SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । तदर्थस्तत्र तत्कालावच्छिन्ना तस्य वृत्तिता । वसत्यद्य न सोऽत्रेति, व्यवहारौचिती ततः ॥ ६९ ॥ 1 नयामृत० - तदर्थः - वसन् वसतीत्यस्यार्थः, तत्र - पाटलीपुरे, तस्य देवदत्तस्य तत्कालाबच्छिन्ना-वर्त्तमानकालावच्छिन्ना, वृत्तिता - स्वत्वप्रयुक्तयथेष्टविनियोगरूपा, तथा च वसन् वसतीत्यस्य वर्त्तमानकालावच्छिन्नवृत्तितावान् वसतीतिक्रियारूपप्रतिपाद्य इति लक्षणयार्थः कर्त्तव्य इत्यर्थः । ततः - तदर्थकरणादेव, पाटलीपुरादेकस्मिन् दिनेऽन्यत्र गते देवदत्ते ' अथ सोऽत्र न वसति' इति व्यवहारस्यौचित्यम्, अन्यथा पाटलीपुरपदे तद्गृहपदेऽपि (च) तद्वासितां देवदत्तस्य (च) रूप [ लक्षण ] - लक्षणां कालघटितामादाय स व्यवहारो न स्यादित्यर्थः ॥ ६९ ॥ २३६ नन्वेवमन्यत्र गतेऽप्ययं पाटलीपुरवासीति कथं व्यवहार इत्यत्राह - यत् त्वन्यत्र गतस्यापि तद्वासित्वं निगद्यते । तद्वासवृत्तिभागित्वे, ज्ञेयं तत् त्वौपचारिकम् ॥ ७० ॥ नयामृत० - यत्विति । यत्त्वन्यत्र गतस्यापि तद्वासित्वं - पाटलीपुरवासित्वम्, निगद्यते तनगदं तु तद्वासवृत्तिभागित्वे-पाटलीपुरवा सप्रयुक्तवृत्तिभागित्वे, औपचारिकं लाक्षणिकं ज्ञेयम्, अत एकोनसप्ततितमपद्यमवतारयति - नन्वित्यादिना । तत्र वसन् वसतीति वाक्यप्रयोगकर्तरि । विवृणोति तदर्थ इतिअत्र तच्छब्देन वसन् वसतीति वाक्यस्य परामर्श इत्यभिप्रायेण तद्विवरणं- वसन् वसतीत्यस्यार्थ इति । तत्रेति मूलस्य विवरण- पाटलीपुरे इति । तस्येत्यस्य विवरणं- देवदत्तस्येति । तत्कालावच्छिन्नेत्यस्य विवरणं- वर्तमानकालावच्छिन्नेति । वृत्तितेत्यस्य विवरणं- स्वत्वप्रयुक्त यथेष्टविनियोगरूपेति - अतिथिरप्यन्यस्य गृहं गत्वा तत्र कश्चित् कालं तिष्ठति, एवमहमप्यत्र वसामीति न ब्रूते, यत्काले स तत्र तिष्ठति तत्कालात्मक वर्तमानकालावच्छिन्ना आधेयतारूपा तद्गृहनिरूपिता वृत्तिता तु तस्य समस्त्यतो वृत्तिताया उक्तखरूपतया निर्वचनम् । एवं चान्यखामिकगृहप्रामादावन्यस्यातिथ्यादैः स्वत्वाभावात् तत्प्रयुक्तो यथेष्टविनियोगो न सम्भवति यस्य तु देवदत्तादेस्तत्र स्वत्वं तस्य स्वत्वप्रयुक्तो यथेष्टविनियोग सम्भवतीति तद्रूपा तस्य तत्र वृत्तिता घटनामाप्नोतीत्याशयः । तथा च उक्तदिशा प्रत्येक शब्दनिर्वचने च । वर्तमानकालावच्छिन्नवृत्तितावान् वसन्' इत्यस्यार्थः, वसतीत्यस्य वसतीत्येवं यत् क्रियारूपं तत्प्रतिपाद्य इत्यर्थः । उक्तार्थः शब्दशक्ति महिम्ना न सम्भवतीत्युकं - लक्षणयेति । इत्यर्थः एवंस्वरूपः पूर्वार्द्धस्यार्थः । उत्तरार्द्ध वित्रृणोति- तत इति - अस्य तदर्थकरणादेवेति विवरणम् । अद्येत्यादिमूलसङ्गमनाय 'पाटलीपुरादे कस्मिन् दिनेऽन्यत्र गते देवदत्ते' इति पूरणम् निरुक्तव्यवहारस्य पाटलीपुरे तत्कालावच्छिन्नवृत्तित्वस्य देव - दत्तेऽभावादौचित्यं निर्वहतीति । अन्यथा वर्तमानकालावच्छिन्न स्वत्वप्रयुक्त यथेष्टविनियोगरूपवृत्तित्वस्य वसत्यर्थतयाऽनाश्रयणे । पाटलीपुरपदे पाटलीपुरात्मकस्थाने । तद्गृहपदेऽपि च पाटलीपुरान्तर्गतदेवदत्तनिवासगृहात्मकस्थानेऽपि च । तद्वासितां पाटलीपुरवासितां पाटलीपुरान्तर्गतगृहवासितां वा । "देवदत्तस्य [ च रूपलक्षण ] लक्षणां" इत्यस्य स्थाने "देवदत्तस्य स्वत्वलक्षणां" इति पाठो युक्तः । कालघटिताम् एतद्दिवसघटिताम् । व्यवहारः अथ सोऽत्र न वसतीति व्यवहारः । न स्यात् ग्रामान्तरगतस्यापि देवदत्तस्य प्रामान्तरावस्थानदिवसेऽपि स्वपुरस्वगृहादौ स्वत्वमस्त्येवेति तन्निषेधव्यवहारो न भवेत् । इत्यर्थः एवंस्वरूप उत्तरार्द्धार्थः ॥ ६९ ॥ सप्ततितमपद्यमवतारयति- नन्वेवमिति । विवृणोति यस्वितीति । तत् त्वित्यस्य विवरणं तन्निगदं त्विति - पाटलीपुरवासित्ववचनं पुनरित्यर्थः । पाटलीति - पाटलीपुरवासनिबन्धना या वृत्तिः - स्वधनपुत्रादिस्वामित्वलक्षणा, तद्भागित्वे- तदाश्रयत्वे इत्यर्थः । औपचारिकमिति मूलस्य विवरणं - लाक्षणिकम् । अत एव पाटलीपुरवासित्ववचनस्य पाटलीपुरवासप्रयुक्तवृत्तिभागित्वे लाक्षणिकत्वादेव । उभयत्र पाटलीपुरे ग्रामान्तरे च यः पुरुषः पाटलीपुरे ग्रामान्तरे
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy