________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलट्टतो नयोपदेशः । १२१ मिति चेत् १ न-सत्यरजतस्यापि प्रतिभासकाले सत्ताभानेन कालत्रयसत एवैतनये सत्यत्वस्वीकारात्, अत एव कालवृत्त्यत्यन्ताभावाप्रतियोगित्वमेव परमार्थसत्यत्वमित्यभिप्रेत्याहैतत्साम्प्रदायिक:- ॥ १३ ॥
आदावन्ते च यन्नास्ति मध्येऽपि हि न तत्तथा ।
वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥१४॥ नयामृत-आदाविति-आदावन्ते च यत् वस्तु, नास्ति तत् मध्येऽपि मध्यमकालेऽपि न तथा नास्तीत्यर्थः, नहि प्रागभावध्वंसानवच्छिन्नकालसम्बन्धः सत्तेत्यभ्युपगन्तुं शक्यम् , उत्पत्ति-विनाश्यता. समययोः उत्पत्ति-विनाशव्यापारव्यप्रयोरन्वयिव्यवहारात्, न च तद्विवेके मध्यभागः कश्चिदवशिष्यते इक्षुदण्डस्येव सकलमूलाऽप्रभागच्छेदे । किञ्च पूर्व पश्चाचासत्स्वभावस्य कथं मध्यमक्षणे सत्स्वभावत्वं स्वभावविरोधात्, मध्यक्षणे सन्नेव पर्यायः पूर्वाऽपरकालयोरसद्व्यवहारकारीति न स्वभावविरोध इति चासत्यत्वं शुक्तिरजतस्य प्रतिभासकाले सत्त्वेऽप्यप्रतिभासकाले न सत्त्वमिति कालत्रयसत्त्वाभावाद् यथाऽसत्यत्वं तथा पर्यायाणामपि वर्तमानकाले सत्त्वेऽपि स्वोसादात् पूर्व स्वविनाशानन्तरं चासत्त्वेन कालत्रयसस्वाभावादसत्यत्वम्, एतच्च प्रत्यक्षप्रतीयमानप्रत्यक्षाप्रतीयमानपर्यायगतमिति न कुत्राप्यव्याप्तिरिति निर्गलितोऽर्थः । एतन्नये द्रव्यार्थिकनये । अत एव द्रव्यार्थिकनये कालत्रयसत एव सत्यत्वस्वीकारादेव, कालवृत्त्यन्ताभावाप्रतियोगित्वलक्षणं परमार्थसत्यत्वं तत्रैव यत् कालत्रयेऽपि वर्तते, यच्च प्रतिनियतकाल एव वर्तते तत्र कालपदेन स्वानधिकरणीभूतकालोऽपि प्रहीतुं शक्यत इति तवृत्यन्ताभावस्य प्रतियोगित्वमेव न तदप्रतियोगित्वमिति न परमार्थिकसत्यत्वं तस्य, इत्यभिप्रेत्य एवम्भूताभिप्रायं समाश्रित्य । एतत्साम्प्रदायिकः द्रव्यार्थिकनयसम्प्रदायकुशलो विपश्चित्, आह कथयति ॥१३॥
किमाहेत्यपेक्षायां तदीयपद्यमुल्लिखति-आदावन्ते चेति- यद्येतत् पद्यमन्यकर्तृकं न मूल कर्तृकपद्यसमष्ट्यन्तर्गतं ततस्तत्पद्यसङ्खयान्तःपातिचतुर्दशमितसङ्खयागणनीयत्वाभावात् तदङ्कचिह्नितं न भवितुमर्हति, तथापि चतुर्दशसङ्ख्याकृचिह्नितमेव ग्रन्थनिबद्धं यदस्ति तत् तथाऽनुट्टङ्कने 'अयं द्रव्योपयोगः