्तरामन्येषां भङ्गानामिति स्फुटमेव मिथ्यात्वम् , अतिरिक्तसामान्यविशेषापेक्षां विना महासामान्य-ऽन्यविशेषयोरिव वस्तुमात्रस्य स्वत एव सामान्य-विशेषात्मकत्वमित्यर्थस्यैव यथावन्नयद्वयविनियोगरूपत्वात्, अन्यथाऽनवस्थानात् , तदिदमुक्तम् - ज्ञानस्य निरुक्कोभयावगाहित्वात् तजनकशास्त्रस्यापि निरुक्तोभयावगाहित्वमिति बोध्यम् । स्वमताग्रहादित्यस्य विवरणंस्वकल्पनाभिनिवेशादिति- कर्तुः स्वकल्पनाऽभिनिवेशः शास्त्रेऽपि तदवबोधके बोध्यः । मिथ्यात्वं प्रकृते मिथ्यैव मिथ्यात्वम् । ननु नयद्वयालम्बित्वानशास्त्रं यथा सम्यक्त्वमश्चति, तथा वैशेषिकशास्त्रेऽपि नयद्वयावलम्बित्वमस्तीति कथं न तस्य सम्यक्त्वमित्यत आह- नहीति- अस्य सम्यक्त्वप्रयोजकमित्यत्रान्वयः। यदि नयद्वयालम्बनं न शास्त्रस्य सम्यक्त्वप्रयोजकं तर्हि वाच्यं तत्प्रयोजकमिति पृच्छति-किन्विति । उत्तरयति- यथास्थान इति । तद्विनियोगः नयद्वयविनियोगः । स च नयद्वयविनियोगश्च, अस्य 'सम्पद्यते' इत्यनेनान्वयः । स्वप्रयुक्तेति- भङ्गद्वयं चेतरयावद्भशाश्च भनद्वयेतरयावद्भशाः, खप्रयुक्ताश्च ते जयद्वयेतरयावद्भङ्गाश्च स्वप्रयुक्तभङ्गद्वयेतरयावद्भङ्गास्तेषां खप्रयुक्तभावयेतरयावद्भङ्गानाम् , भङ्गद्वयस्य- स्यादस्त्येवेति स्यान्नास्त्येवेति भङ्गद्वयस्य सङ्ग्रहव्यवहारनयद्वयप्रयुक्तत्वे ऋमिकतदुभय-युगपत्तदुभयादिसंयोजनोपजातस्वरूपाणां तृतीय-चतुर्थ-पञ्चम-षष्ट-सप्तमभङ्गानामपि नयद्वयप्रयुक्तत्वमित्यावेदनायाद्य-द्वितीयभङ्गयोभनद्वयशब्देनाभिधानम् । कथम्भूतानां तेषामित्याकाङ्क्षायां तद्विशेषणमाह- स्याद्वादलाञ्छितामिति, परस्परसाकाडाणामिति च । कथं सर्वेषामेव भङ्गानामुक्तविशेषणविशिष्टानां तात्पर्यविषययत्वे सत्येव सम्यक्त्वं सम्भवति नान्यथेत्यत आह- एकतरस्यापीति सप्तानां निरुक्कभङ्गानां मध्यादेकस्यापि भङ्गस्येत्यर्थः। अतात्पर्ये तात्पर्याविषयत्वे । सिद्धान्तविराधनायाः स्याद्वादशद्धान्तावहेलनायाः । अपरिहारात् परिहर्तुमशक्यत्वात् । उक्तार्थं सम्मतिप्रन्थस्य गाथासंवादमाह-तदाहेति । जे० इति- “य वचनीयविकल्पाः संयुक्तयोर्भवन्त्यनयोः। सा स्वसमयप्रज्ञापना सिद्धान्तविराधना अन्या ॥" इति संस्कृतम्। तत् तस्मात् । इह स्वतन्त्रसामान्य-विशेषोभयप्ररूपके वैशेषिकदर्शने । सामान्येति- सामान्ययोगः प्रथममङ्गे विशेषयोगो द्वितीयभङ्गे इत्येवं भङ्गद्वये सामान्य-विशेषयोगसम्भवेऽपि तृतीयादिभङ्गानां सामान्य-विशेषयोः परस्परसापेक्षयोः सम्मेलनत एव सम्भवित्वेन परस्परनिरपेक्षसामान्य-विशेषयोगः कथमपि न सम्भवतीति वैशेषिकशास्त्रं स्पष्टमेव मिथ्यात्वम्, कुतस्तरामित्यनेन परस्परनिरपेक्षसामान्य-विशेषयोः स्वरूपत एवाभावात् प्रथमद्वितीयभायोरपि तादृश. सामान्यविशेषयोगो न सम्भवतीत्यावेदितम् । यथा महासामान्येऽतिरिक्तसामान्यं नास्ति, अन्त्यविशेषेऽनिरिक्तविशेषो नास्ति. अथापि महासामान्यस्य स्वत एव सामान्यरूपत्वम् , अन्त्यविशेषस्य च स्वत एव विशेषरूपत्वम्, तथैव वस्तुमात्रस्यैवातिरिक्तसामान्य-विशेषापेक्षामन्तरेणैव खत एवानुवृत्तिरूपत्वात् सामान्यात्मकत्वं स्वत एव व्यावृत्तिरूपत्वाद् विशेषरूपमित्येवं वस्तुमात्रस्य खत एव सामान्य-विशेषात्मकत्वमित्येव यथावन्नयद्वयविनियोगः, स च स्याद्वाद एवेति स्याद्वादस्यैव सम्यक्त्वं न तु वैशेषिकशास्त्रस्य तद् यथोक्तनयद्वयविनियोगाभावान्मिथ्यात्वमेवेत्याशयेनाह - अतिरिकेति । अन्यथा वस्तुमात्रस्य स्वतः सामान्य-विशेषानात्मकत्वस्याङ्गीकारे। अनवस्थानादिति- घट-पटादौ घटोऽयं घटोऽयमित्यनुगतप्रतीत्यनुरोधेन घटत्वसामान्यस्य पटोऽयं पटोऽयमित्यनुगतप्रतीत्यनुरोधेन पटत्वसामान्यस्य, एवं मठत्वादिसामान्यस्य च यथाऽतिरिक्तस्यानीकारः; एवमयं घटोऽस्माद् घटाद् भिन्नः, अयं पट एतस्मात् पटाद् भिन्न इत्यादिव्यावृत्तिप्रत्ययानुरोधेनातिरिक्तस्य विशेषस्याजीकारः, Page #428 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कतो नयोपदेशः । स्वतोऽनुवृत्ति-व्यतिवृत्तिभाजो, भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्त्वात् , द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥" [अन्ययोगव्यवच्छेदद्वात्रिंशिका श्लो० ] एतेन नैयायिकदर्शनमपि व्याख्यातम् , पदार्थप्रमाणादिभेदं विना प्रायस्तस्य वैशेषिकदर्शनसमान. विषयत्वादिति दिक् ॥ ११८ ॥ - ननु सङ्ग्रह-व्यवहारयोरेव विषयविवेकेन नैगमस्यान्तर्भावे तस्य पार्थक्ये किं बीजम् ? अदर्शनेऽपि किञ्चित् कल्पयाम इति चेत् ? तर्हि दृष्टं स्वतन्त्रद्रव्य-पर्यायोभयविषयत्वमेव तथास्तु, तथा च तत एव कणादमतोत्पत्तियुक्तति परीक्षापूर्वमाह स्वतन्त्रव्यक्ति-सामान्यग्रहायेष्टे तु नैगमे ।। औलूक्यसमयोत्पत्तिं ब्रूमहे तत एव हि ॥ ११९ ॥ नयामृत-स्वतन्त्रेति- स्पष्टार्थः । अत्र चार्थे प्रदर्शितन्यायेन द्रव्य-पर्यायरूपमुभयमपि परस्परविविक्तमेकत्र विद्यत इत्यभिप्राय:, " नैगमोऽशुद्धद्रव्यास्तिकप्रकृतिः" इति सम्मतिवृतिस्वरसोऽपीति ध्येयम् ॥ ११९ ॥ तथा घटत्वं सामान्यं पटत्वं सामान्य मठत्वं सामान्यमित्येवं सामान्येष्वप्यनुगतप्रत्ययानुरोधेन सामान्यत्वसामान्यस्यातिरिक्तस्याभ्युपगमः स्यात् , एवं तत्रापीत्यनवस्थानं स्यात्, विशेषेऽपि चायं विशेष एतस्माद् विशेषाद् भिन्न इति व्यावृत्तिप्रत्ययानुरोधेन विशेषेऽप्यतिरिक्तविशेषस्तत्राप्यतिरिक्तविशेष इत्यनवस्थानं प्रसज्येतेत्यतो वस्तुन एव स्वतः सामान्यविशेषात्मकत्वमभ्युपेयमित्यर्थः, उक्तार्थे श्रीहेमचन्द्रसूरिवरवचनसंवादमाह- तदिदमुक्तमिति । स्वत इति- स्वत एवानुवृत्ति व्यावृत्तिभाजः, अनुगतप्रतीतिव्यावृत्तिप्रत्यययोर्विषयत्वाज्जनकत्वाच सामान्यविशेषात्मका घट-पटादययो भावा भावान्तरेण- आश्रयव्यतिरिकेन सामान्येन विशेषेण च नेयरूपा:- ज्ञाप्यरूपा अनुगत-व्यावृत्तिप्रतीतिविषया न, एवं च परात्मतत्त्वाद्- वस्त्वात्मकाश्रयव्यतिरिक्तसामान्य-विशेषात्मकतत्त्वात् , कथम्भूतात् ? अतथात्मतत्त्वात्- तथाऽऽत्मतत्त्वं न भवतीत्यतथात्मतत्त्वं तस्मात् , वस्तुव्यतिरिक्तसामान्य-विशेषतत्त्वं न भवत्येवेत्यतः शशशङ्गकल्पात् , द्वयम्-अनुवृत्तिव्यावृत्तिबुद्धिद्वयम् , वदन्तः- कथयन्तो वैशेषिकाः, अकुशलाः- तत्त्वनिरूपणासमर्थाः स्खलन्ति- वादरणभूमौ पराजयलक्षणां स्खलनां प्राप्नुवन्तीत्यर्थः, एतेन वैशेषिकदर्शनखण्डनेन, अस्य व्याख्यातमित्यनेनान्वयः। व्याख्यातं खण्डिततया व्याख्यानं खण्डितं भवतीति । एकमतखण्डने तदन्यमतस्य खण्डनं कथमित्यत आह- पदार्थप्रमाणादिभेदं विनेति- पदार्थप्रमाणादिसङ्ख्याभेदं विनेत्यर्थः । वैशेषिकमते द्रव्यादयः सप्त पदार्थाः, प्रत्यक्षानुमाने द्वे एव प्रमाणे, नैयायिकदर्शने प्रमाण-प्रमेयादयः, पदार्थाः षोडश, प्रमाणानि प्रत्यक्षा-ऽनुमानोपमान-शब्दाख्यानि चत्वारीत्येवं पदार्थप्रमाणसङ्खथाभेदः। न्यायभेदे समवायस्य प्रत्यक्षं भवति, वैशेषिकमते यावत्सम्बन्धिप्रत्यक्षे सत्येव सम्बन्धप्रत्यक्षमिति नियमात् सम्बन्धिनां परमाण्वादीनां प्रत्यक्षाभावात् समवायो न प्रत्यक्ष इत्यपि विशेषोऽस्तीत्यत उक्तम्-प्राय इति । तस्य नैयायिकदर्शनस्य ॥ ११८॥ एकोनविंशत्युत्तरशततमपद्यमवतारयति-नन्वित्यादिना, विषयविवेकेन सामान्यविषयकत्वात् सामान्यविषयकनगमस्य समहेऽन्तर्भावः, विशेषविषयकत्वाद् विशेषविषयकनगमस्य व्यवहारेऽन्तर्भाव इत्येवं विषयविवेकेन । तस्य नैगमस्य । पार्थक्ये सहप्रह-व्यवहाराभ्यां भिन्नत्वे, अन्ये देवसूरिप्रभृतयः सङ्ग्रह व्यवहाराभ्यां नेगमस्य पार्थक्यमामनन्तीत्यत्र किं बीजमित्यर्थः । शहते- अर्शनेऽपीति-नेगमपार्थक्यबीजस्यादर्शनेऽपि. किश्चिन्नैगमपार्थक्यबीजं कल्पयांम इत्यर्थः । समाधत्ते-तहाँति- अदृष्टस्य कस्यचिन्नैगमपार्थक्यबीजस्य कल्पनापेक्षया लाघवान्नैगमे दृष्टमेव सामान्यविशेषोभयविषयकत्वं Page #429 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। ऋजुसूत्रादितः सौत्रान्तिकवैभाषिको क्रमात् । अभूवन् सौगता योगाचारमाध्यमिकाविति ॥ १२० ॥ नयामृत-ऋजुसूत्रादित इति । ऋजुसूत्रादितः- ऋजुसूत्र-शब्द-समभिरूढेवम्भूतेभ्यः, क्रमात् सौत्रान्तिको वैभाषिको योगाचारो माध्यमिकश्चेति चत्वारः, सौगता अभूवन्- उदपद्यन्त, एतेषां स्वरूपमेतेन काव्येन ज्ञेयम्"अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणेष्यते, प्रत्यक्षो नहि बाह्यवस्तुविसर: सौत्रान्तिकैराश्रितः ।। योगाचारमतानुगैरभिमता साकारबुद्धिः परा, मन्यन्ते बत मध्यमाः कृतधियः स्वच्छां परां संविदम्" ॥१॥ [ ] इति, एतद्विशेषावगमपुष्पमदार्थिना तु मत्कृतलताद्वयं परिशीलनीयम् । अत्र वैभाषिकस्य शब्दनय तथाऽस्तु पार्थक्यबीजमस्त्वित्यर्थः । तथा च उक्तदिशा सङ्ग्रह-व्यवहाराभ्यां नैगमस्य पार्थक्ये च । तत एव नैगमादेव । स्वतन्त्रेतीति- स्पष्टार्थत्वादिदं पद्यं न व्याख्यायत इत्याह- स्पष्टार्थ इति । अत्र चार्थे एतत्पद्यप्रसिद्धार्थे । प्रदर्शितन्यायेन अनन्तरोपदर्शितयुक्त्या। एकत्र एकस्मिन् धर्मिणि । उक्तार्थे सम्मतिवृत्तिस्वारस्यं दर्शयति- नैगम इति ॥ ११९॥ ऋजुसूत्रादिपर्यायार्थिकनयचतुष्टयतो बौद्ध चतुष्टयस्य सौत्रान्तिक-वैभाषिक-योगाचार-माध्यमिकाभिधस्य दर्शनानि जातानीत्यावेदकं विंशत्युत्तरशततमपद्यं विवृणोति-ऋजुसुत्रादित इतीति । ऋजुसूत्रादित इत्यस्य विवरणम्ऋजुसूत्रशब्दसमभि भ्य इति । क्रमादिति - ऋजुसूत्रात् सौन्नान्तिकः, शब्दाद् वैभाषिकः, समभिरूढाद् योगाचारः, एवम्भूतान्माध्यमिक इत्येवं चत्वारः सौगताः- बौद्धाः, अभूवन उदपद्यन्तेत्यर्थः। सौत्रान्तिकादिपदं सौत्रान्तिकदर्शनादिपरम् । संक्षेपतश्चतुण्णी बौद्धानां स्वरूपमावेदयितुमाह- एतेषामिति- अनन्तरमुपदिष्टानां सौत्रान्तिकादीनां चतुर्णी बौद्धानामित्यर्थः । एतेन अनन्तरमेव वक्ष्यमाणेन । ज्ञानसमन्वितोऽर्थः यदैव ज्ञानं तदैव तद्विषयोऽर्थः । ज्ञानविषययोः समकालमेवोत्पत्तिरिति मतिमता सूक्ष्मबुद्धिशालिना, वैभाषिकेण वैभाषिकसंज्ञकेन बौद्धविशेषेण, इण्यते स्वीक्रियते, सौत्रान्तिकः, सौत्रान्तिकाख्यैबौद्ध विशेषः, बाह्यवस्तुविसरः बाह्यवस्तुविषयकः, प्रत्यक्षः प्रत्यक्षात्मकबोधः, नाश्रितो नैव स्वीकृतः, वैभाषिकमते समानकालीनसामग्रीतो बाह्यवस्तु-तज्ज्ञानयोरुत्पत्तिरिति तयोर्विषयविषयिभावसम्बन्ध इष्यते, तेन निराकारमेव ज्ञानं तद्विषयकत्वात् तसिद्धिनिबन्धनम् , सौत्रान्तिकमते प्रथमक्षणे प्रत्यक्षकुर्वद्रूपात्मकं क्षणिकं स्वलक्षणाभिधेयं बाह्यवस्तु ततो द्वितीयक्षणे तन्नाशस्तदाकारज्ञानोत्पत्तिश्चेति तदाकारमेव ज्ञानं न तु तद्विषयकं तयोभिन्नकालत्वात् , किन्तु तदाकारं ज्ञानं तदन्तरेण न सम्भवतीति तदाकारज्ञानात् तस्य सिद्धिरित्येवमनयोर्विशेषः, योगाचारमतानुगैः योगाचारमतानुसरणशीलैः, परा उत्कृष्टा बाह्यवस्त्वभावेन बाह्यवस्तुजन्यत्वाभावात् , साकारबुद्धिराश्रिता स्वीकृता, पूर्वपूर्वविज्ञानक्षणेनोत्तरोत्तां तत्तदाकारं विज्ञानं जायते, तस्य तत्तदाकारत्वं च वासनाविशेषबलादेव न बाझवस्तुबलादिति न तत्तदाकारबलाद् बाह्यवस्तुसिद्धिरुपेयत इति बाह्यवस्त्वभ्युपगन्तृत्व-तदनभ्युपगन्तृत्वाभ्यां साकारविज्ञानाभ्युपगन्त्रोरपि सौत्रान्तिक-योगाचारयोर्विशेषः। मध्यमाः माध्यमिकबौद्धविशेषमतानुयायिनः, कृतधियो निर्मलबुद्धिमन्तस्स्वच्छामाकारविषयविषयिभावरहितामत एव परामुत्कृष्टां, संविदं बुद्धिं. मन्यन्ते स्वीकुर्वन्तीत्यर्थः । विस्तरभयादत्र सौत्रान्तिकादीनामृजुसूत्रादिप्रकृतिकत्वपल्लवनं न क्रियते, किन्तु मत्कृतलताद्वये विस्तरेण तदुपपादनं समस्ति तदवलोकनीयं तद्विशेषाभिज्ञानार्थिनेति ग्रन्थकृदुपदिशति-एतद्विशेषेति- एतस्य-अनन्तरमुपदर्शितस्य बौद्धमतचतुष्टये ऋजुसूत्रादि. पर्यायार्थिकनयचतुष्टयप्रकृति कत्वस्य यो विशेषोऽवान्तरवैलक्षण्यं तदवगमात्मकं यत् पुष्पमदं- मधु तदर्थिना- तदभिलाषुकेन, मत्कृतलताद्वयं श्रीयशोविजयोपाध्यायनिर्मितलतानामकग्रन्थद्वयम् , परिशीलनीयं सर्वतोऽभ्यसनीयमित्यर्थः । ऋजुत्र-- नयाभ्युपगतक्षणिकात्मकपर्यायाभ्युपगन्तृत्वात् सौत्रान्तिकानामृजुसूत्रपक्षपातित्वस्य स्पष्टं प्रतीयमानत्वेऽपि वैभाषिकादीनां Page #430 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । पक्षपातित्वं नित्याऽनित्यशब्दवाच्य पुद्गलाभ्युपगमात्, ज्ञाना·ऽर्थ लक्षणयौगपद्यरूपव्यञ्जनपर्याय प्रधानत्वायोगाचार माध्यमिकयोश्च शुद्ध शुद्धतरत्वेन समभिरूढैवम्भूतपक्ष वर्तित्वमिति ॥ १२० ॥ नयसंयोगजः शब्दाऽलङ्कारादेश्च विस्तरः | चावगन्तव्यम्, कियान् वाच्यो वचस्तुल्यसङ्ख्या ह्यभिहिता नयाः ॥ १२१ ॥ नयामृत० - नयेति । शब्दाऽलङ्कारादेः - व्याकरण - साहित्यादिशास्त्रस्य च विस्तरः, नय संयोगज:- नानानयमयः, आदित एव तत्प्रवृत्तौ नानानयविवक्षायां उपजीवनात्, अन्यथा सार्वपार्षदत्वानुपपत्तेः, अत एव मीमांसका अपि द्रव्य-पर्याययोः सार्वजनीनभेदा-भेदाद्युपपत्तये व्यवहारनय. मानन्त्य - व्यभिचाराभ्यां बिभ्यन्तौ व्यक्तिशक्तिमपहाय जातौ शक्तिव्युत्पत्तये सङ्ग्रहनयं चाद्रियमाणाः स्वमतप्रवृत्तौ नयसंयोगमेवादावपेक्षन्ते यत् तु मीमांसक मतस्याशुद्धद्रव्यार्थिकव्यवहारनयप्रकृतिकत्वं शब्दनयादिपक्षपातित्वं कुतोऽवगम्यत इत्यपेक्षायामाह - अत्रेति चतुर्णां बौद्धानां मत इत्यर्थः । यद्यपि बाह्यपदार्थाभ्युपगन्तृत्वादर्थनयपक्षपातित्वमेव युकं तथापि पुद्गलात्मकस्य नित्यानित्यशब्दवाच्यतयाऽभ्युपगमाच्छन्दनय पक्षपातित्वम्, वैभाषिकोऽपि क्षणिकमेव वस्तु स्वीकरोति न नित्यमिति शब्दोऽपि न नित्यः, किन्तु नित्यमित्येवस्वरूपोऽनित्यमित्येवं स्वरूपो यः शब्दस्तद्वाच्यस्य पुद्गलस्याभ्युपगमात् न तु शब्द वाच्यं पुद्गलमभ्युपगच्छतीत्यर्थादवगम्यते, शब्दनयो हि व्यञ्जनपर्यायं प्राधान्येनाभ्युपगच्छति, वैभाषिकोऽपि तथेत्यतोऽपि शब्दनयपक्षपातित्वमस्येत्याह - ज्ञानेति - ज्ञानार्थयोर्लक्षण साधारणं यद् यौगपद्यं तद्रूपो यो व्यञ्जनपर्यायस्तत्प्रधानत्वाच्च प्राधान्येन तदभ्युपगन्तृत्वाच्च वैभाषिकस्य शब्दनयपक्षपातित्वमवगन्तव्यं ज्ञातव्यमित्यर्थः । समभिरूढनयः शुद्धः, योगाचारमतमपि बाह्यार्थावगाहित्वलक्षणाशुद्धिविगमाच्छुद्धमिति शुद्धत्वेन योगाचारस्य समभिरूढनयपक्षपातित्वम् एवम्भूतनयः शुद्धतरः, ज्ञानस्य साकारताऽप्यशुद्धिस्तदाभावादतिशुद्धं निराकारं निर्विषयकं च ज्ञानं तदभ्युपगमगन्तृत्वान्माध्यमिकमतमपि शुद्धतरमतः शुद्धतरत्वेन माध्यमिकस्यैवम्भूतनयपक्षपातित्वमित्याह -- योगाचारेति ॥ १२० ॥ शब्दा-ऽलङ्कारादीनां नयसंयोगजन्यत्वमित्यस्य यावन्तो वचनप्रकारास्तावन्तो नया इत्यस्य चोपदर्शकमेकविंशत्युत्तरशततमपद्यं विवृणोति-नयेतीति । " नानानयविवक्षायां " इत्यस्य स्थाने " नानानयविवक्षाया " इति पाठो युक्तः । अन्यथा शब्दाऽलङ्कारादेः प्रथमतः प्रवृत्तौ नानानयविवक्षाया उपजीवनाभावे, नानानयविवक्षामनुपजीव्यापि प्रथमतः शब्दा-ऽलङ्कारादिप्रवृत्यभ्युपगमे इति यावत् । सार्वपादत्वानुपपत्तेः सर्वपरिषद्व्यवस्थितजन सम्बन्धित्वानुपपत्तेः, यद्येकनयजत्वमेव शब्दाऽलङ्कारादीनां स्यात् तदननुसरणकारिणामानन्दकारित्वं शब्दालङ्कारादीनां न भवेदतस्तेषां नयसंयोजत्वमेवेत्याशयः । अत एव शब्दाऽलङ्कारादीनां नयसंयोगजत्वादेव । मीमांसका अपीत्यस्य 'आद्रियमाणाः' इत्यनेन ' अपेक्षन्ते ' इत्यनेन चान्वयः, द्रव्यपर्याययोः, सार्वेति- सार्वजनीनः- सर्वजन प्रसिद्धो यो भेदाभेदादिस्तदुपपत्तयेतत्सिद्धयर्थम्, व्यवहारनयमित्यस्य 'आद्रियमाणाः' इत्यनेनान्वयः । “बिभ्यन्तौ ” इत्यस्य स्थाने "बिभ्यत" इति पाठो युक्तः, शब्दस्य व्यक्तौ शक्तेरुपगमे व्यक्तीनामानन्त्याच्छक्केर प्यानन्त्यं प्रसज्यते, यत्किञ्चिद्व्यक्तौ शब्दस्य शक्त्यभ्युपगमे यत्रैव व्यक्तौ पदस्य शक्तिस्तस्या एव व्यक्तेः पदादुपस्थितिर्न त्वन्यासां व्यक्तीनाम्, शाब्दबोधश्च व्यक्त्यन्तराणामपीत्युपस्थितिशाब्दबुद्धयोः समानविषयत्वप्रत्यासत्त्या कार्यकारणभावो न स्यादनुपस्थितव्यक्तौ शाब्दबोधस्य भावेन व्यतिरेकव्यं भिचारादित्येवमानन्त्य-व्यभिचाराभ्यां बिभ्यतीं व्यक्तिशक्ति परित्यज्येत्यर्थः । जाती घटत्व- पटत्वादिसामान्ये । शक्तिव्युत्पत्तये घटपटादिशब्दशक्तिप्रहलक्षणशक्तिव्युत्पत्यर्थम् । सङ्ग्रहनयं सामान्यरूपेण व्यक्तीनां सङ्ग्रहणादनुगमनात् सामान्यप्राहिसङ्ग्रहम् । चः समुच्चये । आद्रियमाणा अपेक्षमाणाः । स्वमतप्रवृत्तौ भेदाभेदसामान्याभ्युपगमप्रवणमीमांसाराद्धान्त प्रवृत्यर्थम् । नयसंयोगमेव व्यवहार-सङ्ग्रहद्वय मंयोजनमेव । आदौ प्रथमम् । नत्वेवं मीमांसामतस्य व्यवहार-सङ्ग्रहनयद्वय प्रकृतिकत्वे सम्मतिग्रन्थविरोधः, तत्र तस्याशुद्धद्रव्यार्थिं कनय प्रकृतिकत्वस्यैवाभिधानादित्यत आह- यत् त्विति । नामनिक्षेपा ३५९ Page #431 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । %3 सम्मतिवृत्तौ नामनिक्षेपावसरे भाषितं तत् शब्दा-ऽर्थयोनित्यसम्बन्धमात्रवादापेक्षया, " औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः " [जैमिनिसूत्र- '] इति तत्सूत्रे औत्पत्तिक इत्यस्य विपरीतलक्षणया नित्य इति व्याख्यानात्, पूर्वपूर्वसङ्केतापेक्षायामनवस्थानान्नित्यपदसम्बन्धाभ्युपगम एव, प्रवृत्तिमूलव्यहारायन्तशुद्धशास्त्रैदम्पर्यपालोचनायां तु तस्य नयसंयोगत्वमेव युक्तम् , अन्यथा शब्दानुशासनेऽपि स्फोट. विचारे शब्दतन्मात्रसङ्ग्रहप्राधान्येन नयसंयोगजत्वं न स्यात्, नयसंयोगजत्वे शब्दादीनां कथं न स्वसमयतुल्यत्वमिति चेत् ? मूढनयानां तेषां यथावद्विभागाकरणात् , अत एव यथावनयविभागचिकीर्षया " सिद्धिः स्याद्वादात्" [सिद्धहेम० १. १. २.] इति सूत्रमुपन्यस्य श्रीहेमसूरयः स्वोपज्ञशब्दानुः वसरे नाम-- स्थापना-द्रव्य-भावनिक्षेपभेदेन निक्षेपाश्चत्वारस्तत्र नामनिक्षेपनिरूपणावमरे । भाषितम् उक्तम् । तत् मीमांसकमतस्याशुद्धद्रव्यार्थिकव्यवहारनयप्रकृतिकत्वकथनम्। शब्दा-ऽर्थयोर्नित्यसम्बन्धो मीमांसकसम्मत इत्यत्र जमिनिसूत्रव्याख्यानं प्रमाणयति- औत्पत्तिकस्त्विति-इतिशब्दः स्वरूपपरः । तत्सूत्रे मीमांसादर्शनप्रवर्तकजैमिनिमुनिप्रणीतसूत्रे । उत्पत्तिकृत औत्पत्तिक इति व्युत्पत्त्यौत्पत्तिकशब्दार्थ उत्पत्तिमान् अनित्य इति । यावत्, तथा च शब्दस्यार्थेनानित्यः सम्बन्ध इति स्यादत आह- औत्पत्तिक इत्यस्येति-औत्सत्तिक इत्येवंस्वरूपशब्दस्येत्यर्थः। विपरीतलक्षणया औत्पत्तिकविपरीते अनौत्पत्तिके लक्षणया। नन्वीश्वरानङ्गीकर्तृमीमांसकमते नित्यसङ्केतस्याभावेऽप्यनित्याधुनिकपुरुषसङ्केत एव शब्दा-ऽर्थयोः सम्बन्धोऽस्तु, तथा च न शब्दस्यार्थेन सह नित्यसम्बन्धसिद्धिरित्यत आह-पूर्वपूर्वेति- आधुनिकसंकेतस्य शब्दार्थसम्बन्धत्वे कस्यचित् पुंसो घटपदात् पटो बोद्धव्य इति सङ्केतस्यापि सम्भवेन घटपदस्य पटोऽपि शक्यार्थः स्यात् , तत्परिहाराय पूर्वपूर्वपुरुषसङ्केतापेक्ष एव सङ्केतः शब्दा-ऽर्थयोः सम्बन्ध इति वाच्यम् , तथा च पटे घटपदस्य सङ्केतो न पूर्वपूर्वसङ्केतापेक्ष इति न स सम्बन्धः, किन्तु घटे घटपदसङ्केतः पूर्वपूर्वपुरुषैरपि कृतस्तदपक्षो घटपदस्य घटे सङ्केतो घटपद-घटरूपार्थयोः सम्बन्ध इत्यनवस्था प्रसज्यत इति नित्यशक्तिलक्षणसम्बन्ध एव शब्दा-ऽर्थयोरुपेय इत्यर्थः । प्रवृत्तीति- लोके स्वर्गाद्यर्थ यागादौ या प्रवृत्तिस्तन्मूलव्यवहारादिपर्यन्तस्य शुद्धस्य जैमिनिशास्त्रेदम्पर्यस्य पर्यालोचनायांविचारणायां पुनर्मीमांसकमतस्य नयसंयोगजत्वमेव युक्तमित्यर्थः। अन्यथा उक्तपर्यालोचनायामपि मीमांसकमतस्य नयसंयोगजत्वानङ्गीकारे । शब्दानुशासनेऽपि अनुशिष्यन्ते प्रकृति-प्रत्ययादिविभागेन प्रतिपाद्यन्ते साधुशब्दा अनेनेति अनुशासनम् , शब्दानामनुशासनं शब्दानुशासनमिति व्युत्पत्त्या व्याकरणशास्त्रेऽपि, अस्य नयसंयोगजत्वमित्यनेनान्वयः। स्फोटविचार इति- स्फुटीभवत्यर्थोऽनेनेति स्फोटः, स च वर्णस्फोटः पदस्फोटो वाक्यस्फोट इति विधेति वचना त्रिविधो नित्यः शब्दस्वरूपस्तस्य विचारे । कथं शब्दानुशासने नयसंयोगजत्वानुपप्रत्तिरित्याकालानिवृत्त्यर्थमेव स्फोट. विचारे शब्दतन्मात्रसङ्ग्रहप्राधान्येनेत्युकम् , अस्ति च तत्र शब्दतन्मात्रसङ्ग्रहस्यैव प्राधान्यं स्फोटात्मकशब्दस्वरूपस्य परब्रह्मण उपगमाच्छन्दब्रह्मण एवार्थरूपेण विवर्तनादर्थमात्रस्य शब्दात्मकंब्रह्मस्वरूपत्वमित्येवं शब्दतन्मात्रसङप्रहप्राधान्यम् । अत्र शङ्कते- नयसंयोगत्वे इति । शब्दादीनामित्यत्र शब्दपदं शब्दानुशासनपरम् , आदिपदादलङ्कारादिशास्त्राणामुपग्रहः । स्वसमयेति - जैनाभिमतस्याद्वादराद्धान्तेत्यर्थः, यथा स्याद्वादराद्धान्ते नयसंयोगजत्वं तथा शब्दानु. शासनालङ्कारादिशास्त्राणामपीति स्याद्वादराद्धान्तस्य जैनसमयत्ववच्छन्दानुशासनादिशास्त्राणामपि जैनसमयत्वमापद्यतेत्यर्थः । समाधत्ते-मूढनयानामिति- अन्योऽन्यनिरपेक्षसामान्य-विशेषाद्यर्थप्राहकत्वान्मिथ्यानयानामित्यर्थः । तेषां शब्द-उलङ्कारादिशास्त्रणाम्। यथावद् विभागाकरणादिति- एतदपेक्षयेदमभिहितमेतदपेक्षया त्विदमुक्तमित्येवमपेक्षाभेदेन यनयविषयविभजन तस्याकरणान्न शब्दा-ऽलङ्कारादीनां नयसंयोगजत्वेऽपि स्वसमयतुल्यत्वमित्यर्थः । अत एव इत्यस्य 'आविश्चक्रुः' इत्यनेनान्वयः, श्रीहेमसूरय इत्यस्याप्याविश्चक्रुरित्यनेनान्वयः । स्वोपक्षेति- स्वनिर्मितेत्यर्थः, स्वपदेनात्र श्रीहेमसूरीणां प्रहणम् , स्वोपशशब्दानुशासनस्येत्यस्य दृढप्रामाण्यमित्यनेन सम्बन्धः । स्वसमयान्तर्भावेन जैनराद्धान्तान्त. विन, जैनराद्धान्तस्य निश्चितप्रामाण्यकत्वेन तदन्तर्भूतस्य श्रीहेमचन्द्ररिनिर्मितशब्दानुशासनस्यापि सुदृढं प्रामाण्यमिति । Page #432 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कृतो नयोपदेशः। शासनस्य स्वसमयान्तर्भावेन दृढप्रामाण्यमाविश्चक्रुः, सङ्केपमभिप्रेत्याह-उको विस्तरः कियान् वाच्या, यतो वाचस्तुल्यसङ्ख्या नया अभिहिताः ॥ १२१ ॥ स्याद्वादनिरपेक्षैश्च, तैस्तावन्तः परागमाः। ज्ञेयोपयुज्य तदियं, दर्शने नययोजना ॥ १२२ ॥ नयामृत-स्याद्वादेति । तैः-नयैः, स्याद्वादनिरपेक्षैः- स्याद्वादैकवाक्यतारहितः, तावन्त:वचस्तुल्यसमा एव, परागमा:- परसिद्धान्ता भवन्ति, अभिनिवेशान्वितनयत्वस्यैव परसमयलक्षणत्वात् , तदिदमुक्कं सम्मती " जावइया वयणपहा, तावइया चेव हुन्ति नयवाया। जावइया नयवाया, तावइया चेव परसमया ॥" [ तु. कागा० ४ ] ___एतावत्सु नयेष्विच्छाकल्पितसंयोगजभेदोऽपि समवायान्तरापेक्षकः सुलभ एव, इयं दर्शने नययोजनोपयुज्य ज्ञेया, न त्वापपात एव, आपातज्ञानस्य स्वसमय-परसमयविपर्यासफलत्वात् , अत एव वस्तुस्थितिविचारे " जे पजवेसु णिहिट्ठा, जीवा परसमयगतिविणिहिट्ठा । __ आयसहामि ठिया, ते सगसमया मुणेनवा ॥" [ इति दैगम्बरं वचनं [चक्रुः ] सम्यक् स्वसमयानिष्णाततामभिव्यञ्जयति, द्रव्यास्तिकाभिप्रायः स्वसमय: आविश्वका प्रकटीचक्रुः । उत्तरार्द्धमवतार्य विवृणोति-संक्षेपमभिप्रेत्याहेति । कियान वाच्य इत्यनेन विशेषतो नयविस्तरो वक्तमशक्य इति सूचितम् । कथं विशेषतो नयविस्तरो वक्तमशक्य इत्यपेक्षायामाह-यत इति ॥ ११ ॥ दर्शनगतनययोजनोपसंहारपरं द्वाविंशत्युत्तरशततमपद्यं विवृणोति- स्याद्वादेतीति । तैरियस्य विवरण- नयैरिति । स्याद्वादनिरपेक्षरित्यस्य विवरण- स्याद्वादैकवाक्यतारहितैरिति । तावन्तः इत्यस्य विवरणं-वचस्तुल्यसङ्ख्या एवेति । परागमा इत्यस्य विवरण-परसिद्धान्ता इति । भवन्तीति क्रियापदमध्याहृतम् । वचस्तुल्यसङ्खयाकानां नयानां परसमयत्वे हेतुमाह- अभिनिवेशेति- स्वमतकदाग्रहत्यर्थः । यावन्तो वचनमार्गास्तावन्तो नयाः परसमया इत्यत्र सम्मतिवचनसंवादमाह- तदिदमुक्कं सम्मताविति । जावइया० इति- “यावन्तो वचनमार्गास्तावन्तश्चैव भवन्ति नयवादाः। यावन्तो नयवादास्तावन्तश्चैव परसमयाः ॥” इति संस्कृतम्, एतावत्सु वचस्तुल्यसंख्यकेषु। इच्छाकल्पितेति- एतन्नयस्यानेन नयेन संयोगो भवत्वित्यादीच्छाकल्पितेत्यर्थः । इच्छाकल्पितसंयोगजभेदोऽपीत्यस्थ सुलभ एवेत्यनेनान्वयः । “समवायान्तरापेक्षकः" इत्यस्य स्थाने “ समयान्तराक्षेपकः" इति पाठो युक्तः। निगमनार्थकं तदिति मूलं तस्मादित्यर्थकं स्पष्टत्वान्न व्याख्यानाय परिगृहीतमिति बोध्यम् । उत्तरार्दै पदानामन्वयत एवार्थः स्फुटमाभातीत्यन्वयमात्रमावेदयति- इयमिति । उपयुज्य अपेक्षाभेदं सन्निवेश्य । उपयुज्येत्यस्य व्यवच्छेद्यमाह-न त्वापातत पवेति । कथं नापाततो ज्ञेयेत्यपेक्षायामाह- आपातक्षानस्येति- आपातज्ञानतः स्वसमये परसमयत्वबुद्धिः परसमयेऽपि स्वसमयत्वबुद्धिः स्यादित्येवमापातज्ञानस्य स्वसमय-परसमयविपर्यासफलत्वादित्यर्थः । अत एवेत्यस्य 'अभिव्यजयति' इत्यनेनान्वयः । वस्तुस्थितिविचारेव स्तुस्थितिविचारास्ये प्रन्थे। जे पजवेस० इति- "ये पर्यवेषु निर्दिष्टा जीवा परसमयगतिविनिर्दिष्टाः । आत्मस्वभावे स्थिताः ते स्वसमया ज्ञातव्याः॥" इति संस्कृतम् । दैगम्बरं दिगम्बरस्येदं दैगम्बरमिति दिगम्बरोक्तत्वाद् दिगम्बरसम्बन्धि । वचनमित्यस्य 'अभिव्यजयति' इत्यनेनान्वयः। “[चक्रुः] सम्यक" इत्यस्य "वक्तुः सम्यक” इति पाठः समीचीनः। वक्तु: स्ववतुर्दिगम्बरस्य । Page #433 -------------------------------------------------------------------------- ________________ ३६२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । पर्यायास्तिकाभिप्रायः परसमय इत्यस्य स्याद्वादनिरपेक्षत्वात् , नयवाक्यमेवैतदिति चेत् ? तर्हि प्रवचनक्रियाव्युत्पादन (नेक इवास्योपयोगःस्थल-सक्ष्मनयार्थानां क्रमव्यत्पादनस्यैव शास्त्रार्थत्वादिति मुग्धबन्धनमात्रमेतत् । यदपि प्रावचनिकानां जिनभद्र-सिद्धसेनप्रभृतीनां स्वस्वतात्पर्यविरुद्धविषये सूत्रे परतीर्थिकवस्तुवक्तव्यताप्रतिबन्धप्रतिपादनम् , तदप्यभिनिवेशनं चेत् ? तदा प्रावचनिकत्वक्षतिरिति, तत्र परतीर्थिकपदं भिन्नपरम्परायाततात्पर्यानुसारिपदम्, अत एव नयाभिप्रायेण प्रवृत्तत्वादिति हेत्वभिधानोपपत्तिः, अत एव च नयाभिप्रायेणोभयसमाधानमस्माभि नबिन्दौ विहितम् , इत्येवमन्यत्रापि दर्शनप्रयोजनायामुपयोगो विधेयः समयनिष्णातैः ॥ १२२ ॥ सम्यक समीचीनतया । स्वसमयानिष्णाततां जैनराद्धान्तानिपुणताम् । अभिव्यञ्जयति प्रकटयति । अत्र हेतुमाहद्रव्यास्तिकाभिप्राय इति- उक्तवचनेनेदमेव ज्ञायते, यदुत- द्रव्यास्तिकाभिप्रायः स्वसमयः पर्यायास्तिकाभिप्रायः परसमय इति, परमस्य स्याद्वादनिरपेक्षत्वादित्यर्थः । शङ्कते- नयवाक्यमिति। एतत् जे पजवेस्वित्यादि दिगम्बरवचनम् , तथा च तत्प्रतिपाद्ये स्याद्वादनिरपेक्षत्वं न वक्तृगतस्वसमयाज्ञानविजृम्भितमिति भावः । समाधत्ते तहीति- यदि नयवाक्यमेवैतत् तदा स्थूल-सूक्ष्मनयार्थक्रमव्युत्पादनमेवात्रोचितं न तु प्रवचने प्रक्रियाव्युत्पादनमतो मुग्धानां- मूढानामेतद् वचनं बन्धनमात्रमिति मुकुलितोऽर्थः । यदपीति प्रतिपादनमित्यनेनान्वयि । प्रावचनिकानां सैद्धान्तिकानाम् । स्वस्वेति- यत्र सूत्रे स्वस्वाभिप्रायविषयभिन्नविषयकत्वमामुखेऽवभासते तत्र सूत्रे परतीथिकानामभिमतं यद् वस्तु तस्य या वक्तव्यता तस्याः प्रतिबन्धस्य- सम्बन्धस्य, प्रतिपादनम्- इदं सूत्रं परतीर्थिकवस्तुवक्तव्यतामाश्रित्य प्रवृत्तमित्येवं जिनभद्र-सिद्धसेनप्रभृतीनां प्रावचनिकानां यदपि प्रतिपादनं तत् प्रतिपादनमपि चेद् यदि अभिनिवेशनं-स्वस्वमताग्रहविजम्भितं तदा जिनभद्र-सिद्धसेनप्रभृतीनां प्रावनिकत्वस्य क्षतिः- हानिः स्यादिति हेतोः, तत्र परतीर्थिकवस्तुवक्तव्यतेत्यादिवाक्ये, घटकत्वं सप्तम्यर्थ इति तादृशवाक्यघटकं परतीर्थिकपदं भिन्नपरम्परा-जिनभद्र-सिद्धसेनप्रभृतीनां यः स्वस्वगुरुस्तद्गुरुपरम्परा तद्भिन्नजैनपरम्परा, तत आयातस्य- सूत्रतात्पर्यस्य, अनुसारी- अनुसरणशीलो . यः पुरुषस्तत्परं तत्तात्पर्यकम् , परतीर्थिकपदेन जैनेतरस्य न प्रहणं किन्तूक्तदिशा स्वपरम्पराभिन्नपरम्पराऽऽयाततात्पर्यानुसारिणां जनानामेव प्रहणमित्यर्थः । “सारिपदं" इत्यस्य स्थाने "सारिपरं" इति पाठो युक्तः । इत्थं तदुक्तिव्याख्याने तेषां न प्रावचनिकत्वक्षतिरिति बोध्यम् । अत एव यत एव तत्र परतीर्थिकपदं भिन्नपरम्पराऽऽयाततात्पर्यानुसारिपरं तत एवेत्यर्थः । कथमस्मिन् सूत्रे परतीथिकवस्तुवक्तव्यताप्रतिबन्ध इत्याकालानिवृत्तये तेषामेव 'नयाभिप्रायेण प्रवृत्तत्वाद' इत्येवं यदभिधानं तस्योपपत्तिरित्यर्थः । अत एव स्वस्वतात्पर्यविरुद्धविषयसूत्रस्य नयाभिप्रायेण प्रवृत्तत्वादेव, अस्य विहितमित्यनेनान्वयः । उभयसमाधानं परस्परविरुद्धजिनभद्र-सिद्धसेनप्रभृतिमतद्वयस्य समाधानं- सिद्धान्ताविरुद्धतयाऽनुगमनम् । अस्माभिः यशोविजयोपाध्यायैः । ज्ञानबिन्दी ज्ञानबिन्दुसंज्ञके प्रन्थे। विहितं कृतम । ज्ञानबिन्दावन्ते प्रन्थकप्रश स्तावेतानि पद्यानि केवलज्ञान केवलदर्शनयोगपद्यायोगपद्यै क्यमननपरायणानां मल्लवादि-क्षमाश्रमणजिनभद्रगणि-सिद्धसेनदिवाकराणां त्रयाणां परस्परमतविरोधभत्रकनयभेदसमाश्रयणप्रतिपादकानि पद्यान्यत्रानुसन्धेयानि " प्राचा वाचां विमुखविषयोन्मेषसूक्ष्मेक्षिकायां, येऽरण्यानीभयमधिगता नव्यमार्गानभिज्ञाः । तेषामेषा समयवणिजां सम्मतिप्रन्थगाथा, विश्वासाय स्वनयविपणिप्राज्यवाणिज्यवीथी ॥१॥ भेदग्राहिव्यवहृतिनयं संश्रितो मल्लवादी, पूज्याः प्रायः करण-फलयोः सीम्नि शुद्धर्जुसूत्रम् । भेदोच्छेदोन्मुखमधिगतः सङ्ग्रहं सिद्धसेनस्तस्मादेते न खलु विषमाः सूरिपक्षास्त्रयोऽपि ॥ २ ॥ चित्सामान्य पुरुषपदभाक् केवलाख्ये विशेषे, तद्रूपेण स्फुटमभिहितं साद्यनन्तं यदेव । सूक्ष्मरंशः क्रमवदिदमप्युच्यमानं न दुष्ट, तत्सूरीणामियमभिमता मुख्य-गौणव्यवस्था ॥३॥ Page #434 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । ३६३ अथ नयोत्पादितेष्वपरिमितेषु दर्शनेषु कस्मिन् मिथ्यात्वं कस्मिश्च सम्यक्त्वमिति जिज्ञासायामाह नास्ति नित्यो न नो कर्ता, न भोक्ताऽऽत्मा न निवृतिः। तदुपायश्च नेत्याहुर्मिथ्यात्वस्थानकानि षट् ॥ १२३ ॥ नयामृत०-नास्तीत्यादि । नास्त्यात्मा इति चार्वाकमते, न नित्य इति क्षणिकवादिमते, न कर्ता न भोक्तेति साक्ष्यमते, यद्वा न कर्तेति साक्ष्यमते, न भोक्तेत्युपचरितभोक्तृत्वस्याप्यनभ्युपगमाद् वेदान्तिमते, नास्ति निवृत्तिः सर्वदुःखविमोक्षवलक्षणेति नास्तिकप्रायाणां सर्वज्ञानभ्युपगन्तृणां यज्वनां मते, अस्ति मुक्तिः परं तदुपायो नास्ति सर्वभावानां नियतत्वेनाकस्मादेव भावादिति नियतिवादिमते, इत्येतानि षट् मिथ्यात्वस्थानकान्याहुः पूर्वसूरयः ॥ १२३ ॥ षडेतद्विपरीतानि, सम्यक्त्वस्थानकान्यपि। मार्गत्याग-प्रवेशाभ्यां, फलतस्तत्त्वमिष्यते ॥१२४ ॥ नयामृत-पडेतदिति । एतेभ्यः-प्रागुक्तेभ्यः, विपरीतानि षट् सम्यक्स्थानान्यपि भवन्ति,अस्त्यात्मा, नित्यः, कर्ता, साक्षाद्भोक्ता, अस्ति मुक्तिः, अस्ति च तत्कारणं रत्नत्रयसामराज्यमिति, तदिदमुक्तम् “ अस्थि जिओ तह णिच्चो, कचा भुत्ता स पुनपावाणं । अस्थि धुवं णिवाणं, तस्सोवाओ अ च्छ ठाणा ॥" [ 1 इति । तमोऽपगमचिजनुःक्षणभिदा निदानोद्भवाः, श्रुता बहुतराः श्रुते नयविवादपक्षा यथा । तथा क इव विस्मयो भवतु सूरिपक्षत्रये, प्रधानपदवी धियो क्व नु दवीयसी दृश्यते ॥ ४ ॥ प्रसय सदसत्त्वयोर्नहि विरोधनिर्णायकं, विशेषण-विशेष्ययोरपि नियामकं यत्र न । गुणागुणविभेदतो मतिरपेक्षया स्यात्पदा, किमत्र भजनोर्जिते स्वसमये न सङ्गच्छते ॥ ५ ॥ प्रमाण-नयसजता स्वसमयेऽप्यनेकान्तधीर्नयस्मयतटस्थतोल्लसदुपाधिकिर्मीरिता । कदाचन न बाधते स्वगुरुसम्प्रदायक्रम, समजसपदं वदन्त्युरुधियो हि सद्दर्शनम् ॥ ६॥" इति । "दर्शनप्रयोजनायां" इत्यस्य स्थाने " दर्शननययोजनायां" इति पाठो युक्तः । समयनिष्णातैः जैनराद्धान्ताभिज्ञाननिपुणः ॥ १२२ ॥ त्रयोविंशत्युत्तरशततमपद्यमवतारयति-अथेति । विवृणोति-नास्तीत्यादीति । साथमते कर्तृत्वाभावेऽपि भोक्तृत्वमात्मनोऽस्तीति कल्पान्तरमाह- यद्वेति । “निवृत्तिः" इत्यस्य स्थाने “निर्वृतिः" इति पाठो ज्ञेयः । निर्वृतिः किंस्वरूपेत्यपेक्षायामाह-सर्वदुःखेति + यज्वनां मीमांसकानाम् । तदुपायश्च नेति कस्य मते इत्यपेक्षयामाह- अस्ति मुक्तिरिति । तदुपायो मुक्त्युपायः, कारणाभावे कथं मुक्तिरूपं कार्यमित्यत आह-सर्वभाषानामिति । वहिरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः । केनेदं रचितं तस्मात् स्वभावात् तद्वयवस्थितिः ॥ [ ] इत्यादि वचनं सर्वभावानां नियतत्वावगमाय प्रगल्भते । के आहुरित्यपेक्षानिवृत्त्यर्थ पूर्वसुरय इति ॥ १२३ ॥ चतुर्विशत्युत्तरशततमपद्यं विवृणोति-षडेतदितीति । एतेभ्यः इत्यस्य विवरणं-प्रागुक्तभ्य इति । “सम्यकस्थानान्यपि" इत्यस्य स्थाने "सभ्यक्त्वस्थानान्यपि" इति भाव्यम् । भवन्तीति क्रियापदमाहृतम् । षद सम्यक्त्वस्थानानि विशिष्योग्लिखति-अस्त्यात्मेति । नित्य इत्यादावप्यात्मेत्यंनुषज्यते। “सामराज्य' इत्यस्य स्थाने "सामाज्य" इति पाठः । षट् सम्यक्त्वस्थानानीत्यत्र सिद्धान्तवचनसंवादं दर्शयति- तदिदमुक्तमिति । अत्थीति Page #435 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । चार्वाका दिपक्षनिरासश्चातिभूयानिति लतादित एव तदनुगमो विधेयः । " अकस्माद् भवति इत्यनुपायवादिमते चात्यन्तोपयुक्तत्वात् किञ्चिद् विचार्यते, अकस्मादिति किंशब्दस्य हेतुपरतया हेत्वभावे भवनपरम् ? उत " अ-मा-नो-ना प्रतिषेघे " इति स्मरणान्निषेधार्थकस्य 'अ' शब्दस्य क्रियासम्बन्धसम्भवाद् भवनाभावपरम् ? किंवा किंशब्दस्य स्वभिन्नपरतयाऽलीकभिन्नपरतया वा स्वहेतुकत्वपरम्, अली कहेतुकत्वपरं वा ? अथवा अकस्मादिति स्वभावादित्यर्थे रूढतया स्वभावादेव कादाचित्कमित्यर्थ के ? एतेषु पचषु नैकोऽपि प्रकारो युक्तः, नियतावधिकार्यदर्शनात् अनियतावधित्वे निरवधित्वे वा कादाचित्कत्वस्वभावव्याकोपापातात्, तत्स्वाभाव्ये च सहेतुकत्वस्यावश्यत्वात्, तदुक्तमुदयनेन - "" हेतु-भूति निषेधो न स्वा ऽनुपाख्याविधिर्न च । स्वभाववर्णना नैवमुपाधेर्नियतत्वतः ॥ इति [ न्यायकुसुमाञ्जलिकारिका - ५ ] ३६४ 66 " अस्ति जीवस्तथा नित्यः कर्ता भोक्ता स पुण्य-पापयोः । अस्ति ध्रुवं निर्वाणं तस्योपायश्च षट् स्थानानि ॥ १ ॥” इति संस्कृतम् । चावकादिमतात्मकानि षड् मिथ्यात्वस्थानकान्यस्मन्निर्मितलतादिप्रन्थ एव खण्डितानीति तत एव तेषां खण्डनयुक्तयोऽवसेयाः, प्रन्थगौरवभयान्नात्र तेषां खण्डनं क्रियत इत्युपदिशति- चार्वाका दिपक्षनिरासश्चेति । तदनुगमः चार्वाकादिपक्षनिरासानुगमः । नियतिवादिमत खण्डनस्यात्रापि कर्तव्यत्वावश्यकत्वमावेदयति- अकस्मादिति । अकस्मादिति किंशब्दस्य अकस्मादित्येतद्घटककिंशब्दस्य । हेतुपरतया हेत्वात्मकार्थप्रतिपादकत्वेन, भवतीति च भवनार्थकम्, तथ अकस्माद् भवतीति वाक्यं हेत्वभावे भवनपरं हेत्वभावे सति भवतीत्यर्थकम् । अकस्मादित्यस्य न कस्मादकस्मादित्येवं न समासत्वम्, किन्तु निषेधार्थकोऽशब्दः समासानन्तर्गत एव, तस्य भवतीति क्रियाशब्देनैव साकाङ्क्षत्वमित्यकस्माद् भवति कस्मादपि न भवतीत्यर्थकमिति सर्वथा भवनप्रतिषेध इति द्वितीयविकल्पमुपदर्शयति- उतेति - अथवेत्यर्थः । अकस्मादित्यत्र किंशब्दः स्वभिन्नपरस्तेन सह नमः समासे अकस्मादित्यनेन स्वभिन्नभिन्नादिति लभ्यते, स्वभिन्नभिन्नं च स्वमेव भवतीति स्वहेतुकभवनपरमकस्माद् भवतीति । यदि च किंशब्दोऽलीकभिन्नपरस्तदाऽली कभिन्नभिन्नादित्य कस्मादित्यस्यार्थः, अलीकभिन्नभिन्नं चालीकमेवेत्यलीकाद् भवतीत्येवं पर्यवसितादकस्माद् भवतीत्यलीक हे तुकभवनमकस्माद् भवतीति तदाहकिं वेति । यदा च लम्बकर्णादिशब्दवदव्युत्पन्न एवायम कस्मादिति शब्दः स्वभावादित्यर्थे वर्तते तदा स्वभावात् कादाचित्कं भवनमित्यर्थकमकस्माद् भवतीत्याह- अथवेति । " मित्यर्थ के ” इत्यस्य स्थाने " मित्यर्थकम् " इति पाठो युक्तः । एतेषु अनन्तरमुपदर्शितेषु । कथं न युक्त इत्यपेक्षायामाह - नियतावधिकार्यदर्शनादिति - नियतोऽवधिर्यस्य स नियतावधिरेवम्भूतस्य कार्यस्य दर्शनादित्यर्थः, वह्नेरव्यवहितपूर्ववर्तिनः सत्त्व एव धूमोत्पादेन धूमस्य वह्निर्नियतोऽवधिदृश्यत एव य एव च नियतः पूर्वावधिः स एव कारणमिति न स्वं स्वस्य नियतं पूर्ववर्ति, नवा स्वभावादिकं तथा । सहेतुककार्यभवने व्यवस्थित तस्य निर्हेतुकत्वं सर्वथा निषेधश्च न सङ्गतिमञ्चतीत्यकस्माद् भवतीत्यस्य पश्चापि प्रकारा अयुक्ता एवत्याशयः । नन्वनियतावधित्वं निरवधित्वमेव वा कार्यस्यास्तु तथा च नियतावधिकत्वासिद्धया न कार्यस्य सहेतुकत्वसिद्धिरित्यत आह- अनियतावधित्व इति- अनियतावधित्वे धूमो यथा वह्निमवधिं कृत्वोत्पद्यते तथा हिभिन्नमपि कमप्यवधिं कृत्वोत्पद्येतेति न वह्निसद्भावानन्तरमेव धूमस्योत्पत्तिः, किन्तु वह्निसद्भावतः प्राक् तत्वहितोतरकालेऽपि च यं कमप्यवधिं कृत्वा धूमो भवन्न कादाचित्कः स्यादिति तस्य कादाचित्कत्वस्वभावो व्याहन्येत एवं निरवधित्वेऽपि ये ये निरवधय आकाशादयो न ते कादाचित्कत्वत्वभावा इति निरवधिर्धूमोऽपि कादाचित्कत्वस्वभावो न भवेदित्येवं कादाचित्कत्वस्वभावव्याकोपान्नियतावधित्वे ततः सहेतुकत्वं स्वीकर्तव्यमेवेत्यर्थः । एतदेवाह - तत्स्वाभाव्ये चेति - कार्यस्य नियतावधिकत्वस्वाभाव्ये चेत्यर्थः । उक्तार्थे उदयनाचार्यवचनसंवादमाह - तदुक्तमुदयनेनेति । हेस्वितिअकस्माद् भवतीत्यनेनाहेतुतो भवतीत्यर्थाश्रयणाद्धेतुनिषेधो न, अकस्मादित्यत्राकारस्य भवतीतिक्रिया सम्बन्धाश्रयणाद् भवनप्रतिषेघो न, हेतुतो यद् भवनं तत्प्रतिषेधो न, अकस्मादित्यस्यो कदिशा स्वस्मादित्यर्थ करणात् स्वविधिः- स्वस्मादेव स्वमुत्पद्यत Page #436 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । ३६५ अथाकाशत्वादीनां( नाम )कदाचित्कत्ववत् कादाचित्कत्वमपि न सहेतुकत्वसाधकमिति चेत् ? न,आकाशत्वादीनां सर्वत्र सत्त्वे आकाशादिस्वभावत्वाभावप्रसङ्गात् , तत्स्वभावत्वं च धर्मिग्राहकमानसिद्ध. मिति हेतुं विनापि देशनियमस्तेषामिति । अथैवं कादाचित्कत्वमपि घटादिस्वभावत्वादेव हेतुं विनापि इत्यपि न, अकस्मादित्यस्योक्तरीत्याऽलीकादित्यर्थकरणादलीकादेव कार्यमुपजायत इत्येवमनुपाख्यस्यालीकस्य विधिर्न च-नैव, अश्वकर्णादिवत् स्वभावादित्यस्याथै निरूढ एवायमकस्मादिति शब्दः, तथा च स्वभावादेव कार्य भवतीत्येवं स्वस्वभाववर्णना न सर्वत्र हेतु:- अवधेर्नियतत्वत इति, नियतावधित्वादिति तदर्थः “ नैवमुपाधेर्नियतत्वत" इत्यस्य स्थाने 'नैवमवधे. नियतत्वतः" इति पाठो युक्तः, न्यायकुसुमाञ्जली उदयनाचार्योक्तिरेवम्- " अकस्मादेव भवतीति चेत् ? न-" हेतु-भूतिनिषेधो न स्वा-ऽनुपाख्यविधिन च । स्वभाववर्णना नैवमवधेनियतत्वतः ॥ ५॥" हेतुनिषेधे भवनस्यानपेक्षत्वेन सर्वदा भवनमविशेषात् , भवनप्रतिषेधे प्रागिव पश्चादप्यभवनमविशेषात् , उत्पत्तेः पूर्व स्वयमसतः स्वोत्पत्तावप्रभुत्वेन स्वस्मादिति पक्षानुपपत्तेः, पौर्वापर्यनियमश्च कार्यकारणभावः, न चैकं पूर्वमपरं च तत्त्वस्य भेदाधिष्ठानत्वात् , अनुपाख्यस्य हेतुत्वे प्रागपि सत्त्वप्रसक्तौ पुनः सदातनत्वापत्तः, स्यादेतत्-नाकस्मादिति कारणनिषेधमात्रं वा भवनप्रतिषेधो वा, स्वास्महेतुकत्वं वा, निरुपाख्यहेतुकत्वं वाऽभिधित्सितम्, अपि त्वनपेक्ष एव कश्चिन्नियतदेशवन्नियतकालस्वभाव इति ब्रूमः- “निरवधित्वेsनियतावधिकत्वे वा कादाचित्कत्वव्याघातात् , न युत्तरकालसिद्धत्वमात्रं कादाचित्कत्वम्, किन्तु प्रागसत्त्वे सति सावधित्वे तु स एव प्राच्यो हेतुरित्युच्यते, अस्तु प्रागभाव एवावधिरिति चेत् ? न-अन्येषामपि तत्काले सत्त्वात् , अन्यथा तस्यैव निरूपणानुपपत्तेः, तथा च न तदेकावधित्वमविशेषात् , इतरनिरपेक्षस्य प्रागभावस्यावधित्वे प्रागपि तदवधेः कार्यसत्त्वप्रसङ्गात्, सन्तु ये केचिदवधयो न तु तेऽपेक्ष्यन्त इति स्वभावार्थ इति चेत् ? नापेक्ष्यन्त इति कोऽर्थः ? किं न नियताः? आहोस्विनियता अप्यनुपकारकाः? प्रथमे धूमो दहनवदर्दभमप्यवधीकुर्यात् , नियामकाभावात् , द्वितीये तु किमुपकारान्तरेण ? नियमस्यैवापेक्षार्थत्वात् , तस्यैव च कारणात्मत्वात् , ईदृशस्य स्वभाववादस्येष्टत्वात्" इति । ननु यथाकाशत्वादिषु क्वाचित्कत्वं- गगनादिरूपनियतदेशवृत्तित्वस्वभावो वर्तते, न च तत्र कश्चिद् हेतुरिति स स्वभावो न सहेतुकत्वसाधकस्तथा घटादिष कादाचिकत्वं- नियतकालवृत्तित्वस्वभावो वर्तते, न च तत्रापि कश्चिद् हेतुरिति स स्वभावो न सहेतुकत्वसाधको नियतवृत्तितासाम्यादित्याशङ्कते- अथेति-" (नाम) कदाचित्कत्ववत्" इति स्थाने " क्वाचिकत्ववतू" इति पाठः सम्यक्, 'आकाशत्वादीनाम्' इत्यादिपदानित्यवृत्त्यसाधारणतत्तद्धर्माणामुपग्रहः, आकाशत्वादीनां हेतुमन्तरेव यथा नियतदेशवृत्तिता तथा घटादीनामपि हेतुमन्तरैव नियतकालवृत्तिता भविष्यति, यदि नियतकालवृत्तिता हेतुमन्तरा न भवेन्न भवेत् तर्हि नियतदेशवृत्तितापि हेतुमन्तरेति शङ्काशयः। आकाशत्वादीनामाकाशस्वभावत्वादेव हेतुमन्तरापि नियतदेशवृत्तिता भविष्यतीत्यभिप्रायवान् समाधत्ते-नेति । इतीति- इतिशब्दो हेतौ वर्तते, तथा च निरुतहतोः, आकाशत्वादीनामाकाशस्वभावत्वादेवेत्यर्थः । हेतुं विनापि कारणमन्तरापि, कारणे सति तु देशनियमो भवतीह तु कारणमन्तरापि देशनियम इत्यर्थस्यापि नामेडनम् । तेषाम् आकाशत्वादीनाम् । देशनियमः गगनादिदेश एव वृत्तिर्न त्वन्यत्र इति नियमो भवतीति शेषः । नन्वाकाशत्वादीनामाकाशादिस्वभावत्वेऽपि देशनियमः कथम् ? कथं न सर्वत्र वृत्तिरित्याकालायामाह- आकाशत्वादीनामिति- आकाशत्वादीनां सर्वत्र वृतित्वे आकाशादिस्वभावत्वमेव न स्यात् , तद्भिन्नतो व्यावृतत्वे सति तवृत्तिधर्मस्यैव तत्स्वभावत्वादित्यर्थः, तथा चाकाशत्वादीनामाकाशस्वभावत्वमन्यथानुपपद्यमानमाकाशादिरूपदेशं नियमयति, नान्यः कश्चिदत्र हेतुरिति भावः । नन्वाकाशत्वादीनामाकाशस्वभावत्वमिति कुतोऽवधारितमित्याकाड्ढायामाह- तत्स्वभावत्वं च आकाशत्वादीनामाकाशस्वभावत्वं पुनः, धर्मिग्राहकेति- आकाशत्वस्य धर्मी आकाशः, तग्राहकं मानमनुमानम्- 'शब्दो द्रव्यसमवेतो विशेषगुणत्वाद् रूपादिवत्' इति सामान्यतो द्रव्याश्रितत्वसाधकानुमानतो भूम्यादिप्रसिद्धाष्टद्रव्यसमवेतत्वबाधे सति 'पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्यसमवेतोऽष्टद्रव्यासमवेतत्वे सति द्रव्यसमवेतत्वाद् यन्नैवं तन्नैवं यथा रूपादि' इति परिशेषानमानम्, तेन सिद्धमिति । नन्वाकाशत्वादीनामाकाशादिस्वभावत्वाद् यथा हेतुं विनवाकाशादिव्यतिरिक्तघटादिदेशव्यावृत्तत्वं तथा कादाचित्कत्वमपि घटादिस्वभावत्वादेव हेतुं विनैव घटाद्यतिरिक्ताकाशादिव्यावृत्तमिति दुर्दुरुटः स्वभाववादी शङ्कतेमथैवमिति । नहि कादाचित्कत्वं यदा कदाचित् सत्त्वमात्रं येन हेतुं विनैव भवेत् , किन्तु पूर्वकालासत्त्वे सत्त्वम् , Page #437 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । गगनादिव्यावृत्तमस्त्विति चेत् ? न- कादाचित्कत्वस्यावधिनियतत्वात् । सन्यवधयो न त्वपेक्ष्यन्त इति चेत् ? न- नियतपश्चाद्धावित्वस्यैवापेक्षार्थत्वात् , अन्यथा गर्दभाद् धूम इत्यपि प्रतीयेत । तन्निय. तत्वेऽपि तद्गतोपकाराजनकस्य कथं तद्धेतुजनकत्वमिति चेत् ? उपकारो हि कार्यमिति तद्गतकार्यहेतुत्वस्य तद्धेतुत्वेऽतन्त्रत्वात् , अन्यथोपकारहेतुत्वाय उपकारेऽप्युपकारान्तरस्वीकारे अनवस्थापत्तेः, तर्हि घटादिनियतत्वं कपालादेरेव न तन्त्वादाविति कुत इति चेत् ? स्वभावादेवेति गृहाण, अथ तथापि ग्राहकाभावात् तदसिद्धिः, न च धूमादौ वतयादेरन्वय-व्यतिरेकानुविधायित्वज्ञानसचिवं वहयादिप्रत्यक्षमेव हेतुहेतुमद्भावनाहकम्, धूममात्रेऽन्वय-व्यतिरेकज्ञानासम्भवात् , यत्किश्चिद्धमे रास तच्चावधिनियतत्वात् सहेतुकत्वव्याप्तमेवेति हेतुं विना न तस्य गगनादिव्यावृत्तत्वमिति समाधत्ते- नेति । समाधानामिसन्धिमजानानः परः शङ्कते- सन्त्ववधय इति । न त्वपेक्ष्यन्त इति - कार्येणावधयो नापेक्ष्यन्ते. कार्यस्य नावध्यपेक्ष्यत्वमित्यर्थः। तदपेक्षत्वं तदनन्तरभावित्वमेव, तच्च कार्यस्यावध्यवहितोत्तरक्षणभाविनोऽप्यस्तीति कथं नावध्यपेक्ष्यत्वं कार्यस्येति समाधत्ते- नेति। नियतपश्चाद्धावित्वस्यैव नियमत उतरकालोत्पत्तिकत्वस्यैव । अन्यथा नियतपश्चाद्भावित्वस्यापेक्षार्थत्वाभावे । गर्दभादिति- सामान्यतो वह्वेः पश्चाद्भावित्वस्येव गर्दभात् पश्चाद्भावित्वस्यापि धूमे सत्त्वमिति धूमः स्वोत्पत्ती वहिमिव गर्दभमप्यवधीकुर्यात् , तथा च वहेधूम इत्येवं यथा प्रतीयते तथा गर्दभाद् धूम इत्यपि प्रतीयतेत्यर्थः । ननु वढेधूमनियतत्वेऽपि धूमगतोपकाराजनकत्वान्न तजनकत्वमित्याशङ्कते- तन्नियतत्वेऽपीति- अवधीनां कार्यनियतत्वेऽपीत्यर्थः। “तद्धेतुजनकत्व" इत्यस्य स्थाने " तज्जनकत्व" इति पाठो युक्तः । समाधत्ते- उपकार इति । हि यतः । कार्यगतोपकारः कार्यगतकार्यमेव, एवं च कार्यगतकार्यजनकस्य कार्यजनकत्वमिति स्यात् , तच्च न युक्त कार्यगतकार्यजनकत्वस्य कार्यजनकत्वेऽप्रयोजकत्वादित्यर्थः। अन्यथा तद्गतोपकारलक्षणकार्यजनकत्वस्य तज्जनकत्वाप्रयोजकत्वाभ्युपगमे। उपकारहेतुत्वाय कार्यगतोपकारहेतुत्वार्थम् । उपकारेऽपि उपकारात्मककार्येऽपि, उपकारात्मककार्यजनकत्वं तदैव भवेद् यद्युपकारात्मककार्यगतोपकारजनकत्वं स्याद्, एवमुपकारात्मक कार्यगतोपकारात्मककार्यजनकत्वमप्युपकारात्मककार्यगतोपकारात्मककार्यगतोपकारजनकत्वं स्यादित्येवमनवस्थाप्रसङ्गादित्यर्थः । ननु कार्यगतोपकाराजनकस्यापि कार्यनियतत्वाभ्युपगमे घटादिगतोपकाराजनकस्य कपालादेर्घटादिनियतत्वं भवति न तन्वादेरित्यत्र किं नियामकम् ? नियामकाभावे तु तन्वादेरपि घटादिनियतत्वं प्रसज्यतेत्याशयेन पृच्छति-तीति । कपालादेरेवायं स्वभावो यदुत-स घटादिनियतो भवति न तन्वादेरित्युत्तरयति-स्वभावादेवेति । इति गृहाण इति जानीहि । नन्वेवं कपालत्वेन कपालस्य घटं प्रति कारणत्वं घटत्वेन घटस्य कपालकार्यत्वमित्युपगतं भवेत् , एवं धूमत्वेन वह्नित्वेन धूमवह्नयोः कार्यकारणभाव इति, तच्च न सम्भवतिकार्यकारणभावग्राहकप्रमाणाभावेन कार्यकारणभावस्यैवासिद्धरित्याशङ्कते- अथेति । तथापि स्वभावान्नियतत्वसम्भवेऽपि । ग्राहकाभावात् कार्यकारणभावप्राहकप्रमाणाभावात् , तदसिद्धिः कार्यकारणभावासिद्धिः । वह्निसत्त्वे धूमसत्त्वं वड्यभावे धूमाभाव इत्येवं वह्निधूमयोर्यावन्वय-व्यतिरेको तत्सहकृतं वयादिप्रत्यक्षमेव वह्नि-धूमयोः कार्यकारणभावप्राहकं प्रमाणमित्याशङ्कय प्रतिक्षिपति-न चेति । धूमादाविति-धूमादौ यद् वह्नयाद्यन्वयानुविधाय्यन्वयित्वं यच्च वयादिव्यतिरेकानुविधायिव्यतिरेकित्वं तदुभयज्ञानसहकृतमेव वह्वयादिप्रत्यक्षमेव कार्यकारणभावग्राहकमित्यर्थः । निषेधे हेतुमाह- धूममात्र इति- देशान्तरधूमे वह्वयन्वयाविधाय्यन्वयित्वस्य वह्निव्यतिरेकानुविधायिव्यतिरेकित्वस्य च ज्ञानासम्भवेन धूममात्रे सर्वस्मिन् धूमेऽर्थाद् धूमत्वावच्छिन्ने वह्वयन्वय-व्यतिरेकानुविधाय्यन्वय-व्यतिरेकज्ञानासम्भवान्न तत्सचिवं वह्नयादिप्रत्यक्ष कार्यकारणभावग्राहकमित्यर्थः । यदि च यत्किञ्चिद्भूमे वयन्वय-व्यतिरेकित्वज्ञानसहकृतं वह्नयादिप्रत्यक्षं वह्निधूमयोः कार्यकारणभावस्य प्राहकमुपेयते तदा यत्किञ्चिद्भूमे रासभाद्यन्वय-व्यतिरेकानुविधाय्यन्वय व्यतिरेकित्वज्ञानमप्यस्तीति तत्सचिवं रासभादिप्रत्यक्षमपि धूमरासमाद्योः कार्यकारणभावग्राहकं भवेदिति धूमं प्रति रासभादेरपि कारणत्वं प्रसज्येतेति प्रतिक्षेपहेतुमुपदर्शयति-यत्किश्चिद्धम इति । तथाज्ञानात् अन्वय व्यतिरेकानुविधाय्यन्वय-व्यतिरेकज्ञानात् । ननु क्वचिद् रासभादिकमन्तरेणापि धूमोत्पत्तिदृश्यत इति व्यतिरेकव्यभिचारज्ञानान्न धूम-रासभाद्योः कार्यकारणभावग्रह इत्याशङ्कते- रास Page #438 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ३६७ भादेरपि तथाज्ञानात्, रासभादेर्व्यभिचारज्ञानान्न तगह इति चेत् ? न- वह्नयादेरपि व्यभिचारशङ्कासाम्राज्यादिति, धूमाद्यर्थिनो वह्नयादौ प्रवृत्तिश्च सम्भावनयैवोपपद्यत इति परमतमिति चेत् ? नसामान्यव्यभिचारा-ऽनुगतागुरुविशेषान्तरानुपस्थितिदशायां यत्किश्चिद्धमवतयोस्तद्भहसामग्र्या एव वह्निधूममात्रे तदाहकत्वात् , सति लाघवज्ञाने व्यभिचारशङ्काया अप्रतिबन्धकत्वात्, रासभादौ तु व्यभिचारनिर्णय एव, असति तन्निर्णये तत्र धूमहेतुत्वग्रहेऽपि भ्रमत्वमेव ग्राह्याभावात् , अन्यथासिद्धनियत. पूर्ववर्तित्वं हि हेतुत्वम् , तथा च वक्षयादेरवधिभूतस्य धूमादिनियतपूर्ववर्तित्वादनन्यथासिद्धत्वाच्च तद् दुर्निवारम् । यागा-ऽदृष्टादौ स्वर्गादिनिष्ठकार्यतानिरूपितकारणताग्रहश्चावच्छेदकविनिर्मोकेण शब्दानुमानादिनैव, तत्प्रामाण्यस्यापि तत्र व्यवस्थापितत्वात्। तृणा-ऽरणि-मण्यादीनां वहिकारणताग्रहेऽपीयमेव रीतिः, www भादेरिति । न तहः न धूम-रासभयोः कार्यकारणभावग्रहः । देशान्तरे कालान्तरे वा वहिं विनाऽपि धूमो भविष्यतीति व्यतिरेकव्यभिचारशङ्कया वह्नि धूमयोरपि कार्यकारणभावग्रहो न स्यादिति समाधत्ते- न-वह्नयादरपीति । ननु धूमवन्योने यदि कार्यकारणभावस्तदा धूमरूपेष्टसाधनत्वस्य वह्नौ ज्ञानाभावाद् धूमार्थिनो वयानयनादौ प्रवृत्तिर्न स्याद्, एवं भोजनादेरपि तृप्त्यादिकं प्रति कारणत्वाभावेन तृप्त्याद्यर्थिनो भोजनादपीष्टसाधनत्वज्ञानाभावात् प्रवृत्तिन भवेदित्यत आहधूमार्थिन इति । सम्भावनयैव प्रायो वयादे—मादिर्भवतीति सम्भावनयैव इष्टसाधनत्वसंशयादपि कृषीवलादेः कृष्यादिकरणे प्रवृत्तिदर्शनेनेष्टसाधनत्वप्रमितित्वेनेष्टसाधनतानिश्चयत्वेन वेष्टसाधनताज्ञानस्य प्रवृत्तिं प्रति कारणत्वभावादित्याशयः । इति परमतम् एवंस्वरूपं कार्यकारणभावापलापिमतम् । समाधत्ते-नेति । सामान्येति-धूमं प्रति वहेर्द्रव्यत्वेन तेजस्वादिना वा कारणत्वे व्यभिचारः सकलवह्नयनुगतवह्नित्वापेक्षयाऽगुरोर्विशेषान्तरस्यावान्तरसामान्यस्यानुपस्थितिश्चेति तद्दशायां यत्किञ्चिद्धूमवयोः कार्यकारणभावग्रहस्य या यत्किञ्चिद्धमवढ्यन्वयव्यतिरेकग्रहसहकृतवह्निधूमादिप्रत्यक्षलक्षणा सामग्री तस्या एव वह्निधूममात्रे वह्निसामान्य धूमसामान्ययोः, तह्राहकत्वात् कार्यकारणभावग्राहकत्वात् , वहयाद्यन्यतमत्वापेक्षया वह्नित्वं लध्विति लाघवज्ञाने सति धूमं प्रति वह्निसामान्यस्य वह्नित्वेन कारणत्वग्रहे क्वचिद् वह्नि विनाऽपि धूमो भविष्यतीति व्यभिचारशङ्कायाः अप्रतिबन्धकत्वादित्यर्थः। ननु रासभत्वादिकमपि रासभादावनुगतं सामान्यरूपत्वाचातद्वयावृत्त्याद्यपेक्षया लधिति तेनाविरूपेण रासभादेवूमं प्रति कारणत्वग्रहः किं न स्यादित्यत आह-रासभादौ त्विति । व्यभिचारनिर्णय एव रासभाद्यभावेऽपि वह्नयादिघटितसामग्र्या धूमोत्पत्तेदर्शनाद् व्यभिचारनिर्णय एव, स च कारणत्वग्रहं प्रति प्रतिबन्धक इति न धूमं प्रति रासभादेः कारणत्वग्रह इत्यर्थः। यदा च निरुक्तव्यभिचारग्रहो नास्ति तदा निरुक्तसामच्या रासभादेरपि धूमं प्रति कारणत्वग्रहो भवत्येव, किन्तु रासभादौ धूमकारणत्वाभावेऽपि धूमकारण ग्रहो भवन् भ्रम एव, स च न वस्तुसाधक इति न ततो धूमं प्रति रासभादेः कारणत्वं सिद्धयतीत्याह-असतीति । तन्निर्णये व्यभिचार. निर्णये । तत्र रासभादौ । ग्राद्याभावात् ग्राह्यस्य धूमं प्रति रासभादेः कारणत्वस्याभावात् । कारणत्वं निरुच्य तस्य धूमं प्रति वह्नयादौ सद्भावमावेदयति - अन्यथेति- अन्यथासिद्धिशून्यत्वे सति कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वं कारणत्वमित्यर्थः। तथा च कारणत्वस्य निरुक्तस्वरूपत्वे च । तत कारणत्वम् । ननु स्वर्गवादेर्दुःखासम्मिनसुखविशेषादिरूपस्यादर्शनात् कथं यागत्वेन स्वर्गत्वेन कार्यकारणभावग्रहः, धर्माधर्मगतमदृष्टत्वं त्वतीन्द्रियत्वादेव न प्रत्यक्षमिति कथं स्वर्गत्वेनादृष्टत्वेन कार्यकारणभावोऽप्यन्वयव्यतिरेकग्रहसहकृतप्रत्यक्षप्रमाणग्राम इत्यत आह-यागादृष्टादाविति । ननु कार्यकारणभावापलापिना चार्वाकेण प्रत्यक्षस्यैव प्रामाण्यं स्वीक्रियते, न शब्दानुमानादेरिति कथं ततो यागा-ऽदृष्टादौ स्वर्गादिजनकत्वग्रह इत्यत आह-तत्प्रामाण्यस्यापीति- शब्दा-ऽनुमानादिप्रामाण्यस्यापीत्यर्थः । तत्र उदयनाचार्यादिप्रणीतकुसुमाञ्जल्यादौ, तत्रानुमानप्रामाण्यव्यवस्थापको ग्रन्थश्चायम् " शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् । व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ॥१॥” इति. कालान्तरे कदाचिद् व्यभिचरिष्यतीति कालं भाविनमाकलय्य शङ्कत, तदाकलनं च नानुमानमवधीर्य कस्यचित् , मुहूर्तयामा-ऽहोरात्र-पक्ष-मास-वयन-संवत्सरादयो हि भाविनो भवन्मुहूर्ताद्यनुमेया एव, अनवगतेषु स्मरणस्याप्यनाशङ्कनीयत्वात् , Page #439 -------------------------------------------------------------------------- ________________ ३६८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलईतो नवोपदेशः । अनाकलने वा कमाश्रित्य व्यभिचारः शङ्कयेत, तथा च सुतरामनुमानस्वीकारः, एवं च देशान्तरेऽपि वक्तव्यम्, स्वीकृतमनुमानं सुहृद्भावेन पृच्छामः कथमाशङ्का निवर्तनीयेति चेत् ? न- यावदाशक तर्कप्रवृत्तः, तेन हि वर्तमानेनोपाधिकोटौ तदायत्तव्यभिचारकोटौ वाऽनिष्टमुपनयतेच्छा विच्छिद्यते, विच्छिन्नविपक्षेच्छश्च प्रमाता भूयोदर्शनोपलब्धसाहचर्य लिङ्गमनाकुलोऽधितिष्ठति, अधिष्ठिताच करणात् क्रियापरिनिष्पत्तिरिति किमनुपपन्नम् । ननु तर्कोऽप्यविनाभावमपेक्ष्य प्रवर्तते, ततोऽनवस्थया भवितव्यम् , न- शङ्काया व्याघातावधित्वात् , तदेव ह्याशङ्कयते यस्मिन्नाशयमाने स्वक्रियाव्याघातादयो नावतरन्तीति लोकमर्यादा, नहि हेतुफलभावो न भविष्यतीति शङ्कितुमपि शक्यते, तथा सति शङ्कव न स्यात्, सर्व मिथ्या भविष्यतीत्यादिवत्, तथाप्यतीन्द्रियोपाधिनिषेधे किं प्रमाणमित्युच्यतामिति चेत् ? न वै कश्चिदतीन्द्रियोपाधिः प्रमाणसिद्धोऽस्ति यस्याभावे प्रमाणमन्वेषणीयम् , केवलं साहचर्ये निबन्धनान्तरमात्रं शङ्कयते, ततः शङ्कव फलतः स्वरूपतश्व निवर्तनीया, तत्र फलमस्याविपक्षस्यापि जिज्ञासा तर्कादाहत्य निवर्तते, ततोऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीति सर्व सुस्थम्, न चैतदागमम् , न्यायाङ्गतया तर्क व्युत्पादयतः सूत्रकारस्याभिमतत्वात् , अन्यथा तद्वयुत्पादनवैयर्थ्यादिति । अनुमानस्य प्रामाण्य तत एव संवादिप्रवृत्तिजनकत्वहेतुना शब्दजधियोऽपि प्रामाण्यं सिद्धयत्येव, प्रमाणं भवतु शब्दः किन्तु तस्यानुमानेऽन्तर्भाव इति न पृथक् प्रमाणमिति वैशेषिकमतं चाशङ्कच कुसुमाञ्जलावेव दूषितम्, तद्न्थश्चायम्- "शब्दोऽपि न बाधकमनुमानानतिरेकादिति वैशेषिकादयः, तथाहि- यद्यप्येते पदार्था मिथः संसर्गवन्तो वाक्यत्वादिति व्यधिकरणम् , पदार्थत्वादिति चानैकान्तिकम्, पदैः स्मारितत्वादित्यपि तथा, यद्यपि चैतानि पदानि स्मारितार्थसंसर्गवन्ति तत्स्मारकत्वादित्यादौ साध्याभावः, नक्षत्र मत्वर्थः संयोगः समवायस्तादात्म्यं विशेषण-विशेष्यभावो वा संभवति, ज्ञाप्यज्ञापकभावस्तु स्वातन्त्र्येणानुमानान्तर्भाववादिभिर्नेष्यते, न च लिङ्गतया ज्ञापकत्वम् , यल्लिङ्गस्य विषयस्तदेव तस्य, परस्पराश्रय प्रसङ्गात् तदुपलम्भे हि व्याप्तिसिद्धिस्तत्सिद्धौ च तदनुमानमिति, तथाप्याकालादिमद्भिः पदैः स्मारितत्वात् गामभ्याजेति पदार्थवदिति स्यात्, न च विशेषासिद्धिर्दोषः, संसर्गस्य संसृज्यमा विशेषादेव विशिष्टत्वात् , यद्वा एतानि पदानि स्मारितार्थसंसर्गज्ञानपूर्वकानि आकाङ्खादिमत्त्वे सति तत्स्मारकत्वात् , गामभ्याजेतिपदवत् , न चैवमर्थासिद्धिः, ज्ञानावच्छेदकतयैव तत्सिद्धेः, तस्य च संसृज्यमानोपहितस्यैवावच्छेदकत्वान्न विशेषाप्रतिलम्भ इति, अत्रोच्यते- " अनैकान्तः परिच्छेदे सम्भवे च न निश्चयः । आकाङ्खासत्तया हेतुर्योग्यासत्तिरबन्धना ॥१॥" एते पदार्था मिथः संसर्गवन्त इति संसृष्टा एवेति नियमो वा साध्यः ? सम्भावितसंसर्गा वा ? न प्रथमः- अनाप्तपदकदम्बस्मारितैरनेकान्तात् , आप्तोक्त्या विशेषणीयमिति चेत् ? न- वाक्यार्थप्रतीतेः प्राक् तदसिद्धेः न विप्रलम्भकत्वमिहाप्तशब्देन विवक्षितम् , तदुक्तेरपि पदार्थसंसर्गव्यभिचारात्, अपि तु तदनुभवप्रामाण्यमपि, न चैतच्छक्यमसर्वज्ञेन सर्वदा सर्वविषये सत्यज्ञानवानयमिति निश्चेतुम्, भ्रान्तेः पुरुषधर्मत्वात् , यत्र क्वचिदाप्तत्वमनाप्तस्याप्यस्तीति न तेनोपयोगः, ततोऽस्मिन्नर्थेऽयमभ्रान्त इति केनचिदुपायेन ग्राह्यम्, न चैतत् संसर्गविशेषमप्रतीत्य शक्यम् , बुद्धरर्थभेदमन्तरेण निरूपयितुमशक्यात् , पदार्थमात्रे चाभ्रान्तत्वसिद्धौ न किञ्चित् , अनाप्तसाधारण्यात् , एतेषां संसर्गेऽयमभ्रान्त इति शक्यमिति चेत् ?, न- एतेषां संसर्गे इत्यस्या एव बुद्धेरसिद्धः, अननुभूतचरे स्मरणायोगात् , तदनुभवस्य लिङ्गाधीनतया तस्य च विशेषणासिद्धत्वेनानुपपत्तेरिति । नापि द्वितीयः- योग्यतामात्रसिद्धावपि संसर्गानिश्चयात्, वाक्यस्य च तदेकफलत्वात् , योग्यतामात्रस्य प्रागेव सिद्धेः, अन्यथा तदसिद्धावासन्नसाकाङ्क्षपदस्मारितत्वादित्यैव हेतुः स्यात्, तथा चाग्निना सिञ्चेदित्यादिना स्मारितैरनेकान्तः, तथाविधानां सर्वथा संसर्गायोग्यत्वादिति । द्वितीयेऽपि प्रयोगे हेतुराकाङ्क्षादिमत्त्वे सतीति, तत्र केयमाकाङ्क्षा नाम, न तावद् विशेषणविशेष्यभावः, तस्य संसर्गस्वभावतया साध्यत्वात् नापि तद्योग्यता, योग्यतयेव गतार्थत्वात् ?, नाप्यविनाभावः, नीलं सरोजमित्यादौ तदभावेऽपि वाक्यार्थप्रत्ययात् , तत्रापि सामान्याक्षिप्तविशेषयोरविनाभावोऽस्तीति चेत् ?, न- अहो विमलं जलं नद्याः, कच्छे महिषश्वरतीत्यादौ वाक्यभेदानुपपत्तिप्रसङ्गात् ?, नापि प्रतिपत्तुर्जिज्ञासा, पटो भवतीत्यादौ शुक्लादिजिज्ञासायां रक्तः पटो भवतीत्यस्यैकदेशवत् सर्वदा वाक्यापर्यवसानप्रसङ्गात् , गुण-क्रियाद्यशेषविशेषजिज्ञासायामपि पदस्मारितविशेषजिज्ञासा आकाङ्क्षा, पट इत्युक्ते किंरूपः कुत्र किं करोतीत्यादिरूपजिज्ञासा, तत्र भवतीत्युक्ते किं करोतीत्येव परस्मारितविषया, न तु किंरूप इत्यादिपि, यदा तु रक्त इत्युच्यते तदा किंरूप इत्येषाऽपि स्मारितविषया स्यात् , इति न किञ्चिदनुपपन्नमिति चेत् ? एवं तर्हि चक्षुषी निमील्य, परिभावयतु भवान्- किमस्यां जातायामन्वयप्रत्ययोऽथ ज्ञातायामिति, तत्र प्रथमे नानया व्यभिचार Page #440 -------------------------------------------------------------------------- ________________ ३६९ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । तुणत्वेन व्यभिचारज्ञानस्य तेनैव रूपेण कारणताग्रहविरोधित्वात् , अवच्छेदकौदासीन्येन तृणत्वसमानाव्यावर्तनाय हेतुर्विशेषणीयः, मनःसंयोगादिवत् सत्तामात्रेणोपयोगात्, आसत्तियोग्यतामात्रेण विशिष्टस्तु निश्चितोऽपि न गमकोऽयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ व्यभिचारात्, द्वितीयस्तु स्यादपि, यद्यनुमानान्तरवत् तत्सद्भावेऽपि तज्ज्ञानवैधुर्यादन्वयप्रत्ययो न जायते, न त्वेतदस्ति, आसत्तियोग्यतामात्रप्रतिसन्धानादेव साकाङ्क्षस्य सर्वत्र वाक्यार्थप्रत्ययात्, निवृत्ताकाङ्क्षस्य च तदभावात् , कथमेष निश्चयः साकार एव प्रत्येति न तु ज्ञाताकाङ्क्ष इति चेत् ? तावन्मात्रणोपपत्तावनुपलभ्यमानज्ञानकल्पनाऽनुपपत्तेः, अन्यत्र तथा दर्शनाच्च, यदा हि दूराद् दृष्टसामान्यो जिज्ञासते- कोऽयमिति, प्रत्यासीदंश्च स्थाणुरयमिति प्रत्येति, तदाऽस्य ज्ञातुमहमिच्छामीत्यनुव्यवसायाभावेऽपि स्थाणुरयमित्यर्थप्रत्ययो भवति, तथेहाप्यविशेषाद् विशेषोपस्थानकाले संसार्गावगतिरेव, न तु जिज्ञासाऽवगतिरिति, न च विशेषोपस्थानात् प्रागेव जिज्ञासावगतिः प्रकृतोपयोगिनी, तावन्मात्रस्यानाकाङ्कत्वात् , न चैवम्भूतोऽयमकान्तिको हेतुः, यदा ह्ययमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामिति वक्तोचारयति श्रोता च व्यासङ्गादिना निमित्तनायमेति पुत्र इत्यश्रुत्वैव राज्ञः पुरुषोऽपसार्यतामिति शृणोति तदाऽस्त्याकाङ्कादिमत्त्वे सति पदकदम्बत्वम्, न च स्मारितार्थसंसर्गज्ञानपूर्वकत्वमिति, स्यादेतत् , यावत्समभिव्याहृतत्वेन विशेषिते हेतौ नायं दोषः, कुतस्तर्हि कतिपयपदश्राविण: संसर्गप्रत्ययः, अलिङ्ग एव लिङ्गत्वाध्यारोपात्, एतावानेवायं समभिव्याहार इति तत्र श्रोतुरभिमानः, न- तत्संदेहेऽपि श्रुताऽनुरूपसंसर्गाऽवगमात्, भवति हि तत्र प्रत्ययो न जाने किमपरमनेनोक्तमेतावदेव श्रुतं यद् राज्ञः पुरुषोऽयमपसार्यतामिति, भ्रान्तिरसाविति चेत् ? न तावदसौ दुष्टेन्द्रियजा, परोक्षाकारत्वात् , न लिङ्गभासजा, लिङ्गाभिमानाभावेऽपि जायमानत्वात् , एतावत्पदकदम्बप्रतिसन्धानमेव तां जनयतीति चेत् ? यद्येवमेतदेवादुष्टं तदभ्रान्ति जनयत् केन वारणीयम् , व्याप्तिप्रतिसन्धानं विनाऽपि तस्य संसर्गप्रत्यायने सामर्थ्यावधारणात् , चक्षुरादिवत् , नास्त्येव तत्र संसर्गप्रत्ययोऽसंसर्गाग्रहमात्रेण तु तथा व्यवहार इति चेत् ? तर्हि यावत्समभिव्याहारेणापि विशेषणेनाप्रतीकारः, तथाभूतस्यानाप्तवाक्यस्य संसर्गज्ञानपूर्वकत्वाभावात् , असंसर्गाग्रहपूर्वकत्वमात्रे साध्ये न व्यभिचार इति चेत् ? एवं तर्हि संसर्गो न सिद्धयेत्, आप्तवाक्येषु सेत्स्यतीति चेत् ?, न- सर्वविषयाप्तत्वस्यासिद्धेः, यत्र क्वचिदाप्तत्वस्यानैकान्तिकत्वात् प्रकृतविषये चाप्तत्वसिद्धौ संसर्गविशेषस्य प्रागेव सिद्धयभ्युपगमादित्युक्तम्, म च सर्वत्र जिज्ञासा निबन्धनम् , अजिज्ञासोरपि वाक्यार्थप्रत्ययात् , आकाङ्क्षापदार्थस्तर्हि कः ? जिज्ञासां प्रति योग्यता, सा च स्मारिततदाक्षिप्तयोरविनाभावे सति श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावः, न चैषोऽपि ज्ञानमपेक्षते, प्रतियोगिनिरूपणाधीननिरूपणत्वात् तदभावनिरूपणस्य च विषयनिरूप्यत्वादितीति । प्रत्यक्षमेवैकं प्रमाण मभ्युपगच्छतश्चार्वाकस्य प्रत्यक्षाभावादीश्वरमपलपतः शिक्षणमपि तत्रैव, तथा च तद्न्थः - “चार्वाकस्त्वाह - किं योग्यताविशेषाग्रहेण, यन्नोपलभ्यते तन्नास्ति विपरीतमस्ति, न चेश्वरादयस्तथा ततो न सन्तीत्येतदेव ज्यायः, एवमनुमानादिविलोप इति चेत् ? नेदमनिष्टम् , तथा च लोकव्यवहारोच्छेद इति चेत् ? न- सम्भावनामात्रेण तत्सिद्धेः, संवादेन च प्रामाण्याभिमानादिति, अत्रोच्यते- " दृष्ट्यदृष्ट्योने संदेहो भावाभावविनिश्चयात् । अदृष्टिबाधिते हेतौ प्रत्यक्षमपि दुर्लभम् ॥" सम्भावना हि सन्देह एव, तस्माञ्च व्यवहारस्तस्मिन् सति स्यात् , स एव तु कुतः, दर्शनदशायां भावनिश्चयात् , अदर्शनदशायामभावावधारणात् , तथा च गृहाद् विनिर्गतश्चार्वाकवराको न निवर्तेत, प्रत्युत पुत्रदारधनाद्यभावावधारणात् सोरस्ताडं शोकविकलो विक्रोशेत् , स्मरणानुभवान्नैवमिति चेत्, न- प्रतियोगिस्मरण एवाभावपरिच्छेदात्, परावृत्तोऽपि कथं पुनरासादयिष्यति, सत्त्वादिति चेत् ? अनुपलम्भकालेऽपि तर्हि सन्तीति न तावन्मात्रेणावधारणम् , तदैवोत्पन्ना इति चेत् ? अनुपलम्भेन हेतूनां बाधात् , अबाधे वा स एव दोषः, अत एव प्रत्यक्षमपि न स्यात्- तद्धेतूनां चक्षुरादीनामनुपकम्भबाधितत्वात् , उपलभ्यन्त एव गोलकादय इति चेत् ? न- तदुपलब्धेः पूर्व तेषामनुपलम्भात् , न च योगपद्यनियमः, कार्यकारणभावाद्" इति । अवच्छेदकविनिर्मोके. णान्यत्रापि कार्यकारणभाव इत्युपदर्शयति-तृणाऽरणिमण्यादीनामिति । तुणत्वेनैवेति- तृणत्वावच्छिन्नस्याभावेऽपि अरण्यादितो वहेर्भावेन तृणाभावे वह्निभावलक्षणव्यतिरेकव्यभिचारज्ञानस्य तृणत्वेनैव धर्मेण वह्निनिष्ठकार्यतानिरूपितकारणत्वस्य तृणे प्रहे प्रतिबन्धकत्वादित्यर्थः। अवच्छेदकौदासीन्येन अवच्छेदकस्य कस्यचिदप्रवेशेन "तृणत्वसमानाधि. करणताग्रहे" इत्यस्य स्थाने " तृणत्वसामानाधिकरण्येन कारणताग्रहे" इति पाठो युक्तः, तृणं वह्निकारणमित्येवं कारणता. प्रह इत्यर्थः। विरोधाभावात तृणत्वेन व्यभिचारज्ञानस्याप्रतिबन्धकत्वात्। ननु कारणतायाः ससम्बन्धिकपदार्थत्वेन Page #441 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलईतो नबोपदेशः । धिकरणताग्रहे विरोधाभावात् । अवच्छेदकरूपानुपस्थितौ कथमवच्छेथकारणतामहः कारणताया ससम्बन्धिकपदार्थत्वेन तत्प्रत्यक्षे सम्बन्धिज्ञानस्य कारणत्वादिति चेत् ? न- " अयं घटः" इति समवायप्रत्यक्ष व्यभिचारात् । अथ येन समवायत्वादिना रूपेण ससम्बन्धिकता तेन रूपेण तत्प्रत्यक्षे तस्य हेतुत्वान्न व्यभिचार इति चेत् ? न- तथापि ससम्बन्धिकतावच्छेदकप्रकारकज्ञानत्वेन हेतुत्वमित्यत्र सम्बन्धिमात्रवृत्तित्वस्यैवावच्छेदकपदार्थत्वात् , प्रकृते च इयं वहिव्यक्तिस्तृणजन्येति कारणताप्रत्यक्ष. स्यापि तृणकार्यताश्रयमात्रवृत्त्यैतद्वद्वित्वप्रकारकज्ञानसाध्यत्वसम्भवात् , यद्वा इयं वहिव्यक्तिस्तृणजन्येति प्रत्यक्षस्यैतद्वतित्वावच्छिन्नकार्यतावगाहित्वेऽप्यवच्छेदकत्वांशे भ्रमत्वेऽपि कार्यतांशे प्रमात्वान कोऽपि दोषः । अथान्वय-व्यतिरेकाग्रहाप्रकारकजात्या कार्यत्वकल्पनाऽनौचित्यात् तथाभूतशक्त्या कारणत्वमेव ससम्बन्धिकपदार्थप्रत्यक्षे सम्बन्धि ज्ञानस्य कारणत्वादवच्छेदकरूपसम्बन्धिज्ञाने सत्येवावच्छेद्यकारणत्वग्रहो नान्यथेत्यवच्छेदक. धर्मानुपस्थितौ कारणत्वग्रहो न सम्भवतीत्याशङ्कते- अवच्छेदकरूपानुपस्थिताविति । समाधत्ते-नेति- अयं घट इति प्रत्यक्षे घटत्वप्रकारकेदंविशेष्यके समवायोऽपि संसर्गतया भासत इति समवायस्यापि तत् प्रत्यक्षं भवति, न च ततः प्राग घटत्वेन घटस्य सम्बन्धिनः प्रत्यक्षं समस्ति यत् कारणं भवेदिति सम्बन्धिप्रत्यक्षमन्तराऽपि ससम्बन्धिकसमवायज्ञानस्य भावेन व्यभिचारान्निरुक्ककार्यकारणभावस्यासम्भवादित्यर्थः। नन्वयं घट इति प्रत्यक्षे समवायः संसर्गतयैव भासते न नित्यसम्बन्धत्वलक्षणसमवायत्वेन, निरुक्तसमवायत्वेनैव च तस्य ससम्बन्धिकपदार्थत्वमतस्तेन रूपेण तत्प्रत्यक्षत्वावच्छिन्नं प्रत्येव सम्बन्धिज्ञानस्य हेतुत्वादयं घट इति प्रत्यक्षस्य कार्यतावच्छेदकधर्मानाक्रान्तत्वान्न व्यभिचार इत्याशङ्कते- अथेति । तेन रूपेण समवायत्वेन रूपेण । तत्प्रत्यक्षे समवाय प्रत्यक्षे। तस्य सम्बन्धिज्ञानस्य । समाधत्ते-नेति । तथापि उक्तप्रकारेण कार्यकारणभावाश्रयणेनायं घट इति समवाय प्रत्यक्षे व्यभिचारपरिहारेऽपि । “ससम्बन्धितावच्छेदकप्रकारकज्ञानत्वेन" इत्यस्य स्थाने “ससम्बन्धिकतावच्छेदकप्रकारकप्रत्यक्षत्वावच्छिन्नं प्रति सम्बन्धितावच्छेदकप्रकारकज्ञानत्वेन" इति पाठो युक्तः। सम्बन्धिमात्रेति- तथा च ससम्बन्धिपदार्थवृत्तिप्रकारकप्रत्यक्षत्वावच्छिन्नं प्रति सम्बन्धिवृत्तिप्रकारकज्ञानत्वेन कारणत्वमित्यत्रैवोक्त कार्यकारणभावपर्यवसानम् , सम्बन्धत्वस्य ससम्बन्धिसमवायमात्रवृत्तित्वाभावात् संसर्गस्य संसर्गतयैव भानम् , तद्विशेषणस्य विशेषणत्वमेव न प्रकारत्वमिति सम्बन्धत्वस्यायं घट इति प्रत्यक्ष प्रकारत्वाभावात् ससम्बन्धिकसमवायमात्रवर्तिनः समवायत्वस्यापि तत्र प्रकारत्वाभावादयं घट इति समवाय प्रत्यक्षस्य कार्यतावच्छेदकधर्मानाक्रान्तत्वात् तत्र व्यभिचारः परिहृत एव भवति । वह्निणयोः कार्यकारणभावे तृणनिष्ठकारणताया आश्रयतया सम्बन्धि तृणं निरूपकतया वहिव्यक्तिर्न तु वह्निमात्रं व्यभिचारेण तृणनिष्ठकारणताया वहिनात्रनिरूपितत्वाभावात् , एवं च निरुक्तकारणताप्रत्यक्षमियं वहिव्यक्तिस्तृणजन्येत्याकारकं तस्य तृणकार्यताश्रयवहिव्यक्तिरूपसम्बन्धिमात्रवृत्त्येतद्वहित्वप्रकारकज्ञानजन्यत्वेन व्यभिचाराभावादित्याह-प्रकृते चेति । इयं वह्निव्यक्तिस्तृणजन्येति वह्नि-तृणयोः कार्यकारणभावप्रत्यक्षं तृणत्वावच्छिन्नकारणतानिरूपितैतद्वहित्वावच्छिन्नकार्यतावती वहिव्यक्तिरियमित्याकारकत्वेन तृणनिरूपितवहिनिष्ठकार्यतायामेतद्वदित्वावच्छिन्नत्वस्याभावेऽप्येतद्वह्नित्वावच्छिन्नत्वस्यावगाहनात् तदंशे भ्रमत्वेऽप्येतद्वहिव्यक्तौ तृणनिरूपितकार्यतायाः सत्त्वात् तदंशे प्रमात्मकमेव, तस्य च वह्निनिष्ठतद्वयक्तित्वप्रकारकज्ञानजन्यत्वमस्त्येवेति न कश्चिद् दोष इति कल्पान्तरमाह-यद्वेति । ननु तृणसत्त्वे एतद्वहिसत्त्वं तृणाभावे एतद्वयभाव इत्येवमन्वय-व्यतिरेकग्रहो नात्र सम्भवति, एतदहिव्यतरपूर्वत्वेन तस्याः कदाचिदपि पूर्व तृणतोऽभावाद् वड्यन्तरस्य तृणान्तरात् पूर्व भावेऽपि तत्रैतद्वह्नित्वस्याभावादिति नैतदहित्वेन तृणत्वेन कार्यकारणभावग्रहः सम्भवति, तृणजन्यवहिमात्रवर्तिवहित्वावान्तरजातेश्च नान्वय-व्यतिरेकग्रहप्रकारत्वमिति न तया कार्यकारणभाव. कल्पना युक्तेति तृणा-ऽरणि-मणिष्वेका बलयनुकूला शक्तिरस्ति, तयैव तृणादीनां वहित्वावच्छिन्नं प्रति कारणत्वमिति तृणनिष्ठनिरुक्तशक्त्यवच्छिन्नकारणतानिरूपितकार्यतावच्छेदकं वहित्वमेवेत्यारेकते-अथेति । " अथान्वयव्यतिरेकाग्रहाप्रकारकजात्या" इत्यस्य स्थाने " अथान्वय-व्यतिरेकप्रहाप्रकारजात्या" इति पाठो युक्तः, तथाकल्पनाऽनौचित्यं चाप्रत्यक्षीभूतस्य बहित्वावान्तरजातित्रयस्य कल्पने गौरवादेव । तथाभूतशक्त्या अन्वय-ध्यतिरेकग्रहाप्रकारीभूततृणारणिमण्यनुगतवयनु Page #442 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । कल्प्यतां लाघवात् इति चेत् ? न- तृणादेः फूत्कारादिसहकारिनिय मानुपपत्तेर्मणिफूत्कारादिनापि वह्नयाद्युत्पत्तिप्रसङ्गात्, तथा च फूत्कारादिजन्यविजातीयवह्नौ तृणत्वादिना हेतुत्वस्यावश्यकत्वात्, न च तृणफूत्कारादिसंयोगेष्वेव शक्तिरिति न तन्नियमानुपपत्तिः, तर्हि तृणत्वादिना तृणादीनामहेतुत्वेऽकारणत्वेनैव सामयिकशक्तिविशेष कल्पनप्रसङ्गात्, तथाभूताभावविशेषस्यैव वा तत्रौचित्यान्नायमपि । जातिभेदस्यानुभविकत्वादेव तत्तदवच्छिन्ने तृणत्वादिना हेतुत्वमित्यन्ये, वह्नित्वावच्छिन्ने विलक्षणो ३७१ ܕܕ कूलशक्त्या । लाघवादिति - तथाभूता शक्तिरेकैवेत्यनेक जाति कल्पनाऽपेक्षयैकशक्तिकल्पने लाघवादित्यर्थः । फूत्कारह तृणादेव वह्नयुत्पत्तिर्निर्मन्थन सहकृतादरणेरेव वह्नयुत्पत्तिः सूर्यकिरण संयोगसह कृतान्मणेरेव वह्नयुत्पत्तिरिति तृणादेः फूत्कारायेव सहकारीति नियमो न भवेत्, फूत्कारादीनां वह्नयनुकूलशक्तिमत एव सहकारित्वेन फूत्कारसचिवारण्यादितोऽपि वह्निरुत्पयेते ति समाधत्ते - नेति । तथा च वहिं प्रत्येकशक्तिमत्वेन तृणादीनां कारणत्वस्य कल्पयितुमशक्यत्वे च । फूत्कारादीत्यादिपदान्निर्मन्थन र विकिरणसंयोगयोरुपग्रहः, तृणत्वादिनेत्यत्रादिपदादरणित्वमणित्वयोरुपग्रहः एवं च फूत्कारजन्य विजातीयवर्द्धि प्रति तृणत्वेन तृणस्य, निर्मन्थनजन्यविजातीयविद्धिं प्रति अरणित्वेनारणेः, तरणिकिरणप्रतिफलनजन्यविजातीय वहिं प्रति मणिवेन मणेश्च हेतुत्वस्याssवश्यकत्वादित्यर्थः । ननु तृणफूत्कारसंयोगे निर्मन्थनारणिसंबन्धे तरणिकिरणमणिसंयोगे च वह्ननुकूलशक्तिरेकोपेयते, तादृशशक्तिमखेन तृणफूत्कारसंयोगादीनां वद्धिं प्रति कारणत्वे नोक्तदोषप्रसङ्ग इत्याशङ्कय प्रतिक्षिपतिन चेति । न तन्नियमानुपपत्तिः न सहकारिनियमानुपपत्तिः । यत् कारणं तत् कार्यानुकूलशक्तिमत् यच्च न कारणं न तत् कार्यानुकूलशक्तिमदिति कार्यकारणेषु कार्यानुकूलशक्तेरिव कार्याकारणेषु कार्याननुकूलशक्तेरपि स्वसमय सिद्धायाः कल्पनं स्याद्, एवं च तृणत्वादिना तृणादीनां वह्निकारणत्वाभावे तेष्वकारणत्वेन स्वसमयसिद्धस्य शक्तिविशेषस्य कल्पनं प्रसज्येतेति समाधत्ते - तर्हीति । तथाभूतेति तृणफूत्कारसंयोगभिन्नत्वे सति अरणिनिर्मन्थनसम्बन्धभिन्नत्वे सति तरणिकिरणसंयोगभिन्नो यस्तद्भिन्नत्वरूपान्यतमत्वात्मकाभावविशेषस्यैव वा तत्र तृणफूत्कार संयोगादिषु वह्निकारणतावच्छेदकतया कल्पनौचित्य प्रसङ्गादित्यर्थः । भवत्वन्यतमत्वेनैव कारणत्वं किं नश्छिन्नमित्यत आह- नायमपीति - अन्यतमत्वेन कारणत्वमपि न सम्भवति, अन्यतमत्वस्य भेदकूटावच्छिन्न भेदरूपतया तत्र कूटत्वस्यैकविशिष्टापरत्वात्मकत्वेन विशेष्य-विशेषणभावे विनिगमनाविरहादन्यतमत्वस्यानेकरूपतया तदवच्छिन्नकारणत्वस्याप्यनेकत्वप्रसङ्गादित्यर्थः । एवं च वह्नित्वावान्तरजातित्रयस्य प्रत्यक्षसिद्धस्यैव तृणादिजन्यतावच्छेदकत्वमिति विजायतीयवह्नित्वावच्छिन्नं प्रति तृणत्वेन विजातीयवह्नित्वावच्छिन्नं प्रति अरणित्वेन, विजातीयवहित्वावच्छिन्नं प्रति मणित्वेन कारणत्वमित्येवं कार्यकारणभावत्रय कल्पनमेव ज्याय इत्याहवह्नौ जातिभेदस्येति । अन्ये इति - उदयनाचार्याः, तथा च तन्द्रथ:- “ फूत्कारेण तृणादेरेव, निर्मन्थनेनारणेरेव, प्रतिफलिततरणिकिरणैर्मणेरेवेति प्रकारनियमवत् तेनैव व्यज्यमानस्य कार्यजातिभेदस्य भावात्, दृश्यते च पावकत्वाविशेषेऽपि प्रदीपः प्रासादोदरव्यापकमालोकमारभते, न तथा ज्वालाजालजटिलोऽपि दारुदहनो नितरां च कारीषः । यस्तु तं नाकलयेत् स कार्यसामान्येन कारणमात्रमनुमिनुयादिति किमनुपपन्नम् एवं तर्हि धूमादावपि कश्चिदनुपलक्षणीयो विशेषः स्यात्, यस्य दहनापेक्षेति न धूमादिसामान्याद् वह्निसामान्यादिसिद्धिः, एतेन व्यतिरेको व्याख्यातः तथा च कार्यानुपलब्धिलिङ्गभङ्ग स्वभावस्याप्यसिद्धेर्गतमनुमानेनेति चेत् ? प्रत्यक्षानुपलम्भगोचरो जातिभेदो न कार्यप्रयोजक इति वदतो बौद्धस्य शिरस्येष प्रहारः, अस्माकं तु यत्सामान्याकान्तयोर्ययोरन्वयव्यतिरेकवत्ता तयोस्तथैव हेतुहेतुमद्भावनिश्चयः, तथा चावान्तरविशेषसद्भावेऽपि न नो विरोधः, किं पुनस्तार्णादौ दहनसामान्यस्य प्रयोजकं तृणादीनां विशेष एव नियतत्वादिति चेत् ? तेजोमाशोत्पत्तौ पवनो निमित्तम्, अवयवसंयोगोऽसमवायी, तेजोऽवयवाः समवायिनः, इयमेव सामग्री गुरुत्ववद् द्रव्यसहिता पिण्डितस्य, इयमेव तेजोगतमुद्भूतस्पर्शमपेक्ष्य दहनम्, तत्रापि जलं प्राप्य दिव्यम्, पार्थिवं प्राप्य भौमम्, उभयं प्राप्यौदर्यमारभत इति स्वयमूहनीयमिति । " अनन्तर मुल्लिखिते उदयनाचार्य प्रन्थ एव " इयमेव तेजोगत मुद्भूतस्पर्शमपेक्ष्य इत्युक्तया प्राचीननैयायिकानामुदयनाचार्य प्रभृतीनामेव मतमेतत् यदुत - वह्नित्वावच्छिन्ने विलक्षणोष्णवत्तेजः कारणमिति, युक्तं चैतत्, अन्यमतोपदर्शने वह्नित्वावान्तरवैजात्यवच्छिने तृणत्वादिना कारणत्वोपदर्शनेऽपि वनित्वावच्छिन्ने दहनम् Page #443 -------------------------------------------------------------------------- ________________ ३७२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। ष्णस्पर्शवत्तेजः कारणमिति नव्याः, तेजस्त्वेन तत्र हेतुत्वम् , व्यणुकात्मकवह्नौ तृणत्वादिना, त्रसरेण्वादि. निष्ठवैजात्यावच्छिन्ने व्यणुकादिनिष्ठवह्नित्वेनेत्येतस्मात् कचिदेकान्तेन कचिच्च विकल्पेन, दण्डवादिना घटादौ तृणत्वादिना च वह्निविशेषादौ कारणतायुक्तागमबलात् तत्त्वज्ञानत्वेन कर्मविशेषत्वादिना च कारणताऽऽवश्यकीति नानुपायवादः श्रेयानिति नैयायिकादयः। ---- वयं तु ब्रूमः- तन्तोरेव पटो न कपालादेरिति, कुन इति प्रश्ने स्वभावादेवेति यदुत्तरं तत्र प्रश्नोत्तरे . किं हेतुविषये, उत नियामकविषये ? उभयत्रापि किं धालम्बने, उत धर्मालम्बने ? आद्य-तन्तु. जन्यकपालाजन्यपटे स्वभावो हेतुरित्यागतम् , स च स्वात्मैवेत्यात्माश्रयः, द्वितीयेऽपि स एव दोषः स्वस्य स्वनियामकत्वासम्भवात् , भेदगर्भनियामकस्यैव जिज्ञासितत्वाच्च, न तृतीयः- धर्महेतोरजिज्ञासि. कस्यचित् कारणस्यानुपदर्शनाद् वह्नित्वावच्छिन्ने किं कारणमित्याकाङ्खायास्तन्मतेऽनिवृत्तः, तस्मादन्यमतमेवैतत् । तथा च "मित्यन्ये" इत्यस्य स्थाने “मिति । अन्ये" इति पाठः "कारणमिति" इति स्थाने “ कारणमिति।" इति पाठः । "नव्याः," इत्यस्य स्थाने “ नव्यास्तु" इति पाठेन भाव्यम् , तस्य तेजस्त्वेनेत्याद्याग्रिमग्रन्थे समन्वय इति बोध्यम् । तत्र वह्नित्वावच्छिन्ने । तृणत्वादिनेत्यनन्तरं हेतुत्वमित्यनुषज्यते, एवमग्रेऽपि, तेजस्त्वावान्तरजातेः परमाण्वात्मकतेजस्थनुपगमान्न द्वयणुकात्मकवह्नौ परमाणुनिष्ठवह्नित्वेन कारणत्वसम्भव इति व्यणुकात्मकवह्नौ तृणवादिना हेतुत्वमङ्गीकृतम् । त्रसरेण्वादिनिष्ठेति-व्यणुके तेजस्त्वावान्तरवह्नित्वजातिः सम्भवतीति तद्रूपेण व्यणुकात्मकवह्वेनसरेण्वात्मकवहिगतवैजात्यावच्छिन्नं प्रति कारणत्वं सम्भवतीति । उपसंहरति-तस्मादिति । “नेत्यतस्मात्" इत्यस्य स्थाने " नेति, तस्मात्" इति पाठो युक्तः । क्वचिदेकान्तेनेति-घटादौ दण्डादेर्दण्डत्वादिना यत् कारणत्वं तदेकान्तेन, न हि दण्डादिकमन्तरेण कस्यापि घटादिजातीयस्य सम्भव इति, वह्निविशेषादौ तृणस्वादिना तृणादेयत् कारणत्वं तद् विकल्पेन, तृणाद् वा मण्यादितो वा वह्निविशेषादेः सम्भव इति । "कारणतायुक्तागम" इत्यस्य स्थाने "कारणता युक्ता, आगम" इति पाठो युक्तः। तत्वज्ञानत्वेनेति-मोक्षं प्रति तत्त्वज्ञानत्वेन कर्मविशेषत्वादिना च कारणताऽवश्यमभ्युपेयेत्यर्थः। इति एतस्मात् कारणात् । अनुपायवादः नियतिवादिनां स्वभावादेव कार्यमात्रमुपजायते न कस्यचित् किञ्चित् कारणमिति तत्त्वज्ञानादिकमन्तरेणापि मोक्षो भविष्यत्येवेति न तदर्थमायासो विधेय इत्यनुपायवादो न श्रेयान् न युक्त इति नैयायिकादयो वदन्तीत्यर्थः । - स्वयं नियतिवादखण्डनमुपदर्शयति-वयं त्विति- स्याद्वादिनोऽस्मदादय इत्यर्थः। “रिति, कुत" इत्यस्य स्थाने "रिति कु" इति पाठो युक्तः । कि हेतूविषये इति-तन्तोरेव पटो न कपालादेरिति कस्माद्धेतोरिति हेतुविषयः प्रश्नः, तन्तोरेव पटो न कपालादेरिति स्वभावादेवेति हेतुविषयकमुत्तरमित्येवं प्रश्नोत्तरे किं हेतुविषये इत्यर्थः, उत नियामक विषये इति- तन्तोरेव पटो न कपालादेरिति कस्मानियामकादिति नियामकविषयः प्रश्नः, तन्तोरेव पटो न कपालादेरिति स्वभावादेव नियामकादित्येवं किं नियामकविषये प्रश्नोत्तरे इत्यर्थः । उभयत्रापि हेतुविषयप्रश्नोत्तरयोर्नियामकविषयप्रश्नोत्तरयोश्च । आधे धालम्बने हेतुविषये प्रश्नोत्तरे इति प्रथमपक्षे। आगतम उत्तरस्वरूप प्राप्तम् । धालम्बनपक्षे स्वमेव भावः स्वभाव इत्येतत्पक्षे व्युत्पत्त्या स्वभावः स्वमेव भवेत् , तथा च स्वस्मादेव भवतीति, न चैकस्यैव पौर्वापर्यनियतकार्यकारणभावः संभवत्यात्माश्रयश्चात्र दोष इत्याह- स चेति स्वभावश्चेत्यर्थः । द्वितीयेऽपि धालम्बने नियामकविषये प्रश्नोत्तरे इति द्वितीयपक्षेऽपि । स एव आत्माश्रय एव, यथाऽऽत्माश्रयात् स्वं न स्वस्य हेतुस्तथाऽऽत्माश्रयात् स्वं न स्वस्य नियामकमित्याह-स्वस्येति । जिज्ञासितविषयत्वात् प्रश्नस्य नहि स्वं स्वनियमकारीति स्वभिन्ननियमकारिणो जिज्ञासितत्वात् तद्विषयकप्रश्नस्योत्तरं स्वभिन्ननियामकविषयकमेव भवितुमर्हतीति निरुक्कोत्तरस्य स्वात्मनियामकगोचरस्य न तथात्वसम्भव इत्याह- मेदगर्भेति। न तृतीय इति धर्मालम्बने हेतुविषयप्रश्नोत्तरे इति तृतीयपक्षोऽपि न युक्त इत्यर्थः । निरकनिषेधेऽपि पूर्वोक्तमेव हेतुमुपदर्शयति-धर्महेतोरिति । नापि चतुर्थ इति - धर्मालम्बने नियामकविषये प्रश्नोत्तरे इति Page #444 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलड़तो न्योपदेशः । ३७३ तत्वात् , नापि चतुर्थः- पटे तन्तुजन्यत्व-कपालाजन्यत्वधर्मशालित्वस्य तत्स्वभावनियम्यत्वे निरूपकत्वेन स्वस्यैव प्रवेशात् । एतेन तत्तत्प्रकारकेश्वरेच्छा-ज्ञानरूपाया नियतेर्नियामकत्वमपि पामराभ्युपगतं निर. स्तम् । तस्मात् स्वभावो नाम स्वहेतुस्तस्मादुक्तधर्मशालित्वमित्येव व्याख्यातुमुचितम् । तावद्धर्मावच्छिन्न. तव्यक्त्युपपत्तौ तावद्धर्मविशिष्टतन्निरूपितभव्यतानुप्रवेशेनैव तद्धेतोळप्रियमाणत्वादि(त्वा)नादित्वा(च)वध्यवधिमत्प्रवाहस्यानवस्थादिदोषाननुपातात् । अयमेव जैनानां तथाभव्यत्वहेतुताप्रवादः, एतदनभ्युपगमे च तीर्थकरा-ऽतीर्थकर-प्रत्येकबुद्ध-बुद्धबोधितादिसिद्धकार्यभेदः कथमुपपादनीयः, तत्रान्यपुष्कलहेत्व. भावात् , अथेयं चैत्रावलोकितमैत्रनिर्मितनीलेतरघटत्वा दिनापि कार्यता स्यादिति चेत् ? स्यादेव किं नः चतुर्थपक्षोऽपि न युक्त इत्यर्थः । तत्र हेतुमाह-पट इति । तत्स्वभावनियम्यत्वे पटगततन्तुजन्यत्व-कपालाजन्यत्वात्मकस्वभावनियम्यत्वे, नियम्यं- निरूप्यम् , नियामकं च-निरूपकम् , न च स्वमेव स्वस्य निरूपकम्, प्रकृते तु निरूप्यमेव निरूपकशरीरे प्रविष्टमिति निरूप्यत्वेन स्वस्यैव प्रवेशादात्माश्रयापातेन नेदमप्युत्तरं समीचीनमित्यर्थः । एतेनेत्यस्य निरस्तमित्यनेनान्वयः । एतेन नियामकशरीरप्रवेशप्रयुक्तनिरूपकत्वत आत्माश्रयापातेन । तत्तदिति- यथा पटे यत्तन्तु जन्यत्वकपालाजन्यत्वात्मकधर्मस्तत्प्रकारिका येश्वरेच्छा तत्प्रकारकं वा यदीश्वरज्ञानं तद्रूपायास्तदात्मिकाया नियतेर्नियामकत्वमपि घटगतोकधर्मत्य नियम्यस्य निरुक्तनियामकशरीरसन्निविष्टतया निरूपकत्वत आत्माश्रयप्रसङ्गदोषप्रस्तमतः पामराभ्युपगतं मुर्खकल्पविद्धन्मन्यस्वोकृतं खण्डितमवसेयमित्यर्थः। तस्मात् स्वभावादेव-स्वहेतुत एव पटे तन्तुजन्यत्वकपालाजन्यत्वधर्मशालित्वमिति हेतुहेतुमद्भावोऽस्मदायुपगतः श्रेयानिति निगमयति-तस्मादिति। तन्तुजन्यत्व-कपालाजन्यत्वादियावद्धर्मविशिष्टपटव्यक्तस्तथाभव्यत्वादेवोत्पाद इति तथाभव्यत्वहेतुताप्रवादं जनानां सङ्गमयति-तावद्धर्मावच्छिन्न तद्वयक्त्युपपत्ताविति- " तद्वयक्त्युपपत्तौ" इत्यस्य स्थाने " तद्वयक्त्युत्पत्तौ” इति पाठः सम्यग्, अस्य तद्धेतोाप्रियमाणत्वादित्यनेनान्वयः। तन्निरूपितेति- तत्सक्तिनिरूपितेत्यर्थः । भव्यताऽनुप्रवेशेनैवेति-नोकस्मात् कारणादेव कार्यमुपजायते किन्तु कारणकूटलक्षणसामग्रीत एव, अत एव नह्येक किश्चिजनक किन्तु सामग्री वैजनिकेति प्राचीनीयते, सामम्यां च कारणान्तरसन्निवेशवत् तावद्धर्मविशिष्टतद्यक्तिनिरूपितभव्यत्वमपि प्रविशतीत्येवं भव्यत्वानुप्रवेशेनैवेत्यर्थः । “दि(त्वा)नादित्या( द्य)वध्य" इत्यस्य स्थाने “दित्यनाद्यवध्य" इति पाठः सम्यक् , इति एतस्मात् कारणात् , अनाद्यवध्यवधिमत्प्रवाहस्यति- अवधिहेतुः, अवधिमत् कार्यम् , तयोः प्रवाहः-परम्परा, तथा अनादिश्चासाववध्यवधिमत्प्रवाहश्चानाद्यवध्यवधिमत्प्रवाहस्तस्येत्यर्थः, अनाद्यवध्यवधिमत्प्रवाहस्य तथाभव्यत्वादेव भावेन भव्यत्वस्वभावाद् भवतस्तस्यानवस्थादिदोषाननुपातात् , अनवस्थितस्वरूपे तस्मिन्ननवस्थामन्तरेण तथामव्यत्वमेवानुपपन्नमिति प्रामाणिकीयमनवस्था न दोषावहेत्यनवस्था या भावेऽपि तस्या न दोषरूपतेत्येवमनवस्थादिदोषाननुपातादित्यर्थः । अयमेव कारणकूटे तावद्धर्मविशिष्टतद्व्यक्तिनिरूपितभव्यत्वानुप्रवेशेन तद्धेतोस्तावद्धर्मावच्छिन्नतात्युत्पत्ती व्याप्रियमाणत्वमित्यभ्युप. गमवाद एव । एतदनभ्युपगमे च निरुक्ततथाभव्यत्वहेतुतावादानभ्युपगमे च । तीर्थकरेति- यस्तीर्थकरो भूत्वा सिद्धथति स तीर्थकरसिद्धः, यश्चातीर्थकर एव सिद्धयति सोऽतीर्थकरसिद्धः, एवमग्रेऽपि, तत्त्वज्ञानादितो मोक्षमासादयतां जीवानां योऽयं तीर्थकरसिद्धादिलक्षणकार्यभेदः स तथाभव्यत्वस्य कारणत्वस्वीकारमन्तरेण कथमुपपादनीयः, उपपादयितुमशक्य इत्यर्थः । तत्र हेतुमाह- तत्रेति-तीर्थकरसिद्धादिकार्यभेदे इत्यर्थः । अन्यपुष्कलहेत्वभावादिति- केवलज्ञानादिकारणकदम्बकं सर्वत्र समानमेव, किन्तु तथाभव्यत्वान्येव प्रतिनियतकार्यनिरूपितानि विभिन्नानि कारणानि, तत्प्रवेशत एव सामध्या अपि भेदः, तथाभव्यत्वस्य कारणत्वानभ्युपगमे तु तथामव्यत्वान्यस्य पुष्कलहेतोः सामग्रीलक्षणस्य कार्यविभेदकस्याभावादित्यर्थः। ननु कार्ये यावन्तो धर्माः सम्भवन्ति तावद्धर्मविशिष्ट कार्यव्यक्ति प्रति तथाभव्यत्वस्याभिहितस्वरूपस्य कारणत्वाभ्युपगमे तावद्धर्मावच्छिन्नत्वमपि कार्यतायां स्यात् , तथा च कुत्रचिद् घटे चैत्रावलोकितत्वं मैत्रनिर्मितत्वं नीलेतरत्वं घटत्वादिकं चास्तीति तावद्धविच्छिन्ना घटनिष्ठकार्यताऽऽपाद्यत इत्याशङ्कते- अथैवमिति । इष्टापत्तिरवात्र समाधानमित्याहस्यादेवेति- चैत्रावलोकितमैत्रनिर्मितनीलेतरघटत्वादिना कार्यता स्यादेवेत्यर्थः। किनश्छिन्नं तथाभव्यत्वकारणत्ववादिनां Page #445 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृतो नयोपदेशः । छिन्नम्, तथाभव्यत्वकार्यतायास्तथाभावेऽपि दृष्टदण्डादिकार्यताया घटत्वाद्यवच्छेदेनैव यथादर्शनमभ्युपगमेन प्रवृत्त्यादिव्यवहारानुच्छेदात् इष्यते चानन्यगत्या परेणाप्यर्थसमाज सिद्धधर्मेणापि परामर्श-तत्त्व ३७४ जनानां न किमप्येवमभ्युपगमे छिन्नं खण्डितं भवति । नन्वेवं घटत्वादिसामान्यधर्म मात्रावच्छिन्न कार्यताया अभावात् तन्निरूपितदण्डत्वाद्यवच्छिन्न कारणताया अप्यभावेन घटाद्यर्थिनस्तन्निमित्तदण्डादिसम्मेलन प्रवृत्यादिव्यवहारोच्छेदः प्रसज्येतेत्यत आह- तथाभव्यत्वकार्यताया इति- तथाभव्यत्वनिष्ठ कारणतानिरूपितकार्यताया इत्यर्थः । तथाभावेऽपि चैत्रावलोकितमैत्रनिर्मितनीलेतरथटत्वाद्यवच्छिन्नत्वस्य भावेऽपि । दृष्टेति दृष्टा अन्वयव्यतिरेकग्रह सचिव प्रत्यक्षविषयीभूता या दण्डत्वायवच्छिन्नकारणतानिरूपितकार्यता तस्याः, घटत्वाद्यवच्छेदेनैव घटत्वाद्यवच्छिन्नत्वेनैव यथादर्शनमभ्युपगमेन - प्रत्यक्षमनतिक्रम्य स्वीकारेण, घटादिकार्यसम्पादनार्थं दण्डादिकारणसङ्कटनादिविषयक प्रवृत्त्यादिव्यवहारेच्छाभावादित्यर्थः । प्रत्येकधर्मं प्रयोजकानेकसामग्री प्रयोज्यत्व लक्षणार्थ समाज सिद्धत्वाक्रान्तधर्मेणापि कार्यत्वं नैयायिकादिभिरप्युपेयत इति तद्रूपेण तथामव्यत्वनिरूपितकार्यत्वकल्पना नादृष्टचरीत्याह- इष्यते चेति- अभ्युपगम्यते चेत्यर्थः । अनन्यगत्या व्यतिरेकव्यभिचारनिवारक प्रकारान्तराभावेन । परेणापि नैयायिकादिनाऽपि । अर्थसमाज सिद्धधर्मेणापि स्वघटक प्रत्येकधर्म प्रयोजकसामग्रीसमुदायप्रयोज्यधर्मेणापि । परामर्शेति - वह्निव्याप्यधूमवान् पर्वत इति परामर्शात् पर्वतो वह्निमानित्यनुमितिरुपजायते, वह्निव्याप्यालोकवान् पर्वत इति परामर्शादपि पर्वतो वह्निमानित्यनुमितिरुपजायत इति वह्निव्याप्यधूमत्वावच्छिन्नप्रकारता निरूपित पर्वतत्वावच्छिन्नविशेष्यता कनिश्चयात्मकपरामर्शाभावेऽपि वह्निव्याप्यालोकत्वावच्छिन्न प्रकारतानिरूपित पर्वतत्वावच्छिन्न विशेष्यताक निश्चयात्मक परामर्शात् पर्वतत्वावच्छिन्नावेशेष्यतानिरूपितवह्नित्वावच्छिन्न प्रकारता कानुमित्युत्पत्तेर्व्यतिरेकव्यभिचारेण वह्नित्वावच्छिन्न प्रकारतानिरूपित पर्वतत्वावच्छिन्न विशेष्य ताकानुमितित्वावच्छिन्नं प्रति न पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवह्निव्याप्यधूमत्वावच्छिन्नप्रकारतानिरूपकनिश्चयत्वेन कारणत्वं किन्तु वह्निव्याप्यधूमवान् पर्वत इति परामर्शाव्यवहितोत्तरनिरुक्तानुमितित्वावच्छिन्नं प्रति निरुकपरामर्शत्वेन कारणत्वम् एवं वह्निव्याप्यालोकवान् पर्वत इति परामर्शाव्यव हितोत्तर निरुक्तानुमितित्वावच्छिन्नं प्रति वह्निव्याप्यालोकवान् पर्वत इति परामर्शत्वेन कारणत्वमित्येवाभ्युपगन्तव्यम्, तच्चानुमितिसामान्यं प्रति व्याप्तिज्ञानसामान्यं कारणमित्यनुमितित्वं व्याप्तिज्ञानस्य कार्यतावच्छेदकम् वह्निप्रकारकत्वं च तत्र व्याप्तौ वह्निनिरूपितत्वज्ञान प्रयोज्यमिति तद्वातिविशेष्यकस्य निरूपितत्वसम्बन्धेन वह्निप्रकारकस्य वह्निनिरूपितत्व प्रकारकस्य वा ज्ञानस्य कार्यतावच्छेदकम्, पर्वतनिष्ठविशेष्यताकत्वं चानुमितौ व्याप्यज्ञान पर्वतनिष्ठविशेष्य कत्वप्रयोज्यमिति पर्वत निष्ठविशेष्यताकत्वमनुमितौ पर्वतविशेष्य कव्याप्यज्ञानस्य कार्यतावच्छेदकम् तदव्यवहितोत्तरत्वावच्छिन्नं प्रति तदेव कारणमिति परामर्शाव्यवहितोत्तरत्वावच्छिन्नं प्रति परामर्शः कारणमिति परामर्शाव्यवहितोत्तरत्वं परामर्शस्य कार्यतावच्छेदकत्वम्, तेषां च सर्वेषां पर्वतत्वावच्छिन्नविशेष्यतानिरूपितबह्निव्याप्यधूमत्वावच्छिन्नप्रकारताकनिश्चयात्मक परामर्शाव्यवहितोत्तरपर्वतत्वावच्छिन्न विशेष्यतानिरूपितवह्नित्वावच्छिन्न प्रकारताकानुमितित्वशरीरे प्रविष्टत्वमिति भवत्यर्थ समाजसिद्धेन निरुकधर्मेण परामर्श निरूपित कार्यता एवं तत्त्वज्ञानादिनिरूपिता स्वाव्यवहितोत्तरमोक्षत्वाद्यवच्छिन्न कार्यताऽपि तथेत्यर्थः । तथा कालस्य देशस्यापि कारणत्वं परमतेऽवश्यमभ्युपेयमिति तदपेक्षया लाघवादेकस्य तथा भव्यत्वस्यैव कारणत्वं युक्तं तत एव नियतकालनिय तदेशविभिन्न कार्योत्पत्तिसम्भवेन कार्येकत्वैककाले नानाकार्योत्पत्त्येकदेशे नानाकार्योत्पत्त्यादेवरणसम्भवादित्याह - किञ्चेति । धारावाहिकस्थले इति - घटे चक्षुस्संयोगानन्तरं यावत्कालं विषयान्तरेण सह चक्षुस्संयोगो न भवति किन्तु पूर्वकालीन एव घटचक्षुस्संयोग एक एव तावत्कालीनोऽवतिष्ठते, तत्र घटचक्षुस्संयोगात् कामिकाणि घटज्ञानानि जायन्ते तद्धारावाहिकस्थलं तत्रेत्यर्थः । " कार्यैककल्पनिरासाय इत्यस्य स्थाने " कार्यैकत्वनिरासाय " इति पाठो युक्तः, यदेव पूर्वपूर्वज्ञानं प्रति कारणं तदेवोत्तरोत्तरज्ञानं प्रति यदि कारणं तदा कारणभेदाभावात् कार्यभेदो न स्यात् किन्तु कार्यैकत्वमापद्येतेत्यतः कार्यैकत्वापत्तिवारणायेति तदर्थः । तत्तत्क्षणत्वेन कालस्य कारणतेति तत्तज्ज्ञानं प्रति तत्तज्ज्ञानाव्यवहितपूर्ववर्तित तत्क्षणत्वेन कालस्य कारणत्वमिति तत्तत्कालघटितसामग्रीभेदात् तत्तज्ज्ञानरूपकार्यभेद इति भवति कार्यैकत्वनिरास इत्यर्थः । ननूतरोत्तरज्ञानं प्रति पूर्वपूर्वज्ञानं कारणमिति कारणभेदात् कार्यभेदस्य सम्भवेनेत्येतावतापि कार्यैकत्वनिराससम्भवेन किं कालस्य कारणत्वकल्पनयेत्यत आह- पूर्वपूर्वघटज्ञानानामिति । अथवा " कार्येककल्पनिरासाय " इत्यस्य स्थाने कार्येककालत्वनिरासाय " इति पाठो युक्तः, ܕܕ Page #446 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । mmmnnnnnnnnnnn नादिकार्यता(कारणता)स्वाव्यवहितोचरानुमिति]त्व-मोक्षत्वादिना । किञ्च, धारावाहिस्थले कार्यैककल्पनिरासाय तत्तत्क्षणत्वेन कालस्य कारणताऽवश्यं वाच्या, पूर्वपूर्वघटज्ञानानां घटत्वरूपविशेषणज्ञानत्वेनोत्तरघटज्ञानहेतुतया तत्र कार्य कालस्य निराकर्तुमशक्यत्वात् , एकज्ञानकाले द्वितीयादिसकलोत्पत्ते१र्वारत्वात् । तथा कार्यैकदेश्यनिरासाय तत्तद्देशी[य]कारणताप्यवश्यं वाच्या, कथमन्यथा इह सामग्रीसमवधानादेतद्घटोत्पत्तिर्न स्यात्, इत्ययं कालधर्मानुप्रवेशेन ऋजुसूत्रनयेन स्वभाव-नियत्योापारोऽवश्य प्रतिपचव्यः, सामान्यतः कालहेतुतायाः प्रागभावसमवायिकारणविधया स्वभाव-नियतिहेतुतायाश्च तस्य चवं सङ्गमनं- यथैकघटादावेकदेवोत्पन्नानां पाकजरूप-रस-गन्ध-स्पर्शानां मध्ये यदेव घटाघेकस्य समवायिकारणं तदेवापरस्यापि, य एव च तेजस्संयोगविशेषलक्षणपाक एकस्यासमवायि कारणं स एवापरस्यापीत्येवं समवायिकारणा-ऽसमवायिकारणात्मककारणभेदाभावेऽपि रूपप्रागभावादीनां निमित्तकारणानां भेदाद् रूप-रस-गन्ध-स्पर्शात्मककार्याणां भेदः, तथा धारावाहिकस्थलेऽपि पूर्वोत्तरक्रमेणोत्पन्नानां ज्ञानानां प्रागभावलक्षणनिमित्तकारणभेदाद् भेदः सम्भवेदपि, किन्तु पाकजानां भिन्नप्रागभावलक्षणकारणप्रभवाणां युगपदेवोत्पत्तेर्भावाद् यथैककालत्वं तथा भिन्नप्रागभावलक्षणकारणप्रभवाणां धारावाहिकज्ञानानामपि युगपदुत्पत्तिप्रसङ्गत एक कालत्वमापाद्यतेत्यतस्तद्वारणायेत्यर्थः । तत्तत्क्षणत्वेनेति-तत्तज्ज्ञानं प्रति तत्तज्ज्ञानाव्यवहितपूर्वतत्तत्क्षणत्वेन कालस्य कारणत्वम्, तथा च कारणीभूतानां तत्तत्क्षणानामेकदाऽसतां कालैकत्वाभावात् तत्कार्याणामपि ज्ञानानां नैककालत्वमित्यर्थः । पूर्वपूर्वघटनानानामिति- पूर्वपूर्वघटज्ञानानामुत्तरोत्तरघटज्ञानानि प्रति यः कार्यकारणभावः स तत्तद्भटज्ञानं प्रति तत्तद्धटज्ञानाव्यवहितपूर्ववर्तितत्तद्घटज्ञानत्वेन तत्तद्धटज्ञानं कारणमित्येवं न किन्तु विशिष्टबुद्धि प्रति विशेषणज्ञानं कारणमिति सामान्यकार्यकारणभावस्य क्लप्तत्वेन तदनुरोधेन घटत्वप्रकारकत्वेन घटत्वविशिष्टबुद्धिरूपतयोत्तरोत्तरज्ञानं प्रति पूर्वपूर्वघट ज्ञानानां घटत्वात्मकविशेषणविषयकत्वेन विशेषणबुद्धिरूपतयेति घटज्ञानं प्रति घटत्वज्ञानत्वेन घटज्ञानमित्येव कार्यकारणभाव इति तादृशहेतुतया कार्यककालत्वस्य निराकर्तुमशक्यत्वादित्यर्थः । “कायें कालस्य" इत्यस्य स्थाने " कार्यककालत्वस्य" इति पाठो युक्तः। एवं च सति यदापद्यते तदुपदर्शयति- एकज्ञानकाल इतिपूर्वज्ञानोत्पत्त्यव्यवहितपूर्वकाले यथा पूर्वज्ञानस्य प्रागभावस्तथा द्वितीय-तृतीयादिक्षणभाविनां धारावाहिकज्ञानानामशेषाणामपि प्रागभावाः सन्ति, चक्षुर्घटसंयोगादिकं कारणान्तरमपि विद्यत इति सम्भृतसामग्रीवादे कज्ञानोत्पत्तिकाल एव द्वितीयादि. सकलज्ञानोत्पत्त्यापत्तेर्धारावाहिकत्वमेव भज्येतेत्यतस्तत्तत्क्षणत्वेन कालस्य तत्तज्ज्ञानं प्रति हेतुता कार्यककालत्वपरिहाराया. ऽऽवश्यकीत्यर्थः । एवं कार्यकदेशत्वपरिहाराय तत्तद्देशीयतत्तद्धटादिकं प्रति तत्तद्देशत्वेन देशस्यापि कारणत्वमावश्यकमित्याहतथेति । कार्यकदेश्यनिरासाय कार्यकदेशत्वपरिहाराय । तत्तद्देशीयेति-तत्तद्देशनिष्ठेत्यर्थः । कथमित्यस्य न स्यादित्यनेनान्वयः । अन्यथा तत्तद्देशीयघटं प्रति तत्तद्देशवेन देशस्य कारणत्वाभावे । इति एवंस्वरूपः । अयं प्रतिनियतकाल-देशयोः प्रतिनियतकार्ये व्यापारः । कालधर्मानुप्रवेशेन तत्तत्क्षणाव्यववहितोत्तरजायमानतत्तद्घटत्वरूपकार्य. तावच्छेदकशरीरे तत्तत्क्षणत्वरूपकालधर्मस्यानुप्रवेशेन । ऋजुसूत्रनयेन उत्तरोत्तरक्षणं प्रति पूर्वपूर्वक्षणस्य कारणत्वमित्यभ्युपगन्तृ ऋजुसूत्रनयन, स्वभाव-नियत्योापार इत्यत्रैवायभिति पूर्वोत्तोऽन्वेति । ऋजुसूत्रनयेन स्वभाव-नियतिहेतुताप्रवादसमर्थन कृत्वा सङ्कहनयेन तत्समर्थनमावेदयति- सामान्यत इति-कार्यत्वावच्छिन्नं प्रति कालत्वेन कालस्य हेतुताया इत्यर्थः, अस्य प्रवादस्यत्यनेनान्वयः । प्रागभावेति-प्रागभावविधया स्वभावहेतुतायाः समवायिकारणविषया नियतिहेतुताया इत्येवमन्वयोऽत्र, एतत्कालान्तरमेवानेनोत्पत्तव्यमिति स्वभावहेतुता प्रागभावकारणतावलम्बनेन प्रवृत्ता, कपाले एव घटेनोत्पत्तव्यं तन्तुष्वेव पटेनोत्पत्तव्यमिति नियतिहेतुता समवायिकारणहेतुतावलम्बनेन प्रवृत्ता, कार्यमानं प्रति प्रागभावस्य कारणत्वं भावकार्यसामान्य प्रति समवायिकारणस्य कारणत्वमिति पर्यवसितः स्वभाव-नियतिहेतुताप्रवाद इति बोध्यम् । सङ्घहनयाभिप्रायेणैवेति- कालत्वेन कालमात्रस्य प्रागभावत्वेन प्रागभावमात्रस्य समवायिकारणत्वेन समवायिकारणमात्रस्य कार्यत्वेन कार्यमात्रस्य सङ्ग्रहणं सङ्ग्रहणनयाभिप्रायेण सम्भवति नान्यनयाभिप्रायेणेत्यन्यनयाभिप्रायव्यवच्छेदायैव. कारोपादानम्, एवम्भूतनयाभिप्रायेण तथाभव्यत्वमेव तत्तत्कार्य जनकमिति निगमयति- तथा चेति- ऋजुसूत्रनयाभिप्रायेण तत्तत्क्षणत्वेन तत्तत्कार्य प्रति कारणत्वस्य सङ्ग्रहनयाभिप्रायेण सामान्यतः कालत्वादिना हेतुत्वस्य व्यवस्थितौ चेत्यर्थः । Page #447 -------------------------------------------------------------------------- ________________ ૨૬ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । प्रवादस्य सङ्ग्रहनयाभिप्रायेणैव समर्थयितुं शक्यत्वात्, तथा च देशतया कालतया चैकस्यैवा हेतुत्वं लाघवादयुक्तमित्येवम्भूतनयाभिप्रायेण तादृगवस्थं भव्यत्वमेव तथाभव्यत्वनामशालि तादृशतत्तत्कार्यजनकमवश्यमास्थेयम्, इत्थमेव सकलातिप्रसङ्गभङ्गसम्भवात् । अथैवमतिविशेषेण कार्यकारणभावविश्रामे असिद्धसाध्यविशेषार्थं [ साधनविशेषार्थं ] साधनविशेषे प्रवृत्त्यनुपपत्तिस्तादृश तद्व्यक्तिविशेषावच्छिन्नकारणतायाः पूर्वं दुर्ब्रहत्वात् इष्टसाधनताज्ञानस्य च प्रवृत्तिहेतुत्वादिति चेत् ? मैवम् - कार्य • कारणभावो हि व्याप्तिविशेष एव सा च सामान्यतो विशेषतश्चास्त्येव किन्त्वगृहीत साध्यसाधनविशेषावछिन्नायास्तस्या अबुभुक्षितानुमानस्थले दुर्ब्रहत्वेनानुमित्यप्रयोजकतया सामान्यावच्छिन्नव्याध्य चैकस्यैवाहेतुत्वं " इत्यस्य स्थाने चैकस्यैव हेतुत्वं " इति पाठो युक्तः, लाघवाद् देशतया कालतया चैकस्यैव हेतुत्वं यत् सङ्ग्रहनयाभिप्रेतं तदयुक्तमित्याकारको य एवम्भूतनयाभिप्रायस्तेनेत्यर्थः । ताडगवस्थं यद् यदा यद्यद्वयुत्पत्तिनिमित्तक्रियाविष्टयावद्धर्मशालि तथाभूततावद्धर्माक्रान्ततद्व्यक्तिं प्रति तथाभूततावद्धर्मविशिष्टतद्व्यक्तिनिरूपितम् । ननु तादृगवस्थं भव्यत्वं कार्यजनकमितीदानीमुपेयते पूर्वं तु तथाभव्यत्वं कार्यजनकमिति प्रतिज्ञातमिति भेदान्न तन्निगमनमित्यत आह- तथाभव्यत्वनामशालीति एवं च तादृगवस्थभव्यत्वस्यैव तथामव्यत्वमिति नामेति भवति तन्निगमनमिति । तादृशतत्तत्कार्यजनकं तथाभूततावद्धर्माक्रान्ततत्तद्वक्त्यात्मक कार्य जनकम् । इत्थमेव नैगमनयाभिप्रायेणातिविशेषरूपेण कारणत्वपर्यवसायितथाभव्यत्वकारणत्वसमर्थनेनैव । सकलातिप्रसङ्गभङ्गसम्भवादिति - कार्यैक्य कार्यैककालत्व- कार्यैकदेशत्वादिप्रसङ्गभङ्गसम्भवादित्यर्थः । परः शङ्कते - अथेति । एवम् एवम्भूतनयाभिप्रायेण तथाभव्यत्वकारणत्वस्याश्रयणे । अतिविशेषेणेति यतः परं विशेषान्तरं न समस्ति स स्वापेक्षया विशेषान्तराभावेन विशेषमतिक्रान्तत्वादतिविशेषोऽन्त्य विशेष इति यावत्, तेनेत्यर्थः। कार्यकारणभावविश्रामे तत्तद्व्यक्तिं प्रति तत्तद्व्यक्तिनिरूपिततथा भव्यत्व कारणत्वस्यान्त्यविशेषरूपेण कार्यकारणभाव एव पर्यवसाने । असिद्धसाध्यविशेषार्थं तत्तद्व्यक्तिरूपकार्यमपूर्वमेव जायते, तत् प्रति कारणविशेषस्यान्वय-व्यतिरेकाग्रहान्न स कार्यविशेषः कारणविशेषस्य कार्यतया सिद्धो निश्चित इत्यसिद्धसाध्यविशेषस्तदर्थं तदुस्पत्यर्थम् । साधनविशेषे यस्य साधनविशेषस्य तत्कार्यविशेषं प्रति कारणत्वं न निश्चितं तस्मिन् कारणविशेषे । प्रवृत्त्यनुपपत्तिः तदानयनाद्यनुकूलयत्नानुपपत्तिः । कुतस्तत्र प्रवृत्त्यनुपपत्तिरित्यपेक्षानिवृत्त्यर्थं तत्र हेतुमाह- तादृशेति विशेषातिक्रान्तेत्यर्थः । " तद्वयक्तिविशेषावच्छिन्नकारणतायाः " इत्यस्य स्थाने " तद्व्यक्तिविशेषावच्छिन्न कार्यतानिरूपिततद्वयक्तिविशेषावच्छिन्नकारणतायाः " इति पाठो युक्तः, भवतु तादृशकारणताया दुर्महत्वं तेन कस्य प्रवृत्तिकारणस्याभावात् प्रवृत्त्यनुपपत्तिरित्यत आह- इष्टसाधनताज्ञानस्य चेति । समाधत्ते - मैत्रमिति । हि यतः । कार्यकारणभावो व्याप्तिविशेष पवेति- यत्र यत्र धूमस्तदव्यवहितप्राक्क्षणावच्छेदेन तत्र वह्निरिति वहूर्यद्वयापकत्वं यच्च धूमस्य व्याप्यत्वं तदेव बह्नि-धूमयोः कार्यकारणभाव इति भवति कार्यकारणभावस्य व्याप्तिविशेषरूपतेति । सा च व्याप्तिश्च । सामान्यतः यत्र यत्र धूमस्तत्र तत्र वह्निरिति सामान्यतो व्याप्तिः । विशेषतश्च यत्रायं धूमस्तत्रायं वहिनरिति विशेषतो व्याप्तिः । पृच्छति - किन्त्विति । उत्तरयति - अगृहीतेति- अगृहीतः पूर्वमज्ञातो यः साध्यविशेष एवं साधनस्य विशेषस्तदवच्छिन्नायाः तस्या व्याप्तेः अस्य दुर्ग्रहत्वेनेत्यनेन अनुमित्यप्रयोजकतयेत्यनेन चान्वयः । कुत्र तस्या दुर्प्रइत्वेनानुमित्य प्रयोजकत्वमित्यपेक्षायामाह - अबुभुक्षितानुमानस्थल इति- समानविषयत्वप्रत्यासत्या ज्ञानेच्छयोः कार्यकारणभावाद् यस्यैव ज्ञानं तस्यैवेच्छा भवति, विषयनिरूप्यं हि ज्ञानमिति निरूपकस्य विषयस्य ज्ञाने सत्येव निरूप्यस्य तज्ज्ञानस्य ज्ञानमित्यन्त्यः विशेषविशिष्टस्य विषयस्य पूर्वमग्रहे तद्विषयकस्य ज्ञानस्याप्यग्रह इत्यन्त्यविशेषविशिष्टः स्वविषयक ज्ञानेच्छाया अभावाद् बुभुक्षितो बोद्धुमिष्टो न भवतीत्यबुभुक्षितस्तस्यानुमानस्थले इत्यर्थः एतेन यत्र साध्य-साधनयोर्विशेषौ शब्दादिना पूर्वं गृहीतौ ततश्च तादृशविशेषविशिष्टसाध्यव्यक्तेरनुमितिर्मे जायतामितीच्छालक्षणा बुभुत्सा, तत्र बुभुत्सिततादृशविशेषविशिष्टसाध्यव्यक्त्यनुमानस्थळे गृहीतसाध्यसाधनविशेषावच्छिन्नाया व्याप्तेः सुप्रहृत्वेनानुमितिप्रयोजकत्वसम्भवेन तद्ब्रह एव कारणं न तु सामान्यावच्छिन्नउपात्यन्तरग्रहः कारणमित्यावेदितं भवतीति बोध्यम् । सामान्यावच्छिन्नव्याप्त्यन्तरग्रह इत्यस्य कारणमित्यनेन सम्बन्धः । वा अथवा । तासामेय अगृहीतसाध्यसाधनविशेषावच्छिन्नानामेव । तत्र विशेषव्याप्तीनां प्रत्येकं विशेष 66 Page #448 -------------------------------------------------------------------------- ________________ नयामततरङ्गिणी-तरङ्गिणीतरणिभ्यो समहतो मयोपदेशः । न्तरग्रहस्तासामेव वा विशेषव्याप्तीनां वह्निनिरूपितधूमनिष्ठव्याप्तित्वेनानुगतीकृतानां धूमत्ववह्नित्वावच्छेदेन ग्रहः कारणमास्थीयत इत्येतावत् , एवमिहाप्यसिद्धसाध्यविशेषाय साधनविशेषे प्रवर्तमानस्य तत्तद्व्यक्ति विशेषावच्छिन्न कार्यकारणभावग्रहः सम्भवतीति सामान्यावच्छेदेन कारणताग्रहप्रवृत्त्यर्थमिष्यते, न तु प्रतिव्यक्तिविशेषकारणत्वं त्यज्यते । अत एव गङ्गेशेनापि तत्तन्नतित्वेन तत्तद्विघ्नध्वंसे हेतुत्वमुक्तमित्यनुपपत्त्यभावात् । केवलमेकत्रर्जुसूत्रादिशुद्धनयस्य अपरत्र व्यवहारनयस्य प्रवृत्तिः, व्यवहारे च " जो तुल्लसाहणाणं" [ ] इत्याद्युक्तोपपत्त्या पूर्वकृतस्यानन्यथासिद्धस्यान्वय-व्यतिरेकाभ्यां पूर्वपुरुषकारस्य च हेतुत्वमिष्यते, पुरुषकारपदं च स्व-स्वविषयान्यतरपरतया दण्डादेरप्युपलक्षणमिति न तदसाहः, तथा च सकलनयदृष्ट्या मुद्गपत्त्यादिदृष्टान्तेन सिद्धान्तसिद्धा पञ्चकारणी सर्वत्र सङ्गतिमङ्गति, तत्पक्षस्य सर्वनयमत्वेन सम्यगूरूपत्वात्, एककारणपरिशेषपक्षस्य च दुर्नयत्वेन मिध्यारूपत्वात् , तदाहुराचार्याःव्याप्तित्वेन ग्रहो न सम्भवतीत्यतः- वह्निनिरूपितेति- वह्निनिरूपिता धूमनिष्ठा या व्याप्तिः । तत्र वह्नित्वेन सर्वेषां वहिनां धूमत्वेन सर्वेषां धूमानामनुगमनात् सर्वा अपि तत्तद्वहिनिरूपितास्तत्तद्भूमनिष्ठा व्याप्तय इति तत्त्वेन तादृशव्याप्तिस्वेनानुगतीकृतानामेकीकृतानाम् , यद्यपि तत्तद्वयाप्तित्वेन तासां तत्तद्वयक्तिष्वेव सत्त्वतो धूमत्व-वह्नित्वावच्छेदेन ग्रहो न सम्भवति तथापि यद्रूपेणैकीकृतास्तास्तद्रूपेण तासां धूमत्व-वह्नित्वावच्छेदेन प्रहः सम्भवतीति तथाग्रहः कारणमास्थीयते स्वीक्रियते इति । एवं चोक्कदिशा प्रकृते इष्टसाधनत्वग्रहः सम्भवतीति ततः साध्यविशेषार्थ साधनविशेषे प्रवृत्तिः सम्भवतीत्याह-एवमिहापीति । “ग्रहप्रवृत्यर्थ" इत्यस्य स्थाने "प्रहः प्रवृत्त्यर्थ" इति पाठो युक्तः । न त्वित्यस्य त्यज्यत इत्यनेनान्वयः, प्रवृत्त्यर्थं सामान्यावच्छेदेन कारणताग्रहस्य स्वीकारेऽपि प्रतिव्यक्तिविशेषकारणत्वं न तु त्यज्यते इत्यर्थः । विशेषरूपेण कार्यकारणभावे चिन्तामणिकृत्सम्मतिमुपदर्शयति-अत एवेति-विशेषरूपेण कार्यकारणभावस्याभ्युपगमादेवेत्यर्थः । गङ्गेशेनापि चिन्तामणिकृता गङ्गेशोपाध्यायेनापि, अस्योक्तमित्यनेनान्वयः। एवं सति चिन्तामणिकृन्मतर्जुसूत्रमतयोः को विशेष इत्यपेक्षायामाह- केवलमिति- एकत्र तत्तत्क्षणत्वेन हेतुत्वमिति कालवेन हेतुत्वमिति प्रागभावसमवायिकारणविधया हेतुत्वमिति तथाभव्यत्वस्य तत्तकार्य प्रति हेतुत्वमिति च मतेषु । ऋजुसूत्रादीति- आदिपदात् संग्रहैवम्भूतनययोः परिप्रहः । अपरत्र सामान्यतोऽपि च कार्यकारणभावो विशेषतोऽपि च कार्यकारणभाव इति चिन्तामणिकृन्मते। व्यवहारे चेत्यस्य हेतुत्वमिष्यते इत्यनेनान्वयः । जो तुल्ल० इति- “ यस्तुल्यसाधनानाम् ' इति संस्कृतम् । इत्याद्युक्तोपपत्त्या इत्याद्यागमोक्कोपपत्तितः । पूर्वकृतस्येत्यस्य हेतुत्वमित्यनेनान्वयः, 'पूर्वजन्मार्जितं कर्म देवमित्यभिधीयते' इत्यादिवचनाद् दैवापराभिधानस्य पूर्वजन्मार्जितस्य पुण्य-पापान्यतरात्मकस्य कर्मण इत्यर्थः। तस्य नियतपूर्ववर्तित्वं निर्विवादमेवानन्यथासिद्धत्वमपि तस्येत्यावेदनाय तद्विशेषणम्- अनन्यथासिद्धस्येति । एवं चानन्यथासिद्धत्वे सति नियतपूर्ववर्तित्वलक्षणं कारणत्वं तत्र सङ्गतिमञ्चतीति पूर्वकृतस्य कर्मणोऽतीन्द्रियत्वात् तत्रोक्तदिशैव कारणत्वलक्षणाक्रान्तत्वात् कारणत्वम्, पुरुषकारस्य तु प्रयत्नविशेषरूपस्य प्रत्यक्षविषयत्वात् तत्रान्वय-व्यतिरेकयोः सम्भवेन ताभ्यामप्यवधार्यते कारणत्वमित्याशयेनाह- अन्वय-व्यतिरेकाभ्यामिति कार्याव्यवहितपूर्ववर्तिन एव पुरुषकारस्य कारणत्वमित्यावेदनाय पूर्वेति । ननु दैव-पुरुषकारयोरेवेत्थं कारणत्वमायाति न तु दण्डादेरित्यत आह-पुरुषकारपदं चेति । स्व-स्वविषयान्यतरपरतयेत्यत्र स्वपदं स्वसम्बन्धिपरम्, प्रयत्नविशेषश्च पुरुषकारपदस्य वाच्यत्वात् सम्बन्धी भवतीति स्वं प्रयत्नविशेषः, स्वविषयव प्रयत्नविशेषविषयश्च तदन्यतरपरतयेत्यर्थः । न तदसङ्कहः न दण्डादेरसङ्ग्रहः । पञ्चकारणीतिपञ्चानां कारणानां समाहारः पञ्चकारणी, काले स्वभाव नियति-पूर्वकृत-पुरुषकारभेदेन पञ्चकारणानि । तत्पक्षस्य सिद्धान्तसिद्धपचकारणाभ्युपगमपक्षस्य । एककारणपरिशेषपक्षस्य चेति- काल एव कारणं स्वभाव एव कारणं नियतिरेव ४८ Page #449 -------------------------------------------------------------------------- ________________ Arrammaanaaaaaaaa नयामततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । " कालो सहावणियई पुवकयं पुरिसकारेणेगन्ता । मिच्छत्तं ते चेव उ समासओ हुन्ति सम्मत्तं ॥" [सम्मति, का० ३, गाथा-५३ ] न च तथाभव्यत्वेनैवेतरान्यथासिद्धेः समुदायपक्षोऽनतिप्रयोजन इति शङ्कनीयम् , तथापदार्थकुश्मावेवेतरकारणप्रवेशाद् व्यक्तिविशेषपरिचायकत्वेनान्योऽन्यव्याप्तिप्रदर्शकत्वेन च तस्यान्यथासिव्यप्रदर्शकत्वात्, अत एव-" जं जहा भगवया दिलु तं तहा विपरिणमइ" [ ] इति भगवद्वचनं सुष्टु सङ्गच्छते, तथापदेनैव तत्रेतरकारणोपसङ्ग्रहात्, इत्थमेव सर्वत्र दृष्टा दृष्टकारणात्मकपुरुष. दैवजन्योक्तिरपि न्याय्यैव, तदिदमुक्तं हरिभद्रसूरिभिः"तहभवत्तं जे काल-णियह-पुवकय पुरिस-किरियाओ। आखिवइ तहसहावं ता तदधीणं तयं पि भवे ॥१॥ एवं जेणेव जहा होयवं तं तहेव होइ त्ति । ण य दिवपुरिसकारा वि हंदि एवं विरुज्झन्ति ॥२॥" [बीजादिविंशतिकायाम् ] यद्येवं सर्वत्र देव-पुरुषकारोभयव्यापारस्तदा किञ्चित् कार्य दैवजन्यमेव किश्चिच्च पुरुषकारजन्यमेवेति विभागः सार्वजनीनः कथमिति चेत् ? कार्यत्वावच्छेदेन तयोः कारणत्वग्रहे तद्विभागः, अन्य. तरस्वल्प-बहुव्यापारवत्त्वस्यैव नियामकत्वकल्पनादिति गृहाण, स्वल्प-बहुव्यापारवत्वं चानुत्कटोत्कटकारणं पूर्वकृतमेव कारणं पुरुषकार एव कारणमित्येवमेककारणपरिशेषपक्षस्य चेत्यर्थः । पञ्चकारणाभ्युपगमपक्षस्य सम्यक्त्वम् , एककारणपरिशेषपक्षस्य च मिथ्यात्वमित्यत्र संमतिगाथासंवादमाह- तदाहुरिति । आचार्याः सिद्धसेनदिवाकर. सूरयः। कालो० इति-"कालः स्वभावो नियतिः पूर्वकृतं पुरुषकार इत्येकान्ताः। मिथ्यात्वं ते एव समासतो भवन्ति " इति संस्कृतम् । न चेत्यस्य शहनीयमित्यनेनान्वयः । तथाभव्यत्वेनैव तथाभव्यत्वलक्षणकारणेनैव । इतरान्यथासिद्धेः तथाभव्यत्वभिन्न कारणानामन्यथासिद्धत्वात् । समुदायपक्षः समुदितकालादिपञ्चकं कारणमिति पक्षः। अनतिप्रयोजनः न किञ्चित्प्रयोजनकः । निषेधे हेतुमाह- तथेति- तथाभव्यत्वघटकं यत् तथापदं, तदर्थकुक्षावित्यर्थः । न च तत्र तथाशोऽन्यकारणान्यथासिद्धयुपदर्शकः किन्तु कार्यव्यक्तिविशेषस्य भव्यत्वनिरूपकस्य परिचायकः, व्यक्तिविशेषरूपकार्य-भव्यत्वरूपकारणयोरितरकारण-भव्यत्वात्मककारणयोश्च परस्परव्याप्तेः, 'तथाभव्यत्वं यत्र तत्र निरुक्तकार्यव्यक्तिः, निरुक्तकार्यव्यक्तिर्यत्र तत्र तथाभव्यत्वम्' इति । 'तथाभव्यत्वं यत्र तत्रान्याखिलानि कारणानि, यत्रान्यान्यखिलानि कारणानि तत्र तथामव्यत्वमित्याकारायाः परिचायकश्चेत्याह-व्यक्तिविशेषेति । तस्य तथाशब्दस्य। उक्तार्थे भगवदचनं प्रमाणयति- अत एवेति- अस्य 'सङ्गच्छते' इत्यनेनान्वयः । जे० इति- "यद् यथा भगवता दृष्टं तत् तथाविपरिणमति" इति संस्कृतम्। तथापदेनैवेति- तथा विपरिणमतीत्यत्रोक्ततथापदेनैवेत्यर्थः। इत्थमेव उक्तप्रकारेणैव । अत्र श्रीहरिभद्रसूरिवचनं प्रमाणयति- तदिदमुक्तमिति । तहमव्वत्तमिति- " तथाभव्यत्वं यत् काल-नियति-पूर्वकृत-पुरुषकारादीन् । आक्षिपति तथास्वभावं तत् तदधीनं तदपि भवेत् ॥ एवं येनैव यथा भवितव्यं तत् तथैव भवतीति । न च देव-पुरुषकारा अपि हन्दि एवं विरुद्धयन्ते ॥” इति संस्कृतम् । पृच्छति- यद्यवमिति । उत्तरयति- कार्यत्वावच्छेदेनेति । तयोः दैव-पुरुषकारयोः। तद्विभागः किञ्चित् कार्य दैवजन्यमेव, किञ्चिच्च पुरुषकारजन्यमेवेति विभागः । नन्वेवं कार्यत्वावच्छेदेन तयोः कारणत्वग्रहे सर्व कार्य दैवजन्यं पुरुषकारजन्यं चेति सुतरां तद्विभागोऽसङ्गत इत्यत आह- अन्यतरेति-देव-पुरुषकारयोरन्यतरस्मिन् यत् स्वल्पबहुव्यापारवत्त्वं तस्यैव तद्विभागे नियामकत्वस्य कल्पनादिति जानीहि, अर्थाद् यस्मिन् कार्ये दैवस्य स्वल्पव्यापारः पुरुषकारस्य बहुव्यापारस्तत् कार्य पुरुषकारजन्यमेवेति, यस्मिन् कार्ये तु पुरुषकारस्य स्वल्पव्यापारो देवस्य बहुव्यापारस्तत्कार्य दैवजन्यमेवेत्येवं विभागस्तयोः कार्यत्वावच्छेदेन कारणत्वग्रहेऽपि सम्भवतीत्यर्थः । अस्मिन् कार्ये देवस्य बहुव्यापारवत्वं पुरुषकारस्याल्पव्यापारवत्वमिति, एतस्मिन् कार्य पुनः पुरुषकारस्य बहुव्यापारवत्त्वं देवस्य च स्वल्पव्यापारवत्त्वमिति केन प्रमाणेन कल्प Page #450 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । शक्युबोधादिरूपकार्यदर्शनान्यथानुपपत्त्या कल्पनीयमित्यादि व्यवस्थापितं द्वात्रिंशिकाप्रकरणादावस्माभिः । उक्तविभागाय प्रत्येकजन्यतावच्छेदकजातिभेदस्वीकारे तूभयजन्ये साकर्यम् , तत्रापि जात्यन्तरस्वीकारे तूभयसमाजे प्रत्येककार्यापत्तिवारणायैककार्येऽपराभावादिसहभावत्वकल्पने महागौरवम्, अथ देवमात्रजन्यमेतत् कार्यमित्यत्र दैवातिरिक्तोत्कटव्यापाराजन्यमित्यर्थे भवदभिमते प्रतिप्रतियोगिसिद्ध्यसिद्धिभ्यां व्याघातः इति चेत् ? न- उत्कटव्यापारसम्बन्धावच्छिन्नप्रतियोगिना दैवातिरिक्तजन्यस्वाभावस्यैव तदर्थत्वात् , तदिदमभिप्रेत्योक्तं हरिभद्रसूरिभिःनीयमित्यपेक्षायामाह-स्वल्प-बहुव्यापारवत्वं चेति- यस्य चानुत्कटशक्त्युद्वोधादिरूपकार्यस्य दर्शनं तस्य च तादृशकार्यदर्शनान्यथानुपपत्त्या स्वल्पव्यापारवत्त्वं यस्य पुनरुत्कटशक्त्यदोधादिरूपकार्यस्य दर्शनं तस्य पनस नुपपत्त्या बहुव्यापारवत्त्वमित्येवं तत्कल्पनं नाप्रमाणिकमित्यर्थः । अत्र विशेषावगमार्थिभिरस्मदुपज्ञद्वात्रिंशिकाप्रकरणादिकमवलोकनीयमित्युपदेशाभिप्रायवान् ग्रन्थकृदाह- इत्यादि व्यवस्थापितमिति । प्रकारान्तरेण तद्विभागस्यायुक्तत्वमावे. दयति-उक्तविभागायेति-किञ्चित् कार्य दैवजन्यमेव किञ्चित् कार्य पुरुषकारजन्यमेवेति विभागार्थमित्यर्थः । प्रत्येकजन्यतावच्छेदकजातिभेदस्वीकारे दैवनिष्ठकारणतानिरूपितकार्यतावच्छेदिका जातिरन्या, अन्या च पुरुषकारनिष्ठजनकतानिरूपितजन्यतावच्छेदिका जातिरिति स्वीकारे । तथास्वीकारे यत्र कार्ये दैवनिष्ठकारणतानिरूपितकार्यतावच्छेदिकाजातिरेव तत् कार्य दैवजन्यमेव, यस्मिन् कार्ये पुरुषकारनिष्ठकारणतानिरूपितकार्यतावच्छेदिका जातिरेव तत् कार्य पुरुषकारजन्यमेव, यत्र तु निरुक्तजातिद्वयमप्यस्ति तत् कार्य दैवपुरुषकारोभयजन्यमित्येवं विभागस्य सम्भवेऽपि निरुक्तजात्योः साङ्कयं दुर्वारम् , तयोः परस्परात्यन्ताभावसामानाधिकरण्यस्यैकैकमात्रजन्ये सामानाधिकरण्यस्य चोभयजन्ये सद्भावादित्याहउभयजन्ये साङ्कर्यमिति । ननु प्रत्येकजन्यतावच्छेदकजातिद्वयादन्यैव जातिरुभयजन्येति न स्यात् साङ्कर्यमित्यत आह-तत्रापीति- उभयजन्येऽपीत्यर्थः । जात्यन्तरस्वीकारे प्रत्येककार्यमात्रवृत्तिप्रत्येकजन्यतावच्छेदकजातिद्वयभिन्नजातिस्वीकारे । तु पुनः। उभयसमाजे देवपुरुषकारोभयसमवधाने । प्रत्येककार्यापत्तिवारणाय दैवमात्रजन्यकार्यस्य पुरुषकारमात्रजन्यकार्यस्य चोत्पत्तिवारणाय । देवमात्रजन्यकार्य प्रति देवं कारणमिति दैवरूपकारणतस्तन्मात्रजन्यं कार्यमुत्पद्येत, एवं पुरुषकारमात्रजन्यकार्य प्रति पुरुषकारः कारणमिति पुरुषकाररूपकारणतः पुरुषकारमात्रजन्यं कार्यमुत्पद्येत, सम्भृतसामग्रीकत्वादित्येककार्ये एकमात्रजन्यकारे, अपराभावादिसहभावत्वकल्पने यन्मात्रजन्यं कार्यं तदन्यकारणाभावादेस्तत्सहकारित्वकल्पने। एवं च नोभयसमाजस्थले प्रत्येकमात्रजन्यकार्योत्पत्तिः, यतस्तत्रापरकारणाभावरूपसहकारिणोऽ. भावात् , यथा दैव-पुरुषकारोभयसमाजे देवमात्रजन्यकायें अपरस्य पुरुषकारस्य पुरुषकारमात्रजन्यकारणस्याभावोऽपि सहकारिविधया कारणमिति तदभावान देवमात्रजन्यकार्योत्पत्त्यापत्तिः, किन्तु तथाकल्पने महागौरवं स्यादतस्तथाकल्पनं न युक्त मिति भावः । शङ्कते- अथेति। "प्रतिप्रतियोगि" इत्यस्य स्थाने “सति प्रतियोगि" इति पाठो युक्तः । प्रतियोगिसिद्धयसिद्धिभ्यां व्याघात इति- दैवातिरिकोत्कटव्यापाराजन्यमिति दैवातिरिकोत्कटव्यापारजन्यत्वाभाववदिति पर्यवसितरूपं तत्रोक्ताभावस्य प्रतियोगिनो देवातिरिक्तोत्कटव्यापारजन्यत्वस्य यदि सिद्धिस्तदा दैवजन्ये दैवातिरिक्तोत्कटव्यापारजन्यत्वस्य सद्भावान्न तत्र तदभाव इति देवातिरिक्तोत्कटव्यापाराजन्यमिति ध्याहन्यते, अथ देवातिरिक्तोत्कटव्यापारजन्यत्वस्य न सिद्धिस्तदा देवातिरिक्तोत्कटव्यापारजन्यत्वरूपप्रतियोगिनोऽसिद्धया तदभावस्याप्यसिद्धिरिति तद्वदपि न किञ्चित् सम्भवतीस्येवमपि देवातिरिक्तोत्कटव्यापारजन्यमिति व्याहन्यत इत्यर्थः । समाधत्ते-नेति । " उत्कटव्यापारसम्बन्धावच्छिन्नप्रतियोगिना" इत्यस्य स्थाने "उत्कटव्यापारसम्बन्धावच्छिन्नजनकतानिरूपितजन्यत्वप्रतियोगिकस्वरूपसम्बन्धेन" इति पाठः समीचीनः । एवं च कार्यतावच्छेदेन दैव पुरुष कारयोः कारणत्वे यद् देवमात्रजन्यतयाऽभिमतं तदपि पुरुषकारजन्यं भवत्येव, किन्तु तत्र पुरुषकारजन्यत्वमनुत्कटव्यापारसम्बन्धावच्छिन्नपुरुषकारनिष्ठजनकतानिरूपितजन्यत्वप्रतियोगिकस्वरूपसम्बन्धेनैवेति तत्र देवातिरिक्तजन्यत्वस्योत्कटव्यापारसम्बन्धावच्छिन्न कारणतानिरूपितकार्यताप्रतियोगिकस्वरूपसम्बन्धो व्यधिकरण इति न तेन सम्बन्धेन निरुक्तजन्यत्वं कुत्रापीति तत्सम्बन्धावच्छिन्नप्रतियोगिताकस्य दैव'तिरिक्तजन्यत्वाभावस्य Page #451 -------------------------------------------------------------------------- ________________ ३८० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । "जो दिव्वेण पखित्तो तहा तहा हन्त पुरिसकारु त्ति। तत्तो फलमुभयजमवि भन्नइ खलु पुरिसकाराओ॥१॥ एएण मीसपरिणामिए उजं तंमि तं च दुगजण्णं । दिव्वाउ णवरि भन्नइ णिच्छयओ उभयज सव्वं ॥२॥" [बीजादिविंशतिका ] अत्र मिश्रपरिणामिन इत्यस्यानुत्कटत्वेन परिणामित इत्यर्थः। ननु यत्र भोजकादृष्टेन भोजनं भोक्तृव्यापार विनैवोपनामितं तत्र भोक्तृयत्नस्यानुत्कटोऽपि क इव व्यापार इति चेत् ? तदीयचेष्टात्वावच्छिन्ने तदीययत्नत्वेन हेतुत्वात् सामग्र्युपनायकोऽपि मुखप्रक्षेपादिरूप एव, प्रापकादृष्टेन आकस्मिकधनप्राप्त्यादिस्थलेऽपि प्रतिग्रहादियत्नोऽवर्जनीय एव, किं बहुना ? यत्र व्यक्त्या यलो न कोऽपि दृश्यते तत्र देवाक्षेपकभवान्तरीययत्नेनाप्युभयोस्तुल्यकक्षात्वमुपपादनीयम्, प्रधान-गुणभावस्यापेक्षिकत्वेन तद्बाधकत्वात् , तदुक्तम्" पुवकयं कम्म चिय चित्तविवागमिह भन्नई दिव्वो। कालाइएहि तप्पायणं तु तहपुरिसकारु त्ति ॥१॥ इय समणीइयोगा इयरेयरसंगया उ जुज्जन्ति । इय दिव्व पुरुसगारा पहाण-गुणभावओ दो वि ॥२॥" [बीजादिविंशतिका ] देवम् आर्षत्वात् पुंस्त्वम् , कालादिभिस्तत्परिपाचनमिति- कृदभिहितन्यायात् कालादिभिः परिपकं केवलान्वयिनो देवमात्रजन्यत्वेनाभिमते सत्त्वान्न व्याघात इत्यर्थः । उक्ताभिप्रायकहरिभद्रसूरिवचनसंवादमुपदर्शयतितदिदमभिप्रेत्योक्तमिति । जो दिव्वेण० इति- "यो देवेन प्रक्षिप्तस्तथा तथा हन्त पुरुषकारोक्तिः। तत् ततः फलमुभयजमपि भण्यते खलु पुरुषकारतः ॥ एतेन मिश्रपरिणामिनस्तु यत् तन्मात्रं च द्वयजन्यम् । दैवात् तु नवरं भण्यते निश्चयत उ नयजं सर्वम् ॥” इति संस्कृतम् । ननु मिश्रपरिणामिनस्तु यत् तत् कथं देवमात्रजन्यमित्यत आह-अत्रेतिउक्तहरिभद्रसूरिवचने । “परिणामित" इत्यस्य स्थाने "परिणामिन" इति पाठो युक्तः । सर्वस्य पुरुषकारजत्वमसहमानः शङ्कते- नन्विति । उत्तरयति- तदीयचेष्टात्वावच्छिन्न इति । सामग्युपनायकोऽपि सामग्यनुमापकोऽपि । मुखप्रक्षेपादिरूप एवेति- मुखे भक्तादेहस्तादिना प्रक्षेपादिरपि तदीयचेष्टात्वावच्छिन्न एव तं प्रत्यपि तदीययत्नत्वेन यत्नस्य कारणत्वाद् यत्नरूपकारणमन्तरेण निरुक्तचैप्टव न सम्भवतीति तदीयचेष्टारूपकार्येण तत्कारणीभूतस्तदीयप्रयत्नोऽनुमीयत एवेति प्रयत्नलक्षणपुरुषकारस्य न तत्र व्यभिचार इत्यर्थः, अन्यत्रापि पुरुषकारस्य व्यभिचारमपाकरोति-प्रापकाहोनेति-धनप्रापकदैवेनेत्यर्थः, प्रापकादृष्टेनापि प्रतिग्रहादियत्नसहकृतेनैव धनप्राप्तिरिति पुरुषकारस्तत्राप्यस्तीति न व्यभिचार इत्यर्थः । यत्र न कोऽपि यत्न इदानीमुपलभ्यते तत्रापि देवस्य कारणतयाऽभ्युपगतस्य कारणं जन्मान्तरीयप्रयत्नोऽपि तत्कारणं भवत्येवेति न तत्रापि कार्ये पुरुषकारस्य व्यभिचार इत्याह - किंबहुनेति । उभयोः दैव-पुरुषकारयोः । तुल्यकक्षत्वं समानयोगक्षेमत्वम् । ननु यत्र यत्नो न दृश्यते तत्र जन्मान्तरीयस्य यत्नस्य सद्भावेऽपि तस्य गौणत्वमेव, प्राधान्येन त्वदृष्टस्यैव कारणत्वमित्यत आह-प्रधान-गुणभावस्येति- किञ्चित्कार्ये दैवस्य प्राधान्यं पुरुषकारस्य गुणभावः, क्वचित् कार्ये पुरुषकारस्य प्राधान्यं दैवस्य गुणभाव इत्येवं प्रधान-गुणभावस्यापेक्षिकत्वेन पुरुषकारकारणत्वाबाधकत्वादित्यर्थः, अत्रापि हरिभद्रसूरिव वनं संवादकमुपदर्शयति- तदुक्तमिति । पुवकयं ति- “पूर्वकृतं कर्मैव, चित्रविपाकमिह भण्यते दैवम् । कालादिकैस्तत्पाचनं तु तथा पुरुषकार इति ॥ इति समयनीतियोगाद् इतरेतरसङ्गतौ तु युज्यते । इति देवपुरुषकारौ प्रधान-गुणभावतो द्वावरि ॥” इति संस्कृतम् । दिवो इत्यस्य संस्कृतं देवमिति- एवं सति नपुंसकेन भाव्यमिति दिव्वो इत्येवं पुलिंगवचनं कथमित्यपेक्षायामाह- आर्षत्वात् पुंस्त्वमिति । कालादिभिरिति- "कृदभिहितो भावो द्रव्यवत् प्रकाशते” इति न्यायबलात् कालादिभिः परिपाचनमित्यस्य कालादिभिः परिपक्वमित्यर्थ इत्यर्थः, तथापुरुषकार इतीत्यस्य फलितमर्थमावेदयति-दैवपरिणतस्यैवेति. यस्यात्मनो दैवरूपः परिणामः प्रथमतोऽभवत् तस्यैव देवरूपपरि. . Page #452 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ३८१ तदित्यर्थः, दैवपरिणतस्यैवात्मनः कालादिपरिपाकेन पुरुषकारपरिणतिः, अभेदोपपत्तिरित्यर्थः, प्रधानगुणभावत इति- कार्यविशेषेऽन्यतरस्य बह्वल्पव्यापारापेक्षया, जात्या तु- " अब्भन्तर-बज्झाणं " इत्यादिना प्रबन्धेन देव-पुरुषकारयोस्तुल्यप्राधान्यमुपपादितमस्माभिरध्यात्ममतपरीक्षायामिति विस्तरार्थिना तत्र दृष्टिदया । तदेवं पञ्चकारणीनये हेतुद्वयनये वा सुदैववत् पुरुषकारस्य कार्यमानहेतुत्वान्मोक्षेऽपि हेतुत्वं ध्रुवम् । स च ग्रन्थिभेदानन्तरं- " तदू बाध्यते दैवं प्रयोजनं तु विजृम्भते" ] इति वचनाद् देवं बाधित्वा स्वातन्त्र्येण प्रवर्तमानो रत्नत्रयमयत्वमास्कन्दंश्चेतसः पुष्टिशुद्ध्यनुबन्धं विधाय सद्य एव मुमुक्षोर्मोक्षमपर्यति । तेन ' चारित्रक्रियाया अप्यभव्य-दूरभव्यादौ व्यभिचारात् । " संवरनिर्जरारूपो बहुप्रकारस्तपोविधिः शास्त्रे । रोगचिकित्साविधिरिव कस्यापि कथञ्चिदुपयुक्तः ॥" इत्यनेन प्रतिपुरुषं नानाविधक्रियाया अनियतहेतुत्वदर्शनस्याहेतुत्वपर्यवसायकत्वाच्च न मोक्षो. पायवादो ज्यायान् , इत्यपास्तम् , पुष्टिशुद्ध्यनुबन्धाभिव्य[]भाव चारित्रत्वजातिमतः पुरुषकारस्य मोक्षं णामयोगिन आत्मनो या कालादिपरिपाकेन पुरुषकाररूपेण परिणतिः साऽभेदोपपत्तिः, पूर्वकृतं कमैव कालादिभिः परिपक्वं सत् पुरुषकाररूपं भवत्येतदेव देवपुरुषकारयोरभेदोपपत्तिरभेदसमर्थनमित्यर्थ इत्यर्थः, देवपुरुषकारयोरुभयोरपि कार्यमा प्रति कारणत्वे व्यवस्थिते सति यत्किञ्चित्कायें प्राधान्येन दैवस्य कारणत्वं देवमात्रजन्यं कार्यमेतदितिव्यवहारनिबन्धनं तत्र गुणभावेन पुरुषकारस्य कारणत्वं, यच्च कुत्रचित् कार्ये प्राधान्येन पुरुषकारस्य कारणत्वं पुरुषकारमात्रजन्यं कार्यमेतदितिव्यवहारनिबन्धनं, तत्र गुणभावेन देवस्य कारणत्वमित्येवं प्रधान गुणभावत इत्येवंरूपेण देवपुरुषकारकारणत्वं कार्यविशेष क्वचित्कायें, अन्यतरस्य देव-पुरुषकारयोर्मध्यादेकस्य बह्वल्पव्यापारापेक्षया यस्मिन् कायें देवस्य बहुसंख्यको व्यापारः, पुरुषकारस्य त्वल्पसंख्यको व्यापारस्तस्मिन् कार्ये देवस्य प्राधान्येन कारणत्वं पुरुषकारस्य तु गुणभावेन कारणत्वम् , यत्र च पुरुषकारस्य बहुसंख्यको व्यापारो देवस्य स्वल्पसंख्यको व्यापारस्तत्र कार्ये पुरुषकारस्य प्राधान्येन कारणत्वं देवस्य तु गुणभावेन कारणत्वमित्यर्थः । यदा तु व्यापारगतबह्वल्पसंख्ययोर्न विवक्षा तदानीं कार्यमा सामान्यतः समप्राधान्येनैव दैव-पुरुषकारयोः कारणत्वं प्रवचनोपपादितमवसेयमित्याह-जात्या त्विति । उपदिशति-विस्तरार्थिनेति । तत्र अध्यात्ममतपरीक्षायाम् । उपसंहरति- तदेवमिति । पञ्चकारणीनये काल-स्वभाव-नियति-देव-पुरुषकाराः पञ्चापि कार्यमात्रे कारणमिति मते । वा अथवा । हेतुद्वयनये कार्यमाने देव-पुरुषकारौ कारणमिति मते । “सुदैववत्" इत्यस्य स्थाने " दैववत्" इति पाठो ज्ञेयः । मोक्षेऽपि हेतुत्वं ध्रुवं मोक्षस्य कार्यमात्रान्तर्गतत्वेन तत्रापि दैववत् पुरुषकारकारणत्वं निश्चितम् । स चेत्यस्य मोक्षमर्पयतीत्यनेन सम्बन्धः। स च पुरुषकारश्च । व प्रन्थिभेदोत्तरकाले। "प्रयोजनं" इत्यस्य स्थाने “ योजनं" इति पाठो भवतुमर्हति, योजनं प्रयत्नः । स्वातन्त्र्येण प्रवर्तमान इत्यादिक पुरुषकारस्य विशेषणं बोध्यम् । सद्य एक चेतसः पुष्टि शुद्धयनुबन्धविधानान्यतरकाल एव । तेनेत्यस्य 'अपास्तम् ' इत्यनेन सम्बन्धः। चारित्रक्रियायास्तावन्मोक्षकारणत्वं न सम्भवति, अभव्य दूरभव्यादौ चारित्रक्रियायाः सत्त्वेऽपि मोक्षस्याभावेन व्यतिरेकव्यभिचारादित्याह-चारित्रक्रियाया अपीति । संवर-निर्जरारूपतपोविधेरपि न मोक्षोपायत्वमित्याह-संवरेति । इत्यनेन उक्तवचनेन । प्रतिपुरुषं पुरुषं पुरुषं प्रति । अनियतहेतुत्वदर्शनस्य कस्यचित् पुरुषस्यैका क्रिया मोक्ष प्रति कारणं पुरुषान्तरस्य तदन्या क्रिया मोक्षं प्रति कारणमित्येवमनियतहेतुत्वबोधनस्य । अहेतुत्वपर्यवसायकत्वात तक्रियाया अभावेऽपि क्रियान्तरेण मोक्षस्य भावेन व्यतिरेकव्यभिचारेण न मोक्षत्वावच्छिन्नं प्रति सा क्रिया कारणमेवं क्रियान्तरस्याभावेऽपि तरिक्रयया मोक्षस्य भावेन व्यतिरेकव्यभिचारेण क्रियान्तरमपि न मोक्षत्वावच्छिन्नं प्रति कारणमित्येव. मकारणत्वपर्यवसायकत्वात् । चः समुच्चये । मोक्षोपायवादः मोक्षं प्रति कस्यचित् कारणत्वाभ्युपगमवादः । न ज्यायान् Page #453 -------------------------------------------------------------------------- ________________ ३८२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । प्रति नियतहेतुताया अप्रत्यूहत्वात्, पुष्टिशुद्ध्यनु बन्धे च प्रणिधानाद्यन्विततत्कृक्रियाणामनियतहेतुत्वेऽपि तद्विधीनामारोग्यहेतुधातुसाम्ये तत्तचिकित्साविधीनामिवानुपपत्त्यभावात् । यत् पुनः उच्यते- पूर्व निर्गुणस्य सतः सम्यक्त्वादिप्राप्तौ किं तदनन्तरं नानाविधगुणोपायान्वेषणेति तत् तुच्छम् , पूर्वसेवायां मृदूपायसाध्यायां तादृग्गुणानपेक्षायामपि महाविद्यालाभस्थानीये चारित्रे विशिष्टगुणापेक्षाया आवश्यकत्वात्, अस्तु वा स्वसामग्रीप्रभवानां गुणानामवर्जनीयत्वमेवानन्तरमपेक्षा । किञ्च, सकलशिष्टैकवाक्यतया यम-नियमादौ मुमुक्षोः प्रवृत्तिरेव मोक्षोपायत्वे मानम् , तदुक्तम्-- " विफला विश्ववृत्तिों न दुःखैकफलापि च । दृष्टलाभफलेनापि विप्रलम्भोऽपि नेदृशः ॥ १॥" [ कुसुमाञ्जलिस्तबक० श्लो० ] इत्यादि । न श्रेष्ठतमः । इति एवं स्वरूपमाशङ्कनम् । तेन पुरुषकारस्योक्तदिशा मोक्षत्वावच्छिन्नं प्रति हेतुत्वव्यवस्थापनेन । अपास्तं निरस्तमित्यर्थः । तेनेत्यनेनोपदिष्टमेव निरासकारणं स्पष्टप्रतिपत्तये उपदर्शयति - पुष्टीति- चेतसः पुष्टिशुद्धयनुबन्धेनाभिव्यङ्गयाया भावचारित्रत्वलक्षणजातिस्तद्वतः पुरुषकारस्येत्यर्थः, अप्रत्यूहत्वात् बाधलक्षणविघ्नरहितत्वात् “तत्कृ" इत्यस्य स्थाने “तत्त” इति पाठो युक्तः । तद्विधीनां पुष्टिशुद्धयनुबन्धार्थ तत्तत्कियाविधायकशास्त्रवचनानाम् , अस्यानुपपत्यभावादित्यनेनान्वयः । अत्र दृष्टान्तमाह- आरोग्येति- धातूनां कफ-पित्त-वायूनां मध्यादेकस्य द्वयोस्त्रयाणां वा वैषम्ये कफप्रभव पित्तप्रभव-वायुप्रभवरोगाणां कफ-वायुद्वयप्रभव-कफपित्तोभयप्रभव-पित्तवायूभयप्रभवरोगाणां कफपित्त. वायुत्रयप्रभवरोगस्य वा प्रादुर्भावो भवति, निरुक्तधातुत्रयाणां साम्ये तु निरुक्तरोगविनाशलक्षणमारोग्यमुपजायत इति आरोग्यजनक यद् धातुसाम्यं तत्र तदर्थम् , तत्तचिकित्साविधीनां तत्तचिकित्साविधायकायुर्वेदवचनानाम् , अनुपपत्त्यभाववत्, पुष्टिशुद्धयनुबन्धार्थमनियतहेतुप्रणिधानाद्यन्विततत्तक्रियाविधायकशास्त्रवचनानामप्यनुपपत्त्यभावादित्यर्थः । अन्यदपि परकीयाक्षेपवचनमुपन्यस्य प्रतिक्षिपति- यत् पुनरिति । उच्यते परेणाभिधीयते । पूर्व सम्यक्त्वादिगुणप्राप्तितः प्राकाले । निर्गुणस्य सम्यक्त्वादिविशिष्टगुणरहितस्य, सतः तथावस्थितस्य जीवस्य । सम्यक्त्वादिप्राप्तौ सम्यक्त्वादि. गुणप्राप्तौ सत्याम्। किं किमर्थम् । तदनन्तरं सम्यक्त्वादिगुणप्रायनन्तरम् । तत् तुच्छं नानाविधगुणोपायान्वेषणकैमर्थ्यप्रतिपादकं परवचनं तुच्छं न समीचीनम् । तत्र हेतुमाह-पूर्वसेवायामिति । अथवा नानाविधगुणोपायान्वेषणं न क्रियत एव किन्तु स्वसामग्रीप्रभवा गुणास्तदानीं भवन्त्येवेत्येतावतैव तदपेक्षा गीयत इत्याह- अस्तु वेति । यमनियमादौ मोक्षोपायत्वे प्रमाणमप्यस्येवेत्याह- किञ्चति । सकलशिष्टकवाक्यतया सकलशिष्टसम्मततया । उक्ताथै उदयनाचार्यवचनसंवादमाह-तदुक्तमिति। "दृष्टलाभफलेनापि" इत्यस्य स्थाने " दृष्टलाभफला नापि" इति पाठः सम्यग् । उक्तपद्यार्थस्पष्टप्रतिपत्तये तद्रन्थ एवोल्लिख्यते-" अस्तु दृष्टमेव सहकारिचक्र किमपूर्वकल्पनया" इति चेत् , न-विश्ववृत्तितः,“विफला विश्ववृत्तिों न दुःखैकफलाऽपि वा। दृष्टलाभफला नापि विप्रलम्भोऽपि नेदृशः ॥" [ कुसुमाञ्जलिस्तबक- श्लो. ] यदि हि पूर्वपूर्वभूतपरिणतिपरम्परामात्रमेवोत्तरोत्तरनिबन्धनभू, न परलोकार्थी कश्चिदिष्टापूर्तयोः प्रवर्तेत, नहि निष्फले दुःखैकफले वा कश्चिदेकोऽपि प्रेक्षापूर्वकारी घटते, प्रागेव जगत् ; लाभपूजाख्यात्यर्थमिति चेत् ? लाभादय एव किंनिबन्धनाः ? नहीयं प्रवृत्तिः स्वरूपत एव तद्धेतुः, यतो वाऽनेन लब्धव्यं यो वैनं पूजयिष्यति स किमर्थम् , ख्यात्यर्थमनुरागार्थ च, जनो दातरि मानयितरि च रज्यते, जनानुरागप्रभवा हि सम्पद इति चेत् ? न- नीतिनर्मसचिवेष्वेव तदर्थ दानादिव्यवस्थापनात्; त्रैविद्यतपस्विनोऽपि धूर्तबका एवेति चेत् ? न- तेषां दृष्टसम्पदं प्रत्यनुपयोगात्; सुखार्थ तथा करोतीति चेत् , न-नास्तिकैरपि तथाकरणप्रसङ्गात्, सम्भोगवत् ; लोकव्यवहारसिद्धत्वादफलमपि क्रियते वेदव्यवहारसिद्धत्वात् सन्ध्योपासनवदिति चेत् ?, गुरुमतमेतत् , न तु गुरोर्मतम्, ततो नेदमनवसर एव वक्तुमुचितम् ; वृद्धविप्रलब्धत्वाद् बालानामिति चेत् ?, न-वृद्धानामपि प्रवृत्तेः; न च विप्रलम्भकाः स्वात्मानमपि विप्रलभन्ते, तेऽपि वृद्धतरैरित्येवमनादिरिति चेत् ? न तर्हि विप्रलिप्सुः कश्चिदत्र, यतः प्रतारणशङ्का स्यात् ; इदं प्रथम एव कश्चिदनुष्ठायापि धूर्तः पराननुष्ठापयतीति चेत् ? किमसौ सर्वलोकोत्तर एव यः सर्वस्वदक्षिणया सर्वबन्धुपरित्यागेन सर्वसुखविमुखो ब्रह्म Page #454 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्या समतो गयोपदेशः । तेनानुपायवादः षष्ठं मिथ्यात्वस्थानम्, मोक्षोपायवादश्च सम्यक्त्वस्थानमिति सुव्यवस्थितम् । नन्वेते षडपि पक्षप्रतिपक्षाः स्याद्वादलान्छिताः सुनया एव, तन्निरपेक्षाश्च दुर्नया एवेत्येकेषु मिथ्यात्वस्थानम् , अपरेषु च सम्यक्त्वस्थानकमिति को विशेष इत्यत आह- मार्गेत्यादि, नास्तित्ववादे गुरुशिष्य. क्रियाऽक्रियाफलादिव्यवहारविलोपान्मार्गत्यागः, अस्तित्ववादे चोक्तव्यवहारप्रामाण्याश्वासेन तत्प्रवेश इत्येताभ्यां हेतुभ्यां फलतस्तत्त्वं सम्यक्त्वमिथ्यासाधनकत्वमिष्यते ॥ २४ ॥ अ[न]भिनिविष्टं प्रत्येतदुक्तम् , एकान्ताभिनिवेशे तु जात्या सर्वेषां तुल्यत्वमेवेत्याह स्वरूपतस्तु सर्वेऽपि, स्युर्मिथोऽनिश्रिता नयाः । मिथ्यात्वमिति को भेदो, नास्तित्वास्तित्वनिर्मितः ॥ १२५ ॥ नयामृत-स्वरूपस्त्विति०- स्पष्टः, मिथोऽनिश्रिता इति- स्याद्वादमुद्रया परस्पराकाङ्क्षारहिता इत्यर्थः ॥ १२५ ॥ ननु नास्तिकास्तिकव्यवहारप्रयोजकतयैवैतेषां भेदो भविष्यतीत्यत आह- . धयंशे नास्तिको ह्येको, बार्हस्पत्यः प्रकीर्तितः। धमाशे नास्तिका ज्ञेयाः, सर्वेऽपि परतीर्थिकाः ॥ १२६ ॥ चर्येण तपसा श्रद्धया वा केवलं परवञ्चनकुतूहली यावजीवमात्मानमवसादयति, कथं वैनं प्रेक्षापूर्वकारिणोऽप्यनुविदध्युः, केन . वा चिह्वेनायमीदृशस्त्वया लोकोत्तरप्रज्ञेन प्रतारक इति निर्णीतः ? न तावतो दुःखराशेः प्रतारणसुखं गरीयः, यतः पाखण्डाभिमतेष्वप्येवं दृश्यत इति चेत् ? न-हेतुदर्शनादर्शनाभ्यां विशेषात् , अनादौ चैवम्भूतेऽनुष्ठाने प्रतार्यमाणे प्रकारान्तरमाश्रित्यापि बहुवित्तव्ययायासोपदेशमात्रेण प्रतारणा स्यात्, न त्वनुष्ठानागोचरेण कर्मणा, प्रमाणविरोधमन्तरेण पाखण्डित्वप्रसिद्धिरपि न स्यात् " इति उपसंहरति - तेनेति- मोक्षोपायव्यवस्थापनेनेत्यर्थः । मार्गत्याग-प्रवेशाभ्यामित्याधुत्तरार्द्ध व्याख्यातुमवतारयति- नन्विति । एते त्रयोविंशत्युत्तरशततमपद्योक्ता आत्मा नास्तीत्यादिपक्षाः, चतुर्विंशत्युत्तरशततमपद्यपूर्वार्धोपदिष्टाऽस्त्यात्मेत्यादयः पूर्वपक्षविरुद्धपक्षाः । षडपि प्रत्येकं षडपि, तेन समुदितास्ते द्वादश पक्षा इति बोध्यम् । स्याद्वादलाञ्छिताः स्यान्नास्त्यात्मा, स्यान्न नित्य आत्मा, स्यान्न कर्ताऽऽत्मा, स्यान्न भोक्ताऽऽत्मा, स्यान्न मोक्षः स्यान्न मोक्षोपाय इत्येवं षट् पक्षाः स्याद्वादलाञ्छितस्वरूपाः, स्यादस्त्यात्मा, स्यानित्य आत्मा, स्यादात्मा कर्ता, स्याद् भोक्ताऽऽत्मा, स्यादस्ति मुक्तिः, स्यादस्ति मुक्त्युपाय इत्येवं षट् पक्षाः स्याद्वादलाञ्छितस्वरूपाश्च । तन्निरपेक्षाश्च स्यावादनिरपेक्षाः पुनः । एकेषु नास्त्यात्मेत्यादिषट्सु पक्षेषु । अपरेषु च अस्त्यात्मेत्यादिषट्सु तत्प्रतिपक्षपक्षेषु पुनः। को विशेषः न कोऽपि विशेषो दृश्यत इत्याक्षेपः । गुरुशिष्येति- यदि नास्त्यात्मा तर्हि को गुरुः ? कश्च शिष्यः ? इति गुरुशिष्यात्मनोरभावादात्मनिष्ठयोरध्यापकत्वादिरुपगुरुत्वा-ऽध्ये नृत्वादिलक्षणशिष्यत्वयोरप्यभाव इत्ययं गुरुरयं च शिष्य इत्येवं गुरु-शिष्यादिव्यवहारस्य विलोपः, आत्मनश्चाभावे के प्रति विहिता क्रिया निषिद्धा च क्रिया भवेदित्यस्येयं विहिता क्रियेति इयं चास्य निषिद्धा क्रियेति क्रियाऽक्रियादिव्यवहारस्य विलोपः, विहित-निषिद्धक्रिययोरभावे अनया क्रियया तत्कर्तुरात्मनः स्वर्गादिकमिष्टफलमुपजायते, अनया क्रियया पुनरनिष्टं नरकाद्यनिष्टफलं भवतीत्येवं फलव्यवहारस्य विलोपः, आदिपदादयमात्मा बद्धोऽयमात्मा मुक्त इत्यादिव्यवहारस्योपग्रहः, इत्येवं निरुकव्यवहारविलोपान्मार्गत्याग इत्यर्थः । तत्प्रवेशः मार्गप्रवेशः । एताभ्यां मार्गत्याग-मार्गप्रवेशाभ्याम् ।। १२४ ॥ पञ्चविंशत्युत्तरशततमपद्यमवतारयति- अनभिनिविष्टमिति- अनाग्रहशालिनं प्रतीत्यर्थः। एतत् मिथ्यात्वस्थानसम्यक्त्वस्थानविभजनम् । विवृणोति- स्वरूपतस्त्वितीति । स्पष्टत्वात् प्रत्येकपदव्याख्यानं नात्र कर्तव्यतामञ्चतीत्याह- स्पष्ट इति । मिथोऽनिश्रिता इत्यस्य विवरणं- स्थाद्वादमुद्रया परस्पराऽऽकावारहिता इति ॥ १२५ ॥ Page #455 -------------------------------------------------------------------------- ________________ नयामततरङ्गिणी-तरङ्गिणीतरणिभ्यां समाहतो नयोपदेशः। नयामृत-धय॑श इति-- धर्मिणः- आत्मनः, अंशे-नास्तित्वभागे, एको बार्हस्पत्यः-चार्वाको नास्तिकः प्रकीर्तितः धर्माणाम् - आत्मनः शरीरपरिमाणत्व-नानात्व-परिणामित्व-ध्रुवस्व-सर्वज्ञजातीयत्वादीनाम् , अंशे-नास्तित्वपक्षे, सर्वेऽपि नैयायिक-वैशेषिक वेदान्ति-साङ्ख्य पातञ्जल जैमिनीयादय:परतीथिकाः, नास्तिकाः, ज्ञेयाः, यत्र यथा यदस्तित्वं तत्र तथा तदनभ्युपगमस्य स्वरसतो भगवद्वचना. श्रद्धानस्यैव वा नास्तिकपदप्रवृत्तिनिमित्तत्वादिति भावः, चार्वाकादिभिन्नदर्शनस्वीकर्तृत्वमेवास्तिकत्वमिति रूढिस्त्वनुकम्पामात्रम् ।। १२६ ।। सम्यक्त्व-मिथ्यात्वस्थानकयोरुक्तमेव प्रकार क्रियावाद-तदितरवादेष्वतिदिशन्नाह इत्थमेव क्रियावादे, सम्यक्त्वोक्तिर्न दुष्यति । मिथ्यात्वोक्तिस्तथाऽज्ञाना-क्रिया-विनयवादिषु ॥ १२७॥ नयामृत०-इत्थमेवेति । इत्थमेव मार्गप्रवेशत्यागाभ्यामेव, क्रियावादे सम्यक्त्वोक्तिः “सम्महिट्ठी किरियावाइ” इत्यादिलक्षणा । अक्रियाऽज्ञानविनयवादिषु च मिथ्यात्वोक्तिः- “ सेसा य मिच्छगा वा” इत्यादि, न दुष्यति० न दोषावहः भवति, फलत इत्थं विभागाभिप्रायस्याविरोधात्, जात्या चान्यत्र सर्वतौल्योक्तरुपपत्तेः ॥ १२७ ।। क्रियावादस्य सम्यक्त्वरूपतामेव युक्त्यन्तरेण द्रढयति क्रियायां पक्षपातो हि, पुंसां मार्गाभिमुख्यकृत् । अन्त्यपुद्गलभावित्वादन्येभ्यस्तस्य मुख्यता ॥ १२८॥ नयामृत-क्रियायामिति । क्रियायां पक्षपातो मोक्षेच्छयाऽऽवेशो हि पुंसां मार्गाभिमुख्य___षविंशत्युत्तरशततमपद्यमवतारयति- नन्विति । एतेषां नयानाम् । विवृणोति- धयश इतीति- धर्मिणोऽशो धर्म्यश इति समासमवलम्ब्य धर्मिण इत्यस्य विवरणमात्मन इति, अंशे इत्यस्य विवरणं- नास्तित्वमागे इति । बार्हस्पत्यः बृहस्पतिप्रणीतसूत्रानुसरणशीलः। स क इत्यपेक्षायामाह-चार्वाक इति- पृथिव्यादिचतुष्टयमेव तत्त्वम् , शरीरव्यतिरिक्त आत्मा नास्ति, प्रत्यक्षमेवैकं प्रमाणमित्याधुपगन्ता चार्वाकनामा धर्माणामंशो धांश इति समासमवलम्य धर्माणामित्यस्य विवरणमात्मनः शरीरपरिमाणत्व-नानात्व-परिणामित्व-ध्रुवत्व-सर्वचजातीयत्वादीनामिति । अंशे इत्यस्य विवरण- नास्तित्वपक्ष इति- आत्मनः शरीरपरिणामित्वादिकं नास्तीति पक्ष इति तदर्थः । सर्वेऽपीत्यस्य पर्यवसितार्थ नैयायिक वैशेषिक-वेदान्ति-साडय-पातञ्जल-जैमिनीयादय इति । किं नास्तिकपदप्रवृत्तिनिमित्तं येन तद्भावान्नैयायिकादयो नास्तिकपदव्यपदेश्या इत्यपेक्षायां तद्भावमुपदर्शयति- यत्र यथेति स्पष्टम् । तर्हि नैयायिकादीनां लोकरूस्याऽऽस्तिकव्यपदेश्यत्वं कथमित्यपेक्षायामाह - चार्वाकादिभिन्नेति । अनुकम्पामात्रमिति- अनुकम्पैव केवलम् , न तु वस्तुतो नैयायिकादय आस्तिका इति ॥ १२६ ॥ सप्तविंशत्युत्तरशततमपद्यमवतारयति- सम्यक्त्वेति। उक्तमेव प्रकारं अनन्तराभिहितमेव मार्गप्रवेश-तत्त्यागलक्षणप्रकारम् । तदितरेति-क्रियेतरेत्यर्थः । विवृणोति- इत्थमेवेतीति । इत्थमेवत्यस्य विवरणं- मार्गप्रवेश-त्यागाभ्यामेवेति । सम्म० इति- “ सम्यग्दृष्टिः क्रियावादी" इति संस्कृतम् । सेसा इति- “शेषाश्च मिथ्यात्वगा वा" इति संस्कृतम् । न दुष्यतीत्यस्य विवरणं- न दोषावहो भवतीति । तत्र हेतुमाह-फलत इति ॥ १२७ ॥ ___ अष्टाविंशत्युत्तरशततमपद्यमवतारयति क्रियावादस्येति । विवृणोति-क्रियायामितीति । पक्षपात इत्यस्य विवरणंमोक्षेच्छयाऽऽवेश इति । हि यतः। मार्गाभिमुख्य कृदित्यस्य विवरणं-मार्गानुसारितास्थैर्याधायको भवतीति। Page #456 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। कृत् मार्गानुसारितास्थैर्याधायको भवति, तेनान्त्यपुद्गलभावित्वात् चरमपुद्गलपरावर्तमात्रसंभवित्वात् , अन्येभ्यः- अक्रियावादादिभ्यः, तस्य क्रियावादस्य मुख्यता, तदुक्तं दशाचूर्णी "जो अकिरियावाई सो भविओ अभविओ वा कण्णपक्खिओ सुक्कपक्खिओ वा। जो किरिआवाई सो णियमा भविओ णियमा सुक्कपक्खिओ अन्तो पुग्गलपरिअट्टस्स सिज्झइ " ॥ [ ] इत्यादि । __ अत्र च क्रियावाद्यादीनां त्रिषष्ट्यधिकशतत्रयभेदप्रतिपादिका"असियसयं किरियाणं, अकिरियवाईण होइ चुलसीइ । अन्नाणि य सत्तही वेणइयाणं तु बत्तीसा ॥१॥" [सू० प्र० सम० अध्य० नियुक्तौ ] इति गाथा विनेयजनानुग्रहार्थ इह व्याख्यायते- अशीत्युत्तरशतं क्रियावादिनाम् , तत्र कर्तारं विना क्रियाऽसम्भव इति नाम्नात्मसमवायिनी वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणा अमुनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, जीवा-ऽजीवा-ऽऽश्रव-बन्ध-संवर-निर्जरा-पुण्याऽपुण्य-मोक्षाख्यान् नव पदार्थान् पट्टिकादौ लिखित्वा परिपाट्या जीवपदार्थस्याधः, स्व-परभेदावुपन्यसनीयौ, तयोरधो नित्या-ऽनित्यभेदो तयोरप्यधः कालेश्वरा-ऽऽत्म-नियति-स्वभावभेदा उपन्यसनीयाः, ततश्चेत्थमभिलापः कर्तव्यः- अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, तदर्थश्च विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्व कालत इति कालवादिनः पक्षः, अत्रास्तित्वे स्वतस्त्वमवच्छेदकीभूय विशेषणम् , नित्यत्वमात्मन एवोपरञ्जनकं विशेषणम् , कालत इति नियामकं विद्यमानत्वरूपसत्तायाः तेन क्रियापक्षपातस्य मार्गानुसारितास्थैर्याधायकत्वेन, अस्य मुख्यतेत्यनेन सम्बन्धः । अन्त्यपुद्गलभावित्वादित्यस्य विवरणं-चरमपुरलपरावर्तनमात्रसंभावित्वादिति । अन्येभ्य इत्यस्य विवरणं- अक्रियावादादिभ्य इति, आदिपदादज्ञान-विनयवादादीनां ग्रहणम् । तस्येत्यस्य विवरणं-क्रियावादस्येति । उक्तार्थे दशाचूर्णिवचनसम्मतिमुपदर्शयति-तदुक्कमिति । जो० इति-"योऽक्रियावादी स भविकोऽभविको वा, कृष्णपक्षिकः, शुक्लपक्षिको वा; यः क्रियावादी स नियमभविको नियमाच्छुक्लपक्षिकोऽन्तःपुद्गलपरावर्तस्य सिद्धयति" इति संस्कृतम् । अत्र च क्रियावादादिविचारे च । प्रतिपादिकेत्यस्य गाथेत्यनेनान्वयः । असिय० इति-" अशीत्युत्तरशतं क्रियाणामक्रियावादिनो भवति चतुरशीतिः। अज्ञानिनश्च सप्तषष्टिवैनयिकानां तु द्वात्रिंशत्" इति संस्कृतम् । इति गाथा उक्तस्वरूपा गाथा । विनेय. जनानुग्रहार्थ शिष्यादिजनानुग्रहार्थम् । इह अस्मिन् ग्रन्थे । व्याख्यायते विव्रियते । क्रियावादिनः स्वरूपं सङ्खयां चोपदर्शयति-तत्रेति-क्रियावाद्यादिषु मध्ये इत्यर्थः । “नाम्ना" इत्यस्य स्थाने " नाना" इति पाठो युक्तः । तच्छीलाश्च नानात्मसमवायिनी क्रियां वदितुं शीलं स्वभावो येषां ते तच्छीलास्ते च । ते पुन: क्रियावादिनः पुनः । आत्माद्यस्तित्वप्रतिपत्तिलक्षणाः आत्मादीनां पदार्थानां यदस्तित्वं तदभ्युपगमस्वरूपाः । अमुनोपायन जीवा-उजीवे. त्याद्यनन्तरोपदयमानोपायेन । परिपाच्या लेखन भावयति-जीवपदार्थस्याध इति- जीवः स्वतः परतश्च नित्योऽनित्यः कालेश्वराऽऽत्म-नियति-स्वभावभेदतः, एवमुट्टङ्कनम् । तयोरधः स्व-परयोरधः । तयोरप्यधः नित्या-ऽनित्ययोरप्यधः । ततश्च एवं परिपाठयोपन्यासतश्च । इत्थम् अस्ति जीव इत्याद्यनन्तराभिधीयमानप्रकारेण । तदर्थश्च अस्ति जीवः स्वतो नित्यः कालत इत्यभिलापार्थश्च । अत्र अस्मिन् विकल्पे । अवच्छेदकीभूय विशेषणम् अस्तित्वे अवच्छेदकतया विशेषणं स्वतस्त्वमित्यतः स्वरूपावच्छिन्नास्तित्ववानित्याकारता प्रयोगस्य निष्पद्यते। कालतो नित्य आत्मेत्यपि प्रयोगघटकम्, तत्र नित्यत्वमुपरजकविशेषणम् , कालत इति चास्तित्व एव नियामकतयाऽन्वेतीत्याह-नित्यत्वमिति । कथं कालत इति नियामकमित्यपेक्षायामाह- विद्यमानत्वेति- एतेन नित्य आत्मा कालनियम्यत्वासाधारणात्मत्वाद्यवच्छिन्न विद्यमानत्वरूपा Page #457 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । कालनियम्यत्वात् १, कालत इत्यस्य स्थाने ईश्वरत इति वदत ईश्वरवादिनो द्वितीयो विकल्पः, ईश्वरस्य सर्वनियन्तृत्वेन आत्मसत्ताया अपि तनियम(म्य )त्वात् २, ईश्वरत इत्यस्य स्थाने आत्मत इति कुर्वत आत्मवादिनस्तृतीयः, स्वसत्तायाः स्वनियम्यताया अनन्यगत्यैव स्वीकारात् ३, नियतित इति करणे चतुर्थविकल्पो नियतिवादिनः ४, स्वभावत इति करणे पञ्च विकल्पाः स्वभाववादिनः ५, एवं स्वत इत्यजहता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्च एव लभ्यन्ते, नित्यत्वापरित्यागेन चैते दशविकल्पाः १० एवमनित्यत्वेनापि दशैव २० । एते विंशतिर्जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानाम् , अतो विंशतिर्नवगुणाः शतमशीत्युत्तरं १८० क्रियावादिनामिति । अक्रियावादिनां च भवन्ति चतुरशीतिभेदाः, नहि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति क्रियो। त्पत्त्याधारत्वेनाभिमत एव काले पदार्थावस्थितेरभावादित्येवंवादिनोऽक्रियावादिनः, तथा चाहुरेके"क्षणिकाः सर्वसंस्कारा अस्थितानां कुतः क्रिया ?। भूतियेषां क्रिया सैव कारकं सैव चोच्यते ॥१॥" ] इत्यादि । स्तित्ववानित्याकारकः कालतो नित्यः स्वतोऽस्ति जीव इति प्रथमोऽभिलाप इति । कालत इत्यस्येति स्पष्टम् । तत्र नित्य आत्मेश्वरनियम्यत्वासाधारणात्मत्वाधवच्छिन्नस्वसत्तारूपास्तित्ववानित्याकारो बोध्यः। कथमात्मनः सत्तेश्वरनियम्येत्यपेक्षाया. माह-ईश्वरस्येति । तन्नियम्यत्वाद ईश्वरनियम्यत्वात् । तृतीयविकल्पस्वरूपमुपदर्शयति-ईश्वरत इत्यस्येति । अनन्यगत्यैवेति- परनियम्यत्वे नियामकस्यापि परस्य सत्ता परनियम्येत्येवमनवस्थाप्रसङ्गात् , तत्परिहारेऽन्यप्रकारो नास्तीत्यात्मनियम्यत्व एव स परिहृतो भवतीत्येवमनन्यगत्यैवेत्यर्थः । चतुर्थविकल्पस्वरूपमुपदर्शयति-नियतित इति । करण इति- आत्मन इत्यस्य स्थाने नियतित इति करणे इत्यर्थः । पञ्चमविकल्पमुपदर्शयति- स्वभावत इति करणे इति-नियतित इत्यस्य स्थाने स्वभावत इति करणे । एषु पञ्चसु विकल्पेषु स्वत इत्यस्य न परित्याग इत्याह- एवमिति । पञ्च विकल्पाः अस्ति जीवः स्वतो नित्यः कालतः१, अस्ति जीवः स्वतो नित्य ईश्वरतः२, अस्ति जीवः स्वतो नित्य आत्मतः३, अस्ति जीवः स्वतो नित्यो नियतितः४, अस्ति जीवः स्वतो नित्यः स्वभावतः५, इत्येवं स्वत इत्यस्यापरित्यागेन पञ्च विकल्पाः। परत इत्यनेनापीति- अस्ति जीवः परतो नित्यः कालतः१, अस्ति जीवः परतो नित्य ईश्वरतः२, अस्ति जीवः परतो नित्य आत्मतः३, अस्ति जीवः परतो नित्यो नियतितः४, अस्ति जीवः परतो नित्यः स्वभावतः५, इत्येवं परत इत्यस्यापरित्यागेन पञ्चविकल्पा लभ्यन्ते इत्यर्थः । द्वयोर्मेलने दश विकल्पाः, सर्वत्र नित्यत्वस्यापरित्याग इत्याह-नित्यत्वापरित्यागेनेति । उक्तदिशा अनित्यत्वेनापि दश विकल्या इत्यतिदिशति- एवमिति- नित्यत्वस्थाने अनित्यत्वस्य प्रवेशोऽन्यत् सर्व समानमिति । नित्यत्वापरित्यागेन दशानां विकल्पानामनित्यत्वापरित्यागेन दशानां विकल्पानां मेलने विंशतिर्विकल्पा जीवपदार्थापरित्यागेन लब्धा इत्युपसंहरति - एते इति । प्रत्येकमजीवादिष्वप्यष्टपदार्थे। कदिशा विंशतिर्विकल्पानां नवगुणितानां च तेषामशीत्युत्तरं शतं क्रियावादिनामित्याह- अजीवादिष्वपीनि । अक्रियावादिनां चतुरशीतिभेदानुपदर्शयितुमाह- अक्रियावादिनां चेति । अक्रियावादिनां स्वरूपं निरूपयति- नहीति- अस्य समस्तीत्यनेनान्वयः । अवस्थितस्य पदार्थस्य क्रिया नास्तीत्यत्र हेतुमुपदर्शयति-क्रियोत्पत्त्याधारत्वेनेति- प्रथमक्षणावस्थितस्य वस्तुनो यदि द्वितीयक्षणेऽवस्थितिर्भवेत् स्यात् तदा तत्र द्वितीयक्षणभाविनी क्रिया, न चैवम्, पदार्थानां क्षण. मात्रस्थायित्वेन द्वितीयक्षणे स्थितेरेवाभावादित्यर्थः । उक्कार्थाभ्युपगन्तृणां मतं तद्वचनेनैव प्रकटयति-तथा चाहुरेके इति । क्षणिका इति- सर्वसंस्काराः सर्वेऽपि पदार्थाः, क्षणिकाः क्षणमात्रस्थायिनः, एवं च अस्थितानां द्वितीयादि क्षणेऽनवस्थितानां, क्रिया द्वितीयादिक्षणभाविनी क्रिया, कुतः कस्मात् कारणात् , न कस्मादपीति यावत् , भवनादिलक्षणा तु क्रिया क्षणिकानामपि समस्तीति न तस्याः प्रतिषेध इत्याशयेनाह-भूतिरिति- एषां क्षणिकानां पदार्थानां या भूतिर्भवनमुत्पत्तिरिति यावत्, सैव क्रिया, एवकारेण भवनातिरिक्तक्रियाया प्रतिषेधः, कारकमव्यवहितोत्तरक्षणभाविकार्य प्रति कारकं करणक्रिया, सैव भूतिरेव, चः समुच्चये, क्रियान्तराणामपि प्रथमक्षणभाविनां भवनक्रियारूपतां Page #458 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणाऽमुनोपायेन चतुरशीतिर्द्रष्टव्याः, तथाहि - एतेषां पुण्या-sपुण्यविवर्जितपदार्थ सप्तकं न्यसनीयम्, पुण्या-sपुण्यनिरासस्य नास्तिकनाम्नैव सुप्रसिद्धत्वेन पुनरविवक्षितत्वात्, तत्र च जीवस्याधः स्व-पर विकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो नित्याऽनित्यभेदौ नाङ्गीक्रियेते, नित्याऽनित्ये परञ्जकत्वेन तदुपन्यासविशेषणे, ते चोपरञ्जनीयाभावात् कमुपरञ्जयेताम्, निषेध - प्रतियोगिता समानाधिकरण- व्यधिकरणधर्मविधयाऽवच्छेदकत्वेन तदुपन्यासश्च स्वतस्त्व - परतस्त्व भेदद्वयं नातिक्रामतीति पृथक् तदुपन्यासो निर्बीज इति युक्तमीक्षामहे । कालादीनां च पञ्चानां षष्ठी यदृच्छोपन्यसनीया, यदृच्छा नामाऽकस्माद्भावः तथा च आकस्मिकोत्पादेनापि सम्भाव्यमानस्य जीवादेः ३८७ समुच्चिनोति, उच्यते क्षणिकवादिभिः कथ्यते । एते च अक्रियावादिनोऽनन्तरमभिहितस्वरूपाः पुनः । “ लक्षणाऽमुनो" इत्यस्य स्थाने “ लक्षणा अमुनो " इति पाठो युक्तः । अमुनोपायेन तथाहीत्यादिनाऽनन्तरमेव वक्ष्यमाणोपायेन । एतेषाम् अक्रियावादिनाम् । पुण्या-ऽपुण्यविवर्जितेति जीवा ऽजीवा ऽऽश्रव-बन्ध-संवर- निर्जरा- पुण्यापुण्य- मोक्षेषु नवसु पदार्थेषु पुण्याऽपुण्ये विहाय जीवाऽजीवादिपदार्थसप्तकं न्यसनीयं - स्थापनीयम् । स्थापनायां पुण्यापुण्यविवर्जनं कथमित्यपेक्षायामाह - पुण्यापुण्यनिरासस्येति - जीवाऽजीवादिपदार्थानां नास्तित्वप्रतिपत्त्यर्थमेव न्यासः क्रियते, अक्रियावादिनां यन्नास्तिक इति नाम तेनैव पुण्याsपुण्यनिरासस्य पुण्यापुण्यापाकरणस्य सुप्रसिद्धत्वेनेति- नास्तिकास्त एवोच्यन्ते ये पुण्यापुण्ये न स्वीकुवन्तीत्येवं लोके सुप्रतीतत्वेनेत्यर्थः । अविवक्षितत्वादिति - यो हि परस्याज्ञातः, संदिग्धो विपर्ययविषयो वा भवति तदवबोधनायैव वक्तुर्विवक्षा भवति, यश्च निश्चितस्तत्राज्ञान- संशय-विपर्ययनिराकरणलक्षणप्रयोजनाभावाद् विवक्षा न भवत्येवमविवक्षितत्वादिति पुण्यापुण्ययोर्न न्यसनमित्यर्थः । तत्र च जीवाऽजीवादिसप्तपदार्थन्यासे च । जीव जीवपदार्थम्यासस्य । अधः अधस्तात् । स्वपरविकल्पभेदद्वयोपन्यास इति - स चेत्थं निभालनीयः - जीवः स्वतः । परतश्च कालत ईश्वरत आत्मतो नियतितः स्वभावतो यदृच्छातश्च, एवमजीवादिपदार्थन्यासस्याधस्तादपि न्यासो बोध्यः, ' सर्वत्र नास्तीति न्यासो निषेधप्रतिपादकः कर्तव्यः, कालादीनां चेत्याद्यग्रिमप्रन्थं प्रतिसन्धाय मूलानुपदर्शितोऽत्र स्व- परयोरधस्तात् कालादिन्यास उल्लिखितः । तत्र नित्योऽनित्यश्चेत्येवं न्यासः कथं नेत्याकाङ्क्षानिवृत्तये त्वाह- असत्त्वादात्मन इति - अक्रियावादिनां मते आत्मनोऽसत्त्वादभावादित्यर्थः । आत्मनोऽभावेऽपि यथा कालादीनां न्यासस्तथा कथं न तयोर्न्यास इत्यपेक्षायामाह - नित्याऽनित्ये इति । तदुपन्यासेति- जीवोपन्यासेत्यर्थः । ते च नित्याऽनित्ये पुनः । उपरञ्जनीयाभावात्- उपरञ्जनीयस्यात्मनोऽभावात् । कमिति काक्वा न कमपीत्यर्थः । ननु नित्यत्वेनात्मा नास्ति, अनित्यत्वेनास्तीत्येवमात्मनिष्ठप्रतियोगितायां निषेधनिरूपितायामवच्छेदकविधया नित्यत्वाऽनित्यत्वयोरन्वयसम्भवात् तत्प्रयोजनक एव तयोरुपन्यासोऽस्त्वित्यत आह- निषेधेति - यथा घटत्वेन घटो नास्तीत्यत्र निषेधस्य घटात्यन्ताभावस्य प्रतियोगिता घटे वर्तते घटत्वमपि तत्र वर्तत इति भवति, समानाधिकरणो धर्मो घटत्वमिति समानाधिकरणधर्मविधया घटत्वस्य घटनिष्ठप्रतियोगिताया अवच्छेदकत्वम्, पटत्वेन घटो नास्तीत्यत्र निषेधस्य घटात्यन्ताभावस्य प्रतियोगिता घटे वर्तते न च तत्र पटत्वं वर्तत इति भवति पटत्वं व्यधिकरणधर्म इति व्यधिकरणधर्मविधया पटत्वस्य घटनिष्ठप्रतियोगिताया अवच्छेदकत्वं तथा प्रकृते-आत्मनोऽसत्त्वान्निषेध्ये तस्मिन् नित्यत्वाऽनित्यत्वयोरभावान्न तयोः समानाधिकरणधर्मत्वमिति यद्यपि समानाधिकरणधर्मविधया न तयोर्निषेधप्रतियोगिताया अवच्छेदकत्वं तथापि व्यधिकरणधर्मविधयाऽवच्छेदकत्वं सम्भवतीति तेन नित्यत्वाऽनित्यत्वोपन्यासश्च स्वतस्त्व - परतस्त्वान्यतरस्मिन्नेव तयोरन्तर्भावात् स्वतस्त्व-परतस्त्वोपन्यासान्तर्गत एव तयोरुपन्यास इति पृथक्कया तयोरुपन्यासो निर्बीज इत्येतस्मात् कारणान्न तयोरुपन्यास इति युक्तं पश्याम इत्यर्थः । " निषेधप्रतियोगिता " इत्यस्य स्थाने “ निषेधप्रतियोगितायाः " इति पाठो युक्तः, तस्य चावच्छेदकत्वेनेत्यनेनान्वयः । कालादयः पञ्च यदृच्छा च स्वतः परतश्चेत्यस्याधस्तादुपन्यसनीया इत्याह- कालादीनां चेति षष्ठया यदृच्छाया अधिकाया उपन्यसनीयत्वप्राप्तौ कालादीनां पञ्चानामुपन्यसनीयत्वं प्राप्तमेवेति यदृच्छा किंस्वरूपेत्यपेक्षायामाह - यद्दच्छेति । नामेति कोमलामन्त्रणे । तथा च अकस्माद्भावलक्षणाया यदृच्छाया उपन्यासे च । Page #459 -------------------------------------------------------------------------- ________________ ३८८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । पदार्थस्य निरासान्नास्तिकवादसासाज्यम् , [ पश्चात् ]विकल्पाभिलाप:- नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवम्- ईश्वरादिभिरपि यदृच्छावसानैः सर्वे षड्विकल्पाः ६, तथा नास्ति जीवः परतः कालत इति षडेव ६ विकल्पा एकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पा इति सप्त द्वादशगुणाश्चतुरशीतिः ८४ विकल्पानामिति । ननु निषेधे कालादीनामनियामकत्वात् कथं तद्भेदादभिलापसम्भवः, नहि कालेश्वरादितः शशशृङ्गं नास्तीति नियन्तुं शक्यम् , यदि च कालादिना स्वतो जीवाद्यस्तित्वं परसमयविकल्पसिद्धमनद्य तन्निषेधादपदर्शितभेदसायोपपाद्यते तदा नित्या-ऽनिल पदत्यागेऽपि किं बीजमित्यन्वेषणीयम् , नित्यत्वा( 2 )न्यतरोपरागेणापि विकल्पसिद्धस्यात्मादिपदार्थस्य निषेद्धं सुशक्यत्वात् , क्षणिकविज्ञानाभिन्नरूपात्मा दिपदार्थाभ्युपगन्तुरक्रियावादिनः सदृशक्षणपरम्पराआकस्मिकोत्पादनापीति- अकस्मादेव जीवादयः पदार्था उत्पद्यन्त इत्येवं सम्भावनागोचरीकृतस्यापि जीवादेः पदार्थस्य नास्तित्वव्यवस्थित्या कथमपि जीवादिपदार्थस्यास्तित्वं न सम्भवतीत्येवस्वरूपस्य नास्तिकवादस्य साम्राज्यं भवतीत्येतदर्थ यदृच्छोपन्यासो युक्त इत्यर्थः । अक्रियावादिनां चतुरशीतिभेदा इति यत् प्रविज्ञातं तदेव विकल्पाभिलापानामुपदर्शने निष्टङ्कयति-विकल्पाभिलाप इति । स्वत इत्यस्यापरित्यागेन षड् विकल्पा उपदर्यन्ते-नास्ति जीव: स्वतः कालत इत्येको विकल्प इति- कालनियम्यस्वासाधारणधर्मावच्छिन्नजीवनिष्ठप्रतियोगिताकोऽत्यन्ताभाव इति, कालनियम्यात्यन्ताभावनिरूपितस्वासाधारणधर्मावच्छिन्नप्रतियोगितावान् जीव इति वाऽर्थः, एवमप्रेऽपि । एवमिति- नास्ति जीवः स्वत ईश्वरत इति द्वितीयो विकल्पः, नास्ति जीवः स्वत आत्मत इति तृतीयो विकल्पः, नास्ति जीवः स्वतो नियतित इति तुरीयो विकल्पः, नास्ति जीवः स्वतः स्वभावत इति पञ्चमो विकल्पः, नास्ति जीवः स्वतो यदृच्छात इति षष्ठो विकल्प इत्येवं स्वत इत्यस्यापरित्यागेन षड् विकल्पाः । स्वत इत्यस्य परित्यागेन तत्स्थाने परत इत्यस्य न्यसनेन षड् विकल्पा इत्थमेवाभिलपनीया इत्याह- तथेति । स्वत इत्यस्यापरित्यागेन षण्णां विकल्पानां परत इत्यस्यापरित्यागेन षण्णां विकल्पानां च मेलनेन द्वादश विकल्पा जीवे निष्पद्यन्त इत्याह- एकत्र द्वादशेति- एकस्मिन् जीवे द्वादश विकल्पाः सम्भवन्तीत्यर्थः । प्रत्येकमुक्तप्रकारेणाजीवादिष्वपि षट्सु द्वादश विकल्पा भवन्तीत्यतिदिशति- एवमिति । द्वादश विकल्पाः सप्तगुणिता विकल्पानां चतुरशीतिनिष्पद्यत इत्याह-सप्तेति । उक्तदिशाऽक्रियावादिनां चतुरशीतिसंख्यकान् विकल्पानसहमानः परः शङ्कते-नन्विति । निषेधे स्वतः परतो वा जीवस्य निषेधे। कालादीनामित्यत्रादिपदादीश्वरादीनां पञ्चानामुपग्रहः । अनियामकत्वात् नियामकत्वासम्भवात् । तद्गभेदात् कालेश्वरादीनां विकल्पाभिलापान्तःप्रवेशभेदात् । कथं निषेधे कालादीनामनियामकत्वमित्यपेक्षायामाह- नहीति- अस्य शक्यमित्यनेनान्वयः, शशशृङ्गं यथाऽसत् तथाऽक्रियावादिनां मते आत्माऽप्यसन्निति शशशङ्गाभावस्येवात्मनोऽप्यभावस्य कालेश्वरादिनियम्यत्वं न सम्भवतीति भावः । ननु शशशृङ्गादिकं केनापि सत्त्वेन नाभ्युपगतमतस्तस्य निषेधः कालादिनियम्यो मा भूत्, आत्माद्यस्तित्वं पराभ्युपगत मिति परसमयसिद्धं तदनूय कालादिना निषेधो भविष्यत्यत उपदर्शितसङ्खयोपपन्नेत्यत आह-यदि चेति । परसमयविकल्पसिद्धं परकीयागमप्रभवविकल्पात्मकज्ञानसिद्धम् । यदि विकल्पसिद्धस्य कालादिना निषेधो भवदुपगमाईस्तदा आत्मादेरपि परागमप्रभवविकल्पसिद्धस्य नित्यत्वोपरागः सम्भवत्येवेति नित्यत्वाऽनित्यत्वोपरागेण तन्निषेधस्य सम्भवेन नित्यानित्यपदप्रवेशोऽपि पूर्वोक्तन्यासे सम्भवतीति तत्परित्यागस्य निर्बीजत्वं स्यादित्याह- तदा नित्याऽनित्यपदत्यागेऽपीति । अजीवादि बाह्यं तु स्वयमभ्युपगच्छत्येव क्षणिकविज्ञानाभिन्नात्मरूपाभ्युपगन्ताऽक्रियावादीत्यतस्तस्य मते बाह्यधर्मत्वाद् बाह्य नित्यत्वमनित्यत्वं च पारिभाषिकं समस्तीति तदुपरागेण बाह्यजोवादिपदार्थनिषेधोऽपि सम्भवत्येवेत्याह-क्षणिकविज्ञानाभिन्नेति । यदि नित्यत्वमनित्यत्वं च स्वाभ्युपगमादेवाक्रियावादिनः समस्ति तदा तदुपरागेण बाह्यनिषेधो न तन्मते घटेतेत्यत आह - तस्योत्कटत्वेनेति- नित्यत्वस्य यदुत्कटत्वमप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वलक्षणम्, अनित्यत्वस्य यदुत्कटत्वं स्वप्रागभावध्वंसानधिकरणयावत्कालस्थायित्वम् , तद्रूपेण बाह्यं नित्यत्वमनित्यत्वं निषेधुं शक्यमित्यर्थः । परमेवं यथाश्रुतपाठानुसारिव्याख्यानं सन्दर्भविरुद्धत्वान्न सङ्गतम्, सन्दर्भविरोधश्च सन्दर्भमध्यपाति " चेत् ? तर्हि " इति प्रश्नप्रतिविधानावबोधकपदद्वयघटितत्वेनैतत्सन्दर्भस्य प्रश्न-प्रतिविधानरूपता प्रतीयते, तत्सङ्गमनाऽसम्भव एव, तत एवं Page #460 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। . ३८९ - पतितत्वेन नित्यत्वं क्षणिकत्वेनानित्यत्वं च स्वाभ्युपगमादेव बाह्यं तस्योत्कटत्वेन निषेढुं न शक्यमिति चेत् ? तर्हि यादृशं परमतसिद्धं नित्यत्वमनित्यत्वं च तादृशमेव निषिध्यताम् , अन्यथा धर्मिणो निषेधेऽपि व्याघातापरिहारात्, अथात्मत्वं शरीरातिरिक्तावृत्तीत्यादिरेव निषेधार्थः बाध-सिद्धिसाधनादिभयानुपनिपातादिति चेत् ? तर्हि आत्मत्वं न नित्यात्मसमानाधिकरणम् , आत्मपदवाच्यं न नित्यपदवाच्यमित्यादिरीत्या नित्यानित्यभेदवादे प्रक्षेपेणापि कथं नाक्रियावादोक्तिः इति चेत् ? अत्रेदमाभाति-विकल्पसिद्धस्य निषेध्यत्वेऽपि स्वतः कालतः इत्यादिपदार्थस्य निषेधप्रतियोगिविशेषणविधयाऽन्वयसाकासत्वेन तदुपादानं, नित्यानित्यपदे तूहेश्यधर्मिण्येव स्वार्थान्वयसाकाङ्के इति तत्परित्यागः इति प्राचीनप्रणयानुरोधेन स्थितस्य गतिचिन्तनं चैतदिति नाधिकविकल्पकल्लोललोलं चेतो विधेयम् । अज्ञानिकानां सप्तषष्टिर्भेदाः, तत्र कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्यज्ञानिकाः, नन्वेवं लाघवात् प्रक्रमस्य बहुव्रीहिणा व्याख्यानमत्रादरणीयम्- ननु नित्यत्वमनित्यत्वं चाभ्युपगच्छत्येवाक्रियावादी, यतः क्षणिकविज्ञानाभिरूपात्मादिपदार्थस्तेनाभ्युपगतः, तत्र सदृशक्षणपरम्परापतितत्वलक्षणं नित्यत्वं क्षणिकत्वस्वरूपमनित्यत्वं च स्वीकृतम् , ततः कथं नित्यत्वाऽनित्यत्वोपरागेणाऽऽत्मनो निषेधस्तन्मते ? इति नित्याऽनित्यपदत्यागेऽस्त्येव बीजमिति पराकूतमुपदर्य दूषयति-क्षणिकविज्ञानामिन्नेति । "बाह्यं तस्योत्कटत्वेन" इत्यस्य स्थाने " सिद्धं तन्नोत्कटत्वेन" इति पाठो युक्तः, तत स्वमतप्रसिद्ध नित्यत्वमनित्यत्वं च, उत्कटत्वेन स्वसमये सुदृढानरूढत्वेन । निषेद्धं न शक्यमिति चेत?, एवं यधुपैयते, तर्हि तदा, यादृशं यादग्भूतमप्रच्युतानुत्पन्नस्थिरैकस्वभावादिलक्षणं, नित्यत्वं प्रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगित्वलक्षणं स्वप्रागभावध्वंसानधिकरणयावत्कालस्थायित्वलक्षणं, वाऽनित्यत्वं च परमतसिद्धं नैयायिकादिमतसिद्धम् , ताशमेव तारस्वरूपमेव नित्यत्वं निषिध्यतामित्यर्थः, तथा च परमतसिद्धनित्यत्वाऽनित्यत्वोपरागेणात्मनो निषेधसम्भवादुक्तन्यासे नित्यानित्यपदप्रवेश एव युक्त इति नित्यानित्यपदपरित्यागे किं बीजमित्याशङ्का तदवस्थैवेत्याशयः। अन्यथा परमतसिद्धत्वस्यानादरे। धर्मिणो निषेधेऽपि आत्मनो निषेधेऽपि । व्याघातापरिहारात् यथाऽसतः शशशङ्गादनिषेधो न कालेश्वरादितो नियन्तुं शक्यस्तथाऽऽत्मनो निषेधोऽपीत्येवं व्याघातस्य परिहत्तमशक्यत्वात् । शङ्कतअथेति । उक्तनिषेधार्थाश्रयणे बाध-सिद्धिसाधनादिदोषोऽपि नास्तीत्याह- बाघेति- आत्मा शरीरातिरिक्तो न भवतीत्येवं निषेधार्थाभ्युपगमे परमतसिद्धस्यात्मनो धर्मित्वे तत्र शरीरातिरिक्तत्वमेवेति बाधः, शरीरमेवात्मेति मतसिद्धशरीररूपात्मनो धर्मित्वे शरीरे शरीरातिरिक्तत्वं नास्तीति सर्वैरभ्युपेयत एवेति सिद्धसाधनं स्यादेवेति । समाधत्ते-तीति । नित्या. नित्यमेदवादे" इत्यस्य स्थाने "नित्यानित्यपद" इति पाठो युक्तः, अर्थस्तु व्यक्त एव । ननु निषेधे' इत्यादि. प्रश्न प्रन्थकृत् स्वमनीषोद्भासितं प्रतिविधानमुपदर्शयति- अत्रेति- अनन्तरोपवर्णितप्रश्न इत्यर्थः । इदं विकल्पसिद्धस्येत्यादिना वक्ष्यमाणं प्रतिविधानम् । आभाति मम भासते। विकल्पसिद्धस्य परसमयप्रभवविकल्पात्मकज्ञानसिद्धस्याऽऽत्मनः । निषेध्यत्वेऽपि निषेधप्रतियोगित्वेऽपि । तदुपादानं स्वतः कालत इत्यादिपदस्योपादानम् । उद्देश्यधर्मिण्येव उद्देश्य यदात्मस्वरूपं धर्मि तस्मिन्नेव । स्वार्थान्वयसाकाङ्के स्वार्थस्य नित्यत्वादिधर्मस्यान्वये साकाङ्के स्वार्थान्वयबोधजनके। इति एवं स्वरूपविशेषात् । तत्परित्यागः निरुक्तन्यासे नित्यानित्यपदत्यागः। ईदृशप्रतिविधानादरे हेतुमुपदर्शयति-प्राचीनेति प्राचीनानां सिद्धान्तकपरिशीलनस्वभावानां सूरीणां यः प्रणयः तन्मतश्रद्धालक्षणस्तदनुरोधेन । स्थितस्य तदुक्तौ स्थितस्य विदुषः । गतिचिन्तनं तदुपपादनप्रकारविचारणम् । एतत् अनन्तरोपवर्णितं प्रतिविधानम् । इति एतस्मात् कारणात् । अस्मिन् विषये अधिकाश्चतुरशीतिविकल्पभिन्ना ये नित्यानित्यपदप्रवेशेन विकल्पास्तदात्मका ये कल्लोलास्तरजास्तैर्लोले चञ्चलमस्थिरविचारं चेतो न विधेयमित्यर्थः । अज्ञानिकभेदान् प्ररूपयति- अज्ञानिकानामिति । अज्ञानिकशब्दव्युत्पत्त्युपदर्शनेनाज्ञानिकस्वरूपमावेदयति-तत्रेति- अज्ञानिकानां सप्तषष्टिसंख्यकभेदेषु निरूपणीयेषु ननु न विद्यते सम्यग्ज्ञानस्वरूपं ज्ञानं येषां ते अज्ञाना इति बहुव्रीहिसमासाश्रयणादज्ञानशब्दादेवाज्ञानिकरूपार्थलाभसंभवात् तत्र लाघवतर्कसहकारस्यापि भावात् तद्धिताणिनिप्रत्ययमज्ञानशब्दादानीयोक्तव्युत्पत्तिकाज्ञानिकशब्दस्वरूपशब्दनिष्पादनं न सम्भवति Page #461 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । भवितव्यम्, ततश्चाज्ञाना इति स्यात्, नैष दोष:- ज्ञानान्तरमेवाज्ञानं मिथ्यादर्शन सहचरितत्वात्, ततश्च जातिशब्दत्वादज्ञानिका इति प्रयोगस्यैव युक्तत्वात्, अभ्युपगमस्याणिनिप्रत्ययार्थत्वेनाज्ञानाभ्युपगन्तार इति बोधस्य तत एव