________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
भेदादेवोभयोपपत्तिरिति चेत् ? तर्हि तादृशतात्पर्यभेद एवोपचारानुपचारप्रयोजक आस्थीयताम् ; कास्र्न्यविनिर्मोकेणान्त्रयोपपत्तौ किं शुद्धद्वारेणेति चेत् ? देशाग्रहे तद्विनिर्मोक एव कथम् ? पदशक्त्यनुपग्रहादिति चेत् ? न - स्कन्धपरस्य वृक्षपदस्यैकत्वपरिणतिरूपस्कन्ध पदार्थेनैवोपग्रहात्; भेदविनिर्लुण्ठित एव वृक्षपदार्थ आश्रीयत इति चेत् ? न-अनुभवबाधेन तथाश्रयणायोगादिति दिक् । प्रयोगे त्याद्याका बाहुल्या बाहुल्यकृतं विशुद्ध्यशुद्धिवैचित्र्यमित्यन्ये । अतिशुद्धौ तु तौ नैगम व्ययहारनयौ वसन् वसतीत्य | हतुः स्म, व्युपरताकाङ्क्षाप्रयोगकर्तृत्वादनयोरतिविशुद्धत्वम् ॥ ६८ ॥
1
ननुवसन् वसतीति वाक्यं गच्छन् गच्छतीति ( वाक्य ) वन्निराकाङ्क्षन्तयाऽप्रमाणमिति कथं तत्रातिविशुद्धत्वमित्याशङ्कायामाह -
२३५
तात्पर्यं यच व्यापकत्वविशिष्टसम्बन्धेन संसर्गबोधेऽन्वयबोधे तात्पर्यं तयोर्भेदादेव, उभयोपपत्तिः- वृक्षे कपिसंयोग इति वृक्षे न कपिसंयोग इति प्रयोगद्वयोपपत्तिरित्यर्थः, यत एव कृत्स्नवृक्षे कपिसंयोगस्य समवायो न विद्यते किन्तु तदेकदेश एव तत एव वृक्षपदेन वृक्षदेश एवोपचारादाश्रित इति तत्र कपिसंयोगस्य समवायो वृक्षे देशाभेदारोपत उपचारादिति तत्र तात्पर्यम्, निषेधे तु व्यापकत्वविशिष्ट समवायस्याभावादेवोपचारमन्तरेण तत्र तात्पर्यमित्येवं तात्पर्यभेद उपचारानुपचारयोरेव प्रयोजकः स्वीक्रियतामिति समाधत्ते तति । ननु वृक्षे कपिसंयोग इत्यत्र वृक्षे कृत्स्नत्वं परित्यज्यैव कपिसंयोगस्यान्त्रयबोध इत्येतावतैवोपपत्तौ निरुक्ततात्पर्यभेदोऽपि नाश्रित इति कुत उपचारप्रवेश इत्याशङ्कते - कार्त्स्यविनिमकेणेति- कारस्र्न्यपरित्यागेनेत्यर्थः । अन्वयोपपत्तौ । वृक्षे कपिसंयोगस्यान्वयोपपत्तौ । किं शुद्धद्धारेण ? शुद्धसम्ब न्धेनान्वयबोधे तात्पर्यतोऽन्वयोपपादनेन । वृक्षे कपिसंयोग इत्यत्र वृक्षपदं न सम्पूर्णवृक्षपरं किन्तु वृक्षैकदेशपरमित्येवं प्रहे सत्येव कात्स्र्न्यविनिर्मोको नान्यथेति देशग्रह आवश्यकः, स च नोपचारमन्तरेणेत्युपचरित एव वृक्षे कपिसंयोग इति समाधत्ते - देशाग्र इति । कथमित्यत्र च्छेदः । देशाग्रहेऽपि वृक्षपदस्य सामान्यतः कात्स्न्यदिविशेषणविनिर्मुक्ते वृक्षे शक्तिरिति शक्त्यैव कान्यविनिर्मुक्तवृक्षोपस्थितिसम्भवान्न देशग्रहस्यावश्यकतेति शङ्कते - पदशक्तयेति- “ पदशक्तयनुपप्रहाद् इत्यस्य स्थाने " पदशक्त्युपग्रहाद्” इति " पदशक्त्यनुप्रहाद्” इति वा पाठोऽत्र समुचितः कात्स्य - विनिर्मुक्तवृक्षे वृक्षपदस्य शक्तिबलादेव कात्र्न्यविनिर्मोक इति न तत्र देशग्रहापेक्षेति तदर्थः । प्रकारान्तराभावेन वृक्षपदेन वृक्षैकदेशाग्रहणे सर्वेषां मूल शाखा प्रशाखानामेकस्कन्धरूपतया या परिणतिः सैव वृक्षपदार्थस्तत्रैव वृक्षपदस्य शक्तिरिति तदुपस्थापिते तत्र कपिसंयोगस्यान्वयासम्भवादनुपचरितो वृक्षे कपिसंयोग इति प्रयोगो न सम्भवत्येवेति देशग्रहार्थमुपचार आवश्यक इति समाधत्ते - नेति । स्कन्धपरस्य स्कन्धराकस्य । एकत्वपरिणतिरूपेति वृक्षावयवानां मूलादीनामेकतया या परिणतिस्तदात्मकेत्यर्थः । ननु वृक्षपदार्थेनोपग्रहो ममापि सम्मतः किन्तु वृक्षपदार्थो न वृक्षैकदेशरूपो नवा कृत्नवृक्षरूपोऽपि तु तद्विनिर्मुक्तो वृक्ष एव केवल इत्यादशङ्कते - भेदविनिर्लुठित एवेति कृत्स्नैकदेश लक्षणभेदरहित एवेत्यर्थः । प्रत्यक्षादिप्रमाणेन कृत्स्नवृक्षोऽनुभूयते तदैकदेशो वाऽनुभूयते, न तु भेदविनिर्लुठितवृक्षमात्रमित्य सतस्तदाश्रयणासम्भवादिति समाधत्ते - नेति । तथाश्रयणेति भेदविनिर्लुठितवृक्षपदार्थाश्रयणेत्यर्थः । लोके वसामीत्युक्ते केत्याकाङ्क्षाबाहुल्यम्, तदपेक्षया किश्चिन्न्यूनमा कालाबाहुल्यं तिर्यग्लोके वसामीत्यत्र तदपेक्षया न्यूनाकाङ्क्षासमुदयो जम्बूद्वीपे वसामीयत्र तदपेक्षयाऽपि न्यून:- केत्याकाङ्क्षा समुदयो भारते वसामीत्यत्र, एवमुत्तरोत्तरं न्यूनः केत्याकाङ्क्षासमुदय इत्येवं केल्याचा काङ्क्षाबाहुल्या बाहुल्यकृतं तथाऽभ्युपगन्तृनैगम व्यवहारभेदानां विशुद्धयशुद्धिवैचित्र्यमित्यभ्युपगच्छतां मतमुप
""
दर्शयति- प्रयोग इति ।
उत्तरार्द्ध विवृणोति अतिशुद्धी त्विति । ताविति मूलस्य व्याख्यानं - नैगम-व्यवहारनयाविति । कथं वसन् वसतीति प्रयोगकर्त्रीगम-व्यवहार नययोरतिशुद्धत्वमित्याकाङ्क्षायामाह - व्युपरतेति व्युपरता निवृत्ताssकाङ्क्षा यत्र स व्यु परताकाङ्क्ष एवम्भूतो यः प्रयोगो निवसन् वसतीत्येवंरूपस्तत्कर्तृत्वात् अनयोः नैगम-व्यवहारनययोः, अतिविशुद्धत्वं लोके वसामीति प्रयोगकर्तृनैगमाद्यपेक्षया शुद्धत्वं तिर्यग्लोके वसामीति प्रयोगकर्त्रीः तदपेक्षया शुद्धत्वं जम्बूद्वीपे वसामीति प्रयोगकर्त्रीः एवमुत्तरोत्तरक्रमेण सर्वापेक्षया विशुद्धत्वं वसन् वसतीति प्रयोगकर्नंगमव्यवहारयोरित्यर्थः ॥ ६८ ॥
2