________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलङ्कतो नयोपदेशः । तत्तदध्यासादेव, अधिष्ठानस्य स्थायित्वाऽबाधितत्वाभ्यामज्ञानस्य चानादेः सकलसृष्टिहेतोरङ्गीकाराद् न बौद्धमतप्रवेशः, तदेवमज्ञानातिरिक्तकारणाभावात् कथं श्रवणादिजन्यं तत्त्वज्ञानमिति; अत्रोच्यतेलोके अज्ञानातिरिक्तानात्मदृष्टिकारणाभावेऽपि वेदे याग-स्वर्गादौ कार्यकारणभाववादीनां वेदान्तिनां यथेष्टाचरणप्रसङ्गात्, तस्माद् घटादेरिव स्वर्ग-नरकादे ज्ञानमात्रजन्यत्वम् , अपि तु विहित-निषिद्धक्रियाजन्यत्वमपीति । दृष्टानुश्रविकस्थले अर्द्धजरतीयं प्रामाणिकं नो चेत् ? अनात्मदृष्टिस[ष्टे ]रनवसानप्रसङ्गः । अधिष्ठानज्ञाने तदवसानप्रसङ्ग इति चेत् ? न- तस्यैव हेतुत्वाभावात् । अज्ञानं तद्धेतुरिति चेत् ? न- ततो दृष्टकारणनिरपेक्षया तदुत्पत्त्या शमाद्यनुष्ठानप्रसङ्गात्, भ्रान्त्या शमाद्यनुष्ठानमिति चेत् १ स्यादित्यत आह-अधिष्ठानस्येति-अधिष्ठानस्य शुद्धचैतन्यस्य सकलकालस्थायित्व-त्रिकालाबाधितत्वलक्षणपारमार्थिकसत्त्वाभ्यामङ्गीकारात् सकलसृष्टिहेतोरनादेरज्ञानस्य चाभ्युपगमाद् दृष्टिसृष्टिवादस्य बौद्धमतप्रवेशो नेत्यर्थः । प्रश्नकर्ता स्वाशङ्कामुपसंहरति-तदेवमिति- तत्- तस्मात् , एवम्- उक्तप्रकारेण । यद्यपि लोके घट-पटादिकमज्ञानात्मदृष्टिमात्रजन्यं तथापि वेदे स्वर्गादिकं प्रति अज्ञानात्मदृष्टिव्यतिरिक्त यागादि-तत्प्रभावादृष्टादिकमपि कारणम् , अन्यथा स्वर्गकामो ब्राह्मणहननादिकमपि कुर्वन्नज्ञानात्मदृष्टिरूपकारणबलात् स्वर्गादिकं प्राप्नुयादेवेति यथेष्टाचरणं प्रसज्येतेति वैदिकस्वर्गादिकं प्रति विहितयागादिकमप्यदृष्टद्वारा कारणं नरकादिकं प्रति निषिद्धहननादिकमप्यदृष्टद्वारा कारणमवश्यमभ्युपगन्तव्यम् , तथा च वैदिकनिरुक्ताज्ञाननिवृत्त्यात्मकमोक्षं प्रति अज्ञानात्मदृष्टिव्यतिरिक्तश्रवणादिकमपि कारणमिति भवत्येव निरुक्तमोक्षः श्रवणादि. प्रभव इत्येवं दृष्टिसृष्टिवादे श्रवणादिपरिपाकजन्मना ज्ञानेनाज्ञानादिबाधो निर्वहत्येवेति समाधत्ते-अत्रोच्यत इति । दृष्टि. सृष्टिवादे घटादिकं प्रत्यज्ञानमिवात्मदृष्टिरपि कारणमतोऽनात्मदृष्टीत्यात्मदृष्टिभिन्नार्थमुक्तम् । “वादीनाम्" इत्यस्य स्थाने "वादिनाम्" इति पाठो युक्तः । वेदान्तिनामित्यस्यानन्तरं "विहित-निषिद्धकर्मादिकमपि कारणम् , अन्यथा " इति पाठो दृश्यः, तदर्थस्त्ववतरणेन स्पष्टीकृत एवेति । तस्मात् यथेष्टाचरणप्रसङ्गात् । घटादेरिवेति