________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
एवोभयत्र वासप्रयुक्तवृत्तिमत्यर्ध वासित्वमपि व्यवह्नियते, बहुकालप्रतिबद्धतद्गतगृह कुटुम्बादिस्वामित्व एव तत्र वसधातोर्लक्षणा, ततोऽपचत्यपि पाचक इति (वत्) प्रायेण तत्रावसत्यपि तद्वासीति प्रयोगसम्भवेऽपि[ अपचतीतिवदवसति वसतीत्यध्य ] नानुपपत्तिः, नन्वित्व र कालीनवासप्रयुक्तवृत्तिभागित्वेनापि वसतीति प्रयोगप्रसङ्गः, इत्यपि युक्तमाभाति ॥ ७० ॥
सङ्घहो वसतिं ब्रूते, जन्तो: संस्तारकोपरि ।
66
ऋजुसूत्रः प्रदेशेषु, स्वावगाहनकृत्सु खे ॥ ७१ ॥
नयामृत० – सङ्ग्रह इति । सङ्ग्रहः - सङ्ग्रहनयो जन्तोः संस्तारकोपरि वसतिं ब्रूते - संस्तारकारूढ एव वसतीत्यभ्युपैति, अन्यत्र हि वासार्थस्यैवाघटमानत्वात्, अत एव मूले वृक्षः कपिसंयोगीत्यश्राप्येतन्मते मूलाभिन्नो वृक्षः कपिसंयोगीत्येवार्थ:, अत एव च - 'मूलं कपिसंयोगि न वृक्ष इति प्रतीतिसाम्मुख्यम्, अत एव चोक्तप्रतीत्या संयोगस्य व्याप्यवृत्तित्वं न तु कर्मणस्तस्य देशवृत्तित्वस्वीकारात्' इति च वसति तस्मिन् पाटलीपुर तदन्यग्रामोभयत्रास प्रयुक्तवृत्तिमति पुरुषे, अर्धवासित्वमपि व्यवह्नियते अयं पुरुषः पाटलीपुरे अर्धवासीत्येवं व्यवह्रियते, अपिशब्दात् पाटलीपुरे वसतीति व्यवहियते इत्यस्य सङ्ग्रहः । अन्यत्र गते पाटलीपुरवासित्वव्यवहारस्योपपादकं प्रकारान्तरमुपदर्शयति- बहुकालेति- बहुकालप्रतिबद्धो बहुकालव्याप्त सम्बन्धो यस्तद्गतःपाटलीपुत्रगतो गृहकुटुम्बादिस्तत्स्वामित्वे एव । तत्र अयं पाटलीपुरवासीति प्रयोगे, वसधातोर्लक्षणेत्यर्थः । ततः बहुकालप्रतिबद्धतद्गतगृहकुटुम्बादिस्वामित्वे वसधातोर्लक्षणातः । अपचत्यपीति- यो बहुकालं पचति तस्मिन् कदाचिदपचत्यपि यथाऽयं पाचक इति प्रयोगस्तथा बहुकालं यो यत्र वसति, गृहकुटुम्बादिरपि यस्य तत्र वर्तते तस्मिन् कदाचित् तत्रावसत्यपि तद्वास्ययमिति प्रयोग सम्भवेऽपि अपचति कदाचिदपचति पचतीतिप्रयोगवत् कदाचिदवसति वसतीति प्रयोगस्य नानुपपत्तिरित्यर्थः, पाचक इति वत् ] प्रायेण " इत्यस्य स्थाने " पाचक इति प्रयोगवत्" इति पाठो युक्तः, [अपचतीतिवदवसति वसतीत्यय ] " इत्यस्य स्थाने अपचति पचतीतिवदवसति वसतीत्यस्य इति पाठो युक्तः । "नन्वित्वरकालीन " इत्यस्य स्थाने " न त्वित्वरकालीन " इति पाठः सम्यग् " न तु इत्यस्य ' प्रयोगप्रसङ्गः' इत्यनेनान्वयः । "भागित्वेनापि इत्यस्य स्थाने भागित्वेनावसत्यपि " इति पाठः समीचीनः । इत्वरकालीनेति - स्वल्पकालीनेत्यर्थः, यः खलु स्वल्पकालमेव पाटलीपुरे निवासमेत्य कस्यचिद् गृहादेस्स्वामित्वमासादितवान् बहुकालं त्वन्यत्रैव निवसति तस्मिन्नन्यत्र गते पाटलीपुरेऽवसति सति स्वल्पकालीन पाटलीपुरवा सप्रयुक्तवृत्तिभागित्वेन पाटलीपुरे वसतीति प्रयोगप्रसङ्गो न त्वित्यर्थः । इत्यपि अनन्तरोपदिष्टं पद्यानुपदिष्टप्रकारान्तरमपि । युक्तमाभाति युक्तमैवास्माकं मनसि भासते ॥ ७० ॥
66
""
'
""
वसतिनिदर्शने सङ्ग्रहर्जुसूत्रनययोरभिमतभेदोपदर्श क्रमे कसप्ततितमपद्यं विवृणोति-सङ्ग्रह इतीति । फलितार्थमाह- संस्तारकारूढ एवेति । अन्यत्र संस्तारकभिन्ने । हि यतः । अत एव सङ्ग्रहनयमते यस्य यद्देशावच्छेदेन संयोगस्तस्य तद्देश एव वृत्तित्वमित्यभ्युपगमादेव । एतन्मते सङ्ग्रहनयमते । अर्थः मूले वृक्षः कपिसंयोगीत्यस्यार्थः । अत एव यद्देशावच्छेदेन संयोग प्रतीतिः सा तद्देशाभिन्न एव संयोगप्रतीतिस्वरूपैवेत्यभ्युपगमादेव, एवमग्रेऽपि । प्रतीति साम्मुख्यं प्रतीत्या सहाविरोधः । अत एवेत्यस्य निरस्तमित्यनेनान्वयः । उक्तप्रतीत्या मूले वृक्षः कपिसंयोगीति प्रतीत्या । " संयोगस्य व्याप्यवृतित्वं " इत्यस्य स्थाने ‘“संयोगस्याव्याप्यवृत्तित्वं " इति पाठो युक्तः, उक्तप्रतीतिर्मूलावच्छेदेन वृक्षे कपिसंयोगावगाहिनी न तु मूळाभिन्नवृक्षे कपिसंयोगावगाहिनी, अवयवावयविनोर्भेदादिति मूलस्य वृक्षवृत्तिकपिसंयोगावच्छेदकत्वं तदैव भवितुमर्हति, यदि वृक्षे कपिसंयोग-तदभावौ वर्तेते, विरोधिनोर्भावयोरेकत्र वृत्त्यर्थमवच्छेदकभेदाश्रयणादिति भवत्युक्तप्रतीतिबलात् संयोगस्याव्याप्य - वृत्तित्वमित्यर्थः । न तु कर्मण इति - कर्मणोऽव्याप्यवृत्तित्वं नाभ्युपगम्यते इत्यर्थ, यावदवयवेषु कर्मणो भाव एवावयवि सुपयते, तथा च मूलादावेकैकस्मिन्नवयवे कर्मभावेऽपि वृक्षो निष्कम्प एव न हि भवति मूले वृक्षः कम्पते इति हातिः किन्तु वृक्षस्य मूलं कम्पते न तु वृक्ष इत्येव प्रतीतिरुपजायते इत्याशयः । तस्य कर्मणः, देशवृत्तित्व
२३७
*