________________
२३८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
प्राचीननैयायिकानामर्धजरतीयमपि निरस्तम् , उभयत्रापि योगक्षेमतौल्यादिति दिक् ।
ऋजुस्त्र:-ऋजुसूत्रनयः, खे-आकाशे, स्वस्यावगाहनकृत्सु प्रदेशेषु वसतिं ब्रूते-येष्वाकाशप्रदेशेषु देवदत्तोऽवगाढस्तेष्वेवायं तद्वासमभ्युपैति, संस्तारके तद्वसत्यभ्युपगमे तु गृहकोगादावपि तदुपगमप्रसङ्गः, संस्तारकावच्छिन्नव्योमप्रदेशेषु संस्तारक एवावगाढो न तु देवदत्तोऽपीति न तेष्वपि तद्वसतिभणनमुपपद्यते इति स्वावगाहनपर्यन्तानुधावनम् , संस्तारक-गृहकोणादौ देवदत्तवसतिव्यवहारस्तु प्रत्यासत्तिदोषोद्धान्तिमूलक एवेत्येतदभिप्रायः ॥ ७१ ॥ तत्रापि विशेषमाह
तेष्वप्यभीष्टसमये न पुनः समयान्तरे ।
चलोपकरणत्वेनान्यान्यक्षेत्रावगाहनात् ॥ ७२ ॥ नयामृत० तेष्वपीति । तेष्वपि-स्वावगाढेष्वाकाशप्रदेशेष्वपि, अभीष्टसमये-विवक्षितवर्तमानकाले, वसतिः, न पुनः समयान्तरे-भिन्नकाले, अतीतानागतयोः कालयोरेतन्मतेऽसत्त्वात् , तथा चलोपकरणत्वेन-वीर्यसंयोगसव्यतया करणचापल्येन, प्रतिसमयमन्यान्यक्षेत्रस्य -अपरापराकाशप्रदेशास्वीकारादित्यनेन देशावच्छेदेन देशवृत्तित्वस्य व्यवच्छेदः, तेन यावत्सु देशेषु कर्मणां सद्भावे देशिनि व्याप्यवृत्तिकर्मस्वीकारेऽपि न क्षतिः । अधजरतीयं यथा गोरर्धभागो नवीनोऽर्धभागश्च वृद्ध इत्येतदसम्भवदुक्तिकं तथा वृक्षे संयोगोऽव्याप्यवृत्तिर्न तु कर्मेत्यप्यसम्भवदुक्तिकमित्यभिमानमात्रम्, इत्थमप्यभ्युपगत निरस्तमित्यर्थः । उभयत्रापि संयोमे कर्मणि च । योगक्षेमतौल्यादिति-यादृशप्रतीत्या संयोगस्याव्याप्यवृत्तित्वमुपपाद्यते तादृशप्रतीत्या कर्मणोऽप्यन्याप्यवृत्तित्वमुपपादयितुं शक्यमेव, एकत्र तथा प्रतीतिर्भवति, अन्यत्र न भवतीत्याग्रहविजम्भितमेव, देशदेशिनोरभेद एव, देशदेशिभावस्य कल्पितत्वादिति कर्मण इव संयोगस्यापि व्याप्यवृत्तित्वमेवास्थयमित्येवं युक्तिप्रपञ्चसाम्यादित्यर्थः ।
उत्तरार्द्ध विवृणोति-ऋजुसूत्र इति। फलितार्थमाह - येष्विति । तेष्वेव देवदत्तावगाढाकाशप्रदेशेष्वेव, अयम् ऋजुसूत्रनयः, तद्वासं देवदत्तावासम् , अभ्युपैति स्वोकरोति, स्वावगाढाकाशप्रदेशेष्वेव देवदत्तो वसति संस्तारकोपरीलेवम् ऋजुसूत्रनयोऽभ्युपगच्छतीत्यर्थः । सङ्ग्रहाभ्युपगमं दूषयति-संस्तारक इति । तद्वसत्यभ्युपगमे देवदत्तवासाभ्युपगमे । तदुपगमप्रसङ्गः देवदत्तवसत्यभ्युपगमप्रसङ्ग । तेष्वपि संस्तारकावच्छिन्नव्योमप्रदेशेष्वपि । तद्वसतिभणनं देवदत्तवसतिवचनं देवदत्तः संस्तारकावच्छिन्नव्योमप्रदेशेषु वसतीत्येवरूाम् । नन्वेवं देवदतः संस्तारकोपरि वसति गृहकोणे वसतीत्यादिव्यवहारोऽगि भवति स कथमुपपद्यत इत्यत अह-संस्तारक-गृहकोणादाविति-आदि पदाद् गृह-पाटलीपुत्रादिपरिप्रहः । “प्रत्यासत्तिदोषोद्धान्ति" इत्यस्य स्थाने " प्रत्यासत्तिदोषाद् भ्रान्ति" इति पाठः सम्यग, देवदत्तावगाढाकाशप्रदेशप्रत्यासत्तिः सन्निकृष्टतालक्षणा संस्तारके, तत्प्रत्यासत्तिहकोणे तत्प्रत्यासत्तिहे, तत्प्रत्यासत्तिः पाटलीपुत्रादावित्येवं प्रत्यासत्तिपरम्परालक्षणो यो दोषस्तस्मात् , संस्तारकादौ या देवदत्तनिवासभ्रान्तिस्तन्मूलक एकतचिबन्धन एव संस्तारक गृह-कोणादौ देवदत्तवसतिव्यवहार इति ऋजुसूत्रनयाभिप्राय इत्यर्थः ॥ ७ ॥
द्विसप्ततितमं पद्यमवतारयति-तत्रापीति-स्वावगाढाकाशप्रदेशेष्वपीत्यर्थः । विवृणोति-तेष्वपीति । तेवपीति मूलस्य विवरणं- स्वावगाडेवाकाशप्रदेशेष्वपीति। अभीष्टसमये इति मूलस्य विवरणं-विवक्षितवर्तमानकाल इति । वसतिरिति प्रकरणप्राप्तम् । समयान्तरे इति मूलस्य विवरणं-भिन्नकाले इति । कथं न समयान्तरे वसतिस्त्यिाकाङ्क्षायामाह- अतीता-नागतयोरिति । एतन्मते ऋजुसूत्रनयमते । समयान्तरे वसत्यभाव एव हेतोरुपदर्शकमुत्तरार्द्ध व्याख्यानयति-तथेति । चलोपकरणत्वेनेति मूलस्य विवरणं-वीर्यसंयोगसदृव्यतया करणचापरखेनेति । "वीर्यसंयोगसद्व्य तया” इत्यस्य स्थाने " वोर्यसयोगस व्यतया" इति पाठो युक्तः, वीर्य-वीर्यान्तरायक्षयादिकृता शक्तिः, योपः-मनःप्रभृतयः, सह योगैर्वतत इति सयोगः सन्ति-विद्यमानानि द्रव्याणि - तथाविधपुद्गला यस्य जीवस्यासौ