सम्भवाद्, बहुव्रीहौ सम्बधिमात्रस्यैव बोधापत्तेः; यद्वाऽज्ञानेनाचरन्ति तत्प्रयोजना वा अज्ञानिकाः, असश्चिन्त्य कृतबन्धवैफल्यादिप्रतिपत्तिलक्षणा अमुनोपायेन सप्तषष्टिर्ज्ञातव्याः, तथाहि - जीवादीन् नवपदार्थान् पूर्ववदवस्थाप्य पर्यान्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्वम् १, असत्वम् २, सदसत्त्वम् ३, अवाच्यत्वम् ४, सदवाच्यत्वम् ५, असदवाच्यत्वम् ६, सदसदवाच्यत्वम् ७ चेति सदादय:, तथा चैकैकस्य जीवादेः सप्त सप्त विकल्पा इत्येते नव सप्तकाविषष्टिः ६३; उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा - सत्वम् १, असत्त्वम् २, सदसत्त्वम् ३, अवाच्यत्वम् ४ चेति, ते त्रिषष्टिमध्ये प्रक्षिप्ताः सप्तषष्टिः ६७ भवन्ति, को जाना जीवः सन् किं वा तेन ज्ञातेन प्रयोजनमित्येको विकल्पः, एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्य वेति को जानात्येतत् किं वा तज्ज्ञानप्रयोजनमित्यादिप्रयोगः; ननूत्पत्तेः सत्त्वा ऽसत्त्वादयः सप्त भेदाः कुतो नोपन्यस्यन्ते, उत्पत्तेः सर्वाश्रयत्वात् ; देशविषयान्त्यभङ्गत्रयस्य बहुव्रीहीतरवाक्यात् तद्धितप्रत्ययो न भवति, तद्धित प्रत्ययमन्तरेणैतद्वाक्य बहुव्रीहिस्तदर्थप्रतीतिं यदि जनयतीत्यर्थ तात्पर्य कस्य लाघवमूलकस्य 'न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकर ' इत्यनुशासनस्योक्तार्थोपोद्बलकस्य सद्भावादित्याशयेन शङ्कते - नन्वेवमिति । ततश्च लाघवाद् बहुव्रीहिसमासस्यात्र प्राप्तत्वाच्च । अज्ञानशब्दोऽत्र न वाक्यरूपः किन्तु ज्ञानत्वावान्तरजातिविशेषावच्छिन्न शकत्वाज्जातिशब्दः पदरूप एव, एकपदे च न कस्यापि समासस्य सम्भव इति बहुव्रीहेर प्राप्तौ तद्धितप्रत्ययान्ताज्ञानिकशब्दः साधुरेवेत्यज्ञानिका इति प्रयोगस्य युक्तत्वादिति समाधत्ते नैष दोष इति - अनन्तरोपदर्शितदोषो नात्र सम्भवतीत्यर्थः । तत्र हेतुमाह - ज्ञानान्तरमेवाज्ञानमिति । ननु एकज्ञानभिन्नं द्वितीयं ज्ञानं यथा ज्ञानमित्येवोच्यते तथाऽभिमतज्ञानविशेषोऽपि ज्ञानशब्दव्यपदेश्य एव स्यान्नाज्ञानशब्दव्यपदेश्य इत्यत आह- मिथ्यादर्शनेति । तत् किं निरुक्तो ज्ञानसम्बन्धी यः कश्चित् स सर्वोऽप्यज्ञानिकशब्दव्यपदेश्यः ? नैवम्- अज्ञानाभ्युपगन्तार एवाज्ञानिका इत्येवं व्यपदिश्यन्ते, अतोऽपि नात्र बहुव्रीहिः, ततोऽज्ञानसम्बन्धिनोऽखिलस्यैव प्रतीत्यापत्तेः किन्त्वभ्युपगमार्थकत द्धितप्रत्ययान्त एवाज्ञानिकशब्दस्तेनाज्ञानिका इत्यनेना ज्ञानाभ्युपगन्तार इति बोधस्यैवोदयादित्याह - अभ्युपगमस्येति । तत एव तद्धितान्ताज्ञानिकशब्दादेव | अज्ञानिकशब्दवाच्या अज्ञानकरणकाचरणशीला अज्ञानप्रयोजना वेत्यर्थान्तरावेदकं पक्षान्तरमुपदर्शयतिद्वेति । असञ्चिन्त्येति अज्ञात्वाऽविचार्य वा कृतस्य पुण्य-पापलक्षणकर्मबन्धस्य वैफल्यमेवेत्याद्यभ्युपगमस्वरूपा अज्ञानिकाः, अमुनोपायेन - तथाद्दीत्यादिना वक्ष्यमाणप्रकारेण, सप्तषष्टिसंख्यका ज्ञातव्या इत्यर्थः । सदादयः के ? इत्यपेक्षायामाह - सत्त्वमित्यादि । एवं च सप्तषष्टिसङ्ख्याः सम्पद्यन्त इति दर्शयति तथा चेति - इत्यनुपन्यासे चेत्यर्थः । त्रिषष्टिश्चोत्पत्तिसम्बन्धिप्रकारचतुःसङ्ख्या मिलिता सप्तषष्टिसङ्ख्या सम्पद्यत इत्याह- उत्पत्ते स्त्विति- उत्पत्तिसम्बन्धिनश्चतुरः प्रकारानेव भावयति - तद्यथेति - एते च सप्तषष्टिसङ्ख्यका अज्ञानिकविकल्पाः सच्छन्दघटितप्रयोगेण तदतिदिष्टप्रयोगेण च भाव्यन्ते । को जानातीत्यादिना । तेन जीवसत्त्वेन । उत्पत्तेश्वत्वार एव विकल्पा इत्यसहमान: शङ्कते - नन्वित्यादिना । सप्तभेदोपन्यासे हेतुमाह- उत्पत्तेः सर्वाश्रयत्वादिति । अत्रोत्तरमाशङ्कते - देशेति- उत्पत्यात्मकवस्तुन एकस्मिन् देशे सत्वं विवक्षितमन्यस्मिंश्च देशेऽवाच्यत्वं विवक्षितमिति सदवाच्यत्वभङ्गो देशविषयः, वस्तुन एको देशोऽसत्तया विवक्षितोऽन्यश्चावक्तव्यतयेत्येवमसदवाच्यत्वभङ्गो देशविषयः, वस्तुन देश: सत्तया विवक्षितश्चैको देशोऽसत्तया विवक्षितः, ताभ्यामन्यश्च देशोsवक्तव्यतया विवक्षित इत्येवं सदसदवाच्यत्वभङ्गो देशविषय इति भावनयाऽन्त्यभङ्गत्रयस्य देशविषयत्वेन सम्पूर्णोत्पत्तिस्वरूपाविषयत्वेन च त्यागात्वादित्यर्थः । एवमाशङ्कितमुत्तरं दूषयति- तर्हीति एकस्मिन् देशे सत्त्वं विवक्षितमपरस्मिंश्च देशेऽसत्त्वं विवक्षितमिति कृत्वा निष्पन्नस्वरूपस्तृतीयः सदसत्त्वभङ्गोऽपि देशविषयत्वात् त्याज्यः स्यादित्यर्थः । तृतीय - ३९० Page #462 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समतो नयोपदेशः । त्यागाईत्वादिति चेत् ? तर्हि देशविषयः सत्त्वासत्त्वभङ्गोऽपि त्याज्यः स्यात् ; अवच्छेदकभेदेन सर्वाश्रय एवायमिति चेत् ? अन्यभङ्गत्रयेणापि किमपराद्धं यत् तस्यावच्छेदकभेदेन सर्वाश्रयत्वं न स्यादिति किं बहुना, यथा पदार्थानां ज्ञानं पर्यनुयोजनं तथा तदुत्पत्तिज्ञानं किमिति न पर्यनुयुज्यत इति ? सत्यम्साश्यानां मते सतः उत्पत्तिः, शाक्यानां नैयायिकानां चासतः, जैनानां सदसतो, वेदान्तिनां चानि. वाच्यस्येति दर्शनभेदेन चतुर्विधायाः प्रसिद्धत्वात् , भेदचतुष्टयोपन्यासे भेदान्तरस्यापि जिज्ञासितत्वेना. नतिप्रयोजनत्वात् , येन रूपेण यज्ज्ञानमवश्यमिष्ट साधनत्वेनान्यैरभिमतं तेन रूपेण तज्ज्ञानवैकल्यस्यैवा. ज्ञानवादिनापादनीयत्वादिति दिक् । विनयेन चरन्ति विनयो वा प्रयोजनमेषां ते वैनयिकाः, तेषां द्वात्रिंशद्भेदाः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवगन्तव्याः, तथाहि- सुर-नृपति-यति-ज्ञाति-स्थविरा-ऽधम-मातृ-पितृणां प्रत्येकं कायेन वाचा मनसा दानेन च विकल्पस्य देशविषयत्वमसहमानः शङ्कते- अवच्छेदकभेदेनेति- सम्पूर्णस्वरूपाया एवोत्पत्तेः किञ्चिदवच्छेदेन सत्त्वं कच्चिदवच्छेदन चासत्त्वं विवक्षयित्वा तृतीयभङ्गः प्रवर्तत इत्यस्य देशविषयत्वाभावान्न त्यागाईत्वमित्यर्थः। उक्तदिशावच्छेदकभेदेन संपूर्ण वस्त्वपि सदवक्तव्यत्वा-ऽसदवक्तव्यत्व-सदसदवक्तव्यत्वैतत्रितयालिङ्गित विवक्षितं भवतीत्यन्त्यभङ्गत्रयस्यापि सर्वाश्रयत्वमेव न देशविषयत्वमिति न त्यागार्हत्वं भवेदित्याशयेनानन्तरमाशङ्कितमुत्तरं कवलयति- अन्त्यभङ्गत्रयेणापीति । किञ्च, पर्यनुयोगसप्तकवशादेव सप्त भङ्गाः प्रवर्तन्ते, पर्यनुयोगसप्तकं चोत्पत्तावप्यविशिष्टमिति सप्त विकल्पा अत्रापि किं न भवेयुरित्याह-किंबहुनेति । पर्यनुयोज्यं पर्यनुयोगस्य प्रश्नस्य विषयः। तदुत्पत्तिज्ञानं पदार्थोत्पत्तिज्ञानं किमिति न पर्यनुयज्यते केन हेतुना पर्यनुयोगविषयो न भवेत् , अपि तु पर्यनुयोगविषयः स्यादेव । ननुत्पत्तेरित्याद्यशङ्कायाः, प्रतिविधानमाह- सत्यमिति- यद्भवानाशङ्कते तत् सत्यमित्यर्थः । एवं सति पर्यवसितं विवादेन, तथा चाज्ञानिकानां सप्तषष्टिरिति सङ्ख्यानियमनमसङ्गतं स्यादित्यत आह- साडयानामिति- “असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ॥ शक्तस्य शक्यकरणात् कारणाभावाच्च सत् कार्यम् ॥1॥" इतीश्वरकृष्णकारिकया तन्मते सत्कार्यस्य व्यवस्थितेः। शाक्यानां बौद्धानाम् , मते इत्यनुवर्तते, एवमग्रेऽपि, बौद्धानां मते सर्वस्य क्षणिकत्वेनोत्पत्तितः प्राकाले न कथञ्चिदपि सत्त्वमित्यसत एवोत्पत्तिः। नैयायिकानामिति वैशेषिकाणामप्युपलक्षणम्, तेषां मते अभूत्वा भवनलक्षणाया उत्पत्तः प्राकाले नास्त्येव कार्यस्य सत्त्वमिति, असत उत्पत्तिः, उत्पत्तिरिति च सर्वत्रानुवर्तते । जैनानां स्याद्वादिनाम्, तन्मते सर्वथा सति सर्वथाऽसति च कारकाणां व्यापारवैयाद् द्रव्यरूपेण सतः पर्यायात्मना चासत इत्येवं सदसत उत्पत्तिः । वेदान्तिनां ब्रह्माद्वैतवादिनां मते ब्रह्मातिरिक्तस्याशेषस्याविद्यकस्य न पारमार्थिकसत्त्वं ब्रह्मज्ञानेनाविद्यया सहितस्य कार्यमात्रस्य निवृत्तिलक्षणबाधविषयत्वात् , नापि तस्य क्वचिदप्यप्रतीयमानत्वलक्षणमसत्त्वं प्रतीयमानत्वादित्येवं सत्त्वाऽसत्त्वाभ्यां निर्वक्तुमशक्यत्वादनिर्वाच्यस्य कार्यस्योत्पत्तिरित्येवं दर्शनभेदेन मतभेदेन, चतुर्विधायाः चतुःप्रकारायाः, उत्पत्तेः प्रसिद्धत्वाद्, भेदचतुष्टयोपन्यासे उत्पत्तेर्विकल्पचतुष्टयोपन्यासे व्यवस्थिते सति, भेदान्तरस्यापि निरुतभेदचतुष्टयभिन्नविकल्पस्यापि, जिज्ञासितत्वेन जिज्ञासितत्वमात्रेण, अनतिप्रयोजनत्वात् विशिष्टप्रयोजनाभावादित्यर्थः । येनेति-येन रूपेण सत्त्वादिना, यज्ज्ञानम् उत्पत्तिज्ञानम् , इष्टसाधनत्वेनाभिमतफल जनकत्वेन, अन्यैः साङ्क्षय-शाक्यनैयायिक-जैन-वेदान्तिभिः, अभिमतम् उररीकृतम् , तेन रूपेण सत्त्वादिना " तज्ज्ञानवैकल्य" इत्यस्य स्थाने " तज्ज्ञानवैफल्य " इति पाठो-युक्तः, अर्थस्तु व्यक्त एव । वैनयिकानां स्वरूपं तद्भेदांश्च निरूपयति-विनयेनेति तेषां वैनयिकानाम् । एते च वैनयिकाश्च । अनवधृतेति- अनवधृतानि लिङ्गाचारशास्त्राणि यैस्तेऽनवधृतलिङ्गाचारशास्त्राः, इदमेव लिङ्गमस्माकमयमेवाचारोऽस्माकमिदमेव शास्त्रं सिद्धान्तोऽस्माकमित्येवमवधृतलिङ्गा चारशास्त्रा ये न भवन्ति ते इति यावत् । किंस्वरूपास्ते ? इत्यपेक्षायामाह-विनयप्रतिपत्तिलक्षणा इति- गुर्वादीनां विनय एवास्माभिरनुष्ठेय इत्येवं या विनयप्रतिपत्ति. विनयस्वीकारस्तल्लक्षणा इत्यर्थः। अमुनोपायेन तथाहीत्यादिना अनन्तरवक्ष्यमाणेन प्रकारेण, द्वात्रिंशद् द्वात्रिंशत्सङ्खथकाः । अवगन्तव्याः ज्ञेयाः। वैनयिकानां द्वात्रिंशद्भेदावगमोपायमेव भावयति-तथाहीति । इति एवम् । चत्वारः चतु: Page #463 -------------------------------------------------------------------------- ________________ मयानृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । देश - कालोपपन्नेन विनयः कार्य इति चत्वारो भेदाः, अष्टसु स्थानेषु प्रत्येकं मिलिता द्वात्रिंशदिति; सर्वसङ्ख्या पुनरेतेषां पाखण्डिनां त्रीणि शतानि त्रिषष्ट्यधिकानि सिद्धानि, अन्यत्राप्युक्तम् " आस्तिकमत आत्माद्या नित्याऽनित्यात्मका नव हि सन्ति । काल-नियत-स्वभावेश्वराऽऽत्मकृतितः स्व-पर संस्थाः ॥ १ ॥ काल- यदृच्छा-नियति स्वभावेश्वरा SSत्मतश्चतुरशीतिः । नास्तिकवादिगणमते न सन्ति भावाः स्व- परसंस्थाः ॥ २ ॥ अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिः सदसद्वैतावाच्याश्च को वेत्ति ॥ ३ ॥ वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः । ३९२ ] सुर-नृपति-यति-ज्ञाति स्थविरा ऽधम-मातृ-पितृषु सदा ॥ ४ ॥ " [ षटू नन्वेवमास्तिकगणस्यापि पाखण्डपक्ष निक्षेपे स्वरूपेणात्मात्येवेत्यादिनयवादिनो जैना अपि पाखण्डिनः स्युः तद्वादस्य क्रियावादभेदस्वरूपत्वादिति चेद् ? एकान्ते न तथाश्रद्धा, अत एवैकान्तेन कायादिश्रद्धानेऽपि तत्रतः सम्यकूत्वाभावः सम्मतौ प्रतिपादितः, तथाहि " नियमेण सद्दहन्तो छक्काए भावओ ण सद्दहइ । हंदी अपज्जवेसु वि सद्दहणा होइ अविभत्ता ॥ " [ स० तृ० गा० २८ ] सङ्ख्यकाः । भेदाः विकल्पाः, कायिकविनयः, वाचिकविनयः, मानसिक विनयः, दानविनयश्चेति चत्वारो भेदा इति यावत्, ते चत्वारो भेदाः प्रत्यकेमष्टसु स्थानेषु सुरे कायिकविनयादयश्चत्वारः, नृपतौ निरुक्तचत्वारः, यतिषु ते चत्वारः ज्ञातिषु ते चत्वारः, स्थविरेषु ते चत्वारः, अधमेषु ते चत्वारः, मातरि ते चत्वारः, पितरि ते चत्वार इत्येवं प्रत्येकमष्टसु स्थानेषु चत्वारो मिलिताः सन्तो द्वात्रिंशद्भेदा भवन्तीत्यर्थः । सर्व सङ्ख्येति क्रियावादिनामशीत्युत्तरं शतम्, अक्रियावादिनां चतुरशीतिः, अज्ञानिकानां सप्तषष्टिः, वैनयिकानां द्वात्रिंशत्, ताश्च सर्वा मिलिताः सर्वसङ्ख्या तथेत्यर्थः । एतेषां क्रियावाद्यादीनाम् । निरुक्तक्रियावाद्यादिसंख्याभेदे ग्रन्थान्तरसंवादमुपदर्शयति- अन्यत्राप्युक्तमिति । आस्तिकमते क्रियावादिमते, अन्यत् स्पष्टम् प्रथमपये क्रियावादिनामशीत्युत्तरशत भेदाः कण्ठतोऽनुक्ता अप्युपायोंपदर्शनेन सूचिताः । कालेत्यादिद्वितीयपद्येनाक्रियावादिनां चतुरशीतिभेदा भाविताः, नास्तिकवादिगणमते अक्रियावादिबौद्धादिमते । अज्ञानिकवादिमतमित्यादितृतीयपद्येनाज्ञानिकानां सप्तषष्टिर्भेदाः कण्ठतोऽनुक्ता अप्युपायोपदर्शनेन सूचिताः । एवं वैनयिकमतमित्यादि - तुरीयपद्ये कण्ठतोऽनुक्ता अप्युपायदर्शनेन द्वात्रिंशद्भेदाः सूचिताः, चतुर्णामपि पद्यानामर्थः पूर्वप्रन्थतः स्पष्टीकृत इति न तेषां व्याख्या आदृता । शङ्कते - नन्विति । एवं क्रियावादिनः पाखण्डिमध्ये परिगणनं कृत्वा तत्सङ्ख्याभिधानप्रकारेण । अस्त्येवेत्यादीत्यत्रादिपदेन पररूपेणात्मा नास्त्येवेत्यादीनामुपग्रहः । तद्वादस्य जैनाभिमतस्याद्वादात्मवादस्य । उत्तरयति - एकान्त इति । न तथाश्रद्धा यथाऽनेकान्तवादे जैनानां श्रद्धा तेषामेकान्तवादे तथा श्रद्धा न । अत एव यत एवैकान्तवादे श्रद्धा न तत एव । एकान्तेन षट्कायश्रद्धाने सम्यक्त्वाभावावैदिकां सम्मतिगाथामुल्लिखति - णियमेण इति नियमेन श्रद्दधानः षट् कायान् भावतो न श्रद्धत्ते । हन्दि अपर्यायेष्वपि श्रद्दधाना भवन्ति अविभक्ता । इति संस्कृतम् । उक्तगाथाया अर्थमुपदर्शयति- अस्या अर्थ इति । नियमेनेत्यस्य विवरणम् - अवधारणेनेति । अवधारणं कीदृशमित्यपेक्षायामाह - षडेवैते जीवाः कायाश्चेत्येवमिति - षट्कायानित्यस्य षट् जीवान् षट् कायाश्चेत्यर्थः । कथं भावतः षट् कायान्न श्रद्धत्ते ? इत्यपेक्षायां तत्र हेतुमुपदर्शयति- जीवराश्यपेक्षयेति । तेषां जीवानाम्, जीवत्वसामान्यापेक्षया जीवानामेकत्वेन षट्त्वैकान्तस्य तत्राभावादित्यर्थः । कायेष्वपि Page #464 -------------------------------------------------------------------------- ________________ मयानुततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो भयोपदेशः । अस्या अर्थः- नियमेन - अवधारणेन षडेवैते जीवाः कायाश्चेत्येवं श्रद्दधानः षट् कायान् भावतो न श्रद्धत्ते जीवराश्यपेक्षया तेषामेकत्वात् कायानामपि पुद्गलतयैकत्वात् जीवपुद्गलानामपि परस्परविनिर्भागवृत्तीनामेकरूपस्याविनिगम्यत्वात् हन्दीत्युपदर्शने, एवम् अपर्यायेष्वविवक्षित भेदपर्यायेषु, अविभक्त श्रद्धा एकरूप श्रद्धापि या सापि भावतो न श्रद्धा भवतीत्यर्थः, तथा चात्र षट्स्वा षट्स्वादिना सप्तभङ्गीपथेनानेकान्तव्यापकत्वाभ्युपगम एव श्रेयानित्यर्थः, " भावत इत्युक्तिः भङ्गया षडेव जीवकाया इति श्रद्दधतोऽपि भगवतैवमुक्तमिति जिनवचनरुचिस्वभावत्वात् द्रव्यसम्यग्दृष्टित्वं न विहन्यते " इति टीकाकृतः, तेषामयमाशयः - एकान्तश्रद्धानमात्रं न मिध्यात्वलक्षणम्, अनेकान्ताने कान्त श्रद्धाने अतिव्याप्तेः, किन्तु शासनबाह्यैकान्तश्रद्धानम्, तत्त्वं च वृद्धपरम्पराप्राप्तसूत्रा (ता ) त्पर्यंताविषयत्वम्, तेनाभिनिवेशा-ऽभिग्रहयोर्द्वयोरपि सङ्ग्रहः, न चेदृशं मिध्यात्वमनेकान्तव्यापकत्व व्युत्पत्तिरहितानैकान्तेन षट्त्वमेकत्वस्यापि भावादित्याह - कायानामपीति । न केवलं जीवानां जीवत्वेनैकत्वं कायानां पुद्गलत्वेनैकत्वमित्येव किन्तु जीव- पुद्गलानामपि परस्परमपि निर्भागवृत्तित्वेनैकत्वमित्याह - जीव- पुद्गलानामपीति । " परस्पर " इत्यस्य स्थाने " परस्परम् इति पाठः समुचितः । हन्दीत्युपदर्शने हन्दीतिशब्द उपदर्शनरूपार्थे वर्तते तथेत्युपदर्शनम् । अपर्यायेत्रित्यस्य विवरणम् - अविवक्षितभेदपर्यायेष्विति - अपर्यायेष्वित्यस्य यथाश्रुतं पर्यायरहितेष्वित्यर्थो न सम्भवति पर्यायरहितस्य द्रव्यस्याभावादत इत्थं व्याख्यानमिति बोध्यम् । अविभक्त श्रद्धापि भवतीत्यस्योपदर्शनबलात् पर्यवसितमर्थमाविष्करोति- अविभक्त श्रद्धेत्यादिना । अस्यास्तात्पर्यार्थमाह- तथा चेति- अवधारणेन श्रद्धाया भावतो. श्रद्धात्वव्यवस्थितौ चेत्यर्थः । अत्र षट्कायाभ्युपगमे । षत्वापत्वादिना सप्तभङ्गीपथेन स्यात् षट् जीवाः, स्यादषद जीवाः स्यात् षट् स्यादषट् च जीवाः, स्यादवक्तव्या जीवाः स्यात् षट् स्यादवक्तव्याच जीवाः, स्यादषट् स्यादवक्तव्याश्च जीवाः स्यात् षट् स्यादषद् स्यादवक्तव्याश्च जीवा इत्येवं सप्तभङ्गीमार्गेण । भाक्त इत्युक्तिः भङ्गया " इत्यस्य स्थाने " भावत इत्युक्तिभङ्गया इति पाठो युक्तः, प्रकृतसम्मतिगाथायां भावत इति योक्तिः - कथनं तद्भङ्गया - तदुक्तिशैल्या, अस्य ' न विहन्यते ' इत्यनेनान्वयः । षडेव जीवकाया इति श्रद्दधतोऽपि एकान्तेन षडेव जीवाः षडेव काया इत्येवं श्रद्दधतोऽपि पुरुषस्य, भगवता ऐश्वर्यशालिना केवलज्ञानवता महावीरेण । एवमुक्तं षट् जीवनिकाया इत्येवमुक्तं - कथितम् । इति इत्याकारिका या जिनवचने रुचि:- श्रद्धा तत्स्वभावत्वाद् द्रव्यसम्यग्दृष्टित्वं न विहन्यते, षडेव जीवनिकाया इत्येकान्तेन श्रद्धावानपि पुरुषो जिनवचनरुचिमत्त्वाद् द्रव्यसम्यग्दृष्टिर्भवत्येव न तु स द्रव्यतो मिथ्यादृष्टिः । इति एवमुक्तगाथाव्याख्यानम् । टीकाकृतः सम्मतिटीकाकाराः कुर्वन्ति । तेषां सम्मतिटीकाकाराणाम् । अयम् एकान्तश्रद्धानमात्रमित्यादिनाऽनन्तरमेव प्रकटीक्रियमाणः । आशयोऽभिप्रायः । अनेकान्तानेकान्तश्रद्धाने स्याद्वादिमते प्रमेयत्वव्यापकमनेकान्तत्वम्, यत्राने कान्तत्वं नास्ति न तत्र प्रमेयत्वम् इत्यनेकान्तो यद्यनेकान्त एव न त्वेकान्त इत्येवमेकान्त एव स्यात् तदाऽनेकान्तत्वस्य प्रमेयत्वव्यापकस्याभावात् प्रमेयत्वमपि तस्य न स्यादतोऽनेकान्तः कथञ्चिदनेकान्तः कथञ्चिदेकान्त इत्येवमनेकान्ताने कान्तश्रद्धाने । अतिव्याप्तेः अनेकान्ताने कान्तमनेकान्तमेकान्तमित्युभयस्वरूपमिति तच्छ्रद्धानमेकान्तश्रद्धानमपि भवति, तच्च सम्यग्दृष्टिरेवेत्यलक्ष्यम्, तत्र मिथ्यात्वलक्षणस्यैकान्तश्रद्धानस्य तादात्म्येन भावादतिव्याप्तेः । तर्हि किं मिथ्यात्वलक्षणमिति पृच्छति किन्त्विति । उत्तरयति - शासनबायैकान्तश्रद्धानमिति - मिथ्यात्वलक्षणमित्यनुकर्षेण सम्बध्येत, शासनबाह्यस्य - जैनराद्धान्तबहिर्भूतस्यैकान्तस्य श्रद्धानं मिथ्यात्वलक्षणमित्यर्थः । तत्त्वं च सिद्धान्तबाह्यत्वम् । वृद्धेति - ' सूत्रा ( ता ) त्पर्यत" इत्यस्य स्थाने " सूत्रतात्पर्या ” इति पाठो युक्तः । वृद्धश्चात्र ज्ञानवृद्धो ग्राह्यो न तु वयोवृद्धः, स चाप्त एव भवतीति आप्तपरम्परया प्राप्तं यत् सूत्रस्य - जैनागमलक्षणसूत्रस्य तात्पर्यं तदविषयत्वं शासनबाह्यत्वमित्यर्थः । तेन निरुक्तस्वरूपशासनबाह्यत्वेन, अस्य ' सङ्ग्रहः ' इत्यनेनान्वयः । तथा च षडेव जीवकाया इत्यस्यैकान्तस्य निरुक्तशासनबाह्यत्वाभावात् तच्छ्रद्धानं न मिथ्यात्वमित्याह - 66 "" १९३ Page #465 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो भयोपदेशः । नामपि प्राञ्जलबुद्धिनामेकान्ततः षट्कायादिश्रद्धानवताम् , तान् प्रति वृद्धस्तमेव सत्यमित्यादिरीत्यैव सूत्रतात्पर्य विशदीकरणात् , यद्वा सूत्र परम्परोभयप्रामाण्यानुपजीव्यकान्तश्रद्धानमेव मिथ्यात्वम् , तच्च न तेषाम् , सम्यक्त्वं चानभिगृहीतकुदृष्टित्वरूपसङ्केपकविलक्षणमेव, तच्चानेकान्तव्यापकत्वव्युत्पत्तिजनित. श्रद्धानरूपविस्ताररुचिस्वरूपसम्यक्त्वापेक्षयाऽप्राधान्येन द्रव्यतया व्यपदिश्यते, तेन द्रव्य-भावाभ्यां सम्यक्त्व मिथ्यात्वयोर्द्वयोरपि तुल्यव्यापारे न तज्जन्यक्रियाद्वययोगपद्यापत्तिरिति, युक्तं चैतत् , इत्थमेव तेषां मार्गानुसारिगुणप्रसंशया परपाखण्डप्रशंसारूपसम्यक्त्वातिचारानापत्तेः, तत्र हि परपाखण्डानां सर्वज्ञप्रणीतपाखण्डत्वव्यतिरिक्तानामिति व्याख्यातमाचार्यैः, तथा च परपाखण्डतावच्छेदकधर्मप्रकारेणैव प्रशंसाया अतिचारत्वमित्यागतम् , स च धर्मस्तत्तद्व्यक्तित्वम् , अनाचारलिङ्गवेषादिकमेरकाचारादिमत्त्वेऽप्यभिनिविष्टत्वादिकं वा यथास्थानं ग्राह्यम् , अत एवैतेषां प्रशंसा न कार्या पुण्यभाज एते सुलब्धमेभिर्जन्मेत्यादिलक्षणेति शृङ्गग्राहिकादिनोदाहृतम् । स्व-परविभागोऽपि नापेक्षयैव, परकीयन चेति। ईदृशं निरुक्तशासनबायैकान्त श्रद्धानलक्षणम् । अनेकान्तव्यापकत्वव्युत्पत्तिरहितानामपि अनेकान्तं वस्तुमात्रवृत्तीत्येवंस्वरूपा व्युत्पत्तिमतिरनेकान्तव्यापकव्युत्पत्तिः, तद्रहितानामपि- तद्विकलानामपि । प्राञ्जलबुद्धीनां सरल. बुद्धीनाम् । एकान्ततः नियमेन । षटकायादिश्रद्धानवतां कायाः षट् जीवाः षडित्यादिश्रद्धावताम् , ईदृशं मिथ्यात्वं नैवेत्यर्थः । ननु वृद्धपरम्पराप्राप्तसूत्रतात्पर्य 'स्यात् षदकायाः, स्यात् षद जीवाः' इत्याद्यनेकान्ते एव, न तु 'नियमेन षट्कायाः' इत्येकान्ते इति निरुक्ततात्पर्याविषयत्वात् प्रकृतकान्तस्यापि शासनबाह्यत्वमेवेति तद्विषयश्रद्धानं कथं न मिथ्यात्वमित्यत आह- तान् प्रतीति-निरुक्तप्राञ्जलान् प्रतीत्यर्थः । “ तमेव" इत्यस्य स्थाने “ तदेव” इति पाठो युक्तः, यद्वा "सत्यम्" इत्यस्य स्थाने “ सच्चं” इति पाठः, “ तमेव सच्चं निस्संकं जं जिणेहिं पन्नत्तं" [ ] इत्यादिरीत्येत्यर्थः। प्रकारान्तरेण मिथ्यात्वं निरुच्य तदभावावेदक कल्पान्तरमाह-यद्वेति । सूत्रेतिसूत्रं च परम्परा च- वृद्धपरम्परा च सूत्रपरम्परे, तदुभयस्थ- तदन्यतरस्य यत् प्रामाण्यं तदनुपजीवि- तदनपेक्षं यदेकान्तश्रद्धानं तदेव मिथ्यात्वमित्यर्थः, अत्रोभयपदस्यान्यतरार्थकत्वकथनेन प्रकृतश्रद्धानसूत्रप्रामाण्यानुपजीवित्वेऽपि न क्षतिः। तच्च निरूक्तमिथ्यात्वं च । न तेषां नेकान्तषदकायादिश्रद्धावताम् । ननु तेषां मिथ्यात्वाभावे सम्यक्त्वं प्राप्त तच्च कथं द्रव्यतो न भावत इत्यपेक्षायामाह- सम्यक्त्वं चेति । तच्च निरुक्तसम्यक्त्वं च। अनेकान्तेति- अनेकान्तं वस्तुमात्रगतमिति बुद्धिलक्षणा याऽनेकान्तव्यापकव्युत्पत्तिस्तन्जनितं यत् सर्ववस्तुव्यापकानेकान्तत्वविषयकं श्रद्धानं तद्रूपातदात्मिका या विस्ताररुचिस्तत्स्वरूपं यत् सम्यक्त्वं तदपेक्षयाऽप्राधान्येन द्रव्यतया निरुतसम्यक्त्वं व्यपदिश्यत इत्यर्थः । तेन निरुक्तविवेकेन, अस्य न तजन्येत्यादिना सम्बन्धः, यत्र द्रव्यतः सम्यक्त्वं तत्र भावतो मिथ्यात्वं यत्र भावतः सम्यक्त्वं तत्र द्रव्यतो मिथ्यात्वमिति कृत्वा द्वयोस्तुल्यव्यापारो बोध्यः, तजन्येति- सम्यक्त्व-मिथ्यात्वव्यापारद्वयजन्येत्यर्थः। अस्य विवेकस्य युक्तत्वमावेदयति-युक्तं चैतदिति । इत्थमेव निरुक्तविवेचनप्रकारेणैव । तेषां षट्कायादिश्रद्धावताम् । मार्गानुसारिणो यो गुणः "न्यायसम्पन्न विभवः” इत्यादिरूपस्तत्प्रशंसया प्रशंसाकर्तुः परपाखण्डप्रशंसारूपो यः सम्यक्त्वातिचारस्तस्यानापत्तेरित्यर्थः। तत्र परपाखण्डप्रशंसारूपसम्यक्त्वातिचारे । हि यतः । परपाखण्डानो प्रशंसा परपाखण्डप्रशंसेति समासविग्रहे स्थितं परपाखण्डानामिति वाक्यं सर्वज्ञप्रणीतपाखण्डत्वव्यतिरिक्तानामित्येवं व्याख्यातमाचार्यरित्यर्थः । तथा च निरुक्तव्याख्याने च । परेति- यद्रूपेण परपाखण्डत्वं स धर्मः परपाखण्डतावच्छेदकस्तत्प्रकारेणैव परपाखण्डप्रशंसाया अतिचारत्वं- सम्यक्त्वातिचारत्वमागत- प्राप्तमित्यर्थः। स च धर्मः परपाखण्डतावच्छेदकधर्मश्च । तत्तद्वयक्तित्वम् यद्यव्यक्तौ पाखण्डत्वमभिमतं तत्तव्यक्तिनिष्ठतत्तभ्यक्तित्वम्, अस्य यथास्थानं ग्राह्यमित्यनेन सम्बन्धः । अनाचारेति- परपाखण्डतावच्छेदकधर्मोऽनाचारलिङ्गवेषादिकं यथास्थानं ग्राह्यमित्यन्वयः । अत एव उक्तरूपपरपाखण्डत्वाश्रयणादेव, अस्योदाहृतमित्यनेनान्वयः। एतेषां पुण्यभाज एते सुलब्धमेभिर्जन्मेत्यादिलक्षणा प्रशंसा, न Page #466 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । ३९५ स्यापि सद्भावशोधितस्य स्वकीयत्वेन, स्वकीयस्यापि चासद्महादिना परकीयत्वेन विश्रामात् , अत एवाकरणनियमादिवचनानां परसमयस्थाना( म )नादरे तन्मूलदृष्टिवादस्याशातना दुष्कर कारिणाम् , अपि च गुरुकुलवासत्यागिनां तपोव्रतादिगुणानुमोदने दीर्घसंसारिणा( ता ) तत्र तत्र प्रतिपादिता, इत्यधिकं धर्मपरीक्षायां ॥ १२८ ॥ क्रियानयः क्रियां ब्रूते, ज्ञानं ज्ञाननयः पुनः। मोक्षस्य कारणं तच्च, भूयस्यो युक्तयो द्वयोः ॥ १२९ ॥ क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्षभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥ १३० ॥ ज्ञानमेव शिवस्याध्वा, मिथ्यासंस्कारनाशनात् । क्रियामात्रं त्वभव्यानामपि नो दुर्लभं भवेत् ॥ १३१ ॥ तण्डुलस्य यथा चर्म, यथा ताम्रस्य कालिका । नश्यति क्रियया पुत्र !, पुरुषस्य तथा मलः ॥ १३२ ॥ बठरश्च तपस्वी च, शूरश्चाप्यकृतवणः।। मद्यपास्त्री सती चेति, राजन्!न श्रद्दधाम्यहम् ॥ १३३ ॥ - ज्ञानवान् शीलहीनश्च, त्यागवान् धनसङ्ग्रही । गुणवान् भाग्यहीनश्च, राजन्!न श्रद्दधाम्यहम् ॥ १३४ ॥ इति युक्तिवशात् प्राहुरुभयोस्तुल्यकक्षताम् । मन्त्रेऽप्याह्वानं देवादेः, क्रियायुग्ज्ञानमिष्टकृत् ॥ १३५ ॥ ज्ञानं तुर्ये गुणस्थाने, क्षायोपशमिकं भवेत् । अपेक्षते फले षष्ठगुणस्थानजसंयमम् ॥ १३६ ॥ कार्येत्यन्वयः। अनग्राहिकादिनेति- शृङ्ग हस्तेन गृहीत्वेयं गौममेत्येवं यत् परं प्रति विशिष्योपदर्शनं तत्र शृङ्गग्राहिकान्यायः प्रवर्तते । स्वपरेति-"नापेक्षयव" इत्यस्य स्थाने "चापेक्षयैव " इति पाठो युक्तः । स्वकीयंत्वनेत्यस्य विश्रामादित्यनेनान्वयः । अत एव अपेक्षाश्रयणस्यावश्यकत्वादेव । अनादरे अनाश्रयणे । तम्मलेति- परसमयस्थाकरणनियमादिवचनमूलेत्यर्थः । दुष्करकारिणां तन्मूलदृष्टिवादस्याशातना तत्र तत्र प्रतिपादितत्यन्वयः। “दीर्घसंसारिणा" इत्यस्य स्थाने " दीर्घसंसारिता" इति पाठो युक्तः । तत्र तत्रेत्यानेडनेन बहुषु ग्रन्थेषु तथा प्रतिपादनं नोपेक्षणीयमिति व्यजितम् । अत्र विशेषावगमेच्छुभिरस्मत्कृतधर्मपरीक्षाऽवलोकनीयेत्युपदेशाभिप्रायेणाह- इत्यधिक धर्मपरीक्षायामिति ॥ १२८ ॥ Page #467 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः । प्रायः सम्भवतः सर्वगतिषु ज्ञानदर्शने । तत्प्रमादो न कर्तव्यो, ज्ञाने चारित्रवर्जिते ॥ १३७ ॥ क्षायिक केवलज्ञानमपि मुक्तिं ददाति न । तावन्नाविर्भवेद् यावच्छैलेश्यां शुद्धसंयमः ॥ १३८ । व्यवहारे तपो-ज्ञान-संयमा मुक्तिहेतवः ।। एकः शब्द सूत्रेषु, संयमो मोक्षकारणम् ॥ १३९ ॥ सङ्ग्रहस्तु नयः प्राह, जीवो मुक्तः सदाशिवः । अनवाप्तिभ्रमात् कण्ठस्वर्णन्यायात क्रिया पुनः॥ १४०॥ अनन्तमर्जितं ज्ञानं, त्यक्ताश्चानन्तविभ्रमाः। न चित्रं कलयाप्यात्मा, हीनोऽभूदधिकोऽपि वा ॥ १४१ ॥ धावन्तोऽपि नयाः सर्वे, स्युर्भावे कृतविश्रमाः। चारित्रगुणलीनः स्यादिति सर्वनयाश्रितः ॥ १४२ ॥ सुनिपुणमतिगम्यं मन्दधीदुष्प्रवेशं, प्रवचनवचनं न क्वापि हीनं नयौघैः। गुरुचरणकृपातो योजयंस्तान् पदे यः, परिणमयति शिष्यांस्तं वृणीते यशःश्रीः॥ गच्छे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गुणैः, प्रौढिं प्रौढिमधाम्नि जीतविजयप्राज्ञाः परामैयरुः । तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानां शिशु स्तत्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ॥ १४४॥ नयामृत०-"क्रियानयः" क्रियानय इत्यादयः श्लोकाः प्रायः स्पष्टाः । अत्र ज्ञान-कर्मसमुच्चय. वादे स्व-परसमयविचारः कश्चिल्लिख्यते- तत्र मुमुक्षुकर्मव्यापारतन्त्रं तत्त्वज्ञानवृत्ति नवेति विप्रतिपत्तिः, विधिकोटिरुदयनाचार्याणां निषेधकोटिर्भास्करीयाणाम् , तत्र भास्करीयाणामयमाशयः- तीर्थविशेष. स्नान-महादान-यम-नियमादिकर्मणां निःश्रेयसकारणत्वं तावच्छब्दबलादेवावगम्यते, तत्त्वज्ञानव्यापार एकोनत्रिंशदुत्तरशततमात् "क्रियानयः" इत्यादि पद्यादारभ्य चतुश्चत्वारिंशदुत्तरशततमं-"गच्छे.” इत्याद्यन्तिमश्लोकं यावत् षोडशसङ्खयपदकदम्बकं स्पष्टार्थत्वान्न व्याख्यानमपेक्षत इत्याह-क्रियानयः इत्यादय इति । अत्र अस्मिन् प्रकरणे । स्व-परसमयविचार: जैनसिद्धान्त-नैयायिकादिसिद्धान्तविचारः । तत्र स्व-परसमयविचारे । "तन्त्रं" इत्यस्य स्थाने "तत्त्वं" इति पाठो युक्तः । विधिकोटिः मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्तीति विधिकोदिः। Page #468 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः । ३९७ कत्वं तु तेषां निःश्रेयसे जनयितव्ये न तावच्छब्द एव बोधयति, तत्र तस्योदासीनत्वात् । न च साक्षात् साधनताव्या( वि )धेः साधनताऽप्रतीतेः परम्पराघटकव्यापारमविषयीकृत्य न घटत इत्यपूर्व. वाच्यतान्यायेन शब्द एव वस्तुतः तत्त्वज्ञानव्यापारकतां बोधयितुं प्रगल्भत इति शङ्कापदं हृदि निधेयम् , सामान्यशब्दोऽन्यतमविशेषबाधे तं त्यजति, न तु विशेषान्तरमुपादित्सितमपि विशिष्य बोधयतीति स्वभावात् दृष्टान्तस्यैवासम्प्रतिपत्तेः, न च कर्मणामाशुतरविनाशित्वेन व्यापारोऽवश्यं स्वीकरणीयस्तत्र दृष्टेन तत्त्वज्ञानेनैवोपपत्तावदृष्टकल्पनाया अन्याय्यत्वात् , लाघव सहकृतानुपपत्तिरेव तत्त्वज्ञानव्यापारकत्वे मानमिति वाच्यम्, तत्त्वज्ञानस्यापि व्यवहितत्वेन तत्रापि कर्मणोऽदृष्टद्वारावश्यकत्वाद् निःश्रेयसे द्वारद्वयकल्पने गौरवात् , निःश्रेयसे कर्मणामदृष्टद्वारा हेतुत्वे तत्त्वज्ञानोत्पत्त्यनन्तरमपि यम-नियमाधनुष्ठानं स्यादिति चेत् ? स्यादेव, तदानीमपि मुमुक्षाया अधिकारस्याक्षतेः, न च तत्त्वज्ञानत्वेनैव निषेधकोटिः मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्ति न भवतीति निषेधकोटिः । तत्र विप्रतिपत्तौ सत्यां निषेधकोटिसाधने । अयं तीर्थविशेषस्नानेत्यादिना वक्ष्यमाणः । तेषां तीर्थविशेषस्नान-महादान-यम-नियमादिकर्मणाम् । तत्र तीर्थविशेष स्नानादिकर्मणां तत्त्वज्ञानव्यापारकत्वे । तस्य शब्दस्य । न चेत्यस्य विधेयमित्यनेनान्वयः । “साक्षात् साधनताव्या(वि)धेः साघनताऽप्रतीतेः" इत्यस्य स्थाने “ साक्षात् साधनताबाधे विधेः साधनताप्रतीतिः" इति पाठो युक्तः, तथा च तीर्थविशेषस्नानादिकर्म गां मोक्षं प्रति कारणत्वं विधिवाक्यात् प्रतीयते, किन्तु तीर्थस्नानादिकर्मणां चिर. विनष्टत्वेन मोक्षाव्यवहितपूर्वक्षणेऽभावात् साक्षान्मोक्षं प्रति कारणत्वं न सम्भवतीत्येवं तेषां मोक्ष प्रति साक्षात् साधनताया बाधे सति विधे:-विधिवाक्यात् तेषां मोक्षं प्रति साधनताप्रतीतिः परम्परया कारणत्वविषयिणी, परम्पराकारणत्वं नाम स्वजनकव्यापारजनकत्वमिति परम्पराघटकव्यापारमविषयीकृत्य न घटते न सम्भवतीत्येवम्भूतार्थप्रतिपादनपरो योऽपूर्ववाच्यतान्यायो यथा स्वर्गकामो यजेतेत्यत्र विधरिष्टसाधनत्वार्थकत्वपक्षे यागस्य चिरविनष्टस्य कालान्तरभाविस्वर्गरूपेष्टं प्रति साक्षात् साधनत्वं न सम्भवतीति स्वर्गजनकव्यापारजनकत्वलक्षणपरम्पराकारणत्वमभ्युपेयमिति तदुघटकतयाऽपूर्वस्यादृष्टात्मकन्यापारस्य विधिवाच्यतेति तेन न्यायेन, शब्द एव विधिस्वरूपशब्द एव, वस्तुत. परमार्थतः, तीर्थविशेषस्नानादिकर्मणां तत्त्वज्ञान व्यापारकता बोधरितुं ज्ञापयितुं प्रगल्भते समर्थो भवतीत्येवस्वरूपं शङ्कापदं, हदि मानसे, न विधेयं न कर्तव्यमित्यर्थः । निषेधहेतुमाह- सामान्यशब्द इति- सामान्यवाचकशब्द इत्यर्थः । अन्यतमविशेषबाघे सामान्यधर्माकान्तयत्किञ्चिद्विशेषस्य बाधे सति । तं विशेषम् । त्यजति तदसाधारणरूपेण तं न बोधयति । न त्वित्यस्य बोधयतीत्यनेनान्वयः। विशेषान्तरं बाधितविशेषभिन्नविशेषम् । तं विशिनष्टि- उपादिरिलतमपीतिउपादातुमिष्टमपीत्यर्थः । विशिष्य न तु बोधयति तदसाधारणरूपेण न बोधयति । कथं न बोधयतीत्यपेक्षायामाहइति स्वभावादिति- यस्य शब्दस्य यत्रार्थे येन रूपेण शक्तिः स शब्दस्तेनैव रूपेण तस्य बोधक इति सम्भवादित्यर्थः। दृष्टान्तस्यैवासम्प्रतिपत्तेरिति- स्वर्गकामो यजेतेत्यत्रापि यागस्य स्वर्ग प्रति साक्षाजनकत्वस्य बाधे साक्षाजनकत्वरूपेण तमेव विधिर्न बोधयति, न तु परम्पराजनकत्वरूपेण परम्पराजनकत्वं बोधयति, उक्तस्वभावादित्यपूर्ववाच्यतादृष्टान्तस्यानभ्युपगमादित्यर्थः । न चेयस्य वाच्यमित्यनेनान्वयः। कर्मणां तीर्थविशेषस्नानादिकर्मणाम् । व्यापारः मोक्षरूप कार्यजनने व्यापारः। तत्र व्यापारस्यावश्यकत्वे । लाघवेति - उपस्थितिलाघवेत्यर्थः । निषेधे हेतुमाह-तत्त्व. ज्ञानस्यापीति- तत्त्वज्ञानान्तरमेव मुक्तिर्न भवति किन्तु तत्त्वज्ञानेन मिथ्याज्ञानस्य सश्चितकर्मणां च क्षये सत्यपि भोगमात्रविनाश्यप्रारब्धकर्मणां भोगाद् विनाशे सति मुक्तिर्भवतीत्येवं तत्त्वज्ञानस्यापि व्यवहितत्वेनेत्यर्थः, अथवा तत्त्वज्ञानलक्षणव्यापारात्मककार्यस्यापि तीर्थविशेषस्नानादिकर्मणोऽनन्तरमेवानुत्पत्तेः, किन्तु कालान्तरमुत्पत्त्या तन्मध्यपतितकालप्रयुक्तव्यवधानाश्रयत्वेनेत्यर्थः, अयमेवार्थ उत्तरग्रन्थसङ्गत्याऽऽदरणीयः। तत्रापि तत्त्वज्ञानोत्पत्तावपि । निःश्रेयसे मोक्षरूपकायें । द्वारद्वयकल्पने तत्त्वज्ञानरूपव्यापार एकः, अपरश्च तत्त्वज्ञानार्थमदृष्टरूपव्यापार इत्येवं व्यापारद्वयकल्पने गौरवात् , अतोऽदृष्टद्वारैव कर्मणां मोक्ष प्रति कारणत्वमित्यर्थः । ननु तत्त्वज्ञानद्वारा मोक्षं प्रति कर्मणां कारणत्वे तत्त्वज्ञानान्तरं न कर्माण्यनुष्ठेयानि तत्त्वज्ञानपूर्ववर्तिकर्मभ्य एव तत्त्वज्ञानद्वारा मोक्षो Page #469 -------------------------------------------------------------------------- ________________ ३९८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । मोक्षजनकत्वात् प्राथमिकतत्त्वज्ञानादेव मोक्षोपपत्तौ क कर्मानुष्ठानमिति शङ्कनीयम् " नित्यनैमित्तकैरेव, कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन्नभ्यासेन तु पाचयेत् ॥ १ ॥ अभ्यासात् पक्कविज्ञानः कैवल्यं लभते नरः।" [ ] इत्यादिपुराणेषु तदभ्यासश्रवणात् , श्रुतिरप्यत्र विपक्षबाधकतया प्रमाणमस्ति, तथाहि-" अन्धं तमः प्रविशन्ति ये अविद्यामुपासते ततो भूय इव ते तमो य उ विद्यायां रताः " [ ] अस्या अर्थ:- अविद्या-कर्म, तदुपासते ज्ञानत्यागेन तत्रासक्ता भवन्ति ये, ते अन्धं तमः प्रविशन्तिसंसारान्न मुच्यन्ते, तेन केवलकर्मोपासने न जन्मादिविच्छेदः, ये च विद्यायां रताः, विद्या तत्त्वज्ञानं तन्मात्रासक्ताः, " उ” इत्यव्ययं चकारार्थम् , ते भूयोऽतिशयेनान्धं तमः प्रविशन्ति, नित्याकरणे प्रत्यवायस्य बहुलत्वात् ; ननु " मोक्षाश्रमश्चतुर्थो वै यो भिक्षोः परिकीर्तितः " [ ] इत्यागमाञ्चतुर्थाश्रमिणामेव मोक्षे अधिकारः, तत्र च " संन्यस्य सर्वकर्माणि " [ इति स्मृतेः कर्ममात्रत्यागात् क समुच्चयः क वा अकरणे प्रत्यवाय इति चेत् ? न- यानि कर्माण्युपमीत. पपत्तेः सम्भवात् , स्वातन्त्र्येण तत्त्वज्ञान-कर्मणोर्मोक्ष प्रति कारणत्वे तु तत्त्वज्ञानानन्तरमप्यनुष्ठितं कर्मादृष्टद्वारा मोक्षहेतुर्भविष्यतीति तत्त्वज्ञानोत्पत्त्यनन्तरमपि यम-नियमाद्यनुष्ठानं स्यादित्याशङ्कते-निःश्रेयस इति । अत्रेष्टापत्तिरेव समा. धानमित्याह- स्यादेवेति- तत्त्वज्ञानोत्पत्त्यनन्तरमपि यमनियमाद्यनुष्ठानमित्यनुवर्तते। मोक्षे कर्तव्ये मुमुक्षवाधिकारः तस्या यथा तत्त्वज्ञानोत्पत्तेः प्राग् भावस्तथा तत्त्वज्ञानोत्पत्त्यनन्तरमपि भाव इति तद्बलात् तत्त्वज्ञानोत्पत्त्यनन्तरं यमनियमाद्यनुष्ठानं युक्तमेवेत्याह- तदानीमपीति- तत्त्वज्ञानोत्पत्त्यनन्तरमपीत्यर्थः । न चेत्यस्य शङ्कनीयमित्यनेनान्वयः, तत्वज्ञानत्वेनैवेत्येवकारेणाभ्यस्ततत्त्वज्ञानत्वस्य मोक्षजनकतावच्छेदकत्वव्यवच्छेदः, तत्त्वज्ञानत्वं च प्राथमिकतत्त्वज्ञानेऽपि समस्तीति तावन्मात्रेणापि मोक्षरूपकार्यजननसम्भवात् कस्मिन् कार्ये कर्मानुष्ठानम् ? प्रयोजनाभावान तत्त्वज्ञानोत्पत्त्यनन्तरं यम-नियमाद्यनुष्ठानमिति नाशङ्कनीयमित्यर्थः । तत्र हेतुमाह- नित्यनैमित्तिकैरेवेति- स्पष्टम् । तदभ्यासश्रवणात् तत्त्वज्ञानाभ्यासश्रवणात् । न केवल मुक्तार्थे पुराणवचनमेव प्रमाणं किन्तु श्रुतिरपि तत्र प्रमाणमित्याह-श्रुतिरपीति । विपक्षबाधकतया तत्त्वज्ञानाभ्यासाकारणरूपविपक्षबाधकतया । तामेव श्रुतिमुल्लिखति- अन्धं तम इति। अस्याः 'अन्धं तम' इत्यादिश्रुतेः। अविद्या-कर्म कमैवात्राविद्याशब्देनोच्यते, तत् कर्म, उपासते इत्यस्य विवरणंज्ञानत्यागेन तत्रासक भवन्तीति, यत्तच्छब्दयोर्नित्यसम्बन्ध इति, ये इति शब्दोपादानसामर्थ्यात् ते इति शब्दोऽनुक्तोऽपि सन्निहितो भवति, ते ज्ञानत्यागेन कर्मोपासनपरा जनाः, अन्धं तमः प्रविशन्तीत्यस्य फलितार्थकथनंसंसारान्न मुच्यन्त इति, एतेन किमुक्तं भवतीत्यपेक्षायामाह- तेनेति- संसारान्मुक्तरभावेनेत्यर्थः, केवलेति- ज्ञानासहितेत्यर्थः, विद्यायां रता इत्यस्य विवरणं- विद्यातत्वज्ञानं तन्मात्रासका इति, ते तत्त्वज्ञानमात्रासक्ताः, भूय इत्यस्य विवरणमतिशयेनेति, कथं तत्त्वज्ञानमात्रासक्तानामन्धे तमसि प्रवेश इत्याकालायामाह-नित्याकरण इतिनित्यकर्माननुष्ठाने इत्यर्थः, प्रत्यवायस्य पापस्य । शङ्कते-नन्विति । मोक्षाश्रम इति- ब्रह्मचर्याश्रम-गृहस्थाश्रमवानप्रस्थाश्रम-संन्यासाश्रमापरनाममोक्षाश्रमभेदेनाऽऽश्रमाश्चत्वार इति तेषां मध्ये चतुर्थो मोक्षाश्रमः, स एव 'वै' इत्यस्यैवकारार्थकत्वात् , य आश्रमः, भिक्षोः संन्यासिनः, परिकीर्तितः शास्त्रे कथित इत्यर्थः, इत्यागमादेवस्वरूपागमवचनात् , चतुर्थाश्रमिणां संन्यासिनाम् , एवेत्यवधारणेन ब्रह्मचर्य-गार्हस्थ्य-वानप्रस्थाश्रमिणां त्रयाणां मोक्षानधिकारत्वमावेदितम् । तत्र च संन्यासाश्रमे पुनः । संन्यस्य सर्वकर्माणि सर्वकर्माणि त्रीण्यपि नित्य-नैमित्तिक-काम्यकर्माणि त्यक्त्वा । इति स्मृतेः एवं स्वरूपस्मृतिवचनात् । कर्ममात्रत्यागात संन्यासाश्रमे निखिलकर्मपरित्यागात् । क समुच्चयः मोक्षार्थ कर्मभिः समं ज्ञानस्य समुच्चयो दूरापेतः। यदा च संन्यासिनो निखिलकर्मस्वनधिकार एव तदा, क वा अकरणे प्रत्यवायः वा- अथवा, अकरणे- नित्यकर्माकरणे, प्रत्यवायः क-पापं न संभवति । समाधत्ते- नेति । "ण्युपमीत" इत्यस्य स्थाने "ण्युपनीत" इति पाठो युक्तः, उपनीतमात्रस्य ब्रह्म-क्षत्र-वैश्यजातीयाखिलोपनयन Page #470 -------------------------------------------------------------------------- ________________ गयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समबहतो नयोपदेशः। मात्रकर्तव्यत्वेन विहितानि तत्परित्यागस्यागस्याशास्त्रीयत्वात् , सङ्कोचे मानाभावात् , निषिद्धानि काम्यानि च बन्धहेतुत्वात् , धनमूलानि च धनत्यागादेव त्यज्यन्ते, इत्येतावदेव सन्न्यासपदार्थत्वात् , तथा, च गीतावचनम्" काम्यानां कर्मणां न्यास, संन्यासं कवयो विदुः। नियतस्य तु संन्यासः, कर्मणो नोपपद्यते ॥ १ ॥ मोहात् तस्य परित्यागस्तामसः परिकीर्तितः" [ ] ॥ इति साक्षात् समुच्चयप्रतिपादिकापि श्रुतिः-" विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्यु तीर्वा विद्ययाऽमृतमश्नुते " [ अत्राविद्या कर्म, विद्या च तत्वज्ञानं तुल्यवद् यो वेद प्राप्नोतीति पूर्वार्द्धार्थः, वेदेति प्रयोगात् " विदलु लाभे" इति धातोः छान्दसत्वेन भास्करीयैर्दर्शितत्वात् , “ तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय " [ ] इति वाक्यं तु एवकारस्य विदित्वेत्यनन्तरं योजनात् तत्त्वज्ञानस्याप्यपवर्गसामग्री निवेशननियमपरम्, न तु वाक्यान्तरावधृतकारणताककर्मव्युदा. सनपरम् , समुच्चये चान्यान्यपि भूयांसि वचनानि सन्ति, तथा च गीतावचनम्संस्कारिणः कर्तव्यत्वेन - नित्यकर्मकर्तव्यत्वेन, विहितानि विध्यात्मकश्रुतिवचनप्राप्तानि । तत्परित्यागस्य तेषां कर्मणां संन्यासिनां परित्यागस्य । अशास्त्रीयत्वात् शास्त्रप्रमाणकत्वाभावात् । ननु मोक्षाश्रमिणोऽपि कर्मापरित्यागित्वे कर्मसंन्यासाभावात् संन्यासित्वमेव न भवेत् , अखिलकर्मपरित्यागस्यैव संन्यासपदार्थत्वादित्याशङ्कां मनसि कृत्वा तत्प्रतिक्षेपायाह-निषिद्धानीति-निषिद्धानि, काम्यानि च बन्धहेतुत्वात् त्यज्यन्ते इत्यन्वयः। इत्येतावदेव निषिद्धकाम-धनाधीनकर्मणां त्यागमात्रस्यैव । काम्यकर्मन्यासस्य संन्यासपदार्थत्वे भगवद्गीतावचनं प्रमाणयति-तथा च गीतावचनमिति । कवयो विद्वांसः। विदुः जानन्ति । नियतस्य तु अवश्यकर्तव्यस्य पुनः, अवश्यकर्तव्यं च नित्यं नैमित्तिकं च, तस्य कर्मणः । संन्यासः त्यागो, नोपपद्यते न युज्यत इत्यर्थः। मोहात् सर्वकर्मन्यासः संन्यास इति भ्रमात् । तस्य नियतकर्मणः । श्रुतिरपि साक्षात् कर्म-ज्ञानसमुच्चयं प्रतिपादयन्ती तत्र प्रमाणमित्याह- साक्षादिति । तां श्रुतिमुल्लिखति-विद्यां चेति । अस्या अर्थमुपदर्शयति- अत्रेति-- अस्मिन् श्रुतिवाक्य इत्यर्थः। अविद्या कर्मेतिअविद्यापदवाच्यं कर्मेत्यर्थः । विद्या च तत्त्वज्ञानमिति - विद्यापदवाच्यं तत्त्वज्ञानमित्यर्थः । वेदत्यस्य प्राप्नोतीत्यर्थः । कथमित्यपेक्षायामाह- वेदेति प्रयोगादिति । नन्वेवं तत्त्वज्ञानमात्रस्यैव मोक्षजनकत्वप्रतिपादिकाऽपि श्रुतिरस्ति तस्याः का गतिरित्यत आह-तमवेति-आत्मानमेवेत्यर्थः। विदित्वा ज्ञात्वा। अतिमृत्यु मोक्षम् । एति प्राप्नोति । अन्यः तत्त्वज्ञानाद् भिन्नः। अयनाय पुनः संसारेऽनागमनाय, मोक्षप्राप्तये इति यावत् । पन्थाः मार्गः, उपाय इति यावत् । न विद्यते नैवास्ति । इति वाक्यं तु एवंस्वरूपं श्रुतिवचनं पुन:, अस्य नियमपरमित्यनेनान्वयः। एवकारस्य तमेवेत्यत्र स्थितस्यैवकारस्य । विदित्वेत्यनन्तरं योजनात् तथा योजने तं विदित्वैवेत्येवंस्वरूपं लभ्यते, यथा दण्डे सत्येव घट इति वाक्याद् दण्डमात्रेण घट इति बोधो न जायते किन्तु दण्डोऽपि घटकारणमिति बोध उपजायते. तेन घटजनकसामग्यां दण्डोऽपि निविशते इति लभ्यते, तथा तं विदित्ववेत्यादिवाक्यादात्मानं ज्ञात्वैव मोक्षमासादयति न त्वात्मानमज्ञास्वेति बोध उपजायते, तेन अपवर्गजनकसामग्यामवश्यं तत्त्वज्ञानं निविशतीति नियमपरमुक्तवाक्यमित्यर्थः। तर्हि किं परं नोक्तवाक्यमित्यपेक्षायामाह- न रिवति । वाक्यान्तरेति-विद्यां चाविद्यां चेत्यादिवाक्येत्यर्थः, वाक्यान्तरेणावधृता- निर्णीता, मोक्षं प्रति कारणता यस्य तद्वाक्यान्तरावधृतकारणताकमेवम्भूतस्य कर्मणो व्युदसनपरंनिरसनतात्पर्यकं नोक्तवाक्यमित्यर्थः, “व्युदासनपरं" इत्यस्य स्थाने "व्युदसनपरं" इति पाठो युक्तः । समुच्चये तत्त्वज्ञानकर्मसमुच्चये। तथा च समुच्चयप्रतिपादकं च, तमभ्यर्य ईश्वरम् आत्मानं वा, तदर्चाऽत्र सम्यक् तज्ज्ञानरूपैव । विष्णुपुराणवचनमपि समुच्चये प्रमाणमित्याह-विष्णुपुराणेऽप्युक्तमिति । तस्मात् मोक्षस्य परमपुरुषार्थत्वात् । Page #471 -------------------------------------------------------------------------- ________________ गपामततरङ्गिणी तरङ्गिणीतरणिभ्यां समबड़तो मयोपदेशः। " स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः । स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ॥" विष्णुपुराणेऽप्युक्तम् " तस्मात् तत्प्राप्तये यत्नः कर्तव्यः पण्डितैनरैः। तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामते ! ॥" हारीत" उभाभ्यामपि पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञान-कर्मभ्यां प्राप्यते ब्रह्म शाश्वतम् ॥" - [ श्रुतिश्च-" सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण ॥" एतन्मूलकमेव परिज्ञानाद् भवेन्मुक्तिरेतदालक्षणं परम् । कार्य(य)क्लेशभयाच्चैव कर्म नेच्छन्ति पण्डिताः॥१॥ ज्ञानं प्रधानं न तु कर्महीनं, कर्मप्रधानं न तु बुद्धिहीनम् । तस्माद् द्वयोरेव भवेत् प्रसिद्धिनझेकपक्षो विहगः प्रयाति ।।२॥"[ __] इत्यादि ॥ न च काम्य-निषिद्धनैमित्तकाभ्यां कर्मभ्यां न समुच्चयः तयोस्त्यागात्, न निमित्तिकनित्येन, एकैकशो व्यभिचारात्, साकल्येनासम्भवात् , नापि यत्याश्रमविहितेन ।। " न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धकृत् सत्यवादी च गृहस्थोऽपि विमुच्यते ॥१॥" ] इति, AAAAAAAANA तत्प्राप्तये मोक्षप्राप्त्यर्थम् , मोक्षश्च परमानन्दस्वरूपं ब्रह्मैव, तस्य पूर्वमपि सत्त्वात् तदुत्पत्तये इत्यनुक्त्वा तत्प्राप्तये इत्युक्तम् । तत्प्राप्तिहेतुः मोक्षप्राप्तिसाधनम्। हारीतवचनमपि समुच्चये प्रमाणमित्याह- हारीत इति । सत्यनेत्यादि स्पष्टम् । एतन्मूलकमेव तत्त्वज्ञान-कर्मसमुच्चयमोक्षकारणत्वप्रतिपादकोपदर्शितप्रमाणमूलकमेव । "रेतदालक्षणं" इत्यस्य स्थाने " रेतदालस्यलक्षणं " इति पाठो भवितुमर्हति । “कार्य" इत्यस्य स्थाने "काय" इति पाठो युक्तः । द्वयोरेव ज्ञान-कर्मणोरुभयोरपि, एवकारस्याप्यर्थकत्वात् , अथवाऽस्तु व्यवच्छेदार्थक एवैवकारः, तेन ज्ञानमात्रस्य कर्ममात्रस्य च व्यवच्छेदः । न चेत्यस्य वाच्यमित्यनेनान्वयः। काम्येति- काम्यं च निषिद्धनैमित्तिकं च काम्यनिषिद्धनैमित्तिके, ताभ्यां काम्यनिषिद्ध-नैमित्तिकाभ्यां कर्मभ्यां सह ज्ञानस्य न समुच्चय इत्यर्थः। तत्र हेतु:-तयोस्त्यागादितिकाम्य-निषिद्धनैमितिककर्मणोः संन्यासिना परित्यागादित्यर्थः । “न निमित्तिकनित्येन" अस्य स्थाने “न नैमित्तिकनित्ये" इति पाठो युक्तः, नैमित्तिकं च तन्नित्यं च नैमित्तिकनित्यं तेन नैमित्तिकनित्येन सह तत्त्वज्ञानस्य समुच्चयोऽपि न युक्त इत्यर्थः । नैमित्तिकनित्यकर्मणामनेकविधत्वेन तत्रैकनैमित्तिकनित्यकर्मणो यत्याश्रमविहितस्य सहकारेऽपि तत्त्वज्ञानतो मुक्तेरनुदयनान्वयव्यभिचारस्य यत्याश्रमविहितयत्किञ्चिन्नैमित्तिकनित्यसहकृततत्त्वज्ञानस्याप्यभावेऽपि तदन्ययत्किञ्चिनैमित्तिकनित्यसहकृततत्त्वज्ञानतो मुक्तेर्भावेन तत्तन्नैमित्तिकनित्यकर्मसहकृततत्त्वज्ञानस्य मुक्ति प्रति कारणत्वे प्रत्येक व्यतिरेकव्यभिचारस्य सद्भावादिति निषेधहेतुमुपन्यस्यति- एककैकशो व्यभिचारादिति । सकलनैमित्तिकनित्यकर्मसहकृततत्त्वज्ञानस्य मुक्ति प्रति कारणत्वं तु सकलनैमित्तिककर्मणामेकदाऽसम्भवेन तत्सहकारस्यापि तत्त्वज्ञानेऽसम्भवादेव न सम्भवतीत्याहसाकल्येनासम्भवादिति । यत्याश्रमविहितेन कर्मणा समुच्चयोऽपि तत्त्वज्ञानस्य न सम्भवति गृहस्थस्यापि तत्त्वज्ञानतो मुक्तः सम्भवस्यागमे प्रतिगदिततया गृहस्थनिष्ठतत्त्वज्ञानस्य यत्याश्रमविहितकर्मसहकृतत्वाभावादित्याह-नापि यत्याश्रमविहितेनेति । निषेधे हेतुमाह- न्यायागतधन इति-न्यायागतधन इत्यादि प्रथमान्तपञ्चकं गृहस्थोऽपीत्यस्य विशेषणम्, न्यायेनागतं धनं यस्य स न्यायागतधनो न्यायोपार्जितधनवानित्यर्थः, तत्त्वज्ञाने निष्ठा- श्रद्धा यस्य स तत्त्वज्ञाननिष्ठः, अतिथिः प्रियो यस्य सोऽतिथिप्रियः, यः कश्चिदतिथिः स्वगृहमागच्छति भक्त्या तस्मै यो भोज्यानपानाच्छादनवस्त्रादिदानेन स्वात्मानं कृतार्थ मन्यमान इति यावत् , देवपितृश्राद्धकारी श्राद्ध कृत् , सत्यं वदितुं शीलं यस्य स सत्यवादी, इति पञ्च Page #472 -------------------------------------------------------------------------- ________________ नयामततरङ्गिणी-तरङ्गिणीतरणिग्या समलहतो न्योपदेशः। ५०१. इत्यागमेन गृहस्थस्यापि मोक्षश्रवणात्, इत्युपपत्तिविरोधादेव न समुच्चय इति वाच्यम् , यत्राश्रमे यानि मोक्षहेतुतया विहितानि तैरेव तदाश्रमित्वज्ञानस्य समुच्चयोपपत्तेः, न च कर्मणां परस्परव्यभि. चारान्निःश्रेयसे च स्वर्गाद् वैचित्र्याभावान्न तत् प्रति कारणत्वमिति वाच्यम् , स्वाभाविकविशेषविरहे. ऽपि प्रतियोगिभेदेन विशेषस्य निःश्रेयसेऽप्यविरोधात् , तत्तत्पुरुषीयमुमुक्षुविहितकर्मत्वेन तत्तत्पुरुषीय. विजातीयदुःखध्वंसे हेतुत्वसम्भवात् , अवश्यं चाभावरूपे कार्य प्रतियोगिभेदेन विशेषोऽभ्युपेयः, कथमन्यथा आश्रयनाश-पाकयो रूपनाशकारणत्वमिति, न च ज्ञानस्य विहित्वाददृष्टजनकत्वेनादृष्टस्यैव प्राधान्यम् , न च रागाद्यभावाद् योगिनोऽदृष्टोत्पत्त्यसम्भवः, मुक्तिविरोध्यपूर्वोत्पत्तावेव रागादेः सहकारित्वात् , तावतैव मोक्षफलकविध्यनुपपत्तिपरिहारादिति वाच्यम् , शुकादितत्त्वज्ञानसाध्यतया क्लुप्तेन विशेषणविशिष्टो गृहस्थो गृहस्थाश्रमे वर्तमानोऽपि विमुच्यते- मुक्तो भवति । इत्यागमेन एवं- स्वरूपागमेन । इति एवंप्रकारेण । उपपत्तिविरोधादेव असमुच्चयसाधकयुक्तिनतिविरोधादेव । निषेधे हेतुमुपदर्शयति-- यत्राश्रम इति-" तेरेव तदाश्रमित्वज्ञानस्य" इत्यस्य स्थाने "तेरेव तदाश्रमितत्त्वज्ञानस्य" इति पाठो युक्तः, स्वस्वाश्रमविहितकर्मभिस्तत्तदा. श्रमिणस्तत्त्वज्ञानस्य समुच्चयोपपत्तरित्यर्थः । नन्वेकस्य कर्मणोऽभावेऽपि कर्मान्तरेण मोक्षस्योत्पत्तेर्व्यभिचारेण न कर्मणां मोक्षं प्रति कारणत्वं सम्भवति, यथा स्वर्ग जात्यं समस्तीति विजातीयस्वर्ग प्रति यागविशेषस्य कारणत्वम् , त न्यविजातीयस्वर्ग प्रति तद्यागान्ययागविशेषस्य कारणत्वम् , एवं तीर्थविशेषस्नानादेरपि तत्तद्विजातीयस्वर्ग प्रति कारणत्वमिति न तत्र व्यभिचारः, तथा मोक्षेऽपि यदि तत्तत्कर्मजन्ये वैजात्यं स्यात् तदा विजातीयमोक्षं प्रति तत्कर्मणः कारणत्वं तदन्यकर्मणस्तु तन्मोक्षगतवैजात्यभिन्नजात्याकलितमोक्ष प्रति कारणत्वमित्युपगमे व्यभिचारी न भवेत् , न चैवम् , मोक्षे दुःखध्वंसात्मकत्वेनाभावस्वरूपे वैजात्याभावादित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य याच्यमित्यनेनान्वयः। तत् प्रति निःश्रेयसं प्रति । निषेधहेतुमुपदर्शयति-स्वाभाविकविशेषविरहेऽपीति- अभावात्मके मोक्षे अवान्तरजात्यात्मकस्वाभाविकविशेषस्याभावेऽपीत्यर्थः। दुःखध्वंसलक्षणस्य मोक्षस्य प्रतियोगिनो दुःस्वस्य वैजात्यसम्भवाद् विजातीयदुःखप्रतियोगिकत्वलक्षणविशेषस्य निःश्रेयसेऽप्यविशेष इत्याह-प्रतियोगिभेदेनेति । प्रतियोगिभेदेन निःश्रेयसे विशेषस्य सम्भव विशिष्य कार्यकारणभावो यथा सम्भवति तथोपदर्शयति-तत्तत्पुरुषीयेति। कार्यकारणभावोपपादनाय प्रतियोगिमेदप्रयुक्तस्याभाव विशेषस्यावश्याभ्युपगन्तव्यत्वं दर्शयति- अवश्यं चेति- अस्याभ्युपगन्तव्यं इत्यनेनान्वयः । कथमित्यस्य रूपनाशकारणत्वमित्यनेनान्वयः । अन्यथा अभावे विशेषानभ्युपगमे, आश्रयनाशादपि रूपस्य नाशः, पाकादपि रूपस्य नाशः, तथा चाश्रयनाशाभावेऽपि रूपनाशस्य भावेन व्यभिचारेण रूपनाशस्य कारणत्वं न भवेत् , एवं पाका भावेऽपि रूपनाश आश्रयनाशाद् भवतीति व्यभिचारेण पाकस्य कारणत्वं न स्यात् , अभावे विशेषाभ्युपगमे तु विलक्षणरूपनाश प्रति आश्रयनाशत्वेन कारणत्वम् , तद्विलक्षणरूपनाशं प्रति पाकत्वेन कारणत्वमित्येवं कार्यकारणभावः सम्भवतीत्यर्थः । न चेत्यस्य वाच्यमित्यनेनान्वयः, यद् विहितं तददृष्टद्वारा कार्यजनकं यथा दर्शपूर्णमासादिकं विहितमतस्तदप्यदृष्टद्वारैव मोक्षजनकमिति तत्त्वज्ञानस्य विहितमदृष्टद्वारा स्वर्गात्मककार्यजनकं, तत्त्वज्ञानं च विहितत्वाद् द्वारीभूतादृष्ट जनकत्वेनादृष्टस्यैव प्राधान्यं स्यादित्यर्थः । उक्ताशयाः प्रतिविधानमाशङ्कय प्रतिक्षिपति- न चेति- तत्त्वज्ञानं योगिन एव भवति, तत्र च रागादिकं नास्ति, रागादिकं चादृष्टस्य कारणमिति रागादिरूपकारणाभावान्न तत्रादृष्टमुत्पद्यते, ततश्च विहितत्वमप्रयोजकत्वान्न तत्त्वज्ञानस्यादृष्टजनकत्वसाधनायालमित्यदृष्टस्याभावान्न तस्य मोक्षजनकत्वमिति न तस्य प्राधान्यमिति न चेत्यर्थः । तत्र हेतुमाह-मुक्तीति- मुक्तिविरोधि यदपूर्वमदृष्टं तदुत्पत्तावेव रागादेः सहकारिविधया कारणत्वात् तत्त्व. ज्ञानाद् यददृष्टं भवति तन्मोक्षानुकूलमेव न तु मोक्षविरोधीति तदुत्पत्तौ न रागादिकं कारणमिति तदभावेऽपि योगिन्यदृष्टोत्पत्तिः सम्भवतीत्यदृष्टस्य प्राधान्यं स्यादेवेत्यर्थः । तावतैव अदृष्टस्य कारणत्वेनैव मोक्षफलकतत्त्वज्ञानविधेरनुपपत्तिविरहादित्यर्थः। उक्ताशङ्काप्रतिक्षेपहेतुमुपदर्शयति- शुकादीति-शुको व्यासपुत्रस्तस्य तत्त्वज्ञानान्मिथ्याध्वंसादेव मुक्तिरिति Page #473 -------------------------------------------------------------------------- ________________ ४०२ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समतो मयोपदेशः। मिथ्याज्ञानध्वंसेन दृष्टेनैवोपपत्तावदृष्टकल्पनाऽयोगात्, अन्यथा भेषजादिष्वपि तत्कल्पनापत्तेः, एवं च विहितत्वं तत्रैव व्यभिचारीति द्रष्टव्यम् , न चावघातवनियमादृष्टकल्पना, तत्र वैतुष्यस्यान्यथापि सम्भवेन सा, अत्र तु मिथ्याज्ञानस्य निवृत्तेरन्यथाऽसम्भव इति विशेषात् , नन्वत्रापि विरोधिगुणान्तरोत्पत्तेरपि मिथ्याज्ञानध्वंसः सम्भवति, न च मिथ्याज्ञानपदं तद्वासनापरम्, तत्त्वज्ञानात् तद्ध्वंसस्यैवाङ्गीकारात् , तस्य चान्यथा असम्भव एवेति वाच्यम् , अचिकित्स्यरोगादितापस्यापि सम्भवात् , न चेतरवासनानाशेऽपि ततः संसारवासनाया अनाश इति वाच्यम् , सामान्यावच्छेदेन पाक्षिकप्राप्तेरेव नियममूलत्वात् , अन्यथा तत्र तत्त्वज्ञानस्य व्यापारतया क्लुप्तो यो मिथ्याज्ञानध्वंसस्तेन दृष्टेनान्यत्रापि मोक्षरूपफलस्योपपत्तावदृष्टस्य व्यापारतया कल्पनाया अयोगादित्यर्थः । अन्यथा दृष्टेन कार्योपपत्तावप्यदृष्टस्य कल्पने । तत्कल्पनापत्ते। अदृष्टकल्पनापत्तः, भेषजादीनामपि विहितत्वेनादृष्टजनकत्वसाधनस्य कर्तुं शक्यत्वादिति तत्राप्यदृष्टस्य प्राधान्यं प्रसज्येतेत्यर्थः । एवं च भेषजादीनां दृष्टद्वारेणैव फलजनकत्वव्यवस्थितौ च, भेषजादीनां विहितत्वमस्ति, अदृष्ट जनकत्वं च नास्य दृष्ट जनकत्वरूपसाध्याभाववति भेषजादौ वृत्तित्वाद् विहितत्वं व्यभिचारीति न तेन तत्त्वज्ञानस्यादृष्टजनकत्वं सिध्यतीति नादृष्टस्य प्राधान्यमित्यर्थः। ननु व्रीहीनवहन्तीत्यत्र व्रीहीनवहन्यादेवेति नियमविध्याश्रयणाद् वैतुष्यलक्षणदृष्टव्यापारस्य सम्भवेऽपि नियमान्यथाऽनुपपत्त्याऽवघातजन्यादृष्टं व्यापारतया कल्प्यते, तथा प्रकृतेऽपि आत्मा ज्ञातव्य एवेति नियमविध्याश्रयणात् तदन्यथानुपपत्त्या नियमादृष्ट कल्पनीयमित्यदृष्टस्य प्राधान्यं स्यादेवेत्याशङ्कय प्रतिक्षिपति-न चेति । प्रतिक्षेपहेतुमुपर्शयतितत्रेति-- ब्रीहीनवहन्तीत्यत्र वैतुष्यकरणार्थक एव यद्यवघातस्तदा वैतुष्यरूपकार्यस्यावघातमन्तरेणापि नखविदारणादिना सम्भवेनावघातस्य वैयर्थं स्यादतोऽदृष्टद्वारा व्रीहिकरणकयाग एवावघातस्य हेतुत्वमिति कल्पनाऽऽवश्यकी, प्रकृते तु तत्त्वज्ञानतो मुक्तिमिथ्याज्ञाननिवृत्तिमन्तरेण न सम्भवति, मिथ्याज्ञाननिवृत्तिश्चात्मज्ञानमन्तरा न सम्भव इति मिथ्याज्ञाननिवृत्तस्तत्त्वज्ञानजन्यत्वमावश्यकमिति न प्रयोजनं नियमादृष्टकल्पनाया इत्येवं विशेषादित्यर्थः । शङ्कते- नन्विति । अत्रापि तत्त्वज्ञानविधिस्थलेऽपि । विरोधीति- यथा ज्ञानान्तरं स्वरोधीच्छादिना नश्यति योग्यविभुविशेषगुणानां स्वाव्यवहितोत्तरवृत्तिविशेषगुणनाश्यत्वमिति नियमात् , तथा मिथ्याज्ञानमपि स्वविरोधिगुणान् नश्यतीति मिथ्याज्ञानध्वंसस्यान्यथैवोपपत्तेरदृष्टमेव तत्त्वज्ञानजन्यमभ्युपेयमिति तस्य प्राधान्यं स्यादेवेत्यर्थः । अत्र समाधानमाशङ्कय प्रतिक्षिपति- न चेति- अस्य वाच्यमित्यनेन सम्बन्धः । तद्वासनापरं मिथ्याज्ञानजन्यवासनारूपार्थतात्पर्यकम् , तथा च वासनाया भावनाख्यसंस्काररूपाया अतीन्द्रियत्वेन योग्यविभुविशेषगुणत्वाभावान्न स्वविरोधिगुणत्वाभावान स्वविरोधिगुणान्तरोत्पत्तितो नाश इति तत्त्वज्ञाननाश्यत्वमेव तस्या अभ्युपेयमित्याह- तत्त्वज्ञानादिति । तदुध्वंसस्यैव मिथ्याज्ञानजन्यवासनाध्वंसस्यैव । तस्य च मिथ्याज्ञानवासनाध्वंसस्य तु । अन्यथा तत्त्वज्ञानमन्तरेण । निषेधहेतुमाह- अचिकित्स्येति " अचिकित्स्यरोगादिताप. स्यापि सम्भवात्" इत्यस्य स्थाने " अचिकित्स्यरोगादिनाशवत् तस्यान्यन्यथासम्भवात् " इति पाठो युक्तः, अचिकित्स्यःचिकित्सया निवर्तयितुमशक्यो यो रोगस्तदादेर्यथा चिकित्साद्यतिरिक्तकारणान्तरादेव नाशस्य सम्भवस्तथा मिथ्याज्ञानजन्यवासनानाशस्यापि तत्त्वज्ञानातिरिक्तकालादिकारणादेव सम्भवादित्यर्थः । ननु कालस्मृत्यादिरूपकारणान्तरादन्यवासनानाशस्य सम्भवेऽपि मिथ्याज्ञानजन्यसंसारवासनाया न तत्त्वज्ञानातिरिक्तकारणतः सम्भव इति तत्त्वज्ञानादेव मिथ्याज्ञानजन्यवासनानाश इत्याशङ्कच प्रतिक्षिपति- न चेति- अस्य वाच्यमित्यनेनान्वयः । इतरवासनानाशेऽपि तत्त्वज्ञानभिन्नकालस्मृत्यादिकारणबलान्मिथ्याज्ञानवासनाभिन्नवासनानाशेऽपि । ततः तत्त्वज्ञानभिन्नकारणतः । निषेधे हेतुमाह- सामान्यावच्छेदेनेति- “ विधिरत्यन्तमप्राप्ती नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसङ्खयेति गीयते ॥” इति वचनाद् यत्सामान्यावच्छेदेन यस्य पाक्षिकप्राप्तिः- कारणान्तरेण सम्भवालोचनायामप्राप्तिस्तदनालोचने प्राप्तिः, तस्यां सत्यां नियमविधिर्भवतीत्यतः सामान्यावच्छेदेन पाक्षिकप्राप्तेरेव नियममूलत्वात् , यथा ऋतौ भार्यामुपेयादित्यत्र नियमविधिवादिमते ऋतावेव भार्यामेव उपेयादेवेति, तत्र ऋतुकाले तद्भिन्नकाले च रागतो भार्यायां गमनं प्राप्तम् , तत्र यदा ऋतुभिन्नकाले गमनं तदा ऋतुकाले गमनं न प्राप्तम् , यदा च ऋतुकाले गमनं तदानीं प्राप्तमित्येवं पाक्षिकप्राप्तौ नियमः- ऋतावेवेति, एतावता ऋतावेव गमनस्य नियमः, स च भायां त्यक्त्वाऽन्याबलायामृतुमत्यां गमनेऽपि निर्वहतीत्यतो भार्यामेवेति नियमः, तत्रापि भार्याभिन्ना Page #474 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । पूर्वीय व्रीहि विशेषे नखनिर्भेदाप्राप्तेः, तत्रापि नियमादृष्टानुपपत्तिरिति चेत् ? न - शक्य परिवर्जनपाक्षिकप्राप्तेरेव नियममूलत्वात्, यथा “ व्रीहीनवहन्ति " इत्यत्र पक्षे प्राप्तस्य नखनिर्भेदादेः शक्येन परिवर्जनेनाभिघातो नियम्यते - ' अवहन्तव्या एव न नखैर्निर्भेतव्याः' इति, नैत्रमत्र, तत्वज्ञानेनैव मिथ्याज्ञानं निवर्तयेन्न विरोधिगुणरोगादिनेति शक्यं प्रतिज्ञातुं तस्यापुरुषतन्त्रत्वात् । अत एव प्रोक्षि(त) व्रीह्यवघातत्वेनै ( ) व श्रवणजन्यतत्त्वज्ञानत्वेन नियमादृष्टहेतुत्वधौव्यमिति निरस्तम्, प्रोक्षणादेः प्रधानाङ्गत्वेन प्रधानापूर्वफलकादृष्टजनकत्वात् तत्र तथोक्तिसम्भवेऽप्यत्र प्रधानस्यैव दृष्टफलत्वेन तथा वक्तुमशक्यत्वात् । किञ्च, अत्र विजातीय तत्त्वज्ञानत्वेनैव दृष्टद्वारा मुक्तिहेतुत्वान्न श्रेयसी अदृष्टकल्पना, तत्र वै जात्येनैव हेतुत्वे तदवच्छिन्ने प्रोक्षणहेतुत्वोक्तौ कृष्णले प्रोक्षणबाधापत्तेः, न चावहन्तव्यप्रोक्षणत्वेनाप्यदृष्टहेतुत्वात् तत्रापि नियमादृष्टुं कल्पनीयम्, दृष्टार्थस्यैव नियमादृष्टार्थस्य सिद्धान्तितत्वादित्य ४०३ "" स्त्रियं यदा गन्तुमिच्छति तदा भार्यागमनं न प्राप्तम्, यदा भार्यां गन्तुमिच्छति तदा भार्यागमनं प्राप्तमित्येवं पाक्षिकप्राप्तौ भार्यामेवेति नियमः, एवमपि ऋतावेव भार्यामेव कदाचिद् गन्तुमिच्छति तदानीं गमनं प्राप्तम्, यदा च गमनं नेच्छति तदानीं न गमनं प्राप्तमित्येवं पाक्षिकप्राप्तौ उपेयादेवेति नियमः, तथा च ऋतौ भार्यायामगमने प्रत्यवायः, अनृतावपि भार्यायां गमने प्रत्यवायः, ऋतावेव भार्याभिन्नाबलायां गमने प्रत्यवाय इति लभ्यते, एवमृतुकाले नियमतो भार्यागमने पुण्यमिति । सामान्यावच्छेदेन पाक्षिक प्राप्तेर्नियम मूलत्वा वेदनाय दृष्टान्तमुपदर्शयति- यथेति व्रीहीनवन्तीत्यत्र यदा तुषविमोकार्थं नखनिर्भेदादिकं कर्तुमिच्छति तदानीमवधातो न प्राप्तः किन्तु नखनिर्भेदादिकमेव प्राप्तमित्येवं पक्षे प्राप्तस्य नखनिर्भेदादेः परिवर्जनं कर्तुं शक्यत इति शक्येन परिवर्जनेनाभिघातो नियम्यते इत्यर्थः । तन्नियमस्वरूप मुल्लिखति- अवहन्तव्या एवेतितथा च तुषो नखनिर्भेदादितोऽपि भवतीति तत्रान्यथासिद्धस्य नियमितावघातस्य दृष्टमेव बलमित्यर्थः । " नैत्रमत्र, तत्त्व इत्यस्य स्थाने " नैवमत्र तत्त्व" इत्येवमुल्लेखो युक्तः, अत्र तत्रज्ञानेनैव मिथ्याज्ञानं निवर्तयेन्न विरोधिगुणादित्येवं प्रतिज्ञातुं न शक्यमित्यन्वयः । प्रतिज्ञातुमित्यस्य " प्रतिज्ञातुं ' इत्युलेखो विधेयः । तत्र हेतुमाह - तस्येति - मिथ्याज्ञाननिवर्तनस्य पुरुषप्रयत्नानधीनत्वात्, तत्त्वज्ञानेनापि तन्निवर्तयितुं शक्यं कारणान्तरेणापीत्यर्थः । अत एवेत्यस्य निरस्तमित्यनेनान्वयः । प्रोक्षितेति - व्रीद्दीन् प्रोक्षतीत्यपि नियमविधिरेव प्रोक्षिता एव व्रीहयोऽवघाताय कल्पन्त इत्यप्रोक्षितव्रीहीणामवघातस्य सम्भवेऽपि न तैरवघातितैर्यागोपकार इति तुषविमोकलक्षणं कार्यमकिञ्चित्करं तत्र, किन्तु प्रोक्षितव्रीह्यवघातेन नियमादृष्टमुत्पद्यते तद्द्द्वारा प्रोक्षणं यागाङ्गमतो यथा प्रोक्षितव्रीह्यवघातत्वेन नियमादृष्टं प्रति कारणत्वं तथा श्रवणजन्यतत्त्वज्ञानत्वेन नियमादृष्टं प्रति कारणत्वमित्यप्यत एव निरस्तमित्यर्थः । अत एवेत्यनेनोक्तमेव निरासहेतुं स्पष्टयति- प्रोक्षणादेरिति । प्रधानाङ्गत्वेन प्रधानीभूतयागाङ्गत्वेन प्रधानेनाऽपूर्वे जनयितव्ये सहकारितया प्रोक्षणादिकमपेक्षितम्, प्रोक्षणं च क्रियारूपत्वाच्चिरविनष्टत्वेन न साक्षात्प्रधानापूर्व जनकमतोऽदृष्टद्वारा जनकत्वमिति प्रधानापूर्वफलकादृष्टजनकत्वात् प्रोक्षणस्थले प्रोक्षितव्रीह्यवघातत्वेन नियमादृष्टहेतुत्वोक्तिसम्भवेऽपि तत्त्वज्ञानस्थले प्रधानस्य तत्त्वज्ञानस्यैवाज्ञाननिवृत्तिलक्षणदृष्टफलकत्वेन श्रवणजन्यतत्त्वज्ञानत्वेन नियमादृष्ट हेतुत्वस्य वक्तुमशक्यत्वादित्यर्थः, तत्त्वज्ञानस्थले नियमादृष्टाभावे युक्तत्यन्तरमुपदर्शयति- किञ्चेति । अत्र तत्त्वज्ञानस्थले । दृष्टद्वारा अज्ञान निवृत्तिलक्षणदृष्टद्वारा । तत्र अवघातस्थले । वैजात्येनैवेति अवघाते वैजात्यं कल्पयित्वा कल्पितेन वैजात्येनैवावघातस्य प्रधान सहकारित्वेन प्रधानजन्यापूर्वं प्रति हेतुत्वे विजातीयावघातत्वावच्छिन्ने प्रोक्षणस्य हेतुत्वे कृष्णले अवघातस्यैवाभावेन विजातीयावघातस्याप्यभावाद् विजातीयाव घातकारणत्वेन विहिततयाऽभिमतस्य प्रोक्षणस्य बाधापत्तेरित्यर्थः । ननु व्रीहीन् प्रोक्षतीति विनाऽवहन्तव्य प्रोक्षणत्वेनापि प्रधानाङ्गत्वं विधीयते, कृष्णलश्चावहन्तव्यो न भवतीति तत्प्रोक्षणस्य प्रोक्षणत्वेन हेतुत्वमिति न कृष्णले प्रोक्षणवाघ इत्याशङ्कय प्रतिक्षिपति- न चेति । अदृष्टहेतुत्वात् प्रधानापूर्वहेतुत्वात् । तत्रापि अवघातस्थलेऽपि । “ नियमादृष्टं कल्पनीयं " इत्यस्य स्थाने नियमादृष्टं न कल्पनीयं " इति पाठो युक्तः । निषेधे हेतुमाह- दृष्टेति । स्यैव " इत्यस्य स्थाने " दृष्टार्थस्येव " इति पाठो युक्तः, अवघातादेस्तुषविमोकलक्षणदृष्टार्थस्येव नियमादृष्टरूपप्रयोजनस्य 66 - Page #475 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । न्यत्र विस्तरः | उदयनानुसारिणस्तु - " अनुत्पन्नतत्त्वज्ञानस्य ज्ञानार्थिनस्तत्प्रतिबन्धक दुरित निवृत्तिद्वारा प्रायश्चित्तवदारादुपकारकं कर्म स नित्योपकारकं च तत्त्वज्ञाने, उत्पन्न तत्त्वज्ञानस्य त्वन्तरलब्धदृष्टेः कारीरिसमाप्तिवदारब्धाग्नि संपालनं लोकसङ्ग्रहार्थम्, यद्यपि लोकसङ्ग्रहे न प्रयोजनम्, सुखदुःखभावतत्साधनेतरत्वात्, तथापि लोकानां नित्यत्वेन यज्ज्ञानं तत्परित्यागार्थं ( तत्परिपालनार्थं ) तत्तद्दुःखजैमिनीयैः सिद्धान्तितत्वादित्यर्थः । प्रन्थान्तरेऽप्ययं विशेषेण विचारितोऽस्ति, विशेषावगमेच्छुभिरवलोकनीयं तदेत्युपदेशाभिप्रायेणाह - इत्यन्यत्र विस्तर इति । एतावता प्रबन्धेन मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्ति न भवतीत्युपगन्तॄणां भास्करीयाणामाशयो दर्शितः, इदानीं मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्तीत्युपगन्तॄणामुदयनाचार्याणां मतमुपदर्शयति- उदयनानुसारिणस्त्विति - अस्य आहुरित्यनेनान्वयः । किमाहुरित्यपेक्षायामाह - अनुत्पन्नतत्वज्ञानस्येति - न उत्पन्न - मनुत्पन्नमनुत्पन्नं तत्त्वज्ञानं यस्य सोऽनुत्पन्नतत्त्वज्ञानस्तस्येत्यर्थः । कथम्भूतस्य तस्य ज्ञानार्थिनः ज्ञानेच्छो:, अस्याssरादुपकारकं कर्मेत्यनेनान्वयः । तत्प्रतिबन्ध केति - ज्ञानप्रतिबन्धकेत्यर्थः । प्रायश्चित्तवदिति - प्रायश्चित्तं यथा पापनिवृत्तिद्वारा पुरुषस्याऽऽरादुपकारकं साक्षादुपकारकं तथा नित्यनैमित्तिकादिकर्मापि ज्ञानप्रतिबन्धकपापनिवृत्तिद्वारा अनुत्पन्नतत्त्वज्ञानस्य पुंस आरादुपकारकं साक्षादुपकारकमित्यर्थः । स नित्यो " इत्यस्य स्थाने " सन्निपत्यो " इति पाठो युक्तः, सन्निपत्योपकारकं परम्परयोपकारकम् ज्ञानार्थिनः पुरुषस्य तत्प्रतिपन्थकदुरितनिवृत्तिरेवापकारः, स साक्षादेव भवतीत्येतावता तस्य साक्षादुपकारकं कर्मारादुपकारकमित्यभिधीयते, तत्त्वज्ञानस्य तु पूर्वमसत्त्वादात्मलाभ एवोत्पत्तिस्वरूप उपकारः, स च न साक्षात् कर्मणो भवति, किन्तु प्रतिबन्धकनिवृत्ति जनयित्वैवेति तत्त्वज्ञाने परम्परयोपकारकं कर्म सन्निपत्योपकारकमिति कथ्यत इति बोध्यम् । यस्य तत्त्वज्ञानमुत्पन्नं तस्य कर्म नाऽऽरादुपकारकं नवा सन्निपत्योपकारकमित्यनुपकारकस्य कर्मणस्तदानीं करणं किमर्थमित्यपेक्षायामाह - उत्पन्नतत्वज्ञान स्येति उत्पन्नं तत्त्वज्ञानं यस्य स उत्पन्नतत्त्वज्ञानस्तस्येत्यर्थः । " लब्धदृष्टेः इत्यस्य स्थाने ‘“ लब्धवृष्टेः " इति पाठो युक्तः, अन्तरं - कारीरीयागारारम्भ - तत्समाप्त्योर्मध्यकाले, लब्धा - प्राप्ता, वृष्टिर्येन सोऽन्तरलब्धवृष्टिस्तस्य कारीरीयागकर्तुः पुंसः कारीरी समाप्तिर्निष्फलाऽप्यनुष्ठिता भवति, वृष्टयर्थं हि कारीरीयागः क्रियते वृष्टिश्च कारीरीयागसमाप्तेः प्रागेव जातेति निष्फलत्वं तस्याः, तथा यावज्जीवमग्निहोत्रं जुहोतीति विधिप्राप्तस्वर्गादिफलकयावज्जीवनकालीन। ग्निहोत्रोपकारस्याग्नेः संपालनं तत्त्वज्ञानिनो निष्फलमपि तत्त्वज्ञानिनाऽप्यग्नि संपालनं क्रियतेऽतोऽस्माभिरप्याग्नि संपालनं कर्तव्यमेवेत्येवमुपात्तबुद्धयो लोका अग्निसंपालने प्रवर्तन्त इत्येवं लोकसङ्ग्रहार्थमित्यर्थः, अत्र 66 "" ४०४ - 19 1 "" " न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ यदि, त्यहं न वर्तेयं तु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ | सर्वशः ॥ उत्सीदेयुरिमे लोकाः न कुर्यां कर्म चेदम् [ गीता, अ० ३ श्लो० २२] इत्यादि गीतावचनमपि प्रमाणं बोध्यम् । ननु लोकसङ्ग्रहस्य सुखदुःखाभाव-तत्साधनभिन्नत्वेन पुरुषार्थत्वाभावात् तदर्थ तत्त्वज्ञानिनोऽग्निपालनादौ प्रवृत्तिर्न युक्तेत्यत आह- यद्यपीति । " लोकसङ्ग्रहे ' इत्यस्य स्थाने " लोकसङ्ग्रहो " इति पाठो युक्तः । कथं न लोकसङ्ग्रहः प्रयोजनमित्यपेक्षयामाह - सुख-दुःखाभावतत्साधनेतरत्वादिति - सुख दुःखाभाव- सुवसाधन दुःखाभाव-साधनान्यतम भिन्नत्वादित्यर्थः, तत्र सुख-दुःखाभावयोरन्येच्छानधीनेच्छाविषयत्वलक्षणं परमप्रयोजनत्वम्, तत्साधनयोश्च सुख-दुःखाभावान्यतरेच्छाधीनेच्छाविषयत्वलक्षणं गौणप्रयोजनत्वम्, लोकसङ्ग्रहश्च तदन्यतराभावान्न प्रयोजनमित्याशयः । तथापि लोकसङ्ग्रहस्य प्रयोजनत्वाभावेऽपि, लोकानां विहिताचरणनिषिद्धानाचरणप्रवृत्तानां जनानाम्, नित्यत्वेन यज्ज्ञानं अग्निपालनं नित्यं सर्वदा कर्तव्यमित्याकारकम् तत्परिपालनार्थ तद्रक्षणार्थम्, यदि तत्त्वज्ञानी नाग्निसंपालनं विदध्यात् तदाग्निपालनं न नित्यं तत्त्वज्ञानिनाऽनाचरितत्वादित्यनुमानेनाग्निपालनस्य नित्यत्वाभावज्ञानेन प्रतिरुद्धत्वात् तन्नित्यत्वज्ञानं नोदियादिति अगत्या मरणं यद् द्विजैरग्निपालनं क्रियते तदुत्सादो भवेत्, तत्त्वज्ञानिनाऽग्नि संपालने आचर्यमाणे तु प्रतिबन्धकनित्यत्वाभावज्ञानाभावान्नित्यत्वज्ञानमविच्छेदेन समु दियादेवेति भवति तत्सुरक्षितम्, ततश्च लोकानां तदाचरणतोऽग्निहोत्रादिकर्मफलमपि शास्त्रोक्तं भवत्येवेत्येवं परम्परया परगतसुखदुःखाभावसाधनत्वात् तत्त्वज्ञान्याचर्यमाणस्याग्नि संपालनस्य सफलत्वमित्यर्थः । अथवा तत्त्वज्ञानिनः सञ्चितकर्मणां Page #476 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । योगेन कर्मनाशार्थ वा तत्, इदमेव च द्वारि-द्वारयोः कर्म-तत्त्वज्ञानयोः कारणत्वं तुल्यकक्षतया समुच्चयो नेष्ट इत्यनेन विवक्ष्यते, यद्यपि च तीर्थविशेषस्नानादीनां तत्त्वज्ञानव्यापारकत्वं न शाब्दम् , तथापि 'तीर्थविशेषस्नानादीनि तत्त्वज्ञानद्वारकाणि मोक्षजनककर्मत्वात् यमादिवत्' इत्यनुमानात् तथात्वसिद्धिः, न च योगत्वमुपाधिः " कथयति भगवानिहान्तकाले भवभयकातरतारकं प्रबोधम् " [ इत्यादिपुराणात् “ रुद्रस्तारकं ब्रह्म व्याचष्टे , [ ] इति श्रुतेश्च काशीप्रायागादेस्तत्त्व. ज्ञानव्यापारकत्वसिद्धौ तत्र साध्याव्यापकत्वाद् इत्याहुः । स्वतन्त्रास्तु- " तत्त्वज्ञानं प्रत्यङ्गत्वपक्षे कर्म. णामपूर्वद्वारा जनकत्वं दुरितध्वंसकल्पनातो लघुत्वात् , वस्तुतः कर्मणां निःश्रेयसहेतुत्वे तज्जन्यनिःश्रेयसजनकतया तत्त्वज्ञानस्य कर्मव्यापारत्वं वाच्यम् , तदेव तु न युकं “ कर्मणा न प्रजया धनेन " [ ] " नान्यः पन्था विद्यतेऽयनाय " [ श्वेता० ३. ८६. १५.] " नास्त्यकृतः कृतेन" नाशेऽपि प्रारब्धकर्मणां भोगदेव क्षयो ' नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।" [ ] इति वचनात् तत्र कर्मपदस्य प्रारब्धकर्मपरत्वात् , एवं च तत्त्वज्ञानिनो यद् दुःखजनकं प्रारब्धं कर्म तद् दुःखमदत्त्वा न नश्यति, यावन्न तन्नाशस्तावन्न तन्मुक्तिरित्यग्निसंपालनप्रयासोत्पन्नदुःखोपभोगेन कर्मनाशार्थमग्निसंपालनं कर्तव्यकक्षामास्कन्दतीति कल्पान्तरमाह- तत्तदुःखयोगेनेति । तत् आरब्धाग्निसंपालनम् । तथा चोक्तदिशा तत्त्वज्ञानद्वारा कर्म मुक्किं जनयतीति मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्ति भवत्येवेत्याशयेनाह- इदमेव चेति- अनन्तरोपदर्शितस्वरूपमेवेत्यर्थः । तुल्यकक्षतया समप्रधानतया मुक्ति प्रति कारणत्वेन । समुच्चयः तत्त्वज्ञान-कर्मणोः समुच्चयः । नेष्टः नाभिमतः। न शाब्दं न शब्दप्रमाणगम्यम् । तथाऽपि तीर्थविशेषस्नानादीनां तत्त्वज्ञानव्यापारकत्वस्य शब्दप्रमाणागम्यत्वेऽपि । तथास्वसिद्धिः तीर्थविशेषस्नानादीनां तत्त्वज्ञानव्यापारकत्वसिद्धिः । ननु यत्र यत्र तत्त्वज्ञानव्यापारकत्वं तत्र तत्र योगत्वमित्येवं तत्त्वज्ञानव्यापारकत्वलक्षणसाध्यव्यापकत्वाद् यत्र यत्र मोक्षजनककर्मत्वं तत्र तत्र योगत्वमिति नास्ति तीर्थविशेषस्नानादीनां मोक्षजनककर्मत्वेऽपि योगत्वाभावादित्येवं मोक्षजनककर्मत्वलक्षणसाधनाव्यापकत्वाद् योगत्वमुपाधिरिति सोपाधिकत्वाद् व्याप्यत्वासिद्धिदोषप्रस्तो मोक्षजनककर्मत्वलक्षण हेतुर्न तीर्थविशेषस्नानादीनां तत्र ज्ञानद्वारकत्वलक्षणसाध्यसाधनाय प्रभुरित्याशङ्कय प्रतिक्षिपति- न चेति । काशीमरणादेस्तत्त्वज्ञानद्वारा मोक्षजनकत्वस्य शास्त्रसिद्धत्वेन तत्र तत्त्वज्ञानव्यापारकत्वलक्षणं साध्यमस्ति, योगत्वं च तत्र नास्तीत्येवं साध्यव्यापकत्वाभावेन योगत्वस्योपाधित्वासम्भवादिति निषेधहेतुमुपदर्शयति- कथयतीति । भगवान् सदाशिवः । इह काश्याम् । अन्तकाले मरणाव्यवहितपूर्वकाले। भवभयकातरतारकं भवः- संसारः, तस्माद् यन्नरकादिदुःखप्राप्तिभयं तेन कातरा ये जनास्तेषां तारकं-संसारसमुद्रोत्तारं पुनः संसारागमननिबन्धनम् । प्रबोधं तत्त्वज्ञानक तारकमन्त्रं कर्णे कथयति उपदिशतीत्यर्थः । रुद्र इति- सदाशिवः, तारकं ब्रह्म ब्रह्मज्ञानजनकं मन्त्रं कथयतीत्यर्थः । "काशीप्रायागादे" इत्यस्य स्थाने "काशीमरणादे" इति "काशीप्रमापणादे" इति वा पाठो युक्तः, प्रमापणं मृत्युः । तत्र काशीमरणादौ । साध्याव्यापकत्वात् साध्यं तत्त्वज्ञानद्वारकत्वं तत्रास्ति योगत्वं च नास्तीत्येवं साध्याव्यापकत्वात् । इति एवम् । आहुः उदयनानुसारिणो वदन्ति । स्वतन्त्राणां मतमुपदर्शयति- स्वतन्त्रास्त्वितिअस्य 'आहुः' इत्यनेनान्वयः । तत्त्वज्ञानं प्रत्यङ्गत्वपक्षे कर्म तत्त्वज्ञानस्याङ्गं - कारणमिति पक्षे । कर्मणामपूर्वद्वारा जनकत्वं नित्य नैमित्तिककर्मणामदृष्टद्वारा तत्त्वज्ञानजनकत्वम् । लघुत्वात् लाघवात् , तत्त्वज्ञानं प्रति तत्त्वज्ञानप्रतिबन्धकदुरितनिवृत्तिद्वारा कर्मणां जनकत्वे तत्त्वज्ञानप्रतिबन्धकं दुरितं कल्पनीयं तन्नाशश्च कल्पनीय इत्येवं द्वितयकल्पना. पेक्षयकापूर्वकल्पने लाघवादित्यर्थः । यच्चोदयनाचार्यानुसारिभिस्तत्त्वज्ञानद्वारा कर्मणां निःश्रेयस प्रति हेतुत्वमित्युच्यत तस्यायुक्तत्वमावेदयति-वस्तुत इति । तज्जन्येति- कर्मजन्येत्यर्थः । कर्मजन्यत्वं यदि निःप्रेयसे भवेत् तदा कर्मजन्यनिःश्रेयसजनकत्वात् तत्त्वज्ञान व्यापारकत्वं कर्मणां युज्येतापि, न चैवमित्याह- तदेव त्विति - नि.श्रेयसे कर्मजन्यत्वमेव वित्यर्थः । युक्तत्वाभावे हेतुमुपदर्शयति- न कर्मणेति- “न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः” इत्येकं श्रुतिवचनं कर्मणो मोक्षजनकत्वनिषेधोपदर्शकम् , “ तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इति द्वितीयं श्रुतिवचनं Page #477 -------------------------------------------------------------------------- ________________ ४०६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलइतो नयोपदेशः । [मुण्ड० १. २. १२.] " कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः" ॥ [१ सं० सो० २८] इत्यादि श्रुतिस्मृतिशतेन निषेधात् कर्मजन्यत्वाभावाच्च " तपसा कल्मषं हन्ति अविद्यया मृत्यु तीततस्तु तं पश्यति निष्कलं ध्यायमानः कषायपतिः कर्मभ्यः" इत्यादिभिस्तत्त्वज्ञानोत्पत्तिप्रतिबन्धदुरित निवृत्त्यैवान्यथासिद्धेः प्रदर्शनाद् न च “ विविदिषन्ति यज्ञेन" ]" सर्व कर्माखिलं पार्थ ! ज्ञाने परिसमाप्यते " [भ० गी० ४. २३ ] इत्यादिभिः कर्मजन्यताऽपि प्रतीयत इति वाच्यम् , सा हि न अपूर्वद्वारा प्रतिबन्धकदुरितानुच्छेदे अपूर्वसहस्रस्यापि अकिश्चित्करत्वात् , तदुच्छेदेन तज्जनने तु प्रमान्तराधृतकारणभावेन प्रतिबन्धकाभावेनैवान्यथासिद्धेः । न चैवं यागादेरप्यपूर्वेणान्यथासिद्धिः स्यात् , तस्य यागकारणतामहोत्तरकल्प्यत्वेनोपजीव्यापरिपन्थित्वात् , इह तु प्रतिबन्धकाभावस्य कार्यमाने कार[ण]तायाः प्रागेवावधारणादिति विशेषात् । अत एव मङ्गल-कारीर्योः प्रतिबन्धकदुरितनिवृत्तिमात्रफलकत्वम्, वृष्टि-समाप्ती तु स्वकारणादेवेति सिद्धान्तः । निरुक्तनिषेधावबोधकम् , ' नास्त्यकृतः कृतेन" इत्यादितृतीयश्रतिवचनं तदावेदकम् , “कर्मणा बध्यते जन्तुः" इत्यादिवचनं तु स्मृतिः। निषेधात् मुक्ति प्रति कर्मणां जनकत्वस्य निराकरणात् । तज्जन्यत्वे सति तजन्यजनकत्वं तव्यापारत्वम्, तत्त्वज्ञानस्य तु कर्मजन्यत्वमेव नास्तीत्येतावताऽपि तत्त्वज्ञानस्य कर्मव्यापारत्वं न सम्भवतीत्याह-कर्मजन्यस्वाभावाच्चेति- तत्त्वज्ञानस्य कर्मजन्यत्वाभावाचेत्यर्थः। तत्त्वज्ञानस्य कर्मजन्यत्वमेव कुतो नेत्याकाङ्कायामाह-तपसेति । इत्यादिभिरित्यस्यानन्तरं श्रुतिभिरिति दृश्यम् , अस्य प्रदर्शनादित्यनेनान्वयः। ननु तत्त्वज्ञानोत्पत्तिप्रतिबन्धकदुरितनिवृत्तिस्तत्त्वज्ञाने जननीये कर्मणां व्यापार इति व्यापारेण व्यापारिणां कर्मणां नान्यथासिद्धिरिति चेत् ? न- यत्र व्यापारस्य व्यापारिनिष्ठप्रमाणान्तरसिद्धकारणत्वान्यथानुपपत्त्यैव कारणतया कल्पनं तत्र व्यापारेण व्यापारिणोऽन्यथासिद्धयभावेऽपि यत्र व्यापारस्य प्रमाणान्तरत एव कारणत्वं क्लुप्तं तत्र व्यापारण व्यापारिणोऽन्यासिद्धरङ्गीकारात्, प्रकृतेऽपि तत्त्वज्ञानोत्पत्तिप्रतिबन्धकदुरितनिवृत्तः प्रतिबन्धकाभावविधया तत्त्वज्ञान प्रति कारणत्वस्य क्लप्तत्वेन तया कर्मणामन्यथासिद्धेरवश्यम्भावादिति । न चेत्यस्य वाच्यमित्यनेनान्वयः । निषेधे हेतुमाह- सा हीति-हि- यतः, सा- तत्त्वज्ञाने कर्मता । न अपूर्वद्वारा अदृष्टद्वारा न सम्भवति । तत्र हेतु:- प्रतिबन्धकेति- तत्त्वज्ञानोत्पत्तिप्रतिबन्धकदुरितानुच्छेदे प्रतिबन्धकाभावरूपकारणाभावात् तत्त्वज्ञानोत्पत्तिर्न स्यादेवेत्यदृष्टसहस्रस्याप्यकिञ्चित्करत्वात् तत्त्वज्ञानानुत्पादकत्वादित्यर्थः । तदुच्छेदेन तत्त्वज्ञानोत्पत्तिप्रतिबन्धकदुरितोच्छेदेन । तजनने तु तत्त्वज्ञानजनते तु । “प्रमान्तरा" इत्यस्य स्थाने "प्रमाणान्तरा" इति पाठो युक्तः, प्रमाणान्तरेण-कर्मकारणत्वान्यथानुपपत्तिव्यतिरिक्तप्रमाणेन, अवधृतः-निश्चितः, प्रमाणान्तरावधृतः, कारणमावः- कारणत्वं यस्य स प्रमाणान्तरावधृतकारणभावस्तेन प्रतिबन्धकाभावेनैव तत्त्वज्ञान प्रति कर्मणोऽन्यथासिद्धरित्यर्थः । यदि व्यापारेण व्यापारिणोऽन्यथासिद्धिस्तदाऽपूर्वेण यागस्यान्यथासिद्धिः स्यादित्याशङ्कय प्रतिक्षिपतिन चेति । एवं व्यापारेण व्यापारिणोऽन्यथासिद्धरुपगमे । निषेधहेतुमाह- तस्येति- अपूर्वस्येत्यर्थः । यागेति- दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति श्रुत्या यो दर्शपूर्णमासादियागस्य स्वर्ग प्रति कारणत्वग्रहस्तदुत्तरकाले अपूर्वमन्तरेण यागस्य चिरध्वस्तस्य स्वर्ग प्रति कारणत्वमनुपपन्नमित्यनुपपत्तिप्रतिसन्धानतः कल्प्यत्वेनोपजीव्यं यद् यागस्य स्वर्ग प्रति कारणत्वं तस्याविरोधित्वादित्यर्थः । इह तु तत्त्वज्ञानस्थले तु । प्रागेव कर्मकारणत्वग्रहतः पूर्वमेव । अवधारणात् निश्चयात् । इति विशेषात् एवम्भूतविशेषस्य सद्भावादपूर्वेण यागादेन न्यथासिद्धिः दुरितनिवृत्त्या च कर्मणोऽन्यथासिद्धिः स्यादेवत्यर्थः । अत एवेत्यस्येति सिद्धान्त इत्यनेनान्वयः, अत एव-सिद्धकारणभावेन व्यापारण व्यापारिणोऽन्यथासिद्धत्वादेव । मलेति-मङ्गलस्य समाप्तिप्रतिबन्धकदुरितनिवृत्तिमात्रफलकत्वं कारीरीयागस्य वृष्टिप्रतिबन्धकदुरितनिवृत्तिमात्रफलकत्वम् , मात्रपदेन समाप्तिफलकत्व-वृष्टिफलकत्वयोर्यवच्छेदः । यदि मङ्गलात् समाप्तिर्न भवति कारीरीयागाद् वृष्टिश्च न भवति तर्हि समाप्तिवृष्टी कुतो भवत इत्यपेक्षायामाह-वृष्टि-समाप्ती त्विति । तत्त्वज्ञानमेव मोक्षसाधनं कर्माणि तु तत्रान्यथा Page #478 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समनहतो नयोपदेशः । किञ्च, कर्मकारणताग्रहानुपजीवनेन लौकिकान्वय-व्यतिरेकावधृतमिथ्याज्ञाननिवर्त[न]भावसम्भावितस्य मोक्षसाधनत्वस्य "ज्ञानादेव तु कैवल्यम्" [ "तरति शोकमात्मवित्" [छां० ७. १. ३.] "ब्रह्मविदाप्नोति परं" [तैत्ति० २. १. १+भस्मजा २. ७.] " ब्रह्मविद् ब्रह्मैव भवति" [ ___] इत्यादि श्रुति स्मृतिशतेन तत्त्वज्ञानस्येष्टतया ग्रहणात् तदेव मोक्षसाधनम् , कर्माणि तु तत्रैवा. न्यथासिद्धानीत्युक्तम् , यथा च न तत्रापि व्यापारस्तथोक्तमेव, अत एवार्थावबोधपर्यन्तताऽध्ययनविधेः, न तु तेन क्रत्वनुष्ठानेन स्वर्गादिफलकत्वमिति सम्प्रदायः । न च तत्त्वज्ञानस्य कर्मणां नि:श्रेसप्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपतदनुकूलताबोधने एव तात्पर्यात् , श्रुत्यन्तरसिद्धेऽन्यथासिद्धत्वे तदनन्यथासिद्धताया बोधयितुमशक्यत्वात् , तावतैव श्रुतेः 'कर्मप्रवृत्तिपरतानिर्वाहाद्' इत्याहुः। अत्र वयं वदामः- मोक्षस्तावत् पुरुषार्थत्वाद् दुःखसाधनध्वंस एव, न तु दुःखध्वंसः, उत्पन्ना-ऽनुत्पन्नविवेकेन तद्ध्वंसस्यासाध्यत्वात्, तत्र च ज्ञान-कर्मणोजात्येन मुमुक्षुविहितत्वादिना वा हेतुत्वं तुल्यमेवे. सिद्धानीत्युपपादकं प्रकारान्तरं दर्शयति-किश्चेति । कर्मेति- मोक्ष प्रति कर्मणां कारणत्वं नोपजीवति तत्त्वज्ञानस्य मोक्षं प्रति कारणत्वमिति कर्मकारणतानुपजीवनेन, अस्य मोक्षसाधनत्वस्येत्यनेनान्वयः । लौकिकेति- लौकिकौ-लौकिकप्रत्यक्षादिप्रमाणसिद्धौ, यावन्वय-व्यतिरेको ताभ्यामवधृतं- निश्चितं यत् तत्त्वज्ञानेन मिथ्याज्ञानस्य निवर्तनम् , यथा शुक्तित्वरूपशुक्तितत्त्वज्ञानेन शुक्ती रजतत्वज्ञानलक्षणमिथ्याज्ञानस्य निवर्तनम् , तद्भावसम्भावितस्य मोक्षसाधनत्वस्य, तत्त्वज्ञानेन मिथ्याज्ञाननिवृत्तिरन्यत्र दृष्टेति प्रकृतेऽप्यात्मतत्त्वज्ञानेन मिथ्याज्ञाननिवृत्तिस्ततश्च मोक्ष: सम्भवतीत्येवं सम्भावितस्य मिथ्याज्ञाननिवृत्तिद्वारा तत्त्वज्ञाने मोक्षसाधनत्वस्येत्यर्थः । इत्थं सम्भावनात्मकं तत्वज्ञाने इष्टसाधनत्वस्य ग्रहणमुपदर्य स्पष्टमपि तङ्ग्रहणं श्रुति-स्मृतिप्रभवमुपदर्शयति-ज्ञानादेवेति । "तत्त्वज्ञानस्येष्टतया" इत्यस्य स्थाने "तत्त्वज्ञाने स्पष्टतया" इति