SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । नाम्, अवमाहनात्- तावदाकाशप्रदेशमात्रावगाहनायाः समयान्तरेऽभावादित्यर्थः ॥ ७२ ॥ स्वस्मिन् स्ववसतिं प्राहुस्त्रयः शब्दनयाः पुनः । एषाऽनुयोगद्वारेषु दृष्टान्तनययोजना ॥ ७३ ॥ नयामृत० – स्वस्मिन्निति । त्रयः शब्दानया शब्द- समभिरूढैवम्भूताख्या नयाः, पुनः, स्वस्मिन् स्ववसतिं प्राहुः, स्वप्रदेशष्वेव स्वस्य मुख्याया वसतेः सम्भवात्, आकाशप्रदेशानामपि परद्रव्यत्वेन तत्र स्वसम्बन्धस्य विचार्यमाणस्याघटनाद्, अत एव दानं हरणादिकं तत्फलमपि चैते नयाः स्वात्मनिष्ठमेव स्वीकुर्वन्तीति दिक् । एषाऽनुयोगद्वारेषु दृष्टान्तनययोजना शब्दतोऽर्थतश्च दर्शितेत्यागममूलत्वादस्यां विश्वासो विधेय इत्यैदंपर्यम् ॥ ७३ ॥ एतैर्दृष्टान्तैरयमस्मान्नयाच्छुद्ध इति कथं ज्ञेयमित्याह शुद्धा ह्येतेषु सूक्ष्मार्था अशुद्धाः स्थूलगोचराः । फलतः शुद्धतां त्वाद्दुर्व्यवहारे न निश्चये ॥ ७४ ॥ २३९ ये च मयामृत० - शुद्धा हीति । एतेषु नयेषूक्तदृष्टान्तरीत्या ये यतः सूक्ष्मार्थास्ते ततः शुद्धाः, यतः स्थूलगोचरास्ते ततोऽशुद्धः, सूक्ष्मत्वं स्थूलत्वं चार्थानां तादृशतादृशबुद्धिविषयत्वेनानुगमनीयम्, न तु बह्वल्पविषयभावेन, तथा सत्युत्तरोत्तरेभ्यः पूर्वपूर्वेषां सूक्ष्मार्थत्वप्राप्तेः, यत उक्तम्- " पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः १ सन्मात्रगोचरात् सङ्ग्रहान्नैगमो भावाभावभूमिकत्वात् भूमविषयः २ सद्विशेषप्रकाशकाद् व्यवहारतः सङ्ग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषय: ३ सद्द्रव्यः, वीर्यप्रधानः सयोगो वीर्य सयोगः, स चासौ सद्द्रव्यश्चेति विग्रहः, तद्भावस्तत्ता तया । प्रतिसमयमिति पूरणम् । अन्यान्यक्षेत्रस्य इत्यस्य स्पष्टीकरणम् - अपरापराकाश प्रदेशानामिति । फलितमाह - तावदाकाशेति ॥ ७२ ॥ साम्प्रत-समभिरूढैवम्भूताख्यानां त्रयाणां शब्दनयानां वसतिनिदर्शने एकस्यैवाभ्युपगमप्रकारस्योपदर्शकं त्रिसप्ततितमपद्यं विवृणोति - स्वस्मिन्नितीति । कथं स्वस्मिन्नेव स्ववसतिमभ्युपगच्छतीत्याकाङ्गायामाह - स्वप्रदेशेष्वेवेति । तत्र आकाशप्रदेशेषु । अत एव स्वभिन्ने स्वसम्बन्धस्य विचार्यमाणस्याघटनादेव । " दानं हरणादिकं " इत्यस्यं स्थाने 'दान- हरणादिकं " इति पाठः सम्यग् । तत्फलमपि दान- हरणादिजन्यफलमपि । एते नयाः शब्द- समभिरूढैवम्भूताख्याः शब्दनयाः । उत्तरार्द्धमुल्लिख्य योजयति - एषेति । अन्यत् स्पष्टम् ॥ ७३ ॥ " चतुःसप्ततितमं पद्यमवतारयति - एतैरिति - अनन्तरमभिहितैः, प्रदेश प्रस्थक-वसत्यभिरूयैरित्यर्थः । इत्याह इत्याकाङ्क्षायामाह । विवृणोति- शुद्धा होतीति । तादृशतादृशबुद्धिविषयत्वेनानुगमनीयमिति - अयमस्मात् सूक्ष्मोऽर्थ इत्याकारकबुद्धिविषयत्वेन सूक्ष्मत्वम्, अयमस्मात् स्थूलोऽर्थ इत्याकारकबुद्धिविषयत्वेन स्थूलत्वं चानुगमनीयमित्यर्थः । न त्वितिबहुविषयकत्वं सूक्ष्मार्थत्वमल्पविषयकत्वं स्थूलार्थत्वमित्येवं सूक्ष्नार्थत्व-स्थूलार्थत्वयोरनुगमनं न सम्भवतीत्यर्थः । निषेधे हेतुमाहतथा सतीति- बहुविषयकत्वं सूक्ष्मार्थत्वमल्पविषयकत्वं स्थूलार्थत्वमित्येवमनुगमने सतीत्यर्थः । उत्तरोत्तरेभ्य इति - सङ्ग्रहनयान्नैगमस्य व्यवहारनयात् सङ्ग्रहस्य ऋजुसूत्रनयाद् व्यवहारस्य शब्दनयाद् ऋजुसूत्रस्य सूक्ष्मार्थत्वप्रसङ्गादित्यर्थः । उत्तरोत्तरनयापेक्षया पूर्वपूर्वनयस्य बहुविषयत्वं पूर्वपूर्वनयापेक्षयोत्तरोत्तरनयस्यात्पविषयत्वमित्यत्र प्राचीनोक्ति संवादमाह - यत उक्तमिति । सामान्यतः पूर्वपूर्वनयस्य बहुविषयत्वमुत्तरोत्तरनयस्यात्यविषयत्वमुपदर्शितं तदेव विशेषतो नामप्राहं दर्शयति सन्मात्र गोचरादिति - सन्मात्रेत्यत्र मात्रपदेनासतो व्यवच्छेदः । भावाभावभूमिकत्वात् सदसद्विषयकत्वात् । भूमविषय: बहुविषयः । अनल्पार्थः बहुविषयः । कालादीत्यादिपदेन लिङ्गसंख्यादेर्यहणम् । भिचार्थोपदर्शिनः
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy