________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
1
पाकजन्मना ज्ञानेन अज्ञानादिबाधः, तथाहि तस्मिन् मते चैतन्यातिरिक्तपदार्थानामज्ञातसत्त्वं नास्ति, मिध्यात्वस्य स्वप्नादिदृष्टान्तसिद्धत्वात् तादृशस्यैव सत्त्वस्याङ्गीकारात् एवं च घटादीनां यदा प्रतीतिस्तदा तत्त्वम्, नान्यदेति न दण्डादिजन्यत्वम्, किन्त्वज्ञानमात्रजन्यत्वम्, स्वप्नवञ्च दण्डाद्युपादानम् । अज्ञानदेहादिकं तु भासमानमेव तिष्ठति । अभावनिश्चयाभावाश्च पुत्राद्यभावकृतरोदनाद्यप्रसङ्गः, प्रत्यभिज्ञानमपि भ्रम एव ततश्चाकाशादिक्रमेण सृष्टिः, पञ्चीकरणं ब्रह्माण्डाद्युत्पत्तिश्चैतन्मते नास्त्येव, घटादेरपरोक्षं कस्यापि सत्त्वमित्यनेकजन्मसाध्यत्यान्ताभ्यास लक्षणश्रवणादिपरिपाकासम्भवात् कुतस्तत्प्रभवे नाऽऽत्मसाक्षात्कारेणाज्ञानादिबाधसम्भव इत्याशङ्कते - कथं पुनरिति । निरुक्ताज्ञानादिवाधासम्भवमेव भावयति तथाहीत्य दिना । तस्मिन् मते दृष्टिसृष्टिवादिमते । चैतन्यरूपस्य ब्रह्मणः सदातनत्वं तन्मतेऽप्यङ्गीक्रियत इत्यत उक्तं चैतन्यातिरिक्तेति । अज्ञातसखं नास्तीत्यनेनाज्ञातसत्त्वप्रतिषेधेन चैतन्यातिरिक्तपदार्थानां ज्ञातसत्त्वमेव- ज्ञानकालीन सत्वमेव तन्मते समस्तीत्युपदर्शितम् । मिथ्यात्वस्येति प्रप्रञ्चो मिथ्या दृश्यत्वात् स्वप्नादिवदित्यनुमानतः प्रपञ्चमात्रस्य स्वप्नादिदृष्टान्तेन मिथ्यात्वस्य सिद्धत्वात्, तादृशस्यैव - मिथ्यात्वस्वरूपस्यैव ज्ञातसत्त्वस्य प्रपञ्च स्वीकारादित्यर्थः । एवं च प्रपञ्चेऽज्ञातसत्त्वाभावस्य सिद्धौ च । तदा प्रतीतिकाले । तत्त्वं घटादीनां सत्त्वम् । नान्यदा प्रतीतिसमयातिरिक्तसमये न सत्त्वम् । इति एतस्माद्धेतोः । न दण्डादिजन्यत्वमिति - दण्डादिसमवधान समयातिरिक्तसमये प्रतीयमानस्य घटादेस्तदेवोत्पत्तिः, तदानीं च दण्डादिसमवधानाभावाद् दण्डादेर्घटादिनियताव्यवहितपूर्ववर्तित्वाभावेन कारणत्वाभावाद् दण्डादिनिष्ठ कारणता निरूपित कार्यतालक्षणं दण्डादिजन्यत्वं घटादीनां नास्तीत्यर्थः । तत् किं कारणं विनैव घटादीनामुत्पत्तिरिति पृच्छति किन्त्विति । अज्ञानस्यानादेस्तन्मतेऽपि स्वीकारात् तस्य घटादिकारणत्वसम्भवेन तज्जन्यत्वं घटादेः सम्भवतीत्युत्तरयति - अज्ञानमात्रजन्यत्वमिति - घटादीनामित्यनुवर्तते । नन्वेवं घटादीनां दण्डादिजन्यत्वमाकलय्य तदर्थं दण्डादीनामुपादानं लोकैः क्रियते तदप्यनुपपन्नं स्यादित्यत आह- स्वप्रवच्चेति - स्वप्नेऽपि घटादीनामज्ञानमात्रप्रभवाणामुत्पत्यर्थं दण्डाद्युपादानं यथा तथा प्रकृतेऽपीत्यर्थः, तथा च