पाठो युक्तः, मोक्षसाधनत्वस्य तत्त्वज्ञाने स्पष्टतया ग्रहणादित्येवमन्वयो बोध्यः, अर्थस्तु स्पष्टः । तदेव मोक्षसाधनं तत्त्वज्ञानमेव मोक्षसाधनम्, एषकारेण कर्मणां मोक्षसाधनत्वस्य व्यवच्छेदः । तत्रैव तत्त्वज्ञान एव । तत्रापि तत्त्वज्ञानेऽपि । यथा च येन प्रकारेण । न व्यापारः कर्मणो न व्यापारः । तथोकमेव तथापूर्वमभिहितमेव । उतार्थे संप्रदायसंवादमुपदर्शयति-अत एवेति-अन्यथासिद्धत्वादेवेत्यर्थः। अर्थावबोधपर्यन्तता अर्थावबोधमात्रफलकता। अध्ययनविधेः स्वाध्यायोऽध्येतव्य इति विधेः । न त्विति- अध्ययनविधितोऽर्थान्वयबोधस्तेन क्रत्वनुष्ठानं तेन चादृष्टद्वारा स्वर्गादिफलमित्येवं स्वर्गादिफलकत्वं नाध्ययनविधेरन्यथासिद्धत्वात् । इति एवं स्वरूपः । सम्प्रदायः सङ्गच्छते इत्यर्थः । "न च तत्त्वज्ञानस्य" इत्यस्य स्थाने " न च श्रुतिस्तत्त्वज्ञानस्येव कर्मणामपि मोक्षजनकत्वं बोधयतीति वाच्यम. श्रुतेः" इति पाठो भवितुमर्हति, यथा श्रुतिस्तत्त्वज्ञानस्य मोक्षजनकत्वप्रतिपादिका समस्ति तथा कर्मणामपि मोक्षजनकत्वप्रतिपादिका श्रुतिः समस्ति, एवं च श्रुतिस्तत्त्वज्ञानस्य यथा मोक्षजनकत्वं बोधयति तथा कर्मणामपि मोक्षजनकत्वं बोधयतीति श्रुतिसिद्धं कर्मणां मोक्षजनकत्वमिति न च वाच्यम् , कर्मणां मोक्षजनकत्वप्रतिपादकतयाऽभिमतायाः श्रुतर्मोक्षप्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपमोक्षानुकूलत्वबोधन एव तात्पर्यात् , एवकारण अनन्यथासिद्धत्वे सति निःश्रेयसप्रागभावव्याप्यप्रागभावप्रतियोगित्वलक्षणनिःश्रेयसजनकत्वबोधने तात्पर्यस्य व्यवच्छेदः, अनन्यथासिद्धत्वोक्तस्वरूपकारणत्वावबोधने कुतो न तात्पर्यमित्यपेक्षायामाह-श्रुत्यन्तरसिद्ध इति । तावतैव कर्मणामुक्तस्वरूपानुकूलत्वबोधनेनैव । ज्ञान-कर्मणोईयोरेव समकक्षतया मोक्षजनकत्वस्वीकर्तणां जनानां मतमुपदर्शयति- अत्रेति- निरुक्तविचार इत्यर्थः । वयं स्याद्वादिनः । वदामः कथयामः । कथं दुःखध्वंसो न मोक्षस्तस्यापि पुरुषार्थत्वादित्याकालायामाहउत्पन्नेति- उत्पन्नदःखध्वंसो मोक्षोऽनुत्पन्नदुःखध्वंसो वा, तत्र दुःखस्य साक्षात्कारनियमादुत्पन्नदुःखस्यस्वोत्तरोत्पन्नस्वसाक्षात्कारेणैव निवृत्तेस्तदात्मकस्य मोक्षस्य पुरुषप्रयत्नासाध्यत्वान्न पुरुषार्थत्वम्, प्रतियोगितासम्बन्धेन ध्वंसं प्रति तदात्मसम्बन्धेन प्रतियोगिनोऽपि कारणत्वमित्यनुत्पन्नदुःखरूपप्रतियोगिनः पूर्वमभावेन तद्रूपकारणाभावादनुत्पन्न Page #479 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी - तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । त्येकतरपक्षपातो न श्रेयान् ज्ञाने केवलज्ञानस्वरूपस्य कर्मणि च यथाख्यात चारित्रस्वरूपस्य वैजात्यस्य कल्पनायाः क्षायिकस्थले क्षायोपशमिकस्थले च तदनुकूलतामात्रस्य द्वयोस्तुल्ययोगक्षेमत्वादिति, एतेन कारणोच्छेदक्रमेण कार्योच्छेदान्मुक्तिरिति ज्ञानं कर्मसहिकारित्वं मिथ्याज्ञानोन्मूलने, कर्मविनाकृतस्यैव तस्य दिग्मोहादौ हेतुत्वावधारणादिति निरस्तम्, मिथ्याज्ञाननाशेऽपि विरोधिगुणमात्रस्य हेतुत्वान्मिथ्याज्ञानप्रागभावाऽसहवृत्तिमिध्याज्ञानध्वंसे च हेतुताया लोकप्रमाणाविषयत्वेन ज्ञान- कर्मणोर्द्वयोरेव कल्पनौचित्यात् वस्तुत अर्थसमाजसिद्धत्वात् तद्रूपावच्छिन्नेऽपि न हेतुता, किन्तु सामान्यावच्छिन्नध्वंसनये कर्मत्वावच्छिन्नध्वंसे तत्समयावत्कर्मक्ष्य समनियतक्षायिक सुखत्वावच्छिन्ने वेति न roa दुःखध्वंसः सम्भवत्येव नेत्यसम्भवितस्य तस्य सुतरामेवासाध्यत्वादतः पुरुषार्थत्वाभावान्न दुःखध्वंसो मोक्ष इत्यर्थः । तत्र च दुःखसाधनध्वंसरूपमोक्षे च । वैजात्येनेत्यस्य हेतुत्वमित्यनेनान्वयः, विजातीयज्ञानत्वेन विजातीयकर्मत्वेन कारणत्वम् । वा अथव' । मुमुक्षविहतत्वादिना मुमुक्षावहितज्ञानत्वेन मुमुक्षविहितकर्मत्वेन कारणत्वम्, तुल्यमेव समानमेव । इति एतस्मात् कारणात् । एकतर पक्षपातः ज्ञानमेव कारणं न कर्मेति कर्मैव कारणं न ज्ञानमित्येवमेकतरपक्षपातः । न श्रेयान् नातीवरमणीयः । ज्ञान इति - क्षायिकस्थले ज्ञाने केवलज्ञानत्वरूपस्य वैजात्यस्य कर्मणि यथाख्यातचारित्रस्वरूपस्य वैजात्यस्य च कल्पनायाः, क्षायोपशमिकस्थले तु तदनुकूलतामात्रस्य मोक्षानुकूलतामात्रस्य द्वयोः ज्ञानकर्मणोः कल्पनायास्तुल्ययोगक्षमत्वादित्यन्वयः, अर्थस्तु व्यक्तः । एतेनेत्यस्य निरस्तमित्यनेनान्वयः । कारणोच्छेदक्रमेणेति- ''दुःख-जन्म-प्रवृत्ति दोष- मिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायान्मोक्षः " इति गौतमसूत्रम्, तत्र मिथ्याज्ञानं रागद्वषलक्षणदोषस्य कारणमिति मिथ्याज्ञानरूपकारणोच्छेदाद् दोषरूपकार्यस्योच्छेदः, रागद्वेषलक्षणदोषश्च प्रवृत्तेः कारणमिति दोषरूपकारणोच्छेदात् प्रवृत्तिरूपकार्यस्योच्छेदः, प्रवृत्तिश्व विहितनिषिद्धकर्मविषयिणी अदृष्टद्वारा जन्मनः कारणमिति प्रवृत्तिरूपकारणोच्छेदाज्जन्मलक्षणकार्यस्योच्छेदः, जन्म च दुःखस्य कारणमिति जन्मलक्षण कारणोच्छेदाद् दुःखध्वंसो भवति, स एव मोक्ष इत्येवं कारणोच्छेदक्रमेण कार्योच्छेदान्मुक्तिरित्यर्थः । इति एतस्मात् कारणात् । ज्ञानं कर्म सहकारित्वं मिथ्याज्ञानोन्मूलने ” इत्यस्य स्थाने " ज्ञाने कर्म सहकारित्वं न ज्ञानोन्मूलने " इति पाठो युक्तः । कथं न ज्ञाने कर्मसहकारित्वमित्यपेक्षायामाह - कर्म विनाकृतस्यैवेति-- कर्म र द्वितस्यैवेत्यर्थः । तस्य ज्ञानस्य । हेतुत्वावधारणात् निवृत्तिहेतुत्वनिर्णयात् । एतेनेत्यदिष्टमेव निरासहेतुं प्रकटयति- मिथ्याज्ञाननाशेऽपीति । मिथ्याज्ञानप्रागभावासहवृत्तीति- यन्मिथ्याज्ञानध्वंसानन्तरं मिथ्याज्ञानं तत् पुरुषस्य न भविष्यति, स एव मिथ्याज्ञानध्वंसः स्वसमानाधिकरणमिथ्याज्ञानप्रागभावासह वृत्तिः, स्वसमानाधिकरणत्वं च मिथ्याज्ञानप्रागभावविशेषणमवश्यमुपादेयम्, अन्यथेदानीं मुक्तस्य कस्यचित् पुंसो दुःखध्वंसोऽपि बद्धपुरुषीयदुःखप्रागभावसमानकालीन एवेति दुःखप्रागभावासह वृत्तित्वेन तच्चरमदुःखध्वंसस्यापि मुक्तित्वं न स्यादिति बोध्यम् । हेतुतायाः तत्त्वज्ञानस्य हेतुतायाः । लोकप्रमाणाविषयत्वेनेति - नहि लौकिकप्रमाणानि प्रत्यक्षानुमानादीनि चरमदुःखध्वंसं प्रति तत्त्वज्ञानं कारणमित्येवं विषयीकुर्वन्तीत्यतश्चरमदुःखध्वंसं प्रति तत्त्वज्ञानस्य कारणताया लोकप्रमाणाविषयत्वेनेत्यर्थः तथा चालौकिकागमप्रमाणेन तन्मूलकसामान्यतो दृष्टानुमानेन च चरमदुःखध्वंसं प्रति तत्त्वज्ञानस्य कारणत्वं कल्पनीयमिति तदलौकिकप्रमाणस्य ज्ञान - कर्मणोर्द्वयोरपि चरमदुःखध्वंसं प्रति कारणत्वे प्रवृत्तेरिति द्वयोरपि चरमदुःखध्वंसं प्रति हेतुत्वकल्पनमुचितमित्यर्थः । किञ्च, स्वसामानाधिकरण्य मिथ्याज्ञान प्रागभावासद्वृत्तित्व- मिथ्याज्ञानध्वंसत्वरूपविभिन्नसामग्री प्रयोज्याने कधर्म घटितत्वेन स्वसमानाधिकरण दुःखप्रागभावासह वृत्तिदुःखध्वसत्वस्यानेकसामग्री नियम्यत्व लक्षणार्थ समाजसिद्धत्वान्न किञ्चिन्निरूपित कार्यतावच्छेदकत्वमिति न तदवच्छिन्ने तत्त्वज्ञानस्य हेतुता सम्भवतीत्याह- वस्तुत इति । तद्रूपावच्छिन्नेति - स्वसमानाधिकरणदुःखप्रागभावासदवृत्तिदुःखध्वंसत्वाच्छिन्नेऽपि । न हेतुता न तत्त्वज्ञानस्य कारणता । तर्हि कस्मिन् कार्ये तत्त्वज्ञानस्य कारणतेति पृच्छति - किन्त्विति । उत्तरयति - सामान्यावच्छिन्नध्वंसनय इतिसामान्यधर्मावच्छिन्न प्रतियोगिताकध्वसंस्वीकारपक्षे इत्यर्थः, घटवत्ताबुद्धिं प्रति घटाभाववत्ता निश्चयस्य प्रतिबन्धकत्वम्, तत्र यदि घटत्वावच्छिन्नप्रकार तानिरूपित भूतलत्वाद्यवच्छिन्न विशेष्यताक बुद्धित्वावच्छिन्न प्रतिबध्यतानिरूपित घटनिष्ठप्रतियोगिताकात्य Page #480 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। कस्यापि न्यूनत्वं पराभिमतद्वारस्थाने एव फलाभिषेकात् , एकपुरस्कारेणान्यनिराकरणवचनं च तत्तदर्थवाद एवेति न कर्मकारणताबोधकवचनेऽनुकूलत्वमात्रमर्थः, कारणताशक्तपदस्यानुकूलत्वे लक्षणायां न्ताभावत्वावच्छिन्नप्रकारतानिरूपितभूतलवाद्यवच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्नप्रतिबन्धकतेत्येवं प्रतिबध्य-प्रतिबन्धकभाव उपेयते तदा घटवद्भूतलमिति बुद्धिं प्रति तद्धटाभाववद्भूतलमिति निश्चयस्यापि प्रतिबन्धकत्वं स्यात् , तद्धटाभावस्यापि घटनिष्ठप्रतियोगिताकत्वेन तद्वत्तानिश्चयस्यापि निरुक्तप्रतिबन्धकतावच्छेदकधर्माकान्तत्वादतो घटत्वावच्छिन्नप्रकारतानिरूपितभूतलत्वाद्यवच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्न प्रतिबध्यतानिरूपित घटत्वावच्छिन्नप्रतियोगिताकात्यन्ताभावत्वावच्छिन्नप्रकारतानिरूपितभूतलवाद्यवच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्नप्रतिबन्धकतेत्येवमेव प्रतिबध्य-प्रतिबन्धकमाव इति तद्धटात्यन्ताभावस्य घटत्वावच्छिन्नप्रतियोगिताकत्वाभावेन निरुक्तप्रतिबन्धकत्वस्य तद्धटाभाववत्तानिश्चये वारणं सम्भवतीत्येवं प्रतिबध्य-प्रतिबन्धकभावानुरोधेनात्यन्ताभावस्य सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वं स्वीक्रियते; तथा घटत्ववत्ताबुद्धिं प्रति घटभेदवत्तानिश्चयस्य प्रतिबन्धकत्वम् तत्रापि घटत्वत्वेतरधर्मानवच्छिन्नघटत्वनिष्ठप्रकारतानिरूपितेदन्त्वाद्यवच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपितघटनिष्ठप्रतियोगिकभेदत्वावच्छिन्नप्रकारतानिरूपितेदनत्वावच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्न प्रतिबन्धकतेत्येवं प्रतिबध्य-प्रतिबन्धकभावो यद्यपेयते तदाऽयं घट इति बुद्धि प्रति नायं तद्धट इति निश्चयस्यापि प्रतिबन्धकत्वं स्यात् तद्धटभेदस्यापि घटनिष्ठप्रतियोगिताकत्वेन तद्वतानिश्चयस्यापि निरुतप्रतिबन्धकतावच्छेदकधर्माकान्तत्वादतो घटत्वेतरधर्मावच्छिन्नघटत्वनिष्ठप्रकारतानिरूपिते इन्वाद्यवच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्न प्रतिवध्यतानिरूपितघटत्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्न प्रकारतानिरूपितेदन्वायवच्छिन्नविशेष्यताकनिश्चयत्वाद्यवच्छिन्न प्रतिबन्धकतेत्येवं प्रतिबध्ध प्रतिबन्धकभावो वाच्यः, तटभेदस्य घटत्वावच्छिन्नप्रतियोगिताकत्वाभावान तद्वत्तानिश्वयस्य प्रतिबन्धकत्वापत्तिः, घटत्वनिष्ठप्रकारताया घटत्वत्वेतरधर्मानवच्छिन्नत्वेन निवेशादयं घट इति घटत्ववानिति च बुद्धयोः प्रतिबध्यत्वोपपत्तिः, सामान्यवानयमिति बुद्धश्च नायं घट इति निश्चयप्रतिबध्यत्वानापत्तिश्चेत्येवं प्रतिबध्यप्रतिबन्धकभावानुरोधेन भेदस्यापि सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वमुपेयते; ध्वंस-प्रागभाव चेकैकप्रतियोगिकावेव, न त्वेकघटधंसप्रागभावावन्य घटप्रतियोगिको स्तः, तौ च स्वप्रतियोगिसमवायिवर्तिनाविति यत्रैव कपाले तद्धटो वर्तते तत्रवैतद्धटोत्पत्तितः प्राकाले एतद्धटप्रागभावो वर्तते, एतद्धटाधिकरणचरमसमयानन्तरसमये चैतद्धटध्वंसो वर्तत इत्येवं स्वरूपतः स्वप्रागभाव-ध्वंसाभ्यां समं नास्त्येतद्धटस्य विरोधः, किन्तु यद्येसमयावच्छेदेनैतद्धटध्वंस-प्रागभावौ तत्तत्समयावच्छेदेन तदधिकरणीभूतकपाले नैतद्घट इति पूर्वोतरसमयावुपादायैव विरोध इति तत्समयावच्छिन्नसमवायेन तद्धटवत्ताबुद्धि प्रति तत्समयावच्छिन्नस्वरूपेण तद्धटप्रागभाववत्तानिश्चयस्य तत्समयावच्छिन्नस्वरूपेण तद्घटध्वंसवत्तानिश्चयस्य च प्रतिबन्धकत्वमिति तत्र तत्तद्घटनिष्ठप्रतियोगिताकत्वेन प्रागभाव-ध्वंसयोः प्रवेशेऽपि घटान्तरध्वंस घटान्तरप्रागभावयोस्तद्घनिष्ठप्रतियोगिताकत्वाभावादेव न तद्वत्तानिश्चयस्य प्रतिबन्धकत्वापत्तिरिति प्रतिबध्यप्रतिबन्धकभावस्य ध्वंस-प्रागभावयोः किञ्चिद्धर्भावच्छिन्नप्रतियोगिताकत्वस्वीकारमन्तरेणाप्युपपत्तेः किञ्चिद्धर्मावच्छिन्नप्रतियोगिताकत्व एव तयोर्भानं नास्ति, किमु वक्तव्यं तयोः सामान्यधर्नावच्छिन्नकत्वे इति विवादसूचनायोक्तं सामान्यावच्छिन्नध्वंसनय इति- घट-घटप्रागभावानधिकरणसमयवृत्तित्वावच्छेदेन तद्घटध्वंसे घटत्वावच्छिन्नप्रतियोगिताकत्वं घट घटप्रागभावाधिकरणसमयवृत्तित्वावच्छेदेन घटत्वावच्छिन्नप्रतियोगिताकत्वभाव इत्येवमव्याप्यवृत्तिघटत्वावच्छिन्नप्रतियोगिताकत्वं ध्वंसे, यथा विशेषाभावकूटातिरिक्तसामान्याभावानभ्युपगन्तृनये विशेषाभावकूटत्वावच्छेन सामान्यधर्मावच्छिन्न प्रतियोगिताकत्वं तत्तद्विशेषाभावत्वावच्छेदेन सामान्यधर्मावच्छिन्नप्रतियोगिकत्वाभाव इति ध्वंसे सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वाभ्युपगन्तुरभिप्रायः । कर्मत्वावच्छिन्नध्वंसे कर्मत्वावच्छिन्नप्रतियोगिताकध्वंसे तत्पुरुषीयकर्मतत्प्रागभाव नधिकरणसमयवृत्तित्वोफ्लक्षिते कर्मत्वावच्छिन्नप्रतियोगिताकध्वंस इति यावत् , ज्ञानस्य हेतुतेति प्रकरणालभ्यते। वा अथवा । “तत्समयावत्" इत्यस्य स्थाने "तत्समययावत्" इति पाठो युक्तः, तत्समयः- क्षायिकसुखत्वावच्छिन्नसमयवृत्तिः केवलज्ञानसमयवृत्तिा यो यावत्कर्मक्षयस्तत्समनियतं यत् सुखत्वावच्छिन्नं तत्र ज्ञानस्य हेतुतेत्यर्थः । इति एवं स्वीकारे । न कस्यापि न्यनत्वं न किञ्चिदपि हीयते, यज्ज्ञानकर्मणोरितयाऽभिमतं ज्ञानमल्याद्यपूर्व वा तत्स्थान एव फलस्य क्षायिकस्य सुखस्याभिषेकात्-स्थापनादित्यर्थः । यच ज्ञानमेव कारणं न कर्मेति कमैव कारणं न ज्ञानमिति वचनं तज्ज्ञानस्य ५२ Page #481 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । गौरवात्, अन्यथासिद्धिचतुष्टयराहित्यगर्भत्वेन तत्र लाघत्रमिति दृष्टिदाने च विधिप्रत्य [य] मात्रार्थीsपीष्टानुकूलत्वमात्रमेव स्यादिति यागादेरप्यपूर्वेणान्यथासिद्धिः कर्मणां न तत्रज्ञाने नवा तद्द्वारा मुक्तौ हेतुत्वमित्युक्तम्, तदपि न युक्तम्, प्रतिबन्धकत्वस्य विशिष्य विश्रामेण तदभावत्वेन कार्यमात्रेऽनुगतहेतुताया अयोगात्, प्रतिबन्धक विशेष निवृत्तिहेतुतायाश्च कर्मकारणतामहोत्तरकल्पनीयत्वेन तदन्यथासिध्यनापादकत्वात्, किश्च प्रतिबन्धकनिवृत्त्यान्यथासिद्धत्वेन कर्मणोऽहेतुत्वोक्तौ तत्त्वज्ञानस्य सुतरां तथात्वं स्यात्, नह्युत्पन्नकेवलज्ञाना अपि भवोपग्राहि कर्मचतुष्टयं प्रतिबन्धकनिवर्तयित्वा सद्य एव मुक्तिमासादयन्ति इति मुक्तिप्रबन्धककर्म निवर्तकत्वेन तत्त्वज्ञानस्य कुतो नान्यथासिद्धिः । अथ कर्मणो कर्मणो वा प्रशंसापरं न त्वेकमेव कारणमन्यन्न कारणमित्येतत् परमित्याह एकपुरस्कारेणेति । इति एवं व्यवस्थितौ । नेत्यस्य अर्थ इत्यनेनान्वयः । कर्मकारणताबोधकवचने कर्मणो मुक्ति प्रति कारणत्वबोधकं यद् वचनं तस्मिन् । अनुकूलत्वमात्रं निःश्रेयस प्रागभावव्याप्य प्रागभावप्रतियोगित्वरूग्मोक्षानुकूलत्वमात्रम् अत्र मात्रपदे नान्यथासिद्धिशून्यत्वे सति मोक्षप्रागभावव्याप्य प्रागभावप्रतियोगित्वरूपमोक्ष कारणत्वस्य व्यवच्छेदः । निषेत्रे हेतुमाह- कारण ताशक्तपदस्येति । ननु यत् कार्यं प्रति यस्य येन धर्मेण कारणत्वं स धर्मः प्रथमोऽन्यथासिद्ध:, यस्य यत् कार्यं प्रति स्वातन्त्र्येणान्वयव्यतिरेकौ न गृह्येते किन्तु तत्कार्यकारणमादायैवान्वयव्यतिरेकौ गृह्येते स तत् कार्यं प्रति द्वितीयोऽन्यथासिद्ध: यस्य यत्कार्यकारणभिन्नं प्रति पूर्ववर्तित्वं गृहीत्वैव यत् कार्यं प्रति पूर्ववर्तित्वं गृह्यते स तत् कार्यं प्रति तृतीयोऽन्यथासिद्धः यस्य यत्कार्यकारणं प्रति पूर्ववर्तित्वं गृहीत्वैव यत् कार्य प्रति पूर्ववर्तित्वं गृह्यते स तत् कार्यं प्रति चतुर्थोऽन्यथासिद्धः, अवश्यक्लृप्तनियतपूर्ववर्तिभिन्नञ्च पञ्चमोऽन्यथासिद्ध इत्येवंलक्षणलक्षिताऽन्यथासिद्धपञ्चकभिन्नत्वे सति नियतपूर्ववर्तित्वरूपकारणत्वापेक्षया पञ्चमान्यथासिद्धभिन्नत्वत्वा घटित मन्यथासिद्ध चतुष्टय भिन्नत्वे सति नियतपूर्ववर्तित्वरूपानुकूलत्वं लघुभूतमिति तत्परत्वमेव कर्मकारणतावोधकवचने युकमित्यत आह- अन्यथासिद्धिचतुष्टय राहित्यगर्भत्वेनेति । तत्र अनुकूलत्वे । लाघवं कारणत्वापेक्षया लाघवम् । इति दृष्टिदाने च एवं पर्यालोचने च । स्वर्गकामो दर्श- पूर्णमासाभ्यां यजेतेत्यादिवचनेऽपि विध्यर्थत्वमिष्टसाधनत्वापेक्षया लघुभूते इष्टानुकूलत्वे एव भवेदिति यागादेरप्यपूर्वेणान्यथासिद्धिः स्यादतो लघुभूतमप्यनुकूलत्वं परित्यज्य कारणत्वमेवार्थ इति कर्मणो निःश्रेयसकारणत्वं तत्प्रतिपादकागमवचनात् सिद्धयतीत्याह - विधिप्रत्ययेति - यथा च कार्यमात्रं प्रति प्रतिबन्धकाभावत्वेन प्रतिबन्धका भावस्य कारणत्वमिति प्रतिबन्धकाभावविषया क्लृप्तकारणताकेन निःश्रेयसप्रतिबन्धक दुरितध्वंसेन कर्मणोऽसिद्धिस्तथा कार्यमात्रं प्रत्यदृष्टत्वेनादृष्टस्य कारणत्वमिति क्लृप्तकारणतांकेनापूर्वेण यागादिकारणतानुपजीवनेनैव कलितेन यागादेरन्यथासिद्धिरित्यस्य वक्तुं शक्यत्वादित्यर्थः । अन्यदपि तत्त्वज्ञानं प्रति तद्द्वारा मुक्ति प्रति च कर्मणां कारणत्वाभावावेदकं वचनं पूर्वमुक्तं तदपि न युक्तमित्याह- यदपीति कर्मणां न तत्त्वज्ञाने हेतुत्वं तद्द्वारा मुक्तौ न हेतुत्वमित्यर्थः । तद्द्द्वारा तत्त्वज्ञानद्वारा । युक्तत्वाभावे हेतुमाह- प्रतिबन्धकत्वस्येति- एतत्कार्यं प्रतीदं प्रतिबन्धकमेतच्चाभुक्तं प्रति प्रतिबन्धकमित्थं विशेषरूपणं प्रतिबध्य- प्रतिबन्धकभावस्य विश्रामेण कार्यत्वावच्छिन्नं प्रति सामान्यतः प्रतिबन्धकाभावत्वेन कारणत्वस्याभावादित्यर्थः । प्रतिबन्धकविशेषनिवृत्यैव तन्निवृत्तित्वलक्षणविशेषधर्मेण मुक्ति प्रति कारणतया क्लृप्तया कर्मणामन्यथासिद्धिरस्त्वित्यत आह- प्रतिबन्धकविशेषेति कर्मणां मुक्तिं प्रति कारणत्वस्य ग्रहे कर्म. कारणत्वप्रतिपादकवचनेन जाते सति चिरध्वस्तानां कर्मणां स्वतो मुक्त्यव्यवहितपूर्ववर्तित्वस्याभावे स्वव्यापारवत्त्वसम्बन्धेन मुक्त्यव्यवहितपूर्ववर्तित्वादेव कारणत्वं भवेन्नान्यथेत्येवं मुक्तिं प्रति कारणत्वान्यथानुपपत्त्यां कर्मकारणत्वप्रहोत्तरकालं प्रतिबन्धकविशेषनिवृत्तेर्मुक्ति प्रति कारणत्वस्य कल्पनीयत्वेन तस्य कर्मान्यथासिद्धचनापादकत्वादित्यर्थः । अपि च प्रतिबन्धक निवृत्त्याऽन्यथासिद्धत्वेन कर्मणां मुक्तिं प्रति कारणत्वाभावे तत्त्वज्ञानस्यापि प्रतिबन्धकनिवृत्त्याऽन्यथासिद्धत्वेन मुक्ति प्रति कारणत्वं न स्यादित्याह- किञ्चेति । तथात्वं स्यात् मुक्ति प्रत्यकारणत्वं भवेत् । तत्त्वज्ञानस्यापि प्रबन्धकनिवृत्तिद्वारेव मुक्ति प्रति कारणत्वं नान्यथेत्यतः प्रतिबन्धकनिवृत्त्या तस्याप्यन्यथासिद्धत्वं वक्तुं शक्यमेवेत्याह- नहीति - अस्य — आसादयन्ति ' इत्यनेनान्वयः । ननु तत्त्वज्ञानस्य कर्मनिवृत्तिद्वारा मोक्षं प्रति कारणत्वेऽभ्युपगम्यमाने सत्येव कर्मनिवृत्त्या ४१० Page #482 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो मयोपदेशः । भोगनाश्यत्वेन ज्ञानस्य तदनाशकत्वान्नान्यथासिद्धिः, नहि भोगस्तत्त्वज्ञानव्यापारः, तथाऽश्रवणात्, तेन विनापि कर्मण एव तदुत्पत्तेश्च न च वासुदेवादीनां कायव्यूहश्रवणात् तत्वज्ञानेन कायव्यूहमुत्पाद्य भोगद्वारा कर्मक्षय इत्यपि साम्प्रतम्, तपःप्रभावादेव तत्त्वज्ञानानुत्पादेऽपि कायव्यूह - सम्भवात्, भोगजननार्थं कर्मभिरवश्यं तत्सकार्यनिष्पादनमिति न तत्र तत्त्वज्ञानोपयोगः, यौगपद्यं च कायानां तज्जनक कर्मस्वभावात् तपःप्रभावाद् इति, न च " तावदेवास्य चिरं यावन्न विमोक्षोऽथ सम्पत्स्यते कैवल्येन " [ ] इति श्रुतौ तावदेवास्य - उत्पन्नतत्त्वज्ञानस्य, चिरं विलम्बो, यावन्नोत्पन्नकर्मणो विमोक्षः, अथ सम्पत्स्यते कैवल्येन भोगेना ( न ) क्षपयित्वेति शेष:, इति व्याख्यानाद् भोगस्य तत्त्वज्ञानव्यापारत्वं युक्तमेव, न च शेषदाने मानाभावः सत्यपि ज्ञाने कर्मावस्थाने क्लृप्तसामान्यस्य भोगस्यैव नाशकत्वेनाक्षेपादिति वाच्यम्, तत्रज्ञाने सति तत्त्वज्ञानदशायां न मोक्षः किन्तु तदपि क्षण इत्यर्थेनाप्युपपत्तेरिति चेत् ? मैवम्, कर्मणो भोगनाश्यत्वेऽपि ज्ञानस्य कर्मनाशकत्वम्, भोगस्य तत्त्वज्ञाना ( न ) व्यापारत्वात् न च तत्त्वज्ञानं विनापि भोगेन कर्मनाशे व्यभिचारः, कर्मप्रागभावासहवृत्तिकर्मनाशे युगपभोगे वा व्यभिचाराभावादिति मणिकृतैवोक्तत्वात्, अस्मत्सिद्धातत्त्वज्ञानस्याप्यन्यथासिद्धत्वमापादयितुं शक्यम्, न चैत्रम् कर्मणो भोगनिवर्त्यत्वेन तत्त्वज्ञाननिवर्त्यत्वाभावे तत्त्वज्ञानाजन्यायाः प्रतिबन्धककर्मनिर्वृत्तेस्तत्त्वज्ञानव्यापारत्वाभावादित्याशङ्कते - अथेति । तदनाशकत्वात् कर्मनाशकत्वाभावात् । ननु भोगद्वारैव मोक्षं प्रति तत्त्वज्ञानं कारणमिति भोगेनैव तत्त्वज्ञानस्यान्यथासिद्धत्वमापादनीयमित्यत आह- नहीति । तत्र हेतुः - तथाऽश्रवणादिति तत्त्वज्ञानव्यापारतया भोगस्यागमवचनाप्रतिपाद्यत्वादित्यर्थः । भोगस्य तत्त्वज्ञानजन्यत्वे सति तत्त्वज्ञानव्यापारत्वं कल्पयितुं शक्यम्, न च भोगस्य तत्त्वज्ञानजन्यत्वं कर्मण एव भोगोत्पत्तेरित्याह- तेन विनाऽपीतितत्त्वज्ञानमन्तरेणाऽपीत्यर्थः । तदुत्पत्तेः भोगोत्पत्तेः । न चेत्यस्य साम्प्रतमित्यनेनान्वयः । " तत्कार्य निष्पादन " इत्यस्य स्थाने " तत्काय निष्पादन " इति पाठो युक्तः, तत्कायनिष्पादनं भोगजनक काय सम्पादनम् । तत्र भोगजनककायनिष्पादने । नन्वेवं कर्मभिस्तत्तद्भोगजनक कायानां क्रमेण भवनं भवेत् न यौगपद्येन, युगपदुत्पद्यमानानामेव कायानां कायव्यूह शब्द व्यपदेश्यत्वम्, न क्रमोत्पन्नानामिति युगपत्कायसमूहलक्षण कायव्यूहस्तत्त्वज्ञानादेव, तत्र तत्त्वज्ञानोपयोग इत्यत आह- यौगपद्यं चेति - युगपत्कायजनकेत्यर्थः । अचिन्त्यशक्तिश्च तपसामिति तत्प्रभावात् तत्सामर्थ्याद्युगपदनेककायोत्पत्तिरित्येतावता तत्त्वज्ञानमन्तरेणापि कायव्यूहः सम्भवतीत्याह - तपः प्रभावाद वेति । भोगस्य तत्त्वज्ञानव्यापारत्वमाशङ्कय प्रतिक्षिपति न चेति- अस्य वाच्यमित्युत्तरेण सम्बन्धः । तावदेवेति श्रुतेस्तत्त्वज्ञाने भोगव्यापारकत्वावेदकत्वस्पष्टप्रतिपत्तये तद्वयाख्यानमाह - तावदेवेति यावदित्युत्तरापेक्षं तावदिति । अस्येत्यस्य विवरणमुत्पन्नतत्त्वज्ञानस्येति । चिरमित्यस्य विवरण- विलम्ब इति । न विमोक्ष इत्यस्य विवरणं- नोत्पन्नकर्मणो विमोक्ष इति । अथ सम्पत्स्यते इत्यत्र केन सम्पत्स्यते ? कथं सम्पत्स्यते ? इति प्रकार कर्तव्यताकाङ्क्षयोर्निवृत्त्यर्थमाह- कैवल्येन भोगेन क्षपयित्वेति शेष इति- भोगेन प्रारब्धकर्म क्षपयित्वा कैवल्येन स्वस्वरूपमात्रावस्थानलक्षणमोक्षेण सम्पत्स्यते मुक्तो भवतीति यावत् । इति व्याख्यानात् एवंस्वरूपव्याख्यानात् । शेषकरणे मानाभावमाशङ्कय प्रतिक्षिपति - न चेति । शेषदाने शेषकरणे । प्रतिक्षेप हेतुमाह - सत्यपीति । भोगस्य तत्त्वज्ञानव्यापारत्वाशङ्काप्रतिक्षेप हेतुमुपदर्शयति तत्त्वज्ञाने सतीति । " तदपि म्रक्षणे " इत्यस्य स्थाने “ तदपगमक्षणे ” इति पाठो युक्तः, तस्य तत्त्वज्ञानविनाशक्षणे इत्यर्थः । अथ कर्मणो भोगनाश्यत्वेनेत्याद्याशङ्का प्रतिक्षिपति - मैवमिति । 6. ज्ञानस्य कर्मनाशकत्वं, भोगस्य " इत्यस्य स्थाने ज्ञानस्य कर्मनाशकत्वे भोगस्य " इति पाठो युक्तः, यथा कर्मणो भोगनाश्यत्वं श्रुत्या प्रतिपादितं तथा तत्त्वज्ञानस्य कर्मनाशकत्वमपि श्रुत्या प्रतिपादितम्, तत्र श्रुतिप्रतिपादिते ज्ञानस्य कर्मनाशकत्वे भोगस्य तत्त्वज्ञानव्यापारत्वाभावाद् भोगमद्वारीकृत्यैव तत्त्वज्ञानेन कर्मणो नाशसम्भवादित्यर्थः । ननु तत्त्वज्ञानत्वेन कर्मनाशत्वेन च कार्यकारणभावो न भवति, तत्त्वज्ञानाभावेऽपि भोगात् कर्मनाशस्य सम्भवेन तत्र व्यतिरेकव्यभिचारादित्याशङ्कय प्रतिक्षिपति न चेति । " ४११ Page #483 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । न्तेऽपि नाशार्थिप्रवृत्तौ नाश्यनिश्चयविधयैव केवलज्ञानस्य कर्महेतुत्वमनपायम् , तदुक्तं निर्युक्तौ समुद्घाताधिकारे " णाऊण वेयणिज्जं अइबहुअं आऊयं च थोवागं । कम्म पडिलेहेउं वच्चंति जिणा समुग्घायं " ॥ अत्र क्त्वाप्रत्ययबलादेव नियतपौर्वापर्यस्यार्थाच्चानन्यसिद्धत्वस्य प्रतीतेः कारणत्वलाभः । अन्यदप्याभोगवीर्यस्यैव केवलिनः कर्मक्ष यहेतुत्वादाभोगान्वितवीर्यत्वेन वीर्यान्विताभोगत्वेनापि हेतुत्वादुक्तार्थ. सिद्धिः, यत् पुनः " दोषपक्तिमंतिज्ञाना अकिश्चिदपि केवलात् । तमःप्रचयनिःशेषविशुद्धिफलमेव तत् ॥ १॥" इत्यनेन केवलज्ञानस्याकिञ्चित्करत्वमुच्यते तदोषपक्तिरूपकार्यापेक्षया, न तु पकानां भवोपप्राहिणां क्षपणरूपकार्यमाश्रित्य, तत्तद्व्यापारस्य तदा जागरूकत्वात् , यदि च स्वरूपशुद्धिग्राहकनयेन केवलज्ञानस्य निर्व्यापारत्वं स्वीक्रियते तदा यथाख्यातचारित्रात्मकक्रियाया अपि तथात्वमेवाभ्युपगन्तुं युक्तम् , समुद्घातादिना कर्मक्षपणव्यापारस्य योगविशेषेणैव वक्तुं शक्यत्वात् ॥ १ ॥ मुक्तिबन्धहेतुविवेकेन फलशुद्धिग्राहकनयेन तत्र चारित्रहेतुत्वाभ्युपगम्यमानो ज्ञानहेतुतामपि न व्याहन्ति ॥ २ ॥ प्रतिक्षेपहेतुमाह- कर्मप्रागभावासहवृत्तीति- स्वसमानाधिकरणकर्मप्रागभावाधिकरणकालावृत्तीत्यर्थः, न तु स्वसमानाधिकरणकर्मप्रागभावाधिकरणकालवृत्तीत्यर्थः, तथा सति संसारदशाकालीनकर्मनाशस्यापि स्वसमानाधिकरणकर्मप्रागभावानधिकरणमुक्तिकालवृत्तित्वेन निरुक्तकार्यतावच्छेदकाऽऽकान्ततया तस्य तत्त्वज्ञानं विनैव व्यतिरेकव्यभिचारस्तदवस्थः स्यादिति बोध्यम् , कायव्यूहद्वारा युगपद्भोगस्तत्त्वज्ञानादेव भवति, तत्र तत्त्वज्ञानस्य कारणत्वे व्यतिरेकव्यभिचाराभावादित्यर्थः । अस्मसिद्धान्तेऽपि जनैसिद्धान्तेऽपि । “कर्महेतुत्व" इत्यस्य स्थाने "कर्मनाशहेतुत्व" इति पाठो युक्तः । अनपायं निर्विघ्नम्। उक्तार्थे नियुक्तिवचनं प्रमाणयति-तदुक्तमिति । णाउण० इति- “ ज्ञात्वा वेदनीयमतिबहुकमायुष्क च स्तोकम् । कर्म प्रतिलेखितु व्रजन्ति जिनाः समुद्घातम् ॥” इति संस्कृतम् । अत्र उक्तनिरुक्तिवचने। तवाप्रत्ययबलात् णाउण- ज्ञात्वेति त्वाप्रत्ययबलात्, अस्य प्रतीतेरित्यनेनान्वयः, एवं नियतपौर्वापर्यस्येत्यस्यापि तेनैवान्वयः । "नन्यसिद्धत्वस्य" इत्यस्य स्थाने " नन्यथा सिद्धत्वस्य' इति पाठो युक्तः । कारणत्वलाभः। अनन्यथासिद्धत्वे सति नियतपूर्ववर्तित्वस्वरूपं कारणत्वं तस्य घटकयोरनन्यथासिद्धत्व-नियतपूर्ववर्तित्वयोः प्रतीत्या लाभः। अन्यदपीतियुक्त्यन्तरमपि तत्र प्रमाणमित्यर्थः । युक्त्यन्तरमेव दर्शयति- आभोगवीर्यस्यैवेति- आभोगः- उपयोगात्मकज्ञानस्वरूपः, तद्वीर्यस्य कर्मक्षयं प्रति कारणत्वे ज्ञानस्य कर्मक्षयं प्रति कारणत्वमायातमेवेत्याशयः। यत्पुनरित्यस्य 'अकिञ्चित्करत्वमुच्यते' इत्यनेन सम्बन्धः । "ज्ञाना अ" इत्यस्य स्थाने " ज्ञानाद" इति पाठो युक्तः । तमःप्रचयेत्यत्र तम:पदमज्ञानार्थकम् । तत् केवलज्ञानम् । तत् केवलज्ञानस्याकिञ्चित्करत्ववचनम् । “तत्तद्वयापारस्य" इत्यस्य स्थाने " तत्र तद्वयापारस्य " इति पाठो युक्तः । तत्र पक्कभवोपग्राहिकर्मक्षये । तव्यापारस्य तत्त्वज्ञानव्यापारस्य । तदा भवोपग्राहिकर्मणां पक्वतादशायाम् । जागरूकत्वात् अवश्यम्भावात् , यो हि स्वकार्यमवश्यमेव सम्पादयति स तत्र समर्थस्तस्मिन् कार्ये जागरूको न तु तत्र सुप्तः, एवं तझ्यापारोऽपि तथा, जागर-स्वापादीनां ज्ञानाज्ञानाद्यवस्थाविशेषाणां वस्तुगत्या चेतनधर्माणां व्यापारे वस्तुतोऽभावादुपचारादेव तत्तत्कार्येऽवश्यम्भावमुपादाय तथा व्यपदेश इति बोध्यम् । स्वरूपशुद्धिग्राहकनयेनेति- केवलज्ञानं स्वरूपतः शुद्धमेव न तु किञ्चिद्धर्मकलङ्कितमित्येवस्वरूपशुद्धकेवलग्राहिनयेनेत्यर्थः । तथात्वमेव नियापारत्वमेव । ननु यदि यथाख्यात चारित्रात्मिका क्रिया निर्व्यापारा तदा समुद्घातादिना कर्मक्षपणव्यापारः केन भवेदित्यपेक्षायामाह- समुदघातादिनेति । मुक्ति बन्धहेतुविवेकेनेति- अयं मुक्ति हेतुरयं च बन्धहेतुरित्येवं Page #484 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समनतो नयोपदेशः । ४१३ अनन्त[ र ]कारणग्राहकनयेन तत्र चारित्रमेव हेतुरिति चेत् ? न- उत्पत्तावन्तरत्वस्य यथाख्यातचारित्रापेक्षया केवलज्ञान एव सम्भवात् , व्यापारानन्तर्यस्य च कल्प्यमानस्योभयत्राप्यविनिगमात् ॥ ३ ॥ एतेनाक्षेपककारणप्राहकनयेन " जम्हा दसण-नाणा" [ ] इत्यादिवचनाचारित्रमेव मुक्तिहेतुरित्यपि निरस्तम् , आक्षेपकत्वं हि स्वेतरसकलकारणसमवधाननियतसमवधानकत्वम् , तच्च यथाख्यात इव केवलज्ञानेऽपीत्यविशेषात् , क्षयोपशमदशायामप्यपुनर्बन्धकादिचारित्रव्यावृत्तजातिविशेषवतश्चारित्रस्येव विषयप्रतिभासात्मपरिणामज्ञानोप्रभाविततत्वज्ञानस्यापेक्षकत्वाविशेषात् ॥ ४॥ मुख्यै. कशेषनयेन चारित्रमेवोत्कृष्यत इति चेत् ? न- तत्र मुख्यत्वस्यैव विनिगन्तुमशक्यत्वात् ॥ ५॥ पुमर्थप्राहकनयेन क्रियायामेव मुख्यत्वं विनिगम्यत इति चेत् ? न- परमभावग्राहकनयेन ज्ञान एवं तद्विनिगमनायाः सुवचत्वात् " जं सम्मति पासहा तं मोणति पासहा" [ ] इत्यादिवचनात् ॥ ६ ॥ ७ ॥ कारकसम्यक्शरीरनिर्वाहकत्वनयेन चारित्रमेवोत्कृष्यत इति चेत् ? न- " जं अनाणी कम्म खवा ] इत्यादिवचनात् सम्यक्क्रयाशरीरनिर्वाहकत्वनयेन ज्ञानेऽप्युत्कर्षस्य वक्तुं शक्यत्वात् ॥ ८ ॥ ९ ॥ एतेन " णिच्छयणयस्स चरणस्सवघाएण नाण-दसण. वहो वि" [ ] इत्यादिवचनाद् ज्ञाननाशव्याप्यनाशप्रतियोगित्वग्राहकशुद्धनयेन ज्ञानातिशयस्याप्यदुर्वचत्वात् ॥१०॥ व्यापारप्राधान्यग्राहकक्रियानयेन चारित्रोत्कर्ष इत्युक्तावपि दर्शन विभागेन फलबुद्धिप्राहको यो नयस्तेनेत्यर्थः । तत्र मुक्तौ । " चारित्र हेतुत्वाभ्युपगम्यमानो" इत्यस्य स्थाने " चारित्रहेतुताऽभ्युपगम्यमाना" इति पाठो युक्तः, चारित्रस्य कारणता स्वीक्रियमाणा ज्ञानहेतुतामपि मुक्तौ ज्ञानस्य कारणतामपि न व्याहन्ति नैवापाकरोति । शङ्कते- अनन्तरेति- कार्यस्य यदव्यवहितपूर्ववर्ति तदेव कारणमित्यभ्युपगन्तृ. नयेनेत्यर्थः । तत्र मुक्तौ । प्रतिक्षिपति- नेति । उत्पत्ती मुक्त्युत्पत्तौ । उभयत्रापि ज्ञाने चारित्रे च । एतेनेत्यस्य निरस्तमित्यनेनान्वयः । आक्षेपककारणग्राहकनयेन यत् स्वेतरसकलकारणाक्षेपकं तत् कारणमित्यभ्युपगन्तृनयेन । एतेनेत्यतिदिष्ट निरासहेतुमुपदर्शयति- आक्षेपकत्वं हीति। तच्च निरुक्तस्वरूपमाक्षेपकत्वं च । निरुतस्वरूपमाक्षेपकत्वं क्षयोपशमदशायामपि चारित्रविशेषस्येव तत्त्वज्ञानविशेषस्याप्यस्त्येव सम्भव इत्याह-क्षयोपशमशायामपीति । शङ्कतेमुख्यैकशेषनयेनेति- यत्कार्य ययोर्द्वयोर्मध्ये यदेव मुख्यं तदेव कारणमित्यभ्युपगन्तृनयेनेत्यर्थः । समाधते- नेति । तत्र मुक्तौ ज्ञान-चारित्रयोर्मध्ये । शङ्कते-पुमर्थग्राहकनयेनेति- ययोईयोर्मध्ये यः पुमर्थः पुरुषप्रयत्नसाध्यस्तमेव गृह्णातीति तमाहको नयस्तनेत्यर्थः। क्रियायामवेति- क्रियायाः पुरुषप्रयत्नसाध्यत्वेन तस्यामेवेत्यर्थः । समाधत्ते नेति । परमभावप्राहकनयेनेति- यो यस्य परमो भावः स एव तस्य स्वभाव इति ग्राहकनयेनेत्यर्थः । तद्विनिगमनायाः मुख्यत्वसाधकयुक्तः। अत्रागमवचनं प्रमाणयति-जं ति- शङ्कते-कारकेति- न केवलं निर्विशेषित ज्ञानं मोक्षकारक किन्तु सम्यग्ज्ञानमिति कारकं यत् सम्यग्ज्ञानं तस्य यत् सम्यक्त्वं तच्चारित्रसहचरितत्वादेवेति तच्छरीरनिर्वाहकत्वं चारित्रस्यैवं प्राहकनयेनेत्यर्थः । समाधत्ते- नेति । सम्यक्त्वेति- सम्यक्रिया सैव या ज्ञानसहचरितेति सम्यकक्रियाशरीरनिर्वाहकत्वं ज्ञाने इत्येवंग्राहिनयेनेत्यर्थः । एतेनेत्यस्यादुर्वचत्वादित्यनेन सुवच एवेत्यनेन चान्वयः । णिच्छयणयस्स इति “निश्चयनयस्य चरणस्यावघातेन ज्ञान दर्शनवधोऽपि" इति संस्कृतम् । ज्ञानेति-ज्ञाननाशव्याप्यो यो नाशस्तत्प्रतियोगित्वं चरणस्येत्येवं ग्राहको यः शुद्धनयो निश्चय नयस्तेनेत्यर्थः । अदुर्वचत्वात् सुवचत्वात् । व्यापारेति- व्यापार व्यापारिणोर्मध्ये व्यापारस्य प्राधान्यमित्येवं प्राहको यः क्रियानयस्तेनेत्यर्थः । दर्शनेति- क्रियादर्शनयोर्मध्ये दर्शनं प्रधानमित्येत ग्राहक ज्ञानमयेनेत्यर्थः, तथा च केनचिन्नयेन ज्ञानस्य प्राधान्यं केनचिन्नयेन चरणस्य प्राधान्यमित्येकस्यैव प्राधान्यमित्यस्य नियन्तुमशक्यत्वेन तयोः समुच्चय एव इति भावः । ज्ञानस्य प्राधान्ये पङ्गुदृष्टान्त Page #485 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । प्रधानग्राहकज्ञाननयेन ज्ञानोत्कर्षः सुवच एव ॥ ११ ॥ १२ ॥ दृष्टान्तौ चात्र पवन्धौ, तयोरन्यतरस्याकिञ्चित्करत्वेन संयोगपक्ष एव श्रेयान् , न च कुर्वद्रूपत्वनये शैलेश्यन्तक्षणभाविचारित्रमेव मुक्तिरूपफलोपधायकत्वेन विशिष्यत इत्यपि शङ्कगीयम् , कुर्वद्रूपलक्षणस्य सहकारिसमवधाननियतत्वेन तत्कालीनज्ञानक्षणस्यापि मुक्तिहेतुत्वात् । पुञ्जात् पुञ्जोत्पत्तिपक्षे बीजपाथःपवनादीनामेकत्रोपादानत्वेनान्यत्र च निमित्तत्वेन हेतुत्वमिति चारित्रक्षणस्य मुक्तावुपादानत्वेन हेतुत्वाद् विशेष इत्यप्यसाम्प्रतम् , ज्ञानादि. संवलितमुक्तिक्षणे संवलितक्षणस्यैव हेतुत्वात् तच्चातव्यावृत्त्या शक्तिविशेषा दिना वेत्यन्यदेतत् , कथं तर्हि " सद्दुज्जुसुआणं पुण निव्वाणं संजमो चेव" [ ] इति नियुक्तिवचनश्रद्धानवतां तेषां कुर्वद्रूपक्षणावगाहित्वात् तत्र चैकान्तस्यानुपदमेव निरस्तत्वादित्याशङ्कनीयम् , एकैकस्य शतभेदत्वेना. श्वरणस्य प्राधान्येऽन्धो दृष्टान्त इत्याह- दृष्टान्तौ चात्र पङ्ग्वन्धाविति । ज्ञानवानपि पङ्गुर्गन्तव्यग्राममार्ग पश्यन्नप्येको गन्तव्यग्राम नासदयति, क्रियावानपि अन्धो गन्तव्यग्राममार्गादर्शनादभीष्टं प्रामं न शक्नोति प्राप्तुं किन्तु मिलितो तावभीष्टदेशं प्राप्नुत एवेत्येवं संयुक्त ज्ञान चरणे मोक्षं जनयत इति समुच्चयवाद एवादरणीय इत्याह- तयोरिति - पवन्धयोरित्यर्थः । न चेत्यस्य शङ्कनीयमित्यनेनान्वयः । कुर्वद्रपत्वनय इति- अङ्कुरादिकं प्रति बीजादीनां बीजत्वादिना न कारणत्वं किन्त्वङ्करकुर्वद्रूपत्वेन बीजादीनामङ्करादिकं प्रति कारणत्वम् , धूमकुर्वदूपत्वने वयादीनां धूमं प्रति कारणत्वमित्येवं तत् तत् कार्य प्रति तत्तत्कार्यकुर्वद्रूपत्वेन तत्तत्कार्यकारणानां कारणत्वमित्यभ्युपगन्तृनय इत्यर्थः । निषेधे हेतुमाह- कुर्वद्रपक्षणस्येति । तत्कालीनेति- शैलेश्यन्त्यक्षणभाविचारित्रकालीनेत्यर्थः। चारित्रस्य प्रकारान्तरेण ज्ञानाद् विशेषस्योपदर्शनपुरस्सरमयुक्तत्वमावेदयति-पुञ्जात् पुओत्पत्तिपक्ष इति - पूर्वक्षणवर्तिरूप-रस गन्ध-स्पर्शाणुपुञ्जादुत्तरक्षणे रूप-रस-गन्ध-स्पर्शाणुपुञ्जमुत्पद्यते. तत्र पूर्वक्षणवर्तिरूपाणोरुत्तरक्षणवर्तिरूपाणुं प्रत्युपादानविधया कारणत्वम्, रसावा. दीनां तत्र सहकारिविधया कारणत्वम् , एवं पूर्ववर्तिरसाद्यनामुत्तरक्षणवर्तिरसाधणून् प्रत्युपादानविधया कारणत्वं रूपादीनां च तत्र सहकारिविधया कारणत्वमित्यभ्युपगन्तृमते इत्यर्थः । बीजेति- शाल्यकुरान् प्रति शालिबीजादय उपादानविधया कारणं पाथः-पवनादयश्च तत्र सहकारिविधया कारणम् , एवं पाथः-पवनादीन् प्रति पाथ.पवनादय उपादानविधया कारणं बीजादयश्च सहकारिविधया निमित्तत्वेन कारणमित्येवं बीज-पाथः-पवनादीनामे कत्रोपादानत्वेनान्यत्र च निमित्तत्वेन कारणत्वमिति बोध्यम् । इति कार्यविशेषापेक्षयोपादानत्व-निमित्तत्वव्यवस्थितौ । विशेषः निमित्तत्वेन मोक्षं प्रति कारणात् तत्त्वज्ञानाचारित्रक्षणस्य वैलक्षण्यम् । असाम्प्रतम् अयुक्तम् । तत्र हेतुमाह- ज्ञानादीति- मुक्तिक्षणे ज्ञानादिकमपि विद्यत इति पुञ्जात् पुञ्जोत्पत्तिपक्षे ज्ञानादिसंवलितमुक्तिक्षणात्मकपुञ्ज ज्ञान-दर्शन-चारित्रपुञ्जस्यत्र कारणत्वात् तत्रोक्तविशेषस्य विनिगन्तुमशक्यत्वाच्चारित्रस्यैव हेतुत्वमित्यतन्नोपपद्यत इत्यर्थः । ननु ज्ञान-चारित्रादिसमुच्चयवृत्त्येकधर्माभावात् कथं संवलितस्यैव कारणत्वमित्यत आह- तच्चेति - संवलितक्षणस्य कारणत्वं चेत्यर्थः । अतद्वयावृत्या ज्ञानभिन्नत्वे सति दर्शनभिन्नत्वे सति चारित्रभिन्नो यस्तद्भिन्नत्वेन । शक्तिविशेषादिना ज्ञान-दर्शन-चारित्रेषु संवलितेष्वेव मोक्षानुकूलैकशक्तिविशेषः कल्प्यते, धर्मान्तरमेव वा किञ्चित् कल्प्यते, तद्रूपेण एवं चातव्य वृत्तेरन्यतमत्वस्वरूपायाः प्रत्येकमपि ज्ञानादौ सत्त्वेनैकैकस्मादपि ज्ञानादितो न मुक्तिप्रसङ्गः । अन्यदेतत् वादान्तरम् । “कथं तर्हि " इत्यस्य स्थाने " न चैवं कथं तर्हि " इति पाठो युक्तः, "नियुक्तिवचनश्रद्धावतां" इत्यस्य स्थाने च " नियुक्तिवचनं, तच्छ्रद्धानवतां" इति पाठो युक्तः। न चेत्यस्याशङ्कनीयमित्यनेनान्वयः। कथं तीत्यस्य नियुक्तिवचनमित्यनेनान्वयः । सददुज्ज. इति-" शब्दर्जुसूत्राणां पुनः निर्वाणं संघमादेव" इति संस्कृतम् , एतद्वचनं पुञ्जातू पुजोत्पत्तिरित्यभ्युपगन्तृऋजुसूत्रनये मुक्ति प्रत्येकान्तेन संयमस्यैव कारणत्वमवबोधयति, तत् कथं सङ्गतमित्याक्षेपः। तत्र हेतुमाह- तच्छद्धानवतामिति-- उक्तनियुक्तिवचन श्रद्धानवतामित्यर्थः । तेषाम् ऋजुसूत्रनयानुसारिणाम् । कुर्वदूक्षणावगाहित्वात् उत्तरोत्तरक्षणं प्रति पूर्वपूक्षिणस्य तत्तत्क्षण कुर्वपक्षणत्वत्वेन कारणत्वस्याभ्युपगन्तृत्वात् । तत्र च निरुक्तपक्षे च । एकान्तस्य मुक्ति प्रति संयमस्यैव कारणत्वमित्येकान्तस्य । अनुपदमेव अनन्तरमेव । निरस्तत्वात् 'ज्ञानादि Page #486 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो गयोपदेशः। क्षेपककारणत्वरूपस्थूलापेक्षयैव तदेकान्ताभिधानोपपत्तेः, अत एव शैलेश्यन्तक्षणभाविधर्महेतुत्वमिति विशुद्धैवम्भूताभिप्रायेणैवास्माभिस्तत्र तत्र समर्थितम् । यत् तु मिथ्याहशो मिथ्याज्ञानोन्मूलनद्वारा तत्त्वज्ञानमेव मुक्तिहेतुरिति मन्यन्ते ते मिथ्याज्ञानोन्मूलनेऽपि तत्तन्मनःप्रणिधानरूपायाः क्रियाया हेतुत्वं कथं न पश्यन्ति, मिथ्याज्ञानवासनोन्मूलनत एव कर्मनिरपेक्षं तत्त्वज्ञानं हेतुरिति चेत् ? तीदृष्टपरिकल्पनमेतत् मिथ्याज्ञानवासनायाः स्मृत्येकनाश्यत्वात् तत्त्वज्ञानस्य तन्नाशकताया लोकेऽदृष्टत्वात् , अदृष्टकल्पने वाऽऽगमानुसारेण ज्ञानवत् कर्मगोऽपि मलक्षयद्वारा मुक्तिहेतुत्वकल्पनमेव ज्यायः, तथा चाभ्यधादासुरोऽपि वासिष्ठे" तन्दुलस्य यथा चर्म यथा ताम्रस्य कालिका । नश्यति क्रियया पुत्र ! पुरुषस्य तथा मलम् ॥१॥" ] इत्यादि । किश्च, विहितत्वेन पुण्यपापक्षयान्यतरहेतुत्वव्याप्तेस्तत्त्वज्ञानस्य कर्मतुल्यत्वम्, न च चिकित्सा. दावेव व्यभिचारः, मुमुक्षुविहितत्वेन व्याप्ती व्यभिचाराभावादिति पुष्टिशुद्ध्यनुबन्धद्वारा ज्ञान-कर्मणो. मुक्को तुल्यवदेव हेतुतया समुच्चयपक्ष एव अनाविल इति सिद्धम् ॥ * ॥ संवलितमुक्तिक्षणे' इत्यादिना खण्डितत्वात् । निरासे हेतुमाह- एकैकस्येति - ऋजुसूत्राधेकैकनयस्येत्यर्थः । तदेकान्ताभिधानेति- सदुज्जुसुआणमित्येकान्तसंयमकारणत्वप्रतिपादकवचनेत्यर्थः । अत एवेत्यस्य समर्थितमित्यनेनान्वयः, शैलेश्यन्तक्षणभावी यो धर्मस्तस्यैव मुक्तिं प्रति कारणत्वमित्यर्थः । अस्माभिः यशोविजयोपाध्यायः। तत्र तत्र स्वनिर्मितानेकप्रन्थेषु । मिथ्याज्ञानोन्मूलनद्वारा तत्त्वज्ञानमेवक मोक्षजनकभित्येकान्तवादिनां केषाञ्चिन्मतमुपन्यस्य दूषयतिये स्विति । " यत् तु" इत्यस्य स्थाने “ये तु" इति पाठो युक्तः, अस्य मन्यन्त इत्यनेनान्वयः । भवतु मिथ्याज्ञानोन्मूलनद्वारा तत्वज्ञानं मोक्षहेतुः किन्तु मिथ्याज्ञानोन्मूलने यथा तत्त्वज्ञानं हेतुस्तथा तत्तन्मनःप्रणिधानरूपा क्रियाऽपि हेतुरिति तत्तन्मनःप्रणिधानक्रियाऽपि मिथ्याज्ञानोन्मूलनद्वारा मोक्षहेतुर्भवदिति तदनालोचनं तेषामज्ञानविज़म्भितमेवेति तन्मतदूषणमुपदर्शयति-ते इति- अस्य कथं न पश्यन्तीत्यनेनान्वयः । ननु मिथ्याज्ञानोन्मूलनद्वारा तत्त्वज्ञानं मोक्षहेतुरित्येव नेष्यते, किन्तु मिथ्याज्ञानजन्यवासनोन्मूलनद्वारा तत्त्वज्ञानं मोक्षहेतुरिति तत्र नोक्तोष इति पराकूत. मुद्भाव्य दूषयति- मिथ्याज्ञानवासनोन्मूलनत एवेति मिथ्याज्ञानजन्यवासनाया भावनाख्यसंस्काररूपायास्तत्त्वज्ञाना. जन्यत्वाद् भावनात्वावच्छिन्नप्रतियोगिताकवंसत्वावच्छिनं प्रति स्मृतित्वावच्छिन्नस्यैव कारणत्वस्व दर्शनबलाद् व्यवस्थितेः, तत्त्वज्ञानस्य तु मिथ्याज्ञान जन्यवासनाध्वंसजनकत्वं लोके न दृष्टमिति तथाकल्पनाऽदृष्ट चरी प्रामाणिकैरुपेक्ष्यवेति दूषणं दर्शयति- तहीति । एतत् मिथ्याज्ञानवासनोन्मूलनत एवं कर्मनिरपेक्षं तत्त्वज्ञानं मोक्षहेतुरिति कल्पनम् । तत्कल्पन. स्य दृष्टपरिकल्पनत्वे हेतुमाह - मिथ्याज्ञानेति । स्मृत्ये कनाश्यत्वात् स्मृतिमात्रजन्यनाशप्रतियोगित्वात् । तन्नाशकताया. मिथ्याज्ञानजन्यवासनानाशजनकतायाः। ननु लोकेऽदृष्टमपि शास्त्रानुसारेग तत्त्वज्ञानस्य मिथ्याज्ञानजन्यवासनोन्मूलकत्वं मिथ्याज्ञानजन्यवासनोन्मूलनद्वारा मोक्षजनकत्वं च परिकल्प्यते आगमव वनप्रामाण्यादित्यत आह - अष्टकलाने बेति । कर्मणो मलक्षयहेतुत्के वासिष्ठवचनं प्रमागयति-तथा चेति । तण्डुलस्येति पयं स्पष्टम् । अपि च तत्त्वज्ञानं पुण्यपापक्षयाऽन्यतरकारणं विहितत्वात् कर्मवदित्यनुमानेन पापक्षयजनकतया सिद्धस्य तत्त्वज्ञानस्य तद्वारैव मोक्षजनकत्व शुद्धधनुबन्धद्वारा मुकौ तुल्यवदेव हेतुत्वमिति समुच्चयपक्ष एवं दोषकलङ्करहित इत्याह-किश्चेति । ननु विहितत्वं चिकित्सादावस्ति न च तत्र पुण्यपापक्षयान्यारजनकत्वमिति व्यभिचारिणा विहितत्वहेतुना न तत्त्वज्ञानस्थ पुण्यपापक्षयान्यतर हेतुत्वं सिद्धयतीत्याशङ्कय-प्रतिक्षिपति- न चेति । प्रतिक्षेपहेतुमुपदर्शयति- मुमुक्षुविहितत्वेनेतितथा च मुमुक्षुविहितत्वमेव हेतुः, तस्याव्यभिचरितत्वात् प्रकृतसाध्यसाधकत्वं स्यादेवेति । समुच्चयपक्षमुपसंहरन् प्रन्थ Page #487 -------------------------------------------------------------------------- ________________ ४१६ नयामततरङ्गिणी-तरङ्गिणीतरणिभ्यां समझइतो गयोपदेशः । नयोपदेशटीकेयं नयामृततरङ्गिणी। सेव्यताममृतप्रायै मिथ्यात्वविषतापहृत् ॥ १ ॥ सबलविषयसन्निविष्टधर्मव्यतिकर-सङ्करशङ्कयाऽऽविलानाम् ।। जयति भगवतो नयोपदेशः, पटुरखिलाङ्गभृतां हितं विधातुम् ॥२॥ इह खलु न हि नः स्मयो न रोषो, न च परबुद्धिपराभवाभिलाषः। अपि तु पितुरिव प्रजाहितस्य प्रथमगुरोर्वचनादरो निमित्तम् ॥ ३ ॥ समाप्तिं विदधाति- इतीति- एताभिरुपपत्तिभिरित्यर्थः। अनाविलः दोषकलङ्करहितः । अन्ते इति- शब्दः सिद्धमिति च शब्दो प्रन्थसमाप्तिसूचकः ॥ ॥ अथ प्रशस्तिः ॥ पञ्चभिः श्लोकैनयोपदेशटीका समूलां स्तौति-नयोपदेशटीकेयमिति- मिथ्यात्वविषतापहृद् नयामृततरङ्गिणीयं नयोपदेशटीकाऽमृतप्रायै सेव्यतामित्यन्वयः। आकला जगति प्रसिद्धयै नयामृततरङ्गिणीत्यन्वर्थसंज्ञाभिधानम्, नान्या नयोपदेशटीकाऽन्वर्थनयामृततरङ्गिणीनाम्नी भवितुमर्हतीत्यवगतये- इयमिति । नामवत: स्वरूपावगतये-नयोपदेशटीकेति । यत इयं मिथ्यात्वविष तापहृत् ततोऽमृतप्रायै सेव्यतामित्येवं यत्तच्छन्दोपादानप्रयोजनमवसेयम् , मिथ्यात्वविषतापहृदित्यस्य मिथ्यात्वमेकान्ततत्त्वाभ्युपगमस्तच्छ्रद्धानं वा, तदेव विषं तज्जन्यो यस्तापो रागद्वेषादिलक्षणस्तं हरतीति तादृशतापहारिणी, न चेयं स्वरूपसती स्वरूपमात्रेण ज्ञाता वा मिथ्यात्वविषतापहारिणी किन्तु स्वजन्यस्वार्थतत्त्वज्ञानद्वारेति तत्त्वज्ञानजननीत्यपि ततो लभ्यते इत्यर्थः । नयामृततरङ्गिणीत्यस्य नय एवामृतं तस्य तरङ्ग उच्छलत्प्रवाहकलोलस्तद्वती, नयनदीति यावत् , गङ्गा-यमुनाद्या नद्यो यथा जलपमुद्रमाविशन्ति तथेयमपि नदी समयसमुद्रादागता समयसमुद्रमाविशतीति समयसमुद्रान्तर्गततत्त्वरत्नसङ्ग्रहकारिणी, तथाऽनया नद्या मनीषाप्रवहणमारुह्य बुद्धवराः समयसमुद्रमाविशन्तीत्यर्थः । नयोपदेशटीकेत्यस्यार्थः स्पष्ट एव । अमृतप्राप्त्यै अमृतस्य- मोक्षस्य नित्यानन्दात्मकात्मस्वरूपस्य प्रायै, यद्यपि नित्यानन्दात्मकनोक्षस्वरूपमात्मनः सर्वदेव प्राप्तं तथापि कर्मपटलावृतत्वादप्राप्तमिव भवति, तत्त्वज्ञानेन कर्ममलपटलापगमे तु स्वयं प्रकाशस्वरूपमाविर्भवति ततः प्राप्तिरेवास्य भवति न तूत्पत्तिः, यथा च जलनदीतो जलप्राप्तिरवश्यं भवति तथाऽमृतत्वेन नयामृत-मोक्षात्मकामृतयोरेक्याध्यवसायानयामृतनदीतोऽवश्यं मोक्षात्मकामृतप्राप्तिरिति तदर्थमित्यर्थः। सेव्यतामिति- नहि जलनद्या दूरतो दर्शनमात्रेण जलप्राप्तिः किन्तु तत्तीरादिगमन-तदवगाहनादिलक्षणसेवया तथा नयामृततरङ्गिण्या भूयोभूयस्तदर्थावगमलक्षणसेवयेति तदात्मकसेवाकर्म क्रियतामित्यर्थः ॥1॥ सबलेति-- भगवतो नयोपदेशः सबलविषय पन्निविष्टधर्मव्यतिकरसंकरशङ्कयाऽऽविलानामखिलाङ्गभृतां हितं विधातुं पटुर्जयतीत्यर्थः । भगवतो ज्ञानातिशयादिशालिनो जिनस्य, नयोपदेशः, सबलोऽनन्तधर्मात्मको यो विषयः, तत्सन्निविष्टाः तत्स्वरूपप्रविष्टा ये धर्मास्तेषां व्यतिकर:- यद्रूपेण सत्वं तद्रूपेणासत्त्वं यद्रूपेण चासत्तं तद्रूपेण सत्त्वमित्येवं विनिमयः, यद्रूपेण सत्त्वं तद्रूपेणैव सत्त्वमसत्त्वं चेत्येवं सङ्करस्तयोः शङ्कया, आविलानां- व्याप्तानाम् , अखिलाङ्कभृतां सकलशरीरिणाम् , हितम् इष्टम् , विधातुं कर्तुम् , पटुः समर्थः, जयति सर्वोत्कर्षेण वर्तते इत्यर्थः ॥ २ ॥ ___इहेति- इह नयामृततरङ्गिणीकरणे, खलु निश्चयेन, नः अस्माकम् , स्मयः स्वमतोच्चत्वाभिमानः, नहि निमित्तं नैव कारणम् , रोषः परं प्रति क्रोधः, न निमित्तम्, परबुद्धिपराभिलाषः परकीयमत्यप्रामाण्यज्ञापनेच्छा, न च निमित्तं नैव कारणम्, तर्हि नयामृततरङ्गिणीकरणे किं निमित्तमिति पृच्छति- अपि विति। उत्तरयति-पितुरिवेतिसन्तानहितकारिणः पितुर्जनकस्यैव, प्रजाहितकारिणः, प्रथमगुरोः प्रथमतो धर्मदेशनादीक्षितस्य भगवतः श्रीऋषभदेवस्य प्रथमतीर्थङ्करस्य, अथवा सर्वेऽपि तीर्थङ्कराः स्वस्वतीर्थप्रवर्तका गुरव एवेति प्रथमगुरोरित्यस्य वर्तमानतीर्थाधिपतेश्वरमतीर्थङ्करस्य श्रीमहावीरस्येत्यप्यर्थः सम्भवति, वचनादर: वचनस्य- स्याद्वादराद्धान्तस्य, आदरः- सम्यक्तया श्रद्धानम्, निमित्तं कारणमित्यर्थः, सन्निमित्तकत्वादियं नयामृततरङ्गिणी सर्वैरप्यवगाह्या इति भावः ॥३॥ Page #488 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेया । न च नयवचनेषु पक्षपातः, कचन समाकलितप्रमाणदृष्टेः । अभिमतविषये हि गोपनीया, अनभिमते यदमी विगोपनीयाः ॥ ४ ॥ ब्रजति फलवति प्रमाणवाक्ये, नयवचनं बहुरूपभङ्गभावम् । तदिह सविधमोहि मा स्पृशेति, छलव दिदं न विशङ्कनीयमार्यैः ॥ ५ ॥ प्रथमत इह लौकिकोऽर्थबोधस्तदनु नयात्मक एव मध्यमः स्यात् । तदुपरि परितः प्रसर्पिभङ्गव्यतिकरसंवलितः प्रमाणबोधः ॥ ६ ॥ श्रुतमय उदितः किलाधबोधो, मतहतकृन्नयचिन्तया द्वितीयः । स्वमतमदहरः परस्तृतीयः, सकलजगद्धितकाम्यया पवित्रः ॥ ७ ॥ aaaaaaaa न चेति । समाकलिता- समीचीनतयाऽऽलोचिता, प्रमाणदृष्टियेन स समाकलित प्रमाणदृष्टिस्तस्य समाकलितप्रमाणहष्टेः, मम, नयवचनेषु नयात्मकवचनेषु नयप्रभववचनेषु वा मध्ये, वचन कस्मिन्नपि नयवचने, पक्षपातः अयमेव इत्येवमभिनिवेशः, न च नैव, हि यतः, अमी नयाः, अभिमतविषये यद् वस्तु यदपेक्षया यथाभूतमभिमतं तथाभूते वस्तुनि, गोपनीयाः रक्षणीयाः, एवं यत् यस्मात् , अभिमते यद् वस्तु यद्रूपेणाभिमतं न भवति तथाभूते वस्तुनि, विगोपनीयाः अप्रकटनीया इत्यर्थः ॥ ४ ॥ बजतीति । फलवति निराकाससम्पूर्णार्थावबोधकत्वात् संशय-विपर्ययज्ञाननिवर्तनलक्षणफलशालिनि । प्रमाणवाक्ये स्यादस्स्येव घटः स्यान्नास्त्येव घट इति सप्तभङ्गात्मकप्रमाणवाक्ये । नयवचनम् अस्तित्वायेकधर्मप्रतिपादकं संग्रहादिनयसमुत्थवचनं नयात्मकवचनं वा । बहुरूपभङ्गभावम् अनेकप्रकारभङ्गतां व्रजति, प्रत्येकनयप्रवृत्तवचनानां नयात्मकवचनानां वा परस्परविभिन्नभङ्गरूपतागमनं युज्यत एव । तत् तस्मात् । इह नयनिरूपणे। "सविधमोहि" इत्यस्य स्थाने " सविधमेहि" इति पाठो युक्तः, सविधं निकटम् , एहि आगच्छ । मा स्पृश मत्स्पर्शनं न कुरु। इति एवंस्वरूपं, वचनम् । छलवत् यथा छलं तथा, यो हि यन्निकटमागच्छति, स तं स्पृशत्यपि, अतिसमीपागमनस्य तत्संयोगजनकत्वात् , तथा चाशक्यार्थप्रतिपादकत्वाद् भवति सविधमेहि मा स्पृशेति वचनं छलम् । एवं छलस्वरूपम् । इदम् अस्ति घटो नास्ति घट इति नयवचनम्। आयः निर्मलमतिभिः । न शङ्कनीयम् एकनयसमुत्थं किञ्चिदपेक्षयाऽस्ति घट इति वचनम् , अपरनयसमुत्थं निमित्तान्तरापेक्षया नास्ति घट इति, तयोर्द्वयोरपि परस्पराविरुद्धसम्भवदर्षकत्वेन छलत्वाभावादित्यर्थः ॥ ५॥ इत्थं पञ्चभिः पद्यैः समूलां नयामृततरङ्गिणी स्तुत्वा तज्जन्यबोधवैचित्र्यमुपदर्शयति- प्रथमत इहेति । प्रथमतः निमित्तमेदालोचनतः प्रागेव । इह शब्दव्यवहारे । लौकिकः आपामरलोकसम्बन्धी आकाङ्क्षाऽऽसत्ति योग्यताज्ञानादिघटितसामग्रीप्रभवः । अर्थबोधः पदार्थद्वयान्वयबोधः । तदनु तदनन्तरम् । नयात्मक एव निमित्तभेदापेक्षयैकैकधर्मप्रकारकघटाद्यर्थविशेष्यकनयात्मकबोध एव । मध्यमः स्यात् लौकिकबोध-प्रमाणबोधयोर्मध्यभावी बोधो भवेत्, तथा च लौकिकबोधोऽस्तित्वप्रकारकघटविशेष्यकः नयात्मकबोधश्च स्वद्रव्याद्यपेक्षयाऽस्तित्वप्रकारकघटविशेष्यकः । तदुपरि नयात्मकबोधानन्तरम् । परितः सर्वतोभावेन, स्वस्वविषयधर्मावस्थाननिमित्तापेक्षाभेदव्यापनेनेति यावत् । प्रसर्पिण:- प्रवर्तमानाः, मजाः-स्थादस्त्येव घटः, स्यानास्त्येव घट इत्यादयस्तेषां व्यतिकरः-परस्परसाकालभावेनैकवाक्यतालक्षणः सम्बन्धः, तेन संवलितः-जन्यजनकभावसम्बन्धेन प्रतिबद्धः । प्रमाणबोधः प्रमाणात्मकबोधः, सप्तभङ्गात्मकमहावाक्यप्रभवः प्रमाणात्मकतृतीयबोध इत्यर्थः ॥ ६॥ भ्रतमय इति- यथा यथा श्रूयते शब्दस्तथैवार्थबोधो भवतीति श्रुतमनतिक्रम्य जायमानत्वाच्छ्रुतमयः । किल इतीत्यैतिो, एवं वृद्धपरम्परयाऽवगम्यते । आद्यबोधो लौकिकोऽर्थबोधः । मतहतकदित्यस्य स्थाने मतहतिकृदिति मतशतकदिति वा पाठो भवितुमर्हति प्रथमपाठे एको नयः स्वप्रतिपक्षनयमतं विनाशयतीति मतहृतिकृदिति द्वितीयपाठे Page #489 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्या समतो मयोपदेशः । त्रयमिदधिकृत्य लोकलोकोत्तरपथभङ्गभयं न नाम शब्दात् । गुरुमतमिव चोपपत्तिकार्थे नहि परिपन्थि विरम्य बोधकत्वम् ॥ ८ ॥ अपि च नियतकृत् स्वजन्यबोधाविषमधियो विरहोऽत्र शाब्दबोधे । सति नियतमनुयायिनि तत्परत्वं तदिह मतस्तदतज्ज्ञबोधभेदः ॥ ९॥ न च शुकवचनादतत्परादप्यधिगमदर्शनतः प्रतीममेतत् । । श्रुतमयमपहाय बोधिभागे, त इह तत्परताधियोऽनपेक्षाः ॥ १० ॥ mmmw यावन्तो नयास्तावन्ति मतानीति शतपदं सम्भवद्वत्वसङ्खयोपलक्षकं तेनानल्पसंख्यकमतकृदित्यर्थः। एवम्भूतनयविचारणया द्वितीयो नयात्मकबोधः, स्वमतमदहरः कस्यचिज्जैनस्य इदमेव स्वमतमित्याकारको यो मदस्तस्य विनाशकः, सर्वनयमयस्याद्वादे सर्वेषामपि मतानां कथञ्चित् स्वमतत्वात् । परः उत्कृष्टः । तृतीयः सप्तमङ्गयात्मकमहावाक्यजन्यः प्रमाणबोधः । “काम्यया पवित्रः" इत्यस्य स्थाने " कामनापवित्रः" पाठो युक्तः, अशेषस्य जगतो हितं भवत्वित्याकारिका या सकल जगद्धितकामना तया पवित्र इत्यर्थः ॥ ७ ॥ त्रयमिदमधिकृत्यति-निरुक्तक्रमिकबोधत्रयमाश्रित्येत्यर्थः । लोक-लोकोत्तरपथभकभयं लोकिकार्थबोधतो लोकिकमार्गस्य लौकिकव्यवहारस्य नयप्रमाणबोधाभ्यां लोकोत्तरमागस्य लोकोत्तरव्यवहारस्य चोपपत्तिरिति, शब्दाच्छब्दप्रमाणात्, नामेति कोमलामन्त्रणे, न नैव, लोकलोकोत्तरपथभङ्गभयं भवतीत्यर्थः । शब्द-ज्ञानकर्मणां विरम्य व्यापाराभावादेकस्माच्छन्दात् क्रमेण निरुक्तबोधत्रयं न सम्भवतीत्याशङ्कां मनसिकृत्य तदपनोदनायाह-गुरुमतमिवेति- कारकस्य क्रियया सहैवान्वयबोध इति नियमान्नीलं घटमानयेति वाक्यात् प्रथमतो नीलकर्मकानयनघटकर्मकानयनयोरेव बोधः, ततो घटभिन्नस्य नीलस्य निलाभिन्नस्य घटस्य चानयनं नात्र संबोध्यपुरुषकर्तृकमिति विचारणासह कृतादुक्त वाक्यादेव नीलाभिजघटानयनबोधः पार्टिक इत्येवं क्रमिकबोधद्वयाभ्युपगन्तृ प्राभाकरमते सोपपत्तिके यथा शब्दस्य विरम्य बोधकत्वं परिपन्थि प्रतिबन्धकं न भवति तथा सोपपत्तिकार्थे प्रकृतेऽपीत्यर्थः ॥ ८ ॥ अपि चेति। " विषमधियो" इत्यस्य स्थाने "विषयधियो" इति पाठः सम्यग् । अत्र शाब्दबोधविशेषविचारे, शाब्दबोधे शब्दजन्यान्वयबोधे । स्वजन्येति-स्वजन्यः- शब्दजन्यो यो बोधस्तस्य यो विषयो न भवति स तदविषय. स्तस्य धियः- बुद्धः, विरहो नियतकृत् नियतेन क्रियत इति नियतकृदिति व्युत्पत्त्या नियतजन्य इत्यर्थः । किं तन्नियत तत्कृतो निरुक्तविरह इत्यपेक्षायामाह-सतीति । अनुयायिनि अन्वययोग्ये। सति सम्भवति सति, एतेन यस्यार्थस्यान्वयो न सम्भवति तत्परत्वं नियत न भवतीत्यावेदितम् । तत्परत्वं शब्दस्य तदर्थतात्पर्यत्वम् , नियतं नियामकम् , यस्य शब्दस्य यस्मिन्नर्थे तात्पर्य सोऽर्थः स्वजन्यबोधस्य शब्दजन्योपस्थित्यात्मकबोधस्याविषयोऽपि शाब्दबोधे भासत इति शाब्दबोधे विषयप्रतिभासनियामकं भवति तत्परत्वम् , तत् तस्मात् । इह शाब्दबोधे। तदतज्ज्ञबोधभेदः तात्पर्यज्ञतात्पर्यानभिज्ञपुरुषयोः शाब्दबोधभेदः । मतः स्वीकृत इत्यर्थः ॥१॥ ननु शुकस्य पक्षिविशेषस्येदं वाक्यममुमर्थ बोधयत्वित्याकारकतात्पर्यस्याभावेन तज्ज्ञानस्य शुकोचरितवाक्यं शृण्वतः पुरुषस्याभावात् तदर्थतात्पर्यविकलादपि शुकोच्चरितवाक्याच्छोतृणां तत्तद्भिन्नार्थविषयकशाब्दबोधस्योत्पादेन व्यभिचारात् तत्परत्वं शाब्दबोधनियामकं न भवतीत्याशङ्कय प्रतिक्षिपति-न चेति । “प्रतीममेतत" इत्यस्य स्थाने "प्रतीपमैतत" इति पाठो युक्तः। अतत्परादपि अभिमतार्थविषयकतात्पर्यरहितादपि । शुकवचनात् शुकोच्चरितवाक्यात् । अधिगमदर्शनतः तत्तदर्थविषयकशाब्दबोधस्योत्पाददर्शनेन, व्यतिरेकव्यभिचारात्, एतत् तत्परत्वस्य तत्तदर्थविषयक शाब्दबोधनियामकत्वपरिकल्पनम् , प्रतीपं विरुद्धमिति न चेत्यर्थः । निषेधे हेतुमाह- श्रुतमयमपहायेति- यथाश्रुतार्थविषयकबोधं परित्यज्येत्यर्थः, तत्तत्पदजन्योपस्थितितस्तत्तदर्थविषयकशाब्दबोधस्य तात्पर्यग्रहमन्तरेण भावेन यथाश्रुतार्थस्य शाब्दबोधे भाने तत्परतामहस्याः नपेक्षणेऽपीत्यर्थः। बोधिभागे यदपेक्षानिमित्तादिभानेन शाब्दबोधः सम्यक्त्वरूरतामञ्चति तदंशे। ते शुकवचनश्रोतारः । इह शाब्दबोधे । तत्परताधियः तदंशे तत्परत्वज्ञानस्य । अनपेक्षाः अपेक्षारहिता न भवन्तीत्यर्थः ॥ १० ॥ Page #490 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलट्टतो नयोपदेशः । वक्तुं तात्पर्यमज्ञात्वाप्येतदुन्नीय वास्तवम् । प्रामाण्यमप्रमाणेऽपि, वाक्ये सम्यग्दृशां मतम् ॥ ११ ॥ सम्यक्श्रुतस्य मिथ्यात्वं मिथ्यादृष्टिपरिग्रहात्। मिथ्याश्रुतस्य सम्यक्त्वं सम्यग्दृष्टिप्रहादतः ॥ १२ ॥ लौकिकान्यपि वाक्यानि प्रमाणानि श्रुतार्थतः । तात्पर्यार्थे प्रमाणं तु सप्तभङ्गात्मकं वचः ॥ १३ ॥ नाप्रमाणं प्रमाणं वा स्वतः किन्त्वर्थतः श्रुतम् । इति यत् कल्पभाष्योक्तं तदित्थमुपपद्यते ॥ १४ ॥ तात्पर्य खल्वपेक्षा नय इति च समं स्थापितं शास्त्रगर्भे, तत्कल्लोलैर्विचित्रैः समयजलनिधौ जायते चिद्विवर्तः। यत्त्वेकं निस्तरङ्गं परमसुखमयं ब्रह्म सर्वातिशायि, स्थायिज्ञानस्वभावं तदिह दहतु वोऽनल्पसङ्कल्पजालम्॥१५ निक्षेपा वा नया वा तदुभयजनिताः सप्तभङ्गात्मका वा, शृङ्गाराः सार्ववाचः परगुणरचनाजातरोचिष्णुभावाः । - ननु शुकवचने वक्तुः शुकस्य तात्पर्य नास्तीति कस्य तात्पर्यस्य ज्ञानं तत्र कारणं स्यादित्यत आह-वक्तुरिति । "वक्तुं तात्पर्य" इत्यस्य स्थाने "वक्तुस्तात्पर्य" इति पाठो युक्तः, वक्तुः शुकस्य, तात्पर्यस्यैवाभावात् तज्ज्ञानं न सम्भवतीत्यतस्तात्पर्यमज्ञात्वा तात्पर्यमगृहीत्वा, अपि, वास्तवं पारमार्थिकम् । एतत् तात्पर्यम् , यत्र वक्तुस्तात्पर्य नास्ति शुकादेस्तत्र तदध्यापयितुस्तात्पर्यमन्ततः सर्वज्ञस्यैव शुकाद्यच्चरितं वाक्यमेतदर्थ बोधयत्वित्याकारकं समस्त्येव पारमार्थिकम् । सदुन्नीय यथार्थश्रुतस्यैकान्ताद्यात्मकस्याघटमानत्वादेतत्तदपेक्षयवमेतदित्यत्रैवोक्तवाक्यतात्पर्यमित्येवं ज्ञात्वा । अप्रमाणेऽपि वाक्ये अप्रमाणभूतेऽपि तीर्थान्तरीयागमवाक्ये । प्रामाण्यं सम्यग्दृशां सम्यग्दृष्टीनाम् । मतं सम्मतमित्यर्थः ॥ ११ ॥ तात्पर्यग्रहस्य सम्यगर्थविषयकस्य मिथ्यार्थविषयकस्य च वैचित्र्यात् तत्तात्पर्यविषयीभूतार्थप्रतिपादकत्वेन सम्यक्श्रुतस्यापि मिथ्यादृष्टयनीतातथाभूतार्थविषयकत्वेन मिथ्यात्वम् , मिथ्याश्रुतस्यापि सम्यग्दृष्टयन्नीतसम्भवदर्थप्रतिपादकत्वेन सम्यक्त्वमित्युपदर्शयति-सम्यक्श्रुतस्येति । अतः तात्पर्यग्रहवैचित्र्यात् । अन्यत् स्पष्टम् ॥ १२ ॥ भ्रतार्थानुसार्यर्थप्रतिपादकानि लौकिकान्यपि प्रमाणानि तात्पर्यविषयीभूतसम्यगर्थप्रतिपादकत्वात् , सप्तभङ्गयात्मक वाक्यं पुनः प्रमाणमेवेत्याह-लौकिकान्यपीति- अपिना अलौकिकवाक्यस्य प्रामाण्यं समुचितम् । श्रुताथेतः श्रुतार्थानुसारेण । तात्पर्यार्थ इति च देहलीदीपन्यायेन पूर्वत्रोत्तरत्र चान्वेति, अन्यत् स्पष्टम् ॥ १३ ॥ ... प्रामाण्या-ऽप्रामाण्ययोः सम्यक्तात्पर्या-ऽसम्यक्तात्पर्यापेक्ष्यत्वमित्यभिप्रायत एव कल्पभाष्योक्तिसङ्गतिरित्याह-नाप्रमाणमिति । श्रुतम् आगमः । स्वतः स्वरूपतः । अप्रमाणं प्रमाणं वा न भवति, किन्त्वर्थतः प्रमाणमप्रमाणं वा मवति, इति एवम् , यत् कल्पभाष्योकं तत् कल्पभाष्योक्तम् , अनन्तरोपदर्शितप्रकारेण, उपपद्यते घटते. अन्यथा यस्मिन्नर्थे प्रमाणं तस्मिन्नर्थेऽप्रमाणमिति न सजतं स्यादिति ॥ १४ ॥ तात्पर्यमिति । खलु निश्चयेन । सममिति - एकमित्यर्थः । तात्पर्यमेवापेक्षा, सैव नय इत्येवं शास्त्रगर्भ सिद्धान्तमध्ये । स्थापितं नितिम् । विचित्रः अनेकप्रकारैः । तत्कल्लोलेः नयविचारलक्षणतर। समयजलधी जैनागमसमुद्रे । चिद्विवर्तः चितश्चैतन्यलक्षणज्ञानस्य विवर्तः परिणामः । जायते उत्पद्यते । एवं सत्यपि यत्तु तत् पुनः । निस्तर वस्तुगत्या निरुपाधिकत्वेन सोपाधिकधर्मरहितत्वात् तत्तदोपाधिकधर्मावलम्बनेन प्रवर्तमानानेकप्रकारकविशिष्टबुद्धयात्मकतराविकलम् । परमसुखमयम् ऐकान्तिकात्यन्तिकसुखैकस्वरूपम् । अत एव सर्वातिशायि सर्वापेक्षयोस्कृष्टम् । स्थायिज्ञानस्वभावं स्थिरात्मकं यज्ज्ञानं केवलं तत्स्वभावं तदात्मकम् । ब्रह्म परमात्मचैतन्यं समस्तीति शेषः। तत् निरुक्तस्वरूपं ब्रह्म । इह अस्मिन् नयविचारे संसारे वा। यः युष्माकम्, एतद्प्रन्थविचारपर्यालोचनपरिपक्वसूक्ष्ममतीनां संसारासारताभावनापरिणतबुद्धीनां वा । अनल्पसंकल्पजालं बहुप्रकारमानसिकविचारात्मकतन्तुसङ्कटननिष्पन्नबन्धनकार्यकारिजालम् । दहतु विनाशयत्वित्यर्थः ॥ १५ ॥ निक्षेपा वैति । सार्ववाचः शृङ्गारा यस्याग्रे किञ्चिन्न भान्ति, स्वीयं तद्रूपं हे भगवन् । उच्चैः प्रकटय, हे आत्मन् । बाद प्रसीदेति सम्बन्धः । के सार्ववाचः शृङ्गारा इत्यपेक्षायामाह-निक्षेपा वा नया वा तदुभयजनिताः सप्तभङ्गा. Page #491 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी- तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । यस्याग्रे भान्ति किञ्चिन्न निरुपधिचिदुदु बुद्धशुद्धस्वभावात्, तद्रूपं स्वीयमुच्चैः प्रकटय भगवन् बाढमात्मन् ! प्रसीद ॥ १६ ॥ गच्छे श्रीविजयादिदेव सुगुरोः स्वच्छे गुणानां गणैः, प्रौढि प्रौढिमधाम्नि जीतविजयप्राज्ञाः परामैयरुः । तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानां शिशुस्तत्त्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ॥१॥ सूरिश्रीविजयादिदेवसुगुरो: पट्टाम्बराहर्मणौ, सूरिश्रीविजयादिसिंहसुगुरोः शक्रासनं भेजुषि । सूरि श्रीविजयप्रभे श्रितवति प्राज्यं च राज्यं कृतौ, ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥ २ ॥ प्रत्यक्षरं निरूप्यास्य ग्रन्थमानं विनिश्चितम् । अनुष्टुभां सहस्राणि त्रीणि षट् च शतानि वै ॥ ३ ॥ ॥ ३६०० ॥ ॥ शुभं भूयात् ॥ इति महोपाध्याय श्रीकल्याणविजयगणिशिष्य मुख्य पण्डितलाभ विजयगणिशिष्यावतंस पण्डित श्रीजीतविजयगणि सतीर्थ्य तिलक पण्डित श्रीनयविजयगणिचरणकमलसेविना पण्डित श्रीपद्मविजयगणि सहोदरेण उपाध्याय श्रीयशोविजयगणिना विरचिता नयामृततरङ्गिणीनाम्नी नयोपदेशटीका समाप्ता ॥ स्वस्ति श्रमण संघाय || ४२० ॥ इति नयोपदेशः समाप्तः ॥ मका वेति । कथं ते शृङ्गारा इत्यपेक्षायामाह - परगुणरच नाजात रोचिष्णुभावा इति । " स्वभावात्" इत्यस्य स्थाने " स्वभावं " इति पाठो युक्तः । सार्ववाचः सर्वप्राणिहितकारिवचनस्य जैनसमयस्य । वेति त्रयं विकल्पार्थकम् | निक्षेपाः नाम-स्थापना द्रव्य भावनिक्षेपाश्चत्वारः । नयाः नैगम-सङ्ग्रह-व्यवहारर्जुसूत्र शब्दसमभिरूढैवम्भूताः सप्त । तदुभयजनिता । नय- निक्षेपोभयसमुद्भवाः । सप्तभङ्गात्मकाः स्यादस्त्येव घट इत्यादिसप्तभङ्ग समाहारलक्षण सप्तभङ्गीस्वरूपाः। शृङ्गारा योग्य स्थान संनिविष्टभूषणविन्यासात्मकाः । यतः परे अन्ये विशिष्टा वा परेषाम् अन्येषां वा ये गुणास्तेषां रचनया- यथास्थानं संस्थापनया, जात उत्पन्नो रोचिष्णुभावो मनोरञ्जनस्वभावो येषां ते तथा । एवंभूता अपि यस्य भगवद्रूपस्यानन्तरमेव वक्ष्यमाणस्वरूपस्य । अग्रे सम्मुखे । किञ्चित् किञ्चिदपि । न भान्ति न प्रकाशन्ते । हे भगवन् ! सर्वैश्वर्यशालिन् । स्वीयं स्वात्यन्तसंबद्धम् सम्बन्धश्चात्रा विष्वग्भावः तेन स्वापृथग्भूतमिति पर्यवसितम् । तद्रूपं यद्रूपस्याग्रे शृङ्गारा न भान्ति एवम्भूतं रूपम् । किं स्वरूपं तदिति दर्शयति- निरुपधीति - उपाधिविनाकृतं परोपाधिकं यन्न भवति किन्तु स्वाभाविकं यच्चिता- चैतन्येनोद्बुद्धः - प्रकटीभूतः शुद्धस्वभावो यस्य तन्निरुपश्चिद्बुद्धशुद्धत्वभावं शुद्ध केवल चैतन्यस्वरूपमिति यावत् । उच्चैर्यथा स्यात् तथा प्रकटय प्रकाशय । हे आत्मन् ! मदभिन्नस्वरूप ! | बाढमत्यन्तम् । प्रसीद प्रसन्नो भव । स्वाभिन्नशुद्धचैतन्यात्मकभगवत्स्वरूपदर्शन तो मुक्तस्य मम न किञ्चिदभिलषणीयम् एतावन्मात्रमेतद्रन्थकरण प्रयोजनमिति गूढाभिसन्धिः ॥ १६ ॥ गच्छ इति श्रीविजयादिदेव सुगुरोः प्रौढिमधाम्नि स्वच्छे गच्छे जीत विजयप्राज्ञाः गुणानां गणैः परां प्रौढिमैयरुः, तत्सातीर्थ्यमृतां नयादिविजयप्राज्ञोत्तमानां शिशुर्यशोविजय इत्याख्याभृत् इदं किञ्चित् तत्त्वमाख्यातवानित्यन्वयः, अर्थस्तु व्यक्त एव ॥ १ ॥ सूरिश्रीविजयादिदेव सुगुरोरिति पद्यमपि स्पष्टार्थकम् । " कृती " इत्यस्य स्थाने " कृतो " इति पाठो ज्ञेयः । प्रत्यक्षरमिति पयं ग्रन्थकर्तुरन्यस्य वा स्पष्टार्थकम् ॥ इति श्रीतपोगच्छाधिपति शासनसम्राट् जगद्गुरुश्रीविजयने मिसूरीश्वर पट्टालङ्कारेण व्याकरणवाचस्पति शास्त्रविशारद - कविरत्नेति पदालङ्कतेन विजयलावण्यसूरिणा विरचिता तरणिनाम्नी नयामृततरङ्गिणीटीका समाप्ता ॥ Page #492 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यो समहतो नयोपदेशः । ४२१ अथ प्रशस्तिः ॥ येषां श्रीरमिता मिता कृतिरतीवार्थप्रदा भासुरा, भक्तिीरविभौ नयामृतघटा व्याख्यानभूतिः परा। ये तीर्थोनतिकृत्यजातयशसः शिष्यप्रशिष्याञ्चिताः, सूरीणां प्रवरा जयन्ति कृतिनः श्रीनेमिसूरीश्वराः ॥१॥ तेषां शिष्याणुकेनामलसुनयसुधास्वादलशोत्सुकेन, सिद्धान्ताभ्यासमात्रव्यसननियतिना विज्ञवर्गानुगेन । श्रीमल्लावण्यसूरीत्यभिहितशमिना निर्मितैषा नयार्था, व्याख्या सन्दृब्धभावा जनयतु प्रमुदं स्वानुभूत्या बुधानाम् ॥२॥ शब्दार्थाशुद्धिदोषानिह कृतिप्रवराः शोधयिष्यन्ति येषां, दृष्टिः सूक्ष्मार्थतत्त्वाप्रतिहतगमना दोषमोषप्रगल्भा । सत्यादानस्वभावा परगुणघटना चान्तदेहा विमुक्ता, रागद्वेषादिशक्त्या स्वपरविभजनादृष्ट्यसम्पीडितार्था ॥३॥ ये नान्येषां सहन्ते कृतिमतिविमलां दोषपोषकदक्षास्तेषां दृष्टिः पतन्ती कथमिह सफला नैव दुर्नीतिदृष्ट्या । सापेक्षे वस्तुतत्त्वे गुणगणकलिते दोषपोषोऽप्यपेक्षादृष्ट्या युक्तो न चास्मादपहतिरणुका स्यादनेकान्तवादे ॥४॥ किन्त्वेषाऽऽहार्यरूपा गुणगणघटनां बाधते नैव सत्यां, मिथ्याऽपेक्षाविमुक्ता स्वयमपि लभते नात्मरूपं कुदृष्टिः । इत्यं नैवापसार्या प्रमितिपरिगताद् वस्तुनो लालनीया, त्यक्त्वा मात्सर्यमेषाऽप्युपकृतिपदवीं याति सापेक्षतायाम् ॥ ५॥ नयामृततरङ्गिणी व च नयोपदेशाश्रिता, यशोविजयवाचकप्रवरगुम्फितार्थान्वया । क तत्र रचिता मया विवृतिरक्षरार्थप्रभा, तथाऽपि परिशीलनं नयतेरिह स्यान्मम ॥६॥ आदी मालमत्र तस्य च फलं व्याख्याकृतश्चापि तत्, नीतेलक्षणमत्र चर्चितमपेक्षास्वं नयकाश्रितम् । साक्षी लाघवमत्र तर्कणविधौ श्रीहर्षसंवादिताऽर्थापत्तिर्व्यवहारसङ्गतिरितोऽवच्छेद्यबुदिप्रथा ॥ ७ ॥ अन्या चापि कथा विवेकचतुरापेक्षाश्रिता दर्शिता, प्रत्यक्षाकलितेऽपि वस्तुनि मतिः स्पष्टा त्वपेक्षाधिता । दीर्षाध्यक्षमुखो निदर्शनतया सन्दर्शितोऽपेक्षया चर्चा चावरकाश्रिताऽत्र बहुला संगुम्फिता युक्तितः ॥८॥ साऽपेक्षा मतभेदहेतुरुदिता वैज्ञानिकी वास्तवी, तात्पर्य च प्रवर्तते स्वविषये सम्बन्धतोऽपेक्षया । । यत्कोव्यन्तरबाधनं तदपि चेष्टार्थस्य सन्दीपनं, तद्युक्त्या च समर्थितं मतभिदैदम्पर्यमावेदितम् ॥ १॥ सख्या द्वित्वमुखाऽप्यपेक्षमतितो व्यङ्गया तथा जायते, इत्येवं मतभेदसाधनघटा संदर्शिता विस्तृता । व्यङ्ग्या तत्र गुरोर्मताऽक्षिचरणैरुत्पत्तिरवादृता, जैनानां मतमत्र दर्शितमपेक्षाकान्तमत्युज्ज्वलम् ॥१०॥ सापेक्षे विषये प्रतीत्यवचनं तन्नीतिग लक्षणं, भावोऽभावनिषेधरूपविधया सापेक्षताभाग मतः । नाभावोऽपि प्रमेयतादिप्रमितः सापेक्षताभाजनं, चात्राभावमतेर्विचारबहुलीभावो निसर्गोज्ज्वलः ॥११॥ अस्तित्वादिकसप्तधर्मभजनातः सप्तभङ्गी तु या, सा सम्पूर्णप्रमात्मधीजनकतायोगात् प्रमाणं भवेत् । स्याच्छन्दात् प्रतिभङ्गमन्यघटनायोगेऽपि चैकैकगं, वाक्यं तन्नयवाक्यमर्थगतितोऽभीष्टैकदेशाश्रितम् ॥ १२॥ . मझानामुपपत्तिरत्र नयतोऽवक्तव्यभङ्गोद्गमे, नान्यस्मादृजुसूत्रतस्तु घटते चर्चाऽत्र सम्यकृता । वाक्यं चान्यनिषेधकं न च नयो दुर्नीतिवाक्यं तु तत् , इत्येवं त्रिविधं निजेऽपि च मते नो दिग्पटस्यैव तत् ॥३॥ एका-ऽनेकप्रतीतिसङ्गतिरियं स्यान्माननीत्याश्रिता, चित्रे गौतमशिष्यसम्मतिमिता चित्रं च सर्व मतम् । नव्यश्चित्रमनेकमेव गदितं प्राचां तदेके मतं, युक्तिश्चोभयसम्मताऽत्र गदिता स्वीयं मतं चाहतम् ॥ १४ ॥ विस्तीर्णाऽत्र विशिष्टबुद्धिविषया चर्चा प्रमाणोद्गता, चातुर्विध्यमुदाहृतं मतिधनैर्नैयायिकैस्तद्गतम् । । अत्रान्ते तु अपश्चितं निजमतं येनान्यदीयं मतं, युक्तिवातकदर्थितं विषयताऽऽनन्त्यादनन्तैव मा ॥ १५॥ नायं संशय एककोटिकतया नातः समूहात्मको, याथार्थ्याद् भ्रम एष नौ न च प्रमाऽपूर्णत्वतः स्यान्नयः ।। किन्त्वंशः प्रमितेर्यथा जलनिधेर्भागस्तदंशो मतो, नाम्भोधिन च सोऽसमुद्र इति यल्लोके प्रसिद्धः स्फुटम् ॥१६॥ स्वाथै सत्यतया मिताः परहताः सर्वे स्वसत्या नया, नैकान्तो विदुषां मतोऽत्र विषये स्पष्टप्रथा सम्मती। . वस्तस्पर्शितयाऽप्रमा नहि मता बौद्धादिनीतिप्रहा, यद्रत्नप्रभागताऽपि च मती रत्नस्य तत्स्पर्शिनी ॥१७॥ Page #493 -------------------------------------------------------------------------- ________________ ४२२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । D द्वेधाऽयं प्रथितो नयो विषयतो द्रव्यार्थिकश्चादिमः, पर्यायार्थिकनामकोऽपर इतो नान्ये नयाः सम्मताः । द्रव्यं केवलमेव चादिमनयेऽन्यस्मिन् नये पर्यवास्ते तिर्यक्प्रचयास्तथोर्ध्वप्रचया द्रव्यार्थिक कल्पिताः ॥१८॥ द्रव्य तेष्वनुगामि सत्यमुदितं नादौ न चान्ते स्थिताः, पर्याया न च मध्यगा अपि तथा भ्रान्त्या तथा लक्षिताः । स्यादन्त्येऽपि चलो विकल्प इह तन्मध्ये द्वयग्राहको, द्रव्यार्थानुमतो नयो नयविदां द्रव्यैकमात्रार्थगः ॥१९॥ पर्यायार्थिनये न पर्यवपृथग् द्रव्यं समस्तीष्टकृत् , पर्यायेभ्य इहेहितार्थजननं दृष्टं न वै नित्यतः । नित्ये न क्रम-योगपद्यनियता चार्थक्रिया युज्यते, इत्येवं ननु युक्तिजालरचना प्रश्नोत्तराभ्यां तता ॥२०॥ एकत्वावगतिर्नयेऽत्र गदिता सादृश्यदोषाद् यथा, केशादौ तत एव न क्षणिकता स्याद् बाधिताऽभिज्ञया। नाशो नैव सहेतुकोऽत्र हि मतस्तत्साधिका युक्तयः, पर्यायार्थनयानुसारिविदुषां सच्चर्चया भाविताः ॥ २१ ॥ शुद्धस्यैव तु पर्यवस्य मनना चेत्थं समुद्भाविता, तस्यावान्तरभेदगामिमनना द्रव्यार्थवत् कीर्तिता। शुद्धाशुद्धविवेकनिर्णयकथा सम्यक्त्वमिथ्यात्वगा, सिद्धान्तोक्तिविमिश्रिताऽपि प्रथिता प्रासङ्गिकी मोददा ॥ २२ ॥ भेदा द्रव्यनयस्य तार्किकमते स्यु गमाद्यास्त्रयश्चत्वारस्त्वृजुसूत्रनीतिचरमाः सैद्धान्तिकानां मते । पर्यायार्थगताः परे निगदितास्तात्पर्यभेदोऽनयोः, सूत्रस्याप्यविरोधहेतुरुदितः श्रीमद्यशोवाचकैः ॥२३॥ नामग्राहममी नयास्तु कथिताः सप्तत्वसङ्ख्याश्चिता, नाम्नो निर्वचनेन नैगमनयः सल्लक्षणालङ्कतः । स्यात् सामान्य-विशेषगोचरतया तत्त्वं तदेकात्यये, युक्तो नो व्यवहार इष्टगतये लोकप्रथासाधकः ॥ २४ ॥ अन्वर्थानुगमेन सङ्ग्रहनयो नाम्नैव संलक्षितः, सामान्येन परेण सङ्ग्रहविधिस्वेनापरेणापि सः । सामान्यव्यतिरिक्तमेष मनुते नो वै विशेषं ततस्तस्यावान्तरभेदतो बहुविधो जीवस्य भेदो मतः ॥२५॥ ये चेष्टा निगमे तथा व्यवहृतौ तत्त्वोपचारादिकास्ते नेष्टास्तत एव चास्य गदिता ताभ्यां परा शुद्धता । बाहुल्यादुपचारिणी व्यवहृति/विस्तृतार्था तु या, सा लोकव्यवहारसिद्धिनिपुणा तन्मानपक्षोद्धुरा ॥ २६ ॥ सामान्य त्वनुगामिनाऽत्र मनने नार्थक्रियाऽतो यतः, स्याद् व्यावृत्तिविशेषतोऽनुगतधीः शब्दानुगत्याऽथवा । दृष्टान्तोऽप्युपचारतो व्यवहृतौ संदर्शितो लौकिको, यस्मादेष मतं द्विरेफप्रमुख स्यात् पञ्चवर्णे शितम् ॥२७॥ लक्ष्मैतत्त्वजुसूत्रनीतिगमकं यद्वर्तमानै कगं, भावत्वं नियमादियं नियमधीः सा चाविशेषान्मता ॥ शब्दे सा तु विशेषिता न च ततोऽतिव्याप्तिरेतन्नये, स्वीयं केवलमिष्टमन्यसमयोऽतीतो न नानागतः ॥ २८ ॥ नावस्थान्तरसङ्गतिस्त्विह मता निष्टाक्रियाकालगं, द्रव्यं नास्ति ततः पलालदहनं नाग्नर्भिदा नो घटे । प्रव्रज्या न भवेदसंयतगता भव्यो न सिद्धो भवेत् , चर्चा चात्र तु विस्तृतैक्यविषया निष्ठा-क्रियाकालयोः ॥ २९॥ देशे स्कन्धपदोपचारबलतः शाटी प्रदग्धेति गीर्शयैतन्नयतो विशेषिततरः शब्दः क्षणात्मार्थगः । भावकोपगमाद् विशेषघटना स्यात् सप्तभङ्यर्पणालिङ्गादेरथवाऽत्र भेदवशतोऽप्यर्थस्य भेदाश्रयात् ॥ ३०॥ भाष्योक्त्या प्रविभकभङ्गरचनातः सप्तमङ्गीगतिश्चर्चा चार्थनयाश्रितादिविषया पुष्टिं तथा प्रापिता । सामानाधिकरण्यमत्र हि मतं नो भिन्नलिङ्गादिगं, यद्वत्तत्त्वजुसूत्रनीतिविषयो नैवाविकारान्ययोः ॥३१॥ सत्स्वर्थेषु न सङ्कम समभिरूढाख्यो नयो मन्यते, भेदैः स्याद्वचनस्य चैव नियमादर्थस्य भेदोऽमितः । संज्ञा नो परिभाषयाऽत्र तु मता स्वाभाविकोऽयं यतः, शब्दार्थोऽनुभवे विभाति न भवेदिच्छा कृतार्थस्थितिः ॥३२॥ एवम्भूतनयो विशेषणतया शब्दार्थयोहिकश्चान्योऽन्यं न च राजशब्दघटना लिङ्गात्यये राजगा । व्युत्पन्नः सकलोऽपि. शब्द उदितो व्युत्पत्तिहेतुक्रियाकाले शब्दप्रवृत्तिरत्र नियता शब्द क्रियैकार्थता ॥ ३३ ॥ व्युत्पत्त्यर्थप्रसिद्धयेऽत्र विपुला चर्चा प्रसङ्गागता, तस्यां शब्दनयानुसान्मतभिदा रूढ्यर्थचिन्तादिका । अन्या चापि कथाऽत्र सङ्गतिमिता नैयायिकादेवरा, अन्ते स्वानुमतं नयानुगमनं स्याद्वादतो दर्शितम् ॥ ३४ ॥ नवम्भूतनये तु जीवपदभाक् सिद्धो मतो जीवनाभावात् किन्तु तदर्थसङ्घटनतः संसारिजीवस्तथा। . सेवादर्थमिहोपपत्तिकलितास्तत्त्वार्थभाष्योक्तयो, जीवाजीवमुखोक्तिभेदघटिता आविष्कृता भाविताः ॥ ३५ ॥ सिद्धो निश्चयतो दिगम्बरमते यज्जीववाच्यो न तद्, युकं निश्चयसंज्ञकोऽन्तिमनयस्तत्र प्रथा चान्यथा । भायं सहनामको यदि तथा तत्रात्मता जीवता, सर्वत्रानुगता ततो नहि भवेत् सिद्धकता जीवता ॥ ३६॥ Page #494 -------------------------------------------------------------------------- ________________ - मयाप्ततरहिणी-तरहिणीतरणिभ्या समबती मयोपदेशः । अन्या दिक्पटशङ्कितोक्तिघटना दूरीकृता युक्कितो, देश-प्रस्थकयोस्तथा च वसतेः स्वीकारदृष्टान्ततः। नीतीनां सुगमेन शुद्धिघटनाऽशुद्धस्तथा योजना, ये चैतेषु भवन्ति सूक्ष्मविषयाः शुद्धास्तदन्येऽन्यथा ॥ ३७॥ शुद्धत्वं व्यवहार एव फलतो नो निश्चये देशना, यत्सम्यक्त्वनिमित्ततामुपगता चाद्यस्य लोकोन्मुखा । या लोकव्यवहारबाह्यमनना मिथ्यात्वहेतुस्तु सा, नादेया ननु निश्चयस्य प्रथमं लोकप्रवृत्त्यर्थिभिः ॥ ३८॥ नग्नानां प्रथमं तु निश्चयघटा युक्त्या समुत्सारिता, तत्प्रश्नोत्तरभावसङ्गमनतो निर्णीतिरेवं कृता। भावः शन्दनयैर्मतो न च परो निक्षेप इष्टस्तु तैश्चत्वारोऽर्थनयैर्मता इति पुनः सम्यक्तया चर्चितम् ॥ ३९॥ निक्षेपस्य विचारणाऽत्र विहिता प्रत्येकशो लक्षण, नामादेरुपदर्शितं ननु भिदा तत्रापि सन्दर्शिता । चर्चा चागमवाक्प्रचाररचिता युक्त्या समुत्तेजिता, दृष्टान्तोक्त्यनुरजिता बहुविधा निक्षेपबोधानुगा ॥४॥ भिन्नद्रव्यगता चतुष्टयभिदा यद्वत् तथैवैकगा, स्वाभिख्याकृतिहेतुकार्यघटनातो भावनीया बुधैः । तत्तद्भेदनिवेशतो नहि भवेदव्यापि तेषां ततो, वस्तुव्यापकता चतुष्टयगता सामान्यतः स्थापिता ॥१॥ अन्येषां मतमत्र तस्य नियमे व्यावर्ण्य संदूषितं, निक्षेपोऽनुमतोऽथ सङ्ग्रहनये न स्थापनाख्यो यतः । नाम्ना सङ्ग्रहणं भविष्यति बुधः कैश्चिन्मतं दूषितं, चर्चात्रास्खलिता सुयुक्तिकलिता नीतिज्ञमोदप्रदा ॥ ४२ ॥ इष्टं स्थापनया विभिन्नमुदितं नाम्नोऽपि भिन्नं फलं, सम्बन्धोऽपि विभिन्न एव च तयोर्भावेन निर्धारितः । स्वात्मन्येव परात्मनो ननु समापत्तिस्तथा स्थापना, नाम्नोऽन्या विधिनाऽथवेति बहुधा भेदोऽनयोः स्थापितः ॥४३॥ एतेन व्यवहारगोऽप्यगतः स्यात् स्थापनासंग्रहो, द्रव्यं नो ऋजुसूत्र इच्छति यदि स्यात् सूत्रबाधस्तदा । तस्माद् भाष्यमता विभागघटना निक्षेपगा युज्यते, निक्षेपे नययोजनागतिरियं त्वालोचनीया बुधैः ॥ ४ ॥ द्रव्यानियतोऽभवन्ननु मतं शुद्धा तु वेदान्तिनां, तत्रैके जगुरद्वितीयममलं चैतन्यमन्ये पुनः । सच्छब्दकमयं द्वितीयविकलं ब्रह्मेति विस्तारतश्चर्चा तन्मतयोः सुयुक्तिकलिता संदर्शिता मोददा ।। ४५ ॥ द्रव्यार्थाद् व्यवहारतः समभवत् साङ्ख्यस्य यद्दर्शनं, तद् द्रव्यप्रतिपादकं भवति तत्पर्यायसंदर्शकम् । एतत्सम्मतपञ्चविंशतिविधं तत्त्वं समुद्भावितं, यद्युक्त्या कवलीकृतं मतिधनैयायिकाद्यैः स्फुटम् ॥ ४६ ॥ साङ्खयेऽद्वैतमते च शुद्धिसमता चैतन्यमात्राश्रिता, तद्भिन्ने व्यवहारदृष्टिरनयोस्तुल्यैव यद्यप्यसौ दृष्टथैवार्थसमष्टिसृष्टिरिति यद् वेदान्तिनिष्टङ्कितं, नो तत्र व्यवहारलेशघटनाऽप्येतावता भिन्नता ।। ४७ ॥ नो कस्यापि मतस्य नैगमनयो मूलं यतोऽयं पृथग्, नैवेष्टः कणभुमतं ननु भवेद् द्वाभ्यां नयाभ्यां परम् । मिथ्यात्वं स्वमताग्रहादिह मिथोऽपेक्षा यतो नानयोरेवं न्यायमतं विभाव्यममुना यत् साम्यमस्यापि च ॥४८॥ भिन्नो नैगम एष इष्ट इति चेत् तन्मूलिकैवास्तु चौलूक्यादेः समयप्रवृत्तिरिति संमत्याऽपि संवादितम् । बौदानामृजसूत्रनीतिप्रभृतैर्जातं चतुओं मतं, शब्दाद्या नयमिश्रजा ननु नया वाग्भिः समाः सङ्ख्यया ॥४९॥ स्याद्वादामिलितर्नयैः सममिता अन्यागमाः सम्मतौ, नीतीनां वचसा समानगणना चान्यागमास्तादृशाः । इत्येवं नययोजना मतगता ज्ञेयोपयुज्यव सा, दिग्वस्त्रैः परिभाविता तु वितथा वृद्धोकयो भाविताः ॥ ५० ॥ मिथ्यात्वाकलितानि षद् षडथ तद्भिन्नानि वैधर्म्यतः, सम्यक्त्वाकलितानि तान्यपि पथत्याग-प्रवेशाश्रयात् । ज्ञेयान्यन्यप्रथानि तत्र वितता चर्चा मतानां कृता, सा विज्ञर्मतभेदबोधरसिकैर्भूयो विलोक्याऽऽदरात् ॥५१॥ मिथ्यात्वं निजरूपतस्तु निखिला ज्ञेया नया यन्मिथोऽपेक्षातो विकलास्तथा नहि भवेद् भेदोऽस्तिताद्युत्थितः । स्यादेषां व्यवहारमेदजननादास्तिक्य-नास्तिक्ययोर्भेदस्तत्र नियामकं पुनरिदं ज्ञेयं नयज्ञैर्यथा ॥ ५२ ॥ धयंशे खलु नास्तिकस्तु प्रथितश्चार्वाक आत्मादिके, धर्माशे परतीर्थिकास्तु निखिला विज्ञैर्मता नास्तिकाः । इत्यं मार्गप्रवेश तत्परिहृतिभ्यां स्यात् क्रियावादिनः, सम्यक्त्वोक्किरथान्यवादिनियता मिथ्यात्ववाचः प्रथा ॥ ५३ ॥ सम्यक्त्वं च दृढीकृतं पुनरिहान्येभ्यः क्रियावादिनो, मुख्यत्वाद् गणनाभिदाऽपि प्रथिता तेषां विविका स्फुटम् । चर्चाऽत्रापि विशिष्टमोदजनिका दृब्धा नयानां पृथग, वादा श्लोकसमष्टितो निगदिता युक्त्या समुत्तेजिताः ॥ ५४॥ Page #495 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नबोपदेशः । ज्ञानादेव तु मुक्तिरत्र तु मता ज्ञाने क्रियाद्वारता, ज्ञानं मुक्तिनिदानमित्युदयनाचार्यस्तु संमन्यते । शानं कर्म च मुक्तिकारणमुझे ज्ञाने क्रियाद्वारता, नेष्टेत्येवमुदीरयन्ति कृतिनः श्रीभास्करीयाः स्फुटम् ॥ ५५ ॥ वार्ता चात्र तु विस्तृतोभयमतप्रागल्भ्यसम्पादिनी, अन्ते स्वानुमतं समुच्चयमत युक्त्या समुल्लासितम् । मिथ्यात्वापगमेन मोक्षकलिका टीका सुसेव्या बुधैः, श्रीवीरस्य नयोपदेशवचनं सम्यक स्तुतं कामदम् ॥ ५६ ॥ अस्यां न स्मय-रोषरागप्रमुखो हेतुर्जिनोक्त्यादरः, किन्त्वेको ननु हेतुरभ्युपगतो नो पक्षपातः क्वचित् । नीत्युक्तिः सफले प्रमाणवचने यात्यङ्गभङ्गात्मता, तस्मान्नो छलवत्त्विदं नयवचो विज्ञस्य शङ्कास्पदम् ॥ ५७ ॥ बोधो लौकिक आदिमो नयमयः स्यान्मध्यमोऽथान्तिमो, भानात्माखिलभङ्गतो गुरुमते यद्वत्तथा स्यात् क्रमात् । तात्पर्यानियताद् भवेदिह भिदा वाक्यैकमात्रोद्भवे, तात्पर्यज्ञ-तदज्ञयोरनुमता बोधे ततो भिन्नता ॥ ५८॥ तात्पर्य शुकशारिकादिवचने तच्छिक्षकाद्याधितं, ज्ञात्वा लौकिकबोधभिन्नविषये बोधस्ततोऽपेक्षया । वक्तुधान्यपरे तथव वचने तात्पर्यमन्यत् स्वयं, ज्ञात्वा वास्तवमप्रमाऽजननतः प्रामाण्यमिष्टैषिणाम् ॥ ५९॥ मिथ्यादृष्टिपरिग्रहादिह भवेत् सम्यक् श्रुते वस्तुतो, मिथ्यात्वं ननु तत्परत्वमतितो मिथ्यांश्रुते तत्त्वतः । सम्यग्दृष्टिपरिग्रहादनुमतं सम्यक्त्वमिष्टप्रद, तस्मात् तत्परतामतिस्तु वचने बोधोद्भवेऽपेक्षिता ।। ६०॥ स्यादेवं तु प्रमाणमर्थघटनातो लौकिकं चामुखे, तात्पर्यार्थगतौ प्रमाणमुदिता गीः सप्तभङ्गात्मिका । इत्थं सत्युपपद्यते ननु वचो यत्कल्पभाष्ये स्थितं, नाप्रामाण्य प्रमाणते स्वत इह स्यादर्थतस्ते इति ॥६॥ तात्पर्याभिधया य एव प्रथितोऽपेक्षेति सैवोच्यते, नीत्याख्यः स च शास्त्रगर्भप्रथितस्तेनोस्थिताः कल्पनाः । सिद्धान्ताम्बुधिगाः स्थिरं विरहितं ताभिः सुखैकात्मकं, ब्रह्म ज्ञानमयं भवेदिह तु वोऽनल्पं विकल्पोच्चयम् ॥ ६२ ।। निक्षेपादिविचारणा वचनगा शुजारमात्रात्मिका, यस्याग्रे न विभाति तच भगवन् । रूपं निजं दर्शय । आत्मन् ! बाढमपि प्रसीद कुशलाशंसा पर-स्वात्मगा, टीकाकर्तुरियं निजान्यविधुरा स्वात्मस्थिति गाहते ॥ ३॥ संक्षेपाद् विषया इमे निगदिता टीकागताः सुन्दरा, अभ्यासाद्धृदयं गता नयविदामानन्ददाः स्युर्न वा। अस्माकं तु जिनागमाम्बुधिगतज्ञानादिरत्नस्पृहां, स्वज्ञानाभ्यसनादतीव सफलो काले करिष्यन्ति वै ।। ६४ ॥ वर्षे विक्रमगेऽनलाम्बरनभोनेत्रप्रमाणं गते, वर्षावासगतेन भावनगरे सौराष्ट्रसद्भूषणे । लावण्याभिधसूरिणा गुरुकृपापात्रेण यत्नादिय, दक्षामोदकृते कृता स्फुटतरा टीका तरण्याख्यया ॥६५॥ नयामृततरङ्गिणीविषयबोधिनीयं कृतिर्मिताऽपि समुपासिता ध्रुवममन्दमोदप्रदा । गुरुप्रवरभक्तितो ननु मया मितप्रज्ञया, समुद्भवमुपागता स्थितिमुपैतु कल्पान्तगाम् ॥६६॥ इतिश्रीविजयलावण्यसूरिप्रणीता टीकाप्रशस्तिः समाप्ता । छद्मस्थेषु सदा स्खलद्वतितया दोषप्रबन्धान्वये नो हास्यास्पदमत्र दोषघटनायां स्यामहं धीमताम् । नो प्रार्थ्याः कृतिनो निसर्गगरिमावासा मया शोधने, येषां दोषगणप्रमार्जनविधिः स्वाभाविकोऽयं यतः ।। १॥ - - - शुभं भवतु Page #496 -------------------------------------------------------------------------- _