व्यतिरेकिदृष्टान्तः, घटादेर्यथाऽज्ञानमात्रजन्यत्वं न तथा स्वर्ग-नरकादेरज्ञानमात्रजन्यत्वमिति तदर्थः । यदि स्वर्ग-नरकादे ज्ञानमात्रजन्यत्वं तीज्ञानव्यतिरिक्तकिंजन्यत्वमित्यपेक्षायामाह-अपि त्विति । ननु लोके घट-पटादिकं प्रति अज्ञानात्मदृष्टिद्वयमेव कारणं वेदे स्वर्गनरकादिकं प्रति विहित-निषिद्धकर्मादिकमपि कारणमित्यर्द्धजरतीयमप्रामाणिक किमित्युपेयमित्यत आह- दृष्टा-ऽऽनुअविकस्थल इति- दृष्टघटपटादिकस्थले आनुश्रविकस्यर्गादिस्थले चेत्यर्थः, अध्यापकपरम्परया श्रूयत एव न तु केनापि क्रियत इत्यनुश्रवोऽपौरुषेयो वेदस्तदीयं तत्प्रतिपादितमित्यानुश्रविकं स्वर्गादिकमिति बोध्यम् । अर्द्धजरतीयमिति- एका गौरर्द्धभागे युवती अर्द्धभागे वृद्धत्यर्द्धजरती यथा तथा प्रकृते एकत्र यादृशः कार्यकारणभावस्तदन्यादृशोऽन्यत्र कार्यकारणभाव इत्यभ्युपगमेऽर्द्धजरतीन्याय आयोजनीयः, उक्तयुक्त्या प्रामाणिक एवायमुपगमस्तथापि नोपेयते चेदित्यर्थः । “अनात्मदृष्टिसृष्टेः" इत्यस्य स्थाने “ अज्ञानात्मदृष्टिसृष्टेः" इति पाठो युक्तः । यद्यदिच्छामात्रत उपेयते तत्तदुत्पत्तेरज्ञानात्मदृष्टितः सम्भवादज्ञानात्मदृष्टरवसानं न स्यादनवस्थाप्रसङ्ग इत्यर्थः। तदवसानमाशङ्कते- अधिष्ठानज्ञाने इति- जगच्छुद्धचैतन्ये काल्पतमित्यधिष्ठान शुद्धचैतन्य तज्ज्ञाने, अज्ञानात्मदृष्टिसृष्टेरवसानमित्यर्थः। समाधत्ते-नेति । तस्यैव अधिष्ठानस्यैव, निरूपितत्वं षष्टयर्थः, तथा च तत्त्वज्ञाननिरूपितहेतुत्वं न कस्यापीति अधिष्ठानसाक्षात्कार एव नोत्पद्यतेत्यर्थः । शङ्कतेअज्ञानमिति-अधिष्ठानज्ञाने तदवसानमित्यस्याधिष्ठानज्ञानं नाज्ञानजन्यमिति तत्रावसानमिति नार्थः, किन्त्वधिष्ठानज्ञानमज्ञानमात्रजन्यमेव, तदनन्तरमज्ञाननिवृत्त्या तज्जन्यं न किमपीति तदवसानमित्यर्थः, एवं चाधिष्ठानज्ञानमज्ञानमात्रजन्यमेवेति नाधिष्ठानज्ञाननिरूपितहेतुत्वाभाव इति शङ्कार्थः । समाधत्ते-नेति । ततः अज्ञानमात्रतः। तदुत्पत्त्या अधिष्ठानचैतन्यसाक्षात्कारोत्पत्त्या। शमादीति-अज्ञानमात्रत एव चैतन्यसाक्षात्कारोत्पत्तेः सम्भवेन तदर्थ शमाद्यनुष्ठानस्याकर्तव्यत्वं प्रसज्येतेत्यर्थः। चैतन्यसाक्षात्कारोत्पत्तितः प्राग भ्रान्तिः शमादिकमात्मसाक्षात्कारजनकमिति ज्ञानं समस्तीत्यतः शमाद्यनुष्ठानमिति शङ्कते-भ्रान्त्येति । समाधत्ते-नेति- एकवार तत्त्वमस्त्रीत्यादिमहावाक्यलक्षणवेदान्तश्रवणवता ब्रह्मभिन्न