________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
वर्त्तमानविषयाद् ऋजुसूत्राद् व्यवहार त्रिकालविषयालम्बित्वादनल्पार्थः ४ कालादिभेदेन भिन्नार्थोपदशिंनः शब्दाद् ऋजुसूत्रस्तद्विपरीतवेदकत्वान्महार्थ: ५ प्रतिपर्यायशब्दमर्थभेदमभीप्सितः समभिरूढाच्छदस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः ६ प्रतिक्रियं विभिन्नमर्थे प्रतिजानानादेवम्भूतात् समभिरूढस्तदन्यथार्थस्थापकत्वान्महागोचरः " [ ] इति, एवं सति ऋजुसूत्रादेर्व्यवहारस्य बह्वर्थत्वेन सूक्ष्मार्थत्वं स्यात् ? इति बहुविचार सहत्वं सूक्ष्मार्थत्वम्, अल्पविचार सहत्वं च स्थूलार्थत्वमित्यादिकं वा यथासमयं परिभाषणीयम्, इत्थं च निश्चयनया एवैतेषु शुद्धा व्यवहारनयाश्चाशुद्धा इति फलितम्, निश्चयत्वं च व्यवहार - तदुपजीविनयान्यनयत्वं व्यवहार- तदुपजीविनयान्यतरत्वमिति विवेकः, "अहवा सबणयमयं विणिच्छओ इगमयं च ववहारो" [ विशेषावश्यक भाष्ये - गा० ] इति भाष्योक्तं पक्षान्तरं च निश्चयस्य सप्तभङ्गयादिविशेषिततयोपपादनीयम्, अयं च निश्चय व्यवहारयोः शुद्धाऽशुद्धत्वोपन्यासः स्वरूपतः, फलतः शुद्धतां त्वभियुक्ता व्यवहारनये, न तु निश्चये ॥ ७४ ॥ तथाहिक्रियाऽक्रियाफलौचित्यं गुरु-शिष्यादिसङ्गतिः ।
२४०
यत्र सम्यक्त्वहेतुः सा, व्यवहारस्य देशना ॥ ७५ ॥
नयामृत० – क्रियेति । यत्र - बाह्यत्वानुगतात्मद्रव्यवादिनि नये, क्रियाऽक्रियाफलयोरौचित्यं, धर्मानुशासक तयोद्देश्यधर्मानुशासनफळयोगित्वादिना च गुरु-शिष्यादिसङ्गतिः, सा व्यवहारस्य देशना भिन्नार्थविषयकात् । तद्विपरीतवेदकत्वात् कालादिभेदेऽप्यभिन्नार्थोपदर्शकत्वात् । मद्दार्थ | बहुविषयः । प्रतिपर्यायशब्द पर्यायशब्दमभिव्याप्य, एक प्रवृत्तिनिमित्तकत्वेन पराभिमता यावन्तः शब्दास्तेषां भेदेनेति यावत् । अर्थभेदमभीप्सतः अर्थभेदं स्वीकुर्वतः । " अभीप्सितः इत्यस्य स्थाने “ अभीप्सतः " इति पाठो युक्तः । तद्विपर्ययानुयायित्वात् पर्यायभेदेऽप्यर्थ भेदाभ्युपगन्तृत्वात् । प्रभूतविषयः बहुविषयः । प्रतिक्रियमिति व्युत्पत्तिनिमित्तक्रिया भेदेन विभिन्नमर्थमुररीकुर्वाणादेवम्भूतनयात् समभिरूढनयो व्युत्पत्तिनिमित्तक्रिया शून्य कालेऽपि व्युत्पत्तिनिमित्त क्रियोपलक्षितत्वेन तस्यैवार्थस्य व्यवस्थापकत्वाद् बहुविषय इत्यर्थः । तथा च बह्वर्थत्वमेव यदि सूक्ष्मार्थत्वं तदा व्यवहारनयस्य ऋजुसूत्रादिनयतो बह्वर्थत्वेन सूक्ष्मार्थत्वं प्रसज्यत इत्युपसंहरति एवं सतीति एवं चायमस्मात् सूक्ष्मार्थ इति बुद्धिविशेषविषयत्वं सूक्ष्मार्थत्वम्, अयमस्मात् स्थूलार्थ इति बुद्धिविशेषविषयत्वं स्थूलार्थत्वमित्येवं युक्तम् । प्रकारान्तरमपि तत्रोपदर्शयति- बहुविचार सहत्वमिति । एवं सति यत् फलितं तदाह- इत्थं चेति । एतेषु नैगमादिसप्तनयेषु । एते निश्चययाः, इमे व्यवहारनया इति निश्वयत्व व्यवहारत्वयोर्निर्वचनं विना न ज्ञातुं शक्या इति तयोर्विवेकमुपदर्शयति निश्चयत्वं चेति । तदुपजीवीति व्यवहारोपजीवीत्यर्थः । 'व्यवहार- तदुपजीविनयान्यतरत्वमिति " अस्य स्थाने " व्यवहारत्वं व्यवहार - तदुपजीविनयाऽन्यतरत्वमिति " इति पाठो युक्तः, अर्थस्तु व्यक्त एव । सर्वनयमयो निश्चयनयः, एकनयमयो व्यवहारनय इति भाष्योक्तविवेकस्य का गतिरित्याकाङ्खायामाह - अह्नवेति- " अथवा सर्वनयमतं विनिश्चयः, एकनयमतं च व्यवहारः " इति संस्कृतम् । अयं चेति" शुद्धा ह्येतेषु सूक्ष्मार्थाः " इत्यादिनोपदर्शितश्च । यदि स्वरूपतः शुद्धत्वाऽशुद्धत्वयोरुपन्यासोऽयं तर्हि फलतः शुद्धता व्यवहारनिश्चययोर्मध्ये कस्येत्याकाङ्क्षानिवृत्तये उत्तरार्द्ध खङ्गमयति- फलत इति । " त्वभियुक्ता ” इत्यस्य स्थाने "वाहुरभियुक्ता " इति पाटो युक्तः, अत्र अभियुक्ता इति पूरणम्, स्पष्टत्वान्न व्याख्यानमादृतम् ॥ ७४ ॥
44
"
पञ्चसप्ततितमपद्यमवतारयति तथाहीति व्यवहारस्य
फलतः शुद्धतामुपदर्शयतीत्यर्थः । विवृगोति- क्रियेतीति ।
" बाह्यत्वानुगत इत्यस्य स्थाने " बाह्यतत्वानुगत " इति पाठो युक्तः । यत्रेति मूलस्य विवरणं- बाह्यतस्त्राऽनुगतात्मद्रव्यवादिनि नये इति- बाह्यतस्त्वमनुगतात्मद्रव्यं च वदितुम् अस्तीत्येवं गदितुं शीलं यस्य स बाह्यतत्वानुगतात्मद्रव्यवादी तस्मिन्नये, यो नयो बाह्यशरीरादितत्त्वं पूर्वापरभवानुयाय्यैकात्मद्रव्यं चाभ्युपगच्छति तस्मिन् नये इति
6
"