तत् कल्पितत्वान्मिथ्यैवेति भावः । कथं तर्ह्यज्ञानादीनामवस्थानमत आह- अज्ञानेति तदवभासनं च साक्षिणेति बोध्यम् । ननु पितृ-मात्रादीनां यदा पुत्रादिदर्शनं नास्ति तदानीं पुत्राद्यभावात् तत्कृतरोदनादिप्रसङ्गः स्यादित्यत आह- अभावेति- अदर्शनकाले पुत्रादीनामभावेऽपि पित्रादेः पुत्राद्यभावनिश्चयो नास्ति, पुत्राद्यभावनिश्चय एव रोदनादिकारणम्, वास्तविकसत्त्ववादिमतेऽपि देशान्तरगतस्य पुत्रादेर्मरणे तदभावो विद्यते नैतावता पित्रादिभी रोदनं क्रियते, यदा दलादिना तदभावनिश्चायकेन तदभावो निश्चीयते तदैव रोदनादिकं क्रियते इति स्वरूपसतः पुत्राद्यभावस्य न रोदनादिकारणत्वं किन्तु निश्चितस्यैवेति तदभावनिश्चयरूपकारणाभावान्न रोदनादिप्रसङ्ग इत्यर्थः । ननु ' स एवायं घटः, स एवायं पुत्रः' इत्यादिप्रत्यभिज्ञानात् पूर्वकालीन दर्शनविषयेण घटादिना वर्तमानकालीन दर्शनविषयस्य घटादेरभेदः सिध्यति, स च तदेवोपपद्यते यद्यन्तरालसमयेऽज्ञातोऽपि घटादिः स्यादित्यन्तरालकालेऽपि घटादिर्विद्यते, एवं च प्रत्यभिज्ञानेन बाधान्न ज्ञातमात्रसत्वं घटादीनामित्यत आह- प्रत्यभिज्ञानमपीति - लून- पुनर्जातनख-केशादौ स एवायं नख-केशादिशिते प्रत्यभिज्ञानं लून- पुन जतिनख केशादेरभेदाभावेऽपि सौसादृश्यादिदोषाद् भ्रान्तं समुद्भवति; दीपकलिकादावप्यनवरतविभिन्नतैलाद्युपादानतो विभिन्नमेव दीपकलिकादिकमुपजायत इति पूर्वापरदीपकलिकाद्योरभेदाभावेऽपि सैवेयं दीपकलिकेति प्रत्यभिज्ञानमभेदावगाहि श्रान्तमुपजायते सौसादृश्यादिदोषात् तथा सर्व प्रत्यभिज्ञानं भ्रम एवेति न ततोऽज्ञातसत्त्वसिद्धिरित्यर्थः । तत्र सृष्टिक्रमो न विद्यत इत्याह- ततश्चेति यदा घटादीनां प्रतीतिस्तदानीमेव घटादीनां सत्त्वमित्युपगमाच्चेत्यर्थः । आकाशादिक्रमेण सृष्टिरित्यस्य नात्स्येवेत्यनेनान्वयः, एवं पञ्चीकरणं ब्रह्माण्डाद्युत्पत्तिश्वेत्यस्यापि । एतन्मते दृष्टिसृष्टिवादिमते । ननु अपरोक्षकारणस्येन्द्रियादेरज्ञानकाले सत्वं नैतन्मते समस्तीति यदा घटादीनां दर्शनं तत्पूर्वकाले इन्द्रियादेर्दर्शनाभावादतीन्द्रियत्वाच्च न सत्वमिति तज्जन्यत्वभावादिन्द्रियादिजन्यं ज्ञानं प्रत्यक्षमिति लक्षणलक्षित प्रत्यक्षस्वरूपं घटादेर्ज्ञानं न स्यादित्यत आह- घटादेरपरोक्षमिति - अपरोक्षस्वरूप चैतन्येऽभ्यासादेव घटादेरपरोक्षं ज्ञानमित्यर्थः । ननु क्षणमात्रस्थायित्वाद् घटादिज्ञानं क्षणिकं तदात्मकसत्त्वमेव घटादेरिति तस्यापि क्षणिकत्वमिति यत् सत् तत् क्षणिकमिति व्याप्तितः सर्वस्य क्षणिकत्वमभ्युपगच्छतो बौद्धस्य मते दृष्टिसृष्टिवादिमतस्य प्रवेशः
૨૩૨