स्याद्' इति पद्यमेव चतुर्दशसङ्ख्यास्पदत्वेन तथोट्टङ्कितं भवेत् , तथा चाग्रिमः सर्वोऽप्योङ्कनप्रकारस्तदनुक्रमेणैव समुचितो भवेत् , न च तथासनिवेशनं समस्तीत्युपेक्षवात्र प्रेयसी, अथवा 'आदावन्ते च' इति पद्यमेकाचिह्नितमेव समुल्लिरूप 'अयं द्रव्योपयोगः' इति पद्यमेव चतुर्दशमलथाङ्कचिह्नितमुल्लेख्यम्, तदग्रिमपद्येषु तदनुक्रमेण सङ्ख्याङ्कयोजना विधेयेति। 'आदावन्ते च' इति परकीयं पद्यं विवृणोति-आदावितीति। आदौ स्वो. त्पत्तितः प्राकाले । अन्ते च स्वध्वंसानन्तरकाले च। मध्यमकालेऽपि वर्तमानसमयेऽपि । 'नहि' इत्यस्य 'शक्यम्' इत्यनेनान्वयः, प्रागभावधंसानवच्छिन्नः कालो वर्तमानसमयः, तत्सम्बन्धो वस्तुनः सत्तेत्यभ्युपगन्तुं नहि शक्यमित्यर्थः । निषेधे हेतुमाह- उत्पत्तीति- उत्पत्तिपमये उत्पत्तिव्यापारे व्यग्रो विनश्यतासमये विनाशव्यापारे व्यग्रस्तयोर्योऽन्वयिव्यवहा. रोऽनुगामिद्रव्यव्यवहारस्तस्मादित्यर्थः, अत्र 'उत्पत्ति-विनाशव्यापारव्यग्रयोरन्वयिव्यवहारात्' इत्यस्य स्थाने 'उत्पत्ति-विनाशव्यप्रसत्तयैवान्वयिव्यवहारात्' इति पाठो युक्तः, तस्य 'उत्पत्ति विनाशव्यग्रो यः सन् तत्त्वेनैवान्वयिद्रव्यस्य व्यवहारात्' इत्यर्थः, तथा चोत्पत्तिकाले उत्पत्तिव्यापारव्यग्र एवेति न तदानीं स्थायिता, विनश्यतासमये च मध्यमव्यापारव्यग्र एवेति. न तदानीं स्थायिता, तद्भिन्नश्च वर्तमानसमयो नानुभूयत इति उत्पत्ति-विनाशव्यग्रो य सन् तत्त्वेनैव न तु वर्तमानसमयवृत्तित्वेन, अन्वयिव्यवहारादन्वयिनो व्यवहियमाणत्वात् , तथा च क्षणिकस्य वस्तुनः कश्चिदुत्पत्तिसमयः कश्चिद्विनाशसमयः, तद्विवेके मध्यभामो वर्तमानसमयो न च कश्चिदवशिष्यते, न च कश्चिदुत्पत्ति-विनाशसमयव्यतिरिक्तो मध्यमसमयो नामेति न वतमानसमयसम्बन्धः सत्तेत्यभ्युपगन्तुं शक्यमित्यर्थः । मध्यसमयाभावे दृष्टान्तमाह- इक्षुदण्डस्येवेति- सकला ये मूला-ऽप्रभागास्तेषां छेदे खण्डने सति इक्षुदण्डस्य यथा मध्यभागो नास्ति तथा प्रकृतेऽपीत्यर्थः । यस्य यः स्वभावः स तस्य सर्वदैवेति नियमे पूर्वा-ऽपरयोरसत्स्वभावस्य वस्तुनो मध्यमक्षणेऽप्यसत्स्वभावत्वमेव न तु सत्स्वभावत्वं विरोधादिसाह-किश्चेति । परः शङ्कते- मध्यक्षण इति-वर्तमानसमय इत्यर्थः, तथा च मध्यक्षणस्थायित्वलक्षण एकस्वभावो