________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
२४१
विनय वैयावृत्त्यादिशुभवीर्योल्लासाधानेन सम्यक्त्वहेतुर्भवतीति ॥ ७५ ॥
भुङ्क्तेऽन्यः कुरुते चान्यो, गुरुः शिष्यश्च यत्र न ।
देशना निश्चयस्यास्य, पुंसां मिथ्यात्वकारणम् ॥ ७६ ॥ नयामृत०-भुते इति । यत्र-कक्षीकृतक्षणिकत्वपक्षर्जुसूत्रादिनयवृत्ती, अन्य एव क्षणः कुरुते, अन्य एव च भुके, स्वरसत एव प्रतीत्योत्पद्यमानानां क्षणानामुपकार्योपकारकभावरहित्येन गुरुः शिष्यश्च यत्र नास्ति । अस्य निश्चयनयस्य, देशना पुंसां भवति प्रवृत्तिमूलव्यवहारोच्छेदनाहेतुः, तदुपजीविनां क्षणिकज्ञानवादिनां ब्रह्मवादिनां च मते सुतरामेव प्रवृत्तिमूलव्यवहारोच्छेदकत्वान्मिध्यात्वम् , ये हि यावत् । स्थिरात्मद्रव्ये सति तत्र क्रियाया विहितक्रियायाः फलं स्वर्गादि, अक्रियाया निषिद्धक्रियायाः फलं नरकादि सम्भवति, यो यत् कर्म करोति स तत्कर्मफलं मुझे इत्यस्य घटमानत्वात् क्रियाऽक्रियाफलयोरीचित्यमित्यर्थः । निरुकनये गुरुशिष्यादिसङ्गतिमुपादयति-धर्मेति- धर्म गृणात्युपदिशतीति व्युत्पत्त्या शिष्यं प्रति धर्मानुशासकतया धर्मोपदेशकत्वेनैकस्य गुरुभावोऽन्यस्य तु शिक्ष्यते इति शिष्य इति व्युत्पत्त्या उद्देश्यं यद् धर्मानुशासनलक्षणफलं तद्योगित्वादिना तद्वत्त्वादिना शिष्यभाव इत्येवं गुरुशिष्यादिसङ्गतिः सम्भवति । अतः सा व्यवहास्य देशना सम्यक्त्वहेतु. र्भवति । कथं सम्यक्त्वहेतुत्वं तस्या इत्याकालानिवृत्तये उक्त विनयेत्यादि-विनय-वैयावृत्त्यादि यच्छुभं तदनुकूलत्य वीर्योलासस्याधानेनोत्पादनेनेत्यर्थः ॥ ५ ॥
निश्चयदेशनाया मिथ्यात्वकारणत्वस्योपपादकं षट्सप्ततितमं पद्यं विवृणोति- भुत इतीति। यत्र यस्मिन् निश्चयनये। कथम्भूते इत्याकालायां तद्विवरणं-कक्षीकृतेत्यादि-कक्षीकृतः स्वीकृतः ‘यत् सत् तत् क्षणिकम्' इत्येवं रूपः क्षणिकत्वपक्षो येन स कक्षीकृतक्षणिकत्वपक्षः, एवम्भूनो य ऋजुसूत्रादिनयस्तद्वत्तौ- तन्मार्ग, यदा यत् कर्म यत् करोति तदेव तद् विनश्यति नोत्तरकालं तदनुवर्तत इति । अन्य एव फलभोक्तृतो भिन्न एव, क्षणस्थायित्वात् । क्षणः क्षण. स्वरूपः। कुरुते हितमहितं वा कर्म करोति, अन्य एव च कर्मकर्तुः क्षणिकाद् भिन्न एव च, भुले अन्यकर्तृककर्मफलं भुते, एवं चास्मिन् नये क्रियाऽक्रियाफलौचित्यं न सम्भवति । यश्च बहुवित्तव्ययायाससाध्यं कर्म करोति स उत्तरकालभावि तत्कर्मफलमभिलषति, तदभिलाषेणैव विहितकर्मणि प्रवृत्तिर्भवति, यदि च क्षणिकोऽहं नोत्तरकाले स्थास्यामि, अत एव तत्फलभोगोऽपि मम न स्यादेव तर्हि किमर्थमहमेतत् कर्म कुर्यामिति जानन् न कश्चित् तत्र प्रवर्तेत, एवं यथेष्टमभक्ष्यभक्षणा-ऽगम्यागमनादिकर्मकरणेऽपि तत्कर्तुम क्षणिकस्योत्तरकालमस्थायित्वादेव कृतस्य निषिद्धस्य कर्मणोऽनिष्ट फलं न भविष्यतीति किमिति निषिद्धकर्मकरणतो विरमामि यथेष्टमाचरामीति जानन् न कश्चिन्निषिद्धकर्मणो निवर्ततेत्येवं प्रवृत्तिनिवृत्तिनियमव्याहतिरेव स्यादित्याशयः । गुरुशिष्यादिसङ्गतिरपि नास्मिन्नये इत्याह- स्वरसत एवेति-स्वभावत एवेत्यर्थः । प्रतीत्योत्पद्यमानानाम् उत्तरोत्तरक्षण कुर्वदूपात्मकपूर्वपूर्वक्षणमपेक्ष्य जायमानानां क्षणानां क्षणिकानाम्, उपकार्योपकारकभावरहित्येन धर्मानुशासनफलसम्पादनेनोपकार्यः शिष्यः, धर्मानुशासकत्वेनोपकारको गुरुरित्येवं शिष्य-गुर्वोर्य उपकार्योपकार कभावस्तद्राहित्येन, यो हि क्षणो धर्मस्वरूपाभिज्ञो भवति स धर्मस्वरूपाभिज्ञतत्क्षणकुर्वद्रूपात्मक पूर्वक्षणादेव तत्सन्ततिपतितान्न तु धर्मानुशासकगुरुक्षणाद् भिन्नसन्ततिगतादित्याशयः। एवं च कक्षीकृतक्षणिकत्वपक्षर्जुसूत्रनयवृत्तौ यत्र गुरु शिष्यश्च नास्ति अयमस्य गुरुरयमस्य शिष्य इति न सम्भवति, यमुपदिशति स उपदेशकाल एवं वर्तते न तत्रानुशासनफलम् , यस्य च तत् फलं न तमुपदिशति, एवममुं धर्मानुशासनेनानुगृह्णामीति यस्येच्छा स नोपदेशकाले वर्तत इति स न धर्मानुशासको यश्च धर्मानुशासको न तस्य निरुक्तच्छेत्येवमपि न गुरुशिष्यसङ्गतिरस्मिन्नय इत्याशयः ।
उत्तरार्द्ध सङ्गमयति- अस्येति- यत्पदेनानन्तरमेवाभिहितस्य । निश्चयस्पेति मूलमधृत्वैव तद्विवरणं-निश्चयनयस्येति । "प्रवृत्तिमूलव्यवहारोच्छेदनाहेतुः" इत्यस्य स्थाने "प्रवृतिमूलव्यवहारोच्छेदनाद् मिथ्यात्वहेतुः" इति पाठो युक्तः । कथमेवमवधारणीयमित्या झाझानिवृत्तये स्वाह- तदुरजीविनामिति- निश्चयनयोपजीविनामित्यर्थः ।
३१